आपस्तम्बीय श्रौतप्रयोगः/अग्निष्टोमप्रयोगे तृतीयोऽध्यायः
॥ अथ तृतीयोध्यायः॥
अग्निप्रणयनम् :-
अत्र प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयति । आहवनीये प्रणयनीयमाश्वत्थमिध्ममादीप्य । सिकताभिरुपयम्य अग्नये प्रणीयमानायानुब्रू३हि इति संप्रेष्यति । उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति । यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि । घृतेन त्वं तन्वं वर्धयस्व मा मा हिꣳसीरधिगतं पुरस्तात् स्वाहा । अपादानभूताय पावकायेदम् । प्रथमायां त्रिरनुक्तायामुपयमनीभिरुपयम्य हरति । उत्तरवेद्यामुपर्यग्नौ धार्यमाणे व्याघारणप्रभृति संभारनिवपनान्तं कृत्वा ।
[तद्यथा = प्रतिप्रस्थात्रेऽग्निं प्रदाय जुह्वां पञ्चगृहीतं गृहीत्वा सर्वत्र हिरण्यमुपास्यन्नक्ष्णयोत्तरवेदिमुत्तरनाभिं वा व्याघारयति । सिꣳहीरसि सपत्नसाही स्वाहा । उत्तरवेद्या इदम् । दक्षिणमंसम् । सिꣳहीरसि सुप्रजावनिस्स्वाहा । उत्तरवेद्या इदम् । उत्तरां श्रोणिम् । सिꣳहीरसि रायस्पोषवनिस्स्वाहा । उत्तरवेद्या इदम् । दक्षिणां श्रोणिम् । सिꣳहीरस्यदित्यवनिस्स्वाहा । उत्तरवेद्या इदम् । उत्तरमंसम् । सिꣳहीरस्यावह देवान्देवयते यजमानाय स्वाहा । उत्तरवेद्या इदम् । मध्ये । भूतेभ्यस्त्वा स्रुचमुद्गृह्य । पौतुद्रवै: 1 परिधिभिरुत्तरवेदिं परिदधाति । विश्वायुरसि पृथिवीं दृꣳह मध्यमम् । ध्रुवक्षिदस्यन्तरिक्षं दृꣳह दक्षिणम् । अच्युतक्षिदसि दिवं दृꣳह उत्तरम् । अग्नेर्भस्मास्यग्ने: पुरीषमसि उत्तरवेद्यां संभारान्निवपति । गुल्गुलु सुन्धितेजनं श्वेतामुर्णास्तुकां पेत्वस्यान्तराश्रुङ्गीयाम् ।]
ऊर्णावन्तं प्रथमस्सीद योनिमिति होतुरभिज्ञाय । अग्ने बाधस्व विमृधो नुदस्वेत्याद्यतिमुक्तिहोमान्तं पशुवत् ।
[ तद्यथा - अग्ने बाधस्व वि मृधो नुदस्वापामीवा अप रक्षाꣳसि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नस्सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नधाऽमृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठात् संभारेषु प्रतिष्ठाप्य । अग्ने: पुरीषमसि उत्तरत उपयमनीर्न्युप्य । मनुष्वत्त्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज उपसमिध्य । द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदम् । सप्तवत्या पूर्णाहुतिं जुहोति । अग्निर्यज्ञं
१. देवदारु वृक्षस्य।
नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । अग्नय इदम् । वायुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । वायव इदम् । आदित्यो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । आदित्यायेदम् । विष्णुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । विष्णव इदम् । चतस्रोऽतिमुक्तीर्जुहोति । ]
एष सोमस्याहवनीयो यतः प्रणयति स गार्हपत्यः । तूष्णीं स्फ्यमादाय । ब्रह्मन्नुत्तरम् । वसवस्त्वा । यज्ञस्य त्वा । धा असि । उदादाय वेदिमनुवीक्षते । शाखाहरणं, वत्सापाकरणं च :-
अत्र प्रतिप्रस्थाता शाखामाहृत्य मैत्रावरुण्याः पयस्याया वत्सानपाकरोति । इषे त्वेत्यादि । आ प्यायध्वमघ्निया मित्रावरुणाभ्यां देवभागम् । अन्तर्वेदिशाखाया इत्यादि । कुम्भीलेपनान्तम् । नात्रपरिसमूहनालङ्करणे।
हविर्धाननिर्माणम् :-
अध्वर्युः :- लौकिकाभिरद्भिः प्रोक्ष्य बर्हिः, त्रिर्वेदिं प्रोक्षति । नाप्रोक्षितामभिचरन्ति । अथैनां बर्हिषा बहुलं प्राचीनं स्तीर्त्वा प्रयुक्तपूर्वे शकटे नद्धयुगे प्रतिहतशम्ये प्रक्षाल्य । तयोः प्रथमग्रथितान् ग्रन्थीन् विस्रस्य । नवान् प्रज्ञातान् कृत्वाऽग्रेण प्राग्वंशमभितः पृष्ठ्यामव्यनयन् परिश्रिते सच्छदिषी अवस्थापयति । अथैने पत्नी पदतृतीयेनाज्यमिश्रेण चतुर्धाकृतेन आ नो वीरो जायतां कर्मण्यो यꣳ सर्वेऽनु जीवाम यो बहूनामसद्वशी । द्विदक्षिणामक्षधुरं दक्षिणेन हस्तेनोत्तानेन प्राचीनमनक्ति । न च हस्तमावर्तयति । सकृदेव मन्त्रोच्चारणम् । एवमितरां द्वितीयभागेन । तत उत्तरस्य हविर्धानस्योपानक्ति । अध्वर्युः :- जुह्वां सकृद्गृहीत्वा युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिस्स्वाहा औत्तरवेदिके जुहोति । सवित्र इदम् । हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रू३हि इति सम्प्रेष्यति ।
हविर्धानप्रवर्तनम् :-
प्रथमायां त्रिरनूक्तायां प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतम् ऊर्ध्वमुद्गृह्णन्तः प्रवर्तयन्ति अध्वर्युब्रह्मयजमानप्रतिप्रस्थातारः । सुवाग्देव दुर्याꣳ आ वद देवश्रुतौ देवेष्वाघोषेथाम् अक्षशब्दमनुमन्त्रयते । प्रतिप्रस्थाता च स्वाक्षशब्दम् । अध्वर्युः - दक्षिणस्य हविर्धानस्य दक्षिणे वर्त्मनि वर्त्मनोर्वा हिरण्यं निधाय इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे स्वाहा हिरण्ये जुहोति । विष्णव इदम् । एवमुत्तरस्य प्रतिप्रस्थाता इरावती धेनुमती हि भूतꣳ
सूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैस्स्वाहा हिरण्ये जुहोति । विष्णव इदम् । अध्वर्युः :- अपजन्यं भयं नुदापचक्राणि वर्तय । गृहꣳ सोमस्य गच्छतम् वेद्या वितृतीयदेशे पदापनुदति । लोष्टं वा बहिर्वेदि निरस्यति । आहवनीयात्त्रीन् प्रतीचः प्रक्रमानुच्छिष्य । अत्र रमेथां वर्ष्मन् पृथिव्याः उभे शकटे नभ्यस्थे 1 स्थापयतः । वैष्णवमसि विष्णुस्त्वोत्तभ्नातु उपस्तम्भनमुभयोः । दिवो वा विष्णुवुत वा पृथिव्या महो वा विष्णवुत वान्तरिक्षाद्धस्तौ पृणस्व बहुभिर्वसव्यैरा प्रयच्छ दक्षिणादोत सव्यात् अध्वर्युः दक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दमनु मेथीं निहन्ति । तस्यामीषां निनह्यति । एवमुत्तरस्य प्रतिप्रस्थाता । विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं वि चक्रमाणस्त्रेधोरुगायः उत्तरं कर्णातर्दमनु मेथीं निहन्ति । तस्यामीषां निनह्यति । ऊर्ध्वाश्शम्या उद्वृह्य उपरिष्टात्परिवेष्टयन्ति ।
हविर्धानस्य मानम् :-
अस्मिन्काले हविर्धानस्य शुल्बमानम् । नवारत्निविस्तारं नवायामं मीत्वा । हविर्धाने संमीयमाने ब्रह्मा चात्वालोत्करावन्तरेण गत्वाऽपरेणोत्तरवेदिं दक्षिणातिक्रम्य दक्षिणत उपविशत्या वैसर्जनकालादास्ते । अध्वर्युः :- महो वा विष्णो सर्वतः स्थूणाः परिमिनोति पुरस्ताच्चान्तः खरायावकाशं शिष्ट्वा, उदञ्चौ वंशावत्यादधाति । पश्चात्पुरस्ताच्च । समानं साङ्काशिनं शालामुखीयहोत्रीयौत्तरवेदिकानाम् । विष्णो रराटमसि पुरस्ताद्रराट्यां तिर्यञ्चं वंशं धारयन् । विष्णोस्स्यूरसि स्यूत्वा । विष्णोर्रुस्वमसि प्रज्ञातं ग्रन्थिं कृत्वा । प्राचो वंशानत्याधाय । विष्णोः पृष्ठमसि तेषु मध्यमं छदिरध्यूहति त्र्यरत्निविस्तारं नवायामम् । तूष्णीमितरे छदिषी अध्यूह्य । छद्यन्तरालेषु प्रवर्तमुपास्यति कटांस्तेजनीरिति । तेऽन्तर्वर्ता भवन्ति । परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः सर्वतः परिश्रित्य । विष्णो श्नप्त्रेस्थः रराट्या अन्तौ संमृशति । विष्णोस्स्यूरसि दक्षिणां द्वार्बाहुं स्यूत्वा । विष्णोर्धुवमसि प्रज्ञातं ग्रन्थिं करोति । एवमुत्तरां प्रतिप्रस्थाता एवमपरे सीव्यतः । पुरस्तादुन्नतं पश्चान्निनतं हविर्धानम् । वैष्णवमसि विष्णवे त्वा सम्मितमभिमृशति । नाध्वर्युः प्राङ् हविर्धानेऽतीयात् । अतीयाच्चेत् वैष्णव्यर्चा सञ्चरेत् । प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा सम्मिताद्धविर्धानात् प्राङ् यजमानो निष्क्रम्य । आ आहवनीयात् त्रीन् प्राचः प्रक्रमान् प्रक्रामति यस्योरुषु त्रिषु विक्रमणेष्वधि क्षियन्ति भुवनानि विश्वा 2 ।
१. नभ्यं चक्रमध्यफलकं तत्र यथा तिष्ठति तथा स्थापयतः । २. यस्योरुषु इत्येतावान् मन्त्रः इति पाठान्तरम्
आग्नीध्रसदसोः मानम् :-
