आपस्तम्बीय श्रौतप्रयोगः/अग्निष्टोमप्रयोगे चतुर्थोध्यायः प्रातस्सवनम्

॥ अथ चतुर्थोऽध्यायः ॥
॥ प्रातस्सवनम् ॥
त्रिभागे पश्चिमे रात्रौ तीर्थेन प्रविशन्ति ते ।
प्रक्षाल्य हस्तपादास्ते आग्रीध्रे यष्टृसङ्गताः ।
आग्नीध्रीयादीनामभिमर्शनम् :-
महारात्रे बुध्वा ब्रह्मणा सह आचान्तोऽध्वर्युः अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयनानि विद्वान् । ययोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम इत्याग्नीध्रमभिमृशति1 । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे हविर्धानम् । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् इति स्रुचः । प्रचरणीं वाजिनपात्रं च । आ वायो भूष शुचिपा उप नस्सहसं ते नियुतो विश्ववार । उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम्
वायव्यानि । चतस्रः स्थाल्यश्च । आघा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक्। येषामिन्द्रो युवा सखा सदः ।
यज्ञतनूनां होमः :-
प्रजापतिर्मनसान्धोच्छेत इति त्रयस्त्रिंशतमाग्नीध्रे यज्ञतनूर्जुहोति । प्रथमेन मन्त्रेण हुत्वा पूर्वं पूर्वमनुद्रुत्योत्तरेणोत्तरेण सकृद्गृहीतं जुहोति । प्रजापतिर्मनसान्धोच्छेतस्स्वाहा। प्रजापतये सोमायेदम् । प्रजापतिर्मनसान्धोच्छेतो धाता दीक्षायाᳪ、 स्वाहा । धात्रे सोमायेदम् । धाता दीक्षायाꣳ सविता भृत्याᳪ、 स्वाहा । सवित्रे सोमायेदम् । सविता भृत्यां पूषा सोमक्रयण्याᳪ、 स्वाहा । पूष्णे सोमायेदम् । पूषा सोमक्रयण्यां वरुण उपनद्धस्स्वाहा । वरुणाय सोमायेदम् । वरुण उपनद्धोऽसुरः क्रीयमाणस्स्वाहा । असुराय सोमायेदम् । असुरः क्रीयमाणो मित्रः क्रीतस्स्वाहा । मित्राय सोमायेदम् । मित्रः क्रीतः शिपिविष्ट आसादितस्स्वाहा । शिपिविष्टाय सोमायेदम । शिपिविष्ट आसादितो नरन्धिषः प्रोह्यमाणस्स्वाहा । नरन्धिषाय सोमायेदम । नरन्धिषः प्रोह्यमाणोऽधिपतिरागतस्स्वाहा । अधिपतये सोमायेदम् । अधिपतिरागतः प्रजापतिः प्रणीयमानस्स्वाहा । प्रजापतये सोमायेदम् । प्रजापतिः प्रणीयमानोऽग्निराग्नीध्रे स्वाहा । अग्नये सोमायेदम् । अग्निराग्नीध्रे बृहस्पतिराग्नीध्रात्प्रणीयमानस्स्वाहा । बृहस्पतये सोमायेदम् । बृहस्पतिराग्नीध्रात्प्रणीयमान इन्द्रो हविर्धाने स्वाहा । इन्द्राय सोमायेदम् । इन्द्रो हविर्धानेऽदितिरासादितस्स्वाहा । अदित्यै सोमायेदम्
१. आग्नीध्राभिमर्शनकाले यज्ञसारथिसाम त्रिर्गायेत् ।
 
। अदितिरासादितो विष्णुरुपावह्रियमाणस्स्वाहा । विष्णवे सोमायेदम् । विष्णुरुपावह्रियमाणोऽथर्वोपोत्तस्स्वाहा । अथर्वणे सोमायेदम् । अथर्वोपोत्तो यमोऽभिषुतस्स्वाहा । यमाय सोमायेदम् । यमोऽभिषुतोऽपूतपा आधूयमानस्स्वाहा । अपूतपे सोमायेदम् । अपूतपा आधूयमानो वायुः पूयमानस्स्वाहा । वायवे सोमायेदम् । वायुः पूयमानो मित्रः क्षीरश्रीस्स्वाहा । मित्राय सोमायेदम् । मित्रः क्षीरश्रीर्मन्थी सक्तुश्रीस्स्वाहा । मन्थिने सोमायेदम् । मन्थी सक्तुश्रीर्वैश्वदेव उन्नीतस्स्वाहा । वैश्वदेवाय सोमायेदम् । वैश्वदेव उन्नीतो रुद्र आहुतस्स्वाहा । रुद्राय सोमायेदम् । अप उपस्पृश्य । रुद्र आहुतो वायुरावृत्तस्स्वाहा । वायवे सोमायेदम् । वायुरावृत्तो नृचक्षाः प्रतिख्यातस्स्वाहा। नृचक्षसे सोमायेदम् । नृचक्षाः प्रतिख्यातो भक्ष आगतस्स्वाहा । भक्षाय सोमायेदम् । भक्ष आगतः पितृणां नाराशꣳसस्स्वाहा । पितृभ्यः सोमायेदम् 1। अप उपस्पृश्य । पितृणां नाराशꣳसोऽसुरात्तस्स्वाहा । असवे सोमायेदम् । असुरात्तस्सिन्धुरवभृथमवप्रयन्त्स्वाहा । सिन्धवे सोमायेदम् । सिन्धुरवभृथमव प्रयन्त्समुद्रोऽवगतस्स्वाहा । समुद्राय सोमायेदम् । समुद्रोऽवगतस्सलिलः प्रप्लुतस्स्वाहा । सलिलाय सोमायेदम् । सलिलः प्रप्लुतस्सुवरुदृचं गतस्स्वाहा । स्वस्सोमायेदम् ।
सवनीयपात्राणामासादनम् :-
प्रादेशमात्राण्यूर्ध्वसानून्युपरिष्टादासेचनवन्ति मध्ये सन्नतानि वायव्यानि भवन्ति । तेषां यान्यनादिष्टवृक्षाणि वैकङ्कतानि स्युः । यो वा यज्ञियो वृक्षः फलग्रहिः । खरे पात्राणि प्रयुनक्ति । अग्निर्देवता गायत्री छन्द उपाꣳशोः पात्रमसि खरस्य दक्षिणेंऽस उपांशुपात्रम् । सोमो देवता त्रिष्टुप् छन्दोऽन्तर्यामस्य पात्रमसि तदुत्तरमन्तर्यामस्य । बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्राय वाचं वद ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणमुखं संस्पृष्टं पात्राभ्याम् । तमपरेण प्रत्यञ्चि द्विदेवत्यपात्राणि । इन्द्रो देवता जगती छन्द इन्द्रवायुवोः पात्रमसि परिस्रगैन्द्रवायवस्य । बृहस्पतिर्देवतानुष्टुप्छन्दो मित्रावरुणयोः पात्रमसि अजगावं मैत्रावरुणस्य पात्रमैन्द्रवायवस्य पश्चात् । अश्विनौ देवता पङ्क्तिश्छन्दोऽश्विनोः पात्रमसि द्विस्रक्त्याश्विनस्य । तान्यपरेण प्रबाहुक् शुक्रामन्थिनोः पात्रे । सूर्यो देवता बृहती छन्दः शुक्रस्य पात्रमसि दक्षिणम् बैल्वं शुक्रस्य । चन्द्रमा देवता सतोबृहती छन्दो मन्थिनः पात्रमसि उत्तरं वैकङ्कतं मन्थिनः । ते अपरेण प्रबाहुक्ऋतुपात्रे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे दक्षिणमध्वर्योरुत्तरं प्रतिप्रस्थातुः को वो युनक्ति स वो युनक्तु द्विः । विश्वे देवा देवतोष्णिहा छन्द आग्रयणस्य पात्रमसि दक्षिणस्यां श्रोण्यामाग्रयणस्थालीम् । इन्द्रो देवता ककुच्छन्द उक्थानां पात्रमसि
१. नराशंसाय सोमायेदं इति पाठान्तरम् ।
 
उत्तरस्यां श्रोण्यामुक्थ्यस्थालीम् । इन्द्रो देवता ककुच्छन्द उक्थानां पात्रमसि तस्या उत्तरमुक्थ्यपात्रम् । स्थाल्यावन्तरेण त्रीण्युदञ्च्यतिग्राह्यपात्राण्याग्नेयमैन्द्रं सौर्यमिति । को वो युनक्ति स वो युनक्तु त्रिः । उत्तरेंऽसे दधिग्रहपात्रमौदुम्बरं चतुस्सक्ति को वो युनक्ति स वो युनक्तु । दधिग्रहस्य दक्षिणतः एवंरूपमेव अंश्वदाभ्ययोः को वो युनक्ति स वो युनक्तु । एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् को वो युनक्ति स वो युनक्तु । आदित्यपात्रं च तस्या उत्तरं को वो युनक्ति स वो युनक्तु । पृथिवी देवता विराट्छन्दो ध्रुवस्य पात्रमसि उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् । यदि षोडशी तदा खरे षोडशिपात्रं खादिरं चतुस्स्रक्ति को वो युनक्ति स वो युनक्तु । खरस्य मध्ये परिप्लवाम्, यथा स्रुगदण्डैवं को वो युनक्ति स वो युनक्तु । यथावकाशं दश चमसान् नैयग्रोधान्रौहीतकान् वा । दशकृत्वः को वो युनक्ति स वो युनक्तु ।
चतरस्रो ब्रह्मणश्च होतुस्तु परिमण्डलः ।
पृथुस्तु यजमानस्य त्र्यश्रिरुद्गातुरिष्यते ॥
प्रशास्तुरवतष्टस्यादुत्तष्टो ब्रह्मशंसिनः ।
पोतुरग्रे विशाखीयो नेष्टुर्दक्षिणवक्रकः ।।
अच्छावाकस्य रास्रावानाग्नीध्रस्य मयूखकः ।
सव्यवक्रस्सदस्यस्य एतच्चमसलक्षणम् ॥
एते दण्डविकारा स्युश्चमसाश्चतुरश्रकाः ॥
होतुर्ब्रह्मण उद्गातुर्यष्टुश्शास्तुश्च शंसिनः । .
पोतुर्नेष्ट्रच्छावाकानां आग्नीध्रस्येति च क्रमः ॥
युनज्मि ते पृथिवीं ज्योतिषा सह दक्षिणस्य हविर्धानस्याधस्तात् पश्चादक्षं द्रोणकलशं सदशापवित्रम् । तस्य वायव्यैर्वृक्षनियोगः । युनज्मि वायुमन्तरिक्षेण ते सह उत्तरस्य हविर्धानस्योपरिष्टान्नीडे आधवनीयम् । युनज्मि वाचꣳ सह सूर्येण ते प्रधुरे पूतभृतम् । एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षं त्रीनेकधनान् घटान् पञ्च सप्त नवैकादश वा तूष्णीं प्रयुनक्ति । यस्मिन्मिमीते तस्याधिषवणचर्म खरं परिकृत्तं चतुष्पुटमुपरिष्टादासेचनवत् । रक्षोहणो वलगहनः प्रोक्षामि वैष्णवं अधिषवणचर्म प्रोक्ष्य । रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवान् ग्राव्ण्णः प्रोक्ष्य । रक्षोहा त्वा वलगहा वैष्णवमास्तृणामि अधिषवणफलकयोरुत्तरलोमास्तीर्य । रक्षोघ्नो वो वलगघ्नस्सꣳ सादयामि वैष्णवान् तस्मिंश्चतुरो ग्राव्ण्णः प्रादेशमात्रान् ऊर्ध्वसानूनाहननप्रकारानश्मनस्संसादयत्युपरं प्रथिष्ठं मध्ये पञ्चमम् । तमभिसंमुखा भवन्ति । स्थवीयांसि मुखानि । अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाश्श्येना अतिथयः ।
 
पर्वतानां ककुभः प्रयुतो न पातारो वग्नुनेन्द्रᳪँ、 ह्वयत । घोषेणामीवाᳪ、श्चातयत युक्तास्स्थ वहत । स्वर्गं लोकं यजमानमभिवहत सन्नानभिमन्त्र्य । अग्नीषोमीयवत् सवनीयपात्राणि प्रयुनक्ति कर्मणे वामित्यादि । यज्ञस्य सन्ततिरसि । पवित्रे कृत्वा, न ब्रह्मवरणम् । यजमान वाचं यच्छ । सं विशन्ताम् । अग्निꣳ होतारम् । कस्त्वा युनक्ति स त्वा युनक्तु । प्रोक्षणीस्संस्कृत्य । ब्रह्माणमामन्त्र्य । पात्राणि प्रोक्ष्य । प्रोक्षणीशेष सदोहविर्धानयोर्मध्ये निधाय स्फ्यं तिर्यञ्चं स्तब्ध्वा अग्नीषोमीयवत् संप्रेष्यति । अग्ने गृहपत इत्यादि सर्वं शालामुखीये करोति । अग्नीषोमीयवदाज्यानि गृह्णाति 1 । यानि काष्ठानि तदहरभ्याधास्यन्त्स्यात्तानि सहेध्मेन प्रोक्षेत् । समानमा स्रुचां सादनात् । प्रचरणीं तूष्णीं सादयेत् । विष्णूनि स्थ इत्यभिमन्त्रणं कृत्वा 2। युनज्मि तिस्रो विपृचस्सूर्यस्य ते स्रुचस्सन्ना अभिमन्त्रयते । अत्र सौमिकानां पात्राणां संसादनमेके समामनन्ति । यजमानः - अयं यज्ञो, ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनम् ।
अध्वर्युः - आ सन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्यास्स्वाहा । प्रजापतय इदम् । स्रुवेणाहवनीये जुहोति । पञ्चहोतारं चाग्नीध्रे । अग्निर्होता । अश्विनाध्वर्यू। त्वष्टाग्नीत् । मित्र उपवक्ता । सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतस्स्वाहा ॥ वाचस्पतये ब्रह्मण इदम् । मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीरिति जुहोत्यभितस्सोमाहुतीः ।
सोमराज्ञः उपावहरणम् :-
अत्र राजानमन्तरेषे ग्रावसूपावहरति । हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वोर्ध्वमिममध्वरं कृधि दिवि देवेषु होत्रा यच्छ, सोम राजन्नेह्यवरोह मा भेर्मा सं विक्था मा त्वा हिꣳसिषं प्रजास्त्वमुपावरोह प्रजास्त्वामुपावरोहन्तु इत्येताभ्याम् । पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति । पुरा वा वयोभ्यः । होतरेहीत्युक्ते 3 होत्रादि सर्व ऋत्विग्भिः अच्छावाकग्रावस्तुद्वर्जं तीर्थप्रवेशनं कर्तव्यम् । यजमानः उद्गातारमाह विश्वरूपाणां गानं मे गाय । उद्गाता - चतुष्टोमस्तोमसम्पदतिरेकात् ग्रहशस्त्राभावाच्च नाहं गायामि इति प्रत्याचक्षीत । यजमानः परिहरति वसतीवर्यो ग्रहः, प्रातरनुवाकश्शस्त्रं, आसां न च सम्पत्कोपो यथान्यैः परिसामभिर्गायैव इत्याह । तदोद्गाता नमामनामन्त्र्य प्रातरनुवाकमुपाकुर्या
१. आज्यग्रहे कृते यज्वा लोकद्वारं तु गायति ।
२. एता असदन्नित्यभिमन्त्रणानन्तरं युनज्मि तिस्रो विपृचः सूर्यस्य ते इति स्रुचः सन्ना अभिमन्त्रयते । ततः विष्णूनि स्थ इत्यभिमन्त्रणम् इति अ. ह. पाठः ।।
३. द्राविडप्रयोगे होतरेहीति प्रथमं, ततो होतुः प्रातरनुवाकाङ्गहोमाः ततो अध्वर्योः आसन्यान्मामन्त्रात् पाहीत्यादि होमः । ततो राज्ञ उपावहरणम् । ततः प्रातर्यावभ्यो इति प्रेषः ।
 
