आपस्तम्बीय श्रौतप्रयोगः/मृगारेष्टिप्रयोगः

॥ अथ मृगारेष्टि प्रयोगः ॥
श्री परमेश्वर प्रीत्यर्थं [ ज्ञाताऽज्ञातसमस्तपापप्रायश्चित्तार्थं ] मृगारेष्ट्या यक्ष्ये । विद्युदसि। अग्निं गृह्णामि --- अद्य यज्ञाय रमतां देवताभ्यः । ऐष्टꣳ हविः । आमावास्यं तन्त्रम् । इषे त्वेत्यादि । शाखामाहृत्य व्रतप्रवेशः । त्रयोविंशति दारुरिध्मः । ततस्त्वां त्रयोविꣳशतिधा संभरामि । वेदं कृत्वा वेदिः । प्रागुत्तरात् परिग्राहात् कृत्वा । अन्तर्वेदिशाखाया इत्यादि । उपवेषं करोति । न तृतीयस्यै । त्रिवृद्दर्भमयं पवित्रं कृत्वेत्यादि । यजमानः – त्रिवृत्पलाशे दर्भः --- पयस्यां हव्यं करोतु मे । इमौ प्राणापानौ पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारमित्यादि । इमौ पर्णं च प्रज्ञातं शाखापवित्रं निदधाति । ततो वत्सापाकरणम् । परिस्तृणीत । देवा देवेषु ।
कर्मणे वां इत्यादि । पात्रप्रयोगकाले द्विपञ्चाशत् पुरोडाशकपालानि धानार्थं एकं भर्जनकपालं स्थालीद्वयं स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवण्या सह शूर्पद्वयम् । अपरतः वेदं पात्रीद्वयम् । अन्वाहार्यस्थाली वर्जम् । प्रातर्दोहपात्रैस्सह वाजिनपात्रम् । पवित्रे कृत्वा । ब्रह्माणं वृत्वा । गार्हपत्ये आज्यं विलाप्य उत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा आहवनीये जुहोति । अन्वारब्धे यजमाने ।
येन देवाः पवित्रेणात्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहा । पावमानीभ्य इदम् ।
अपरं चतुर्गृहीतं गृहीत्वा प्राजापत्यं पवित्रꣳ शतोद्यामᳪँ、 हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्मपुनीमहे स्वाहा । पावमानीभ्य इदम् ।
अपरं चतुर्गृहीतं गृहीत्वा इन्द्रस्सुनीती सह मा पुनातु सोमस्स्वस्त्या वरुणस्समीच्या । यमो राजा प्रमृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु स्वाहा । पावमानीभ्य इदम् ।
अथ अपः प्रणयति । निर्वपणकाले वानस्पत्योऽसि इत्यग्निहोत्रहवणीं वेषाय वां इति शूर्पे गृहीत्वा इत्यादि । पात्र्यां व्रीहीन् यवान् निधायाभिमन्त्रयते ।
देवस्य त्वा इत्यादि । अग्नयेऽꣳहोमुचे जुष्टं निर्वपामि । इन्द्रायाᳪँ、होमुचे जुष्टं निर्वपामि । वायुसवितृभ्यामागोमुग्भ्यां जुष्टं निर्वपामि । अन्यस्मिन् शूर्पे पवित्रे निधाय । अश्विभ्यामागोमुग्भ्यां जुष्टं निर्वपामि । धानार्थं यवान्निर्वपति । पूर्वस्मिन् शूर्पे पवित्रं निधाय । मरुद्भ्य एनोमुग्भ्यो जुष्टं निर्वपामि । विश्वेभ्यो देवेभ्य एनोमुग्भ्यो जुष्टं निर्वपामि । अनुमत्यै जुष्टं निर्वपामि । अग्नये वैश्वानराय जुष्टं निर्वपामि । द्यावापृथिवीभ्यामꣳहोमुग्भ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अग्नेऽꣳहोमुक्हव्यꣳ रक्षस्वेन्द्राꣳहोमुक्हव्य रक्षस्व वायुसवितारावꣳहोमुचौ
 
