आपस्तम्बीय श्रौतप्रयोगः/दर्शपूर्णमासयोर्याजमानम्

॥ दर्शपूर्णमासयोर्याजमानम् ॥
अथातो दर्शपूर्णमासौ व्याख्यास्याम: । प्रातरग्निहोत्रं हुत्वा । दर्भेष्वासीनो दर्भान्धारयमाण: पवित्रपाणि: पत्न्या सह प्राणानायम्य । ममोपात्त सकल दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं दर्शेन यक्ष्ये । अनुनिर्वाप्यैन्द्रवैमृधेन सह पूर्णमासेन यक्ष्ये इति वा संकल्प्य । ततो वपनम् । अप्यल्पशो लोमानि वापयते इति वाजसनेयकम् । विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि यक्ष्यमाणोऽप उपस्पृशति । अस्यां दर्शेष्ट्यां अध्वर्युं त्वां वृणीमहे अध्वर्युं वृणोति । एवं ब्रह्माणं होतारं आग्नीध्रं च ।
अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने। आदित्यं ज्योतिषां ज्योतिरुत्तमᳪँ、 श्वो यज्ञाय रमतां देवताभ्यः ॥ वसून्रुद्रानादित्यानिंद्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु । पौर्णमासꣳ हविरिदमेषां मयि इति पौर्णमास्याम् । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु । आमावास्यꣳ --- हविरिदमेषां मयि इत्यमावास्यायाम् । यथालिङ्गमाहवनीयेऽन्वाधीयमाने जपति । अन्तराग्नी पशवो देवसꣳसदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषया अन्तराग्नी तिष्ठन् जपति ।
इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥ इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषया गार्हपत्ये अन्वाधीयमाने जपति ।
अयं पितृणामग्निरवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करत् अन्वाहार्यपचने अन्वाधीयमाने जपति । विहारस्योत्तरत उपविश्य । इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमीदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमीदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमि अन्वाहितेषु जपति ।
पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सꣳसृज अप आचामति अप उपस्पृशति च । एवं पत्नी च ।
अपरेणाहवनीयं दक्षिणातिक्रामति । एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति । दक्षिणेनाहवनीयमुपस्थाय । व्रतꣳ समुद्रस्तदुपैष्यामि समुद्रं मनसा ध्यात्वा । अग्नीन् देवानभिसन्धाय । अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते व्रतं चरिष्यामि
 

तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् इति जपित्वा । संराडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासम् आदित्यमुपतिष्ठते । यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन् एतद्यजुर्जपेत् ।
त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ॥ इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवतः । पयस्वतीरोषधय इति जायापती अश्नीतः । अमाषममांसमाज्येन दध्ना पयसा वा । अमावास्यायां रात्र्यां स्वयं यजमानो यवाग्वा अग्निहोत्रं जुहोति । अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।
आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो रमयतु गावः गा आयतीः प्रतीक्षते । त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवताम् आदीयमानामनुमन्त्रयते ।
अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीम्मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।
अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः पिधीयमानमनुमन्त्रयते ।
उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् सायं परिस्तीर्यमाणेषु जपति । देवा देवेषु पराक्रमध्वम् । प्रथमा द्वितीयेषु । द्वितीयास्तृतीयेषु । त्रिरेकादशा इह मावत । इदꣳ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये
 