इत्यध्वर्युं ब्रूयात् । अथोद्गाता होतारं प्रातरनुवाकायोपविष्टं पूर्वेण गत्वा यजमानश्च तेनैव गत्वा पूर्वया द्वारा हविर्धानं प्रपद्य अन्तरेण हविर्धाने पूर्वेण चक्रे उदङ्मुख उपविशेत्तूष्णीं । उद्गातुः पुरस्ताद्यजमानः प्रत्यङ्मुखः । तत उद्गाता गायति । अध्वर्युः प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ प्रतिप्रस्थातस्सवनीयान्निर्वप सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति संप्रेष्यति । होता प्रातरनुवाकं ब्रूते । उपाकृते प्रातरनुवाके ब्रह्मा वाचं यच्छत्या परिधानीयायाः । मनसा ते वाचं प्रतिगृणामि इत्यध्वर्युर्होतारमाह 1 ।
सवनीयहविषां करणम् :-
अत्र प्रतिप्रस्थाता सवनीयानां पाणिप्रक्षालनादि कर्म प्रतिपद्यते । प्राग्वंशे करोति । कर्मणे वाम् । नोलपराजीस्तरणम् । द्वे भर्जनार्थे कपाले एकादशपुरोडाशकपालानि शूर्पे च द्वन्द्वम् । उलूखलं पत्न्या आग्नीध्रस्य वा नखानि मुसलं च द्वन्द्वम् । स्फ्यमग्निहोत्रहवणीवर्जम् । पुरतः पात्रीं प्राशित्रहरणं मेक्षणं मदन्त्यर्थम् । उपवेषं उत्पवनार्थं पात्रं विभक्तवेदाग्राणि प्रातर्दोहपात्राणि वाजिनपात्रं च प्रयुज्य, पवित्रे पूर्वेद्युरेवात्र कृते भवतः 2। वानस्पत्यासि इति अग्निहोत्रहवणीं वेषाय वाम् इति शूर्पे गृहीत्वा प्राजहितस्य पश्चाद्भागे पात्र्यां यवान् व्रीहींश्च स्थापयित्वा । धूरसि इत्यादि । यच्छन्ताम् । देवस्य त्वा --- इन्द्राय हरिवते जुष्टं निर्वपामि धानार्थान् यवान्निर्वपति । देवस्य त्वा --- इन्द्राय पूषण्वते जुष्टं निर्वपामि करम्भार्थान् यवान्निरुप्य । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा - -- सरस्वत्यै भारत्यै जुष्टं निर्वपामि लाजार्थान् व्रीहीन् निर्वपति । पूर्वस्मिञ्छूर्पे पवित्रे निधाय देवस्य त्वा --- इन्द्राय जुष्टं निर्वपामि पुरोडाशार्थान् यवान्निरुप्य । निरुप्तेष्वन्वोप्य इत्येतदन्तं कृत्वाभिषवाय प्रव्रजति । अभिषुत्य प्रत्येत्य इदं देवानां इत्यादि । अदित्यास्त्वोपस्थे सादयामीन्द्र हरिवन् हव्यꣳ रक्षस्वेन्द्र पूषण्वन् हव्यꣳ रक्षस्व सरस्वति भारति हव्यꣳ रक्षस्वेन्द्र हव्यꣳ रक्षस्व अपरेण शालामुखीयमुपसादयति । न कस्त्वा । स शूकायामित्यादि । देवस्य त्वा --- इन्द्राय हरिवते वो जुष्टं प्रोक्षामीन्द्राय पूषण्वते वो जुष्टं प्रोक्षामि सरस्वत्यै भारत्यै वो जुष्टं प्रोक्षामीन्द्राय वो जुष्टं प्रोक्षामि । शुन्धध्वं इति सर्वाभिरद्भिस्त्रिः प्रोक्षति ।
अवहननकाले लाजार्थान् परिहाप्येतरानवहन्ति । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् विभज्य । इदमिन्द्रस्य हरिवत इन्द्रस्य पूषण्वतः धानाकरंभार्थान्निर्दिश्य । इदमिन्द्रस्य पुरोडाशार्थान् । कृष्णाजिनादानादि इन्द्राय जुष्टमधिवपामि धान्यमसि । अणूनि कुरुतादित्यन्तं कृत्वा । पिष्टलेपं फलीकरणं च प्रज्ञातं निधाय । शालामुखीये हविश्श्रपणम् । धृष्ट्यादानादि । ध्रुवमसि इति प्रथमकपालमन्त्रेण
१. नात्र प्रतिगरोऽध्वर्योः मनसापि । मन एव प्रतिगरोऽध्वर्योरिति मनसा ते वाचं प्रतिगृणामीत्याह । २. पवित्रे पूर्वदिने सायन्दोहार्थे कृते भवतः ।
 
धानार्थं लाजार्थं च कपाले अधिश्रयति । पुरोडाशकपालान्युपधाय, सायं दोहवत्प्रातर्दोहं दोहयति, एता आचरन्तीत्यादि सङ्क्षाळननिनयनान्तम् । भृगूणामङ्गिरसां तपसा तप्यस्व धानार्थे लाजार्थे च कपालेऽङ्गारानध्यूह्य । तप्यध्वमिति पुरोडाशकपालेषु । मदन्तीरधिश्रयतीत्यादि । इन्द्राय जुष्टꣳ संवपामि । पिष्टान्युत्पूय तण्डुलानुत्पूय व्रीहीनुत्पुनाति 1। अपश्चोत्पूय समाप इति पिष्टेष्वानयति । अधिश्रयणकाले घर्मास्स्थ विश्वायुषः तण्डुलानोप्य धानाः करोति । घर्मोऽसि इति व्रीहीनोप्य लाजान् करोति । पुरोडाशमधिश्रित्य तप्ते प्रातर्दोहे सायं दोहमानयति । उरु प्रथस्वेत्यादि पुरोडाशस्य । अन्तरितꣳ सर्वेषाम् । आप्यलेपं निनीय ।
घृतागेह्यग्निस्त्वा ह्वयति देवयज्यायै इत्यादि प्राशित्रं संमृज्य । प्रस्तरे पवित्रे अपिसृज्य । पुरोडाशे इदमहꣳ सेनाया इत्यङ्गारानपोह्य । सूर्य ज्योतिषो विभात महत इन्द्रियाय धाना अभिमन्त्र्य । सूर्यज्योतिः इतीतरौ । न सूर्यज्योतिः आमिक्षायाः । तूष्णीं धाना अभिघार्य । आ प्यायतां--- सरस्वत्यै भारत्यै जुष्टमभिघारयामि लाजानभिघार्य । तृष्णीं पुरोडाशम । यस्त आत्मा इत्यामिक्षाम् । स्योनं वस्सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि वः पात्र्यामुपस्तीर्य । पुनः स्योनं ते । भुवनस्य गोपा शृता उत्स्नान्ति जनित्र्यो 2 मतीनाम् धाना उद्वास्य । यथाभागं व्यावर्तेथाम् विभज्य । इदमिन्द्रस्य हरिवतः धाना अभिमृश्य । इदमिन्द्रस्य पूषण्वतः करम्भार्थान् । आज्येन धानास्संयुत्य पात्र्यां तूष्णीं प्रतिष्ठापयति । करम्भस्य कृष्णाजिनादानादि । इन्द्राय पूषण्वते जुष्टमधिवपामि धान्यमसि। अणूनि कुरुतात् इत्यन्तं कृत्वा आज्येन संयुत्य पात्र्यां तूष्णीं प्रतिष्ठापयति । स्योनं ते सदनं करोमि पात्र्यामुपस्तीर्य । भुवनस्य गोपा शृत उत्स्नाति जनिता मतीनाम् लाजानुद्वास्य । कृष्णाजिनादानादि अधिषवणानि स्थ मानुषाणि प्रति वोऽदित्यास्त्वग्वेत्तु पत्न्यास्सव्यहस्तमुलूखलस्थाने निधाय । अग्नेस्तनूरसि इत्यङ्गुलीषु लाजानावपति । अद्रयस्स्थ मानुषास्त इदं देवेभ्यो हव्यꣳ सुशमि शमीढ्वम् तस्या दक्षिणहस्तनखैर्लाजेभ्यस्तुषान् संहरति । अव रक्षः । वर्षवृद्धमसि इत्यादि । न परावापः । रक्षसां भागोऽसि हस्तेन तुषान्निरस्य । अप उपस्पृश्य । तस्मिन्त्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः इति पात्र्यां प्रतिष्ठापयति । स्योनं त इत्यादि पुरोडाशमुद्वास्य पात्र्यां तूष्णीं प्रतिष्ठापयति । दृꣳह इत्यामिक्षामुद्वास्य संहत्य द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । इरा भूतिः इति त्रयाणां कृत्वा विरमति ।
एकधनघटेषु अप् ग्रहणम् :-
अध्वर्युः – यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निस्समिधा हवं
१. तण्डुलानुत्पूय व्रीहीनुत्पूय पिष्टान्युत्पुनाति इति अ, ह पाठः । २. जनितारो इति पाठान्तरम् ।
 

मे शृण्वन्त्वापो धिषणाश्च देवीः । शृणोत ग्रावाणो विदुषो नु यज्ञꣳ शृणोतु देवस्सविता हवं मे स्वाहा । अग्न्यप्ग्रावसवितृभ्य इदम् । अपरं चतुर्गृहीतं गृहीत्वा संप्रेष्यति । अप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्चात्वालं प्रत्यास्व
पन्नेजनीग्रहणं, सादनं च :-
नेष्टा – प्रेह्युदेह्यृतस्य वामीरन्वग्निस्तेऽग्रं नयत्वदितिर्मध्यं दधताꣳ रुद्रावसृष्टासि युवा नाम मा मा हिꣳसीः पान्नेजनीं स्थालीं धारयमाणां पत्नीमुदानयति । अध्वर्युब्रह्मयजमानाश्चमसाध्वर्युरुन्नेता च चात्वालोत्करावन्तरेण गच्छन्त्येकधनिनः पत्नी च । अध्वर्युः - होतुः प्रातरनुवाकं शृण्वन्नेवाविदूरस्थं वहन्तीनां जलं प्रत्युदूह्य गृह्णीयात् । देवीरापो अपान्नपाद्य ऊर्मिर्हविष्य इन्द्रियावान् मदिन्तमस्तं देवेभ्यो देवत्रा धत्त शुक्रꣳ शुक्रपेभ्यो येषां भागस्स्थ स्वाहा तृणमन्तर्धायाप्सु सावशेषं जुहोति । अद्भ्य इदम् । यदि वा पुरा तृणं स्यात्तस्मिन् जुहुयात् । कार्षिरस्यपापां मृध्रम् दर्भैराहुतिमपप्लाव्य । समुद्रस्य वोऽक्षित्या उन्नये अभिहुतानां मैत्रावरुणचमसेन गृह्णाति । सोमस्य त्वा मूजवतो रसं गृह्णामि एकधनाः । प्रतिघटं मन्त्रावृत्तिः । पत्नी प्रत्यङ् तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर्गृह्णामि यज्ञाय वः पन्नेजनीर्गृह्णामि पन्नेजनीर्गृह्णाति । प्रेह्युदेह्यृतस्य वामीरन्वग्निस्तेग्रं नयत्वदितिर्मध्यं दधताꣳ रुद्रावसृष्टासि युवा नाम मा मा हिꣳसीः पूर्ववन्नेष्टा पत्नीमुदानयति । वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीस्सादयामि यज्ञाय वः पन्नेजनीस्सादयामि अपरेण नेष्ट्रीयं प्रत्यङ्ग तिष्ठन्ती पन्नेजनीस्सादयति । ता एवमेवाच्छावाकं सीदन्तमनूपसादयति ।
होतृचमसमैत्रावरुणचमसयोः परस्परं व्यानयनम् :-
उन्नेता होतृचमसं वसतीवरीश्चात्वालमानयति । अध्वर्युः – होतृचमसे वसतीवरीभ्योऽपो निषिच्य उपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च संस्पर्श्य वसतीवरीर्व्यानयति । समन्यायन्तीत्यभिज्ञाय होतृचमसान्मैत्रावरुणचमसे वसतीवरी-र्व्यानयति । मैत्रावरुणचमसाद्धोतृचमसे एतद्वा विपरीतम् । होतृचमसमैत्रावरुणचमसयोस्समञ्जनम् :-
उपरि चात्वाले धार्यमाणा उभयीः प्रचरण्या समनक्ति । सं वोऽनक्तु वरुणस्समिन्द्रस्सम्पूषा सन्धाता सम्बृहस्पतिः । त्वष्टा विष्णुः प्रजया सꣳरराणो यजमानाय द्रविणं दधातु होतृचमसीया आपः । यथायथं धुरो धुर्भिः कल्पन्ताम् मैत्रावरुणचमसीयाः । क्रतुकरणहोमः :-
 
अवेरपो अध्वर्या३उ इति पृष्टः उतेमनन्नमुः 1 इति प्रत्युक्त्वा प्रचरणीशेषात् क्रतुकरणं जुहोति । यमग्ने पृत्सु मर्त्यमावो वाजेषु यं जुनाः । स यन्ता शश्वती रिषस्स्वाहा । अग्नय इदम् । तदभावे चतुर्गृहीतेन । अपरया द्वारा हविर्धानमपः प्रपादयति । ब्रह्मा यजमानश्चापोऽनुप्रपद्यते । प्रविष्टास्वप्सु प्रतिनिवृत्य पूर्वया द्वारा हविर्धानं प्रविशतः । ब्रह्मा त्वग्रेण खरं दक्षिणातिक्रम्य दक्षिणत उपविशति । अध्वर्युः पूर्वया द्वारा हविर्धानं प्रविश्य दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीं सादयति । यं कामयेत पण्डकस्स्यादिति तं प्रचरण्योपस्पृशेत् । एतस्यैव हविर्धानस्याधस्तात् पुरोक्षं मैत्रावरुणचमसमुत्तरस्यां वर्तन्यां पुरश्चक्रं होतृचमसमुत्तरस्य हविर्धानस्याधस्तात् पुरोक्षं वसतीवरीः पश्चादक्षमेकधनाः ।
दधिग्रहप्रचारः :-
अत्र दधिग्रहेण प्रचरत्यौदुम्बरेण गृह्णाति । दधिग्रहपात्रं प्रक्षाल्य पूर्वगृहीतानां पञ्चदोहानामन्यतमं दध्यानीय उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधे रातं देवेभ्योऽग्निजिह्वेभ्यस्त्वर्तायुभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यो दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा दधि गृहीत्वा । अपेन्द्र द्विषतो मनोऽप जिज्यासतो जह्यप यो नोऽरातीयति तं जहि हरति । प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वासते त्वाद्भ्यस्त्वौषधीभ्यो विश्वेभ्यस्त्वा भूतेभ्यो यतः प्रजा अक्खिद्रा अजायन्त तस्मै त्वा प्रजापतये विभूदाव्न्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि स्वाहा उत्तरत आसीनो जुहोति । प्रजापतय इदम् । अत्र दधिग्रहपात्रमग्नौ प्रहरति ।
अदाभ्यग्रहप्रचारः :-
अंश्वदाभ्यपात्रं प्रक्षाल्य । शुक्रं ते शुक्रेण गृह्णाम्यह्णो रूपेण सूर्यस्य रश्मिभिः वसतीवरीभ्यो गृहीत्वा उपनद्धस्य राज्ञस्त्रीनंशून् प्रवृहति । वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसाग्नेः प्रियं पाथ उपेहि प्रथमम् । रुद्रास्त्वा प्रवृहन्तु त्रैष्टुभेन छन्दसेन्द्रस्य प्रियं पाथ उपेहि द्वितीयम् । आदित्यास्त्वा प्रवृहन्तु जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथ उपेहि तृतीयम् । तैरेनं चतुर आधूनोति । मान्दासु ते शुक्र शुक्रमा धूनोमि । भन्दनासु ते शुक्र शुक्रमा धूनोमि । कोतनासु ते शुक्र शुक्रमा धूनोमि प्रथमम् । नूतनासु ते शुक्र शुक्रमा धूनोमि । रेशीषु ते शुक्र शुक्रमा धूनोमि । मेषीषु ते शुक्र शुक्रमा धूनोमि द्वितीयम् । वाशीषु ते शुक्र शुक्रमा धूनोमि । विश्वभृत्सु ते शुक्र शुक्रमा धूनोमि । माध्वीषु ते शुक्र शुक्रमा धूनोमि तृतीयम् । ककुहासु ते शुक्र शुक्रमा धूनोमि । शक्वरीषु ते शुक्र शुक्रमा धूनोमि । शुक्रासु ते शुक्र शुक्रमा धूनोमि चतुर्थम् ।
१. उतेमनन्नमुरुतेमाः पश्य इति प्रयोगे मन्त्रपाठः आसीत् अस्माभिः परिष्कृतम् । अत्र विषये भूमिकां पश्यन्तु ।
 