षट्सु प्रक्रमेषूत्करात् प्रत्यगाग्नीध्रं मिनोति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि । प्राचीनवंशं चतुस्स्थूणं सर्वतः परिश्रितं दक्षिणत उपचारम् । अपरस्मात् वेद्यन्तात्त्रिषु पुरस्तात् प्रक्रमेषु तिर्यक्सदो मिनोति । नवारत्निविस्तारमष्टादशोदगायतम् । दक्षिणा सदः प्रतिकर्षेत् यथा साङ्काशिनस्याविरोधः स्यात् ।
औदुम्बर्याः संस्कारः :-
दक्षिणतः प्रक्रमे पृष्ठ्याया औदुम्बरी मध्ये सदसो मिनोति । यूपवदौदुम्बर्या अवटसंस्कारश्शकलवर्जम् । देवस्य त्वेत्यभ्रिमादाय परिलिखितमिति त्रिः प्रदक्षिणं परिलिख्य खनति । अग्रेणावटं प्राचीं निधाय तूष्णीं प्रक्षाल्य । अथैनां यवमतीभिः प्रोक्षति दिवे त्वा इत्यग्रम् । अन्तरिक्षाय त्वा इति मध्यम् । पृथिव्यै त्वा इति मूलम् । शुन्धतां लोकः पितृषदनः प्राचीनावीती प्रोक्षणीशेषमवटेऽवनीय । यज्ञोपवीत्यप उपस्पृश्य । यवोऽसि --- अरातीः इति यवमवास्य । पितृणाꣳ सदनमसि प्राचीनावीती अवाचीनाग्रेण बर्हिषावस्तीर्य यज्ञोपवीत्यप उपस्पृश्य । उद्दिवᳪँ、 स्तभानान्तरिक्षं पृण पृथिवीं दृꣳह प्राचीनकर्णां सहोद्गात्रोच्छ्रयति । द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्रुिववेण धर्मणा प्राचीनकर्णां सहोद्गात्रा मिनोति । ऊर्ध्वं निखाताद्यजमानसंमिता । ब्रह्मवनिं त्वा इत्यादि यूपवत् परिषेचनान्तम् । तस्या विशाखे हिरण्यं निधाय । घृतेन द्यावापृथिवी आ पृणेथाᳪ、 स्वाहा स्रुवेण हिरण्ये जुह्वदान्तमौदुम्बरीमन्ववस्रावयति । भूमिगते स्वाहाकारः । द्यावापृथिवीभ्यामिदम् । एषा सदसस्स्थूणानां वर्षिष्ठा । नाभिदघ्न्यः पर्यन्तीयाः । सदसः निर्माणम् :-
उदञ्चः प्राचश्च वंशानत्याधाय । ऐन्द्रमसि त्रीणि मध्यमानि छदींष्यध्यूहति । विश्वजनस्य छाया त्रीणि दक्षिणान्युत्तराग्राणि । इन्द्रस्य सदोऽसि त्रीणि उत्तराणि दक्षिणाग्राणि1 । दक्षिणान्युत्तराणि च औदुम्बरीमभ्यग्राणि भवन्ति । दक्षिणान्युत्तराणि करोतीति विज्ञायते । कटांस्तेजनीरिति छद्यन्तरालेषु प्रवर्तमुपास्यति । तेऽन्तर्वर्त्ता भवन्ति । परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इति सर्वतः परिश्रित्य । इन्द्रस्य स्यूरसि पूर्वद्वारस्य दक्षिणां द्वार्बाहुं स्यूत्वा । इन्द्रस्य ध्रुवमसि प्रज्ञातं ग्रन्थिं करोति । एवमुत्तरां प्रतिप्रस्थाता । एवमपरे सीव्यतः । ऐन्द्रमसीन्द्राय त्वा अध्वर्युः संमितमभिमृशति । नाध्वर्युः प्रत्यङ् सदोऽतीयात् धिष्णियान् होतारं वा । यद्यतीयात् आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ऐन्द्रियर्चा सञ्चरेत् ।
१. भाष्यकारपक्षस्तु प्रयोगे दर्शितः । परन्तु रुद्रदत्तमतात् भारद्वाजवचनाच्च एकैको मन्त्रः त्रिस्त्रिः वक्तव्यः । अवयविद्वारा अवयवस्योच्यमानत्वात् ।
उपरवकरणम् :-
दक्षिणस्य हविर्धानस्याधस्तात् पुरोक्षं चतुर उपरवानवान्तरदेशेषु प्रादेशमुखान् प्रादेशान्तरालान् करोति । देवस्य त्वेत्यभ्रिमादाय । परिलिखितमिति त्रिर्दक्षिणपूर्वं परिलिखति । एवमितरान् प्रदक्षिणमुत्तरापवर्गमेवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते । अधस्तात् सन्तृण्णा भवन्त्युपरिष्टादसंभिन्नाः । तूष्णीं बाहुमात्रान् खात्वाप उपस्पृश्य । रक्षोहणो वलगहनो वैष्णवान् खनामि खनत्यप उपस्पृश्य । विराडसि सपत्नहा बाहुमुपावहृत्य । इदमहं तं वलगमुद्वपामि यं नस्समानो यमसमानो निचखानेदमेनमधरं करोमि यो नस्समानो योऽसमानोऽरातीयति उदुप्य1 । गायत्रेण छन्दसावबाढो वलगः उपरवन्यन्तेऽवबाधते 2। हरामि वैष्णवान् हरति । अवबाढो दुरस्युः अग्रेणोपस्तंभनं निवपति । एवं सर्वान् करोति । विशेषस्तु सम्राडसि भ्रातृव्यहा बाहुमुपावहृत्य । त्रैष्टुभेन छन्दसावबाढो वलगः इत्यवबाधते द्वितीये । शेषं पूर्ववत् । स्वराडस्यभिमातिहा बाहुमुपावहृत्य । जागतेन छन्दसावबाढो वलगः तृतीये । शेषं पूर्ववत् । विश्वाराडसि विश्वासां नाष्ट्राणाꣳ हन्ता बाहुमुपावहृत्य । आनुष्टुभेन पाङ्क्तेन छन्दसावबाढो वलगः इति चतुर्थे । शेषं पूर्ववत् । विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणाꣳ हन्ता बाहू उपावहरतोऽध्वर्युर्यजमानश्च । संमृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषो यवनः । युयोध्यस्मद्द्वेषाꣳसि यानि कानि चकृम । देवानामिदं निहितं यदस्त्यथा भाहि प्रदिशश्चतस्रः । कृण्वानो अन्याꣳ अधरान् सपत्नान् दक्षिणपूर्वमुपरवं संमृशतः । एवमितरान् संमृश्य । दक्षिणपूर्वं यजमानोऽभिमृशति । उत्तरापरमध्वर्युः । अथ यजमानः पृच्छति अध्वर्यो किमत्र । भद्रम् इत्यध्वर्युराह । तन्नौ सह इत्युक्त्वा उत्तरपूर्वं यजमानोऽभिमृशति दक्षिणापरमध्वर्युः । अध्वर्यो किमत्र यजमानः पृच्छति । भद्रं इत्यध्वर्युराह । तन्मे इति यजमानः । अध्वर्युः :- रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान् यवमतीभिर्दक्षिणपूर्वमुपरवं प्रोक्ष्य । रक्षोहणो वलगहनोऽवनयामि वैष्णवान् प्रोक्षणीशेषमवटेऽवनीय । यवोऽसि --- अरातीः इति यवमवास्य । रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवान् अवाचीनाग्रेण बर्हिषावस्तीर्य । रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवान् स्वाहा आज्येनाभिजुहोति । वैष्णवेभ्य उपरवेभ्य इदम् । प्रोक्षणादि होमान्तं सर्वेषां करोति । औदुम्बरे कार्ष्मर्यमये पालाशे वा अधिषवणफलके शुष्के तष्टे । रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी प्रोक्ष्य । रक्षोहणौ वलगहनावुपदधामि वैष्णवी उपरवेषूपदधाति । द्वौ 3 दक्षिणेनापिदधाति द्वावुत्तरेण, पुरस्तात् प्रधिमुखे पश्चात्समाविकर्ते । रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी उपरवपांसुभिः प्रदक्षिणं पर्यूह्य । रक्षोहणौ वलगहनौ
१. उद्धृत्य पांसून् ।
२. हस्तेनावपीडयति।
३. उपरवौ।
परिस्तृणामि वैष्णवी बर्हिषावस्तीर्य । रक्षोहणौ वलगहनौ वैष्णवी अभिमन्त्रयते । एतस्यैव हविर्धानस्य अग्रेणोपस्तम्भनं उपरवपांसुभिः चतुरश्रं खरं करोति सोमपात्रेभ्य आप्तम् । पुरस्तात् सञ्चरं शिष्ट्वा ।
धिष्णियानामुपवपनम् :-
चात्वालाद्धिष्णियानुपवपति । तूष्णीं खनित्वा मृदमादाय । विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः आग्नीध्रे आग्नीध्रीयन्निवपति । वह्निरसि हव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः सदसि पूर्वार्धे पृष्ठ्यायां होत्रीयम् । रत्निव्यासार्धभ्रमणेन वृत्तं धिष्णियम् । एवं सर्वधिष्णियान् । तं दक्षिणेन पादोनाष्टाङ्गुलमन्तरालं त्यक्त्वा । श्वात्रोऽसि प्रचेता रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः यूपाहवनीययोरन्तरा हृत्वा प्रशास्त्रीयम् । यथेतं गत्वा उत्तरेण होत्रीयमितरानुदीच आयातयति । तुथोऽसि विश्ववेदा रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः ब्राह्मणाच्छंसीयम् । उशिगसि कवी रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः पोत्रीयम् । अङ्घारिरसि बंभारी रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः नेष्ट्रीयम् । अवस्युरसि दुवस्वान् रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः अच्छावाकीयम् । शुन्ध्यूरसि मार्जालीयो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः बहिस्सदसो मार्जालीयं दक्षिणे वेद्यन्ते समानमाग्नीध्रीयेण । प्रशास्त्रीयमार्जालीययोर्निवपनविहरणव्याघारणानि पृष्ठ्याऽव्यवायेन कुर्यात् । अनुदिशतीतरान् । तस्य तस्य पश्चाद्भागे स्थित्वा । अध्वनामध्वपते नमस्ते अस्तु मा मा हिꣳसीः ॥ संम्राडसि कृशानू रौद्रेणानीकेन पाहि माग्ने पिपहि मा मा मा हिꣳसीः आहवनीयम् । अध्वनामध्वपते ॥ परिषद्योऽसि पवमानो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः बहिष्पवमानास्तावम् । अध्वनामध्वपते ॥ प्रतक्वासि नभस्वान् रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः चात्वालम् । अध्वनामध्वपते ॥ असंमृष्टोऽसि हव्यसूदो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः शामित्रम् । अध्वनामध्वपते ॥ समूह्योऽसि विश्वभरा रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः उत्करम् । अध्वनामध्वपते ॥ ऋतधामासि सुवर्ज्योती रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः औदुम्बरीम् । अध्वनामध्वपते । ब्रह्मज्योतिरसि सुवर्धामा रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः ब्रह्मसदनम् । अध्वनामध्वपते ॥ सदस्योऽसि मलिम्लुचो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः सदस्यम् । अध्वनामध्वपते ॥ समुद्रोऽसि विश्वभरा रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः सदः । अध्वनामध्वपते ॥ अजोऽस्येकपाद्रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः शालामुखीयम् । अध्वनामध्वपते ॥ अहिरसि बुध्नियो रौद्रेणानीकेन
