अग्निहोत्र, अग्न्युपस्थानं, प्रवासः, आग्रयणम्(कण्डिका १६-३१)

अग्निहोत्रं व्याख्यास्यामः १
अधिवृक्षसूर्य आविःसूर्ये वा धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय गार्हपत्यमभिमन्त्रयते सुगार्हपत्य इति २
अथैनं बोधयत्युद्वुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते संसृजेथामयं च । अस्मिन्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदतेति ३
उद्धरेत्येव सायमाह यजमानः । उद्धरेति प्रातः ४
सहस्रं तेन कामदुघोऽवरुन्द्धे ५
वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामीति गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरति ६
भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वांश्चकार । अन्हा यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादित्युद्ध्रियमाणमभिमन्त्रयते यजमानः सायम् । रात्र्या यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातः ७
अग्निपतयेऽग्नये मे विद्ध्यग्निपतयेऽग्नये मे मृड । अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं काममहं जयानि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ स्वाहा ८
इति प्रथमा कण्डिका
6.2
अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके । यो नो अग्ने निष्ठो योऽनिष्ट्योऽभिदासतादमहं तं त्वयाभिनिदधामीति पुरस्तात्परिक्रम्योदङ्मुखः प्रत्यङ्मुखो वा सायमायतनेऽग्निं प्रतिष्ठापयति । प्राङ्मुखः प्रातः १
स्वयं यजमान इध्मानाहरति विश्वदानीमाभरन्तो नातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेत्येतया २
यदग्ने यानि कानि चेत्येताभिः पञ्चभिः प्रतिमन्त्रमग्निषु महत इध्मानादधाति ३
आहवनीये वर्षिष्ठम् ४
यथाहितास्तेनानुपूर्व्येणाहवनीयाद्वा प्रक्रम्य ५
तथाग्निराधेयो यथाहुतिर्न व्यवेयात् ६
नान्तराग्नी संचरति ७
यदि पूर्वोऽनुगतः संचर्यम् ८
पश्चाद्धि स तर्हि गतः ९
कामं हुते संचर्यमित्येके १०
नक्तमाहवनीयं धारयति ११
नित्यो गतश्रियो ध्रियते १२
नित्यं गार्हपत्यम् १३
तथान्वाहार्यपचनं यदि मथित्वाहितो भवति १४
यद्याहार्योऽहरहरेनं दक्षिणत आहरन्ति १५
उपवसथ एवैनमाहरेयुर्नवावसान एवैनमाहरेयुरिति वाजसनेयकम् १६
इति द्वितीया कण्डिका
6.3
परिसमूहनेनाग्नीनलंकुर्वन्ति १
पुरस्तादलंकाराः सायमुपरिष्टादलंकाराः प्रातः २
एतद्वा विपरीतम् । उभयतोऽलंकाराः सायं तथा प्रातरित्येके ३
अग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्ने शुन्धस्वेति दक्षिणाग्निमग्ने सम्राट् शुन्धस्वेत्याहवनीयमग्ने सभ्य शुन्धस्वेति सभ्यमग्ने परिषद्य शुन्धस्वेत्यावसथ्यम् ४
उदगग्रैः प्रागग्रैश्च दर्भैस्तृणैर्वाग्नीन्परिस्तृणात्यग्निमग्नी वा ५
खादिरः स्रुवो वैकङ्कत्यग्निहोत्रहवणी बाहुमात्र्यरत्निमात्री वा ६
प्रसृताकृतिरार्यकृताग्निहोत्रस्थाल्यूर्ध्वकपालाचक्रवर्ता भवति ७
दक्षिणेन विहारमग्निहोत्री तिष्ठति तां यजमानोऽभिमन्त्रयत इडासि व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि सुरोहिष्यहं नावुभयोर्व्रतं चरिष्यामीड एहि मयि श्रयस्वेर एह्यदित एहि गौरेहि श्रद्ध एहि सत्येन त्वाह्वयामीति ८
