आपस्तम्बीय श्रौतप्रयोगः/अग्न्याधानप्रयोगः

॥ अग्न्याधानप्रयोगः ॥
आधानस्य सङ्कल्पः :-
अग्न्याधेयं व्याख्यास्यामः । वसन्ते पर्वणि उक्ते नक्षत्रे वा अग्न्याधानम् । तस्य पुरस्ताज्जायापती जपहोमकृच्छ्रचान्द्रायणादिभिः कायं संशोध्य । पूर्वेद्युः प्रातरौपासनं कृत्वा । दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य देशकालौ सङ्कीर्त्य । उपात्तसकलदुरितक्षयद्वारा श्री परमेश्वरप्रीत्यर्थं अग्नीनाधास्ये सर्वक्रत्वर्थं यैरस्म्यधिकृतो यांश्च शक्ष्यामि प्रयोक्तुम् । विच्छिन्नाधाने = विच्छिन्नसन्धानार्थं अग्नीनाधास्ये । अन्यत्समानम् । अयज्ञत्वान्न विद्युत् । अस्मिन्नग्न्याधेये अध्वर्युं त्वां वृणीमहे । वृतोऽस्मि करिष्यामीत्यध्वर्युः ।
अरण्योः आहरणं, अभिमन्त्रणं च :-
अध्वर्युः :- वैश्वानरो न ऊत्याऽऽप्र यातु परावतः । अग्निरुक्थेन वाहसा ॥ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे ॥ वैश्वानरस्य दꣳसनाभ्यो बृहदरिणादेकस्स्वपस्यया कविः । उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश । वैश्वानरस्सहसा पृष्टो अग्निस्स नो दिवा स रिषः पातु नक्तम् ॥ जातो यदग्ने भुवना व्यख्यः पशुन्न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिस्सदा नः ॥ त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वं देवाꣳ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा । अस्माकमग्ने मघवत्सु धारयाऽनामि क्षत्रमजरꣳ सुवीर्यम् । वयं जयेम शतिनꣳ सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ।। वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ।। अश्वत्थं त्रिः प्रदक्षिणीकृत्य तन्मन्त्रेण नमस्कृत्य । वैश्वानरो न ऊत्या --- वैश्वानरो यतते सूर्येण ॥ तूष्णीं छित्वाप उपस्पृश्य । गायत्र्या द्वेधा कृत्वा1 । यो अश्वत्थश्शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिस्सह शमीगर्भस्य अश्वत्थस्य अरणी आहरति । अप्यशमीगर्भस्येति वाजसनेयकम् । अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाꣳ संभरामि । शान्तयोनिꣳ शमीगर्भमग्नये प्रजनयितवे । आयुर्मयि धेह्यायुर्यजमाने युगपदरणी अभिमन्त्र्य ।
१. प्रणवेन छित्वा गायत्र्या अरणी करोति इति द्रा. प्र ।
 
पार्थिवसम्भाराणामाहरणम् :-
सप्त पार्थिवान् सम्भारानाहरत्येवं वानस्पत्यान् । पञ्च पञ्च वा । भूयसो वा पार्थिवान् । न सम्भारान् सम्भरेदिति वाजसनेयकम् । वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमा विशन्तु नः सिकताः । यदिदं दिवो यददः पृथिव्यास्सञ्जज्ञाने रोदसी सं बभूवतुः । ऊषान् कृष्णमवतु कृष्णमूषा इहोभयोर्यज्ञियमागमिष्ठाः ऊषान् । ऊतीः कुर्वाणो यत्पृथिवीमचरो गुहाकारमाखुरूपं प्रतीत्य । तत्ते न्यक्तमिह सं भरन्तश्शतं जीवेम शरदस्सवीराः आखुकरीषम् । ऊर्जं पृथिव्या रसमाभरन्तश्शतं जीवेम शरदः पुरूचीः । वनीभिरनुवित्तं गुहासु श्रोत्रं त उर्व्यबधिरा भवामः वल्मीकवपाम् । प्रजापतिसृष्टानां प्रजानां क्षुधोपहत्यै सुवितन्नो अस्तु । उप प्रभिन्नमिषमूर्जं प्रजाभ्यस्सूदं गृहेभ्यो रसमाभरामि सूदम् । यस्य रूपं बिभ्रदिमामविन्द्गुहा प्रविष्टाꣳ सरिरस्य मध्ये । तस्येदं विहतमाभरन्तोऽछम्बट्कारमस्यां विधेम वराहविहतम् । याभिरदृꣳहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भर्त्रीम् । तानश्शिवाश्शर्करास्सन्तु सर्वाः शर्कराः । अग्ने रेतश्चन्द्रꣳ हिरण्यमद्भ्यस्सम्भूतममृतं प्रजासु । तत्सम्भरन्नुत्तरतो निधायाति प्रयच्छन्दुरिति तरेयम् त्रीणि हिरण्यशकलानि । इत्यष्टौ पार्थिवान् । तूष्णीं त्रीणि रजतशकलानि निधाय । यदि पञ्च, औदुम्बराणि लोहशकलानि पञ्चमो भवति ।
वानस्पत्यसम्भाराणामाहरणम् :-
अश्वो रूपं कृत्वा यदश्वत्थे तिष्ठस्संवत्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह सम्भरन्तश्शतं जीवेम शरदस्सवीराः अश्वत्थम् । ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो वि रोह । त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेम उदुम्बरम् । गायत्र्या ह्रियमाणस्य यत्ते पर्णमपतत्तृतीयस्यै दिवोऽधि । सोऽयं पर्णस्सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुध्यै ॥ देवानां ब्रह्मवादं वदतां यदुपाशृणोस्सुश्रवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसं तत्संभरᳪँ、स्तदवरुन्धीय साक्षात् एताभ्यां पर्णम् । यया ते सृष्टस्याग्नेर्हेतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय शमीꣳ शान्त्यै हराम्यहम् शमीमयीम् । यत्ते सृष्टस्य यतो विकङ्कतं भा आर्छज्जातवेदः । तया भासा सम्मित उरुन्नो लोकमनु प्रभाहि विकङ्कतम् । यत्ते तान्तस्य हृदयमाच्छिन्दन् जातवेदो मरुतोऽद्भिस्तमयित्वा । एतत्ते तदशनेस्सम्भरामि सात्मा अग्ने सहृदयो भवेह अशनिहतस्य वृक्षस्य शकलम् । यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनꣳ हरामि पुष्करपर्णमेकम् ।
 
