आपस्तम्बीय श्रौतप्रयोगः/दर्शपूर्णमासप्रयोगः/ तृतीयोऽध्यायः
॥ अथ तृतीयोऽध्यायः ॥
इडाप्राशित्रयोः अवदानम् :
अध्वर्युः – इडामेके पूर्वं समामनन्ति प्राशित्रमेके । प्राशित्रपात्र उपस्तीर्य । आग्नेयं पुरोडाशं प्राञ्चं तिर्यञ्चं वा विरुज्य । अप उपस्पृश्य । अज्यायो यवमात्रादाव्याधात्कृत्यतामिदम् । मा रूरुपाम यज्ञस्य शुद्धᳪँ、 स्विष्टमिदꣳ हविः । सर्वेभ्यः पुरोडाशेभ्यः मध्यादङ्गुष्ठोपकनिष्ठिकाभ्यां यवमात्रं पिप्पलमात्रं वा अवद्यति । अविरुज्योत्तरस्मात् । प्रतिपुरोडाशं मन्त्रावृत्तिः । न सान्नाय्ययोः प्राशित्रावदानम् ।
यजमानः – अग्निर्मा दुरिष्टात्पातु सविताघशꣳसाद्यो मेन्ति दूरेऽरातीयति तमेतेन जेषम् प्राशित्रमवदीयमानम् ।
अध्वर्युः - अभिघार्यानभिघार्य वा ब्रह्मणे प्राशित्रं परिहरति 1।
ब्रह्मणा प्राशित्रभक्षणम् :
ब्रह्मा - मित्रस्य त्वा चक्षुषा प्रेक्षे प्राशित्रमवदीयमानं प्रेक्षते । ऋतस्य पथा पर्येहि अग्रेणाहवनीयं परिह्रियमाणम् । सूर्यस्य त्वा चक्षुषा प्रतिपश्यामि आत्मनः समीपमाह्रियमाणम् । देवस्य त्वा - -- हस्ताभ्यां प्रतिगृह्णामि अञ्जलिना प्रतिगृह्य । पृथिव्यास्त्वा नाभौ सादयामीडयाः पदे अन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वा । अदब्धेन त्वा चक्षुषावेक्षे अवेक्ष्य । देवस्य त्वा -- - हस्ताभ्यामाददे अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या प्राशित्रस्थं हविरादाय । अग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेब्रह्मणेन्द्रस्य त्वा जठरे सादयामि असम्लेत्य अपिगिरति । हस्तौ प्रक्षाल्य । पुनर्जलेनापूर्य । या अप्स्वन्तर्देवतास्ता इदꣳ शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छ स्वाहा अद्भिरभ्यवनीय आचम्य । घसीना मे मा सम्पृक्था ऊर्ध्वं मे नाभेस्सीदेन्द्रस्य त्वा जठरे सादयामि नाभिदेशमभिमृशति । वाङ्म आसन् । नसोः प्राणः । अक्ष्योश्चक्षुः । कर्णयोश्श्रोत्रम् । बाहुवोर्बलम् । ऊरुवोरोजः यथालिङ्गमङ्गानि संमृश्य । अरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिꣳसीः अवशिष्टान्यङ्गानि । प्रक्षाल्य प्राशित्रहरणम् । अद्भिः पूरयित्वा । दिशो जिन्व पराचीं निनयति । पुनर्जलेनापूर्य । मां जिन्व अभ्यात्मं निनयति।
अध्वर्युः - इडापात्र उपस्तीर्य । सर्वेभ्यो हविर्भ्य इडां समवद्यति । मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षिणार्धादसम्भिन्दन्नवद्याम्येकतोमुखाम् आग्नेयस्य पुरोडाशस्य दक्षिणार्धात्
१. नाभिघारयति इति अ. ह. पाठः ।
प्रथममवदानमवद्यति । दक्षिणार्धादेव सम्भेदाद्द्वितीयमवद्यति । सम्भेदात् तृतीयं पञ्चावत्तिनः । पूर्वाधाच्च यजमानभागमणुमिव दीर्घम् । तमाज्येन सन्तर्प्य ध्रुवाया उपोहति । सान्नाय्ययोरपि सन्तर्पणम् । एवमुत्तरस्यावद्यति ।
यजमानः – सुरूपवर्षवर्ण एहीमान्भद्रां दुर्याꣳ अभ्येहि मामनुव्रता न्यु शीर्षाणि मृढ्वमिड एह्यदित एहि सरस्वत्येहि रन्तिरसि रमतिरसि सूनर्यसि जुष्टे जुष्टिं तेऽशीयोपहूत उपहवं तेऽशीय इडामवदीयमानाम् ।
इडोपाह्वानम् :-
अध्वर्युः - अभिघार्य इडां होत्रे प्रदाय अपि वा प्राचीमिडामपोह्य दक्षिणेन होतारमतिक्रम्य स्वयं दक्षिणत आसीनः स्रुवेण होतुरङ्गुलिपर्वणी अनक्ति । इडां होत्रे प्रदाय । होता इडापात्रं सव्येन धारयति । दक्षिणहस्तं संलग्नं धारयति । पुरस्तात् प्रत्यङ्ङासीनः होतुर्हस्ते इडाघृतेनानक्ति । तत्र अवान्तरेडामवद्यति । स्वयं होतोत्तरभागमादत्ते । लेपादुपस्तरणाभिघारणे भवतः । द्विरभिघारयेत् पञ्चावत्तिनः । उपहूयमानामन्वारभेते अध्वर्युर्यजमानश्च ।
यजमानः - उत्तरातिक्रम्य । भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहि इडामन्वारभ्य उपांशूपहवे सप्त देवगवीर्जपति । चिदसि मनासि धीरसि रन्ती रमतिस्सूनुस्सूनरी उच्चैरुपहवे सप्त मनुष्यगवीः । देवीर्देवैरभि मा निवर्तध्वᳪँ、 स्योना स्योनेन घृतेन मा समुक्षत । नम इदमुपदं भिषगृषिर्ब्रह्मा यद्ददे समुद्रादुदचन्निव । स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन् । वायविडा ते माता होतारमीक्षमाणो वायुं मनसा ध्यायेत् वायो । उपहूतः पशुमानसानि । सा मे सत्याशीरस्य यज्ञस्य भूयादरेडता मनसा तच्छकेयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वस्मास्विन्द्र इन्द्रियं दधात्वस्मान्राय उत यज्ञास्सचन्तामस्मासु सन्त्वाशिषस्सा नः प्रिया सुप्रतूर्तिर्मघोनी जुष्टिरसि जुषस्व नो जुष्टानोऽसि जुष्टिं ते गमेयम् । आशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविणꣳ सवर्चसम् । सञ्जयन् क्षेत्राणि सहसाहमिन्द्र कृण्वानो अन्याꣳ अधरान्त्सपत्नान् । इडाया अहं देवयज्यया पशुमान्भूयासम् । इडा धेनुस्सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माꣳ आगात् भक्षायाह्रियमाणामनुमन्त्रयते । इडाप्राशनम् :-
अध्वर्युः – दैव्या अध्वर्यव इति होतुरभिज्ञाय । उपहूतः पशुमानसानि इति जपति । हविस्समं पञ्चधा कृत्वा । इडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणस्याम
सर्वात्मानस्सर्वगणाः । यजमानपञ्चमा इडां प्राश्नन्ति । वाग्यता आसत आ मार्जनात् । आचम्य । मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्ताम् अन्तर्वेदि प्रस्तरेऽद्भिर्मार्जयन्ते । प्रस्तरादपादाय शिरस्यप आनयते तन्मार्जनम् पुरोडाशानां चतुर्धाकरणं प्राशनं च :-