आस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चत ग्रहमादाय । ककुहꣳ रूपं वृषभस्य रोचते बृहत्सोमस्सोमस्य पुरोगाश्शुक्रश्शुक्रस्य पुरोगाः हरति । यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा । सोमायेदम् । पृष्ठ्याया उत्तरत आसीनो जुहोति । अध्वर्यो द्वादश प्रथमगर्भाः पष्ठौहीस्ते ददामि कृत्यधीवासं च। अध्वर्युस्तूष्णीं प्रतिगृह्णाति । आधवनानंशून् प्रज्ञातं द्विदेवत्यपात्राणामधस्तान्निदधाति ।
अंशुग्रहप्रचारः :-
अथांशुं गृह्णाति । एकग्रहायाप्तं राजानमुपरे न्युप्य वसतीवरीभिरुपसृज्य । अवीवृधं वो मनसा सजाता ऋतप्रजाता भग इद्वस्स्याम । इन्द्रेण देवीर्वीरुधस्संविदाना अनुमन्यन्ताꣳ सवनाय सोमम् राजानमभिमन्त्र्य । हिरण्यपाणिस्तूष्णीं ग्राव्ण्णा सकृदभिषुत्य । आ मास्कान् सह प्रजया सह रायस्पोषेणेन्द्रियं मे वीर्यं मा निर्वधीः प्रथमप्लुतमंशुमभिमन्त्रयते । द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु सञ्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः इति विप्रुषः । वामदेव्यं मनसा गायमानोऽनवानं गृह्णाति । वामदेव्यस्य वा ऋचा । यजमानेन सह प्राण्यापान्य मध्यस्थेन वायुना कया नश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृतोपयामगृहीतोऽसि पराङ्मुखो गृहीत्वा । इन्द्राग्नी मे वर्चः कृणुतां वर्चस्सोमो बृहस्पतिः । वर्षों मे विश्वे देवा वर्चो मे धत्तमश्विना अप उपस्पृश्य । दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् । परि विश्वानि काव्या नेमिश्चक्रमिवाभवत्स्वाहा अनिरुक्तया प्राजापत्यया प्राण्यापान्य मध्यस्थेन वायुना पृष्ठ्याया उत्तरत आसीनो जुहोति । प्रजापतय इदम् । अध्वर्यो द्वादश प्रथमगर्भाः पष्ठौहीस्ते ददामि कृत्यधीवासं च। अध्वर्युस्तूष्णीं प्रतिगृह्य ।
सोमभक्षणम् :-
सदसि प्रत्यङ्मुखो भक्षयति । हविर्धानस्येशानकोणेऽध्वर्युः प्रदक्षिणमावृत्योत्तरेण हविर्धानस्य गत्वा दक्षिणेनाग्नीध्रीयं प्रत्यञ्चः प्रत्येत्य सदोद्वारि उपविश्य भक्षयति । एवं सर्वत्र गमनप्रकारोऽध्वर्योः । भक्षेहि मा विश दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदोऽस्यश्विनोस्त्वा बाहुभ्याꣳ सध्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम । मन्द्राभिभूतिः केतुर्यज्ञानां वाग्जुषाणा सोमस्य तृप्यतु मन्द्रास्वर्वाच्यदितिरनाहतशीर्ष्णी वाग्जुषाणा सोमस्य तृप्यत्वेहि विश्वचर्षणे शंभूर्मयोभूस्स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस्पोषाय सुवीरतायै मा मा राजन्विबीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे । वसुमद्गणस्य सोम देव ते मतिविदः प्रातस्सवनस्य गायत्रछन्दस
 
इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि भक्षयति । हिन्व मे गात्रा हरिवो गणान्मे मा वि तीतृषः । शिवो सप्तऋषीनुप तिष्ठस्व मा मेऽवाङ्नाभिमति गाः नाभिदेशमभिमृशति । भक्षेहीत्यादिना यं कञ्चन ऋत्विजमुपहूय भक्षयित्वा । मार्जालीये प्रक्षाल्य यथायतनं सादयति ।
उत्तरस्यां वर्तन्यां होतृचमसं तूष्णीं वसतीवरीभिरभिपूरयति । पूर्यमाणासु यजमानं वाचयति । निग्राभ्यास्स्थ देवश्रुत आयुर्मे तर्पयत प्राणं मे तर्पयतापानं मे तर्पयत व्यानं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयत मनो मे तर्पयत वाचं मे तर्पयतात्मानं मे तर्पयताङ्गानि मे तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गृहान्मे तर्पयत गणान्मे तर्पयत सर्वगणं मा तर्पयत तर्पयत मा गणा मे मा वि तृषन् ।

उपांशुग्रहः
उपांशुसवनम्.
अन्तर्यामग्रहः.
सोमाभिषवणम्.

उपांशुग्रहः :-
देवस्य त्वा सवितुः --- हस्ताभ्यामाददे ग्रावाणमुपांशुसवनमादाय । ग्रावास्यध्वरकृद्देवेभ्यो गम्भीरमिममध्वरं कृद्ध्युत्तमेन पविनेन्द्राय सोमꣳ सुषुतं मधुमन्तं पयस्वन्तं वृष्टिवनिम् ग्रावाणमभिमन्त्रयते । तमाददानो वाचं यच्छत्याग्रयणं गृहीत्वा विसृजते । अथैनमुपरे निधायांशुभिरभिमिमीते क्रयवत् । एतावन्नाना । इन्द्राय त्वा वृत्रघ्ने । इन्द्राय त्वा वृत्रतुरे । इन्द्राय त्वाभिमातिघ्ने । इन्द्राय त्वादित्यवते । इन्द्राय त्वा विश्वदेव्यावते एतैः प्रतिमन्त्रम् । पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् । नांशूनुपसमूहति । भूयांसं प्रातस्सवनाय राजानं प्रकल्पयत्यल्पीयांसं माध्यन्दिनाय । उपनह्य प्रत्यारोप्य एकग्रहायाप्तं राजानमुपरे न्युप्य होतृचमसेंऽशूनवधाय । तस्मिन्ग्रावाणमुपांशुसवनमुपरि धारयन् त्रिः प्रदक्षिणं परिप्लावयन्निग्राभमुपैति । प्रागपागुदगधराक्तास्त्वा दिश आ धावन्त्वम्ब निष्वर निग्राभमुपैति । श्वात्रास्स्थ वृत्रतुरो राधो गूर्ता अमृतस्य पत्नीस्ता देवीर्देवत्रेमं यज्ञं धत्तोपहूतास्सोमस्य पिबतोपहूतो युष्माकꣳ सोमः पिबतु तासामेकदेशेनोपसृज्य । उपसृष्टस्य राज्ञः षडंशूनार्द्रान् संश्लिष्टानादाय । चर्मणि निधाय । यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्यधि दात्रेऽवोचः राजानमभिमन्त्रयते । धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जं मे धत्तं मा वाꣳ हिꣳसिषं मा मा हिꣳसिष्टम् अधिषवणफलके । अवीवृधं वो मनसा सुजाता ऋतप्रजाता भग इद्वस्स्याम । इन्द्रेण देवीर्वीरुधस्संविदाना अनुमन्यन्ताꣳ सवनाय सोमम् राजानमेवाभिमन्त्र्य । मा भेर्मा सं विक्थाः ग्रावाणमुद्यम्य । अनागसस्त्वा वयमिन्द्रेण प्रेषिता उप वायुष्टे अस्त्वꣳशभूर्मित्रस्ते अस्त्वꣳशभूर्वरुणस्ते अस्त्वꣳ शभूः । अहतस्सोमो राजा तृणमन्तर्धायाभिषुणोति । एकम् । आ मास्कन् सह प्रजया सह रायस्पोषेणेन्द्रियं मे वीर्यं मा निर्वधीः प्रथमप्लुतमंशुमभिमन्त्रयते । अष्टौ कृत्वोऽग्रेऽभिषुणोति । द्रप्सश्चस्कन्द
 
 

पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु सञ्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः इति विप्रुषोऽनुमन्त्रयते । अथ प्रतिप्रस्थाता उपांशुपात्रं धारयन् अपात्तानामुपरि द्वावंशू अन्तर्दधाति । अध्वर्युः उभाभ्यां हस्ताभ्यां अभिषुतं सोमं दक्षिणेन हस्तेन प्रपीड्य अञ्जलिनादाय 1 । वाचस्पतये पवस्व वाजिन् वृषा वृष्णो अꣳशुभ्यां गभस्तिपूतो देवो देवानां पवित्रमसि येषां भागोऽसि तेभ्यस्त्वा तस्मिन्नुपांशुपात्रे गृह्णाति । पवित्रमुपयामस्सादनं च न विद्यते । अंशुद्वयस्य निधानमाग्नेयस्यातिग्राह्यस्याधस्तात् । एष प्रथमः पर्यायः । एवं विहितो द्वितीयस्तृतीयश्च । प्राक् श्वात्रास्थ यत्ते सोम धिषणे वीढू अवीवृधं वो मा भेरनागसस्त्वाऽऽमास्कान् द्रप्सो वाचस्पतिर्दश । अपि वा एकादशकृत्वो द्वितीयमभिषुणोति । द्वादशकृत्वस्तृतीयम् । द्विरादितोऽन्ततो वा निग्राभोपायनमुपसर्गश्च । होतृचमसीयानंशूनुत्तमे पर्यायेऽभिषुणोति । अवशिष्टानां प्रतिप्रस्थाता द्वौ द्वावंशू अन्तर्दधाति । उपांशुपावनानंशूनतिग्राह्यपात्राणामधस्तान्निदधाति । ऐन्द्रस्याधस्तात् द्वितीये सौर्यस्याधस्तात्तृतीये । स्वाङ्कृतोऽसि मधुमतीर्न इषस्कृधि विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः ग्रहमादाय । उर्वन्तरिक्षमन्विहि दक्षिणेन होतारमतिक्रामति येन वा होता प्रतिपादयेत् । मनस्त्वाष्टु दक्षिणतोऽवस्थाय । दक्षिणं परिधिसन्धिमन्ववहृत्य । स्वाहा त्वा सुभवस्सूर्याय दक्षिणतः प्राञ्चमृजुं सन्ततं दीर्घं हुत्वा । प्राणायेदम् । देवेभ्यस्त्वा मरीचिपेभ्यः मध्यमे परिधौ लेपं निमार्ष्टि । देवेभ्यो मरीचिपेभ्य इदम् । सर्वमाग्रयणस्थल्यां सम्पातमवनीय । एष ते योनिः प्राणाय त्वा रिक्तं पात्रमायतने सादयित्वा । तस्मिन्नंशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयात् ।
महाभिषवः :-
अथ महाभिषवः । उशिक्त्वं देव सोम गायत्रेण छन्दसाग्नेः प्रियं पाथो अपीहि अदाभ्यांशुम् । यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा उपांशुपावनौ चापिसृज्य । पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेतोपरे राजानं न्युप्य तूष्णीं होतृचमसे उदचनेन वसतीवरीरानीय अंशूनवधाय प्रागपागिति निग्राभमुपयन्ति । श्वात्रास्थ इति तासामेकदेशेनोपसृज्य । अवीवृधं व इत्यभिमन्त्र्य उपांशुसवनवर्जं तूष्णीमितरैर्ग्रावभिर्हस्ताभ्यामभिषुण्वन्ति । आ मास्कान् द्रप्सश्चस्कन्द इति पूर्ववदभिमन्त्रणम् । एवं द्वितीयं तृतीयं चोपसृज्याभिषुण्वन्ति । अभिषुतं सोमं सर्वे दक्षिणेन हस्तेन प्रपीडयन्ति । अध्वर्युरुदचनेऽञ्जलिना संसिञ्चति । तमुन्नेतान्तरेषेण उद्धृत्य पश्चिमत उद्गातारं परिहृत्य उत्तरतस्तिष्ठन्नाधवनीयेऽवनयति, एष एवापां सोमस्य च पन्थाः । एष प्रथमः पर्यायः,
१. उभाभ्यां हस्ताभ्यामभिषवः दक्षिणेन प्रपीडनं इति पाठान्तरम् ।
 
