आपस्तम्बीय श्रौतप्रयोगः/दर्शपूर्णमासप्रयोगः/ द्वितीयोऽध्यायः
॥ अथ द्वितीयोऽध्यायः ॥
वेदिकरणम् :-1
अध्वर्युः – देवस्य त्वा सवितुः --- हस्ताभ्यामाददे स्फ्यमादाय । इन्द्रस्य बाहुरसि दक्षिणस्सहस्रभृष्टिश्शततेजा वायुरसि तिग्मतेजाः अभिमन्त्र्य । हरस्ते मा प्रतिगाम् दर्भेण स्रुववत्सम्मृज्य दर्भमुत्करे निरस्य । अप उपस्पृश्य । अपरेणाहवनीयं यजमानमात्रीमपरिमितां वा प्राचीं वेदिं करोति । यथासन्नानि हवींषि भवन्ति एवं तिरश्चीम् । तेन वेदिं एकं, द्वे, त्रीणि, चत्वारि । वेदं धृत्वा वेदेन वेदिं विविदुः पृथिवीं सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिः वेदेन वेदिं त्रिः संमार्ष्टि ।
यजमानः - चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् वेदिं सम्मृज्यमानामनुमन्त्रयते । अध्वर्युः – पूर्वार्धे वेदेर्वितृतीयदेशे स्तम्बयजुर्हरति । पृथिव्यै वर्मासि तत्रोदगग्रं प्रागग्रं वा दर्भं निधाय । पृथिवि देवयजन्योषध्यास्ते मूलं मा हिꣳसिषम् तस्मिन् स्फ्येन सतृणं प्रहृत्य । अप उपस्पृश्य । अपहतोऽररुः पृथिव्यै स्फ्येन सतृणान् पांसूनपादाय । व्रजं गच्छ गोस्थानम् हरति ।
यजमानः – यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यश्श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मि स्तम्बयजुर्ह्रियमाणमनुमन्त्रयते ।
अध्वर्युः - वर्षतु ते द्यौः वेदिं प्रत्यवेक्षते यजमानं वा । बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौक् उत्करे2 निवपति ।
अररुस्ते दिवं मास्कान् न्युप्तमाग्नीध्रोऽञ्जलिनाऽभिगृह्णाति ।
यजमानः - इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीषु उत्करमभिगृह्यमाणम् ।
अध्वर्युः - अपाररुम देवयजनं पृथिव्याः द्वितीये प्रहृत्य, अप उपस्पृश्य । अपहतोऽररुः पृथिव्यै देवयजन्यै अपादाय । व्रजं गच्छेत्यादि पूर्ववत् ।
अवबाढꣳ रक्षः न्युप्तमाग्नीध्रोऽञ्जलिना ऽभिगृह्णाति ।
अध्वर्युः - अररुर्द्यां मा पप्तत् तृतीये प्रहृत्य, अप उपस्पृश्य । अपहतोऽररुः पृथिव्या १. पौर्णमास्यामत्र वेदिकरणम् ।
२. उत्तरतः पुरस्ताद्वितृतीयदेश उदग्द्विपदेऽपरिमिते वा वेदेर्निवपति । स उत्करः ।
अदेवयजनः अपादत्ते । व्रजं गच्छेत्यादि पूर्ववत् ।
अवबाढोऽघशꣳसः न्युप्तमाग्नीध्रोऽञ्जलिनाऽभिगृह्णाति ।
अध्वर्युः – तूष्णीं चतुर्थं हरन् सर्वं दर्भशेषं हरति ।
न्युप्तमाग्नीध्रः अवबाढा यातुधानाः अञ्जलिनाऽभिगृह्णाति ।
यो मा हृदा, इदं तस्मा इति सर्वत्र यजमानोऽनु मन्त्रयते ।
पूर्वपरिग्राहः :-
अध्वर्युः - द्रप्सस्ते द्यां मा स्कान् खनिं प्रत्यवेक्ष्य । स्फ्येन वेदिं परिगृह्णाति । वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसा दक्षिणतः । रुद्रास्त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसा पश्चात् । आदित्यास्त्वा परिगृह्णन्तु जागतेन छन्दसा उत्तरतः ।
यजमानः – यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परिगृह्णामि वेदिं परिगृह्यमाणाम् ।
अध्वर्युः - अपाररुम देवयजनं पृथिव्या अदेवयजनो जहि स्फ्येनोत्तमां त्वचमुद्धन्ति । समुद्धतस्याग्नीध्रः । उत्करे त्रिर्निवपति ।
यजमानः – यदुद्घ्नन्तो जिहिꣳसिम पृथिवीमोषधीरपः । अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पात तस्मात् ॥ यदुद्घ्नन्तो जिहिꣳसिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याश्शिवा नो विश्वैर्भुवनेभिरस्तु उद्धन्यमानामनुमन्त्रयते ।
अध्वर्युः - इमां नराः कृणुत वेदिमेत देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त विश्वे रायस्पोषा यजमानं विशन्तु इति सम्प्रेष्यति ।
आग्नीध्रः – देवस्य सवितुस्सवे कर्म कृण्वन्ति वेधसः द्व्यङ्गुलादि सम्मितां खनति । अप उपस्पृश्य।
यजमानः – भूमिर्भूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्च वेदिं क्रियमाणाम् ।
उत्तरपरिग्राहः :-
अध्वर्युः - प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी । पुरस्तादंहीयसी । पश्चात्प्रथीयसी । मध्ये सन्नततरा भवति । ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामि इति ब्रह्माणमामन्त्रयते ।
ब्रह्मा - बृहस्पते परिगृहाण वेदिᳪँ、 स्वगा वो देवास्सदनानि सन्तु । तस्यां बर्हिः प्रथताꣳ साध्वन्तर्हिᳪँ、 स्राणः पृथिवी देव्यस्तु देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि इति जपित्वा । ओं३ परिगृहाण इत्यनुजानाति ।
अध्वर्युः - ऋतमसि दक्षिणतः । ऋतसदनमसि पश्चात् । ऋतश्रीरसि उत्तरतः । यजमानः – यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामि वेदिं परिगृह्यमाणाम् ।
अध्वर्युः - धा असि स्वधा अस्युर्वी चासि वस्वी चासि पुरा क्रूरस्य विसृपो विरफ्शिन् प्रतीचीं वेदिं स्फ्येन योयुप्य । उदादाय पृथिवीं जीरदानुर्यामैरयन् चन्द्रमसि स्वधाभिस्तां धीरासो अनुदृश्य यजन्ते वेदिं प्रतीचीमनुवीक्षते । पश्चार्धे वेदेवितृतीयदेशे स्फ्यं तिर्यञ्चं स्तब्ध्वा सम्प्रेष्यति । प्रोक्षणीरासादयेध्माबर्हिरुपसादय सुवं च सुचश्च संमृड्ढि पत्नीꣳ संनह्याज्येनोदे३हि ।
आग्नीध्रः – प्रोक्षणीरभिपूर्य1 उदञ्चं स्फ्यमपोह्य । दक्षिणेन स्फ्यमसंस्पृष्टा अप उपनिनीय । ऋतसधस्थ पापघ्न्यः स्फ्यस्य वर्त्मन्त्सादयति ।