अथ वेदिदेशमभिमृशतीयमसि तस्यास्तेऽग्निर्वत्सः सा मे स्वर्गं च लोकममृतं च धुक्ष्वेति ९
पूषासीति दक्षिणतो वत्समुपसृज्य प्राचीमावृत्य दोग्ध्युदीचीं प्राचीमुदीचीं वा १०
न शूद्रो दुह्यात् ११
असतो वा एष संभूतो यच्छूद्रः १२
दुह्याद्वा १३
यदेव गार्हपत्येऽधिश्रयति पवयत्येवैनत् १४
अग्निहोत्रस्थाल्या दोहनेन च दोग्धि १५
इति तृतीया कण्डिका
6.4
पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रोः स्यात् । अपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य यो वानुजावरो यो वा बुभूषेत् १
न स्तनान्संमृशति २
यथोपलम्भं नित्ये कल्पे दोग्धि ३
पूर्ववदुपसृष्टां दुह्यमानां धाराघोषं च यजमानोऽनुमन्त्रयते ४
अस्तमिते दोग्धि ५
अम्नरस्तमिते होतव्यम् ६
समुद्रो वा एष यदहोरात्रस्तस्यैते गाधे तीर्थे यत्संधी तस्मात्संधौ होतव्यमिति शैलालिब्राह्मणं भवति ७
नक्षत्रं दृष्ट्वा प्रदोषे निशायां वा सायम् ८
उपस्युपोदयं समयाविषित उदिते वा प्रातः ९
यदुदिते जुहोत्यग्निष्टोमं तेनावरुन्द्धे यन्मध्यंदिने जुहोत्युक्थ्यं तेनावरुन्द्धे यदपराह्णे जुहोति षोडशिनं तेनावरुन्द्धे यत्पूर्वरात्रे जुहोति प्रथमं तेन रात्रिपर्यायमाप्नोति यन्मध्यरात्रे जुहोति मध्यमं तेन रात्रिपर्यायमाप्नोति यदपररात्रे जुहोति जघन्यं तेन रात्रिपर्यायमाप्नोति १०
स न मन्येत सर्वेष्ठेतेषु कालेषु होतव्यमापदि हुतनित्येव प्रतीयादिति विज्ञायते ११
यो होमकालः सोऽङ्गानाम् १२
इति चतुर्थी कण्डिका इति प्रथमः पटलः
6.5
पत्नीवदस्याग्निहोत्रं भवति १
स्व आयतने पत्न्युपविशति २
अपरेणाहवनीयं दक्षिणातिक्रम्योपविश्य यजमानो विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि मयि श्रद्धेत्यप आचामति ३
ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति । सत्यं त्वर्तेन परिषिञ्चामीति प्रातः । आहवनीयमग्रे ऽथ गार्हपत्यमथ दक्षिणाग्निमपि वा गार्हपत्यमाहवनीयं दक्षिणाग्निं यथा वाहिताः ४
यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीति गार्हपत्यात्प्रक्रम्य संततामुदकधारां स्रावयत्याहवनीयात् ५
धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय भूतकृत स्थापोढं जन्यं भयमपोढाः सेना अभीत्वरीरिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य व्यन्तान्गार्हपत्येन कृत्वा सगरा स्थेत्यभिमन्त्र्य जपत्यग्नय आदित्यं गृह्णाम्यह्ने रात्रिमिति सायम् । आदित्यायाग्निं गृह्णामि रात्र्या अहरिति प्रातः ६
इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपा विरूपास्तेषां सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति तेष्वग्निहोत्रमधिश्रयति ७
इति पञ्चमी कण्डिका
6.6
रेतो वा अग्निहोत्रम् । न सुशृतं कुर्याद्रेतः कूलयेन्नोऽशृतमन्तरेवैव स्यात् १
समुदन्तं होतव्यम् २
उदन्तीकृत्य प्रतिषिच्यम् ३