हव्यꣳ रक्षेथामश्विनावꣳहोमुचौ हव्यꣳ रक्षेथां मरुत एनोमुचो हव्यꣳ रक्षध्वं विश्वे देवा एनोमुचो हव्यꣳ रक्षध्वमनुमते हव्यꣳ रक्षस्वाग्ने वैश्वानर हव्यꣳ रक्षस्व द्यावापृथिवी अꣳहोमुचौ हव्यꣳ रक्षेथां अपरेणाहवनीयं सादयति । प्रोक्षणकाले अग्नयेऽꣳहोमुचे वो जुष्टं प्रोक्षामीन्द्रायाꣳहोमुचे वो जुष्टं प्रोक्षामि वायुसवितृभ्यामागोमुग्भ्यां वो जुष्टं प्रोक्षाम्यश्विभ्यामागोमुग्भ्यां वो जुष्टं प्रोक्षामि मरुद्भ्य एनोमुग्भ्यो वो जुष्टं प्रोक्षामि विश्वेभ्यो देवेभ्य एनोमुग्भ्यो वो जुष्टं प्रोक्षाम्यनुमत्यै वो जुष्टं प्रोक्षाम्यग्नये वैश्वानराय वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यामꣳहोमुग्भ्यां वो जुष्टं प्रोक्षामि । कृष्णाजिनादानादि । तुषान् प्रस्कन्दतोऽनुमन्त्रयते इति कृत्वा । वायुर्वो विविनक्तु इत्यादि पात्र्यां तण्डुलान् प्रस्कन्दयित्वा इत्यन्ते । उलूखलं प्रक्षाल्य । अग्नेस्तनूरसि इत्यादि । आग्नीध्रप्रैषवर्जं तुषाननुमन्त्र्य इत्यन्ते । सर्वान् तुषान् मध्यमपुरोडाशकपाले ओप्य निरस्य । पात्र्यां धानानां प्रस्कन्दनान्तं कृत्वा । अदब्धेन वः इत्यादि । क्रमेण सुफलीकृतान् कृत्वा । फलीकरणं निधाय । तण्डुलान् धानान् क्रमेण पार्थक्येन प्रक्षाल्य प्रक्षालितमुदकमेकीकृत्य निनयनमन्त्रेण उत्करे तन्त्रेण निनीय । यथाभागं व्यावर्तध्वं इति तण्डुलान् विभज्य इदमग्नेरꣳहोमुच इन्द्रस्याꣳहोमुच मरुतामेनोमुचां विश्वेषां देवानामेनोमुचामग्नेर्वैश्वानरस्य द्यावापृथिव्योरꣳहोमुचोः पुरोडाशार्थान् । इदं वायुसवित्रोरागोमुचोरश्विनोरागोमुचोरनुमतेः चर्वर्थानभिमृश्य । कृष्णाजिनादानादि । अग्नयेऽꣳहोमुचे जुष्टमधिवपामीन्द्रायाꣳहोमुचे जुष्टमधिवपामि मरुद्भ्य एनोमुग्भ्यो जुष्टमधिवपामि विश्वेभ्यो देवेभ्य एनोमुग्भ्यो जुष्टमधिवपाम्यग्नये वैश्वानराय जुष्टमधिवपामि द्यावापृथिवीभ्यामꣳहोमुग्भ्यां जुष्टमधिवपामि । अणूनि कुरुतात् इत्यन्तं पुरोडाशार्थान् कृत्वा । पिष्टलेपं प्रज्ञातं निदध्यात् । अथ कपालोपधानकाले आग्नेयस्य ऐन्द्रस्य प्रकृतिवन्निधाय । वायुसवित्रोः चरुस्थालीं निधाय । धानार्थं प्रथमेन कपालमन्त्रेण भर्जनकपालं निधाय । मारुतानां सप्तकपालानि । विश्वेषां देवानां द्वादशकपालानि । अनुमतेः चरुस्थालीं । अग्नेर्वैश्वानरस्य द्वादशकपालानि द्वितीयचतुर्थषष्ठाष्टमानामावृत्या निधाय । द्यावापृथिव्योः द्वे कपाले निदध्यात् ।
अत्र सायं दोहवत् प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि सङ्क्षाळन निनयनान्तम् । एता आचरन्ति --- इह व इद्रो रमयतु गावः । अध्वर्युः - निष्टप्तमित्यादि । कामधुक्षः प्रणोब्रूहि मित्रावरुणाभ्यामागोमुग्भ्यां हविरिन्द्रियं इत्यादि । बहुदुग्धि मित्रावरुणाभ्यामागोमुग्भ्यां देवेभ्यो
 