भेषजम् । इदं मे विश्वभेषजा । अश्विना प्रावतं युवम् । सद्यस्कालायामपि देवा देवेषु जपः नोभावग्नी । एतत्कृत्वोपवसति । आहवनीयागारे गार्हपत्यागारे वा शेते ।
अध्वर्युर्यजमानश्च ब्रह्माणं वृणीते । भूपते भुवन पते । महतो भूतस्य पते । ब्रह्माणं त्वा वृणीमहे इति
तूष्णीं निरसनोपवेशने करोति ।
भूश्च कश्च वाक्चर्क्च गौश्च वट्च खं च धूᳪँ、श्च नूᳪँ、श्च पूᳪँ、श्चैकाक्षराः । पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्तानो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीर्ब्रह्मपूताः स्थ । को वो युक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै । याः पुरस्तात् प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे प्रणीता: प्रणीयमाना अनुमन्त्रयते ।
ओं निर्वप इत्यनुजानाति ।
अग्निꣳ होतारमिह तꣳ हुवे देवान् यज्ञियानिह यान् हवामहे । आयन्तु देवास्सुमनस्यमाना वियन्तु देवा हविषो मे अस्य हविर्निरुप्यमाणमनुमन्त्रयते ।
कस्त्वा युनक्ति स त्वा युनक्तु सर्वं विहारमनु वीक्षते ।
पत्नी - अव रक्षो दिवः सपत्नं वध्यासम् अवहन्ति ।
पत्नी - देवेभ्यश्शुन्धध्वम् । देवेभ्यश्शुन्ध्यध्वम् । देवेभ्यश्शुम्भध्वम् सुफलीकृतान्करोति तूष्णीं वा।
॥ द्वितीयोध्यायः ॥
चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् वेदिं सम्मृज्यमानामनुमन्त्रयते ।
यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यश्श्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरश्छिनद्मि स्तम्बयजुर्ह्रियमाणामनुमन्त्रयते ।
इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीषु उत्करमभिगृह्यमाणम् ।
 

यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परिगृह्णामि वेदिं परिगृह्यमाणाम् ।
यदुद्घ्नन्तो जिहिꣳसिम पृथिवीमोषधीरपः । अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पात तस्मात् ॥ यदुद्घ्नन्तो जिहिꣳसिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याश्शिवा नो विश्वैर्भुवनेभिरस्तु उद्धन्यमानामनुमन्त्रयते।
  भूमिभूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्च वेदिं क्रियमाणाम् ।
यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामि वेदिं परिगृह्यमाणाम् ।
ईडेन्य क्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीः प्रोक्षणीरासाद्यमाना अनुमन्त्रयते ।
ऊर्णामृदु प्रथमानᳪँ、 स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् बर्हिरासाद्यामानमनुमन्त्रयते ।
युक्ता मे यज्ञमन्वासातै३ इति सम्प्रेष्यति ।
अद्भिराज्यमाज्येनापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शा-क्वरेणेमं यजमवत संविदानाः आज्यं प्रोक्षणीरुत्पूयमानाः । उभावाज्यग्रहं जपतः ।
चतुर्जुह्वाम् । शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । ज्योतिस्त्वा ज्योतिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । अर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि ॥ पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि इति पञ्चावत्तिनः । मध्यदेशे उपभृत्यष्टावल्पीयः । पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि । पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि । पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि । पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि । धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामि इति पञ्चावत्तिनः । चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि । ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि । क्षत्रस्य त्वौजसे यन्त्राय धर्त्राय गृह्णामि । विशे त्वा यन्त्राय धर्त्राय गृह्णामि । सुवीर्याय त्वा गृह्णामि इति पञ्चावत्तिनः । भूमौ प्रतिष्ठितायां ध्रुवायां भूयिष्ठम् । सुप्रजास्त्वाय त्वा गृह्णामि । रायस्पोषाय त्वा गृह्णामि । ब्रह्मवर्चसाय त्वा गृह्णामि । भूरस्माकꣳ हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामि । कामाय त्वा गृह्णामि इति पञ्चावत्तिनः । नोत्करे आज्यानि सादयति । नान्तर्वेदि गृहीतस्य प्रतीचीनं हरति ।
 

अशिश्रेम बर्हिरन्तः पृथिव्यास्सꣳ रोहयन्त ओषधीर्विवृक्णाः । यासां मूलमुद्वधीः स्फ्येन शिवानस्तास्सुहवा भवन्तु ॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टि द्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाश्शतवल्शा अदब्धाः अन्तर्वेदि बर्हिरासाद्यमानम् ।
चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका वयुनानि वस्ते । साऽऽस्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् ॥ शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि ॥ इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून्मे पिन्वस्व बर्हिरास्तीर्यमाणां वेदिमनुमन्त्रयते ।।
ध्रुवोऽसि ध्रुवोहꣳ सजातेषु भूयासं धीरश्चेत्ता वसुवित् मध्यमं परिधीयमानं यजमानोऽनुमन्त्रयते । उग्रोऽस्युग्रोहꣳ सजातेषु भूयासमुग्रश्चेत्ता वसुवित् अनुमन्त्रयते ।
अभिभूरस्यभिभूरहꣳ सजातेषु भूयासमभिभूश्चेत्ता वसुवित् अनुमन्त्रयते । अस्मिन् यज्ञ उप भूय इन्नु मे अविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳसि निरितोनुदातै परिधीनेवानुमन्त्रयते ।
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास्त्वा सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं ते । यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नान् दुर्मरायुमैनं दधामि निर्ऋत्या उपस्थे । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने । ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्, यज्ञहनः पिशाचाः आहवनीयमभिमन्त्रयते ।
विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहᳪँ、 स्वानामुत्तमोऽसानि देवाः ॥ विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती । प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतम् विधृती आसाद्यमाने अनुमन्त्रयते ।
अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन् स्रुचो अध्यासादयामि प्रस्तरमासाद्यमानम् ।
 