अप्रतिषेक्यं स्यात्तेजस्कामस्य ब्रह्मवर्चसकामस्य पाप्मानं तुस्तूर्षमाणस्याथो सर्वेभ्यः कामेभ्यो ऽथो यः कामयेत वीरो म आजायेतेति ४
अम्नरधिश्रितं वा ५
अदब्धेन त्वा चक्षुषावेक्ष इति तृणेन ज्वलतावेक्षते ६
दोहनसंक्षालनं स्रुव आनीय हरस्ते मा विनैषमिति तेन प्रतिषिञ्चत्यपां वा स्तोकेन ७
उद्भव स्थोदहं प्रजया प्र पशुभिर्भूयासं हरस्ते मा विगादुद्यन्सुवर्गो लोकस्त्रिषुलोकेषु रोचयेतिपुनरेवावेक्ष्यान्तरितं रक्षोऽन्तरिता अरातयोऽपहता व्यृद्धिरपहतं पापं कर्मापहतं पापस्य पापकृतः पापं कर्म यो नः पापं कर्म चिकीर्षति प्रत्यगेनमृच्छेति त्रिः पर्यग्नि कृत्वा घर्मोऽसि रायस्पोषवनिरिहोर्जं दृंहेति वर्त्म कुर्वन्प्रागुद्वासयत्युदक् प्रागुदग्वा ८
न वर्त्म करोतीत्येके ९
इह प्रजां पशून्दृंहेति त्रिर्भूमौ प्रतिष्ठाप्य सभूतकृत स्थ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरिति गार्हपत्येऽङ्गारान्प्रत्यूह्य १०
इति षष्ठी कण्डिका
6.7
देवस्य त्वा सवितुः प्रसव इति स्रुक्स्रुवमादाय प्रत्युष्टं रक्षाः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्यारिष्टो यजमानः पत्नी चेति संमृश्य हिरण्ययष्टिरस्यमृतपलाशा स्रोतो यज्ञानामित्यग्निहोत्रहवणीमभिमन्त्र्योमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानमिति सायमाह । ओमुन्नयामीति प्रातः १
हविर्देवानामसि मृत्योर्मेऽभयं स्वस्ति मेऽस्त्वभयं मे अस्त्वित्युपांशूक्त्वोमुन्नयेत्युच्चैरनुजानाति । अपचारे यजमानस्य स्वयमात्मानमनुजानीयात् २
उन्नीयमान उभौ वाचं यच्छत आ होमात् ३
न चाभिमीलते तिष्ठति च यजमानः ४
उन्नीत उपविशति ५
चतुरुन्नयति ६
यं कामयेत पुत्राणामयमृध्नुयादिति तं प्रति पूर्णमुन्नयेत् ७
यदि कामयेत ज्येष्ठतोऽस्य प्रजार्धुका स्यादिति पूर्णं प्रथममुन्नयेत्तत ऊनतरमूनतरम् । कणिष्ठत इत्येतद्विपरीतम् । सर्वे समावद्वीर्या इति समम् ८
यथोपलम्भं नित्ये कल्प उन्नयति ९
इति सप्तमी कण्डिका

अग्नये च त्वा पृथिव्यै चोन्नयामीति प्रथमं वायवे च त्वान्तरिक्षाय चेति द्वितीयं सूर्याय त्वा दिवे चेति तृतीयं चन्द्रमसे च त्वा नक्षत्रेभ्यश्चेति चतुर्थम् १
अद्भ्यश्च त्वौषधीभ्यश्चेति पञ्चमं जमदग्नीनाम् २
भूरिडा भुव इडा सुवरिडा करदिडा पृथगिडेति वा प्रतिमन्त्रम् ३
पशून्मे यच्छेत्यपरेण गार्हपत्यमुन्नयनदेशेऽभितरां वा सादयित्वा गार्हपत्ये हस्तं प्रताप्य संमृशति सजूर्देवैः सायंयावभिः सायंयावानो देवाः स्वस्ति संपारयन्तु पशुभिः संपृचीय प्रजां दृंहेति सायम् । सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो देवाः स्वस्ति संपारयन्तु पशुभिः संपृचीय प्रजां दृंहेति प्रातः ४
दशहोत्रा चाभिमृश्य पालाशीं समिधं प्रादेशमात्रीमुपरि धारयन्गार्हपत्यस्य समयार्चिर्हरति ५
उर्वन्तरिक्षं वीहीत्युद्द्रवति ६
उद्द्रवन्दशहोतारं व्याचष्टे ७
समं ग्राणैर्हरति ८
स्वाहाग्नये वैश्वानरायेति मध्यदेशे नियच्छति ९
वाताय त्वेत्युद्गृह्णाति १०
उपप्रेत संयतध्वं मान्तर्गात भागिनं भागधेयात्सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्युप प्रत्नमुप भूर्भुवः सुवरायुर्मे यच्छेत्यपरेणाहवनीयं दर्भेषु सादयति ११