एवं विहितो द्वितीयस्तृतीयश्च । तृतीयपर्यायस्यान्तिमेऽभिषवे निग्राभोपायनमुपसर्गं च द्विः कृत्वा होतृचमसीयानंशून् प्रक्षिप्याभिषुण्वन्ति ।
द्रोणकलशस्योपरि पवित्रवितानम् :-
अध्वर्युः - संभृत्य राजानमुपरे ग्राव्ण्णस्संमुखान् कृत्वा प्रपीड्य ऋजीषं मुखेषूपोहति । घासमेभ्यः प्रयच्छतीति विज्ञायते । तेषूद्गातारो द्रोणकलशं प्रतिष्ठाप्य तस्मिन्नुदीचीनदशं पवित्रं वितन्वन्ति 1। यजमानः - पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्नतदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत वितत्यमानमभिमन्त्र्य ।
धारास्रावणं, ग्रहाणां च ग्रहणम् :-
पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन् होतृचमसेन धारां स्रावयति । उदचनेन उन्नेताधवनीयाद्धोतृचमसे आनयति । सन्तता धारा स्रावयितव्या । कामो हास्य समर्धुको भवतीति विज्ञायते । अध्वर्युः - अन्तर्यामपात्रं प्रक्षाल्य । उपयामगृहीतोऽस्यन्तर्यच्छ मघवन् पाहि सोममुरुष्य रायस्समिषो यजस्वान्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षꣳ सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन् मादयस्व धारया अन्तर्यामं गृहीत्वा प्रतिप्रस्थात्रे प्रयच्छति । न पवित्रसंमार्जनम् । स्वाङ्कृतोऽसि मधुमतीर्न इषस्कृधि विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः ग्रहमादाय 2 । उर्वन्तरिक्षमन्विहि उत्तरेण होतारमतिक्रामति । येन वा होता प्रतिपादयेत् । मनस्त्वाष्टु उत्तरतोऽवस्थाय । उत्तरपरिधिसन्धिमन्ववहृत्य । स्वाहा त्वा सुभवस्सूर्याय उत्तरतः प्राञ्चं ऋजुं सन्ततं दीर्घ हुत्वा । इन्द्रायेदम् । देवेभ्यस्त्वा मरीचिपेभ्यः मध्यमे परिधौ लेपं निमार्ष्टि । देवेभ्यो मरीचिपेभ्य इदम् । असर्वमाग्रयणस्थाल्यां सम्पातमवनीय । एष ते योनिरपानाय त्वा अरिक्तं पात्रमायतने सादयति । व्यानाय त्वा ते अन्तरे ग्रावाणमुपांशुसवनम् पूर्ववत्सादयति । नानुदिते सूर्ये उपांश्वन्तर्यामौ जुहुयात् । उभावनुदिते होतव्यावित्येके । ऐन्द्रवायवपात्रं प्रक्षाल्य आ वायो भूष शुचिपा उप नस्सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् । उपयामगृहीतोऽसि वायवे त्वा गृहीत्वोपयम्य । इन्द्रवायू इमे सुताः । उप प्रयोभिरागतमिन्दवो वामुशन्ति हि । उपयामगृहीतोऽसीन्द्रवायुभ्यां त्वा पुनर्गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिस्सजोषाभ्यां त्वा यथायतनं सादयति ।
१. तस्मिन्निति द्रोणकलशस्योपरि समीपे पवित्रवितानं, विततेन पवित्रेण कलशो न स्पृष्टस्स्यात् । पवित्रस्य अधस्तात् नाभ्याः स्रवंत्याः धारया ग्रहणम् । तिरः पवित्रस्स्रवन्त्या धारयेति भारद्वाजमतात् । भाष्यकारेण आग्रयणग्रहणे पवित्रस्य अधस्तात् संपातावनयनस्य उक्तत्वात् एवं पवित्रवितानमिति विज्ञायते । अन्तरेषे यजमानो धारां स्रावयतीति भाष्यकारवचनात् द्रोणकलशस्योपरि ईषयोरधस्तात् यथा पवित्रं क्रियते तथोपायः कर्तव्यः । शकटस्योपरि पवित्रवितानमिति केचित् ।
२. प्रतिप्रस्थातुः हस्तादध्वर्युः पुनर्ग्रहमादाय इत्यर्थः ।
 
मैत्रावरुणपात्रं प्रक्षाल्य अयं वां मित्रावरुणा सुतस्सोम ऋतावृधा । ममेदिह श्रुतꣳ हवम् । उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा गृहीत्वोपग्रहं गृहीत्वा । राया वयꣳ ससृवाꣳसो मदेम हव्येन देवा यवसेन गावः । तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्ती 1 । पञ्च दोहानां चतुर्थेन शृतशीतेन पयसा श्रीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिर् ऋतायुभ्यां त्वा सादयति ।
आश्विनमतीत्य शुक्रं गृह्णाति । शुक्रपात्रं प्रक्षाल्य । अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपाꣳ सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति । उपयामगृहीतोऽसि शण्डाय त्वा गृहीत्वा । हिरण्येन श्रीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिर्वीरतां पाहि सादयति ।
मन्थिपात्रं प्रक्षाल्य । तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदꣳ सुवर्विदं प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे । उपयामगृहीतोऽसि मर्काय त्वा गृहीत्वा । मनो न येषु हवनेषु जुह्वद्विपश्शच्या वनुथो द्रवन्ता । आयश्शर्य्याभिस्तुविनृम्णो अस्याश्श्रीणीता दिशं गभस्तात् 2 । सक्तुभिश्श्रीणाति । अनभिध्वंसयन्नात्मानमितरांश्च ग्रहान् पवित्रदशाभिः परिमृज्य । एष ते योनिः प्रजाः पाहि सादयति ।
आग्रयणं गृह्णाति । य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन् पात्र आनीय तां द्वितीयां धारां करोति । ये देवा दिव्येकादश स्थ पृथिव्या मध्येकादश स्थाप्सुषदो महिनैकादश स्थ ते देवा यज्ञमिमं जुषध्वमुपयामगृहीतोऽसि द्वाभ्यां धाराभ्यां गृहीत्वा । हिं हिं हिं त्रिर्हिङ्कृत्य वाचं विसृजते । सोमः पवते सोमः पवते सोमः पवते सुभूताय पवते ब्रह्मवर्चसाय पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्यै विशे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवतेऽस्मै सुन्वते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवते यथा देवेभ्योऽपवथा एवं मह्यं पवस्व त्रिरुद्वदति शनैरुच्चैरथ सूच्चैः । पवित्रदशाभिः परिमृज्य । एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः सादयति ।
त्रीनग्निष्टोमेऽतिग्राह्यान् गृह्णाति । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् । उपयामगृहीतोऽस्यग्नये त्वा तेजस्वते गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिरग्नये त्वा तेजस्वते सादयति ।
१. अनपस्फुरन्तीः इति पाठान्तरम् ।
२. मनोनयेषु हवनेषु जुह्वद्विपश्शच्या वनुथो द्रवन्त । आयाश्शंयाभिस्तुविनृम्णो अस्याश्श्रीणीतादिमं गभस्तात् । इति अ. ह. पाठः । दिवं गभस्तात् इति पाठान्तरम् ।
 
उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । सोममिन्द्र चमू सुतम् । उपयामगृहीतोऽसीन्द्राय त्वौजस्वते गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वौजस्वते सादयति ।
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वते गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिस्सूर्याय त्वा भ्राजस्वते सादयति ।
स्थाल्योक्थ्यं गृह्णाति । उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत्त इन्द्र बृहद्वयस्तस्मै त्वा विष्णवे त्वा गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वोक्थायुवे सादयति ।
ध्रुवस्थालीं पश्चिमेनोद्गातॄन् परिहृत्य मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृताय जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नापात्रं जनयन्त देवाः । उपयामगृहीतोऽस्यग्नये त्वा वैश्वानराय ध्रुवोऽसि ध्रुवक्षितिर्रुेववाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तमः पूर्णं गृहीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिरग्नये त्वा वैश्वानराय आयतने हिरण्ये सादयेत् । सादनादि ध्रुवस्य न यजमानो मूत्रं करोत्या अवनयनात् । अत्र धारा विरमति । पवमानग्रहाणामभिमर्शनम् :-
द्रोणकलशे प्रपीड्य पवित्रं निदधाति । एकधनानां यथार्थं सर्वाश्च मैत्रावरुणचमसीया आधवनीयेऽवनीय पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीय । उपयामगृहीतोऽसि प्रजापतये त्वा दोणकलशमभिमृशेत् । उपयामगृहीतोऽसीन्द्राय त्वा आधवनीयम् । उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यः पूतभृतम् । ते पवमानग्रहाः । अग्निर्होतेति पञ्चहोत्रा यजमानस्सर्वान् ग्रहानभिमृशति असंभवतां मन्त्रावृत्तिः ।
वैप्रुष होमः :-
अध्वर्युः - द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमञ्च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु सञ्चरन्तं द्रप्स जुहोम्यनु सप्त होत्रास्स्वाहा । इन्द्रायेदम् । यस्ते द्रप्सस्स्कन्दति यस्ते अꣳशुर्बाहुच्युतो धिषणयोरुपस्थात् । अध्वर्योर्वा परि यस्ते पवित्रात्स्वाहाकृतमिन्द्राय तं जुहोमि स्वाहा । इन्द्रायेदम् । यो द्रप्सो अꣳशुः पतितः पृथिव्यां परिवापात् पुरोडाशात् करम्भात् । धानासोमान्मन्थिन इन्द्र शुक्रात् स्वाहाकृतमिन्द्राय तं जुहोमि स्वाहा । इन्द्रायेदम् । यस्ते द्रप्सो मधुमाꣳ इन्द्रियावान् स्वाहाकृतः पुनरप्येतु देवान् । दिवः पृथिव्याः पर्यन्तरिक्षात् स्वाहाकृतमिन्द्राय तं जुहोमि स्वाहा । इन्द्रायेदम् । वैप्रुषान् होमान् जुहोति । सप्तहोतारं मनसानुद्रुत्य सग्रहं जुहोति । एवं ब्रह्मा यजमानश्च जुहोति 1। महाहविर्होता --- नमः पृथिव्यै स्वाहा । वाचस्पतये ब्रह्मण इदम् ।

बहिष्पवमान सर्पणम्

बहिष्पवमानार्थं सर्पणम् :-
उदञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजस्समन्वारब्धास्सर्पन्ति । अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः यजमानं प्रशास्ता । न्यङ्ङिव शीर्षाणि कृत्वा सर्पन्ति । पूर्वोऽध्वर्युर्बर्हिर्मुष्टिं धून्वन् सर्पति वागग्रेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान् पशुषु प्रजां मयि च यजमाने च । गायत्रः पन्था वसवो देवता वृकेणापरिपरेण पथा स्वस्ति वसूनशीय। चात्वालमवेक्षमाणास्स्तुवते । उत्तरे वा वेद्यंसेऽन्तर्वेद्युपविशन्ति। सर्वे युगपदुपविश्य विमुञ्चन्ति । अथाध्वर्युः स्तोत्रमुपाकरोति । वायुर्हिङ्कर्ताग्निः प्रस्तोता प्रजापतिस्साम बृहस्पतिरुद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणं मयि दधतु प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छति । अत्र चतुर्णामुपगातॄणां वरणं करोति । ब्रह्मन् स्तोष्याम इत्युक्ते ब्रह्मा - देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपात्साम्नस्सत्या व आशिषस्सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे इत्यनुद्रुत्य । रश्मिरसि क्षयाय त्वा क्षयं जिन्व इत्युपांशूक्त्वा । ओᳪ、 स्तुत इत्युच्चैरनुजानाति । यजमानः – वस्व्यै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुध्यै पुरस्तात् बहिष्पवमानाद्यजमानो जपति । दशहोतारं व्याचष्टे । चित्तिस्स्रुक् --- सामाध्वर्युः । स्तूयमाने च दशहोतारं जपति । अध्वर्युव्यतिरिक्ताश्चत्वार उपगातारो हो इत्युपगायेयुः । ओं इति यजमानः । हिन्वानो हेतृभिर्हितोम् इति मध्यमायां च स्तोत्रीयायां श्येनोऽसि गायत्रछन्दा अनु त्वारभे स्वस्ति मा संपारय अन्वारोहं जपति । स्तुतस्य स्तुतमस्यूर्जं मह्यᳪँ、 स्तुतं दुहामा मा स्तुतस्य स्तुतं गम्यादिन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् । सा मे सत्याशीर्देवेषु भूयाद्ब्रह्मवर्चसं मा गम्यात् । यज्ञो बभूव स आ बभूव स प्रजज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माꣳ अधिपतीन्करोतु वयᳪँ、 स्याम पतयो रयीणाम् स्तोत्रमनुमन्त्रयते । ब्रह्मा स्तुते पवमाने यथेतं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति सवनीयस्या वपाया होमादास्ते ।
अग्निविहरणं, निवपनं, व्याघारणं, व्याघारणशेषभक्षणं च :-
स्तुतेऽध्वर्युस्संप्रेष्यति अग्नीदग्नीन् विहर बर्हिस्तृणीहि पुरोडाशानलङ्कुरु प्रतिप्रस्थातः पशुनेहि । आग्नीध्राद्धिष्णियान् विहरति । अङ्गारैर्द्वे सवने शलाकाभिस्तृतीयम् । पांसुधिष्णियेषु निवपति ।
१. यजमानः सप्तहोतारमेव जुहुयात् न वैप्रुष होमान् इति केचित् । तत्तु वृत्तिकारेण खण्डितम् ।
तेनानुपूर्व्येण यथा न्युप्ता भवन्ति । अध्वर्युः प्रचरण्यामाज्यं पञ्चगृहीतं गृहीत्वा, द्रोणकलशाच्च परिप्लवया राजानं, पुरस्तात्प्रत्यङ्ङासीनो धिष्णियान् व्याघारयति तूष्णीम् 1 । परिप्लवया आहवनीयमाग्नीध्रीयं होत्रीयं सोमेन व्याघार्य । प्रचरण्या प्रशास्त्रीयं ब्राह्मणाच्छंसीयं पोत्रीयं नेष्ट्रीयमच्छावाकीयमाज्येन व्याघार्य । अन्ते मार्जालीयं सोमेन व्याघारयति । सर्वत्र प्रजापतय इदम् । सोमशेषं परिप्लवया सदसि पूर्ववत् प्रत्यङ्मुखो भक्षयति । भक्षेहि मा विश --- अव ख्येषम् । अग्नीदुपह्वयस्व मन्द्राभिभूतिः केतुर्यज्ञानां --- भक्षयामि । हिन्व मे गात्रा --- अति गाः । भक्षितस्य मार्जालीये प्रक्षाल्य
पुरोडाशानामलङ्करणं, पशोः आहरणं च :-
आग्नीध्रः कर्मणे वामिति हस्ताववनिज्य । यज्ञस्य सन्ततिरसि इति गार्हपत्यात् प्रक्रम्य सन्ततमनुपृष्ठ्यं बर्हिस्तृणात्याहवनीयात् 2 । पुरोडाशानलङ्करोति । देवो वस्सविता मध्वानक्तु धाना अनक्ति । यजमानः - तृप्तयस्स्थ गायत्रं छन्दस्तर्पयत मा तेजसा ब्रह्मवर्चसेन तृप्तयस्स्थ त्रैष्टुभं छन्दस्तर्पयतमौजसा वीर्येण तृप्तयस्स्थ जागतं छन्दस्तर्पयत मा प्रजया पशुभिः । करम्भादीनां देवस्त्वा सविता इति अलङ्करणम् ।
यजमानः – हविर्धानमेत्य विष्णो त्वन्नो अन्तमश्शर्म यच्छ सहन्त्य । प्र ते धारा मधुश्चुत उत्सं दुह्रते अक्षितम् सर्वं राजानमुपतिष्ठते । विष्णो त्वन्नो --- अक्षितम् इत्येतयैव अध्वर्युः पात्राणि संमृशति । असम्भवतां मन्त्रावृत्तिः ।
आश्विनं गृह्णाति या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम् । उपयामगृहीतोऽस्यश्विभ्यां त्वा द्रोणकलशात् परिप्लवया गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिर्माध्वीभ्यां त्वा सादयति ।
सवनीयपशोस्तन्त्रम् :-
देवस्य त्वेति यूपरशनामादायेत्याद्यग्नीषोमीयरशनामूर्ध्वमुत्कृष्य परिवीरसीति परिव्ययति । तमेव स्वरुमादाय मन्त्रेणावगूहनम् । आग्नेयं सवनीयं पशुमुपाकरोति । अग्नये त्वा जुष्टमुपाकरोमि । अग्नये त्वा जुष्टं नियुनज्मि । अग्नये त्वा जुष्टं प्रोक्षामि इत्यादि । समानमा प्रत्याश्रवणात् ।
सौमिकर्त्विजां वरणं, प्रवृतहोमश्च :-
दैवं च मानुषं च होतारौ वृत्वा 3। आश्रावमाश्रावमृतुप्रैषादिभिस्सौमिकान् ऋत्विजो वृणीते । इन्द्रं होत्रात् सजूर्दिव आ पृथिव्या इति अमुकशर्मा होतुर्नाम उपांशूक्त्वा मानुष इत्युच्चैः इति
१. यदि धिष्णियानां निवपनकाले मन्त्रेण उपस्थानमपि कृतं स्यात् तदा मंत्रेणैव व्याघारणं कुर्यात् । अन्यथा तूष्णीम्
२. अत्र दर्शपूर्णमासवत् दक्षिणामुत्तरां च नास्ति
३. पाशुकं मैत्रावरुणं च वृत्वा इति रुद्रदत्तपक्षः ।