यजमानः - ईडेन्य क्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीः प्रोक्षणीरासाद्यमाना अनुमन्त्रयते ।
आग्नीध्रः – शतभृष्टिरसि वानस्पत्यो द्विषतो वधः पाप्मनः पुरस्तात्प्रत्यञ्चमुत्करे स्फ्यमुदस्यति । हस्ताववनिज्य । स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन् । उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति । दक्षिणमिध्ममुत्तरं बर्हिः ।
यजमानः – ऊर्णामृदु प्रथमानᳪँ、 स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् बर्हिरासाद्यमानमनुमन्त्रयते । स्रुक्सम्मार्जनम् :-
आग्नीध्रः - घृताचीरेताग्निर्वो ह्वयति देवयज्यायै सस्रुवप्राशित्रस्स्रुच आदाय । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः आहवनीये प्रतितप्य । अनिशितास्स्थ सपत्नक्षयणीः स्रुचोऽभिमन्त्रयते । वेदाग्राणि प्रतिविभज्य अप्रतिविभज्य वा तैः स्रुचः सम्मार्ष्टि । गोष्ठं मा निर्मृक्षं वाजिनं त्वा सपत्नसाहꣳ सम्मार्ज्मि स्रुवमग्रैरन्तरतोऽभ्याकारं सर्वतो बिलमभिसमाहारं मूलैर्दण्डम् । वाचं प्राणं मा निर्मृक्षं वाजिनीं त्वा सपत्नसाहीꣳ सम्मार्ज्मि जुहूमग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतः प्रतीचीं मूलैर्दण्डम् । चक्षुश्श्रोत्रं मा निर्मृक्षं वाजिनीं त्वा सपत्नसाहीꣳ सम्मार्ज्मि उपभृतमुदीचीमग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतः प्राचीं मूलैर्दण्डम् । प्रजां योनिं मा निर्मृक्षं वाजिनीं त्वा सपत्नसाहीꣳ सम्मार्ज्मि यथा स्रुवमेवं ध्रुवाम् । रूपं वर्णं पशूनां मा निर्मृक्षं वाजि त्वा
१. अभिपूरणमाध्वर्यवम् इति द्राविडप्रयोगः ।
सपत्नसाहꣳ सम्मार्ज्मि स्रुववत् प्राशित्रहरणम् । तूष्णीं वा । न संमृष्टान्यसंमृष्ठैस्संस्पर्शयति । अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामि पुनः प्रतितप्य । प्रोक्ष्याग्रेणोत्करं दर्भेषु सादयति जघनेन वा । स्रुक्संमार्जनान्यद्भिस्संस्पृश्य । दिवश्शिल्पमवततं पृथिव्याः ककुभिश्श्रितम् । तेन वयꣳ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहा अग्नौ प्रहरति ।
यजमानः – प्रजापतय इदम् ।
पत्न्याः योक्त्रसन्नहनम् :-
आग्नीध्रः - वेदमाज्यस्थाली योक्त्रं पवित्रे चादाय । आशासाना सौमनसं प्रजाꣳ सौभाग्यं तनूम् । अग्नेरनुव्रता भूत्वा सन्नह्ये सुकृताय कम् अपरेण गार्हपत्यमूर्ध्वज्ञुमासीनां पत्नीं अन्यतरतः पाशेन योक्त्रेण सन्नह्यति1 । तिष्ठन्तीं वा । वाचयतीत्येके ।
पत्नी - उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा । प्रदक्षिणं पर्यूह्य । दक्षिणेन नाभिमवस्थाप्योपोत्थाय । अग्ने गृहपत उप मा ह्वयस्व गार्हपत्यमुपतिष्ठते । देवानां पत्नीरुप मा ह्वयध्वं पत्निपत्न्येष ते लोको नमस्ते अस्तु मा मा हिꣳसीः देवपत्नीरुपतिष्ठते । तस्माद्देशादपक्रम्य । सुप्रजसस्त्वा वयꣳ सुपत्नीरुप सेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम् दक्षिणत उदीच्युपविशति । इन्द्राणी वाऽविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्य उपनिषदे सुप्रजास्त्वाय पत्नी जपति ।
यजमानः - युक्ता मे यज्ञमन्वासातै३ इति सम्प्रेष्यति ।
आज्यसंस्कारः :-
बह्वाज्याभ्यां दर्शपूर्णमासाभ्यां यजते ।
आग्नीध्रः - पूषा ते बिलं विष्यतु सर्पिर्धानस्य बिलमपावृत्य । दक्षिणाग्नावाज्यं विलाप्य । अदितिरस्यच्छिद्रपत्रा आज्यस्थालीमादाय । महीनां पयोऽस्योषधीनाꣳ रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्यायै तस्यां पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य । इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे दक्षिणाग्नावधिश्रित्य । वेदेन भस्म प्रमृज्य । इषे त्वा दक्षिणार्धे गार्हपत्यस्याधिश्रित्य । ऊर्जे त्वा अपादाय । वेदेन भस्म प्रमृज्य वेदेनोपयम्य । पत्न्यञ्जलावुप हरति । तत्सा निमील्यावेक्ष्य अनुच्छ्वसन्ती आज्यमवेक्षते । महीनां पयोऽस्योषधिनाꣳ रसोऽदब्धेन त्वा चक्षुषावेक्षे सुप्रजास्त्वाय ।
१. यस्य व्रत्येहन्पत्न्यनालम्भुका स्यात् तामपरुध्य यजेत । प्रोक्षणीरासादय इति प्रेषे पत्नीं सन्नह्य इति पदद्वयनिवृत्तिः । योक्त्रं तु स्वकाले दक्षिणतः पाशमुदक् शुल्बं पश्चाद्वेदेरन्तर्वेदि वा तूष्णीं निदध्यात् ।
आग्नीध्रः - तेजोऽसि उत्तरार्धे गार्हपत्यस्याधिश्रित्य । तेजसे त्वा अपादाय1 । वेदेन भस्म प्रमृज्य वेदेनोपयम्य । तेजोऽसि तेजोऽनुप्रेहि हरति । अग्निस्ते तेजो मा वि नैत् आहवनीयेऽधिश्रित्य । वेदेन भस्म प्रमृज्य । अग्नेर्जिह्वासि सुभूर्देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव स्फ्यस्य वर्त्मन्त्सादयति ।
आज्यावेक्षणम् :-
अध्वर्युर्यजमानश्च निमील्यावेक्ष्य । अनुच्छ्वसन्तावाज्यमवेक्षते । आज्यमसि सत्यमसि सत्यस्याध्यक्षमसि हविरसि वैश्वानरं वैश्वदेवमुत्पूतशुष्मꣳ सत्यौजास्सहोऽसि सहमानमसि सहस्वारातीस्सहस्वारातीयतस्सहस्व पृतनास्सहस्व पृतन्यतः । सहस्रवीर्यमसि तन्मा जिन्वाज्यस्याज्यमसि सत्यस्य सत्यमसि सत्यायुरसि सत्यशुष्ममसि सत्येन त्वाऽभिघारयामि तस्य ते भक्षीय 2 । आज्यस्योत्पवनम् :-
अध्वर्युः - उदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पुनाति । शुक्रमसि प्रथमम् । ज्योतिरसि द्वितीयम् । तेजोऽसि तृतीयम् । पूर्ववदाज्यलिप्ताभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति । देवो वस्सवितोत्पुनातु, अच्छिद्रेण पवित्रेण, वसोस्सूर्यस्य रश्मिभिः ।