पाहि माग्ने पिपृहि मा मा मा हिꣳसीः प्राजहितम् । अध्वनामध्वपते ॥ कव्योऽसि कव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः दक्षिणाग्निम् । अध्वनामध्वपते ॥ आयुर्बृहत्तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः हविर्धानम् । अध्वनामध्वपते ॥ विश्वायुर्वामदेव्यं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः आग्नीध्रीयम् । अध्वनामध्वपते ॥ आयुः पतिरथन्तरं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मो रौद्रेणानीकेन पाहि माग्ने पिपहि मा मा मा हिꣳसीः सदः 1 । स्तृणीतबर्हिः प्र व्रतं यच्छत संप्रेष्यति । अत्र स्तृणन्नुत्तरवेदिखरोपरवधिष्णियान् नाभिस्तृणीयात् ।
अत्रैकस्तनं व्रतं यजमानाय प्रयच्छति । प्रतिप्रस्थाता शालामुखीये दीक्षितस्य व्रतं श्रपयति । दक्षिणाग्नौ पत्न्या इत्यादि । अपरेणोत्तरवेदिं व्रतमत्याहृत्य प्रयच्छति । या ते अग्ने रुद्रिया तनूः इति दक्षिणेनोत्तरवेदिं व्रतयति ॥
॥ अग्नीषोमीयः पशुः ॥
अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति । इषे त्वेत्यादि शाखामाहृत्य तूष्णीं प्लक्षशाखाम् । आतिथ्याबर्हिः प्रस्तरं च तेनैव शुल्बेन तूष्णीं सन्नह्यति । या जाता इत्यादि परिस्तरणादि कृत्वा । तांश्च परिधीन् पाशुके इध्मे । यत्कृष्णो रूपम् । ततस्त्वां विꣳशतिधा । तिस्रस्समिधो यज्ञायुरनु सञ्चराः । नेध्मप्रव्रश्चनम् । न वेदिकरणम् । त्वया वेदिमिति वेदं कृत्वा अन्तर्वेदि शाखाया इत्यादि । न तृतीयस्यै । वसूनां पवित्रमसि । त्रिवृत्पलाशे --- पशुꣳ हव्यं करोतु मे । पशुकुंभीलेपनान्तम् । नवा पशुकुम्भी यावच्छर्करं गोमयेनानुलिप्ता भवति । इमौ पर्णं च । परिस्तृणीत । देवा देवेषु । कर्मणे वाम् इत्यादि ।
पात्रप्रयोगः :-
पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवस्वधित्यौ जुहू वसाहोमहवन्यौ प्रचरणीं च द्वन्द्वम् । तस्या जुहूवत्कल्पः । उपभृत् पृषदाज्यधान्यौ ध्रुवया द्वन्द्वम् । स्थाल्यौ (दध्याज्य) वेदेन द्वन्द्वम् । उपवेषमिडापात्रेण द्वन्द्वम् । प्लक्षशाखां हृदयशूलं वपाश्रपण्यौ पशूखां शाखापवित्रेण द्वन्द्वम् । मैत्रावरुणदण्डेन रशने परिवासनानि दर्भास्स्वरुं च द्वन्द्वम् । यूपेन सार्धं यवा दर्भौ । शकलैस्सह यूषार्थपात्रं लौकिकमाज्यपानं च प्रयुज्य ।
१. अथ पक्षान्तरम् । एतानेवोपस्थानान् व्याघारणांश्चैके समामनन्ति । मार्जालीयपर्यन्तान् धिष्णियान् एतैरेव मन्त्रैर्न्युप्य पुनरेतैरेवास्मिन्काले उपस्थानं कृत्वा धिष्णियव्याघारणकाले तत्तन्मन्त्रैर्व्याघारणं कुर्यात् ।
स्रुवस्वधित्योश्च जुहूत्रयस्य द्वन्द्वं ध्रुवाया उपभृद्वयस्य ।
स्थाल्यौ च वेदेन सह प्रयोज्ये वेषेण सार्धं समवत्तधानीम् ॥
प्लक्षस्य शाखा हृदयार्थशूलवपाश्रपण्यश्च तथा पशूखाम् ।
शाखापवित्रेण सह प्रयोज्या दण्डेन सार्धं रशनाः प्रयोज्याः ॥
यूपेन सार्धं तु यवाः प्रयोज्याः दर्भाः प्रयोज्याः शकलैश्च सार्धम् ।
दर्भौ स्वरुं चाप्यधिमन्थनं च क्रमेण योज्याः पुरतोऽपवर्गाः ॥
अग्राणि वेदस्य तथैव योक्त्रं योज्यानि यूषाहरणार्थपात्रम् ।
एकार्थता पात्रगणस्य यस्य कपालवत्तत्र सहैकता स्यात् ॥
पवित्रे कृत्वा । न ब्रह्मवरणम् । यजमान वाचं यच्छ । संविशन्ताम् वाग्यतः पात्राणि संमृश्य । अग्निꣳ होतारम् । कस्त्वा युनक्ति स त्वा युनक्तु । प्रोक्षणीस्संस्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्रोक्ष्यात्र वाचं विसृजते । तूष्णीं स्फ्यमादाय सदोहविर्धानयोर्मध्ये स्फ्यं तिर्यञ्चं स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरूपसादय स्रुवं च स्वधितिं च स्रुचश्च संमृड्ढ्याज्येन दध्नोदे३हि इति । सदोहविर्धानयोर्मध्ये प्रोक्षणीरासादयति । नेध्माबर्हिषोरासादनम् 1 । जुहूं संमृज्य तद्वत् प्रचरणीम् । वसाहोमहवन्यादि पशुवत् ।
[ तद्यथा = स्रुचां संमार्जनकाले स्रुवं संमृज्य तस्यावृता स्वधितिम् । गोष्ठं मा निर्मृक्षम् । वाचं प्राणम् इति जुहूवत्प्रचरणीं वसाहोमहवनीं च । चक्षुश्श्रोत्रम् इत्युपभृद्वत्पृषदाज्यधानीम् । ध्रुवां संमृज्य अग्नेर्वस्तेजिष्ठेन इत्यादि । अग्ने गृहपत इत्यादि प्राजहिते जपति । पूषा वां बिले विष्यतु । अदिती स्थोऽच्छिद्रपत्रे । महीनां पयोसि इत्याज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इत्याज्यमधिश्रित्य न दध्यधिश्रयति सर्वत्र । इषे त्वा इत्याद्यधिश्रयणं शालामुखीये । तेजसे त्वा इत्यन्तं कृत्वा । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् सदोहविर्धानयोर्मध्ये स्फ्यलेखायामासादयति । आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिघारयामि तयोर्वां भक्षीय । शुक्रमसीत्यादि आज्यमुत्पूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक् पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यग्रहणकाले प्रचरण्यामादितः तूष्णीं
१. वैसर्जनहोमानन्तरमासादयति ।
चतुर्गृहीतं गृहीत्वा 1 । पाशुकान्याज्यानि गृह्णाति । चर्तुजुह्वां गृह्णाति चतुरुपभृति पञ्चावत्तिनामपि । दधन्याज्यमानीय । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् । अपि वा ज्योतिरसि विश्वरूपं विश्वेषां देवानाꣳ समित् इति वा पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यं गृह्णाति । चतुर्ध्रुवायाम् । ] वैसर्जनहोमः :-
प्रैतु ब्रह्मणस्पत्नी वेदिं वर्णेन सीदतु प्रतिप्रस्थाता पत्नीमुदानयति । अथाहमनुकामिनी स्वे लोके विशा इह पत्नी शालामुखीयमुपोपविश्य 2। सुप्रजसस्त्वा वयꣳ सुपत्नीरुप सेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम् इति जपति । एतस्मिन्काले ब्रह्मा अपरेणोत्तरवेदिं प्रत्याक्रम्य उत्तरेण हविर्धानमाग्नीध्रीयं च गत्वा पूर्वया द्वारा प्राग्वंशं प्रविश्यापरेण शालामुखीयं दक्षिणातिक्रम्योपविशति । एवा वन्दस्व वरुणं बृहन्तं नमस्याधीरममृतस्य गोपाम् । स नश्शर्म त्रिवरूथं वियꣳसत्पातं मा द्यावापृथिवी उपस्थे इत्युपस्थे राजानं कुरुते । अध्वर्युः :- समपिव्रतान् ह्वयध्वम् इति संप्रेष्यति । यजमानस्य अमात्यान् संह्वयन्ति । अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी पत्नीमितरे पुत्रभ्रातरः । अहतेन वाससा अमात्यान् सम्प्रच्छाद्य । वाससोऽन्ते स्रुग्दण्डमुपनियम्य प्रचरण्या वैसर्जनानि जुहोति । त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथꣳ स्वाहा । सोमायेदम् । जुषाणो अप्तुराज्यस्य वेतु स्वाहा । सोमायेदम् । अर्धं हुत्वाऽर्धमवशेषयति । ब्रह्मा हुते सोमं गृहीत्वा यथेतं प्रतिनिष्क्रम्य प्राग्वंशस्य द्वारि तिष्ठति । आ ग्राव्ण्ण आ वायव्यान्या द्रोणकलशं ददते यजमानस्य परिचारकाः । पत्नीमानयन्ति अजमनुनयन्ति । इध्माबर्हिराज्यानि च ।
अग्नीषोमीयप्रणयनम् :-
शालामुखीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्य अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रू३हि इति संप्रेष्यति । उद्यम्याग्निं नोद्यतहोमः । प्रथमायां त्रिरनूक्तायां अयं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयꣳ शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातौ अग्निप्रथमास्सोमप्रथमा वा प्राञ्चोऽभिप्रव्रजन्ति । आग्नीध्रीयेऽग्निं प्रतिष्ठापयति । ब्रह्मा प्रतिप्रस्थात्रे राजानं प्रदायोत्तरेणाग्नीध्रीयं दक्षिणातिव्रज्योपविश्य एवा वन्दस्व इत्युपस्थे राजानं कुरुते । अध्वर्युः :- अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम स्वाहा । आग्नीध्रीये अर्धमाज्यशेषस्य जुहोति । अग्नय इदम् ।
१. वैसर्जनहोमार्थम् ।
२. दक्षिणेन शालामुखीयमुपोपविश्य इति द्रा. प्र. ।
ग्राव्ण्णो वायव्यानि द्रोणकलशमाग्नीध्र उपवासयति । ब्रह्मा हुते पूर्वो निष्क्रम्य हविर्धानस्य पश्चिमद्वारि तिष्ठति । अध्वर्युः :- उत्तरेणाग्नीध्रीयमाहवनीयं गत्वा उरु विष्णो विक्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहा इति सर्वमाज्यशेषं जुहोति । विष्णव इदम् । हुतेऽमात्याः प्रदक्षिणमावृत्य यथेतमुपावर्तन्ते । सोमो जिगाति गातुविद्देवानामेति निष्कृतमृतस्य योनिमासदम् अपरया द्वारा हविर्धानं राजानं प्रपादयति पूर्वया यजमानः प्रपद्यते ।
हविर्धाने राज्ञः स्थापनम् :-
ब्रह्माध्वर्यवे राजानं प्रदायोत्तरेण हविर्धानं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशत्या अग्नीषोमीयस्य वपाया होमादास्ते । अध्वर्युः - अदित्यास्सदोऽसि दक्षिणस्य हविर्धानस्य नीडे पूर्ववत् कृष्णाजिनमास्तीर्य । अदित्यास्सद आ सीद तस्मिन्राजानमासादयति । अथैनं यजमानो देवताभ्यस्सम्प्रयच्छति एष वो देवस्सवितस्सोमस्तꣳ रक्षध्वं मा वो दभत् । एतत्त्वꣳ सोम देवो देवानुपागाः अभिमन्त्र्य । इदमहं मनुष्यो मनुष्यान् सह प्रजया सह रायस्पोषेण प्रदक्षिणमावृत्य । नमो देवेभ्यः प्राचीनमञ्जलिं करोति । प्राचीनावीती, स्वधा पितृभ्यः, दक्षिणामुखोऽञ्जलिं कृत्वा । यज्ञोपवीत्यप उपस्पृश्य । इदमहं निर्वरुणस्य पाशात् उपनिष्क्रम्य । स्वरभि व्यख्यम् प्राङ्प्रेक्षते । सुवरभि विख्येषम् सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिः आहवनीयम् ।
अवान्तरदीक्षाविसर्जनम् :-
अत्र यजमानोऽवान्तरदीक्षां विसृजते । दीक्षितनियमलोपप्रायश्चित्तानि कृत्वा । अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूस्त्वय्यभूदियꣳ सा मयि या तव तनूर्मय्यभूदेषा सा त्वयि यथायथं नौ व्रतपते व्रतिनोर्व्रतानि आहवनीयमुपतिष्ठते । वितरां मेखलां विस्रंसते । वितरां मुष्टी कर्षते । स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्यां, स्वाहोरोरन्तरिक्षात्, स्वाहा यज्ञं वातादारभे मुष्टी विसृजते । स्वाहा वाचि वाते विसृजे वाचं विसृजते । निवर्तते व्रतम् । हविश्शेषान् सोमान् सुत्येऽहनि भक्षयति । आग्नीध्रः - उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति । दक्षिणमिध्ममुत्तरं बर्हिः । यजमानः :- ऊर्णामृदु । अध्वर्युः :- प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते । आपो देवीः इत्यादि । स्तरणकाले अपरेणोत्तरवेदिं बर्हिस्तृणाति । स्तरणमन्त्रोऽभ्यावर्तते । आज्यानां सादनादि पाशुकं कर्म प्रतिपद्यते । आ वपाया होमात् ।
स्रुचः आसादनम् :-
[ तद्यथा = आज्यानां सादनकाले जुहूमासाद्य । उपभृदसीत्युपभृद्वत्पृषदाज्यधानीमासादयति । अवाहं बाध इति यजमान: । ऋषभौ स्थश्शाक्वरौ घृताचीनाꣳ सूनू प्रियेण नाम्ना प्रिये सदसि
सीदतं स्रुवस्वधिती युगपदासादयति । स्योनौ मे सीदतꣳ सुषदौ पृथिव्यां प्रथयि प्रजया पशुभिस्सुवर्गे लोके । दिवि सीदतं पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । इमौ स्रुवस्वधिती अभि जिहृतो होमाञ्च्छतक्षरौ छन्दसानुष्टुभेन । सर्वा यज्ञस्य समङ्क्तो विष्ठा बार्हस्पत्येन शर्मणा दैवेन । इमे स्थाल्यौ घृतस्य दध्नः पूर्णे अच्छिन्नपयसौ शतधारावुत्सौ । मारुतेन शर्मणा दैव्येन । एता असदन्नित्यादि । अयं यज्ञो, ममाग्ने पञ्चहोतेत्यासन्नाभिमर्शनम् । यूपसंस्कारः :-
अग्रेणाहवनीयं यूपावटं परिलिखति । अर्धमन्तवेद्यर्धं बहिर्वेदि । देवस्य त्वा --- हस्ताभ्यामाददेऽभ्रिरसि नारिरसि पूर्ववदभ्रिमादाय । परिलिखितꣳ --- अपिकृन्तामि इति त्रिः प्रदक्षिणं परिलिख्य खनति यथाऽनाविरुपरं भविष्यति । अग्रेणावटं प्राञ्चं यूपं निधाय । यत्ते शिक्वः परावधीत्तक्षा हस्तेन वास्या । आपस्तत्सर्वं जीवलाश्शुन्धन्तु शुचयश्शुचिं यूपं प्रक्षाल्याथैनं यवमतीभिः प्रोक्षति । पृथिव्यै त्वा मूलम् । अन्तरिक्षाय त्वा मध्यम् । दिवे त्वा अग्रम् । शुन्धतां लोकः पितृषदनः प्राचीनावीती प्रोक्षणीशेषमवटेऽवनीय यज्ञोपवीत्यप उपस्पृश्य । यवोऽसि यवयास्मद्द्वेषो यवयारातीः यवमवास्य । पितृणाꣳ सदनमसि प्राचीनावीती अवाचीनाग्रेण बर्हिषावस्तीर्य यज्ञोपवीत्यप उपस्पृश्य । स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य वित्तात् प्रथमपरापातिनं शकलमवास्य । घृतेन द्यावापृथिवी आ पृणेथाᳪ、 स्वाहा । द्यावापृथिवीभ्यामिदम् । स्रुवेण शकले हुत्वा। यूपाञ्जनम् :-
यूपायाज्यमानायानुब्रू३हि इति संप्रेष्यति । अथैनमसंस्कृतेनाज्येन यजमानोऽग्रतश्शकलेनानक्ति । अध्वर्युः - ऐन्द्रमसि संस्कृताज्येन चषालमङ्क्त्वा । सुपिप्पलाभ्यस्त्वौषधीभ्यः प्रतिमुच्य । देवस्त्वा सविता मध्वानक्तु स्रुवेण सन्ततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात् । सर्वतो यूपं संमृशति । रशनादेशे त्रिः । अञ्जनादि यूपं यजमानो नोत्सृजत्या परिव्ययणात् ।
यूपोच्छ्रयणं, प्रतिष्ठापनं च :-
यूपायोच्छ्रीयमाणायानुब्रूहि इति संप्रेष्यति । उद्दिवᳪँ、 स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृꣳह उच्छ्रयति । ते ते धामान्युश्मसी गमध्ये गावो यत्र भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य विष्णोः परमं पदमवभाति भूरेः अवटेऽवदधाति । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यस्सखा ॥ तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् द्वाभ्यामाहवनीयेनाग्निष्ठां संमिनोति । ब्रह्मवनिं त्वा क्षत्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिं
पर्यूहामि प्रदक्षिणं पांसुभिः पर्यूह्य । ब्रह्म दृꣳह क्षत्रं दृꣳह प्रजां दृꣳह रायस्पोषं दृꣳह मैत्रावरुणदण्डेन समं भूमिपरिदृंहणं कृत्वा । उन्नम्भय पृथिवीं भिन्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् अद्भिः परिषिञ्चति । यूपपरिव्ययणम् :-
दर्भमय्यौ रशने भवतो द्विगुणा द्विव्यायामा पशुरशना त्रिगुणा त्रिव्यायामा यूपस्य । देवस्य त्वा - -- आ ददे यूपरशनामादाय । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यस्सखा सरशनेन पाणिना यूपमुन्मार्ष्टि । तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् इत्यग्रं प्रेक्षते । यूपाय परिवीयमाणायानुब्रू३हि संप्रेष्यति । परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमꣳ रायस्पोषो यजमानं मनुष्याः नाभिदघ्ने रशनया त्रिः प्रदक्षिणं यूपं परिव्ययति । मध्यदेशे वा । आन्तं तस्य प्रवेष्ट्य । अणिमति स्थविमत्प्रवीय । दिवस्सूनुरसि स्वरुमादाय । अन्तरिक्षस्य त्वा सानाववगूहामि उत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ।
पशुसंस्कारः :-
पशुं स्नपयन्त्यध्वर्युब्रह्मयजमानाः 1। यद्यङ्गहीनस्स्यादङ्गतो वा विरुज्येत । अथैकेषां वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामिति च हुत्वा प्रयोजयेत् । इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे स्वाहा । विष्णव इदम् । अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतᳪँ、 स्वाहा । अग्नाविष्णुभ्यामिदम् । प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु स्वाहा । सरस्वत्या इदम् । बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रᳪँ、 स्वाहा । बृहस्पतय इदम् । भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् ।