होतारम् । एवं सर्वत्र । अपिसृज्य 1 तृणमस्फ्य उत्तरान् । अग्निमाग्नीध्रात् आग्नीध्रम् । अश्विनाध्वर्यू आध्वर्यवात् अमुकशर्माणौ मानुषौ इत्यध्वर्यू ।
अध्वर्युः – प्रवृतः प्रवृतहोमौ जुहोति । जुष्टो वाचो भूयासं जुष्टो वाचस्पतये देवि वाक् । यद्वाचो मधुमत्तस्मिन्माधास्स्वाहा सरस्वत्यै स्वाहा । वाचे सरस्वत्या इदम् । ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि स्वाहा । सरस्वत्या इदम् । एवं प्रतिप्रस्थाता जुहोति । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रात् मैत्रावरुणम् । इन्द्रो ब्रह्मा ब्राह्मणात् ब्राह्मणाच्छंसिनम् । मरुतः पोत्रात् पोतारम् । ग्नावो नेष्ट्रात् नेष्टारम् । अग्निर्दैवीनां विशां पुर एतायं सुन्वन् यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यं दीदयच्छतꣳ हिमा द्वायूराधांसीत्संपृञ्चानावसंपृञ्चानौ तन्वः 2 अमुकशर्मा मानुष इति यजमानम् । यजमानः – प्रवृतः जुष्टो वाचो --- सरस्वत्यै स्वाहा । वाचे सरस्वत्या इदम् । ऋचा स्तोमꣳ --- वर्तनि स्वाहा । सरस्वत्या इदम् । अध्वर्युः - घृतवति शब्दे जुहूपभृतावादायेत्यादि । प्राजहितात्पशुश्रपणमग्नीषोमीयवत् । अच्छिन्नो रायस्सुवीरोऽग्नये त्वा जुष्टामुत्कृन्तामि । अग्नये छागस्य वपाया मेदसोऽनुब्रू३हि । अग्नये छागस्य वपाया मेदसः प्रेष्य । जातवेदो वपया --- देवास्स्वाहा । अग्नय इदम् । अग्नेरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा ।
ग्रहाणामवेक्षणम् :-
वपामार्जनान्ते प्रातस्सवनाय सम्प्रसर्पन्ति । अध्वर्युब्रह्मयजमानाः प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते । द्वौ समुद्रौ विततावजूर्यौ पर्यावर्तेते जठरेऽव पादाः । तयोः पश्यन्तो अति यन्त्यन्यमपश्यन्तस्सेतु नाति यन्त्यन्यम् इति पूतभृताधवनीयाववेक्षन्ते । द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्यसितं वसानश्शुक्रमादत्ते अनुहाय जार्यै इति द्रोणकलशम् । परिभूरग्निं परिभूरिन्द्रं परिभूर्विश्वान् देवान् परिभूर्माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शमर्वते शꣳ राजन्नोषधीभ्योऽच्छिन्नस्य ते रयिपते सुवीर्यस्य रायस्पोषस्य ददितारस्स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य ते ब्रह्मवर्चसमुन्मृजे सर्वं राजानम् । प्राणाय मे वर्चोदा वर्चसे पवस्व उपांशुपात्रम् । अपानाय मे वर्चोदा वर्चसे पवस्व अन्तर्यामम् । व्यानाय मे वर्चोदा वर्चसे पवस्व उपांशुसवनम् । वाचे मे वर्चोदा वर्चसे पवस्व ऐन्द्रवायवम् । दक्षक्रतुभ्यां मे वर्चोदा वर्चसे पवस्व मैत्रावरुणम् । चक्षुर्भ्यां मे वर्चोदौ वर्चसे पवेथाम् शुक्रामन्थिनौ ।

१. अवसृज्य इति पाठान्तरम् ।
२. हिमा वायो राधांसीत् । इति अ, ह पाठः ।

श्रोत्राय मे वर्चोदा वर्चसे पवस्व आश्विनम् । आत्मने मे वर्चोदा वर्चसे पवस्व आग्रयणम् । अङ्गेभ्यो मे वर्चोदा वर्चसे पवस्व उक्थ्यम् । आयुषे मे वर्चोदा वर्चसे पवस्व ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्व आज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्व पृषदाज्यम् । पुष्ट्यै मे वर्चोदा वर्चसे पवध्वम् सर्वान् ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे पवेथाम् ऋतुपात्रे । तेजसे मे वर्चोदा वर्चसे पवस्व आग्नेयमतिग्राह्यम् । ओजसे मे वर्चोदा वर्चसे पवस्व ऐन्द्रम् । वर्चसे मे वर्चोदा वर्चसे पवस्व सौर्यम् । विष्णोर्जठरमसि वर्चोदा मे वर्चसे पवस्व द्रोणकलशम् । इन्द्रस्य जठरमसि वर्चोदा मे वर्चसे पवस्व आधवनीयम् । विश्वेषां देवानां जठरमसि वर्चोदा मे वर्चसे पवस्व पूतभृतम् । कोऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैस्सुवर्चा वर्चसा सुपोषः पोषैः आहवनीयम् । सोम त्वां वृणीमह उद्गातारं नृचक्षसं पारयाणस्स्वस्तये। विश्वेभ्यो मे रूपेभ्यो वर्चोदा वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य ते ब्रह्मवर्चसमुन्मृजे सर्वं राजानम् ।
यजमानेन ब्रह्मणा च शृतङ्कारैरुपस्थानम् :-
यजमानः – शृतङ्कारैस्सर्वान् ग्रहानुपतिष्ठते ब्रह्मा च । नाध्वर्युः । शृतौ स्थः प्राणपानौ मे श्रीणीतम् उपांश्वन्तर्यामौ । शृतोऽसि व्यानं मे श्रीणाहि उपांशुसवनम् । शृतोऽसि वाचं में श्रीणाहि ऐन्द्रवायवम् । शृतोऽसि दक्षऋतू मे श्रीणाहि मैत्रावरुणम् । शृतौ स्थश्चक्षुषी मे श्रीणीतम् शुक्रामन्थिनौ । शृतोऽसि श्रोत्रं मे श्रीणाहि आश्विनम् । शृतोऽस्यात्मानं मे श्रीणाहि आग्रयणम् । शृतोऽस्यङ्गानि मे श्रीणाहि उक्थ्यम् । शृतोऽस्यायुर्मे श्रीणाहि ध्रुवम् । शृतमसि तेजो मे श्रीणाहि आज्यानि । शृतमसि पशून्मे श्रीणाहि पृषदाज्यम् । शृतास्स्थ पुष्टिं मे श्रीणीत सर्वान् ग्रहान् । प्रजापतेर्जठरमसि शृतोऽसि स मा श्रीणाहि द्रोणकलशम् । इन्द्रस्य जठरमसि शृतोऽसि स मा श्रीणाहि आधवनीयम् । विश्वेषां देवानां जठरमसि शृतोऽसि स मा श्रीणाहि पूतभृतम् । शृतस्त्वꣳ शृतोऽहꣳ शृतो मे प्राणश्शृतो मेऽपानश्शृतो मे व्यानश्शृतं मे चक्षुश्शृतं मे श्रोत्रꣳ शृता में वाक् शृतो म आत्मा शृतं मे हविश्शृतो मे सोमश्शृता में ग्रहाः । इममिन्द्र सुतं पिब ज्यैष्ठ्यममर्त्यं 1 मदम् । शुक्रस्य त्वाभ्यक्षरं धारा ऋतस्य सादने । वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे । वृष्ण्यस्ते वृष्ण्यꣳ शवो वृषा वने
१. ज्येष्ठममर्त्यं इति पाठान्तरम् ।

वृषा मदे । स त्वं वृषन् वृषेदसि । अश्वो न चक्रदो वृषा 1 सं गा इन्दो समर्वतः 2 । वि नो राये दुरो वृधि सर्वं राजानम् ।
ब्रह्मा शृतङ्कारैरुपस्थाय उत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण प्रशास्तुर्धिष्णियं दक्षिणातिक्रम्योपविशति । यजमानः - अग्निः पवित्रꣳ स मा पुनातु आहवनीयम् । सोमः पवित्रꣳ स मा पुनातु राजानम् । सूर्यः पवित्रꣳ स मा पुनातु सूर्यम् । उपहूता गावः दक्षिणार्था गाः । उपहूतोऽहं गवाम् आत्मानम् । वेदिकरणान्युत्करे तूष्णीं परास्याप उपस्पृश्य । स्फ्यस्स्वस्तिर्विघनस्स्वस्तिः पर्शुर्वेदिः परशुर्नस्स्वस्तिः । यज्ञिया यज्ञकृतस्स्थ ते माऽस्मिन् यज्ञ उपह्वयध्वम् वेदिकरणान्युपतिष्ठते । उप मा द्यावापृथिवी ह्वयेताम् द्यावापृथिवी उपतिष्ठते । उपास्तावो ह्वयताम् बहिष्पवमानास्तावम् । कलशो ह्वयताम् द्रोणकलशम् । सोमो ह्वयताम् राजानम् । अग्निर्ह्वयताम् 3 आहवनीयम् । उप देवा ह्वयन्ताम् यक्ष्यमाणान् देवान् । उप यज्ञो ह्वयताम् वर्तमानं यज्ञम् । उप मा होत्रा उपहवे ह्वयन्ताम् सदसि गतान् होत्रकान् । नमोऽग्नये मखघ्ने मखस्य मा यशोऽर्यात् आहवनीयम् । नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि आग्नीध्रीयम् । नम इन्द्राय मखघ्न इन्द्रियं मे वीर्यं मा निर्वधीः होत्रीयम् । दृढे स्थश्शिथिरे समीची माꣳहसस्पातम् द्यावापृथिवी । सूर्यो मा देवो दिव्यादꣳहसस्पातु सूर्यम् । वायुरन्तरिक्षात्पातु वायुम् । अग्निः पृथिव्याः पातु अग्निम् । यमः पितृभ्यः पातु यमम् 4 । सरस्वती मनुष्येभ्यः पातु सरस्वतीम् । देवी द्वारौ मा मा सन्ताप्तं पातम् द्वार्ये । द्रष्ट्रे नमः प्रस्रप्स्यन् जपति । उपद्रष्ट्रे नमः प्रसृप्य । अपरेण ब्रह्मसदनं यजमानायतनं पूर्वेण वा । नमस्सदसे सदः । नमस्सदसस्पतये ब्रह्माणम् । नमस्सखीनां पुरोगाणां चक्षुषे ऋत्विजः । नमो दिवे नमः पृथिव्यै द्यावापृथिवी उपस्थाय । अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतरः आयतनात् तृणं निरस्याप उपस्पृश्य । उन्निवत उदुद्वतश्च गेषम् उपविशति । पातं मा द्यावापृथिवी अद्याह्नः उपविश्य जपति । उत्थाय आगन्त पितरः पितृमानहं युष्माभिर्भूयासꣳ सुप्रजसो मया यूयं भूयास्त प्राचीनावीती दक्षिणार्धं परेक्षते । यज्ञोपवीत्यप उपस्पृश्य । उभावेतानि जपतोऽध्वर्युर्यजमानश्च अपि वा यजमान एव ।
१. अस्मद्ग्रामीणस्य ४८५ तमक्रमाङ्कस्य नूतनहस्तप्रतौ वृषेदस्यश्वो न चक्रदो इति सन्धिपाठो अस्ति । अस्मद्ग्रामीणस्यैव ४२७ तमक्रमांकस्य पुरातनहस्तप्रतौ तु अस्माभिरधीयमानः पाठः अस्ति।
२. सङ्गायन्तो समर्वतः इति पाठान्तरम् ।
. कलशसोमानीनां मन्त्रेष्वपि उपशब्दो अनुषज्यते इति रुद्रदत्तः।
४. वायुदिशं अग्निदिशं यमदिशं इति द्रा. प्र । अग्निः पृथिव्याः पातु आहवनीयं इति आ. ह. पाठः ।

सवनीयपुरोडाशानामासादनमभिमर्शनम् :-
अत्र प्रतिप्रस्थाता सवनीयानासादयति प्रियेण नाम्ना प्रियꣳ सद आसीद । उत्करे वाजिनम् । यजमानः – यज्ञोऽसि इति लाजानाभिमृश्य इदमिन्द्रियं --- श्रयताम् । यत्पृथिवी --- पयस्या मां धिनोतु । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय -- अपतमिन्द्रो हरिवान् भुवनान्नुदताम् धानाः । यो नः कनीयः --- अपतमिन्द्रः पूषण्वान् भुवनान्नुदताम् करम्भम् । यो नः कनीयः - -- अपतमिन्द्रो भुवनान्नुदताम् पुरोडाशम् । ममाग्ने पञ्चहोत्रा चाभिमृश्य । पुनः पञ्चहोता । सवनीयपुरोडाशानां प्रचारः :-
अध्वर्युः - जुह्वामुपस्तीर्य । सर्वेषां पुरोडाशानां जुह्वां दैवतानि समवद्यत्युपभृति सौविष्टकृतानि । मा भैष्ट मा संविग्ध्वं मा वो हिꣳसिषं मा वस्तेजोपक्रमीत् । भरतमुद्धरतेमनुषिञ्चतावदानानि वः 1 प्रत्यवदास्यामि नमो वोऽस्तु मा मा हिꣳसिष्ट इति धानानामवदानम् । करम्भादीनां प्रकृतिवदवदानम् । यदवदानानि वोऽवद्यन् विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तद्व आ प्यायतां पुनः इति धानाः प्रत्यभिघारयति । अन्येष्वनूहः । स्विष्टकृदर्थं उपभृत्युपस्तीर्य प्रकृतिवदवदायाभिघार्य । प्रातः प्रातस्सावस्येन्द्राय पुरोडाशानामनुब्रू३हि । प्रातः प्रातस्सावस्येन्द्राय पुरोडाशानां प्रे३क्ष्य इति संप्रेषौ । वषट्कृते जुहोति । इन्द्रायेदम् । इन्द्रस्याहं देवयज्ययेन्द्रियाव्यन्नाद इन्द्रियाव्यन्नादोऽन्नाद इन्द्रियाव्यन्नाद इन्द्रियावी भूयासम् । जेमानं महिमानम् इति महेन्द्रयाजिनः । उपर्याहवनीये जुह्वामौपभृतानि विपर्यस्यन्नाह अग्नयेऽनुब्रू३हि । अग्नये प्रे३क्ष्य । अग्नय इदम् । अग्नेरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रत्याक्रम्य प्रस्तरादन्यत्र स्रुचोस्सादनम् । प्राशित्रमवदाय यूपाहवनीययोरन्तरा हृत्वा दक्षिणेन हविर्धानं गत्वा सदः प्रविश्य ब्रह्मणे प्रयच्छति । ब्रह्मा तत्पूर्ववद्भक्षयति । अध्वर्युः - यथेतं प्रत्येत्य इडां, न यजमानभागम् ।
द्विदेवत्यग्रहप्रचारः :-
होत्रे इडां हृत्वा हविर्धानं गच्छन् संप्रेष्यति । वायव इन्द्रवायुभ्यामनुब्रू३हि । प्रतिप्रस्थाता उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा ऋतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि आदित्यपात्रेण द्रोणकलशादैन्द्रवायवस्य प्रतिनिग्राह्यं परिप्लवया गृहीत्वा पवित्रदशाभिः परिमृज्य न सादयति । ऐन्द्रवायवमादायाध्वर्युः, द्रोणकलशाच्च परिप्लवया राजानं, उभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिणं परिधिसन्धिमन्ववहृत्य । अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव सोम स्वाहा परिप्लवयाघारमृजुं सन्ततमाघारयति । ओषधि-
१. भरतमुद्धरेमनुषिंचावदानानि वः इति पाठान्तरम् ।