यजमानः - अद्भिराज्यमाज्येनापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वरेणेमं यज्ञमवत संविदानाः आज्यं प्रोक्षणीश्चोत्पूयमानाः । उभावाज्यग्रहं जपतः ।
आज्यग्रहणम् :
अध्वर्युः - अनिष्कासिना स्रुवेण वेदमुपभृतं कृत्वान्तर्वेद्याज्यानि गृह्णाति । समं बिलं धारयमाणः भूयो जुह्वाम् । चतुर्जुह्वाम् । शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । ज्योतिस्त्वा ज्योतिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । अर्चिस्त्वार्चिषि थाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि ।। पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि इति पञ्चावत्तिनः । मध्यदेशे उपभृत्यष्टावल्पीयः । पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि । पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि । पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि । पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि । धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामि इति पञ्चावत्तिनः । चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय
१. पत्न्यभावे तेज आदि लुप्यते ।
२. भक्षीयानन्तरं इदं विष्णुः --- पाꣳसुरे । भूर्भुवस्सुवः इति अ .ह .पाठे विद्यते ।
गृह्णामि । ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि । क्षत्रस्य त्वौजसे यन्त्राय धर्त्राय गृह्णामि । विशे त्वा यन्त्राय धर्त्राय गृह्णामि । सुवीर्याय त्वा गृह्णामि इति पञ्चावत्तिनः । भूमौ प्रतिष्ठितायां ध्रुवायां भूयिष्ठम् । सुप्रजास्त्वाय त्वा गृह्णामि । रायस्पोषाय त्वा गृह्णामि । ब्रह्मवर्चसाय त्वा गृह्णामि । भूरस्माकꣳ हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामि । कामाय त्वा गृह्णामि इति पञ्चावत्तिनः । नोत्करे आज्यानि सादयति । नान्तर्वेदि गृहीतस्य प्रतीचीनं हरति ।
इध्माबर्हिषः प्रोक्षणम् :-
पूर्ववत्प्रोक्षणीरभिमन्त्र्य । आपो देवीरग्रेपुवो --- प्रोक्षितास्स्थ । ब्रह्मन् प्रोक्षिष्यामि ब्रह्माणमामन्त्रयते ।
ब्रह्मा - प्रोक्ष यज्ञं देवता वर्धय --- यजमानं च धेहि । ओं ३ प्रोक्ष इत्यनुजानाति ।
अध्वर्युः - विस्रस्येध्मम् । कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहा त्रिरिध्मं प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । वेदिरसि बर्हिषे त्वा स्वाहा त्रिर्वेदिम् । बर्हिरसि स्रुग्भ्यस्त्वा स्वाहा त्रिर्बर्हिः । सर्वत्र सकृन्मन्त्रेण द्विस्तूष्णीम् । अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य । ।
यजमानः - अशिश्रेम बर्हिरन्तः पृथिव्यास्सꣳरोहयन्त ओषधीर्विवृक्णाः । यासां मूलमुदवधीः स्फ्येन शिवानस्तास्सुहवा भवन्तु ॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टि द्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाश्शतवल्शा अदब्धाः अन्तर्वेदि बर्हिरासाद्यमानम् ।
अध्वर्युः - दिवे त्वा अग्रं प्रोक्षति । अन्तरिक्षाय त्वा मध्यम् । पृथिव्यै त्वा मूलम् । स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति । पोषाय त्वा सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति । प्रोक्षणीशेषं प्राचीनावीतिनौ । स्वधा पितृभ्य ऊर्ग्भव बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छत दक्षिणायै श्रोणेरोत्तरस्याः सन्ततं निनयति ।
यजमानः – पितृभ्यो बर्हिषद्भ्य इदम् । यज्ञोपवीतिनावुभावप उपस्पृशतः ।
दर्भः वेद्याः स्तरणम् :-
अध्वर्युः - पूषा ते ग्रन्थिं विष्यतु ग्रन्थिं विस्रंसयति । प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति । विष्णोस्स्तूपोऽसि कर्षन्निव आहवनीयं प्रति प्रस्तरमादत्ते । अयं प्राणश्चापानश्च यजमानमपि गच्छताम् । यज्ञे ह्यभूतां पोतारौ पवित्रे हव्यशोधने । यजमाने प्राणापानौ दधामि तस्मिन्पवित्रे अपिसृजति । प्राणापानाभ्यां त्वा सतनुं करोमि अग्रेणाहवनीयं यजमानाय प्रयच्छति । यजमानो
ब्रह्मणे, ब्रह्मा प्रस्तरं धारयति । यजमानो वा । दर्भैर्वेदिमन्तर्धाय परिभोजनीयैरन्यैश्च दक्षिणतस्सन्नहनं स्तृणात्यक्ष्णया वा । ऊर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः बहुलमनतिदृश्नं प्रत्यगपवर्गं त्रिधातु पञ्चधातु वा बर्हिषा वेदिं स्तृणाति । धातौधातौ मन्त्रावृत्तिः । अग्रैर्मूलान्याच्छादयति ।
यजमानः – चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका वयुनानि वस्ते । साऽऽस्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् ॥ शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि ॥ इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून्मे पिन्वस्व बर्हिरास्तीर्यमाणां वेदिमनुमन्त्रयते ।
परिधीनां परिधानम् :-
अध्वर्युः - प्रस्तरपाणिस्संस्पृष्टान् परिधीन्परिदधाति । गन्धर्वोऽसि विश्वावसुर्विश्वस्मादीशतो यजमानस्य परिधिरिड ईडितः उदगग्रं स्थविष्ठं मध्यमं, प्रागग्रावितरौ । आहवनीयमभ्यग्रं दक्षिणमवाग्रमुत्तरम ।
यजमानः - ध्रुवोऽसि ध्रुवोहꣳ सजातेषु भूयासं धीरश्चेत्ता वसुवित् मध्यमं परिधीयमानं यजमानोऽनुमन्त्रयते ।