आहृतसम्भाराणां एकत्र सम्भरणम् :-
तूष्णीमेकस्मिन् वेणुपात्रे संभृत्य । यं त्वा समभरन् जातवेदो यथा शरीरं भूतेषु न्यक्तम् । स सम्भृतस्सीद शिवः प्रजाभ्य उरुन्नो लोकमनु नेषि विद्वान् सम्भृत्य निदधाति ।
नान्दीश्राद्धम् :-
ततो नान्दीश्राद्धं यजमानः करोति ।
मातुः श्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।
ततो मातामहानां च नान्दीश्राद्धं प्रचक्षते ।
आगूररण्याहरणादि यं त्वा श्राद्धं भवेन्नान्दिमुखाभिधानम् ।
उद्धन्यमानं वपनं निधानं ब्रह्मौदनाग्नेरशनं च पत्योः ।
वेदेः निर्माणम् :-
उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवानस्सन्तु प्रदिशश्चतस्रः शन्नो माता पृथिवी तोकसाता प्राचीनप्रवणं देवयजनमुद्धत्य । अप उपस्पृश्य । शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः अद्भिरवोक्ष्य । तस्मिन्नुदीचीनवंशं शरणं करोति । तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति । तस्मात्प्राचीनमष्टसु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम् । एकादशसु राजन्यस्य । द्वादशसु वैश्यस्य । चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते । दक्षिणतः पुरस्तात् वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेरायतनम् । अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य । अग्रेणाहवनीयं सभायां सभ्यः । तं पूर्वेणावसथ आवसथ्यः ।
प्राचीं निश्चित्य तत्पश्चान्मध्यान्मन्वङ्गुलेन तु ।
सूत्रेण भ्रमयेद्गार्हपत्यायतनमुच्यते ।।
तद्बहिः प्राक्पदान्यष्टौ गत्वा तु चतुरस्रकम् ।
द्विसूर्याङ्गुलिमानेन कुर्यादाहवनीयकम् ॥
प्रत्यग्नेः प्राक्पदं गत्वा दक्षिणेन पदद्वयम् ।
अङ्गुल्येकोनविंशत्या मण्डलार्थं तु दक्षिणा ॥
चतुष्षष्ट्यङ्गुलं तिर्यक्प्रत्यग्नेः पुरतो भवेत् ।
पश्चादाहवनीयस्य चतुस्सूर्याङ्गुलं भवेत् ॥
पार्श्वे सन्नमयेद्रज्जुं द्व्यङ्गुलाधिकसूत्रतः ।
वेद्यायतननिर्माणं द्वित्रिर्मेखलकं क्रमात् ।।
यावत्प्रमाणा रज्जुः स्यात्तावानेवागमो भवेत् ।
आगमार्थे तु शङ्कुस्स्यादन्तरर्धे निरञ्छनम् ॥
वेद्यायामोष्टधा कार्यः पञ्चिका मध्यमेऽक्ष्णया ।
त्रिका तिर्यक्त्रिकार्धेऽसौ श्रोणी अध्यर्धके परे ॥
आयामं पञ्चधा कृत्वा षोढा वाऽऽगन्तु षष्ठकम् ।
सप्तमं वा समं त्रेधा दक्षिणाग्न्यपरत्रिके ।
जायापत्योर्वपनम् :-
ततो यजमानः केशश्श्मश्रु वपते नखानि निकृन्तते स्नाति । एवं पत्नी केशवर्जम् । क्षौमे वसानौ जायापती अग्निमादधीयाताम् । ते दक्षिणाकाले अध्वर्यवे दत्तः । ब्रह्मौदनाग्नेः आधानम् :-
अपराह्ने अधिवृक्षसूर्ये वा औपासनादग्निमाहृत्य अपरेण गार्हपत्यायतनं ब्राह्मौदनिकमादधाति । औपासनं वा सर्वं निर्मन्थ्यं वा । यत्रक्वचेति विधिना ।
प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥
अवाक्करोभ्युक्ष्य निधाय वह्निम् उत्सिच्यतेऽवोक्षणतोयशेषम् ।।
प्राक्तोयमन्यं निदधात्त्युदग्वा यथा बहिः स्याच्च परिस्तरणाम् ॥
जायापत्योर्भोजनं, ब्रह्मौदनं च :-
ततो जायापत्योर्भोजनम् । अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि पाजके वा निशायां ब्रह्मौदनं चतुश्शरावं निर्वपति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि प्रथमम् । देवस्य त्वा --- हस्ताभ्यां ब्रह्मणेऽपानाय जुष्टं निर्वपामि द्वितीयम् । देवस्य त्वा --- हस्ताभ्यां ब्रह्मणे व्यानाय जुष्टं निर्वपामि तृतीयम् । देवस्य त्वा --- हस्ताभ्यां ब्रह्मणे जुष्टं निर्वपामि चतुर्थम् । तूष्णीं वा सर्वाणि । तूष्णीमवहत्य । चतुर्षूदपात्रेषु पचति । न प्रक्षालयति न प्रस्रावयति 1 । क्षीरे भवतीत्येके । जीवतण्डुलमिव श्रपयतीति विज्ञायते । तमभिघार्य अनभिघार्य वोद्वास्य ।
ब्रह्मौदनस्य होमः :-
औपासनदर्व्या ब्रह्मौदनादुद्धृत्य । प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान् यजे हेड्यान्त्स्वाहा । प्रवेधसे ब्रह्मण इदम् । यजमानश्चतुर्धा
१. न गालयति।
 
ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य । कर्षन्ननुच्छिन्दन् चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति । इदमध्वर्यवे । इदं ब्रह्मणे । इदꣳ होत्रे । इदमग्नीधे । अपात्ताः प्रथमे पिण्डाः भवन्त्यप्रतिहताः पाणयः । अध्वर्युः गृहीतपिण्ड एव । अथ ब्रह्मौदनशेषं सङ्कृष्य, तस्मिन् आज्यशेषमानीय, तस्मिन्श्चित्रियस्याश्वत्थस्य तिस्रस्समिध आर्द्रास्सपालाशाः प्रादेशमात्र्यः स्तिभिगवत्यो1 विवर्तयति । चित्रियादश्वत्थात्थ्सम्भृता बृहत्यश्शरीरमभि सᳪँ、स्कृतास्स्थ । प्रजापतिना यज्ञमुखेन सम्मितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्यै चरुशेषे लोडयति । अथादधाति घृतवतीभिराग्नेयीभिर्गायत्रीभिर्ब्राह्मणस्य । त्रिष्टुग्भी राजन्यस्य । जगतीभिर्वैश्यस्य । समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन् हव्या जुहोतन । अग्नय इदम् । उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । अग्नय इदम् । तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य । अग्नय इदम् । यजमानः समित्सु तिस्रो वत्सतरीर्ददाति । अध्वर्यो तिस्रो वत्सतरीस्ते ददामि । प्रतिगृह्णामि । प्राश्नन्ति ब्राह्मणा ओदनम् । प्राशितवद्भ्यः समानं वरं ददाति । प्राशितवन्तो ब्राह्मणाः समानं वरं वो ददामि । सर्वे प्रतिगृह्णामीति ब्रूयुः । प्रजा अग्ने संवासयाशाश्च पशुभिस्सह । राष्ट्राण्यस्मा आधेहि यान्यासन्त्सवितुस्सवे उत्तरेण गार्हपत्यायतनं कल्माषमजं बध्नाति ।
व्रतग्रहणं, अग्नेः समिन्धनम् :-
अथ यजमानो व्रतमुपैति वाचं च यच्छति । अनृतात्सत्यमुपैमि मानुषाद्देव्यमुपैमि । दैवीं वाचं यच्छामि वाचं यच्छति । वीणातूणवेन एनमेतां रात्रिं जागरयन्त्यपि वा न जागर्ति न वाचं च यच्छति । शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् । उभयोर्लोकयोर् ऋध्वाऽति मृत्युं तराम्यहम् आ निष्टपनात् प्रतिशल्कं मन्त्रावृत्तिः । नोद्देशत्यागः ।
ब्रह्मौदनाग्नौ अरण्योः निष्टपनम् :-
तस्मिन्नुपव्युषमरणी निष्टपति । जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहꣳ शमीगर्भाज्जनयन्, यो मयोभूः ॥ अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जाननग्न आ रोहाथा नो वर्धया रयिम् एताभ्यामरणी निष्टप्य । निष्टपने कृते अग्निमनुगमयति । अग्नी रक्षाꣳसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्यः अरणी अभिमन्त्र्य । यजमानः – मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगाम् अरणी अह्रियमाणे प्रतीक्षते ।
१. स्तिभिगवत्यः = फलवत्यः ।
 

यजमानेन अरण्योः ग्रहणम् :
अध्वर्युः - दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामि यजमानाय प्रयच्छति ।
यजमानः - आ रोहतं दशतꣳ शक्वरीर्मम ऋतेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजै हस्तद्वयेन प्रतिगृह्य । ऋत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं दधे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्र जनिष्येथे ते मा प्रजाते प्र जनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोके प्रतिगृह्याभिमन्त्रयते । मयि गृह्णाम्यग्रे अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टास्स्याम तनुवा सुवीराः ॥ यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याꣳ आविवेश । तमात्मन् परि गृह्णीमहे वयं मा सो अस्माꣳ अवहाय परागात् उभौ जपतः ।
वेदिसंस्कारः :-
अध्वर्युः - अपेत वीत वि च सर्पताऽतो येऽत्र स्थ पुराणा ये च नूतनाः । अदादिदं यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै गार्हपत्यायतनमुद्धत्य । अप उपस्पृश्य । शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शं योरभि स्रवन्तु नः अद्भिरवोक्ष्य । एवं दक्षिणाग्नेरावहवनीयस्य सभ्यावसथ्ययोश्च । एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ।
आयतनेषु पार्थिवसम्भाराणां निवपनम् :-
सिकतानामर्धं द्वैधं विभज्य अर्धं गार्हपत्यायतने निवपत्यर्धं दक्षिणाग्नेः शिष्टार्धमाहवनीयस्य । एतेनैव कल्पेन सर्वान् पार्थिवान् सम्भारान्निवपति । अग्नेर्भस्मास्यग्नेः पुरीषमसि सिकता निवपति । संज्ञानमसि कामधरणं मयि ते कामधरणं भूयात् ऊषान् । तान्निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु मनसा ध्यायति । उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतस्सधस्थात् । आखुन्त्वा 1 ये दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् आखुकरीषम् । यत्पृथिव्या अनामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् गार्हपत्यायतने वल्मीकवपां निवपति । यदन्तरिक्षस्यानामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् दक्षिणाग्नेः । यद्दिवोऽनामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् आहवनीयस्य । उत्समुद्रान्मधुमाꣳ ऊर्मिरागात्साम्राज्याय प्रतरान्दधानः । अमी च ये मघवानो वयं चेषमूर्जं मधुमत्संभरेम सूदम् । इयत्यग्र आसीः वराहविहतम् । अदो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता व्यसर्पो 2 महित्वा । अदृꣳहथाश्शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्रः
१. आशुन्त्वा ये दधिरे देवयन्तो इति अ. ह. पाठः ।
२. व्यवसो इति पाठान्तरम् ।
 