पशुजनविश्वेभ्यो भूतेभ्य इदम् । आश्राव्य प्रत्याश्राविते वायव इन्द्रवायुभ्यां प्रेक्ष्य । प्रथमवषट्कारेऽध्वर्युस्सावशेषं जुहोति । वायव इदम् । द्वितीयवषट्कारे सावशेषेणोभौ जुहुतः । इन्द्रवायुभ्यामिदम् । भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहि आदित्यं यजमान उपतिष्ठते । अथाध्वर्योः पात्रे प्रतिप्रस्थाता सम्पातमवनयति । अध्वर्युः प्रतिप्रस्थातुः । देवेभ्यस्त्वा आदित्यपात्रेण प्रतिप्रस्थातादित्यस्थाल्यां सम्पातमवनयति । ग्रहमध्वर्युरादाय क्षिप्रं होतारमनुद्रुत्य । मयि वसुः पुरोवसुर्वाक्पा वाचं मे पाहि ग्रहं होत्रे प्रयच्छति । होतारमुपहूय परिप्लवास्थ व्याघारणशेषं भक्षेहीत्यादिना भक्षयित्वा । मार्जालीये प्रक्षाल्य हविर्धानं गच्छन् सम्प्रेष्यति । मित्रावरुणाभ्यामनुब्रू३हि । प्रतिप्रस्थाता उपयामगृहीतोऽस्यृतसदसि चक्षुष्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि पूर्ववन्मैत्रावरुणस्य प्रतिनिग्राह्यं गृहीत्वा पवित्रदशाभिः परिमृज्य न सादयति । मैत्रावरुणमादायाध्वर्युरुभौ निष्क्रम्याश्राव्य प्रत्याश्राविते सम्प्रेष्यत्यध्वर्युः मित्रावरुणाभ्यां प्रे३ष्य । वषट्कृते सावशेषेणोभौ जुहुतः । मित्रावरुणाभ्यामिदम् । धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहि आदित्यं यजमान उपतिष्ठते । पूर्ववत्सम्पातावनयनम् । विश्वदेवेभ्यस्त्वा आदित्यपात्रेणादित्यस्थाल्यां सम्पातमवनयति । अध्वर्युः - होतारमनुद्रुत्य मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहि ग्रहं होने प्रयच्छति । हविर्धानं गच्छन् संप्रेष्यति । अश्विभ्यामनुब्रू३हि । प्रतिप्रस्थाता उपयामगृहीतोऽसि श्रुतसदसि श्रोत्रपाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि आश्विनस्य प्रतिनिग्राह्यं गृहीत्वा पवित्रदशाभिः परिमृज्य न सादयति । आश्विनमादायोभौ निष्क्रम्याश्राव्य प्रत्याश्राविते सम्प्रेष्यति । अश्विभ्यां प्रेष्य । वषट्कृते सावशेषेणोभौ जुहुतः । अश्विभ्यामिदम् । विभूरसि श्रेष्ठो रश्मीनां व्यानपा व्यानं मे पाहि आदित्यं यजमान उपतिष्ठते । पूर्ववत् सम्पातावनयनम् । विश्वेभ्यस्त्वा देवेभ्यः आदित्यपात्रेण आदित्यस्थाल्यां प्रतिप्रस्थाता सम्पातमवनीय विष्णवुरुक्रमैष ते सोमस्तꣳ रक्षस्व तं ते दुश्चक्षा मावख्यत् आदित्यपात्रेणादित्यस्थालीमपिदधाति । अध्वर्युः – होतारमनुद्रुत्य मयि वसुस्संयद्वसुश्श्रोत्रपाश्श्रोत्रं मे पाहि आश्विनं होत्रे प्रदाय हविर्धानं गच्छन् सम्प्रेष्यति ।
शुक्रामन्थिग्रहप्रचारः :-
1उन्नीयमानेभ्योऽनुब्रू३हि । उन्नेताच्छावाकचमसवर्जं होतृचमसमुख्यान्नवचमसान् खरे एवोन्नयति । द्रोणकलशात् परिप्लवयादायोपस्तीर्य पूतभृत उदचनेनादायोन्नीय परिप्लवया द्रोणकलशादभिधारयति । सर्वचमसानामेष एव कल्पः । ततश्शुक्रामन्थिभ्यां प्रचरतः । स्तुतोऽसि जनधाः । देवास्त्वा शुक्रपाः प्रणयन्तु शुक्रमध्वर्युरादत्ते । स्तुतोऽसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु मन्थिनं
१. चतुर्णां वरणपक्षे अत्र दशचमसाध्वर्यून् वृणीते ।

प्रतिप्रस्थाता । चमसांश्चमसाध्वर्यवः । तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात् पांसूनपध्वंसयतः । अपनुत्तश्शण्डस्सह पाप्मना अध्वर्युः । अपनुत्तो मर्कस्सह पाप्मना प्रतिप्रस्थाता । तावपिगृह्य प्राञ्चौ निष्क्रामतः । उर्वन्तरिक्षमन्विहि द्विः अभिप्रव्रजतः । इन्द्रेण मन्युना युजावबाधे पृतन्यता । घ्नता वृत्राण्यप्रति शुक्रं यजमानोऽन्वारभत आ होमात् । अपरेणोत्तरवेदिं ग्रहावरत्नी वा सन्धत्तः । ब्रह्म सन्धत्तं तन्मे जिन्वतम् । क्षत्रꣳ सन्धत्तं तन्मे जिन्वतम् । इषꣳ सन्धत्तं तां मे जिन्वतम् । ऊर्जꣳ सन्धत्तं तां मे जिन्वतम् । रयिꣳ सन्धत्तं तां मे जिन्वतम् । पुष्टिꣳ सन्धत्तं तां मे जिन्वतम् । प्रजाꣳ सन्धत्तं तां मे जिन्वतम् । पशून् सन्धत्तं तान्मे जिन्वतम् । अनाधृष्टासि पादांगुष्ठाभ्यां उत्तरवेदिमवगृह्य । व्यपरिफन्ताविवोत्तरवेदिं 1 परिक्रामतः । सुवीराः प्रजाः प्रजनयन्परीहि शुक्रश्शुक्रशोचिषा दक्षिणेनाध्वर्युः प्रतिपद्यते । सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषा उत्तरेण प्रतिप्रस्थाता । अग्रेणोत्तरवेदिं ग्रहावरत्नी वा सन्धत्तः । सञ्जग्मानौ दिव आ पृथिव्यायुः । सन्धत्तं तन्मे जिन्वतम् । प्राणꣳ सन्धत्तं तं मे जिन्वतम् । अपानꣳ सन्धत्तं तं मे जिन्वतम् । व्यानꣳ सन्धत्तं तं मे जिन्वतम् । चक्षुस्सन्धत्तं तन्मे जिन्वतम् । श्रोत्रꣳ सन्धत्तं तन्मे जिन्वतम् । मनस्सन्धत्तं तन्मे जिन्वतम । वाचꣳ सन्धत्तं तां मे जिन्वतम् । अथैनावध्वर्युरभिमन्त्रयते आयुस्स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् । आयुर्यज्ञपतये धत्तम् । प्राणस्स्थः प्राणं मे धत्तम् । प्राणं यज्ञाय धत्तम् । प्राणं यज्ञपतये धत्तम् । चक्षुस्स्थश्चक्षुर्मे धत्तम् । चक्षुर्यज्ञाय धत्तम् । चक्षुर्यज्ञपतये धत्तम् । श्रोत्रᳪँ、 स्थश्श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् । तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः । कल्पयतं मानुषीः । इषमूर्जमस्मासु धत्तम् । प्राणान्पशुषु । प्रजां मयि च यजमाने च । अप्रोक्षितौ शकलौ बहिर्वेदि निरस्यतः । अध्वर्युः - निरस्तश्शण्डस्सह पाप्मना । प्रतिप्रस्थाता – निरस्तो मर्कस्सह पाप्मना । अप उपस्पृशतः । प्रोक्षितौ शकलावाधत्तः । अध्वर्युः - शुक्रस्य समिदसि । प्रतिप्रस्थाता - मन्थिनस्समिदसि । आश्राव्य प्रत्याश्राविते संप्रेष्यति । प्रातः प्रातस्सावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान् प्रस्थितान् प्रेष्य मध्यतः कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृतान् जुहुत होत्रकाणां चमसाध्वर्यवस्सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वम् । ततस्सम्प्रैषवत् कुर्वन्ति । शुक्रामन्थिनोः प्रतिनिगद्य होमः । स प्रथमस्सङ्कृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वान् तस्मा इन्द्राय सुतमा जुहोमि स्वाहा अध्वर्युर्जुहोति । स प्रथमस्सङ्कृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः । स १. विलिखन्ताविवोत्तरवेदिम्।

प्रथमो बृहस्पतिश्चिकित्वान् । तस्मै सूर्याय सुतमा जुहोमि स्वाहा प्रतिप्रस्थाता जुहोति । पुरस्तात्प्रत्यञ्चौ अध्वर्यू जुहुतः पश्चात्प्राञ्चश्चमसैश्चमसाध्वर्यवो जुह्वति । इन्द्राय परमात्मन इदम् । अनुवषट्कारे अग्नये स्विष्टकृत इदम् । होतृब्रह्मोद्गातृयजमानसदस्यचमसानां ग्रहयोश्च वषट्कारेऽनुवषट्कारे च सशेषहोमः । इतरचमसानां प्रथमवषट्कारे एव सशेषहोमः । नानुवषट्कारे 1। अध्वर्युः – सूदवत् 2 शुक्रपात्रमायतने सादयति । प्रतिप्रस्थाता उत्तरार्धात् बहिः परिध्यङ्गारान्निर्वर्त्य तस्मिन्मन्थिनस्संस्रावं जुहोति एष ते रुद्र भागो यन्निरयाचथास्तं जुषस्व विदेर्गौपत्यꣳ रायस्पोषꣳ सुवीर्यꣳ संवत्सरीणाᳪ、 स्वस्तिᳪँ、 स्वाहा । रुद्राय वास्तोष्पतय इदम् । अप उपस्पृश्य । ततस्संप्रेष्यति प्रैतु होतुश्चमसः प्र. ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्य ।
होत्रकाणां चमसप्रचारः :-
अथ होत्राः संयाजयन्ति । तस्मै चमसाध्वर्यवः स्वं स्वं चमसं द्रोणकलशादभ्युन्नीय हरन्ति । मैत्रावरुणचमसमादायाहवनीयं गत्वा आश्राव्य प्रत्याश्राविते संप्रेष्यति प्रशास्तर्यज । वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् । एवमुत्तरैः प्रचरति । ब्रह्मन्यज इति द्वितीये । पोतर्यज इति तृतीये । नेष्टर्यज इति चतुर्थे । अग्नीद्यज इति पञ्चमे । सर्वत्रानुवषट्कारः । मित्रवरुणाभ्यामिदम् । इन्द्रायेदम् । मरुद्भ्य इदम् । अग्नये पात्नीवते त्वष्ट्र इदम् । अग्नय इदम् । मैत्रावरुणादीनां क्रमेण देवताः । अनुवषट्कारे सर्वत्राग्नये स्विष्टकृत इदम् ।
द्विदेवत्यग्रहभक्षणम् :-
आग्नीध्रचमसमादाय सद एत्य अयाङग्नीत् इत्याह । स भद्रमकर्यो नस्सोमं पाययिष्यति इतरे प्रत्याहुः । तत्र श्लोकः
होत्रा भक्षितमध्वर्युः पीत्वा संपातमानयेत् ।
अध्वर्युभ्यामुपस्पृष्टं पिबेद्धोतोपहूय तौ ॥
अथाध्वर्युरितराभ्यामुपहूतस्तु भक्षयेत् ।
स्थातोपहूय तौ पीत्वा सर्वं संपातमानयेत् ॥
ऐन्द्रवायवभक्षस्य द्वितीयेन समो मतः ।
उत्तरग्रहयोर्भक्षस्संपातश्च यथा भवेत् ॥
अथ द्विदेवत्यानां भक्षणम् । होत्रा दत्तमैन्द्रवायवमन्वारभ्य अध्वर्यो उपह्वयस्वे त्युक्तः उपहूत इति प्रब्रूयात् सर्वत्र । भक्षेहि मा विश दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वायेहि
१. होमः इति शेषः । २. सशेषम् ।

वसो पुरोवसो प्रियो मे हृदोऽसि भक्षमाह्रियमाणं प्रतीक्षते । अश्विनोस्त्वा बाहुभ्याꣳ सघ्यासम् तं प्रतिगृह्य । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् अवेक्ष्य । होतरुपह्वयस्व । होत्रा उपहूतः इत्युक्तः पुरस्तात् स्थापयित्वा । प्राणेषूपनिग्राहं वाग्जुषाणा सोमस्य तृप्यतु भक्षयित्वा । हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषः । शिवो मे सप्तऋषीनुप तिष्ठस्व मा मेऽवाङ्नाभिमति गाः नाभिदेशमभिमृशति । होतृचमसे किञ्चिदवनयति । प्रतिप्रस्थातान्वारभते । पुनर्होत्रा भक्षिते अध्वर्युः प्रतिप्रस्थाता च उपहूय पूर्ववद्भक्षयित्वा होतृचमसे सर्वमवनीयोत्सृजेत् पात्रम् । मैत्रावरुणमध्वर्युः प्रतिप्रस्थाता च अन्वारभेते । होत्रा भक्षिते भक्षेहीत्यादि । होतरुपह्वयस्व प्रतिप्रस्थातरुपह्वयस्वेत्युक्त्वा । पुरस्तात् स्थापयित्वा चक्षुषोरुपनिग्राहं भक्षयति । एवं प्रतिप्रस्थाता भक्षयति । होतृचमसे सर्वमवनीयोत्सृजेत् पात्रम् । आश्विनमन्वारभ्य होत्रा भक्षिते भक्षेहीत्यादि । पूर्ववदुपहूय आत्मानं प्रादक्षिण्येन सर्वतः परिहृत्य श्रोत्रयोरुपनिग्राहं भक्षयति । एवं प्रतिप्रस्थाता भक्षयति । होतृचमसे सर्वमवनीयोत्सृजेत् पात्रम् । हविश्शेषादाहृत्य पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति । पयस्यां मैत्रावरुणस्य । धाना आश्विनस्य । तानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्यां सादयति आ तृतीयसवनात् परिशेरे यज्ञस्य सन्तत्या इति विज्ञायते ।
पर्वाञ्जनादीडोपाह्वानम् । उपोद्यच्छन्ते चमसांश्चमसिनः । होतृचमसमिडायामास्पृष्टम् । उपहूतां प्राश्नन्ति ये प्रकृतौ 1। पुरोडाशशकलमिडातोऽच्छावाकाय निदधाति । मार्जनान्ते लाजानां त्रेधाकरणम् 2 । ब्रध्न पिन्वस्वेत्यादि । आग्नीध्रे हविश्शेषान् भक्षयन्ति । वषट्कारेण होता भक्षं लभते । होमाभिषवाभ्यामध्वर्युर्नान्यतरेण । समाख्यानेनापि भक्षं लभते । भक्षणप्रापिका । सर्वान् चमसान् होता अग्रे सशेषं सकृद्भक्षयति मध्यतःकारिणां द्विः । होत्रकास्स्वंस्वं चमसं द्विर्भक्षयन्ति । तानध्वर्युस्तं तमुपहूय प्रतिभक्षयति । होतृब्रह्मोद्गातृयजमानसदस्याः मध्यतःकारिण इत्यर्थः । ततस्समाख्याभक्षणम् । ब्रह्मयजमानौ भक्षेहीत्यादि । चमसिन उपह्वयध्वमित्युक्त्वा वाग्जुषाणेति स्वंस्वं चमसं भक्षयित्वा हिन्व म इति नाभ्यभिमर्शनं कृत्वा । आ प्यायस्व समेतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य सङ्गथे वसतीवरीजलेन चमसाप्यायनं कुरुतः । भक्षिताप्यायितान् सादयन्ति । दक्षिणस्य हविर्धानस्याधस्तादवालम्बे 3। ते नाराशंसा भवन्ति । द्विनाराशंसे पूर्वसवने भवतः । एकनाराशंसं तृतीयसवनम् ।
उपविशत्यच्छावाको बहिस्सदसोऽग्रेण स्वं धिष्णियम् । पत्नी वसुभ्यो रुद्रेभ्य इत्यपरेण नेष्ट्रीयं
१. यजमानपञ्चमाः इत्यर्थः ।
२. चतुर्धाकरणमिति अस्मद्ग्रामीणपाठः । द्राविडप्रयोगे लाजानां त्रेधाकरणं चतुर्धाकरणं द्वयमपि नास्ति ।
३. पश्चिमे भागे।