पशोरुपाकरणम् :-
इषे त्वा । इषे त्वा बर्हिषी आदत्ते । उपवीरसि प्लक्षशाखाम् । बर्हिर्भ्यां प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपस्पृशन्नुपाकरोति उपो देवान्दैवीर्विश: प्रागुर्वह्नीरुशिजो बृहस्पते धारया वसूनि हव्या ते स्वदन्तां देव त्वष्टर्वसुरण्व रेवती रमध्वम् ॥ प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः । तस्मै प्रति प्रवेदय चिकित्वाꣳ अनुमन्यताम् ॥ इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने सुकृतस्य मध्ये ॥ अनु मन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यमग्नीषोमाभ्यां त्वा जुष्टमुपाकरोमि । पञ्चकृत्वो देवतोपदेशनं, उपाकरणे नियोजने प्रोक्षणे वपाया उद्धरणे
१. अध्वयुर्यजमानः प्रतिप्रस्थाता च इत्यस्मद्ग्रामीणहस्तप्रतिपाठः । आ वपाया होमादास्ते इति वचनात् ब्रह्मा नोत्तिष्ठेदिति।
हृदयस्याभिघारण इति । प्रज्ञाते बर्हिषी निधाय । उपाकृत्य पञ्च जुहोति । प्रजानन्तः प्रतिगृह्णन्ति पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् । सुवर्गं याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैस्स्वाहा । पशव इदम् । येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् । निष्क्रीतोऽयं यज्ञियं भागमेतु रायस्पोषा यजमानस्य सन्तु स्वाहा । पशुपतय इदम् । ये बध्यमानमनु बध्यमाना अभ्यैक्षन्त मनसा चक्षुषा च । अग्निस्ताꣳ अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संविदानस्स्वाहा । अग्नय इदम् । य अरण्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । वायुस्ताꣳ अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संविदानस्स्वाहा । वायव इदम् । प्रमुञ्चमाना भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । उपाकृतꣳ शशमानं यदस्थाज्जीवं देवानामप्येतु पाथस्स्वाहा । देवेभ्य इदम् । पञ्च हुत्वाग्निं मन्थति ।
अग्निमन्थनम् :-
अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या उभे बिले अङ्क्त्वा । घृतेनाक्ते वृषणं दधाथाम् उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रूहि इति संप्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनु प्र जायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनु प्र जायस्व द्वितीयम् । जागतं छन्दोऽनु प्र जायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायानुब्रू३हि जाते संप्रेष्यति । प्रह्रियमाणायानुऽब्रू३हि प्रहरन् संप्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधि राज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयᳪँ、 स्वाहा । प्रविष्टायाग्नय इदम् । प्रहृत्य सुवेणाभि जुहोति ।
पशोः नियोगः :-
देवस्य त्वा --- हस्ताभ्यामाददे पशुरशनामादाय । पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्य । ऋतस्य त्वा देव हवि: पाशेनारभे दक्षिणेऽर्धे शिरसि पाशेनाक्ष्णया प्रतिमुच्य । धर्षा मानुषानग्नीषोमाभ्यां त्वा जुष्टं नियुनज्मि उत्तरतो यूपस्य नियुनक्ति । अद्भ्यस्त्वौषधीभ्यः प्रोक्षाम्यग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि प्रोक्षति । अपां पेरुरसि पाययति । स्वात्तं चित्सदेवꣳ हव्यमापो देवीस्स्वदतैनम् उपरिष्टादधस्तात्सर्वतश्च प्रोक्ष्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते । अयं वेद इत्यादि । स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति । सं ते प्राणो वायुना गच्छताम् शिरसि । सं यजत्रैरङ्गानि द्विः
अंसोच्चलयोः । सं यज्ञपतिराशिषा श्रोण्याम । मखस्य शिरोऽसीति ध्रुवासमञ्जनादि कर्म प्रतिपद्यते । । महावेद्या उत्तरतो बहिस्स्थितौ क इदमध्वर्युरित्यादि ।
प्रवरः :-
दैवं च मानुषं च होतारौ वृत्वा 1 पुनराश्राव्य मैत्रावरुणं प्रवृणीते । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रात् अमुक शर्मा मानुषः ।
प्रयाजाः :-
दिवा प्रयाजैः प्रचर्य अस्तंयन्तमनूयाजैः उपासते । घृतवति शब्दे जुहूपभृतावादाय तिष्ठति पशावेकादश प्रयाजान् यजति । आश्राव्य प्रत्याश्राविते समिद्भ्यः प्रेष्य प्रथमं संप्रेष्यति । प्रेष्य प्रेष्य इतीतरान् । चतुर्थाष्टमयोः प्रतिसमानीय, दशेष्ट्वैकादशायाज्यमवशिनष्टि । तान् यजमानः प्राकृतैरादितश्चतुर्भिश्चतुरोऽ-नुमन्त्र्य, चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतींस्त्रीन् । उत्तमेन शेषम् । अध्वर्युः - प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति । त्रिस्स्वरुं सकृत्स्वधितेरन्यतरां धाराम् । स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति । घृतेनाक्तौ पशुं त्रायेथाम् शिरसि । न वा स्वधितिना स्वरुणैव । घृतेनाक्तः पशुं त्रायस्व इत्युपदेशमतम् । अक्तया धारया शृतस्यावद्यति । पशुमितरया विशास्ति । शमित्रे स्वधितिं प्रयच्छन्नाह शमितरेषा तेऽश्रिस्स्पष्टाऽस्तु । पुनस्स्वरुमवगूह्य आयतने स्रुचौ सादयित्वा ।
पर्यग्निकरणम् :-
पर्यग्नये क्रियमाणायानुब्रूहि संप्रेष्यति । आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपति: कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे त्रिः प्रदक्षिणं पर्यग्नि करोति पशुम् । यूपमाहवनीयं शामित्रदेशं चात्वालम् । आज्यानि चेत्येके । अध्वर्युः - पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति । प्रजानन्तः --- शरीरैस्स्वाहा । पशव इदम् । पशुपतेः पशवो विरूपास्सदृशा उत । तेषां यं वव्रिरे देवास्तᳪँ、 स्वराडनुमन्यताᳪ、 स्वाहा । पशुपतय इदम् । आग्नीध्रः प्रत्यपिसृज्योल्मुकं त्रिः प्रतिपर्येति । ये बध्यमानमनु --- संविदानस्स्वाहा । अग्नय इदम् । प्रमुच्यमाने ।
संज्ञपनार्थं पशोः हरणम् :-
रेवतीर्यज्ञपतिं प्रियधा विशत वपाश्रपणीभ्यां पशुमन्वारभेतेऽध्वर्युयजमानश्च । आश्राव्य प्रत्याश्राविते संप्रेष्यति उपप्रेष्य होतर्हव्या देवेभ्यः । प्रास्मा अग्निमिति होतुरभिज्ञायाग्नीध्रः 2 प्राजहितादग्निमाहृत्य दक्षिणया द्वारा निर्हृत्य दक्षिणेन मार्जालीयं धिष्णियं नीत्वा अन्तरा यूपमाहवनीयं चोत्तरतो हृत्वा पृथगाहवनीयादुल्मुकमादाय पूर्वः प्रतिपद्यते । शमिता पशुं नयति ।
प्रणीयमाने श्रपणार्थवह्निं दैक्षे पशौ प्राजहिताद्गृहीत्वा ।
१. अत्रैव सौमिक ऋत्विजां वरणमिति द्रा. प्र । सूत्रे अत्रैवानुक्रमणादिति ।
२. प्रतिप्रस्थाता पशुश्रपणं हरतीति द्रा प्र।
द्वारैव तं दक्षिणयातिहृत्य मार्जालदेशस्य तु दक्षिणेन ।
यूपस्य पश्चात् पुरतः पशोश्च स्यादुल्मुकं चाहवनीयतः पृथक् ॥
उरो अन्तरिक्ष सजूर्देवेन वातेनास्य हविषस्त्मना यज समस्य तनुवा भव वर्षीयो वर्षीयसि यजे यजपतिं धाः अन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति अध्वर्युयजमानाग्नीध्रशमितारः । प्रतिप्रस्थाता प्रमुञ्चमाना --- पाथस्स्वाहा । देवेभ्य इदम् । प्रणीयमाने । नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिस्सह देवयानः । जीवं देवानामप्येतु पाथस्सत्यास्सन्तु यजमानस्य कामाः अध्वर्युर्जपति । ऊवध्यगोहं पार्थिवं खनतादिति होतुरभिज्ञायोवध्यगोहं खनति । उत्तरेण पशुमुल्मुकं निदधाति । स शामित्रः । तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य ।
संज्ञपनम् :-