पाप्मन् शर्कराः । द्वेष्यं मनसा ध्यायति । ऋतᳪँ、 स्तृणामि पुरीषं पृथिव्यामृतेध्यग्निमा दधे । सत्येध्यग्निमादधे निवपनक्रमेणायतनेषु संभाराननु व्यूहति ।
वानस्पत्यसंभाराणां निवपनम् :-
सं या वः प्रियास्तनुवस्सं प्रिया हृदयानि वः । आत्मा वो अस्तु सं प्रियस्सं प्रिया स्तनुवो मम ॥ सं वस्सृजामि हृदयानि सꣳ सृष्टं मनो अस्तु वः । सꣳ सृष्टः प्राणो अस्तु वः द्वाभ्यां वानस्पत्यान् संसृज्य । सिकतावद्विभ्यज्य निवपति इतः प्रथमं जज्ञे अग्निस्स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन् इत्येतया ।
हिरण्यनिवपनम् :-
यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् । ताभिस्सम्भूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने गार्हपत्यायतने सौवर्णं हिरण्यशकलमुत्तरतः संभारेषूपास्यति । चन्द्रमग्निं चन्द्ररथꣳ, हरित्वचं वैश्वानरमप्सुषदꣳ सुवर्विदम् । विगाहन्तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्श्रियं दधुः उपास्तमभिमन्त्रयते । द्वेष्याय रजतं प्रयच्छति । पाप्मने रजतं निरस्याप उपस्पृश्य । यदि द्वेष्यं नाधिगच्छेद्यां दिशं द्वेष्यः स्यात्तां दिशं निरस्येत् । एवं सर्वेषूपास्य करोति । अग्निमन्थनम् :-
ब्राह्मौदनिकात् भस्मापोह्य, तस्मिञ्छमीगर्भादग्निं मन्थति । उद्यत्सु रश्मिषु दशहोत्रारणी समवदधाति । चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः ॥ सहाग्नेऽग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पशुभिस्सह ब्रह्मवर्चसेन । उपतिष्ठत्यश्वेऽग्निं मन्थति । मथ्यमाने शक्तेस्साङ्कृतेस्साम 1 गायति । धूमे जाते गाथिनः कौशिकस्य 2 । अरण्योर्निहितो जातवेदा इति च 3 । बलवति जाते उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजाꣳ
१. प्र व इन्द्राय मादनं हर्यश्वाय गायत । सखायस्सोमपाव्ने ॥ शंसेदुक्थं सुदानव उत द्युक्षं यथानरः । चकृमा सत्यराधसे ॥ त्वं न इन्द्र वायुस्त्वं गव्युश्शतक्रतो । त्वं हिरण्ययुर्वसो ॥ अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्तप्रशस्तम् । दूरदृशं गृहपतिमथर्युम् ॥
२. त्वेषास्ते धूम ऋण्वती दिविषञ्छुक्र आततः । सूरो न हि द्युता त्वं कृपा पावकरोचसे । अदर्शिका तु वित्तमो यस्मिन्व्रतान्यादधुः । उपोषु जातमार्यस्य वर्धनमग्निं न शंतनागिरः ॥ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥
३. अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।।
 
रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे निर्वर्त्यमानमभिमन्त्रयते यजमानः । अत्र चतुर्होतॄन् यजमानं वाचयति । चित्तिः पृथिव्यग्निः सूर्यं ते चक्षुर्महाहविर्होता ।
चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः ।
पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता । अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता ।
सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ शरीरैः ।
महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाऽप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता ।
अजन्नग्निः पूर्वः पूर्वेभ्यः पवमानश्शुचिः पावक ईड्यः जातमभिमन्त्र्य । जाते यजमानो वरं ददाति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि इति प्रतिवचनम् । जातं यजमानोऽभिप्राणिति । प्रजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय उपर्यग्नेरुच्छ्वसिति । अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवस्समीचीः पुमाꣳसं जातमभि सꣳ रभन्ताम् जातमध्वर्युरञ्जलिनाऽऽभिगृह्य । सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वाऽन्नपत्याय उपसमिध्य।
गार्हपत्याधानम् :-
अथैनं प्राञ्चमुद्धृत्य आसीनस्सर्वेषां मन्त्राणामन्तेन रथन्तरे 1 गीयमाने यज्ञायज्ञिये च2, यथर्ष्याधानेन प्रथमया व्याहृत्या द्वाभ्यां वा, प्रथमाभ्यां सर्पराज्ञीभ्यां प्रथमेन च घर्मशिरसा । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भूर्भुवः । भूमिर्भूम्ना द्यौर्वरिम्णान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन्त्सुवः ॥ घर्मः शिरस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ । न यजमानः
१. अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमिन्द्र तस्थुषः ।। न त्वा वां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ।
२. यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥ ऊर्जो नपातं स हि नायमस्मयुः दाशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्वृधः उत त्राता तनूनाम् ।
 
। यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्सम्भूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने । प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्ने गृहपतेऽहे बुध्निय परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्त्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि संभारेषु निदधाति । सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीश्श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अप बाधमानो रायस्पोषमिषमूर्जमस्मासु धेहि आधीयमानमभिमन्त्रयते यजमानः । घर्मशिरांसि चैनमध्वर्युर्वाचयति । घर्मश्शिरस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ । वातः प्राणस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । स्वदितं तोकाय तनयाय पितुं पच ॥ अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चश्शुक्रा तनूः । शुक्रं ज्योतिरजस्रम् । तेन मे दीदिहि तेन त्वा दधे । अग्निनाग्ने ब्रह्मणा ॥ नाहितमनभिहुतमग्निमुपस्पृशति ।
ओषधिहोमः :-
आज्येनौषधीभिश्च शमयितव्यः । सर्वोषधीराज्यमिश्राः कृत्वा जुह्वामवधाय । या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा । अग्नेः पवमानायै प्रियायै तन्वा इदम् । या ते अग्नेऽप्सु पावका प्रिया तनूर्या अन्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसि तां त एतेनावयजे स्वाहा। अग्नेः पावकायै प्रियायै तन्वा इदम् । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि याऽदित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे स्वाहा । अग्नेश्शुच्यै प्रियायै तन्वा इदम् । अर्धोदिते सूर्य आहवनीयमादधाति । उदिते ब्रह्मवर्चसकामस्य । गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति । सिकताश्चोपयमनीरुपकल्पयते । तमुद्यच्छति
आहवनीयार्थं अग्नेः उद्यमनम् :-
ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः ॥ यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि॥ दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः । यत्र यत्र जातवेदस्सम्बभूथ ततो नो अग्ने जुषमाण एहि ॥ उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥ एताभिश्चतसृभिरुपरीवाग्निमुद्यच्छति । उद्यतमुपयतं धारयति ।
 
अथाश्वस्य दक्षिणे कर्णे निहितमुखं यजमानमग्नितनूर्वाचयति । या वाजिन्नग्नेः पशुषु पवमाना प्रिया तनूस्तामावह । या वाजिन्नग्नेरप्सु पावका प्रिया तनूस्तामावह । या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावह । धारयत्येवाग्निम् ।
दक्षिणाग्नेः आधानम् :-
अथाग्नीध्रो लौकिकमग्निमाहृत्य मथित्वा गार्हपत्याद्वा ऊर्ध्वज्ञुरासीनो दक्षिणमग्निमादधाति । यज्ञायज्ञिये 1 गीयमाने यथर्ष्याधानेन द्वितीयया व्याहृत्या तिसृभिः सर्पराज्ञीभिर्द्वितीयेन च घर्मशिरसा । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भुवः । भूमिर्भूम्ना द्यौर्वरिम्णान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन्त्सुवः ॥ त्रिꣳशद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह द्युभिः ॥ वातः प्राणस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । स्वदितन्तोकाय तनयाय पितुं पच । न यजमानः । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने । व्यानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्व पशुमादधे । अग्नेऽन्नपा मयो भुव सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्त्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि संभारेषु निदधाति । पूर्ववच्छमनहोमः ।
आहवनीयाग्नेः उद्धरणम् :-
वामदेव्यमभिगायत आहवनीय उद्ध्रियमाणे 2 । प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥ वि क्रमस्व महाꣳ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि । प्रजया च धनेन च ॥ इमा उ मामुप तिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेदः ।। प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति । दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति । यावच्चक्रं त्रिः परिवर्तते । षट्कृत्वो द्वेष्यस्य । जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति । नाभिदघ्ने द्वितीयमास्यदघ्ने
१. यज्ञा यज्ञा वो --- उत त्राता तनूनाम् ॥
२. कया नश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृता ॥ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥ अभीषुणस्सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ॥
 

तृतीयम् । न कर्णदघ्नमत्युद्गृह्णाति । याद्युद्गृह्य निगृह्णीयात् मुखेन समं दध्यात् । नाग्निमादित्यं च व्यवेयात् । दक्षिणतः परिगृह्य हरति । अर्धाध्वे यजमानो वरं ददाति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि । अर्धाध्वे हिरण्यं निधाय । नाकोऽसि ब्रध्नः प्रतिष्ठा सङ्क्रमणः अतिक्रामति ।
अश्वेनाक्रमणम् :-
आहवनीयं प्राप्य । प्राञ्चमश्वम् । अभ्यस्थाद्विश्वाः पृतना अरातीस्तदग्निराहु तदु सोम आह । बृहस्पतिस्सविता तन्म आह पूषा माऽधात् सुकृतस्य लोके दक्षिणेन पदोत्तरतः संभारानाक्रमयति । यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन् । प्रदक्षिणमावर्तयित्वा । यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत्ते अर्वन् पुनरेवाक्रमयति । पुरस्तात्प्रत्यञ्चमश्वं धारयति । पूर्ववाडश्वो 1 भवति । तदभावे अनड्वान् पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति । अथ यजमानः शिवा जपति ।
ये ते अग्ने शिवे तनुवौ । विराट्च स्वराट्च । ते मा विशतां ते मा जिन्वताम् ॥ ये ते अग्ने शिवे तनुवौ । सम्राट्चाभिभूश्च । ते मा विशतां ते मा जिन्वताम् ॥ ये ते अग्ने शिवे तनुवौ। विभूश्च परिभूश्च । ते मा विशतां ते मा जिन्वताम् ।। ये ते अग्ने शिवे तनुवौ । प्रभ्वी च प्रभूतिश्च । ते मा विशतां ते मा जिन्वताम् ॥ यास्ते अग्ने शिवास्तनुवः । ताभिस्त्वाऽदधे । यास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ ॥
यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यं च वयन्द्विष्मः ॥ स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यं च वयन्द्विष्मः । ताभिरेवैनं पराभावयत्यरण्येऽनुवाक्या भवन्ति ।
यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाश्शंभूः प्रजाभ्यस्तनुवे स्योनः अग्निमभिमन्त्र्य ।
आहवनीयाधानम् :-
१. पूर्ववाट = युवा, सेचनसमर्थः ।
 