अध्वर्युः – इन्द्रस्य बाहुरसि दक्षिणो यजमानस्य परिधिरिड ईडितः दक्षिणम् । यजमानः - उग्रोऽस्युग्रोहꣳ सजातेषु भूयासमुग्रश्चेत्ता वसुवित् अनुमन्त्रयते ।
अध्वर्युः - मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा यजमानस्य परिधिरिड ईडितः उत्तरम् ।
यजमानः – अभिभूरस्यभिभूरहꣳ सजातेषु भूयासमभिभूश्चेत्ता वसुवित् अनुमन्त्रयते । अस्मिन् यज्ञ उप भूय इन्नु मे अविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳसि निरितोनुदातै परिधीनेवानुमन्त्रयते ।
अग्निकल्पनम् :-
अध्वर्युः - सूर्यस्त्वा पुरस्तात्पातु कस्यादभिशस्त्याः आहवनीयमभिमन्त्र्य । उपर्याहवनीये प्रस्तरं धारयन्नग्निं कल्पयति ।
यजमानः – युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास्त्वा सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं ते । यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नन्दुर्मरायुमैनं दधामि निर्ऋत्या उपस्थे । तेजिष्ठा
ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने । ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्, यज्ञहनः पिशाचाः आहवनीयमभिमन्त्रयते ।
अध्वर्युः - मध्यमं परिधिमुपस्पृश्य पुरस्तादूर्ध्वे आघारसमिधावादधाति । वीतिहोत्रं त्वा कवे द्युमन्तꣳ समिधीमह्यग्ने बृहन्तमध्वरे दक्षिणाम् । समिदस्यायुषे त्वा उत्तराम् ।
विधृत्यासादनं प्रस्तरस्तरणं च :-
समावनन्तर्गर्भौ दर्भौ विधृती कुरुते । विशो यन्त्रे स्थः अन्तर्वेद्युदगग्रे निदधाति ।
यजमानः - विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहᳪँ、 स्वानामुत्तमोऽसानि देवाः ॥ विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती । प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतम् विधृती आसाद्यमाने अनुमन्त्रयते ।
अध्वर्युः – वसूनाꣳ रुद्राणामादित्यानाꣳ सदसि सीद तयोः प्रस्तरमत्यादधाति । अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः ।
यजमानः - अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्त्स्रुचो अध्यासादयामि प्रस्तरमासाद्यमानम् ।
स्रुचां आसादनम् :-
अध्वर्युः - अनूचीरसंस्पृष्टाः स्रुचः प्रस्तरे सादयति जुहूरसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद प्रस्तरे जुहूं सादयति ।
यजमानः - आरोह पथो जुहु देवयानान् यत्र ऋषयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा सम्भृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येन जुहूमासाद्यमानाम्
अध्वर्युः - उपभृदसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद उपभृतं सादयति ।
यजमानः – अवाहं बाध उपभृता सपत्नान्जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्धृताची त्रैष्टुभेन छन्दसा विश्ववेदाः 1 । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रेण शर्मणा दैव्येन उपभृतमासाद्यमानाम् ।
अध्वर्युः - ध्रुवासि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद ध्रुवां सादयति ।
१. विश्ववेदः ( अ.ह.पाठः )
यजमानः – यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः ॥ ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः 1 । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवान् वैश्वदेवेन शर्मणा दैव्येन ध्रुवामासाद्यमानाम्
अध्वर्युः – ऋषभोऽसि शाक्वरो घृताचीनाꣳ सूनुः । प्रियेण नाम्ना प्रिये सदसि सीद स्रुवं सादयति ।
यजमानः – स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिस्सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः ॥ अयᳪँ、 स्रुवो अभि जिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येन स्रुवमासाद्यमानम् ।
अध्वर्युः - तूष्णीमाज्यस्थालीं स्रुचाम् पश्चात्सादयति ।
यजमानः – इयᳪँ、 स्थाली घृतस्य पूर्णा अच्छिन्नपयाश्शतधार उत्सः । मारुतेन शर्मणा दैव्येन आज्यस्थालीमासाद्यमानाम् ।
आज्याभिमन्त्रणं, हविषः उद्वासनं, प्रतिष्ठापनं, अलङ्करणं च :-
अध्वर्युः - एता असदन्त्सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियं स्रुचोऽभिमन्त्र्य । विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानि स्रुग्गतान्याज्यानि । वेदमाज्यस्थालीं पात्रीं स्रुवं चादाय । इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामि वेदेन कपालवत्पुरोडाशादङ्गारानपोह्य । प्रतिपुरोडाशं मन्त्रावृत्तिः । सूर्यज्योतिर्विभाहि महत इन्द्रियाय अभिमन्त्र्य । प्रतिपुरोडाशं मन्त्रावृत्तिः । आ प्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम । खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामि आग्नेयं पुरोडाशमभिघारयति । तूष्णीमितरौ । यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्त्सोम घृतवान् हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यं प्रातर्दोहमभिघारयति । तूष्णीं सायंदोहम् । स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि ते पात्र्यामुपस्तीर्य । आर्द्रः प्रथस्नुर्भुवनस्य गोपाश्शृत उत्स्नाति जनिता मतीनाम् अपर्यावर्तयन् पुरोडाशमुद्वास्य । वेदेन भस्म प्रमृज्य । तस्मिन्त्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः पात्र्यां प्रतिष्ठापयति । तूष्णीं यवमयम् । प्रतिपुरोडाशं स्योनं त इत्याद्यावृत्तिः । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती
१. विश्ववेदः ( अ.ह.पाठः )
रिषत् प्रातर्दोहमुद्वासयति । इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् स्रुवेण कपालानि प्रत्यज्य । प्रतिकपालयोगं मन्त्रावृत्तिः । देवस्त्वा सविता मध्वानक्तु स्रुवेण पुरोडाशमनक्ति । उपरिष्टादभ्यज्य अधस्ताद्धस्तेनोपानक्ति ।
यजमानः – तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन । तृप्तिरसि त्रैष्टुभं छन्दस्तर्पयमौजसा वीर्येण । तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिः पुरोडाशानभ्यज्यमानान् । प्रतिपुरोडाशं मन्त्रावृत्तिः ।
हविरासादनम् :-
अध्वर्युः – पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति चतुर्होत्रा पौर्णमास्यां हवींष्यासादयति । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोत्रा अमावास्यायाम् । असम्भवतां मन्त्रावृत्तिः । प्रथमप्रयोगे व्याहृतीभिर्हवींष्यासादयति । संवत्सरे पर्यागतेऽपि एताभिर्व्याहृतीभिरासादयेत् । अपरेण स्रुचः पुरोडाशानासादयत्युत्तरौ दोहौ । अपि वा मध्ये वेद्यास्सान्नाय्य कुम्भ्यौ सन्दधाति । पूर्वं शृतमपरं दधि । अथैने व्यूहति दक्षिणास्यां वेदिश्रोण्यां शृतमासादयति उत्तरस्यां दधि ।
हविरभिमर्शनम् :-
यजमानः – यज्ञोऽसि सर्वतश्श्रितस्सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषस्सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतश्श्रितस्सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः आग्नेयं पुरोडाशमासन्नमभिमृशति । अयं यज्ञस्समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्याम् सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपतमिन्द्रो वैमृधो भुवनान्नुदतामहं प्रजां वीरवतीं विदेय ऐन्द्रं वैमृधम् ।
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥ मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुगोपमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ मयि देवा द्रविणमायजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त पूर्वेऽरिष्टास्स्याम तनुवा सुवीराः ॥ मह्यं यजन्तु मम यानि हव्याऽऽकूतिस्सत्या मनसो मे अस्तु । एनो मा निगां कतमच्चनाहं विश्वे देवासो अधि वोचता मे ॥ देवीषडुर्वीरुरुणः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम
राजन् ॥ अग्निर्मन्युं प्रतिनुदन् पुरस्ताददब्यो गोपाः परि पाहि नस्त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधा वि नेशत् ॥ धाता धातॄणां भुवनस्य यस्पतिर्देवꣳ सवितारमभिमातिषाहम् । इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥ उरुव्यचा नो महिषश्शर्म यꣳसदस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा नो रीरिषो मा परा दाः ॥ ये नस्सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥ अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥ पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति पौर्णमास्यां सर्वाणि हवींष्यासन्नान्यभिमृशति दर्शे तु = यज्ञोऽसि इति आग्नेयमभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयꣳ शृतं मयि श्रयताम् प्रातर्दोहमभिमृशति । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोतु सायं दोहम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपतमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेय ऐन्द्राग्नम् । ममाग्ने वर्च इत्यनुवाकेन । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोत्रा च अमावास्यायाम् ।
अध्वर्युः - अत्र दक्षिणस्यां श्रोण्यां शृतमासादयत्युत्तरस्यां दधि । अयं वेदः पृथिवीमन्वविन्दद्गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोतु अग्रेणोत्तरेण वा ध्रुवां वेदं निधाय ।
इध्माधानम् ( सामिधेन्यः ) :-
वेद्यन्तान्परिस्तरणशेषैः परिस्तीर्य प्रिभोजनीयैः दर्भैः होतृषदनं कल्पयित्वा सामिधेनीभ्यः प्रतिपद्यते । होतरे३हि होतारमामन्त्रयते । अग्नये समिध्यमानायानुब्रूहि इति सम्प्रेष्यति 1 । होत्रा सामिधेनीष्वनूच्यमानासु प्रणवे प्रणवे समिधमादधाति । समिद्धो अग्न आहुत इत्यभिज्ञाय एकामनूयाजसमिधमवशिष्य सर्वमिध्मशेषमभ्यादधाति । परिधानीयायां वा ।
१. यदि आपस्तम्बीयहौत्रश्चेत् ब्रह्मन् सामिधेनीरनुवक्ष्यामीति होत्रा उक्ते । ब्रह्मा - प्रजापतेऽनुब्रूहि यज्ञं देवता वर्धय --- यजमानं च धेहि इत्युक्त्वा ओ३मनुब्रूहि इत्युच्चैरनुजानाति ।
यजमानः – दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् । चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्तु सामिधेनीनां प्रतिपदि जपति । अनूच्यमानासु दशहोतारं व्याख्याय । चित्तिः स्रुक् --- सामाऽध्वर्युः । उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते । अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य ते होतर्मूर्धन्नाजिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय समिध्यमानमनुमन्त्रयते । समिद्धो अग्न आहुतेत्यभिज्ञाय । समिद्धो अग्निराहुतस्स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नमः समिद्धम् ।
आघारहोमः :-
