आपस्तम्बीय श्रौतप्रयोगः/चातुर्मास्यप्रयोगः

चातुर्मास्यप्रयोगः (अन्वारम्भणीयः)

वैश्वदेवं पर्व

वरुणप्रघासाः

साकमेधाः

शुनासीरीयपर्व

चातुर्मास्यानामनुष्ठानविधयः

॥ अथ चातुर्मास्यप्रयोगः ॥
ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्या सम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
नत्वा गणेशपादाभ्यां गुरूनथ महाशयान् ।
कुर्वे त्र्यम्बकनामाहं चातुर्मास्याख्यमादृतः ॥
अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति । फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते ।। पञ्चाहिकानां कालस्तु बोधायनेन उक्तः []1॥ उदगयन आपूर्यमाणपक्षे देवनक्षत्रे वैश्वदेवस्य सद्यस्कालोऽपि विकल्पेन उक्तः ।।
अथ प्रयोगः
चतुर्दश्यां प्रातरग्निहोत्रं हुत्वा करिष्यमाणचातुर्मास्यानां निर्विघ्नता सिद्ध्यर्थं गणपतिपूजनं स्वस्ति पुण्याहवाचनं करिष्ये इति सङ्कल्प्य, कृत्वा []2 । दर्भेष्वासीनो दर्भान्धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य । ऐष्टिकैश्चातुर्मास्यैर्यक्ष्ये इति सङ्कल्प्य । एषु ऐष्टिकचातुर्मास्येषु अध्वर्युं त्वां वृणीमहे । एवं ब्रह्माणं होतारमाग्नीध्रं च वृत्वा ।
पञ्चहोतृहोमः :-
प्राणानायम्य, चातुर्मास्यान्यारप्स्यमानः []3 पञ्चहोतारं सग्रहं होष्यामीति सङ्कल्प्य । अध्वर्युः - आहवनीयं विहृत्य । जुह्वां सकृद्गृहीत्वा अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता। इति सन्ततं मनसा जपित्वा । अथ उपांशुजपो वाक्यशः पाठश्च । सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतस्स्वाहा आहवनीये जुहोति । वाचस्पतये ब्रह्मण इदम् । अग्निं परित्यज्य । चातुर्मास्यान्यारप्स्यमानः पञ्चहोतारं हुत्वा कूष्माण्डैर्जुहुयात्
अन्वारम्भणीया :-
पुनः प्राणानायम्य । चातुर्मास्यान्यारप्स्यमानः अन्वारम्भणीयया यक्ष्ये । विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि । अध्वर्युः विहरणादि पौर्णमासवत्करोति । अद्य यज्ञाय । इमामूर्जं