आरोह पथो जुहु देवयानान् यत्र ऋषयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा सम्भृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येन जुहूमासाद्यमानाम् अवाहं बाध उपभृता सपत्नान्जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रेण शर्मणा दैव्येन उपभृतमासाद्यमानाम् ।
यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः ॥ ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवान् वैश्वदेवेन शर्मणा दैव्येन ध्रुवामासाद्यमानाम् ।
स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिस्सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः ॥ अयᳪँ、 स्रुवो अभि जिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येन स्रुवमासाद्यमानम् ।
इयᳪँ、 स्थाली घृतस्य पूर्णा अच्छिन्नपयाश्शतधार उत्सः । मारुतेन शर्मणा दैव्येन आज्यस्थालीमासाद्यमानाम् ।
तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन । तृप्तिरसि त्रैष्टुभं छन्दस्तर्पयमौजसा वीर्येण । तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिः पुरोडाशानभ्यज्यमानान् । प्रतिपुरोडाशं मन्त्रावृत्तिः।
यज्ञोऽसि सर्वतश्श्रितस्सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषस्सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतश्श्रितस्सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः आग्नेयं पुरोडाशमासन्नमभिमृशति । अयं यज्ञस्समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्याम् सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अप तमिन्द्रो वैमृधो भुवनान्नुदतामहं प्रजां वीरवतीं विदेय ऐन्द्रं वैमृधम् ।
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण
 

पृतना जयेम । मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुगोपमस्तु . मह्यं वातः पवतां कामे अस्मिन् ॥ मयि देवा द्रविणमायजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त पूर्वेऽरिष्टास्स्याम तनुवा सुवीराः ॥ मह्यं यजन्तु मम यानि हव्याऽऽकूतिस्सत्या मनसो मे अस्तु । एनो मा निगां कतमच्चनाहं विश्वे देवासो अधि वोचता मे ॥ देवीष्षडुर्वीरुरु णः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर्मा रथाम द्विषते सोम राजन् ॥ अग्निर्मन्युं प्रतिनुदन् पुरस्ताददब्धो गोपाः परि पाहि नस्त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधा वि नेशत् ॥ धाता धातृणां भुवनस्य यस्पतिर्देवꣳ सवितारमभिमातिषाहम् । इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥ उरुव्यचा नो महिषश्शर्म यꣳसदस्मिन्, हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा नो रीरिषो मा परा दाः ॥ ये नस्सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥ अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥ पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति पौर्णमास्यां सर्वाणि हवींष्यासन्नान्यभिमृशति ।
दर्श तु = यज्ञोऽसि इति आग्नेयमभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयꣳ शृतं मयि श्रयताम् प्रातर्दोहमभिमृशति । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोतु सायं दोहम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेय ऐन्द्राग्नम् । ममाग्ने वर्च इत्यनुवाकेन । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोत्रा च अमावास्यायाम्
दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् । चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्तु सामिधेनीनां प्रतिपदि जपति । अनूच्यमानासु दशहोतारं व्याख्याय । चित्तिः स्रुक् सामाऽध्वर्युः । उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते । अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य ते होतर्मूर्धन्नाजिघर्मि रायस्पोषाय
 