अध्वर्युः – वेदेनाग्निं त्रिरुपवाज्य । स्रुवेण ध्रुवाया आज्यमादाय । वेदेनोपयम्य । आसीन उत्तरं परिधिसंधिमन्ववहृत्य । प्रजापतिं मनसा ध्यायन् दक्षिणाप्राञ्चमृजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयति । स्वाहा। यजमानः - मनोऽसि प्राजापत्यं मनसा मा भूतेनाविश स्रौवमाघार्यमाणमनुमन्त्रयते । प्रजापतय इदम् । देवाः पितरः पितरो देवा योऽहमस्मि स सन् यजे यस्यास्मि न तमन्तरेमि । स्वं म इष्टᳪँ、 स्वं दत्तम् । स्वं पूर्तᳪँ、 स्वᳪँ、 श्रान्तम् । स्वꣳ हुतम् । तस्य मेऽग्निरुपद्रष्टा वायुरुप-श्रोतादित्योनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन् यजे होतृप्रवरे अध्वर्युप्रवरे च प्रव्रियमाणे ।
अध्वर्युः - आ प्यायतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन् स्रुवेण आज्यस्थाल्या आज्यमादाय अवदायावदाय ध्रुवामाप्याययतीति सार्वत्रिकम् । अग्नीत्परीधीᳪ、श्चाग्निं च त्रिस्त्रिस्संमृड्ढि इति सम्प्रेष्यति ।
आग्नीध्रः - इध्मसन्नहनैः सहस्फ्यैरनुपरिक्रामन् यथापरिहितं परिधीन् अन्वग्रं त्रिस्त्रिस्सम्मृज्य । अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै सं मार्ज्म्यग्निमन्नादमन्नाद्याय त्रिरग्निं प्राञ्चं संमार्ष्टि ।
अध्वर्युः - भुवनमसि विप्रथस्वाग्ने यष्टरिदन्नमः अग्रेण ध्रुवां जुहूं वा नमस्काराञ्जलिं कृत्वा । जुह्वेह्यग्निस्त्वा ह्वयति देवयज्यायै जुहूमादत्ते । उपभृदेहि देवस्त्वा सविता ह्वयति देवयज्यायै उपभृतम् । सुयमे मे अद्य घृताची भूयास्तᳪँ、 स्वावृतौ सूपावृतौ उपभृति जुहूमत्यादधाति । अशब्दं कुर्वन्मुखतोऽभिहृत्य मुखत उपावहरतीति सार्वत्रिकम् । नाभिदेशे स्रुचौ धारयति । अग्नाविष्णू मा वामवक्रमिषं विजिहाथां मा मा सं ताप्तं लोकं मे लोककृतौ कृणुतम् अग्रेण स्रुचोऽपरेण
मध्यमं परिधिमनवक्रामन् प्रस्तरं दक्षिणेन पदा दक्षिणातिक्रामत्युदक्सव्येन । विष्णोस्स्थानमसीत इन्द्रो अकृणोद्वीर्याणि अवतिष्ठते । अन्तर्वेदि दक्षिणः पादो भवत्यवघ्रस्सव्यः । अथोर्ध्वस्तिष्ठन् दक्षिणं परिधिसन्धिमन्ववहृत्य उत्तराप्राञ्चमृजंय सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयति । अन्वारब्धे यजमाने । समारभ्योर्ध्वो अध्वरो दिविस्पृशमह्रुतो यज्ञो यज्ञपतेरिन्द्रावान् स्वाहा।
यजमानः – वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाविश स्रुच्यमाघार्यमाणमनुमन्त्रयते । इन्द्रायेदम् ।
अध्वर्युः – हुत्वाभिप्राणिति हिम् । बृहद्भाः स्रुचमुद्गृह्य । पाहि माग्ने दुश्चरितादामा सुचरिते भज असंस्पर्शयन् स्रुचौ प्रत्याक्रामति । एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः । मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्ताम् जुह्वा ध्रुवां द्विस्त्रिर्वा समनक्ति । उन्नीतꣳ रायः स्रुवेण ध्रुवाया आज्यमादाय । सुवीराय स्वाहा जुहूमभिघार्य । जुह्वोपादाय । यज्ञेन यज्ञस्सन्ततः ध्रुवां प्रत्यभिघार्य । आयतने स्रुचौ सादयित्वा ।
यजमानस्य आर्षेयवरणम् :-
इध्मसन्नहनानि स्फ्य उपसङ्ग्रह्य वेद्याश्च तृणमव्यन्तमादाय उत्तरतः प्रवरायावतिष्ठेते पूर्वोऽध्वर्युरपर आग्नीध्रः । क इदमध्वर्युर्भविष्यति स इदमध्वर्युभविष्यति यज्ञो यज्ञस्य वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवस्सुवर्विष्णोस्स्थाने तिष्ठामि ।
आग्नीध्रः – इध्मसन्नहनान्यन्वारभ्याह । क इदमग्नीद्भविष्यति स इदमग्नीद्भविष्यति यज्ञो यज्ञस्य वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवस्सुवर्विष्णोस्स्थाने तिष्ठामि।
अध्वर्युः - ब्रह्मन् प्रवरायाश्रावयिष्यामि इति ब्रह्माणमामन्त्र्य ।
ब्रह्मा - वाचस्पते वाचमाश्रावयतामाश्रावय यज्ञं देवेषु मां मनुष्येषु देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्त ऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि । ओं ३ आ३श्रा३वय ।
अध्वर्युः - आ३श्रा३वय इत्याश्रावयति ।
आग्नीध्रः - अपरेणोत्करं दक्षिणामुखस्तिष्ठन् स्फ्यं संमार्गांश्च धारयन् अस्तु श्रौषट् इति प्रत्याश्रावयति । सर्वत्रैवमाश्रुतप्रत्याश्रुते भवतः ।
अध्वर्युः - अग्निर्देवो होता देवान्यक्षद्विद्वाᳪ、श्चिकित्वान् मनुष्वद्भरतवदमुवदमुवद्ब्रह्मण्वदाचवक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितारः अमुकशर्मा इति होतृनामोपांशु गृहीत्वा मानुषः इत्युच्चैः । वेद्यां तृणमपि सृजति । अमुवदित्यत्र इत ऊर्ध्वमध्वं यजमानस्य आर्षेयान्वृणीते ।
यजमानः – पूर्ववत् देवाः पितर --- स सन् यजे इत्यनुमन्त्रयते ।
प्रयाजहोमः :-
अध्वर्युः - घृतवति शब्दे तूष्णीं जुहूपभृतावादाय दक्षिणासकृदतिक्रान्तोऽपरेण आघारसंभेदं एकस्मिन् देशे पञ्च प्रयाजान् यजति । प्रतिदिशं वा 1 । आश्राव्य प्रत्याश्राविते समिधो यज प्रथमं सम्प्रेष्यति । यज यज इतीतरान् । अनपव्याहरन्तः प्रचरन्ति । यदन्यद्ब्रूयात् पुनरेवाश्रावयेत् । भ्रेषकर्ता व्याहृतीर्वा जपेत् । वषट्कृते जुहोति ।
यजमानः – पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति चतुर्होतारं वदेत् पुरस्तात्प्रयाजानाम् । अग्नय इदम् । वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु । एको ममैका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अध्वर्युः - आश्राव्य प्रत्याश्राविते यज अभिक्रामन् जुहोति ।