आग्नेयं पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोति । बर्हिषदं वा कृत्वा चतुर्धाकरोति ।।
यजमानः – ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां मे बर्हिषि पुरोडाशमासन्नमभिमृशति । अथैनं प्रतिदिशं व्यूहति । आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् । ब्रध्न पाहि भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदꣳ हविस्सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तो ब्राह्मणो नेहा ब्राह्मणस्यास्ति । अथैनमन्वादिशति । इदं ब्रह्मणः । इदꣳ होतुः । इदमध्वर्योः । इदमग्नीधः । अध्वर्युः - इदं यजमानस्य । वेदेन यजमानभागं निर्दिशति ।
यजमानः – उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय । उपहूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इदमग्नीधः ।
अध्वर्युः - आग्नीध्रभागस्य वैशेषिकं स्थविष्ठमग्नीधे षडवत्तं संपादयति । द्विरुपस्तृणाति द्विरादधाति द्विरभिघारयति ।
आग्नीध्रः - अग्नेराग्नीध्रमसि अग्नेः शामित्रमसि नमस्ते अस्तु मा मा हिꣳसीः भक्षयित्वा आचामेत् ।
अध्वर्युः. - वेदेन ब्रह्मयजमानभागौ परिहरति । तौ प्रतिगृह्य नासंस्थिते भक्षयतः । पृथक्पात्राभ्यामितरयोः । स्रुवेण होतुः । जुह्वाध्वर्योः ।
होता – पृथिव्यै भागोऽसि भक्षयति ।
अध्वर्युः - अन्तरिक्षस्य भागोऽसि भक्षयति ।
अन्वाहार्यासादनं, अभिमर्शनं, प्रतिग्रहणं च :-
सर्वात्मानस्सर्वगणाः । यजमानपञ्चमा इडां प्राश्नन्ति । वाग्यता आसत आ मार्जनात् । आचम्य । मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्ताम् अन्तर्वेदि प्रस्तरेऽद्भिर्मार्जयन्ते । प्रस्तरादपादाय शिरस्यप आनयते तन्मार्जनम् पुरोडाशानां चतुर्धाकरणं प्राशनं च :-
आग्नेयं पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोति । बर्हिषदं वा कृत्वा चतुर्धाकरोति ।।
यजमानः – ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां मे बर्हिषि पुरोडाशमासन्नमभिमृशति । अथैनं प्रतिदिशं व्यूहति । आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम । ब्रध्न पाहि भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदꣳ हविस्सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तो ब्राह्मणो नेहा ब्राह्मणस्यास्ति । अथैनमन्वादिशति । इदं ब्रह्मणः । इदꣳ होतुः । इदमध्वर्योः । इदमग्नीधः । अध्वर्युः - इदं यजमानस्य । वेदेन यजमानभागं निर्दिशति ।
यजमानः – उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय । उपहूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इदमग्नीधः ।
अध्वर्युः - आग्नीध्रभागस्य वैशेषिकं स्थविष्ठमग्नीधे षडवत्तं संपादयति । द्विरुपस्तृणाति द्विरादधाति द्विरभिघारयति ।
आग्नीध्रः - अग्नेराग्नीध्रमसि अग्नेः शामित्रमसि नमस्ते अस्तु मा मा हिꣳसीः भक्षयित्वा आचामेत् ।
अध्वर्युः - वेदेन ब्रह्मयजमानभागौ परिहरति । तौ प्रतिगृह्य नासंस्थिते भक्षयतः । पृथक्पात्राभ्यामितरयोः । स्रुवेण होतुः । जुह्वाध्वर्योः ।
होता – पृथिव्यै भागोऽसि भक्षयति ।
अध्वर्युः - अन्तरिक्षस्य भागोऽसि भक्षयति ।
अन्वाहार्यासादनं, अभिमर्शनं, प्रतिग्रहणं च :-
ततोऽध्वर्युर्दक्षिणाग्नौ अन्वाहार्यं महान्तमपरिमितमोदनं पचति । क्षीरे भवतीत्येके । अभिघार्य । उदगुद्वास्य । अन्तर्वेद्यासाद्य ।
ब्रह्मा - ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वा हुताद्य मा मा हिꣳसीरहुतो मह्यꣳ शिवो भव अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ।
यजमानः – ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसत्प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान् प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिन् लोके । इयᳪँ、 स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युम् अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति
अध्वर्युः - दक्षिणसद्भ्य उपहर्तवै३ इति सम्प्रेष्यति ।
यजमानः – दक्षिणत एत, ब्राह्मणा अयं व ओदनो यथाभागं प्रतिगृह्णीध्वम् ।
ऋत्विजः - दक्षिणत एत्य दक्षिणां प्रतिग्रहीष्यन्त्सप्तदशकृत्वोऽपान्यात् । व्यावृत्य प्रतिगृह्णीयात् । अध्वर्युराग्नीध्रो दक्षिणेनाहवनीयमुपविश्य । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे ब्रह्मण ओदनम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । कामꣳ समुद्रमा विश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु प्रतिगृह्णन्ति ।
यजमानः - उत्तरतः परीता३ इति सम्प्रेष्यति । ।
अनूयाजहोमः :-
अध्वर्युः - हविश्शेषानुद्वास्य । ब्रह्मन्प्रस्थास्यामस्समिधमाधायाग्नीत् परिधीᳪ、श्चाग्निं च सकृत्सकृत्संमृड्ढि इति सम्प्रेष्यति ।
ब्रह्मा – देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि । ओं ३ प्रतिष्ठ ।
आग्नीध्रः - एषा ते अग्ने समित्तया वर्धस्व चाचप्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहा अनूयाजसमिधमादधाति ।
यजमानः – एतेनैव आधीयमानमनुमन्त्रयते । अग्नय इदम् । यं ते अग्न आ वृश्चाम्यहं वा क्षिपितश्चरन्न् । प्रजां च तस्य मूलं च नीचैर्देवा नि वृश्चत । अग्ने यो नोऽभिधासति समानो
यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किं चन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाᳪ、स्तानग्ने सं दह याᳪ、श्चाहं द्वेष्मि ये च माम् आहितायामनुमन्त्रयते ।
आग्नीध्रः – पूर्ववत्परिधीनग्निं च सकृत्सकृत्संमृज्य । अग्ने वाजजिद्वाजं त्वा ससृवाꣳसं वाजं जिगिवाꣳसं वाजिनं वाजजितं वाजजित्यायै सं मार्ज्म्यग्निमन्नादमन्नाद्याय सकृदग्निं प्राञ्चं संमार्ष्टि ।
अध्वर्युः - इध्मसन्नहनान्यद्भिः संस्पृश्याग्नौ प्रहरति । यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिꣳसीरेतदस्तु हुतं तव स्वाहा ।
यजमानः - भूतानामधिपतये रुद्राय तन्तिचराय वृष्ण इदम् । उभावप उपस्पृशतः । वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः । सं मे सन्नतयो नमन्तामिध्मसन्नहने हुते संमार्गान् हुतान यजमानोऽनुमन्त्रयते । महाहविर्होता। सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता इति सप्तहोतारं वदेत्पुरस्तादनूयाजानाम् ।
अध्वर्युः - औपभृतं जुह्वामानीय जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽग्रेण आघारसंभेदं प्रतीचस्त्रीननूयाजान् यजति । आश्राव्य प्रत्याश्राविते देवान् यज पूर्वार्धे समिधि जुहोति ।
यजमानः - अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् ।
अध्वर्युः - आश्राव्य प्रत्याश्राविते यज वषट्कृते मध्ये जुहोति ।
यजमानः - अग्नय इदम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् ।
अध्वर्युः - आश्राव्य प्रत्याश्राविते यज वषट्कृते पश्चार्धे हुत्वा प्राञ्चमुत्तमं संस्थापयन्नितरावनु संभिन्नत्ति ।
यजमानः - अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् ।
वाजवतीभ्यां व्यूहनं, परिध्यंजनं च :-
अध्वर्युः - प्रत्याक्रम्य आयतने स्रुचौ सादयित्वा । वाजवतीभ्यां व्यूहत्युभौ वाजवत्यौ जपतः । वाजस्य मा प्रसवेनोद्ग्राभेणोदग्रभीत् इति दक्षिणेन हस्तेन उत्तानेन सप्रस्तरां जुहूमुद्यच्छति । अथा सपत्नाꣳ इन्द्रो मे निग्राभेणाधराꣳ अकः सव्येनोपभृतं नियच्छति । उद्ग्राभं च दक्षिणेन जुहूमुद्यच्छति । निग्राभं च दक्षिणेन उपभृतं नियच्छति । ब्रह्म देवा अवीवृधन् प्राची जुहूं प्रोहति
। अथा सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यताम् सव्येनोपभृतं प्रतीची बहिर्वेदि निरस्य । अप उपस्पृश्य । प्रोक्ष्यैनामभ्युदाहृत्य । जुह्वा परिधीननक्ति । वसुभ्यस्त्वा मध्यमम् ।
यजमानः – वसून्देवान् यज्ञेनापिप्रेम् अज्यमानमनुमन्त्रयते । वसुभ्य इदम् ।
अध्वर्युः - रुद्रेभ्यस्त्वा दक्षिणम् ।
यजमानः – रुद्रान्देवान् यज्ञेनापिप्रेम् । रुद्रेभ्य इदम् ।
अध्वर्युः - आदित्येभ्यस्त्वा उत्तरम् ।
यजमानः – आदित्यान्देवान् यज्ञेनापिप्रेम् । आदित्येभ्य इदम् ।
अध्वर्युः – न प्रस्तरे जुहूं सादयति । सञ्जानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्यावताम् विधृतीभ्यां प्रस्तरमपादाय बर्हिषि विधृती अपिसृज्य । दक्षिणोत्तराभ्यां पाणिभ्यां प्रस्तरं गृहीत्वा । स्रुक्षु प्रस्तरमनक्ति । अक्तꣳ रिहाणा वियन्तु वयः जुह्वामग्रम् । प्रजां योनिं मा निर्मृक्षम् उपभृति मध्यम् । आ प्यायन्तामाप ओषधयः ध्रुवायां मूलम् । मूलाञ्जने दक्षिणं पाणिमधः कुर्यात् । एवं त्रिरङ्क्त्वा
यजमानः – समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिस्सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा प्रस्तरमज्यमानम् । प्रस्तरप्रहरणम् :-
अध्वर्युः - आयुषे त्वा अक्तस्य तृणमपादाय प्रज्ञातं निधाय । दक्षिणोत्तराभ्यां पाणिभ्यां सह शाखया प्रस्तरं गृहीत्वा जुह्वां प्रतिष्ठाप्य, आसीनः । आश्राव्य प्रत्याश्राविते । इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषस्सूक्तवाकाय सूक्ता ब्रू३हि । अनूच्यमाने सूक्तवाके अग्निरिदꣳ हविरजुषतेति होतुरभिज्ञाय । मरुतां पृषतयः स्थ दिवं गच्छ ततो नो वृष्टिमेरय सह शाखया प्रस्तरमाहवनीये प्रहरति ।
यजमानः - सूक्तवाकदेवता अनुमन्त्रयते । अग्नय इदम् । अग्नेरहमुज्जितिमनूज्जेषम् । सोमायेदम । सोमस्याहमुज्जितिमनूज्जेषम् । अग्नय इदम् । अग्नेरहमुज्जितिमनूज्जेषम् । प्रजापतय इदम् । प्रजापतेरहमुज्जितिमनूज्जेषम् । विष्णव इदम् । विष्णोरहमुज्जितिमनूज्जेषम् 1। अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहमुज्जितिमनूज्जेषम् । इन्द्राय वैमृधायेदम् । इन्द्रस्य वैमृधस्याहमुज्जितिमनूज्जेषम् । इति पौर्णमास्याम् ।
दर्श तु = असन्नयतः, इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहमुज्जितिमनूज्जेषम् । सन्नयतः2
१. द्राविडप्रयोगे आज्यहविषः उपांशुयाजस्य उज्जितिमन्त्रं न पठन्ति । अ. ह. पाठेऽपि नास्ति ।
२. सन्नयतः इन्द्रमहेन्द्रयोर्विकल्पः ।
इन्द्रायेदम् । इन्द्रस्याहमुज्जितिमनूज्जेषम् । महेन्द्रायेदम् । महेन्द्रस्याहमुज्जितिमनूज्जेषम् । देवेभ्य आज्यपेभ्य इदम् । अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहमुज्जितिमनूज्जेषम् । स्व नाम ग्रहण काले एमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषम् । सूक्तवाकस्य आशिष्षु सा मे सत्याशीर्देवान्गम्याज्जुष्टाज्जुष्टतरा पण्यात्पण्यतरारेडता मनसा देवान्गम्याद्यज्ञो देवान्गच्छतु यज्ञो म आगच्छतु इति यत्कामयते तस्य नाम गृह्णाति ।