इत्यष्टमी कण्डिका इति द्वितीयः पटलः
6.9
यस्याग्नावुद्ध्रियमाणे हूयते वसुषु हुतं भवति । निहितो धूपायच्छेते रुद्रेषु । प्रथममिध्ममर्चिरालभत आदित्येषु । सर्व एव सर्वश इध्म आदीप्तो भवति विश्वेषु देवेषु । नितरामर्चिरुपावैति लोहनीकेव भवतीन्द्रे हुतं भवति ।
अङ्गारा भवन्ति तेभ्योऽङ्गारेभ्योऽर्चिरुदेति प्रजापतावेव । शरोऽङ्गारा अध्यूहन्ते ततो नीलोपकाशोऽर्चिरुदेति ब्रह्मणि हुतं भवति १
यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव भाति तद्देवानामास्यं तस्मात्तथा होतव्यं यथास्ये ऽपिदधात्येवं तदिति विज्ञायते २
विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति होष्यन्नप उपस्पृश्य पालाशीं समिधमादधात्येकां द्वे तिस्रो वा ३
एषा ते अग्ने समिदिति । हिरण्ययं त्वा वंशं स्वर्गस्य लोकस्य् संक्रमणं दधामीति द्वितीयाम् । रजतां त्वा हरितगर्भामग्निज्योतिषमक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय रात्रिमिष्टकामुपदधे तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति सायं तृतीयाम् । हरिणीं त्वा रजतगर्भां सूर्यज्योतिषमक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकायाहरिष्टकामुपदध इति प्रातः ४
इति नवमी कण्डिका
6.10
समिधमाधाय प्राण्यापान्य निमील्य वीक्ष्य हुत्वा ध्यायेद्यत्कामः स्यात् १
हुत्वा महदभिवीक्षते २
आदीप्तायां जुहोति श्यावायां वा यदा वा समतीतार्चिर्लेलायतीव । धूपायत्यां ग्रामकामस्य ज्वलत्यां ब्रह्मवर्चसकामस्याङ्गारेषु तेजस्कामस्य ३
द्व्यङ्गुले मूलात्समिधमभि जुहोति ४
अभिक्रामं सायं जुहोत्यवक्रामं प्रातः ५
उभयत्र वाभिक्रामम् ६
भूर्भुवः सुवरिति होष्यञ्जपति ७
अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायमग्निहोत्रं जुहोति । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ८
संसृष्टहोमं वाग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति सायम् । सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातः ९
इषे त्वेति स्रुङ्मुखादवाचीनं सायं लेपमवसार्ष्ट्यूर्जे त्वेति । ऊर्ध्वं प्रातः १०
ओषधीभ्यस्त्वौषधीर्जिन्वेति बर्हिषि लेपं निमृज्य वर्चो मे यच्छेति स्रुचं सादयित्वाग्ने गृहपते मा मा संताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिरदब्धेन त्वा चक्षुषा प्रतीक्ष इति गार्हपत्यं प्रतीक्ष्य भूर्भुवः सुवरित्युत्तरामाहुतिं पूर्वार्धे समिधि जुहोति तूष्णीं वा ११
न समिदभिहोतवा इत्येके १२
इदि दशमी कण्डिका
6.11
वर्षीयसीमुत्तरामाहुतिं हुत्वा भूयो भक्षायावशिनष्टि १
यं कामयेत पापीयान्स्यादिति भूयस्तस्य पूर्वं हुत्वोत्तरं कनीयो हुहुयात् २
हुत्वा स्रुचमुद्गृह्य रुद्र मृडानार्भव मृड धूर्त नमस्ते अस्तु पशुपते त्रायस्वैनमिति त्रिः स्रुचाग्निमुदञ्चमतिवल्गयति ३