सुप्रजास्त्वाय सुवीर्याय समिध्यमानमनुमन्त्रयते । समिद्धो अग्न आहुतेत्यभिज्ञाय । समिद्धो अग्निराहुतस्स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नमः समिद्धम् ।
मनोऽसि प्राजापत्यं मनसा मा भूतेनाविश स्रौवमाघार्यमाणमनुमन्त्रयते । प्रजापतय इदम् । देवाः पितरः पितरो देवा योऽहमस्मि स सन् यजे यस्यास्मि न तमन्तरेमि । स्वं म इष्टᳪँ、 स्वं दत्तम् । स्वं पूर्तᳪँ、 स्वᳪँ、 श्रान्तम् । स्वꣳ हुतम् । तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोतादित्योनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन् यजे होतृप्रवरे अध्वर्युप्रवरे च प्रव्रियमाणे।
वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाविश स्रुच्यमाघार्यमाणमनुमन्त्रयते । इन्द्रायेदम् पूर्ववत् देवाः पितर --- स सन् यजे इत्यनुमन्त्रयते ।
पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति चतुर्होतारं वदेत् पुरस्तात्प्रयाजानाम् । अग्नय इदम् । वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु । एको ममैका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अग्नय इदम् । ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु । द्वौ मम द्वे तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अग्नय इदम् । वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु । त्रयो मम तिस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अग्नय इदम् । शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु । चत्वारो मम चतस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अग्नय इदम् । हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीताम् । पञ्च मम न तस्य किञ्चन योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
सोमायेदम् । अग्नीषोमयोरहं देवयज्यया चक्षुष्मान् भूयासम् । विहृतौ वा । व्रत्येऽहनि व्रतलोप प्रायश्चित्तार्थं व्रातपतीष्टिस्थाने (आपस्तम्बानां) स्रुवाहुतिं होष्यामि । (आश्वलायनां तु) पूर्णाहुतिं होष्यामि ।
अग्नये व्रतपतय इदम् । अन्वाधानप्रभृति एतावत्कालपर्यन्तमृत्विक्षु मयि च संभावितसमस्तदोषनिर्हरणार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि ।
 

प्रजापतय इदम् । दर्शे तु = पिण्डपितृयज्ञलोपप्रायश्चित्तार्थं महाहविर्होतेति सप्तहोतृमन्त्रेण होष्यामि ।
वाचस्पतये ब्रह्मण इदम् । साङ्गतार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि ।
प्रजापतय इदम्। अग्निर्होता। अश्विनाऽध्वर्यू। त्वष्टाग्नीत्। मित्र उपवक्ता इति पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य ।
अग्नय इदम् । अग्नेरहं देवयज्ययान्नादो भूयासम् हुत्वा तमनुमन्त्रयते । प्रजापतय इदम् । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् ।
विष्णव इदम् । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् । इन्द्राय वैमृधायेदम् । इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो वीर्यवान् भूयासम्
इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । महेन्द्रायेदम् । महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयम् ।
अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम्
॥ तृतीयोध्यायः ॥
अग्निर्मा दुरिष्टात्पातु सविताघशꣳसाद्यो मेन्ति दूरेऽरातीयति तमेतेन जेषम् प्राशित्रमवदीयमानम् ।
सुरूपवर्षवर्ण एहीमान्भद्रां दुर्याꣳ अभ्येहि मामनुव्रता न्यु शीर्षाणि मृढ्वमिड एह्यदित एहि सरस्वत्येहि रन्तिरसि रमतिरसि सूनर्यसि जुष्टे जुष्टिं तेऽशीयोपहूत उपहवं तेऽशीय इडामवदीयमानाम् ।
उत्तरातिक्रम्य । भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहि इडामन्वारभ्य उपांशूपहवे सप्त देवगवीर्जपति । चिदसि मनासि धीरसि रन्ती रमतिस्सूनुस्सूनरी उच्चैरुपहवे सप्त मनुष्यगवीः । देवीर्देवैरभि मा निवर्तध्वᳪँ、 स्योना स्योनेन घृतेन मा समुक्षत । नम इदमुपदं भिषगृषिर्ब्रह्मा यद्ददे समुद्रादुदचन्निव । स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन् । वायविडा ते माता होतारमीक्षमाणो वायुं मनसा ध्यायेत् वायो। उपहूतः
 