पुरस्तात् प्रत्यतिष्ठन्नाहवनीयमादधाति । बृहति 1 गीयमाने श्यैत 2 वारवन्तीययो 3 र्यज्ञायज्ञिये 4 च यथर्ष्याधानेन सर्वाभिर्व्याहृतीभिस्सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च घर्म शिरसा । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भूर्भुवस्सुवः । भूमिर्भूम्ना द्यौर्वरिम्णान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन् सुवः ॥ त्रिꣳशद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह द्युभिः ॥ अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन्महिषस्सुवः ॥ अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निस्सम्प्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चश्शुक्रा तनूः शुक्रं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वा दधे अग्निनाग्ने ब्रह्मणा ॥ न यजमानः । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्सम्भूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ॥ अपानं त्वाऽमृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्व पशुमादधे । अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्त्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि संभारेषु निदधाति । आनशे व्यानशे सर्वमायुर्व्यानशे । अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः आधीयमानमभिमन्त्रयते यजमानः । पूर्ववच्छमनहोमः । ब्रह्माग्न्याधेये सामानि गायति । प्रतिषिद्धान्येकेषाम् । व्याहतीभिरेवोद्गीथं भवतीति वाजसनेयकम् ।
समिदाधानम् :-
तिस्र आश्वत्थ्यस्समिध एकैकस्मिन्नादधात्याहवनीये वा तिस्रः । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्नये पवमानायेदम् । अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधत्पोषꣳ रयिं मयि ॥ अग्नये पवमानायेदम् । अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महा गयम् ॥ अग्नये पवमानायेदम् ।
शमीमय्यो घृतान्वक्तास्तिसृभिः तिस्र एकैकस्मिन्नादधात्याहवनीये वा तिस्रः । समुद्रादूर्मिर्मधुमाꣳ
१. त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ स त्वं नश्चित्र वज्रहस्त धृष्णुया महस्तवानो अद्रिवः । गामश्वं रथ्यमिव संकिरसत्रा वाजं न जिग्युषे ।
२. अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । यो जरितृभ्यो मघवा पुरोवसुः सहस्रेणेव शिक्षति ॥ शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ।।
३. अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजं तमध्वराणाम् ॥ सधा नः सूनुः श्रवसा पृथु प्र गामा सुशेवः । मीढ्वां अस्माकम्बभूयात् ॥ स नो दूराच्चा साच्च नि मर्त्यादघायोः । पाहि सदमिद्विश्वायुः ॥
४. यज्ञा यज्ञा वो --- उत त्राता तनूनाम् ।
 
उदारदुपाꣳशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः । आदित्यात्मने ब्रह्मण इदम् । वयन्नाम प्रब्रवामा घृतेनास्मिन् यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुश्शृङ्गोऽवमीद्गौर एतत् ॥ यज्ञात्मने ब्रह्मण इदम् । चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आविवेश ॥ यज्ञात्मने ब्रह्मण इदम् । एवं नानावृक्षीयाः । प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्या यविष्ठ । ताꣳ शश्वन्त उपयन्ति वाजाः औदुम्बरीम् । अग्नय इदम् । विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे । यस्माद्योनेरुदारिथा यजे तं प्रत्वे हवीꣳषि जुहुरे समिद्धे वैकङ्कतीम् । अग्नय इदम् । ताꣳ सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् । यामस्य कण्वो अदुहत्प्रपीनाꣳ सहस्रधारां पयसा महीं गाम् शमीमयीम् । सवित्र इदम् ।
अग्निहोत्रम् :-
ततस्तूष्णीमग्निहोत्रं जुहोति । अपि वा द्वादशगृहीतेन स्रुचं पूरयित्वा प्रजापतिं मनसा ध्यायन् जुहोति । साग्निहोत्रस्य स्थाने भवति । स्वाहा । प्रजापतय इदम् 1।
अथ यजमानो घोरा जपति । यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यं च वयन्द्विष्मः ॥ स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यं च वयन्द्विष्मः ॥
पूर्णाहुतिः, शिवा जपश्च :-
द्वादशगृहीतेन स्रुचं पूरयित्वा । सप्तवत्या पूर्णाहुतिं जुहोति । सप्त ते अग्ने समिधस्सप्तजिह्वास्सप्त ऋषयस्सप्तधाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदम् । हुतायां यजमानो वरं दत्त्वा शिवा जपति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि । [अग्न्याधाने पूर्णाहुतिं हुत्वा कूश्माण्डैर्जुहोति ।]
अथ यजमानः शिवा जपति । ये ते अग्ने शिवे तनुवौ । विराट्च स्वराट्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । सम्राट्चाभिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ। विभूश्च परिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने
१. यद्यग्निहोत्रं जुहुयात् प्रातरग्निहोत्रस्यावृता सर्वं कुर्यात् । विश्वदानिमाभरन्त इति प्रतिपद्य अक्षितमक्षित्यै जुहोमीत्यन्तम् । पूर्वाहुतिरेव तूष्णीं, सर्वमन्यत्समन्त्रकम् । पयसा वा आज्येन वा होमः । अग्निहोत्रकरणमेव अस्मच्छाखीय पक्षः ।
 
