निर्वाणषट्कम्

(आत्मषटकम् इत्यस्मात् पुनर्निर्दिष्टम्)

निर्वाणषट्कम्


मनोबुद्ध्यहंकारचित्तानि नाहं

न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।

न च व्योमभूमिर्न तेजो न वायुः

चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥१॥


न च प्राणसंज्ञो न च पञ्चवायुः

न च सप्तधातुर्न च पञ्चकोशः ।

न वाक्पाणिपादौ न चोपस्थपायू

चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥२॥


न मे द्वेषरागौ न मे लोभमोहौ

मदो नैव मे नैव मात्सर्यभावः ।

न धर्मो न चार्थो न कामो न मोक्षः

चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥३॥


न पुण्यं न पापं न सौख्यं न दुःखं

न मन्त्रो न तीर्थं न वेदो न यज्ञः ।

अहं भोजनं नैव भोज्यं न भोक्ता

चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥४॥


न मे मृत्युशङ्का न मे जातिभेदः (अथवा) न मृत्युर्न शङ्का न मे जातिभेदः

पिता नैव मे नैव माता न जन्म ।

न बन्धुर्न मित्रं गुरुर्नैव शिष्यः

चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥५॥


अहं निर्विकल्पो निराकाररूपः

विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् (अथवा) विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम् ।

न चासङ्गतं नैव मुक्तिर्न मेयः (अथवा) सदा मे समत्वं न मुक्तिर्न बन्धः

चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥६॥

संबंधित कड़ियाँ सम्पाद्यताम्

बाहरी कडियाँ सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=निर्वाणषट्कम्&oldid=334105" इत्यस्माद् प्रतिप्राप्तम्