आदित्यहृदयम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

आदित्यहृदयम्
अगस्त्यः
१९५३

॥ बृहत्स्तोत्ररत्नाकरः॥

॥ आदित्यहृदयम् ॥

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ ३
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यमक्षय्यं परमं शुभम् ॥ ४
सर्वमङ्गळमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणान्लोकान्पाति गभस्तिभिः॥ ७
एष ब्रह्मा च विष्णुश्च शिवस्स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमस्सोमो ह्यपांपतिः॥ ८
पितरो वसवस्साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाः प्राणा ऋतुकर्ता प्रभाकरः ॥ ९
आदित्यस्सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १०
हरिदश्वस्सहस्रार्चिस्सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनश्शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ॥ ११
हिरण्यगर्भश्शिशिरस्तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रश्शङ्खश्शिशिरनाशनः ॥ १२
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।
घनवृष्टिरपांमित्रो विन्ध्यवीथी प्लवङ्गमः ॥ १३

आतपी मण्डली मृत्युः पिङ्गलस्सर्वतापनः ।
कविर्विश्वो महातेजा रक्तस्सर्वभवोद्भवः ॥ १४
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ १५
नमः पूर्वाय गिरये पश्चिमे गिरये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमस्सहस्रांशो आदित्याय नमो नमः ॥ १७
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।। १९
तमोघ्नाय हिमघ्नाय शत्रुघ्नायाऽमितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २०
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१

नाशयत्येष वै भूतं तदेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३
वेदाश्च ऋतवश्चैव ऋतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ १४
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥ २५
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६
अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ २७
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९



रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३०
अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥ ३१

॥ इति श्रीमद्रामायणे आदित्यहृदयम् समाप्तम् ।।}}