अध्वर्युः - न्यञ्चं हस्तं पर्यावर्तयन् अग्नीद्गमय इति सम्प्रेष्यति ।
आग्नीध्रः - त्रिरञ्जलिनाऽविष्वञ्चं प्रस्तरं ऊर्ध्वमुद्यौति । रोहितेन त्वाग्निर्देवतां गमयतु । हरिभ्यां त्वेन्द्रो देवतां गमयतु । एतशेन त्वा सूर्यो देवतां गमयतु ।
यजमानः – प्रस्तरं प्रह्रियमाणमेतैरेवानुमन्त्रयते ।
अनुप्रहर अथैनमाग्नीध्रोऽध्वर्युमाह।
यत्प्रस्तरात्तृणमपात्तं तदध्वर्युः प्रहरति । स्वगा तनुभ्यः ।
यजमानः – तनुभ्य इदम् । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन द्विषन्तꣳ शोचयामसि । द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचम् । प्रस्तरतृणे प्रह्रियमाणे ।
अध्वर्युः – एतदेतत् । इति त्रिरङ्गुल्या निर्दिश्य 1 । आयुष्पा अग्नेस्यायुर्मे पाहि चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहि अग्निमभिमन्त्र्य । ध्रुवासि अन्तर्वेदि पृथिवीमभिमृशति ।
परिधिप्रहरणम् :-
अथैनमाग्नीध्रोऽध्वर्युमाह संवदस्व ।
अगानग्नीत् इत्यध्वर्युः ।
अगन् इत्याग्नीध्रः ।
श्रावय इत्यध्वर्युः ।
श्रौषट् इत्याग्नीध्रः ।
मध्यमं परिधिमन्वारभ्य सम्प्रेष्यति । स्वगा दैव्या होतृभ्यस्स्वस्तिर्मानुषेभ्यः शंयोर्रूमन३हि । अनूच्यमाने शंयुवाके, परिधीनाहवनीये प्रहरति । यं परिधिं पर्यधत्था अग्ने देव पणिभिर्वीयमाणः । तं त एतमनु जोषं भरामि नेदेष त्वदप चेतयातै मध्यमम् । यज्ञस्य पाथ उपसमितम् इतरौ प्रहरन उत्तरार्ध्यस्याग्रमङ्गारेषूपगूहति ।
१. एतदेतदेतत् इति त्रिः मन्त्रः त्रिः निर्देशः अ. ह. पाठे, द्राविडप्रयोगे च । एतदेतत् इति अभ्यासरूपः एकोमन्त्रः इति भाति ।
यजमानः – वि ते मुञ्चामि रशना वि रश्मीन् वि योक्त्रा यानि परिचर्तनानि। धत्तादस्मासु द्रविणं यच्छ भद्रं प्र णो ब्रूताद्भागधां देवतासु परिधिषु विमुच्यमानेषु । अग्नय इदम् । विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् । यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवेन मे सन्तिष्ठस्व स्योनेन मे सन्तिष्ठस्व सुभूतेन मे सन्तिष्ठस्व ब्रह्मवर्चसेन मे सन्तिष्ठस्व यज्ञस्यर्धिमनु सन्तिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नमः इत्यभिमंत्रयते ।
संस्रावहोमः :-
अध्वर्युः - यजमानं प्रथत इति परिधीनभिमन्त्र्य । जुह्वामुपभृतोऽग्रमन्ववधाय । सᳪँ、स्रावभागास्स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवा इमां वाचमभि विश्वे गृणन्त आसद्यास्मिन्बर्हिषि मादयध्वᳪँ、 स्वाहा परिधीनभि जुहोति ।
यजमानः – वसुभ्यो रुद्रेभ्य आदित्येभ्यस्सᳪँ、स्रावभागेभ्य इदम् । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वानथर्वभिस्तस्य मेष्टस्य वीतस्य द्रविणेहा गमेः संस्रावं हुतम् । अत्रैवर्त्विजो हविश्शेषान्भक्षयन्ति ।
पत्नीसंयाजा :
आज्यलेपान् उष्णेन वारिणा प्रक्षाल्य सस्रुवे जुहूपभृतावध्वर्युरादत्ते । वेदं होता । स्फ्यमाज्यस्थालीमुदकमण्डलुं चादाय आग्नीध्रः । आग्नीध्रप्रथमाः पत्नीस्संयाजयिष्यन्तः प्रत्यञ्चो यन्ति । अग्रेण गार्हपत्यं दक्षिणेनाध्वर्युः प्रतिपद्यते । उत्तरेणेतरौ । अग्नेर्वामपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनी सुम्ने मा धत्तं धुरि धुर्यौ पातम् स्फ्ये स्रुचौ सादयेत् । अपरेण गार्हपत्यमूर्ध्वज्ञव आसीनाः ध्वानेन उपांशु वा पत्नीस्संयाजयन्ति । दक्षिणोध्वर्युरुत्तर आग्नीध्रो मध्ये होता । वेदमुपभृतं कृत्वा । जुह्वां चतुर्गृहीत्वा । सोमाय अनुब्रू३हि । आश्राव्य प्रत्याश्राविते । सोमं यज । वषट्कृते उत्तरार्धे जुहोति । एवमितरान् ।
यजमानः – सोमायेदम् । सोमस्याहं देवयज्यया सुरेता रेतो धिषीय ।
अध्वर्युः - त्वष्ट्रे अनुब्रू३हि । आश्राव्य प्रत्याश्राविते त्वष्टारं यज । वषट्कृते जुहोति ।
यजमानः – त्वष्ट्र इदम् । त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयम् ।
अध्वर्युः - राकाया अनुब्रू३हि । आश्राव्य प्रत्याश्राविते राकां यज । वषट्कृते जुहोति । यजमानः – राकाया इदम् । राकाया अहं देवयज्यया प्रजावान्भूयासम् ।
पत्नी - राकाया अहं देवयज्यया प्रजावती भूयासम् ।
अध्वर्युः - सिनीवाल्या अनुब्रू३हि । आश्राव्य प्रत्याश्राविते सिनीवालीं यज वषट्कृते जुहोति
यजमानः –सिनीवाल्या इदम् । सिनीवाल्या अहं देवयज्यया पशुमान्भूयासम् ।
पत्नी - सिनीवाल्या अहं देवयज्यया पशुमती भूयासम् ।
अध्वर्युः - कुह्वा अनुब्रू३हि । आश्राव्य प्रत्याश्राविते कुहूं यज । वषट्कृते जुहोति ।
यजमानः – कुह्वा इदम् । कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासम्
पत्नी - कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासम् ।
अध्वर्युः – परिश्रिते । देवानां पत्नीभ्योऽनुब्रू३हि । आश्राव्य प्रत्याश्राविते । देवानां पत्नीर्यज । वषटकृते जुहोति ।
यजमानः - देवानां पत्नीभ्य इदम् ।
अध्वर्युः - अग्नये गृहपतये अनुब्रू३हि । आश्राव्य प्रत्याश्राविते अग्निं गृहपतिं यज । वषट्कृते जुहोति ।
यजमानः - अग्नये गृहपतय इदम् । देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्रभूयासम् ।
आज्येडा :-