शिवे तनुवौ । प्रभ्वी च प्रभूतिश्च । ते मा विशतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवः । ताभिस्त्वाऽदधे ॥ शिवा जपान्तमग्न्याधेयम् 1।
शिवा जपान्ते अविज्ञात प्रायश्चित्तानि । अन्तरिकं प्रायश्चित्तं च । यद्यग्नाधेये सूर्योऽनाविः स्यात् । उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमᳪँ、 स्वाहा ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यᳪँ、 स्वाहा ।। चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा इत्याहुतीर्जुहुयात् । अग्न्याधेये विपर्यास प्रायश्चित्तं करिष्ये । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्यस्मत्स्वाहा । अग्नीवरुणाभ्यामिदम् । स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि स्वाहा ॥ अग्नीवरुणाभ्यामिदम् ॥ अस्मिन्नग्न्याधेये अनाज्ञातप्रायश्चित्तं करिष्ये । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथᳪँ、 स्वाहा । अग्नय इदम् । पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथᳪँ、 स्वाहा । अग्नय इदम् । यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता ऋतुविद्विजानन्, यजिष्ठो देवाꣳ ऋतुशो यजाति स्वाहा । अग्नय इदम् । अग्न्याधेये यजुर्भेषप्रायश्चित्तं करिष्ये । भुवस्स्वाहा इति दक्षिणाग्नौ । वायव इदम् । सामतो यज्ञभ्रेष प्रायश्चित्तं करिष्ये । सुवस्स्वाहा । सूर्यायेदम् । सर्वतो यज्ञभ्रेष प्रायश्चित्तं करिष्ये । भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् । अस्मिन्नग्न्याधेये ऋत्विक्षु मयि च सम्भावितसमस्तदोषनिर्हरणार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि । भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् । जुह्वां सकृद्गृहीत्वा । ये अग्नयो दिवो ये पृथिव्यास्समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहा । अग्निभ्य इदम् ।
अग्नीनां उपस्थानम् :
अथ विराट्क्रमैरग्नीन् यजमान उपतिष्ठते । अथर्व पितुं मे गोपायान्नं प्राणेन सम्मितम् । त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेम अन्वाहार्य पचनम् । नर्य प्रजां मे गोपाय मूलं लोकस्य सन्ततिम् । आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहम् गार्हपत्यम् । शस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दम् ता स्ते परिददाम्यहम् आहवनीयम्
१. पूर्णाहुत्यन्तमेवेति रामाण्डारः ।
 
। पञ्चधाग्नीन्व्यक्रामद्विराट् सृष्टा प्रजापतेः । ऊर्ध्वा रोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिः सर्वानग्नीन् । अग्नित्रित्वेऽपि पञ्चधा । सन्तिष्ठते अग्न्याधानम् ।
॥ आधानेष्टयः ॥
आधानानन्तरं सर्वकर्मभ्यः पूर्वं दर्शपूर्णमासेष्ट्या यक्ष्यमाणः अग्निहोत्रं होष्यमाणो वा पवमानहवींषि सद्यो निर्वप्स्यन् पवमानदेवताभ्यः अग्नये पवमानाय स्वाहा । अग्नये पावकाय स्वाहा । अग्नये शुचये स्वाहा इति तिस्रः आहुतीर्जुहुयात् ।
आद्या वा, इत्याश्वलायनपक्षमाश्रित्य आग्निपावमान्यादीनि त्रीणि हवींषि ऐन्द्राग्नादित्ये च द्वे हविषी आग्नेयेन सह समानं तन्त्रं कुर्वन्निष्ट्या यक्ष्ये । विद्युदसि । अद्य यज्ञाय । इमामूर्जम् । ऐष्टꣳ हविः । पौर्णमासं तन्त्रम् 1। बर्हिराहृत्य व्रतप्रवेशः । सप्तदश सामिधेन्यः । अलङ्कृत्य परिस्तरणम् । देवा देवेषु । कर्मणे वामित्यादि । पात्रप्रयोगकाले त्रिचत्वारिंशत्कपालानि स्थाली स्फ्यश्च द्वन्द्वम् । अन्वाहार्यस्थाली वर्जमितराणि प्रकृतिवत् । पवित्रे कृत्वा । यजमान वाचं यच्छ । संविशन्तामित्यादि
निर्वापकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नये पवमानाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नये पावकाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नये शुचये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामिन्द्राग्निभ्यां जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामदित्यै जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्ने पवमान हव्यꣳ रक्षस्वाग्ने पावक हव्यꣳ रक्षस्वाग्ने शुचे हव्यꣳ रक्षस्वेन्द्राग्नी हव्यꣳ रक्षेथामदिते हव्यꣳ रक्षस्व । सशूकायामित्यादि । प्रोक्षिताः स्थेत्यन्तं कृत्वा । क्लृप्तसामनसीभ्यामग्नीन् यजमान उपतिष्ठते । कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः ॥ येऽग्नयस्समनसोऽन्तरा द्यावापृथिवी वासन्तिकावृतू अभि कल्पमाना इन्द्रमिव देवा अभि सं विशंतु ॥ ब्रह्मन् प्रोक्षिष्यामि । ब्रह्मा - प्रोक्ष यज्ञं - ओं ३ प्रोक्ष । देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नये पवमानाय वो जुष्टं प्रोक्षाम्यग्नये पावकाय वो जुष्टं प्रोक्षाम्यग्नये शुचये वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षाम्यदित्यै वो जुष्टं प्रोक्षामि प्रोक्ष्य । कृष्णाजिनादानादि । उत्करे त्रिर्निनीय । प्रागधिवपनाद्विभजति । यथाभागं व्यावर्तध्वम् । इदमग्नेरग्नेः पवमानस्याग्नेः पावकस्याग्नेश्शुचेरिन्द्राग्नियोः पुरोडाशार्थान् । इदमदित्याः चर्वर्थान्
१. आमावास्यं तन्त्रम् इति द्रा . प्र ।
 
। कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नये पवमानाय जुष्टमधिवपाम्यग्नये पावकाय जुष्टमधिवपाम्यग्नये शुचये जुष्टमधिवपामीन्द्राग्निभ्यां जुष्टमधिवपामि धान्यमसि । कपालानामुपधानकाले चतुर्णामष्टावुपधाय । ऐन्द्राग्नस्य तूष्णीं त्रीणि । ध्रुवोऽसीति स्थालीमुपदधाति । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति । घृतं चोत्पूय स्थाल्यामासिञ्चति । अधिश्रयणकाले घर्मोऽसि विश्वायुः स्थाल्यां तण्डुलानावपति । अन्तरितम् । अविदहन्त श्रपयत ।
आज्यग्रहणकाले प्रकृतिवदाज्यानि गृह्णाति । उद्वासनकाले ऐन्द्राग्नस्य तूष्णीमभिघारणम् । अर्द्रो भुवनस्य इति चरोरुद्वासनम् । प्रियेण इत्यासादनम् । यज्ञोऽसि इति पञ्चकृत्वः । अयं यज्ञो, यो नः कनीयो, ममाग्ने चतुर्होता । अयं वेद इत्यादि । प्रचरणकाले । उपांशु प्रचारः । आ प्यायतां मा भेरा प्यायतां यदवदानानि ते । अग्नये (उपांशु) अनुब्रूहि (उच्चैः) । अग्निं (उपांशु) यज (उच्चैः) । अग्नय इदम् । अग्नेरहमन्नादः । अग्नये पवमानाय (उपांशु) अनुब्रूहि (उच्चैः) । अग्निं पवमानं (उपांशु) यज (उच्चैः) । अग्नये पवमानायेदम् । अग्नेः पवमानस्याहमन्नादः । अग्नये पावकाय (उपांशु) अनुब्रूहि (उच्चैः) । अग्निं पावकं (उपांशु) यज (उच्चैः) । अग्नये पावकायेदम् । अग्नेः पावकस्याहमन्नादः । अग्नये शुचये (उपांशु) अनुब्रूहि (उच्चैः) । अग्निं शुचिं (उपांशु) यज (उच्चैः) । अग्नये शुचय इदम् । अग्नेः शुचेरहमन्नादः । इन्द्राग्निभ्यां (उपांशु) अनुब्रूहि (उच्चैः) । इन्द्राग्नी (उपांशु) यज (उच्चैः) । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादः । अदित्यै (उपांशु) अनुब्रूहि (उच्चैः) । अदितिं (उपांशु) यज (उच्चैः) । अदित्या इदम् । अदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय । प्रत्याक्रम्य न पार्वण होमः । नारिष्ठान् हुत्वा । स्विष्टकृदादि ।
चतुर्धाकरणकाले आदित्यं ब्रह्मणे परिहरति तं चत्वार आर्षेयाः प्राश्नन्ति । दक्षिणाकाले । अग्नीत् अजं पूर्णपात्रमुपबर्हणं सार्वसूत्रं ते ददामि । ब्रह्मन् वहिनमश्वं ते ददामि । होतर्धेनुं ते ददामि । अध्वर्यो अनड्वाहं ते ददामि । ब्राह्मणा : वासो मिथुनौ गावौ नवं च रथं गां च वो ददामि । अयज्ञत्वान्न प्रतिग्रह मन्त्रः । सूक्तवाके । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । अग्नये पवमानायेदम् । अग्नेः पवमानस्याहमुज्जितिम् । अग्नये पावकायेदम् । अग्नेः पावकस्याहमुज्जितिम् । अग्नये शुचय इदम् । अग्नेश्शुचेरहमुज्जितिम् । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहमुज्जितिम् । अदित्या इदम् । अदित्या अहमुज्जितिम् । देवेभ्य आज्यपेभ्य इत्यादि । यज्ञो बभूव । यज्ञ शं च म वर्जम् । ब्राह्मण तर्पणान्तं इष्टिस्सन्तिष्ठते ।
 
सायमग्निहोत्रारम्भः :-
अपरेण गार्हपत्यं दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य । सङ्कल्प्य । अग्निहोत्रमारप्स्ये । तेन यावज्जीवं सायंप्रातः होष्यामि इति सङ्कल्प्य । पुनः प्राणानायाम्य । सङ्कल्प्य । अग्निहोत्रमारप्स्यमानः दशहोतारं होष्यामि । नाग्निविहरणम् 1। चित्तिस्रुक्। चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकन्नाम । वाचस्पतिस्सोमं पिबतु । आस्मासु नृम्णं धात्स्वाहा । दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वा । वाचस्पतये ब्रह्मण इदम् । अथ सायमग्निहोत्रं होष्यामि 2 ।
प्रथमाग्निहोत्रस्य विशेषाः :-
धृष्ट्यादानादि व्याहृतीभिः प्रथममग्निहोत्रमुपसादयेत् । वाताय त्वा । वातायेदं इति कृते ओं भूर्भुवस्सुवः इति अपरेणाहवनीयं उपसादनीयकूर्चे सादयेत् । विद्युदसीत्यादि । अन्नादाः स्थेत्यन्तं कृत्वा कर्मसमाप्तिः ।
प्रथमप्रातर्होमस्य विशेषाः :-
एवमेव प्रातरग्निहोत्रेऽपि व्याहृतीभिरुपसादयेत् । यां प्रथमामग्निहोत्राय दोग्धि तां दक्षिणां ददाति । द्वितीयदिनादारभ्य उप प्रेत संयतध्वमिति प्राकृतो मन्त्रः । संवत्सरे पर्यागते एताभिरेव 3 उपसादयेत् 4।
॥ इत्यग्न्याधान प्रयोगः ॥

१. द्वादशाहमजस्रेष्वग्निषु यजमानस्स्वयमग्निहोत्रं जुहुयात् । अप्रवसन्नहतं वासो बिभर्तीति सूत्रकारवचनात् ।
२. अग्निहोत्रमारप्स्यमानः दशहोतारं हुत्वा कूश्माण्डैर्जुहोति ।
३. व्याहृतीभिरेव।
४. यस्यां तिथौ प्रथमं सायमग्निहोत्रं कृतवान् एकसंवत्सरे अतीते तस्यामेव तिथौ पूर्ववद्व्याहृतीभिः अग्निहोत्रमुपसादयेत् । द्वितीयादिषु संवत्सरेषु नास्ति ।