हव्यमाप्यायतां पुनः --- कल्पताम् । सङ्क्षाळननिनयनान्ते । भृगूणामङ्गिरसामित्यादि । भृगूणामङ्गिरसां तपसा तप्यस्व इति धानार्थे कपाले अङ्गारानध्यूह्य । मदन्तीरधिश्रयति । अधिवापवत्संवापः । संवपामीति मन्त्रं सन्नमति । पिष्टान्युत्पूय तण्डुलानुत्पूय धाना उत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । समापो अद्भिरित्यादि । पिण्डं कृत्वा । यथाभागं व्यावर्तध्वं आग्नेयं विभज्य । पुनः यथाभागं व्यावर्तध्वं ऐंद्रं विभज्य । यथाभागं व्यावर्तेथां तण्डुलान् विभज्य । यथाभागं व्यावर्तध्वं मारुतान् । यथाभागं व्यावर्तध्वं वैश्वदेवम् । यथाभागं व्यावर्तेथां वैश्वानरं द्यावापृथिवी च विभज्य । इदं वायुसवित्रोरागोमुचोः । इदमनुमतेः चर्वर्थान् । इदमग्नेर्वैश्वानरस्य । इदं द्यावापृथिव्योरꣳहोमुचोः । अन्त्ययोरेवनिर्देशः ।
घर्मोऽसि विश्वायुः इति क्रमेण आग्नेय ऐन्द्र पुरोडाशानधिश्रित्य । तप्ते प्रातर्दोहे लौकिकं दध्यानयति । घर्मोऽसि इति चर्वर्थं तण्डुलानोप्य । घर्मास्थ विश्वायुषः इति (यवान्) तण्डुलानोप्य धानाः करोति । ततः क्रमेण पुरोडाशचरूणामधिश्रयणम् । प्रथनादि पुरोडाशानाम् । अन्तरितं सर्वेषाम् । आप्यलेपं निनीय । तूष्णीं स्फ्यमादाय उत्तरपरिग्राहः । प्रकृतिवत्सम्प्रैषः ।
इदमहꣳ सेनाया इत्यादि । सूर्यज्योतिः इति सर्वेषां हविषाम् । न सूर्यज्योतिरित्यामिक्षायाः । सूर्यज्योतिषो विभात महत इन्द्रियाय धाना अभिमन्त्र्य । अभिघारणे आ प्यायतां घृतयोनिः -- - अग्नयेऽꣳहोमुचे जुष्टमभिघारयामि । तूष्णीमैंद्रम् । यस्त आत्मा इत्यामिक्षाम् । तूष्णीं वायुसवित्रोः, अश्विनोः, मारुतं, वैश्वदेवं च । आ प्यायतां --- अनुमत्यै जुष्टमभिघारयामि । आ प्यायतां - -- अग्नये वैश्वानराय जुष्टमभिघारयामि । स्योनं त इत्यादि पुरोडाशानाम् । दृꣳहेति आमिक्षामुद्वास्य संहत्य द्वयोः पात्रयोरुद्धृत्य । वाजिना एकदेशेन उपसिञ्चति । आर्द्रो भुवनस्य गोपा इति चरोरुद्वासनम् । स्योनं वस्सदनं करोमि घृतस्य धारया सुषेवं कल्पयामि वः पात्र्यामुपस्तीर्य । भुवनस्य गोपाश्शृता उत्स्नान्ति जनित्र्यो मतीनां धाना उद्वास्य । आज्येन धानास्संयुत्य । पात्र्यां तूष्णीं प्रतिष्ठापयति । इरा भूतिः इति प्रकृतिवत् । अलङ्करणकाले आमिक्षावर्जं सर्वेषामलङ्करणम् । आग्नेयादीनां प्रकृतिवत् । देवो वस्सविता मध्वानक्तु इति धाना अनक्ति । यजमानः – तृप्तयस्स्थ गायत्रं छन्दस्तर्पयत मा तेजसा ब्रह्मवर्चसेन । तृप्तयस्स्थ त्रैष्टुभं छन्दस्तर्पयत मौजसा वीर्येण । तृप्तयस्स्थ जागतं छंदस्तर्पयत मा प्रजया पशुभिः । प्रियेण नाम्ना प्रियꣳ सद आसीद इत्यासादनम् । उत्करे वाजिनम् । यजमानः – यज्ञोऽसीत्याग्नेयम् । आनुमतं वैश्वानरं च अभिमृशति
 
। इदमिन्द्रियं --- शृतं मयिश्रयतां । यत्पृथिवीमचरत् --- येनोपरिष्टादधिनोन्महेन्द्रं पयस्या मां धिनोतु इत्यामिक्षाम् । अयं यज्ञः सर्वाणिहवींषि । यो नः कनीयः --- अपतमिन्द्रोꣳहोमुग्भुवनां नुदतामहं प्रजां वीरवतीं विदेय इत्यैन्द्रस्य । ममाग्ने, पञ्चहोता ।