अध्वर्युः - पूर्ववद्धोतुरङ्गुलिपर्वणी अनक्ति । उपस्पृष्टोदकाय होतुर्हस्ते चतुर आज्यबिन्दूनिडामवद्यति । षडग्नीधः । उपहूयमानामन्वारभन्तेऽध्वर्युराग्नीध्रः पत्नी च 1। उपहूतां प्राश्नीतः होताग्नीध्रश्च ।
यजमानः - इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवी आज्येडामनुमन्त्रयते ।
सम्पत्नीय होमः :-
अध्वर्युः - अत्र स्रुवेण सम्पत्नीयं जुहोति पत्न्यामन्वारब्धायाम् । सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । सञ्जानानौ विजहतामरातीर्दिवि ज्योतिरजरमारभेताᳪ、 स्वाहा गार्हपत्ये जुहोति ।
यजमानः - दिविज्योतिषे अजराय परमात्मन इदम् ।
अध्वर्युः - अन्तर्वेदि वेदं निधाय ।
यजमानः – वेदोऽसि वित्तिरसि पाप्मनो व्यावृत्तिं विदेय कर्मासि करुणमसि क्रियासꣳ
१. सव्येनान्वारभन्ते इति अ. ह. पाठः ।
सनिरसि सनितासि सनेयं घृतवन्तं कुलायिनꣳ रायस्पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् अन्तर्वेदि वेदमभिमृशति ।
पिष्टलेप फलीकरणहोमः :-
अध्वर्युः - तूष्णीं दक्षिणाग्नौ इध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति । चतुर्गृहीताज्ये फलीकरणानोप्य । अग्नेऽदब्धायोऽशिततनो पाहि माद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितादविषं नः पितुं कृणु सुषदा योनिᳪँ、 स्वाहा ।।
यजमानः - अग्नये अदब्धायवे अशीततनव इदम् । या सरस्वती विशो भगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्म फलीकरणे हुते यजमानो मुखं विमृष्टे ।
अध्वर्युः - चतुर्गृहीताज्ये पिष्टलेपानोप्य । उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषस्संयाजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ तास्सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहा ।
यजमानः - विश्वेभ्यो देवेभ्य इदम् ।
अध्वर्युः - जुह्वां त्रिराज्यं गृहीत्वा । दक्षिणाग्नौ प्रतिमन्त्रं जुहोति । या सरस्वती विशोभगीना तस्यै स्वाहा ।
यजमानः - सरस्वत्यै विशोभगीनाया इदम् ।
अध्वर्युः - या सरस्वती वेशभगीना तस्यै स्वाहा ।
यजमानः - सरस्वत्यै वेशभगीनाया इदम् ।
अध्वर्युः - इन्द्रो पानस्य केह मनसो वेशान्कुरु सुमनसस्सजातान्स्वाहा ।
यजमानः – इन्द्राय सुमनस इदम् ।
पत्नी - इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमि योक्त्रं विमुञ्चति ।
अध्वर्युः – पत्न्यास्सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयति ।
पत्नी - समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गच्छे समात्मा तनुवा मम अग्निहोत्रहवण्योदके आनीयमाने पत्नी जपति । निनीय मुखं विमृज्य उत्तिष्ठति । पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासम् ।
प्रायश्चित्तहोमः :-
अध्वर्युः – यथेतमाहवनीयं गत्वा जुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोति । ब्रह्मप्रतिष्ठाश्रावितं . यद्वोदेवास्ततम्म उद्वयं तमसस्पर्युदुत्यं चित्रमिमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापत इष्टेभ्य इत्यष्टावयाश्च यदस्मिन्यज्ञमाज्ञातं यदकर्म यदस्यकर्मणयतइन्द्रस्वस्तिदा आभिर्गीर्भिरनाज्ञातं पुरुषसम्मितो यत्पाकत्रा यद्विद्वाꣳसोऽयाडग्निर्ये ते शतं यो भूतानामुद्बुध्यस्वोदुत्तमं व्याहृतीभिर्विहृताभिः समस्ताभिश्च जुहुयात् ।
यजमानः - अस्यामिष्टौ सर्वप्रायश्चित्तानि करिष्ये ।
अध्वर्युः - ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्त्स्वाहाकृताहुतिरेतु देवान्त्स्वाहा ।
यजमानः – ब्रह्मण इदम् ।
अध्वर्युः - आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्त्स्वाहाकृताहुतिरेतु देवान्स्वाहा ।
यजमानः – यज्ञायेदम् ।
अध्वर्युः – यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माꣳ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन स्वाहा ।
यजमानः - मरुद्भ्य इदम् ।
अध्वर्युः – ततं म आपस्तदु तायते पुनः स्वाधिष्ठा धीतिरुचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजस्स्वाहाकृतस्य समुतृप्णुतर्भुवस्स्वाहा ।
यजमानः - ऋभुभ्य इदम् ।
अध्वर्युः - उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमᳪँ、 स्वाहा।
यजमानः – सूर्यायेदम् ।
अध्वर्युः - उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यᳪँ、 स्वाहा । यजमानः – सूर्यायेदम् ।
अध्वर्युः - चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी १. आश्वलायनहोता चेत् यजमानः अस्यामिष्टौ होतृभ्रेषप्रायश्चित्तं करिष्ये । होत्रा प्रायश्चित्ताहुतिषु हूयमानेषु यथालिङ्गं त्यागं करोति।
अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा ॥
यजमानः - सूर्यायेदम् ।।
अध्वर्युः - इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युरा चके स्वाहा । यजमानः – वरुणायेदम् ।
अध्वर्युः – तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरु शꣳस मा न आयुः प्रमोषीस्स्वाहा ।
यजमानः – वरुणायेदम् ।
अध्वर्युः - त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्यस्मत्स्वाहा ।
यजमानः - अग्नीवरुणाभ्यामिदम् ।
अध्वर्युः - स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि स्वाहा ।।
यजमानः - अग्नीवरुणाभ्यामिदम् ।
अध्वर्युः - त्वमग्ने अयास्ययासन्मनसा हितः । अया सन् हव्यमूहिषेऽया नो धेहि भेषजᳪँ、 स्वाहा ।