पृथिव्यास्सम्पृचः पाहि तस्याधस्तात् बर्हिरुपास्यत्युपाकरणयोरन्यतरत् । तस्मिन्त्संज्ञपयन्ति प्रत्यक्शिरसमुदीचीनपादम् । अमायुं कृण्वन्तं संज्ञपयत इत्युक्त्वा पराङावर्ततेऽध्वर्युः । स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यᳪँ、 स्वः पशुभ्यो लोकविदसि लोकं वित्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्वा गातुमिहि गातुं मह्यं गातु पशुभ्यो नाथविदसि नाथं वित्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यः । न वा उवेतन्म्रियसे न रिष्यसि देवाꣳ इदेषि पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवस्सविता दधातु । आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ।। विश्वा आशा मधुना सꣳसृजाम्यनमीवा आप ओषधयो भवन्तु । अयं यजमानो मृधो व्यस्यतामगृभीताः पशवस्सन्तु सर्वे इत्युक्त्वा पराङावर्तते यजमानः । नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिस्सह देवयानः । जीवं देवानामप्येतु पाथस्सत्यास्सन्तु यजमानस्य कामाः अध्वर्युर्जपति । यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नस्सन्तु पयस्वतीरस्मिन् गोष्ठे वयोवृधः । इह पशवो विश्वरूपा रमन्तामस्मिन् यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माꣳ अवन्तु पयसा घृतेन पृषदाज्यमवेक्षमाणौ वाग्यतावासातेऽध्वर्युर्यजमानश्च । इन्द्रस्य भागस्सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्यनु तꣳ स्वस्वाऽनागसो यजमानस्य वीराः इति वाग्यत एव यजमानो वाश्यमानेऽवेक्षते ।। संज्ञपनप्रायश्चित्तनि संज्ञप्तहोमश्च :-
यदस्य पारे रजसश्शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोऽग्ने वैश्वानरस्स्वाहा । अग्नये वैश्वानरायेदम् । यस्माद्भीषा वाशिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड
नमो रुद्राय मीढुषे स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । य इदमकस्तस्मै नमस्तस्मै स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । यदस्य । यस्माद्भीषा न्यषदस्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । य इदमकः । यदस्य । यस्माद्धीषाऽवेपिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा । य इदमकः । यदस्य । यस्माद्भीषा पलायिष्ठाः । य इदमकः । यदस्य । यस्माद्धीषा समज्ञास्थाः । य इदमकः । यदस्य । यस्माद्भीषा निमेहसि। यदस्य । यस्माद्भीषा शकृत्करोषि । नोभयत्र य इदमकः । भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् 1 । यत्पशुर्मायुमकृतोरो वा पद्भिराहते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳहसस्स्वाहा । अग्नय इदम् । संज्ञप्ते संज्ञप्तहोमं जुहोति ।
संज्ञप्तहोमे तु हुते प्रताप्ये सप्लक्षशाखे तु वपाश्रपण्यौ ।
निष्टप्तयित्वाहवनीय एव मुख्याभिषेकः प्रतिपत्न्यनर्वा ।।
वपोद्धरणार्थं गमनं, आप्यायनं च :-
निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः सप्लक्षशाखे वपाश्रपण्यावाहवनीये प्रतितप्य । शमितार उपेतन यज्ञं देवेभिरिन्वितम् । पाशात्पशुं प्रमुञ्चत बन्धाद्यज्ञपतिं परि वपाश्रपणीभ्यां पशुमुपेतोऽध्वर्युर्यजमानश्च । अदितिः पाशं प्रमुमोक्त्वेतन्नमः पशुभ्यः पशुपतये करोमि अध्वर्युः पशोः पाशं प्रमुञ्चति । संवेष्ट्य रशनां ग्रीवासु निधायैकशूलयोपसज्य । अरातीयन्तमधरं कृणोमि चात्वाल उदस्यति । ततः प्रतिप्रस्थाता पत्नीमुदानयति । नमस्त आतान पत्न्यादित्यमुपतिष्ठते । अनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेण प्राचीमुदानयति । आपो देवीश्शुद्धायुवश्शुद्धा यूयं देवाꣳ ऊढ्वꣳ शुद्धा वयं परिविष्टाः परिवेष्टारो वो भूयास्म चात्वाले पत्न्यपोऽवमृशति । ऋत्विजो यजमानश्च । ब्रह्मणो नापामुपस्पर्शनम् । अद्भिः पशोस्सर्वान्प्राणानाप्याययति । सर्वाण्यङ्गान्यध्वर्युरभिषिञ्चति पत्न्याप्याययत्येतद्वा विपरीतम् । वाक्त आ प्यायताम् । शमद्भ्यः । प्राणास्त आ प्यायताम् । शमद्भ्यः । चक्षुस्त आ प्यायताम् । शमद्भ्यः । श्रोत्रं त आ प्यायताम् । शमद्भ्यः । यथालिङ्गमाप्याययति । या ते प्राणाञ्छुग्जगाम या चक्षुर्या श्रोत्रं यत्ते क्रूरं यदास्थितं तत्त आ प्यायतां तत्त एतेन शुन्धताम् । शमद्भ्यः हृदयदेशम् । नाभिस्त आ प्यायताम् । शमद्भ्यः नाभिम् । पायुस्त आ प्यायताम् । शमद्भ्यः पायुम् । मेढ्रं त आ प्यायताम् । शमद्भ्यः मेढ्रम् । पादानेकीकृत्य । शुद्धाश्चरित्राश्शमद्भ्यः पादान् । शमद्भ्य इति
१. वाशिन्यषद वेपिष्ठाः पत्ना सम निमे शकृत् । आदिर्यदस्य सप्तानां य इदं नान्त्ययोर्द्वयोः ।।
जपस्सर्वत्र । शमोषधीभ्यश्शं पृथिव्यै शमहोभ्याम् भूम्यां शेषं निनीय । पशुमुत्तानं निपात्य ।
ओषधे त्रायस्वैनम् उपाकरणयोरवशिष्टं दक्षिणेन नाभिमन्तर्धाय । स्वधिते मैनꣳ हिꣳसीः स्वधितिना पार्श्वतस्तिर्यगाच्छ्यति । बर्हिषोऽग्रं सव्येन पाणिनादत्ते । अथ मध्यं यत आच्छ्यति तदुभयतो लोहितेनाङ्क्त्वा । रक्षसां भागोऽसि उत्तरमपरमवान्तरदेशं निरस्य । रक्षोभ्य इदम् । अप उपस्पृश्य । इदमहꣳ रक्षोऽवबाध इदमहꣳ रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमेनमधमं तमो नयामि अथैनत्सव्येन पदाधितिष्ठति ।
वपोद्धरणम् :-
इषे त्वा वपामुत्खिद्य । घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् वपया द्विशूलां प्रच्छाद्य । ऊर्जे त्वा तनिष्ठेऽन्तत एकशूलयोपतृणत्ति । देवेभ्यः कल्पस्व अभिमन्त्र्य । देवेभ्यश्शुन्धस्व अद्भिरवोक्ष्य । देवेभ्यश्शुम्भस्व स्वधितिना वपां निमृज्य । अच्छिन्नो रायस्सुवीरोऽग्नीषोमाभ्यां त्वा जुष्टामुत्कृन्तामि उत्कृन्तति । अप उपस्पृश्य । मुष्टिना शमिता वपोद्धरणमपिधायास्त आ वपया होमात् । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः शामित्रे वपां प्रतितप्य । नमस्सूर्यस्य सन्दृशे आदित्यमुपस्थाय । उर्वन्तरिक्षमन्विहि अभिप्रव्रजति । आहवनीयादाहृतमुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते । वपाश्रपणी पुनरन्वारभते यजमानः । आग्नीध्रः उल्मुकैकदेशमाहवनीये प्रत्यपिसृजति ।
वपायाः श्रपणम् :-
अध्वर्युः – निर्दग्धꣳ रक्षो निर्दग्धा अरातयः आहवनीयस्यान्तमेऽङ्गारे वपां निकूड्यान्तरा यूपमाहवनीयं च दक्षिणाऽतिहृत्य प्रतिप्रस्थाने प्रयच्छति । तां दक्षिणत आसीनः प्रतिपस्थाताहवनीये श्रपयति । वायो वीहि स्तोकानाम् बर्हिषोऽग्रमधस्ताद्वपाया उपास्यति । त्वामु ते दधिरे हव्यवाहꣳ शृतङ्कर्तारमुत यज्ञियं च । अग्ने सदक्षस्सतनुर्हि भूत्वाथ हव्या जातवेदो जुषस्व स्वाहा स्रुवेण वपामभि जुहोति । अग्नये जातवेदस इदम् । प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहि संप्रेष्यति । अलोहिनीं सुशृतां कृत्वा यस्त आत्मा इत्यभिघार्य । दृꣳह इत्युद्वास्य । सुपिप्पला ओषधीः कृधि दक्षिणस्यां वेदिश्रोण्यां बर्हिषि प्लक्षशाखायामासाद्य । प्रयुता द्वेषाꣳसि वपाश्रपणी प्रवृह्य । तूष्णीं निधाय ।
आसादनं, एकादशः प्रयाजः, आज्यभागौ, वपाहवनं च :-
इदमिन्द्रिय --- शृतं मयि श्रयताम् । अयं यज्ञो, ममाग्ने पञ्चहोतेत्यासन्नाभिमर्शनम् । घृतवति शब्दे जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्राविते संप्रेष्यति स्वाहाकृतीभ्यः प्रेष्य वषट्कृते जुहोति । यजमानः - पृथिवी होता । अग्नय इदम् । हेमन्तशिशिरावृतूनां प्रीणामि ।
अध्वर्युः प्रत्याक्रम्य शेषेण ध्रौवमभिघार्य पृषदाज्यद्वयमभिघारयत्यथ वपाम् । नोपभृतम् । आज्यभागौ यजति । अग्नय आज्यस्याऽनुब्रूहि । अग्नय आज्यस्य प्रेष्य । अग्नय इदम् । अग्निना यज्ञः । सोमायाज्यस्याऽनुब्रूहि । सोमायाज्यस्य प्रेष्य । सोमायेदम् । सोमेन यज्ञः । प्रत्याक्रम्य । स्वाहा देवेभ्यः । देवेभ्य इदम् । पूर्वं परिवप्यं हुत्वा जुह्वामुपस्तीर्य । स्रुवेण हिरण्यशकलमादाय तेनैव कृत्स्नां वपामादाय हिरण्यशकलमुपरिष्टात्कृत्वाभिघारयति । एवं पञ्चावत्ता भवति । चतुरवत्तिनोऽपि पञ्चावत्ततैव स्यात् । अग्नीषोमाभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि ।। अग्नीषोमाभ्यां छागस्य वपाया मेदसः प्रेष्य संप्रेष्यति । जातवेदो वपया गच्छ देवान्त्वꣳ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतꣳ हविरदन्तु देवास्स्वाहा वषट्कृते जुहोति । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा । प्रत्याक्रम्य । देवेभ्यस्स्वाहा । देवेभ्य इदम् । उत्तरं परिवप्यं हुत्वा वपोद्धरणमभिघारयत्युत्तरतस्तिष्ठन् । स्वाहोर्ध्वनभसं मारुतं गच्छतम् प्रतिपस्थाताऽहवनीये वपाश्रपणीं प्राचीं द्विशूलां प्रतीचीमेकशूलां कृत्वा प्रहरति । ऊर्ध्वनभसे मारुतायेदम् । अथैने अध्वर्युस्संस्रावेणाभि जुहोति स्वाहा । प्रजापतय इदम् । प्रस्तरादन्यत्र स्रुचोस्सादनम् ।