पशुमानसानि । सा मे सत्याशीरस्य यज्ञस्य भूयादरेडता मनसा तच्छकेयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वस्मास्विन्द्र इन्द्रियं दधात्वस्मान्राय उत यज्ञास्सचन्तामस्मासु सन्त्वाशिषस्सा नः प्रिया सुप्रतूर्तिर्मघोनी जुष्टिरसि जुषस्व नो जुष्टानोऽसि जुष्टिं ते गमेयम् । आशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविणꣳ सवर्चसम् । सञ्जयन् क्षेत्राणि सहसाहमिन्द्र कृण्वानो अन्याꣳ अधरान्त्सपत्नान् । इडाया अहं देवयज्यया पशुमान्भूयासम् । इडा धेनुस्सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माꣳ आगात् भक्षायाह्रियमाणामनुमन्त्रयते ।
ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां मे बर्हिषि पुरोडाशमासन्नमभिमृशति । अथैनं प्रतिदिशं व्यूहति । आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् । ब्रध्न पाहि भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदꣳ हविस्सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तो ब्राह्मणो नेहा ब्राह्मणस्यास्ति । अथैनमन्वादिशति । इदं ब्रह्मणः । इदꣳ होतुः । इदमध्वर्योः । इदमग्नीधः ।
उपहूतो द्यौः पिता उप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय । उपहूता पृथिवी माता उप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इदमग्नीधः ।
ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसत्प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान् प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिन् लोके । इयᳪँ、 स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युम् अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ।
दक्षिणत एत, ब्राह्मणा अयं व ओदनो यथाभागं प्रतिगृह्णीध्वम् ।
उत्तरतः परीता३ इति सम्प्रेष्यति ।
एषा ते अग्ने समित्तया वर्धस्व चाच प्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहा आग्नीध्रः अनूयाजसमिधमादधाति ।
 
एतेनैव आधीयमानमनुमन्त्रयते । अग्नय इदम् । यं ते अग्न आ वृश्चाम्यहं वा क्षिपितश्चरन्न् । प्रजां च तस्य मूलं च नीचैर्देवा नि वृश्चत । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किं चन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाᳪ、स्तानग्ने सं दह याᳪ、श्चाहं द्वेष्मि ये च माम् आहितायामनुमन्त्रयते ।
भूतानामधिपतये रुद्राय तन्तिचराय वृष्ण इदम् । उभावप उपस्पृशतः । वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः सं मे सन्नतयो नमन्तामिध्मसन्नहने हुते संमार्गान् हुतान् यजमानोऽनुमन्त्रयते । महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता इति सप्तहोतारं वदेत्पुरस्तादनूयाजानाम् ।
अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् ।
अग्नय इदम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् ।
अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् वसून्देवान् यज्ञेनापिप्रेम् अज्यमानमनुमन्त्रयते । वसुभ्य इदम् ।
रुद्रान्देवान् यज्ञेनापिप्रेम् । रुद्रेभ्य इदम् ।
आदित्यान्देवान् यज्ञेनापिप्रेम् । आदित्येभ्य इदम् ।
समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिस्सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा प्रस्तरमज्यमानम् ।
सूक्तवाकदेवता अनुमन्त्रयते । अग्नय इदम् । अग्नेरहमुज्जितिमनूज्जेषम् । सोमायेदम् । सोमस्याहमुज्जितिमनूज्जेषम् । अग्नय इदम् । अग्नेरहमुज्जितिमनूज्जेषम् । प्रजापतय इदम् । प्रजापतेरहमुज्जितिमनूज्जेषम् । विष्णव इदम् । विष्णोरहमुज्जितिमनूज्जेषम् । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहमुज्जितिमनूज्जेषम् । इन्द्राय वैमृधायेदम् । इन्द्रस्य वैमृधस्याहमुज्जितिमनूज्जेषम् । इति पौर्णमास्याम् ।
दर्श तु = असन्नयतः, इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहमुज्जितिमनूज्जेषम् । सन्नयतः इन्द्रायेदम् । इन्द्रस्याहमुज्जितिमनूज्जेषम् । महेन्द्रायेदम् । महेन्द्रस्याहमुज्जितिमनूज्जेषम् । देवेभ्य आज्यपेभ्य इदम् । अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहमुज्जितिमनूज्जेषम् । स्व
 