पूर्ववल्लेपमवमृज्य प्राचीनावीती स्वधा पितृभ्यः पितॄञ्जिन्वेति दक्षिणेन वेदिं भूम्यां लेपं निमृज्य प्रजां मे यच्छेति स्रुचं सादयित्वा वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामिति हुत्वाप उपस्पृश्यान्तर्वेदि स्रुक् । अथाङ्गुल्यापादाय पूषासीति लेपं प्राश्नांत्यशब्दं कुर्वन्नतिहाय दतः ४
अप आचम्यैवं पुनः प्राश्याचम्य बर्हिषोपयम्योदङ्ङावृत्योत्सृप्य गर्भेभ्यस्त्वा गर्भान्प्रीणीह्याग्नेयं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धेहि । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेत्युदग्दण्डया प्राग्दण्डया वा स्रुचाचामति ५
इत्येकादशी कण्डिका
6.12
सौर्यं हविरिति प्रातर्मन्त्रं संनमति १
द्विः स्रुचं निर्लिह्याद्भिः पूरयित्वोच्छिष्टभाजो जिन्वेति पराचीनं निनीयाचम्याग्रेणाहवनीयं दर्भैरग्निहोत्रहवणीं प्रक्षालयति २
न मांसधौतस्य देवा भुञ्जत इति विज्ञायते ३
अद्भिः स्रुचं पूरयित्वा सर्पेभ्यस्त्वा सर्पाञ्जिन्वेति प्रतिदिशं व्युत्सिच्य सर्पान्पिपीलिका जिन्व सर्पेतरजनाञ्जिन्व सर्पदेवजनाञ्जिन्वेति तिस्रः स्रुच उत्सिच्य चतुर्थीं पूरयित्वा पृथिव्याममृतं जुहोमि स्वाहेत्यपरेणाहवनीयं निनीय शेषं पत्न्या अञ्जलौ गृहेभ्यस्त्वा गृहाञ्जिन्वेति ४
यदि पत्नी नानुष्याद्देवानां पत्नीभ्यो ऽमृतं जुहोमि स्वाहेति पत्न्यायतने निनयेत् ५
अपरं स्रुच्यानीय विप्रुषां शान्तिरसीत्युन्नयनदेशे निनीयाहवनीये स्रुचं प्रताप्य हस्तोऽवधेयो हस्तो वा प्रताप्य स्रुच्यवधेयः ६
तयोदगुद्दिशति सप्तर्षिभ्यस्त्वा सप्तर्षीञ्जिन्वेति ७
इति द्वादशी कण्डिका इति तृतीयः पटलः
6.13
अग्ने गृहपते परिषद्य जुषस्व स्वाहेति स्रुवेण गार्हपत्ये जुहोत्येकां द्वे तिस्रश्चतस्रो वा १
अग्नये गृहपतये रयिपतये पुष्टिपतये कामायान्नाद्याय स्वाहेत्येतामेके समामनन्ति २
समभ्युच्चयवदेके ३
अग्नेऽदाभ्य परिषद्य जुषस्व स्वाहेति स्रुवेणान्वाहार्यपचने जुहोत्येकां द्वे तिस्रश्चतस्रो वा ४
अन्नपते ऽन्नस्य नो देहीति द्वितीयाम् ५
अप्राश्य वापरयोर्जुहुयात् ६
आहवनीये होमो नापरयोः ७
यदाहवनीये हुत्वापरयोर्जुहुयाद्यथा स्वर्गाल्लोकात्प्रत्यवरोहेत्तादृक्तदिति विज्ञायते ८
सर्वे वा एते होमार्था आधीयन्ते । चतस्रो गार्हपत्ये जुहोति चतस्रोऽन्वाहार्यपचने द्वे आहवनीये । दश संपद्यन्ते । दशाक्षरा विराड्विराजा यज्ञः संमित इति बह्वृचब्राह्मणं भवति ९
दीदिहि दीदिदासि दीदायेत्येषोऽग्न्युपसमिन्धन आम्नातः १०
दीदिहि दीदिदासि दीदाय दीद्यासं दीद्यस्वेति वा प्रतिमन्त्रम् ११
यथाहितास्तेनानुपूर्व्येणाहवनीयाद्वा प्रक्रम्य १२
अन्तर्वेद्यपो निनीय १३
इति त्रयोदशी कण्डिका
6.14
पूर्ववदग्नीन्परिषिञ्चति । न धाराम् १
अपिप्रेरग्ने स्वां तन्वमयाड् द्यावापृथिवी ऊर्जमस्मासु धेहीत्यग्निहोत्रस्थाल्यां तृणमङ्क्त्वानुप्रहरति २
सा ह्यग्निहोत्रस्य संस्थितिः ३
न बर्हिरनुप्रहरेत् । असंस्थितो वा एष यज्ञो यदग्निर्होत्रमित्युक्तम् ४
अग्निहोत्रस्थालीं प्रक्षाल्याक्षितमक्षित्यै जुहोमि स्वाहत्येउ!न्नयनदेशे निनयति । अन्तर्वेदि वा ५
वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप आचम्य यजमानोऽन्तर्वेदि मार्जयतेऽन्नादाः स्थान्नादो भूयासं यशः स्थ यशस्वी भूयासं श्रद्धा स्थ श्रद्धिषीयेति ६
आपो ह श्लेष्म प्रथमं संबभूव येन धृतो वरुणो येन मित्रः । येनेन्द्रं देवा अभ्यषिञ्चन्त राज्याय तेनाहं मामभिषिञ्चामि वर्चस इति शिरस्यप आनयते ७
द्वयोः पयसा पशुकामस्य जुहुयात् ८
अग्निहोत्रस्थाल्या पूर्वां दोग्धि । दोहनेनोत्तराम् ९
अधिश्रित्य पूर्वमुत्तरमानयति १०
यस्य रुद्रः पशूञ्छमायेतैतयैवावृता द्वयोः पयसा सायंप्रातर्जुहुयात् ११
तच्चेदतिहन्यात्सजूर्जातवेदो दिव आ पृथिव्या अस्य हविषो घृतस्य वीहि स्वाहेति सायंप्रातराज्येन जुहुयात् १२
अनारमत्यग्ने दुःशीर्ततनो जुषस्व स्वाहेति द्वादशाहमाज्येन हुत्वा तत ऊर्ध्वं न सूर्क्षेत् १३
इति चतुर्दशी कण्डिका
6.15
पयसा पशुकामस्य जुहुयाद्दध्नेन्द्रियकामस्य यवाग्वा ग्रामकामस्यौदनेनान्नाद्यकामस्य तण्डुलैरोजस्कामस्य । बलकामस्येत्येके । मांसेन यशस्कामस्य सोमेन ब्रह्मवर्चसकामस्याज्येन तेजस्कामस्य १
प्रतिषेकं यवागूं श्रपयति २
शृतां यजुषा प्रतिषिञ्चति ३
एवं मांसम् ४
नाज्यं प्रतिषिञ्चति हरस्ते मा विनैषमिति । द्वे दर्भाग्रे प्रत्यस्यत्येकं वा ५
न दध्यधिश्रयति । शृतं हि तन्न प्रतिषिञ्चति प्रतिषिक्तं हि तदातञ्चनेनेति विज्ञायते ६
एवं तण्डुलानोदनं सोमं च ७
आज्येन तण्डुलैरोदनेन सोमेन वा जुहुयाद्यस्या प्रति षेक्यं स्यात् ८
आज्येन तेजस्कामः संवत्सरं जुहुयाद्द्वादशाहं वा ९
न राजन्यस्य जुहुयात् १०
होमकाले गृहेभ्यो ब्राह्मणायान्नं प्रहिणुयात्तेनो हैवास्य हुतं भवति ११
नित्यमग्न्युपस्थानं वाचयितव्यः १२
यो वा सोमयाजी सत्यवादी तस्य जुहुयात् १३
अहरहर्यजमानः स्वयमग्निहोत्रं जुहुयात् १४
पर्वणि वा १५
ब्रह्मचारी वा जुहुयाद्ब्रह्मणा हि स परिक्रीतो भवति । क्षीरहोता वा जुहुयाद्धनेन हि स परिक्रीतो भवतीति बह्वृचब्राह्मणम् १६
इति पञ्चदशी कण्डिका इति चतुर्थः पटलः
6.16
अग्न्युपस्थानं व्याख्यास्यामः १
उपतिष्ठत इति चोद्यमान आहवनीयमेवोपतिष्ठेत । वचनादन्यम् २
उत्तरामहुतिमुपोत्थाय कवातिर्यङ्ङिवोपतिष्ठेत ३
उपप्रयन्तो अध्वरमिति षड्भिः ४
अग्नीषोमाविमं सु म इति सप्तम्या पूर्वपक्षे । ऐन्द्राग्न्या सप्तम्यापरपक्षे ५
दधिक्राव्णो अकारिषमित्युभयत्राष्टम्या ६
ममाग्ने वचो विहवेष्वस्त्विति चतस्रः पुरस्तादग्नीषोमीयायाः पूर्वपक्षे । तथैन्द्राग्न्या अपरपक्षे ७
अग्न आयूंषि पवस इति षड्भिः संवत्सरेसंवत्सरे सदा वा ८
पवमानहवींषि वा संवत्सरेसंवत्सरे निर्वपेदेतासां स्थाने ९
आयुर्दा अग्न इति सिद्धमा चित्रावसोः १०
त्रिश्चित्रावसुना सायमुपतिष्ठते । त्रिरर्वाग्वसुना प्रातरर्वाग्वसो स्वस्ति ते पारमशीय ११
इन्धानास्त्वा शतं हिमा इत्युपस्थायेन्धानास्त्वा शतं हिमाः । अग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्पा म एधि यमस्य समिदसि मृत्योर्मा पाहीति चतस्रः समिध एकैकस्मिन्नाधाय सं त्वमग्ने सूर्यस्य वर्चसागथा इत्यनुवाकशेषेणोपस्थाय वयं सोम व्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तो अशीमहीति मुखं विमृष्टे १२