अयं वेद इत्यादि । आज्यभागाभ्यां प्रचर्य । अग्नयेऽꣳहोमुचेनुब्रू३हि । अग्निमꣳहोमुचं यज । अग्नेयेꣳहोमुच इदम् । अग्नेरꣳहोमुचोऽहं देवयज्ययान्नादो भूयासम् ।
इन्द्रायाꣳहोमुचेनुब्रू३हि । इन्द्रमꣳहोमुचं यज । इन्द्रायाꣳहोमुच इदम् । इन्द्रस्याꣳहोमुचोऽहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । मित्रावरुणाभ्यामागोमुग्भ्यामनुब्रू३हि । मित्रावरुणावागोमुचौ यज। मित्रावरुणाभ्यामागोमुग्भ्यामिदम् । मित्रावरुणयोरागोमुचोऽहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा ।
वायुसवितृभ्यामागोमुग्भ्यामनु ब्रू३हि । वायुसवितारावागोमुचौ यज। वायुसवितृभ्यामागोमुग्भ्यामिदम् । वायुसवित्रोरागोमुचोऽहं देवयज्यया वृत्रहा भूयासम् ।
अश्विभ्यामागोमुग्भ्यामनुब्रूहि । मा भैष्ट मा संविग्ध्वं मा वो हिꣳसिषं मा वस्तेजोपक्रमीत् । भरतमुद्धर ते मनुषिञ्चतावदानानि वः प्रत्यवदास्यामि नमो वो अस्तु मा मा हिꣳसिष्ट इति धानानां अवदानम् । यदवदानानि वोऽवद्यन् विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तद्व आ प्यायतां पुनः इति प्रत्यभिघारः । अश्विनावागोमुचौ यज । अश्विभ्यामागोमुग्भ्यामिदम् । अश्विनोरागोमुचोऽहं देवयज्यया वृत्रहा भूयासम् ।
मरुद्भ्य एनोमुग्भ्योनुब्रूहि । मरुत एनोमुचो यज । मरुद्भ्य एनोमुग्भ्य इदम् । मरुतामेनोमुचामहं देवयज्यया वृत्रहा भूयासम् ।
विश्वेभ्यो देवेभ्य एनोमुग्भ्योऽनुब्रूहि । विश्वान्देवानेनोमुचो यज । विश्वेभ्यो देवेभ्य एनोमुग्भ्य इदम् । विश्वेषां देवानामेनोमुचामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् ।
अनुमत्या अनुब्रूहि । अनुमतिं यज । अनुमत्या इदम् । अनुमत्या अहं देवयज्ययान्नादो भूयासम् ।
अग्नये वैश्वानरायानुब्रूहि । अग्निं वैश्वानरं यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं देवयज्यया वृत्रहा भूयासम् ।
द्यावापृथिवीभ्यामꣳहोमुग्भ्यामनुब्रूहि । द्यावापृथिवी अꣳहोमुचौ यज । द्यावापृथिवीभ्यामꣳहोमुग्भ्यामिदम् । द्यावापृथिव्योरꣳहोमुचोरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् ।
 
प्रत्याक्रम्य । न पार्वण होमः । नारिष्ठान् हुत्वा । पवमानस्सुवर्जन इत्यनुवाकेन प्रत्यृचं जुहोति । सर्वत्र पावमानीभ्य इदं इति त्यागः । पवमानस्सुवर्जनः । पवित्रेण वि चर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः स्वाहा ॥ पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् स्वाहा ॥ पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूꣳरनु स्वाहा ॥ यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे स्वाहा । उभाभ्यां देवसवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे स्वाहा ॥ वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तस्सधमाद्येषु । वयᳪँ、 स्याम पतयो रयीणाᳪ、 स्वाहा ॥ वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताᳪ、 स्वाहा ॥ बृहद्भिस्सवितस्तृभिः । वर्षिष्ठैर्देव मन्मभिः । अग्ने दक्षैः पुनाहि मा स्वाहा ॥ येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे स्वाहा ॥ यः पावमानीरध्येति । ऋषिभिस्संभृतꣳ रसम् । सर्वꣳ स पूतमश्नाति । स्वदितं मातरिश्वना स्वाहा ॥ पावमानीर्यो अध्येति । ऋषिभिस्संभृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीर00 सर्पिर्मधूदकᳪँ、 स्वाहा ॥ पावमानीस्स्वस्त्ययनीः । सुदुघा हि पयस्वतीः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितᳪँ、 स्वाहा ॥ पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान् समर्धयन्तु नः । देवीर्देवैस्समाभृताः स्वाहा ॥ पावमानीस्स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितᳪँ、 स्वाहा ॥ येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा स्वाहा ॥ प्राजापत्यं पवित्रम् । शतोद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे स्वाहा ।
अत्र जयाभ्यातान् राष्ट्रभृतः इत्युपजुहोति । अथ स्विष्टकृदादि प्रकृतिवत् । चतुर्धा करणकाले आग्नेयस्य अग्नेर्वैश्वानरस्य च बर्हिषदं करोति । दक्षिणाकाले हिरण्यं ददाति । ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वा हुताद्य मा मा हिꣳसीरहुतं मह्यꣳ शिवं भव । यजमानः – ब्रध्न पिन्वस्वेत्यादि । सहस्रधार --- । तद्दाधार पृथिवीमन्तरिक्षं दिवं च तेन हिरण्येनातितराणि मृत्युम् । अग्नये हिरण्यमिति प्रतिग्रहः । हविःशेषानुद्वास्येत्यादि । यजमानः – सूक्तवाके अनूच्यमाने अग्नेरꣳ होमुचोऽहमुज्जितिम् । इन्द्रस्याꣳहोमुचोऽहमुज्जितिम् । मित्रावरुणयोरागोमुचोरहमुज्जितिम् । वायुसवित्रो
 

रागोमुचोरहमुज्जितिम् । अश्विनोरागोमुचोरहमुज्जितिम् । मरुतामेनोमुचामहमुज्जितिम् । विश्वेषान्देवानामेनोमुचामहमुज्जितिम् । अनुमतेरहमुज्जितिम् । अग्नेर्वैश्वानरस्याहमुज्जितिम् । द्यावापृथिव्योरꣳहो मुचोरहमुज्जितिम् । देवेभ्य आज्यपेभ्य इत्यादि ।
संस्रावान्ते वाजिनपात्र उपस्तीर्य । अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । वाजिभ्योऽनुब्रूहि इति ग्रहीष्यन् संप्रेष्यति । नाभिघारयति । वाजिनो यज । वषट्कृतानुवषट्कृते चमसेन जुहोति । प्रत्याक्रम्य । शेषेण दिग्यागः । दिशस्स्वाहा । प्रदिशस्स्वाहा । आदिशस्स्वाहा । विदिशस्स्वाहा प्रतिदिशं जुहोति । उद्दिशस्स्वाहा इति मध्यम् । स्वाहा दिग्भ्यः पश्चादारभ्य पूर्वपर्यन्तम् । नमो दिग्भ्यः इत्युपस्थाय शेषं होत्रे प्रयच्छति । सर्वे समुपहूय भक्षयन्ति । होताऽध्वर्युर्ब्रह्माग्नीद्यजमानश्च । वाजिनां भक्षो अवतु वाजो अस्मान्नेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मारिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहोतस्योपहूतो भक्षयामि । समानं कर्म आपत्नीसंयाजेभ्यः । देवानां पलीरिष्ट्वा । पुरस्ताद्गृहपतेरुपजुहोति।