प्रत्यङ्तिष्ठन्ती पन्नेजनीस्सादयति । तस्मै पूर्वनिहितं पुरोडाशशकलमादधदाहाध्वर्युः अच्छावाक वदस्व यत्ते वाद्यम् । यदास्य विजानात्युपो अस्मान्ब्राह्मणान् ब्राह्मणा ह्वयध्वमिति अथैनं होत्रे आवेदयति । अच्छावाको वा अयमुपहवमिच्छते तꣳ होतरुपह्वयस्व इति । उत नो गाव उपहूता उपहूतेति होतुरभिज्ञाय उन्नीयमानायानुब्रूह्यच्छावाकस्य चमसाध्वर्यो उन्नयस्वोभयतश्शुक्रं कुरुष्व इति संप्रेष्यति । खरे एव अच्छावाकचमसमुन्नयति । पूर्ववत्तमादायाहवनीयं गत्वाऽऽश्राव्य प्रत्याश्राविते । अच्छावाक यज इति संप्रेष्यति । वषटकृतानुवषट्कृते जुहोति । इन्द्राग्निभ्यामिदम् । अग्नये स्विष्टकृत इदम् । तेन न संभक्षयति । अध्वर्यो उपह्वयस्वेत्युक्ते भक्षयेत्येनं ब्रूयात् । तेन भक्षिते तं चमसं सदसि होतारमुपहूय भक्षयित्वा भक्षिताप्यायितमन्तरा नेष्टुराग्नीध्रस्य चमसौ सादयित्वा ।
ऋतुग्रहप्रचारः :-
ऋतुग्रहैः प्रचरतः । द्रोणकलशाद्गृह्यन्ते न साद्यन्ते । पूर्वेषां शेषेषूत्तरानभिगृह्णीतः । पूर्वोऽध्वर्युर्गृह्णाति । जघन्यः प्रतिप्रस्थाता । सह प्रथमौ गृह्येते सहोत्तमौ । उपयामगृहीतोऽसि मधुश्च अध्वर्युः परिप्लवया गृह्णाति । उपयामगृहीतोऽसि माधवश्च प्रतिप्रस्थाता पात्रान्तरेण गृह्णाति । पवित्रदशाभिः परिमृज्य उभौ निष्क्रामतः । अध्वर्युः - आश्राव्य प्रत्याश्राविते संप्रेष्यति ऋतुना प्रेष्य । वषट्कृते जुहोति । सावशेषं सर्वत्र । इन्द्राय मधव इदम् । प्रतिप्रस्थाताध्वर्युं प्रविशन्तं स्वयमुत्तरतो द्वारि तिष्ठन् दक्षिणस्थेन ग्रहेण परिगृह्णात्येवमेव निष्क्रामन्तं पात्रेण । अध्वर्युर्मध्ये प्रविशति निष्क्रामति च । प्रतिप्रस्थाता निष्क्रम्य आश्राव्य प्रत्याश्राविते संप्रेष्यति ऋतुना प्रेष्य । वषट्कृते जुहोति सावशेषम् । पूर्ववद्द्वारि तिष्ठति । मरुद्भ्यो माधवायेदम् । अध्वर्युः - उपयामगृहीतोऽसि शुक्रश्च गृहीत्वा पवित्रदशाभिः परिमृज्य निष्क्रामति । ऋतुना प्रेष्य वषट्कृते जुहोति । त्वष्ट्रे शुक्रायेदम् । प्रतिप्रस्थाता उपयामगृहीतोऽसि शुचिश्च गृहीत्वा पवित्रदशाभिः परिमृज्य द्वारि तिष्ठति । अध्वर्युः प्रविशति । प्रतिप्रस्थाता निष्क्रम्य ऋतुना प्रेष्य वषट्कृते जुहोति । अग्नये शुचय इदम् । अध्वर्युः - उपयामगृहीतोऽसि नभश्च गृहीत्वा । ऋतुना प्रेष्य । इन्द्राय नभस इदम् । प्रतिप्रस्थाता – उपयामगृहीतोऽसि नभस्यश्च गृहीत्वा । ऋतुना प्रेष्य। मित्रावरुणाभ्यां नभस्यायेदम् ।
पात्रयोर्मुखे पर्यावृत्य । अध्वर्युः - उपयामगृहीतोऽसीषश्च गृहीत्वा । ऋतुभिः प्रेष्य । देवाय द्रविणोदस इषायेदम् । प्रतिप्रस्थाता - उपयामगृहीतोऽस्यूर्जश्च गृहीत्वा । ऋतुभिः प्रेष्य । देवाय द्रविणोदसे ऊर्जायेदम् । अध्वर्युः - उपयामगृहीतोऽसि सहश्च गृहीत्वा । ऋतुभिः प्रेष्य । देवाय द्रविणोदसे सहस इदम् । प्रतिप्रस्थाता - उपयामगृहीतोऽसि सहस्यश्च गृहीत्वा । ऋतुभिः प्रेष्य । देवाय द्रविणोदसे सहस्यायेदम् । पुनः पात्रयोर्मुखे पर्यावृत्य । अध्वर्युः - उपयामगृहीतोऽसि तपश्च

। प्रतिप्रस्थाता - उपयामगृहीतोऽसि तपस्यश्च । सहोत्तमौ गृह्यते । प्रतिप्रस्थाता द्वारि तिष्ठति । अध्वर्युः ऋतुना प्रेष्य । अध्वर्यू यजतमित्यभिज्ञाय होतरेतद्यजेत्याह । एवं गृहपतिस्स्वे प्रैषान्ते । अश्विभ्यां तपायेदम् । प्रतिप्रस्थाता – ऋतुना प्रेष्य। अग्नये गृहपतये तपस्यायेदम् । द्वादशत्रयोदशचतुर्दश वा गृह्यन्ते ।
इन्द्रस्तु मरुतस्त्वष्टा अग्निरिन्द्रस्तु पञ्चमः ।
स्यान्मित्रावरुणौ षष्ठे द्रविणोदाश्चतुर्ष्वथ ।।
अश्विनावग्निगृहपौ मध्वाद्याश्चर्तवः क्रमात् ।
त्रयोदशग्रहणपक्षे । उपयामगृहीतोऽसि सꣳसर्पोऽस्यꣳहस्पत्याय त्वा अध्वर्युः प्रतिप्रस्थात्रा सह गृह्णाति । प्रतिप्रस्थातैवाश्राव्य प्रत्याश्राविते संप्रेष्यति ऋतुना प्रेष्य । उभौ जुहुतः । अग्नये गृहपतये तपस्याय सꣳसर्पायाꣳहस्पत्यायेदम् । प्रत्याक्रम्य अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति । अध्वर्युः प्रतिप्रस्थातुः ।
ऐन्द्राग्नग्रहग्रहणं, ऋतुग्रहभक्षणं च :-
अभक्षितेन पात्रेणाध्वर्युरैन्द्राग्नं गृह्णाति । इन्द्राग्नी आगतꣳ सुतं गीर्भिर्नभो वरेण्यम् । अस्य पाथं धियेषिता । उपयामगृहीतोसीन्द्राग्निभ्यां त्वा द्रोणकलशात् परिप्लवया गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राग्निभ्यां त्वा सादयति । प्रतिप्रस्थाता हरति भक्षम् । उभावध्वर्यू यथावषट्कृतं भक्षयतः । हो पो नेऽग्नीत् ब्र प्र हो पो नेऽच्छा हो हो होतृकाणां आद्यक्षराणि, तेन क्रमेण तैस्सह भक्षयतः । होतुरध्वर्युणा सह भक्षोपाह्वाने पोतृप्रतिप्रस्थात्रोर्व्यत्यासः । अपरं येन येन मुखेन होमः, तत्र तेनैव मुखेन भक्षणम् । सर्वेषां सोमपात्राणां भक्षितानां मार्जालीये प्रक्षालनम् ।
आज्यशस्त्रम् :-
एतत्पात्रमादायाध्वर्युस्सदोबिले प्राङ्मुख उपविश्य इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि शꣳसिषद्विश्वे देवास्सूक्तवाचः पृथिवि मातर्मा मा हिꣳसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासꣳ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनु मदन्तु शस्त्रं प्रतिगरिष्यन् जपति । शों सावोमिति होतुरभिज्ञाय प्रदक्षिणमावर्तमानः शोंसामोदैव इति प्रत्याह्वयते । ऋतुपात्रं धारयमाणस्सदोबिले प्रत्यङ् तिष्ठन् प्रतिगृणाति ।
ओथामोदैवों इति त्रिरुपांशु तूष्णीं शंसने । ओथामोदैव इत्यवसानेषु । ओ३थामोदैव इति प्रणवेषु । ओं शोंसामोदैव इत्याहावेषु । प्रणव एव अन्ते । यजमानः - शस्त्रस्य शस्त्रमस्यूर्जं मह्यꣳ शस्त्रं दुहा मा मा शस्त्रस्य शस्त्रं गम्यादिन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् । सा

मे सत्याशीर्देवेषु भूयाद्ब्रह्मवर्चसं मा गम्यात् । यज्ञो बभूव स आ बभूव स प्रजज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माꣳ अधिपतीन्करोतु वयᳪँ、 स्याम पतयो रयीणाम् शस्त्रमनुमन्त्रयते । अध्वर्युः – ऋतुपात्रमायतने सादयित्वा शस्त्रप्रायश्चित्तं करोति । अग्नये पथिकृते स्वाहा द्विः । अग्नये पथिकृत इदम् । त्वन्नो अग्ने --- मुमुग्ध्यस्मत्स्वाहा ॥ स त्वं नो अग्ने--- न एधि स्वाहा ॥ त्वमग्ने अयासि --- भेषजᳪँ、 स्वाहा ॥ प्रजापते --- रयीणाᳪ、 स्वाहा ।। व्याहृतीभिर्विहृताभिस्समस्ताभिश्च हुत्वा ऐन्द्राग्नग्रहमादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते सम्प्रेष्यति उक्थशा यज सोमस्य । वषट्कृतानुवषट्कृते जुहोति । अनुप्रकम्पयन्ति नाराशंसान् वषट्कारानुवषट्कारौ । यजमानः इन्द्राग्निभ्यामिदम् । ऊमेभ्यः पितृभ्य इदम् । अग्नये स्विष्टकृत इदम् । भक्षान् हरन्ति । होतुर्भक्षणानन्तरं पूर्ववद्भक्षयति । नाराशंसान् पूर्ववत् भक्षिताप्यायितान् सादयन्ति । अध्वर्युः प्रक्षालितमृतुपात्रमायतने सादयित्वा ।
वैश्वदेवस्तोत्रं, शस्त्रं च :-
वैश्वदेवं शुक्रपात्रेण गृह्णाति ओमासश्चर्षणीधृतो विश्वे देवास आगत । दाश्वाꣳसो दाशुषस्सुतम् । उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यः गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः सादयति । वैश्वदेवस्य स्तोत्रमुपाकरोति । असय॑सर्जि वागसय॑न्द्र सहोऽसयुंपावर्तध्वम् बर्हिर्त्यां स्तोत्रमुपाकरोति । ब्रह्मन् स्तोष्याम इत्युक्ते ब्रह्मा – देव सवितरेतत्त इत्यादि प्रसव इत्यन्तमुक्त्वा प्रेतिरसि धर्माय त्वा धर्मं जिन्व । ओᳪ、 स्तुत । यजमानः - इडायै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुध्यै इति पुरस्तादाज्यानां जपति । पृथिवी होता । चित्तिः पृथिव्यग्निस्सूर्यं ते चक्षुर्महाहविर्होता स्तोत्रस्य पुरस्ताज्जपित्वा स्तूयमाने च चतुर्होतारं जपति । स्तुतस्य स्तुतमसि । अध्वर्युः इडा देवहूरित्यादि पूर्ववत् । शस्त्रस्य शस्त्रमसि । प्रतिगरो ग्रहनाराशंसाश्च । आश्राव्य प्रत्याश्राविते सम्प्रेष्यति उक्थशा यज सोमस्य । वषट्कृतानुवषट्कृते जुहोति । अनुप्रकम्पयन्ति नाराशंसान् वषट्कारानुवषटकारौ । यजमानः विश्वेभ्यो देवेभ्य इदम् । ऊमेभ्यः पितृभ्य इदम् । अग्नये स्विष्टकृत इदम् । सर्वभक्षाश्चमसा भवन्ति । प्रक्षालितेषु चमसेषु ।
उक्थ्यपर्यायाः :-
अथोक्थ्यप्रचारः । उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवायुवमुक्थेभ्य उक्थायुवम् उक्थ्यपात्रेण उक्थ्यतृतीयं गृहीत्वा । पवित्रदशाभिः परिमृज्य एष ते
१. क्व नु खलु माध्यन्दिनीयाः सवनीया निरुप्यन्त इति क्षुल्लकवैश्वदेवस्य स्तोत्र इति ब्रूयात् । इति बौधायनमतात् अत्र माध्यन्दिनीयान् सवनीयान् निर्वपति ।