चतुर्दशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिहतानावहतु । अन्वारम्भणीयꣳ हविरिदमेषां मयि । परिस्तरणान्तं कृत्वा । कर्मणे वां इत्यादि । पात्रासादनकाले द्वादशकपालानि स्थाली स्फ्यश्च द्वन्द्वम् । पुरतः अन्वाहार्यस्थालीवर्जमितराणि प्रयुज्य । पवित्रकरणादि । निर्वपणकाले देवस्य त्वा --- अग्नये वैश्वानराय जुष्टं निर्वपामि । पर्जन्याय जुष्टं निर्वपामि । अग्ने वैश्वानर हव्यꣳ रक्षस्व । पर्जन्य हव्यꣳ रक्षस्व । सशूकायामित्यादि । देवस्य त्वा --- हस्ताभ्यामग्नये वैश्वानराय वो जुष्टं प्रोक्षामि पर्जन्याय वो जुष्टं प्रोक्षामि । विभागकाले यथाभागं व्यावर्तेथाम् । इदमग्नेर्वैश्वानरस्य पेषणार्थान् । इदं पर्जन्यस्य चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये वैश्वानराय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । कपालानामुपधानकाले द्वितीयचतुर्थषष्ठाष्टमानामावृत्या द्वादशकपालानि वैश्वानरस्योपधाय । ध्रुवोऽसि इति चरुस्थालीमुपदधाति । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । पुरोडाशमधिश्रित्य घर्मोऽसि इति तण्डुलानावपति । प्रथनादि पुरोडाशस्य । अन्तरितं इत्युभयोः । आप्यलेपं निनीय । वेदिकरणादि । आप्यायतां घृतयोनिः --- पशूनां तेजासाग्नये वैश्वानराय जुष्टमभिघारयामि । पर्जन्याय जुष्टमभिघारयामि । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । उभयोरलङ्करणम् । प्रियेण नाम्ना प्रियꣳ सद आसीद इति हविरासादनम् । एवं सर्वत्र विकृतिषु । यज्ञोऽसि इति द्विः । अयं यज्ञ इत्यादि पौर्णमासवदभिमर्शनम् । वेदनिधानादि । आज्यभागानुमन्त्रणे विशेषः । अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुष्मान्भूयासम् । सोमेन यज्ञश्चक्षुष्मान् सोमस्याहं देवयज्यया चक्षुष्मान्भूयासम् इति सर्वत्र विकृतिषु इदमेव अनुमन्त्रणम् । उपांशु हविषा प्रचरति अग्नये वैश्वानराय, अनुब्रू३हि । अग्निं वैश्वानरम्, यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं देवयज्ययान्नादो भूयासम् । पर्जन्याय, अनुब्रू३हि । पर्जन्यम्, यज । पर्जन्यायेदम् । पर्जन्यस्याहं देवयज्ययान्नादो भूयासम् । न पार्वण होमः सर्वत्र । नारिष्ठान् हुत्वा । विरुज्य प्राशित्रम् । चतुर्धाकरणं चोभयोः । दक्षिणाकाले हिरण्यं धेनुं च अन्तर्वेद्यासाद्य । ब्रह्मा- ब्रह्मणी ब्रह्मणी स्थो ब्रह्मणे वां हुताद्य मा मा हिꣳसिष्टमहुते मह्यं शिवे भवतम्[]1 । दक्षिणाकाले । ब्रध्न पिन्वस्व--- । सहस्रधारे उत्से अक्षीयमाणे । ते दध्रतुः --- ताभ्यां हिरणधेनुभ्यामतितराणि मृत्युम् । अग्नये हिरण्यम् । रुद्राय गां इति प्रतिग्रहः । यज्ञ शं च म वर्जं । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् । सिद्धमिष्टिस्सन्तिष्ठते । अग्नी परित्यज्य । सन्तिष्ठतेऽन्वारम्भणीयेष्टिः ।
॥ इति चातुर्मास्यान्वारम्भणीया ॥


  1. यथाप्रयोगमित्यौपमन्यवः इति बौधायनसूत्रस्य अस्माकं प्रयोगकारैः एषोऽर्थः अभिहितः । परं तु तत्सूत्रस्य पूर्वसूत्रानुगुण्येन अर्थे क्रियमाणे व्रतपरत्वमवगम्यते इत्येवं रुद्रदत्तमहादेवाभ्यां व्याख्यातम् ।
  2. प्रथमचातुर्मास्यप्रयोगे नान्दीश्राद्धं, ऋत्विजां मधुपर्कश्च कर्तव्यः । तदा नान्दीश्राद्धं कृत्वा ततः ऋत्विग्वरणं ततो वरणक्रमेण तेषां मधुपर्कः ततः पञ्चहोतृहोमः ।
  3. आरप्स्यमानः इत्युक्तत्वात् प्रथमे त्वेव चातुर्मास्ये पञ्चहोतारं जुहुयात् । न तु पुनरालभ्यमाने । केचित्तु बहुकालविच्छिन्नचातुर्मास्येऽपि कर्तव्यमित्याहुः ।
  4. ब्रह्मण्यौ ब्रह्मण्यौ स्थो ब्रह्मणे वां हुताद्य मा मा हिꣳसिष्टमहुते मह्यं शिवे भवतम् । इति द्रा. प्र।