यजमानः - अग्नये अयस इदम् ।
अध्वर्युः - प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयᳪँ、 स्याम पतयो रयीणाᳪ、 स्वाहा ।
यजमानः – प्रजापतय इदम् ।
अध्वर्युः - इष्टेभ्यस्स्वाहा ।
यजमानः – इष्टेभ्य इदम् ।
अध्वर्युः - वषडनिष्टेभ्यः स्वाहा ।
यजमानः - अनिष्टेभ्य इदम् ।
अध्वर्युः - भेषजं दुरिष्ट्यै स्वाहा ।
यजमानः – दुरिष्ट्या इदम् ।
अध्वर्युः - निष्कृत्यै स्वाहा ।
यजमानः – निष्कृत्या इदम् ।
अध्वर्युः - दौरार्ध्यै स्वाहा ।
यजमानः – दौरार्ध्या इदम् ।
अध्वर्युः - दैवीभ्यस्तनूभ्यस्स्वाहा ।
यजमानः - दैवीभ्यस्तनुभ्य इदम् ।
अध्वर्युः - ऋद्ध्यै स्वाहा।
यजमानः – ऋद्ध्या इदम् ।
अध्वर्युः - समृद्ध्यै स्वाहा ।
यजमानः - समृद्ध्या इदम् ।
अध्वर्युः - अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजᳪँ、 स्वाहा ।
यजमानः - अग्नये अयस इदम् ।
अध्वर्युः - यदस्मिन् यज्ञेऽन्तरगाममन्त्रतः कर्मतो वा । अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन स्वाहा ।
यजमानः – देवेभ्य इदम् ।
अध्वर्युः - आज्ञातमनाज्ञातममतं च मतं च यत् । जातवेदस्सं धेहि त्वꣳ हि वेत्थ यथा तथᳪँ、 स्वाहा।
यजमानः - अग्नये जातवेदस इदम् ।
अध्वर्युः - यदकर्म यन्नाकर्म यदत्यरेचि यन्नात्यरेचि । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वᳪँ、 स्विष्टꣳ सुहुतं करोतु स्वाहा ।
यजमानः - अग्नये स्विष्टकृत इदम् ।
अध्वर्युः – यदस्य कर्मणोत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वᳪँ、 स्विष्टꣳ, सुहुतं करोतु स्वाहा।
यजमानः – अग्नये स्विष्टकृत इदम् ।
अध्वर्युः – यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये विद्विषो वि मृधो जहि स्वाहा
यजमानः – इन्द्राय मघोन इदम् ।
अध्वर्युः - स्वस्तिदा विशस्पतिर्वृत्रहा वि मृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा
अभयङ्करस्स्वाहा ।
यजमानः – इन्द्राय अभयङ्करायेदम् ।
अध्वर्युः - आभिर्गीर्भिर्यदतो न ऊनमा प्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम स्वाहा ।
यजमानः – इन्द्राय हरिवते वर्धमानायेदम् ।
अध्वर्युः - अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथᳪँ、 स्वाहा।
यजमानः - अग्नय इदम् ।
अध्वर्युः – पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथᳪँ、 स्वाहा ।
यजमानः - अग्नय इदम् ।
अध्वर्युः - यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन्, यजिष्ठो देवाꣳ ऋतुशो यजाति स्वाहा ।
यजमानः - अग्नय इदम् ।।
अध्वर्युः – यद्विद्वाꣳसो यदविद्वाꣳसो मुग्धाः कुर्वन्त्यृत्विजः । अग्निर्मा तस्मादेनसश्श्रद्धा देवी च मुंचताᳪ、 स्वाहा।
यजमानः - अग्नये श्रद्धायै देव्या इदम् ।
अध्वर्युः - अयाडग्निर्जातवेदा अन्तरः पूर्वो अस्मिन्निषद्य । सन्वन्त्सनिꣳ सुविमुचा विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्छ भद्रᳪँ、 स्वाहा।
यजमानः - अग्नये जातवेदस इदम् ।
अध्वर्युः - ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्रस्सवितोत विष्णुर्विश्वे देवा मुञ्चन्तु मरुतस्स्वस्त्या स्वाहा ।
यजमानः – वरुणेन्द्रसवितृविष्णुविश्वेदेवमरुद्भ्य इदम् ।
अध्वर्युः – यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिꣳसीरेतदस्तु हुतं तव स्वाहा ।
यजमानः - भूतानामधिपतये रुद्राय तन्तिचराय वृष्ण इदम् । उभावप उपस्पृशतः । अध्वर्युः – उद्बुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते सꣳसृजेथामयं च । पुनः कृण्वᳪँ、स्त्वा
पितरं युवानमन्वाताꣳसीत् त्वयि तंतुमेतᳪँ、 स्वाहा ।
यजमानः - अग्नये तन्तुमत इदम् ।
अध्वर्युः - उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमᳪँ、 श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम स्वाहा ।
यजमानः - वरुणायेदम् ।
अध्वर्युः - भूस्स्वाहा।
यजमानः - अग्नय इदम् ।
अध्वर्युः - भुवस्स्वाहा ।
यजमानः – वायव इदम् ।
अध्वर्युः - सुवस्स्वाहा ।
यजमानः - सूर्यायेदम् ।
अध्वर्युः - भूर्भुवस्सुवस्स्वाहा ।
यजमानः – प्रजापतय इदम् । ऋक्तो यज्ञभ्रेषप्रायश्चित्तं करिष्ये । आश्वलायनो यजमानश्चेत् होमकर्ता ब्रह्मा । आपस्तम्बानां तु अध्वर्युः ।
अध्वर्युः - भूस्स्वाहा इति गार्हपत्ये जुहोति ।
यजमानः – अग्नय इदम् । यजुष्टो यज्ञभ्रेषप्रायश्चित्तं करिष्ये ।
अध्वर्युः - भुवस्स्वाहा इति दक्षिणाग्नौ ।
यजमानः – वायव इदम् । सर्वतो यज्ञभ्रेषप्रायश्चित्तं करिष्ये ।
अध्वर्युः - भूर्भुवस्सुवस्स्वाहा इत्याहवनीये ।
यजमानः - प्रजापतय इदम् । अस्मिन् कर्मणि ऋत्विक्षु मयि च नाना प्रकारेण संभावित समस्तदोषनिर्हरणार्थं सर्वप्रायश्चित्ताहुतिं करिष्ये ।
अध्वर्युः – भूर्भुवस्सुवस्स्वाहा इत्याहवनीये ।
यजमानः – प्रजापतय इदम् ।
समिष्टयजुर्होमः :
अध्वर्युः - आ प्यायतां ध्रुवा घृतेन --- यज्ञे अस्मिन् पूर्ववत् ध्रुवामाप्याय्य बर्हिर्ध्रुवाया अधस्तात्कृत्वा । अन्तर्वेद्यूर्ध्वस्तिष्ठन् ध्रुवया समिष्टयजुर्जुहोति । देवा गातुविदो गातुं वित्वा गातुमित मनस्पत इमं नो देव देवेषु यज्ञᳪँ、 स्वाहा वाचि स्वाहा वाते धास्स्वाहा मध्यमे स्वाहाकारे
बर्हिरनु प्रहरति अन्ते घृतम् ।