नाम ग्रहण काले एमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषम् । सूक्तवाकस्य आशिष्षु सा मे सत्याशीर्देवान्गम्याज्जुष्टाज्जुष्टतरात्पण्यात्पण्यतरारेडता मनसा देवान् गम्याद्यज्ञो देवान्गच्छतु यज्ञो म आगच्छतु इति यत्कामयते तस्य नाम गृह्णाति ।
आग्नीध्रः - त्रिरञ्जलिनाऽविष्वञ्चं प्रस्तरं ऊर्ध्वमुद्यौति । रोहितेन त्वाग्निर्देवतां गमयतु । हरिभ्यां त्वेन्द्रो देवतां गमयतु । एतशेन त्वा सूर्यो देवतां गमयतु ।
प्रस्तरं प्रह्रियमाणमेतैरेवानुमन्त्रयते ।
तनुभ्य इदम् । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन द्विषन्तꣳ शोचयामसि । द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचम् । प्रस्तरतृणे प्रह्रियमाणे ।
वि ते मुञ्चामि रशना वि रश्मीन वि योक्त्रा यानि परिचर्तनानि धत्तादस्मासु द्रविणं यच्छ भद्रं प्र णो ब्रूताद्भागधां देवतासु परिधिषु विमुच्यमानेषु । अग्नय इदम् । विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् । यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवेन मे सन्तिष्ठस्व स्योनेन मे सन्तिष्ठस्व सुभूतेन मे सन्तिष्ठस्व ब्रह्मवर्चसेन मे सन्तिष्ठस्व यज्ञस्यर्धिमनु सन्तिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नमः इत्यभिमन्त्रयते ।
वसुभ्यो रुद्रेभ्य आदित्येभ्यस्सᳪँ、स्रावभागेभ्य इदम् । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वानथर्वभिस्तस्य मेष्टस्य वीतस्य द्रविणेहा गमेः संस्रावं हुतम् । अत्रैवर्त्विजो हविश्शेषान्भक्षयन्ति
सोमायेदम् । सोमस्याहं देवयज्यया सुरेता रेतो धिषीय ।
त्वष्ट्र इदम् । त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयम् ।
राकाया इदम् । राकाया अहं देवयज्यया प्रजावान्भूयासम् ।
पत्नी - राकाया अहं देवयज्यया प्रजावती भूयासम् ।
सिनीवाल्या इदम् । सिनीवाल्या अहं देवयज्यया पशुमान्भूयासम् ।
पत्नी - सिनीवाल्या अहं देवयज्यया पशुमती भूयासम् ।
कुह्वा इदम् । कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासम्
पत्नी - कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासम् ।
अग्नये गृहपतय इदम् । देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्रभूयासम् ।
 
इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवी आज्येडामनुमन्त्रयते ।
वेदोऽसि वित्तिरसि पाप्मनो व्यावृत्तिं विदेय कर्मासि करुणमसि क्रियासꣳ सनिरसि सनितासि सनेयं घृतवन्तं कुलायिनꣳ रायस्पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् अन्तर्वेदि वेदमभिमृशति ।
अग्नये अदब्धायवे अशीततनव इदम् । या सरस्वती विशो भगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्म फलीकरणे हुते यजमानो मुखं विमृष्टे ।
पत्नी - इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमि योक्त्रं विमुञ्चति । पत्नी - समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गच्छे समात्मा तनुवा मम अग्निहोत्रहवण्योदकं निनीयमाने पत्नी जपति । मुखं विमृज्य उत्तिष्ठति । पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासम् । देवेभ्यो गातुविद्भ्यो यज्ञाय परमात्मन इदम् । वसुर्यज्ञो वसुमान् यजस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छतु यज्ञो म आगच्छतु यज्ञेश्वरप्रसादो म आगच्छतु यत्कामयते तस्य नाम गृह्णाति । समिष्टयजुर्हुतमनुमन्त्रयते । सं यज्ञपतिराशिषा यजमानः स्वभागं प्राश्नाति । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् सायंदोहं प्राश्नाति । इदꣳ हविः प्रजननं मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजा बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा प्रातर्दोहम् ।
सदसि सन्मे भूयास्सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठाः उदकमानीयमानमनुमन्त्रयते । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् । दक्षिणायां दिशि मासाः पितरो मार्जयन्ताम् । प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् । उदीच्यां दिश्याप
ओषधयो वनस्पतयो मार्जयन्ताम् । ऊर्ध्वायां दिशि यज्ञस्संवत्सरो यज्ञपतिर्मार्जयन्ताम् इति यथालिङ्गं प्रतिदिशं व्युत्सिच्य । समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परा सेचि मत्पयः अन्तर्वेदि शेषं निनीय । यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति । या सरस्वती वैशम्भल्या तस्यां मे रास्व तस्यास्ते
 
भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्म मुखं विमृष्टे । अवभृथस्स्यैव रूपं कृत्वोत्तिष्ठति । एष वै दर्शपूर्णमासयोरवभृथः ।
अध्वर्युयजमानौ – यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चताम् उभौ कपालविमोचनीयं जपतः । संख्यायोद्वासयति यजमानस्य गोपीथाय । प्रतिकपालयोगं मन्त्रावृत्तिः ।
दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान् प्राचः क्रामति । उत्तरमुत्तरं ज्यायांसम् । अनतिहरन्त्सव्यम् । नाहवनीयमतिक्रामति । विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । विष्णोः क्रमोऽस्यभिशस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतेन छन्दसा दिवमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । अवस्थाय चतुर्थञ्जपति विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशोऽनु वि क्रमे निर्भक्तस्स यं द्विष्मः । अन्त्ये विष्णुक्रमदेशे एव स्थित्वा विष्ण्वतिक्रमातिमोक्षाणां जपः । अग्निना देवेन पृतना जयामीति विष्णवतिक्रमाः । ये देवा यज्ञहन इत्यतिमोक्षाः । अग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि । इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण सहजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि । विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि ॥ ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ।। यास्ते रात्रीस्सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः
 
प्रजयाऽन्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाᳪ、स्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाᳪ、 श्रेष्ठ्य आ धेह्येनम् अतिमोक्षान्जपति । अगन्म सुवस्सुवरगन्मेत्यादित्यमुपतिष्ठते अगन्म सुवस्सुवरगन्म सन्दृशस्ते मा छित्सि यत्ते तपस्तस्मै ते माऽऽवृक्षि सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीदमहं पाप्मानं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि निर्भक्तस्स यं द्विष्मः ॥ सं ज्योतिषा भूवम् ॥ उद्यन्नद्य मित्रमहस्सपत्नान्मे अनीनशः । दिवैनान् विद्युता जहि निम्रोचन्नधरान्कृधि ॥ उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य ॥ उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥ शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् ॥ यो नश्शपादशपतो यश्च नश्शपतश्शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापꣳ समूहताम् आदित्यमुपतिष्ठते । ऐन्द्रीमावृतमन्वावर्ते इति प्रदक्षिणमावर्तते । पुण्या भवन्तु या लक्ष्मीः परा भवन्तु या पापीः । समहं प्रजया सं मया प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोषः पुनरुपावर्तते । समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासं आहवनीयमुपसमिन्धे । वसुमान् यज्ञो वसीयान् भूयासम् । यो नस्सपत्नो यो रणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चन आहवनीयमुपतिष्ठते । अपरेण गार्हपत्यमुपविश्य तूष्णीं गार्हपत्ये समिधमादधाति । तिष्ठन् जपति । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ।। अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधत्पोषꣳ रयिं मयि आग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासꣳ सुगृहपतिर्मया त्वं गृहपतिना भूयाश्शतꣳ हिमास्तामाशिषमाशासे तन्तवे ज्योतिष्मतीं तामाशिषमाशासे यज्ञेश्वर शर्मणे ज्योतिष्मतीम् । ज्योतिषे तन्तवे त्वा यज्ञेश्वरशर्मन्ननु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेधि दिव्याद्धाम्नो मा छित्सि मा मानुषात् इति च । प्रतिपुत्रं मन्त्रावृत्तिः । तूष्णीं दक्षिणाग्नौ समिधमादधाति । अग्ने वह्ने स्वदितं नस्तनये पितुं पच । शं तोकाय तनुवे स्योनः दक्षिणाग्निमुपतिष्ठते । ज्योतिषे तन्तवे त्वा यज्ञेश्वरशर्मन्ननु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेधि दिव्याद्धाम्नो मा छित्सि
 