वपामार्जनम् :-
समुत्क्रम्य सहपत्नीकाः पञ्चभिश्चात्वाले मार्जयन्ते आपो हि ष्ठ इति तिसृभिः । इदमापः प्रवहतावद्यं च मलं च यत् । यद्वाभिदुद्रोहानृतं यद्वा शेपे अभीरुणम् । आपो मा तस्मादेनसो विश्वान्मुञ्चन्त्वꣳहसः । निर्मा मुञ्चामि शपथान्निर्मा वरुणादधि । निर्मा यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषात् हुतायां वपायां मार्जयित्वा ।]
सुब्रह्मण्याह्वानं, वसतीवरीग्रहणं च :-
सुब्रह्मण्य पितापुत्रीयां सुब्रह्मण्यामाह्वय इति सम्प्रेष्यति । आहूतायां ब्रह्मणा सह वसतीवरीग्रहणार्थं गच्छति । गिरिभिदां वहन्तीनां प्रत्यङ्तिष्ठन् छायायै चातपतश्च सन्धौ गृह्णाति । कुम्भं प्रतीपमुपमारयति । हविष्मतीरिमा आपो हविष्मान्देवो अध्वरो हविष्माꣳ आ विवासति हविष्माꣳ अस्तु सूर्यः वसतीवरीर्गृह्णाति । अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि अपरेण शालामुखीयमुपसादयति । सुम्नाय सुम्निनीस्सुम्ने मा धत्त सर्वेषु वसतीवरीणां सादनेषु यजमानो जपति । यस्यागृहीता अभिनिम्रोचेत् सुवर्न घर्मस्स्वाहा । घर्मायेदम् । सुवर्नार्कस्स्वाहा । अर्कायेदम् । सुवर्न शुक्रस्स्वाहा । शुक्रायेदम् । सुवर्न ज्योतिस्स्वाहा । ज्योतिष इदम् । सुवर्न सूर्यस्स्वाहा । सूर्यायेदम् । पञ्चार्काहुतीर्हुत्वा ब्रह्माध्वर्युभ्यां वरे दत्ते । उल्कां उपरिष्टाद्धारयमाणो गृह्णीयात् ।
पशुपुरोडाशनिर्वपणादि :-
[अग्नीषोमीयस्य पशुपुरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते । एकादश कपालानि शूर्पं च द्वन्द्वम् । कृष्णाजिनाद्युपलान्तम् । पुरतः पात्रीं प्राशित्रहरणं विभक्तवेदाग्राणि मदन्त्यर्थं मेक्षणमुपवेषमुत्पवनार्थपात्रं तृणं च । पवित्रे कृत्वा यजमान वाचं यच्छ। न यज्ञयोगः । निर्वपणकाले व्रीहिमयं पुरोडाशं निर्वपत्येकादशकपालं द्वादशकपालं वा । यद्देवतः पशुस्तद्देवतो भवति । अग्नीषोमाभ्यां जुष्टं निर्वपामि । अग्नीषोमौ हव्यꣳ रक्षेथाम् । अग्नीषोमाभ्यां वो जुष्टं प्रोक्षामि । सर्वाभिरद्भिस्त्रिः प्रोक्षति । हविष्कृता वाचं विसृज्य ।
अङ्गानां उद्धरणं श्रपणं च :-
पशुं विशास्ति । गुदं मा निर्व्लेषीर्वनिष्ठुं मा निर्व्लेषीः इति संप्रेष्यति । हृदयाद्युद्धरणम् । हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि । दक्षिणं दोस्सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि । क्लोमानं प्लीहानं पुरीततं वनिष्ठुमध्यूध्नीं मेदो जाघनीमित्युद्धरति । हृदयशूलं शाखापवित्रमुपवेषं कुम्भीं च निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः शामित्रे प्रतितप्य । धृष्टिरसि इति उपवेषादानादि । उदक् शाखापवित्रमत्यादधातीत्यन्तं कृत्वा, सव्येन शाखापवित्रमन्वारभ्य । देवस्त्वा सविता पुनतु इति सकलं मांसजातं कुम्भ्यां प्रक्षिपति । देवस्त्वा सविता इति शूले प्रणीक्ष्य हृदयं शामित्रे श्रपयति । पुरोडाशकरणादि प्रचारान्तम् :-
अव रक्षो दिव इत्यवहननादि कर्म प्रतिपद्यते । अग्नीषोमाभ्यां जुष्टमधिवपामि । कपालानामुपधानकालेऽष्टावुपधाय तूष्णीं त्रीणि । अग्नीषोमाभ्यां जुष्टꣳ संवपामि । अन्या आपो यजुषोत्पूय समापो अद्भिः । आप्यलेपं बर्हिषि निनीय । घृतागेह्यग्निस्त्वाह्वयति देवयज्यायै । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः । अनिशितमसि सपत्नक्षयणम् । रूपं वर्णम् इत्यन्यैर्दर्भैः । अग्नेस्त्वा तेजिष्ठेन । अयं प्राणश्च इति प्रस्तरे पवित्रेऽपिसृज्य । इदमहꣳ सेनाया इत्यादि । तूष्णीमभिघार्य । प्रियेणेत्यासादयति । अयं यज्ञो, ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । अत्र विरमेदा पशुश्रपणात् । शृते पशौ पञ्चहोता । जुह्वामुपस्तीर्येत्यादि । अग्नीषोमाभ्यां पुरोडाशस्याऽनुब्रू३हि । अग्नीषोमाभ्यां पुरोडाशस्य प्रेष्य । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् । न पार्वणनारिष्ठाः । स्विष्टकृति अग्नयेऽनु ब्रूहि । अग्नये प्रेष्य। अग्नय इदम् । अग्नेरहं देवयज्ययायुष्मान् --- गमेयम् । प्रत्याक्रम्य । प्राशित्रमवदायेडाम् । न यजमान भागम् । उपहूतां मैत्रावरुणषष्ठा भक्षयित्वा पूर्ववत्प्रस्तरे मार्जयित्वा ।
शामित्रसंवादः :-
स्रुवेण पृषदाज्यस्योपहत्य वेदेनोपयम्य । शृतꣳ हवी३श्शमित: इति पृच्छति । शृतं इतीतरः प्रत्याह । पूषा मा पशुपाः पातु प्रथमेऽभिप्रव्रजति । अर्धाध्वे द्वितीयं पृच्छति शृतꣳ हवी३श्शमितः । शृतम् । पूषा मा पथिपाः पातु । कुम्भीं प्राप्य तृतीयं पृच्छति शृतꣳ हवी३श्शमितः । शृतम् । शूलात्प्रवृह्य हृदयं कुम्भ्यामवधाय पूषा माऽधिपाः पातु । उत्तरतो गत्वा । सन्ते मनसा मनस्सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहाग्नीषोमाभ्यां त्वा जुष्टमभिघारयामि पृषदाज्येन हृदयमभिघारयति । यस्त आत्मा --- मह्यम् । आज्येन पशुमभिघारयति । स्वाहोष्मणो व्यथिष्यै उद्यन्तमूष्माणमनुमन्त्रयते । दृꣳह इति कुम्भीमुद्वास्य पशुं हरन् पार्श्वतो हृदयशूलं धारयन्ननुपस्पृशन्नात्मानमितरांश्च । अन्तरा यूपमाहनीयं च दक्षिणातिहृत्याग्निर्होतेति पञ्चहोत्रा दक्षिणस्यां वेदिश्रोण्यामासादयति । यजमानः - इदमिन्द्रियं, अयं यज्ञो, ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनं करोति ।
होमार्थं अङ्गावदानं, वसाग्रहणं, प्रचारश्च :-
अध्वर्युः चतसृषूपस्तृणीते जुहूपभृतोर्वसाहोमहवन्यां समवत्तधान्यामिति । जुहूपभृतोर्हिरण्यशकलाववधाय बर्हिषि प्लक्षशाखायामवदानान्यवद्यन् संप्रेष्यति मनोतायै हविषोऽवदीयमानस्यानुब्रू३हि । यजमानः – पञ्चहोतारं वदेत् । हृदयाद्वृक्याच्च मेदो गृहीत्वान्यत्र निधाय स्वधितेरक्तया धारया मा भेर्मा संविक्था इति हृदयस्यावदाय स्वधितिनैव हरति । ततो द्वितीयाद्यवदानम् । अथ जिह्वाया अथ वक्षस इत्यादि । यथोद्धृतानां दैवतानां द्विर्द्विरवदाय जुह्वामवदधाति । गुदं त्रैधं विभज्य स्थविमदुपयड्भ्यो निधाय मध्यमं द्वैधं विभज्य दैवतेष्ववदधाति अणिमत्सौविष्टकृतेषु । दक्षिणं दोस्सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि तूष्णीमभिघार्य सकृत्सकृदवदायोपभृत्यवदधाति । त्रेधा मेदोऽवद्यति द्विभागं स्रुचोस्तृतीयं समवत्तधान्याम् । यूषे मेदोऽवधाय मेदसा स्रुचौ प्रावृत्य हिरण्यशकलमुपरिष्टात्कृत्वाऽभिघारयति । समवत्तधान्यां तूष्णीं षडाद्यानीडामवद्यति वनिष्ठुं सप्तमम् । न यजमानभागम् । वृक्यान्तं तूष्णीम् । न सुरूपवर्षवर्णे । अनस्थिभिरिडां वर्धयति । क्लोमानं प्लीहानं पुरीततं इत्यन्ववधाय मेदसा प्रावृत्य यूष्णोपसिच्याभिघारयति । अपां त्वौषधीनाꣳ रसं गृह्णामि वसाहोमहवन्यां वसाहोमं गृह्णाति । स्वधितिना धारां छिनत्ति सव्येन । द्विः पञ्चावत्तिनः अप उपस्पृश्य । अभिघार्य । श्रीरस्यग्निस्त्वा श्रीणात्वापस्समरिणन् स्वधितिना वसाहोमं प्रयौति । वातस्य त्वा ध्रज्यै पूष्णो रᳪँ、ह्या अपामोषधीनाꣳ रोहिष्यै तेनापिदधाति । ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यदैन्द्रोऽपानो अङ्गेअङ्गे वि बोभुवद्देवत्वष्टर्भूरि ते सꣳ समेतु विषुरूपा यत्सलक्ष्माणो भवथ देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्तु अनवदानीयान्यङ्गानि शृतैस्सन्निधाय संमृशति । अथ हविषा प्रचरति । अग्नीषोमाभ्यां