यजमानः – देवेभ्यो गातुविद्भ्यो यज्ञाय परमात्मन इदम् । वसुर्यज्ञो वसुमान् यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छतु यज्ञो म आगच्छतु यज्ञेश्वरप्रसादो म आगच्छतु यत्कामयते तस्य नाम गृह्णाति । समिष्टयजुर्हुतमनुमन्त्रयते । सं यज्ञपतिराशिषा यजमानः स्वभागं प्राश्नाति । दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् सायंदोहं प्राश्नाति । इदꣳ हविः प्रजननं मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा प्रातर्दोहम् ।
अध्वर्युः - यदि यजमानः प्रवसेत् प्रजापतेर्विभान्नाम लोकस्तस्मिᳪँ、स्त्वा दधामि सह यजमानेन इति ध्रुवायां यजमानभागमवधाय समिष्टयजुषा सह जुहुयात् । अभिस्तृणीहि परिधेहि वेदिम् । जामिं मा हिꣳसीरमुया शयाना । होतृषदना हरितास्सुवर्णाः । निष्का इमे यजमानस्य ब्रध्ने होतृषदनैः वेदिमभिस्तीर्य । को वो योक्षीत्स वो विमुञ्चतु अन्तर्वेदि प्रणीता आसाद्य मन्त्रेण विमुञ्चति । तत्र सन्ततामुदकधारां स्रावयति ।
प्रणीताविमोकः :-
यजमानः - सदसि सन्म भूयास्सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठाः उदकमानीयमानमनुमन्त्रयते । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् । दक्षिणायां दिशि मासाः पितरो मार्जयन्ताम् । प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् । उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम् । ऊर्ध्वायां दिशि यज्ञस्संवत्सरो यज्ञपतिर्मार्जयन्ताम् इति यथालिङ्गं प्रतिदिशं व्युत्सिच्य । समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परा सेचि मत्पयः अन्तर्वेदि शेषं निनीय । यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति । या सरस्वती वैशम्भल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्म मुखं विमृष्टे । अवभृथस्स्यैव रूपं कृत्वोत्तिष्ठति । एष वै दर्शपूर्णमासयोरवभृथः ।
उपवेषोपगूहनम् :-
अध्वर्युः – यं देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरु । उपवेषोपविड्ढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगान् कुरु पुरस्तात् प्रत्यञ्चमुत्करे उपवेषं स्थविमत उपगूहति ।
कपालविमोकः :-
अध्वर्युयजमानौ – यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चताम् उभौ कपालविमोचनीयं जपतः । संख्यायोद्वासयति यजमानस्य गोपीथाय । प्रतिकपालयोगं मन्त्रावृत्तिः ।
ब्रह्मा - दिवो भागोऽसि स्वभागं प्राश्य । आचम्य । आहवनीये समिधमाधाय । अयाडग्निर्जातवेदा अन्तरः पूर्वो अस्मिन्निषद्य । सन्वन्त्सनिꣳ सुविमुचा विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्छ भद्रम् ॥ प्र णो यक्ष्यभिवस्यो अस्मान्त्सन्नस्सृज सुमत्या वाजवत्या इत्याहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति ।
यजमानस्य विष्णुक्रमणं, अग्न्यादित्योपस्थानं च :-
यजमानः - दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान् प्राचः क्रामति । उत्तरमुत्तरं ज्यायांसम् । अनतिहरन्त्सव्यम् । नाहवनीयमतिकामति । विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । विष्णोः क्रमोऽस्यभिशस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतेन छन्दसा दिवमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । अवस्थाय चतुर्थञ्जपति विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशोऽनु वि क्रमे निर्भक्तस्स यं द्विष्मः । अन्त्ये विष्णुक्रमदेशे एव स्थित्वा विष्ण्वतिक्रमातिमोक्षाणां जपः । अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतिमोक्षाः । अग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि । इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण सहजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाथे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि । विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि ॥ ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो
रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास्ते रात्रीस्सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजयाऽन्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाᳪ、स्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाᳪ、 श्रेष्ठ्य आ धेह्येनम् अतिमोक्षान्जपति । अगन्म सुवस्सुवरगन्मेत्यादित्यमुपतिष्ठते अगन्म सुवस्सुवरगन्म सन्दृशस्ते मा छित्सि यत्ते तपस्तस्मै ते माऽऽवृक्षि सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीदमहं पाप्मानं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि निर्भक्तस्स यं द्विष्मः ॥ सं ज्योतिषा भूवम् ॥ उद्यन्नद्य मित्रमहस्सपत्नान्मे अनीनशः । दिवैनान् विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य ।। उद्यन्नद्य मित्रमह आरोहन्नुत्तरा दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥ शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् ।। यो नश्शपादशपतो यश्च नश्शपतश्शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापꣳ समूहताम् आदित्यमुपतिष्ठते । ऐन्द्रीमावृतमन्वावर्ते इति प्रदक्षिणमावर्तते । पुण्या भवन्तु या लक्ष्मीः परा भवन्तु या पापीः । समहं प्रजया सं मया प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोषः पुनरुपावर्तते । समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासं आहवनीयमुपसमिन्धे । वसुमान् यज्ञो वसीयान् भूयासम् । यो नस्सपत्नो यो रणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चन आहवनीयमुपतिष्ठते । अपरेण गार्हपत्यमुपविश्य तूष्णीं गार्हपत्ये समिधमादधाति । तिष्ठन् जपति । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व