यद्देवा देव हेडनं देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामुत स्वाहा । देवेभ्य इदम् ।
देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसᳪँ、 स्वाहा । अग्नये गार्हपत्यायेदम् ।
ऋतेन द्यावापृथिवी ऋतेन त्वꣳ सरस्वति । ऋतान्मा मुञ्चताꣳहसो यदन्यकृतमारिम स्वाहा । द्यावापृथिवीभ्यां सरस्वत्या इदम् ।
सजातशꣳसादुत वा जामिशꣳसाज्जायसश्शꣳसादुत वा कनीयसः । अनाज्ञातं देवकृतं यदेनस्तस्मात्त्वमस्माज्जातवेदो मुमुग्धि स्वाहा । जातवेदस इदम् ।
यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्याꣳ शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसᳪँ、 स्वाहा । अग्नये गार्हपत्यायेदम् ।
यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्नमानः । दूरेपश्या च राष्ट्रभृच्च तान्यप्सरसावनुदत्तामृणानि स्वाहा । दूरेपश्याराष्ट्रभृद्भ्यामप्सरोभ्यामिदम् ।
 
अदीव्यन्नृणं यदहं चकार यद्वादास्यन्त्सञ्जगारा जनेभ्यः । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसꣳ स्वाहा । अग्नये गार्हपत्यायेदम् ।
यन्मयि माता गर्भे सत्येनश्चकार यत्पिता । अग्निर्मा तस्मादेनसः --- स्वाहा । अग्नये गार्हपत्यायेदम् ।
यदापिपेष मातरं पितरं पुत्रः प्रमुदितो धयन्न् । अहिꣳसितौ पितरौ मया तत्तदग्ने अनृणो भवामि स्वाहा । अग्नय इदम् ।
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो -- - अनेनसᳪँ、 स्वाहा । अग्नये गार्हपत्यायेदम् ।
यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा तस्मादेनसो - -- अनेनसᳪँ、 स्वाहा । अग्नये गार्हपत्यायेदम् ।
अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नापि
दुष्कृतस्तमारोहामि सुकृतान्नु लोकᳪँ、 स्वाहा । अग्नय इदम् ।
त्रिते देवा अमृजतैतदेनस्त्रित एतन्मनुष्येषु मामृजे । ततो मा यदि किञ्चिदानशेऽग्निर्मा तस्मादेनसो --- अनेनसᳪँ、 स्वाहा । अग्नये गार्हपत्यायेदम् । दिवि जाता अप्सु जाता या जाता ओषधीभ्यः । अथो या अग्निजा आपस्तानश्शुन्धन्तु शुन्धनीस्स्वाहा । अद्भ्य इदम् ।
यदापो नक्तं दुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीतनस्स्वाहा । अद्भ्य इदम् ।
इमम्मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके स्वाहा । वरुणायेदम् ।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीस्स्वाहा । वरुणायेदम् ।
त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्रमुमुग्ध्यस्मत् स्वाहा । अग्नीवरुणाभ्यामिदम् ।
स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उशसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि स्वाहा । अग्नीवरुणाभ्यामिदम् ।
 

त्वमग्ने अयास्ययासन्मनसा हितः । अयासन्, हव्यमूहिषेऽया नो धेहि भेषजᳪँ、 स्वाहा । अग्नये अयस इदम् ।
सपूर्णपात्र विष्णुक्रमाः । यज्ञो बभूव, यज्ञ शं च म वर्जम् । इतराणि प्रकृतिवत् । सन्तिष्ठते मृगारेष्टिः ॥
॥ इति मृगारेष्टिप्रयोगः ॥