योनिर्मित्रावरुणाभ्यां त्वा सादयति । पुनर्हविरसि स्थालीमभिमृशति । मैत्रावरुणचमसं प्रथमत उन्नीय होतृचमसादीनुन्नयति । अध्वर्युः पूर्ववत् स्तोत्रमुपाकरोति । ब्रह्मा देवसवितरित्यादि । अन्वितिरसि दिवे त्वा दिवं जिन्व इति । ओᳪ、स्तुत। यजमानः इडायै, चतुर्होता, चतुर्होतॄन्, चतुर्होता । स्तुतस्य स्तुतमसि । इडादेवहूरित्यादि पूर्ववत् शस्त्रं प्रतिगीर्य । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि । ग्रहमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते संप्रेष्यति । उक्थशा यज सोमानाम् । मित्रावरुणाभ्यामिदम् । अग्नये स्विष्टकृत इदम् । भक्षान् हरन्ति । अध्वर्युस्सदोहविर्धानयोर्मध्ये तिष्ठन् देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्यायुषे मैत्रावरुणचमसे संपातमवनयति । तमध्वर्युः प्रतिभक्षयति सर्वभक्षाश्चमसा भवन्ति । प्रक्षालितेषु चमसेषु ।
एवं विहितावुत्तरौ पर्यायौ । ताभ्यां प्रतिप्रस्थाता चरति । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि देवेभ्यो देवायुवमुक्थेभ्य उक्थायुवम् अर्धं चोक्थ्यशेषस्य गृह्णाति । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वा सादयति । पुनर्हविरसि स्थालीमभिमृशति । ब्राह्मणाच्छंसि चमसमुख्यान् चमसानुन्नयति । पूर्ववत् स्तोत्रमुपाकरोति । ब्रह्मा देव सवितरित्यादि सन्धिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व । औᳪ、 स्तुत । यजमानः इडायै, चतुर्होता, चतुर्होतॄन्, चतुर्होता । स्तुतस्य स्तुतमसि । प्रतिप्रस्थाता इडा देवहूरित्यादि । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि । ग्रहं प्रतिप्रस्थातादत्ते । चमसांश्चमसाध्वर्यवः । उक्थशा यज सोमानाम् । इन्द्रायेदम् । अग्नये स्विष्टकृत इदम् । देवेभ्यस्त्वा इति मुख्ये संपातमवनयति । न प्रतिप्रस्थातोर्ध्वपात्रस्य भक्षयति । प्रक्षालितेषु चमसेषु उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवायुवमुक्थेभ्य उक्थायुवम् सर्वं चोक्थ्यशेषस्य गृह्णाति । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राग्निभ्यां त्वा सादयति । न स्थालीमभिमृशति । पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तं सर्वं पूतभृत्यवनीय अच्छावाकचमसमुख्यान् चमसानुन्नयन् सर्वं राजानमुन्नीय पवित्रदशाभिः कलशौ मृष्ट्वा न्युब्जति । पूर्ववत् स्तोत्रमुपाकरोति । ब्रह्मा – देव सवितरित्यादि प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व ।
ओᳪ、 स्तुत । इडायै चतुर्होता चतुर्होतॄन् चतुर्होता । स्तुतस्य स्तुतमसि । इडा देवहूरित्यादि शस्त्रं प्रतिगीर्य । उक्थशाः प्रातस्सवनं प्रतिगीर्य जपति शस्त्रं शस्त्रं वा । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि । ग्रहं प्रतिप्रस्थातादत्त इत्यादि । चमसांश्चमसाध्वर्यवः । उक्थशा यज सोमानाम् । इन्द्राग्निभ्यामिदम् । अग्नये स्विष्टकृत इदम् । देवेभ्यस्त्वा इति मुख्ये संपातमवनयति । न प्रतिप्रस्थातोर्ध्वपात्रस्य भक्षयति । प्रक्षालितेषु चमसेषु । अथ सवनप्रायश्चित्तानि ।

सवनप्रायश्चित्तानि :-
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युᳪँ、 स्वाहा ॥ अग्नय इदम् ।
अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा । हव्यवाड्जुह्वास्यस्स्वाहा ॥ अग्नय इदम् । सप्त ते अग्ने --- घृतेन स्वाहा ॥ अग्नये सप्तवत इदम् ।
मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञꣳ समिमं दधातु । या इष्टा उषसो निम्रुचश्च तास्सन्दधामि हविषा घृतेन स्वाहा ॥ मनसे ज्योतिष इदम् ।
त्रयस्त्रिꣳशत्तन्तवो ये वितत्निरे य इमं यज्ञᳪँ、 स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा घर्मो देवाꣳ अप्येतु स्वाहा ॥ देवेभ्य इदम् ।
यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः । अयं देवो बृहस्पतिस्सन्तत्सिञ्चतु राधसा स्वाहा ।। बृहस्पतय इदम् ।।
विश्वकर्मा हविरिदं जुषाणस्सन्तानैर्यज्ञꣳ समिमं तनोतु । या व्युष्टा उषसो याश्च निम्रुचस्तास्सन्दधामि हविषा घृतेन स्वाहा ॥ विश्वकर्मण इदम् । अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजᳪँ、 स्वाहा ॥ अग्नये अयस इदम् ।
त्वन्नो अग्ने --- अस्मत् स्वाहा ॥ अग्नीवरुणाभ्यामिदम् ।
स त्वन्नो अग्ने --- एधि स्वाहा ॥ अग्नीवरुणाभ्यामिदम् ।
भद्रं कर्णेभिश्शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुस्स्वाहा ॥ देवेभ्य इदम् ।
स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्तिनः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिस्स्वस्ति नो बृहस्पतिर्दधातु स्वाहा ॥ इन्द्रपूषतार्क्ष्यबृहस्पतिभ्य इदम् ।। पृषदश्वा मरुतः पृश्निमातरश्शुभं यावानो विदथेषु जग्मयः । अग्निजिह्वा मनवस्सूरचक्षसो विश्वे नो देवा अवसागमन्निह स्वाहा ॥ मरुद्भ्यो विश्वेभ्यो देवेभ्य इदम् ।
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्यारीरिषतायुर्गन्तोस्स्वाहा ॥ देवेभ्य इदम् ।
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त उपयन्ति वाजास्स्वाहा ॥ अग्नय इदम् ।

श्रुत्कर्णाय कवये मेध्याय नमोभिर्नाकमुपयामि शꣳसन् । यतो भयमभयं तत्कृधीनोऽग्ने देवानामवहेड इयक्ष्व 1 स्वाहा ॥ अग्नय इदम् ।
अग्निं वो देवमग्निभिस्सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकस्स्वाहा ॥ अग्नय इदम् ।
घृतप्रतीको घृतपृष्ठो अग्निर्घृतैस्समिद्धो घृतमस्यान्नम् । घृतपुषस्त्वा सरितो वहन्ति घृतं पिबन्यजथाद्देव देवान् स्वाहा ॥ अग्नय इदम् ।
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमᳪँ、 स्वाहा । अग्नय आयुष्मत इदम् ।
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईꣳ सुरभीणि वियन्तु स्वाहा ॥ अग्नय इदम् ।
सप्त ते अग्ने --- घृतेन स्वाहा ॥ अग्नये सप्तवत इदम् ।
मनो ज्योतिः --- घृतेन स्वाहा ॥ मनसे ज्योतिष इदम् ।
त्रयस्त्रिꣳशत्तन्तवो --- अप्येतु स्वाहा ॥ देवेभ्य इदम् ।
यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः । अयं देवो बृहस्पतिस्सन्तत्सिञ्चतु राधसा स्वाहा ।। बृहस्पतय इदम् ।
विश्वकर्मा हविरिदं जुषाणस्सन्तानैर्यज्ञꣳ समिमं तनोतु । या इष्टा उषसो याश्च निम्रुचस्तास्सन्दधामि हविषा घृतेन स्वाहा ॥ विश्वकर्मण इदम् ।
अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा बृहन्तम् । तेन वयं पतेम ब्रध्नस्य विष्टपꣳ सुवो रुहाणा अधि नाक उत्तमे स्वाहा ॥ अग्नय इदम् ।
इन्धानास्त्वा शतꣳ हिमा द्युमन्तस्समिधीमहि । वयस्वन्तो वयस्कृतं यशस्वन्तो यशस्कृतꣳ सुवीरासो अदाभ्यम् । अग्ने सपत्नदम्भनं वर्षिष्ठे अधि नाके स्वाहा ॥ अग्नय इदम् ।
अग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु । त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वᳪँ、 स्वाहा ॥ अग्नय इदम् ।
वायुर्न ईडित ईडितव्यैर्देवैरान्तरिक्षैः पातु । त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वᳪँ、 स्वाहा ॥ वायव इदम् ।
१. हेड यक्ष्व इति पाठान्तरम् ।


सूर्यो न ईडित ईडितव्यैर्देवैर्दिव्यैः पातु । त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वᳪँ、 स्वाहा ॥ सूर्यायेदम् ।
विष्णुर्न ईडित ईडितव्यैर्देवैर्दिश्यैः पातु । त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वᳪँ、 स्वाहा ॥ विष्णव इदम् ।
अग्निर्यजुर्भिस्त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वᳪँ、 स्वाहा ॥ अग्नये यजुर्भ्य इदम् ।
पूषा स्वगाकारैस्त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वᳪँ、 स्वाहा । पूष्णे स्वगाकारायेदम् ।
एतैस्त्रिभिरनुवाकैरविज्ञातप्रायश्चित्ते सोमे त्रयस्त्रिंशतमाहुतीर्जुहोति । त्रयस्त्रिंशतं चाग्नीध्रीये यज्ञतनूः । प्रजापतिर्मनसांधोच्छेत इत्याद्यनुषङ्गवर्जम् ।
प्रजापतिर्मनसांधोच्छेतस्स्वाहा । प्रजापतये सोमायेदम् ।
धाता दीक्षायाᳪ、 स्वाहा । धात्रे सोमायेदम् ।
सविता भृत्याᳪ、 स्वाहा । सवित्रे सोमायेदम् ।
पूषा सोमक्रयण्याᳪ、 स्वाहा । पूष्णे सोमायेदम् ।
वरुण उपनद्धस्स्वाहा । वरुणाय सोमायेदम् ।
असुरः क्रीयमाणस्स्वाहा । असुराय सोमायेदम् ।
मित्रः क्रीतस्स्वाहा । मित्राय सोमायेदम् ।
शिपिविष्ट आसादितस्स्वाहा । शिपिविष्टाय सोमायेदम् ।
नरन्धिषः प्रोह्यमाणस्स्वाहा । नरन्धिषाय सोमायेदम् ।
अधिपतिरागतस्स्वाहा.। अधिपतये सोमायेदम् ।
प्रजापतिः प्रणीयमानस्स्वाहा । प्रजापतये सोमायेदम् ।
अग्निराग्नीध्रे स्वाहा । अग्नये सोमायेदम् ।
बृहस्पतिराग्नीध्रात्प्रणीयमानस्स्वाहा । बृहस्पतये सोमायेदम् ।
इन्द्रो हविर्धाने स्वाहा । इन्द्राय सोमायेदम् ।
अदितिरासादितस्स्वाहा । अदित्यै सोमायेदम् ।
विष्णुरुपावह्रियमाणस्स्वाहा । विष्णवे सोमायेदम् ।
अथर्वोपोत्तस्स्वाहा । अथर्वणे सोमायेदम् ।

यमोऽभिषुतस्स्वाहा । यमाय सोमायेदम् ।
अपूतपा आधूयमानस्स्वाहा । अपूतपे सोमायेदम् ।
वायुः पूयमानस्स्वाहा । वायवे सोमायेदम् ।
मित्रः, क्षीरश्रीस्स्वाहा । मित्राय सोमायेदम् ।
मन्थी सक्तुश्रीस्स्वाहा । मन्थिने सोमायेदम् ।
वैश्वदेव उन्नीतस्स्वाहा । वैश्वदेवाय सोमायेदम् ।
रुद्र आहुतस्स्वाहा । रुद्राय सोमायेदम् । अप उपस्पृश्य ।
वायुरावृत्तस्स्वाहा । वायवे सोमायेदम् ।
नृचक्षाः प्रतिख्यातस्स्वाहा । नृचक्षसे सोमायेदम् ।
भक्ष आगतस्स्वाहा । भक्षाय सोमायेदम् ।
पितृणां नाराशꣳसस्स्वाहा । पितृभ्यः सोमायेदम् । अप उपस्पृश्य ।
असुरात्तस्स्वाहा । असवे सोमायेदम् ।
सिन्धुरवभृथमवप्रयन्त्स्वाहा । सिन्धवे सोमायेदम् ।
समुद्रोऽवगतस्स्वाहा । समुद्राय सोमायेदम् ।
सलिलः प्रप्लुतस्स्वाहा । सलिलाय सोमायेदम् ।
सुवरुदृचं गतस्स्वाहा । स्वस्सोमायेदम् ।
पुनराहवनीये । पृथ्वि स्वाहा । पृथ्व्या इदम् ॥ विभूवरि स्वाहा । विभूवर्या इदम् ॥ सिनीवालि स्वाहा । सिनीवाल्या इदम् ॥ उरन्ध्रे स्वाहा । उरन्ध्राया इदम् ॥ आचित्ते स्वाहा । आचित्ताया इदम् ॥ मनस्ते स्वाहा । मनस्ताया इदम् ॥ भुवो विवस्ते स्वाहा । भुवो विवस्ताया इदम् ॥ इति वसतीवरीषु सवनीयासु वा विषिक्तासु सप्ताहुतीर्जुहोति ।
य ऊर्मिर्हविष्य इन्द्रियावान् मदिन्तमस्तं व ऋध्यासं सोमस्याज्यमसि हविषो हविर्ज्योतिषां ज्योतिर्विश्वेषां देवानां देवताभिर्गृह्णामि हविर्धानमभिमन्त्र्य । सं वस्सिञ्चन्तु मरुतस्समिन्द्रस्सं बृहस्पतिः । सं वोऽयमग्निस्सिञ्चत्वायुषा च धनेन च सर्वमायुर्दधातु मे ॥ मान्दा वाशाश्शुन्ध्यूरजिराः । ज्योतिष्मतीस्तमस्वरीरुन्दतीस्सुफेनाः । मित्रभृतः क्षत्रभृतस्सुराष्ट्रा इह माऽवत ॥ आपो भद्रा घृतमिदाप आसुरग्नीषोमौ बिभ्रत्याप इत्ताः । तीव्रो रसो मधुपृचामरङ्गम आ मा प्राणेन सह वर्चसा गन् । आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छतु वाङ्न आसाम्

। मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥ आपो हिष्ठा मयो भुव इति तिस्रः । एताभिस्सप्तभिस्संसिञ्चेदभि वा मन्त्रयेत ।
देवाञ्जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ पितॄन् जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ पञ्चजनान् जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ दिशो जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ आपो जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ ओषधीर्जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ वनस्पतीन् जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ इति सप्त जपति ।
अथ होमः मनो ज्योतिः --- घृतेन स्वाहा ॥ मनसे ज्योतिष इदम् ।
त्रयस्त्रिꣳशत्तन्तवो --- अप्येतु स्वाहा ॥ देवेभ्य इदम् ।
द्रप्सश्चस्कन्द --- सप्त होत्रास्स्वाहा । इन्द्रायेदम् ।
यस्ते द्रप्सस्कन्दति --- तं जुहोमि स्वाहा । इन्द्रायेदम् ।
यो द्रप्सो अꣳशुः --- तं जुहोमि स्वाहा । इन्द्रायेदम् ।
यस्ते द्रप्सो --- जुहोमि स्वाहा । इन्द्रायेदम् ।
महाहविर्होता --- नमः पृथिव्यै स्वाहा । वाचस्पतये ब्रह्मण इदम् ।
व्याहृतीभिर्विहृताभिस्समस्ताभिश्च हुत्वा । ऋक्तो यज्ञभ्रेषप्रायश्चित्तमित्यादि ।ब्रह्मन् सोमोऽस्कान् । प्रायश्चित्तं कुरु इति ब्रह्मणानुज्ञातः अभूद्देवस्सविता वन्द्योऽनु न इदानीमह्न उप वाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यश्श्रेष्ठं नो अत्र द्रविणं यथा दधत् इति स्कन्नमभिमन्त्र्य ।। भूपतये स्वाहेति पञ्च प्रादेशान् मिमीते यथा पुरस्तात् ।
सवनाहुतिः :
जुह्वां सकृद्गृहीत्वा अथ सवनाहुतिः । अग्निः प्रातस्सवने पात्वस्मान् वैश्वानरो महिना विश्वशम्भूः । स नः पावको द्रविणं दधात्वायुष्मन्तस्सह भक्षास्स्याम स्वाहा ॥ अग्नये वैश्वानरायेदम् । प्रशास्तः प्रसुव इति संप्रेष्यति । सर्पत इति प्रत्याह । येन प्रसर्पन्ति तेन निस्सर्पन्ति । सन्तिष्ठते प्रातस्सवनं प्रातस्सवनम् ॥
॥ इति चतुर्थोऽध्यायः ॥