मा मानुषात् अन्तर्वेद्युपविश्य । ज्योतिरसि तन्तवे उपविश्य जपति । प्रतिपुत्रं मन्त्रावृत्तिः । वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतिमोक्षान्जपति ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः । ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास्ते रात्रीस्सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजयाऽन्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाᳪ、स्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाᳪ、 श्रेष्ठ्य आ धेह्येनम् ॥
व्रतोत्सर्जनम् :-
कस्त्वा युनक्ति स त्वा विमुञ्चतु यज्ञं विमुञ्चति । दक्षिणातिक्रम्य अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मे राधि । वायो व्रतपते व्रतमचारिषं तदशकं तन्मे राधि । आदित्य व्रतपते व्रतमचारिषं तदशकं तन्मे राधि । व्रतानां व्रतपते व्रतमचारिषं तदशकं तन्मे राधि व्रतं विसृजते । यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माꣳ अधिपतीन् करोतु वयᳪँ、 स्याम पतयो रयीणां यज्ञस्य पुनरालम्भं जपति । गोमाꣳ अग्नेऽविमाꣳ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इडावाꣳ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् प्राङुदेत्य गोमतीं जपति । यज्ञ शं च म उप च म आयुश्च मे बलं च मे । यज्ञ शिवो मे सन्तिष्ठस्व यज्ञ स्विष्टो मे सन्तिष्ठस्व यज्ञारिष्टो मे सन्तिष्ठस्व दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्टवा जपति ।। यज्ञसमापनम् :-
यजमानः पत्नी च :- वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् इत्यप उपस्पृशतः । ब्राह्मणाᳪ、स्तर्पयितवै३ इति सम्प्रेष्यति ।
अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठां ते नमउक्तिं विधेम । प्र वश्शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् ।
 
यो दैव्यानि मानुषा जनूꣳषि । अन्तर्विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्रविणं भिक्षमाणाः । सुसंदृशꣳ सुप्रतीकᳪँ、 स्वञ्चम् । हव्यवाहमरतिं मानुषाणाम् । अग्ने त्वमस्मद्युयोध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यꣳ सुविताय देव । क्षां विश्वेभिरजरेभिर्यजत्र । अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी । भवा तोकाय तनयाय शं योः । प्रकारवो मनना वच्यमानाः । देवद्रीचीन्नयथ देवयन्तः । दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची ॥ सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमः । दशकृत्वस्ते नमः । शतकृत्वस्ते नमः । आ सहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते नमः । नमस्ते अस्तु मा मा हिꣳसीः ।
नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ।
नम आहवनीयाय महावेद्यै नमो नमः ॥
काण्डद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे ।
स्वर्गापवर्गदात्रे च यज्ञेशाय नमो नमः ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥
अनृणा अस्मिन्ननृणाः परस्मिᳪँ、स्तृतीये लोके अनृणास्स्याम । ये देवयाना उत पितृयाणास्सर्वान्पथो अनृणा आक्षीयेम ॥ अहं परस्तादहमवस्तादहं ज्योतिषा वि तमो ववार । यदन्तरिक्षं तदु मे पिताऽभूदहꣳ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमस्समानाम् ॥ प्रवसन्काले विहाराभिमुखो याजमानं जपति । प्राचो विष्णुक्रमान्क्रामति । प्राङुदेत्य गोमतीं जपति जपति ।
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु च ।
स्मरणादेव तद्विष्णोस्संपूर्णं स्यादिति ( स्मृतिः? )श्रुतिः ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
स्वरेण वर्णेन च यद्विहीनं तथापि हीनं क्रिययापि यच्च ।
 
तथातिरिक्तं मम तत् क्षमस्व तदस्तु चाग्नेः परिपूर्णमेतत् ॥
मन्त्रमध्ये क्रियामध्ये विष्णोस्स्मरण पूर्वकम् ।
यत्किञ्चित् क्रियते कर्म तत्कर्म सफलं भवेत् ॥
॥ इति दर्शपूर्णमासयोः याजमानम् ॥