यजमानः – अग्नय इदम् । ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु । द्वौ मम द्वे तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अध्वर्युः - आश्राव्य प्रत्याश्राविते यज वषट्कृते जुहोति ।
यजमानः - अग्नय इदम् । वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु । त्रयो मम तिस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अध्वर्युः - औपभृतस्यार्धं जुह्वामानीयाश्राव्य प्रत्याश्राविते यज वषट्कृते जुहोति ।
यजमानः - अग्नय इदम् । शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु । चत्वारो मम चतस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अध्वर्युः - आश्राव्य प्रत्याश्राविते यज वषट्कृते जुहोति ।
यजमानः – अग्नय इदम् । हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीताम् । पञ्च मम न तस्य किञ्चन योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
चक्षुषीहोमः :-
१. सूत्रे अपरेण आघारसंभेदं प्राचो यजति, प्रतिदिशं यजति, ऐकध्यं यजति इति पक्षत्रयमुक्तम् । प्रयोगे पक्षद्वयमेव गृहीतम्।
अध्वर्युः – प्रत्याक्रम्य शेषेण ध्रौवमभिघार्याऽऽनुपूर्व्यं हवींष्यभिघारयति उपभृतमन्ततः । आयतने स्रुचौ सादयित्वा । आग्नेयः सौम्यश्चाज्यहविषावाज्यभागौ । चतुर्गृहीतमाप्याय्य गृहीत्वा, जुह्वां अवदायावदाय स्रुवेण प्रस्तरबर्हिस्समज्य । आ प्यायतां ध्रुवा घृतेन --- यज्ञे अस्मिन् । अग्नयेऽनुब्रूहि अवद्यन् सम्प्रेष्यति । जुहूपभृतावादाय दक्षिणातिक्रम्य आश्राव्य प्रत्याश्राविते अग्निं यज वषट्कृते उत्तरार्धपूर्वार्धे जुहोति ।
यजमानः - अग्नय इदम् ।
अध्वर्युः – प्रत्याक्रम्य, न स्रुचौ सादयत्यास्विष्टकृतः । पूर्ववदवद्यन् सम्प्रेष्यति । सोमायानुब्रू३हि । आश्राव्य प्रत्याश्राविते । सोमं यज । वषट्कृते दक्षिणार्धपूर्वार्धे समं पूर्वेण जुहोति । उभे ज्योतिष्मती
यजमानः – सोमायेदम् । अग्नीषोमयोरहं देवयज्यया चक्षुष्मान् भूयासम् । विहृतौ वा । व्रत्येऽहनि व्रतलोपप्रायश्चित्तार्थं व्रातपतीष्टिस्थाने (आपस्तम्बानां) स्रुवाहुतिं होष्यामि ।(आश्वलायनानां तु) पूर्णाहुतिं होष्यामि2 ।
अध्वर्युः - अग्नये व्रतपतये स्वाहा।
यजमानः - अग्नये व्रतपतय इदम् । अन्वाधानप्रभृति एतावत्कालपर्यन्तमृत्विक्षु मयि च संभावितसमस्तदोषनिर्हरणार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि ।
अध्वर्युः - स्रुवेण गृहीत्वा । ओं भूर्भुवस्सुवस्स्वाहा ।
यजमानः – प्रजापतय इदम् । दर्शे तु = पिण्डपितृयज्ञलोपप्रायश्चित्तार्थं महाहविर्होतेति सप्तहोतृमन्त्रेण होष्यामि ।
अध्वर्युः - जुह्वां चतुर्गृहीत्वा । महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतामना उपवक्ता । अनाधृष्यश्चाऽप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता इति उपांशूक्त्वा । उच्चैः वाचस्पते हृद्विधे नामन्न् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोममपात् । मा दैव्यस्तन्तुश्छेधि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा ।
यजमानः – वाचस्पतये ब्रह्मण इदम् । साङ्गतार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि ।
अध्वर्युः - ओं भूर्भुवस्सुवस्स्वाहा ।
प्रधानहोमः :-
यजमानः – प्रजापतय इदम् । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य ।
१. आनुपूर्वमिति पाठान्तरम् ।
२. पूर्णाहुतिश्चेत् चतुर्गृहीतं गृहीत्वा स्रुचा होतव्यम् ।
अध्वर्युः - जुह्वामुपस्तीर्य । आ प्यायतां ध्रुवा घृतेन --- यज्ञे अस्मिन् ध्रुवामाप्याय्य । अग्नयेऽनुब्रूहि अवद्यन् सम्प्रेष्यति । मा भेर्मा संविक्था मा त्वा हिꣳसिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरे मनुषिञ्चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिꣳसीः आग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रं तिरश्चीनमवद्यति । पूर्वार्धाद्द्वितीयमनूचीनं चतुरवत्तिनः पश्चार्धात्तृतीयं पञ्चावत्तिनः । असम्भिन्दन् मांससंहिताभ्यां मध्यमाङ्गुलीभ्यां अङ्गुष्ठेन च पुरोडाशस्यावद्यति । स्रुवेणाज्यसान्नाय्ययोः । अवदानान्येकीकृत्याभिघार्य । आ प्यायतां ध्रुवा घृतेन --- यज्ञे अस्मिन् ध्रुवामाप्याय्य । यदवदानानि तेऽवद्यन् विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्यायतां पुनः आज्यस्थाल्याज्येन हविः प्रत्यभिघार्य स्रुङ्मुखमानीय । दक्षिणातिक्रम्य । आश्राव्य प्रत्याश्राविते । अग्निं यज । आज्यं प्रश्च्योत्यापिदधदिवाप्रक्षिणन् हुत्वा आज्येनान्ततोऽवश्चोतयति । आघारसम्भेदेन आहुतीः प्रतिपादयति । स्रुच्यमाघारमभिजुहोति पूर्वां पूर्वां संहिताम् । यदा वीतार्चिः लेलायतीवाग्निः अथाहुतीर्जुहोति । आज्यहविरुपांशुयाजः पौर्णमास्यामेव भवति । वैष्णवोऽग्नीषोमीयः प्राजापत्यो वा । प्रधानमेवोपांशु । विष्णुं बुभूषन् यजेत ।
यजमानः - अग्नय इदम् । अग्नेरहं देवयज्ययान्नादो भूयासम् हुत्वा तमनुमन्त्रयते ।
अध्वर्युः - प्रत्याक्रम्य । आ प्यायताम् । जुह्वां चतुर्गृहीत्वा । प्रजापतये (उपांशु} अनुब्रू३हि (उच्चैः} । दक्षिणातिक्रम्य । आश्राव्य प्रत्याश्राविते प्रजापतिं (उपांशु} यज {उच्चैः} वषट्कृते उपांशुयाजं मध्ये जुहोति ।
यजमानः – प्रजापतय इदं । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् ।