दुच्छनाम् । अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधत्पोषꣳ रयिं मयि आग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासꣳ सुगृहपतिर्मया त्वं गृहपतिना भूयाश्शतꣳ हिमास्तामाशिषमाशासे तन्तवे ज्योतिष्मतीं तामाशिषमाशासे यज्ञेश्वर शर्मणे ज्योतिष्मतीम् । ज्योतिषे तन्तवे त्वा यज्ञेश्वरशर्मन्ननु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेधि दिव्याद्धाम्नो मा छित्सि मा मानुषात् इति च । प्रतिपुत्रं मन्त्रावृत्तिः । तूष्णीं दक्षिणाग्नौ समिधमादधाति । अग्ने वह्ने स्वदितं नस्तनये पितुं पच । शं तोकाय तनुवे स्योनः दक्षिणाग्निमुपतिष्ठते । ज्योतिषे तन्तवे त्वा यज्ञेश्वरशर्मन्ननु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेधि दिव्याद्धाम्नो मा छित्सि मा मानुषात् अन्तर्वेद्युपविश्य । ज्योतिरसि तन्तवे उपविश्य जपति । प्रतिपुत्रं मन्त्रावृत्तिः । वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतिमोक्षाञ्जपति ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास्ते रात्रीस्सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजयाऽन्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो दिव्यध्यासते। सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाᳪ、स्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाᳪ、 श्रैष्ठ्य आ धेह्येनम् ॥
व्रतोत्सर्जनम् :-
कस्त्वा युनक्ति स त्वा विमुञ्चतु यज्ञं विमुञ्चति । दक्षिणातिक्रम्य अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मे राधि । वायो व्रतपते व्रतमचारिषं तदशकं तन्मे राधि । आदित्य व्रतपते व्रतमचारिषं तदशकं तन्मे राधि । व्रतानां व्रतपते व्रतमचारिषं तदशकं तन्मे राधि व्रतं विसृजते । यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्मा अधिपतीन् करोतु वयᳪँ、 स्याम पतयो रयीणां यज्ञस्य पुनरालम्भं जपति । गोमाꣳ अग्नेऽविमाꣳ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इडावाꣳ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान्
प्राङपदेत्य गोमतीम जपति । यज्ञ शं च म उप च म आयुश्च मे बलं च मे । यज्ञ शिवो मे सन्तिष्ठस्व यज्ञ स्विष्टो मे सन्तिष्ठस्व यज्ञारिष्टो मे सन्तिष्ठस्व दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्ट्वा जपति ।
यज्ञसमापनम् :
यजमानः पत्नी च :- वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् इत्यप उपस्पृशतः । ब्राह्मणाᳪ、स्तर्पयितवै३ इति सम्प्रेष्यति ।
अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठां ते नमउक्तिं विधेम । प्र वश्शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् । यो दैव्यानि मानुषा जनूꣳषि । अन्तर्विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्रविणं भिक्षमाणाः । सुसंदृशꣳ सुप्रतीकᳪँ、 स्वञ्चम् । हव्यवाहमरतिं मानुषाणाम् । अग्ने त्वमस्मद्युयोध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यꣳ सुविताय देव । क्षां विश्वेभिरजरेभिर्यजत्र । अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी । भवा तोकाय तनयाय शं योः । प्र कारवो मनना वच्यमानाः । देवद्रीचीन्नयथ देवयन्तः । दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची ॥ सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमः । दशकृत्वस्ते नमः । शतकृत्वस्ते नमः । आ सहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते नमः । नमस्ते अस्तु मा मा हिꣳसीः ।
नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ।
नम आहवनीयाय महावेद्यै नमो नमः ।।
काण्डद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे ।
स्वर्गापवर्गदात्रे च यज्ञेशाय नमो नमः ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥
अनृणा अस्मिन्ननृणाः परस्मिᳪँ、स्तृतीये लोके अनृणास्स्याम । ये देवयाना उत पितृयाणास्सर्वान्पथो अनृणा आक्षीयेम ।। अहं परस्तादहमवस्तादहं ज्योतिषा वि तमो ववार । यदन्तरिक्षं तदु मे पिताऽभूदहꣳ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमस्समानाम् ॥ प्रवसन्काले
विहाराभिमुखो याजमानं जपति । प्राचो विष्णुक्रमान्क्रामति । प्राङुदेत्य गोमतीं जपति जपति ।।
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु च ।
स्मरणादेव तद्विष्णोस्संपूर्णं स्यादिति ( स्मृतिः? )श्रुतिः ॥ .
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
स्वरेण वर्णेन च यद्विहीनं तथापि हीनं क्रिययापि यच्च ।
तथातिरिक्तं मम तत् क्षमस्व तदस्तु चाग्नेः परिपूर्णमेतत् ॥
मन्त्रमध्ये क्रियामध्ये विष्णोस्स्मरणपूर्वकम् ।
यत्किंचित् क्रियते कर्म तत्कर्म सफलं भवेत् ॥
॥ इति दर्शपूर्णमासेष्टिप्रयोगः ॥