छागस्य हविषोऽनु ब्रूहि । अग्नीषोमाभ्यां छागस्य हविषः प्रेष्य संप्रेष्यति । याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वान्तरिक्षाय स्वाहा । आन्तरिक्षायेदम् । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य प्राञ्चं हुत्वा । नमो दिग्भ्यः इत्युपतिष्ठते । वषट्कृते जुहोति । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानम् इति वा । प्रत्याक्रम्य नारिष्ठान् हुत्वा । जुह्वामुपस्तीर्य । सकृत्पृषदाज्यस्योपहत्य द्विरभिघार्य । द्विः पृषदाज्यस्योपहत्य द्विरभिघार्य पञ्चावत्तिनः । वनस्पतियागे ध्रौवसमाप्तिः । वनस्पतयेऽनुब्रू३हि । वनस्पतये प्रेष्य। वनस्पतय इदम् । वनस्पतेरहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । तत्रस्थ एवोपर्याहवनीये जुह्वामौपभृतानि विपर्यस्यन्नाह । अग्नये स्विष्टकृतेऽनु ब्रू३हि । अग्नये स्विष्टकृते प्रेष्य । अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रत्याक्रम्य जुह्वामप आनीय । वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा । पर्वाञ्जनादि । मेद उपस्तीर्य । मेदसाभिघारयति । उपहूतां मैत्रावरुणषष्ठा भक्षयन्ति । प्रतिप्रस्थाता सप्तमः । वनिष्ठुमग्नीधे षडवत्तं संपादयति । तमाग्नीध्र इडावद्भक्षयति । अध्यूध्नीं होत्रे हरति ।
अनूयाज उपयड्ढोमौ :-
अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन् प्रस्थास्यामस्समिधमाधाय इत्यादि संप्रेष्यति । आग्नीध्रः - आग्नीध्रीयादङ्गारानाहृत्य होत्रीये निदधाति । तस्य पश्चात् प्रतिप्रस्थातोपविशति । ब्रह्मा देवसवितरित्यादि । अध्वर्युः - इध्मसन्नहनप्रहरणान्ते पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेनैकादशानूयाजान् यजति । देवेभ्यः प्रेष्य इति प्रथमं संप्रेष्यति । प्रेष्य प्रेष्य इतीतरान् । पञ्चमप्रभृतिषु दशमवर्जितेषु मैत्रावरुणेन सह यज इति ब्रूयात् । आद्यांश्चतुरो दशमं च पूर्वार्धे समिधि जुहोति । पञ्चमप्रभृति चतुरो मध्ये, नवमैकादशौ पश्चार्धे हुत्वेतरावनुसंभिनत्ति । प्रतिप्रस्थाता गुदकाण्डमेकादशधा तिर्यक्छित्वा असंभिन्दन्नपर्यावर्तयन्ननूयाजानां वषट्कृते वषट्कृत एकैकं गुदकाण्डं हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्येतैः प्रतिमन्त्रं । समुद्रं गच्छ स्वाहा । अन्तरिक्षं गच्छ स्वाहा । देवꣳ सवितारं गच्छ स्वाहा । अहोरात्रे गच्छ स्वाहा । मित्रावरुणौ गच्छ स्वाहा । सोमं गच्छ स्वाहा । यज्ञं गच्छ स्वाहा । छन्दाꣳसि गच्छ स्वाहा । द्यावापृथिवी गच्छ स्वाहा । नभो दिव्यं गच्छ स्वाहा । अग्निं वैश्वानरं गच्छ स्वाहा । यजमानः - अग्नय इदम् । समुद्रायेदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । अन्तरिक्षायेदम् । द्वारामहं देवयज्यया
प्रजावान् भूयासम् । अग्नय इदम् । देवाय सवित्र इदम् । उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । अहोरात्राभ्यामिदम् । जोष्ट्र्योरहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । मित्रावरुणाभ्यामिदम् । ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । अग्नय इदम् । सोमायेदम् । दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । अग्नय इदम् । यज्ञायेदम् । तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । अग्नय इदम् । छन्दोभ्य इदम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । अग्नय इदम् । द्यावापृथिवीभ्यामिदम् । वनस्पतेरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । अग्नय इदम् । नभसे दिव्यायेदम् । बर्हिषो वारितीनामहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । अग्नये वैश्वानरायेदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रतिप्रस्थाता अद्भ्यस्त्वौषधीभ्यः बर्हिषि लेपं निमृज्य । मनो मे हार्दि यच्छ तनूं त्वचं पुत्रं नप्तारमशीय जपति ।
सूक्तवाकशंयुवाकौ :-
अध्वर्युः :- प्रत्याक्रम्य न स्वरुं जुहोति । न हृदयशूलमुद्वासयति । आयतने स्रुचौ सादयित्वा । वाजवतीभ्यामित्यादि । जूहूद्वयमुपभृद्द्वयं च करोति । जुह्वैव परिध्यञ्जनम् । प्रस्तरं द्वयोर्द्वयोरनक्ति । जुह्वामेव प्रतिष्ठाप्याश्राव्य प्रत्याश्राविते अग्निमद्य होतारमिति सूक्तवाकप्रैषं मैत्रावरुणो ब्रूयात् । अग्नेरहम् । सोमस्याहम् । अग्नीषोमयोरहम् । वनस्पतेरहम् । अग्नेस्स्विष्टकृतोऽहम् इत्यादि । जुहूद्वयेनोपभृद्द्वयेन च संस्रावहोमः ।
पत्नीसंयाजा :-
अग्नेर्वोपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुरि धुर्यौ पात स्फ्ये स्रुचस्सादयेत् । दक्षिणेन विहारं जाघनीं हृत्वाज्येन सोमत्वष्टाराविष्ट्वा पुरस्ताद्देवपत्नीभ्यस्सम्पत्नीयं जुहोति । जुह्वामुपस्तीर्य उत्तानायै जाघन्यै देवानां पत्नीभ्योऽवद्यति । नीच्या अग्नये गृहपतये । उत्तानायै होत्रे इडामवद्यति । नीच्या अग्नीधे । तां पत्न्यै प्रयच्छति । तां सा अध्वर्यवे अन्यस्मै वा ब्राह्मणाय । बाहुं शमित्रे । तं स ब्राह्मणाय यद्यब्राह्मणो भवति । पत्नीसंयाजान्तो आज्येडान्तोऽग्नीषोमीयस्सन्तिष्ठते ।]
वसतीवरी परिहरणम् :-
निशायां वसतीवरीः परिहरति । अन्तर्वेद्यासीने यजमाने पत्न्यां च । नादीक्षितमभिपरिहरेत् । सव्येंऽसेऽत्याधायापरेण प्राजहितं परिक्रम्य पूर्वया द्वारोपनिर्हृत्य दक्षिणेन वेदिं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य दक्षिणस्यामुत्तरवेदिश्रोण्यां सादयति इन्द्राग्नियोर्भागधेयीस्स्थ । दक्षिणेंऽसेऽत्याधाय यथेतं गत्वा पूर्वया द्वारोपनिर्हृत्योत्तरेण वेदिं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्योत्तरस्यामुत्तरवेदिश्रोण्यां
सादयति मित्रावरुणयोर्भागधेयीस्स्थ । सव्येंसेऽत्याधाय यथेतं गत्वापरेणाग्नीध्रीयं धिष्णियमुपसादयति विश्वेषां देवानां भागधेयीस्स्थ । यज्ञे जागृत सन्ना अभिमन्त्रयते । सुम्नाय सुम्निनीस्सुम्ने मा धत्त इति सर्वेषु सादनेषु यजमानो पूर्ववज्जपति ।
सवनीय सायन्दोहः :-
अत्र प्रतिप्रस्थाता पयस्यार्थं सायन्दोहं दोहयति । अग्निं 1 परिस्तीर्येत्यादि । कामधुक्षः प्र णो ब्रूहि मित्रावरुणाभ्यां हविरिन्द्रियम् । बहुदुग्धि मित्रावरुणाभ्यां देवेभ्यः । सोमेन त्वाऽऽतनच्मि मित्रावरुणाभ्यां दधि । उच्छेषणस्थाने तण्डुलैरातञ्चनम् । प्रातर्दोहाय वत्सानपाकरोतीत्यन्तं प्रकृतिवत् । अध्वर्युस्संप्रेष्यति या यजमानस्य व्रतधुक् तस्या आशिरं कुरुत 2, या पत्न्यै तस्यै दधिग्रहाय, या घर्मधुक् तस्यै दधि घर्माय, तप्तमनातक्तं मैत्रावरुणाय, शृतातङ्क्यं दधि कुरुतादित्यग्रहाय, सुब्रह्मण्य सुब्रह्मण्यामाह्वय न सदस्युपवस्तवै। प्रतिप्रस्थाता पञ्चदोहानां पाकं लौकिकाग्नौ कृत्वा आतञ्चनादि तूष्णीं सर्वं करोति ।
सवनीय इध्माबर्हिषोः आहरणम् :-
अत्र सवनीयस्य सवनीयानामिति इध्माबर्हिस्सन्नह्यति । न वा बर्हिः प्रस्तरमेव । अध्वर्युः - इषे त्वेत्यादि शाखामाच्छिनत्ति तूष्णीं प्लक्षशाखाम् । देवस्य त्वेत्यादि प्रस्तरं हृत्वा । देवबर्हिरित्यादि । शुल्बं वितत्य । अलुभिता योनिरिति केवलं प्रस्तरं निधाय बध्वानधो निदधाति । ततस्त्वां त्रयोविꣳशतिधा । ऐक्षवी विधृती कार्ष्मर्यमयाः परिधयः । इध्मप्रव्रश्चनानि निदधाति । वेदं कृत्वा । अन्तर्वेदिशाखाया इत्यादि । न पर्णवल्कम् । कुम्भीलेपनान्तम् । इमौ पर्णं च । परिस्तृणीत । उभावग्नी । देवा देवेषु । ततो यजमानस्य व्रतं प्रयच्छति 3। प्राजहिते दीक्षितस्य व्रतमित्याद्यपरेण शालामुखीयं व्रतमत्याहृत्य प्रयच्छति । ये देवा मनोजाता इति व्रतयति । हविर्धाने यजमानं जागरयन्ति प्राग्वंशे पत्नीम् । आग्नीध्रे एतां रात्रिं ऋत्विजो वसन्ति । यजमानो राजानं गोपायति गोपायति ।
॥ इति तृतीयोध्यायः ॥
१. अग्निं इत्युक्ते अत्र शालामुखीयस्य परिस्तरणम् ।
२. आशिरशब्दः केवल दधिपर्यायवाचकः इति बहूनां मतम् । दुग्धमात्रोष्णमातक्तं दध्याशिरमुदाहृतम् इति वासुदेवकारिका ।
३. एषः भाष्यकार पक्षः । अग्नीषोमीयरात्रौ यजमानस्य व्रतं नास्ति इति द्रा. प्र । एवमेव रुद्रदत्तमतम् ।