अध्वर्युः - विष्णुयागपक्षे । आ प्यायताम् । जुह्वां चतुर्गृहीत्वा । विष्णवे (उपांशु} अनुब्रू३हि (उच्चैः} । दक्षिणातिक्रम्य । आश्राव्य प्रत्याश्राविते विष्णुं (उपांशु} यज (उच्चैः} वषट्कृते उपांशुयाजं मध्ये जुहोति ।
यजमानः - विष्णव इदम् । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् ।
अध्वर्युः - आग्नेयवदुत्तरैर्हविर्भिर्यथादैवतं प्रचरति । समवदाय दोहाभ्याम् । सर्वाणि द्रवाणि स्रुङ्मुखेन जुहोति । आ प्यायतां, मा भेः, आ प्यायतां, यदवदानानि ते । अग्नीषोमाभ्यामनुब्रू३हि । आश्राव्य प्रत्याश्राविते । अग्नीषोमौ यज । वषट्कृते जुहोति ।
यजमानः - अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् ।
अध्वर्युः - आ प्यायतां, मा भेः, आ प्यायतां, यदवदानानि ते । इन्द्राय वैमृधायानुब्रूहि । आश्राव्य प्रत्याश्राविते । इन्द्रं वैमृधं यज । वषट्कृते जुहोति।
यजमानः – इन्द्राय वैमृधायेदम् । इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो वीर्यवान् भूयासम्
अध्वर्युः - अमावास्यायामाग्नेयेन प्रचर्य । असन्नयतः । आ प्यायतां, मा भेः, आ प्यायतां, यदवदानानि ते । इन्द्राग्निभ्यामनुब्रूहि । आश्राव्य प्रत्याश्राविते । इन्द्राग्नी यज । वषट्कृते जुहोति
यजमानः – इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् ।
अध्वर्युः - अमावास्यायामाग्नेयेन प्रचर्य । सन्नयतः1 = आ प्यायतां, मा भेः, आ प्यायतां, यदवदानानि ते । दधिपयसोः स्रुवेण द्विर्द्विरवदाय प्रत्यभिघार्य । महेन्द्रायानुब्रू३हि। आश्राव्य प्रत्याश्राविते । महेन्द्रं यज । वषट्कृते जुहोति ।
यजमानः – महेन्द्रायेदम् । महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयम् । पार्वणहोमो नारिष्ठहोमश्च :-
अध्वर्युः - प्रत्याक्रम्य स्रुवेण पार्वणहोमौ जुहोति । आज्यस्थाल्याज्येन । ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ, सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहा इति पौर्णमास्याम् ।
यजमानः – पूर्णमासायेदम् ।
अध्वर्युः - अमावास्या सुभगा सुशेवा धेनुरिव भूय आ प्यायमाना । सा नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणम् । अपानाय सुराधसेऽमावास्यायै स्वाहा इत्यमावास्यायाम् ।
यजमानः - अमावास्याया इदम् ।
अध्वर्युः - आज्यस्थाल्या आज्यं जुह्वां षट्सप्त वा गृहीत्वा । दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत्स्वाहा।
यजमानः – नारिष्ठाभ्यामग्निवायुभ्यामिदम् ।
अध्वर्युः - यं वां देवा अकल्पयन्नूर्जो भागꣳ शतक्रतू । एतद्वां तेन प्रीणानि तेन तृप्यतमꣳहहौ स्वाहा ।
यजमानः – नारिष्ठाभ्यामग्निवायुभ्यामिदम् ।
अध्वर्युः - अहं देवानाꣳ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति । अहं
१. सान्नाय्ययाजी संवत्सरमिन्द्रं यजेत । ततः व्रातपतीष्टिं कत्वा (अग्नये व्रतपतये पुरोडाशमष्टाकपालं ) यावज्जीवं महेन्द्रयागं कुर्यात् । इन्द्रयागकाले इन्द्रायानुब्रूहि, इन्द्रं यज इति संप्रेष्यति । हविः, प्रचारः इत्यादि सर्वं महेन्द्रयागवदेव कुर्यात् । इन्द्रस्याहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् इति हुतानुमन्त्रणम् ।
नारिष्ठावनुयजामि विद्वान् यदाभ्यामिन्द्रो अदधाद्भागधेयᳪँ、 स्वाहा ।
यजमानः – नारिष्ठाभ्यामग्निवायुभ्यां इदम् ।
अध्वर्युः – अदारसृद्भवत देव सोमास्मिन् यज्ञे मरुतो मृडता नः । मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजना द्वेष्याया स्वाहा ।
यजमानः – नारिष्ठेभ्यो देवसोममरुद्भ्य इदम् ।
अध्वर्युः - ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्त्स्वाहाकृताहुतिरेतु देवान्त्स्वाहा ।
यजमानः – नारिष्ठाय ब्रह्मण इदम् ।
अध्वर्युः – सं ते मनसा मनस्सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहा । यजमानः - नारिष्ठेभ्यो देवेभ्य इदम् ।
अध्वर्युः – सं प्राणे प्राणं दधामि ते सं व्याने समपानं दधामि ते । परिगृह्य यजमानोऽमृतोऽभूच्छं न एधि द्विपदे शं चतुष्पदे स्वाहा ।1 एष उपहोमानां कालोऽनन्तरं वा प्रधानात्प्राग्वा समिष्टयजुषः ।
यजमानः – नारिष्ठाय परमात्मन इदम् ।
स्विष्टकृद्धोमः :-
अध्वर्युः - जुह्वामुपस्तीर्य, सर्वेषां हविषामुत्तरार्धात्सकृत्सकृत्स्विष्टकृतेऽवद्यति । द्विः पञ्चावत्तिनः । दैवतसौविष्टकृतैडचातुर्धाकारणिकानामुत्तरमुत्तरं ज्यायांसम् । आ प्यायताम् । उपस्तीर्य । अवदाय । द्विरभिघार्य । न हविः प्रत्यभिघारयति । आज्यभागप्रभृति स्विष्टकृदन्तानां नारिष्ठवर्जितानां आज्यावदानानन्तरं प्रस्तरबर्हिषोः समञ्जनं करोति । अग्नये स्विष्टकृतेऽनुब्रूहि । आश्राव्य प्रत्याश्राविते । अग्निꣳ स्विष्टकृतं यज । वषटकृते उत्तरार्धपूर्वार्धे जुहोत्यसंसक्तामितराभिराहुतीभिः । यजमानः - अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् ।
अध्वर्युः - प्रत्याक्रम्य । जुह्वामप आनीय । वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । स नः पितरं पितामहं प्रपितामहᳪँ、 स्वर्गे लोके पिन्वमानो बिभर्तु स्वाहा । अन्तःपरिधि निनयति निनयति ।
१. सं ते मनसा मनस्सं प्राणे प्राणं दधामि ते --- चतुष्पदे स्वाहा । इत्येक एव मन्त्रः इति द्रा. प्र।
यजमानः - अग्नये वैश्वानरायेदम् ।
अध्वर्युः - आयतने स्रुचौ सादयित्वा ॥
॥ इति द्वितीयोऽध्यायः ॥