इति षोडशी कण्डिका
6.17
संपश्यामि प्रजा अहमिति गृहान्प्रेक्षते १
अम्भः स्थाम्भो वो भक्षीयेति गोष्ठमुपतिष्ठते २
रेवती रमध्वमित्यन्तराग्नी तिष्ठञ्जपति ३
संहितासि विश्वरूपीरिति वत्समभिमृशति ४
संहितासि विश्वरूपेति वत्साम् ५
भुवनमसि सहस्रपोषं पुषेति वा वत्सम् ६
उप त्वाग्ने दिवेदिव इति तिसृभिर्गायत्रीभिर्गार्हपत्यमुपतिष्ठतेऽग्ने त्वं नो अन्तम इति चतसृभिश्च द्विपदाभिः ७
स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मादित्येषा चतुर्थी भवति ८
ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गृहान्प्रेक्षते पशून्वा ९
महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य । नहि तेषाममा चन नाध्वसु वारणेष्वा । ईशे रिपुरघशंसः । ते हि पुत्रासो अदितेश्छर्दिर्यच्छन्त्यजस्रम् । वि दाशुषे वार्याणीति प्राजापत्येन तृचेनोपतिष्ठते १०
यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत । स्वस्त्येव पुनरागच्छतीत्ययज्ञसंयुक्तः कल्पः ११
मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । रक्षा णो ब्रह्मणस्पते । यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः । परि ते दूडभो रथोऽस्माँ अश्नोतु विश्वतः । येन रक्षसि दाशुषः १२
इति सप्तदशी कण्डिका
6.18
तत्सवितुर्वरेण्यं सोमानं स्वरणं मित्रस्य चर्षणीधृतः प्र स मित्र कदा चन स्तरीरसि कदा चन प्रयुच्छसि परि त्वाग्ने पुरं वयमित्युपस्थाय १
निमृदो ऽसि न्यहं तं मृद्यासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणस्य पदः पार्ष्ण्या निमृद्गीयाद्यदि पापीयसा स्पर्धेत । प्रभूरसि प्राहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदो निगृह्णीयाद्यदि सदृशेन । अभिभूरस्यभ्यहं तं भूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति प्रपदेन यदि श्रेयसा २
पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माधिपाः पातु पूषा माधिपतिः पात्विति लोकानुपस्थाय प्राची दिगग्निर्देवताग्निं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । दक्षिणा दिगिन्द्रो देवतेन्द्रं स ऋच्छतु यो
मैतस्यै दिशोऽभिदासति । प्रतीची दिक् सोमो देवता सोमं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । उदीची दिङ्मित्रावरुणौ देवता मित्रावरुणौ स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । ऊर्ध्वा दिग्बृहस्पतिर्देवता बृहस्पतिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । इयं दिगदितिर्देवतादितिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासतीति यथालिङ्गं दिश उपस्थाय ३
इत्यष्टादशी कण्डिका
6.19
अग्नीनुपसमाधाय धर्मो मा धर्मणः पातु विधर्मो मा विधर्मणः पात्वायुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राङ्चावाङ्चोरुग उरुगस्य ते वाचा वयं सं भक्तेन गमेमहीत्युपस्थायाग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते १
अग्ने गृहपत इति च । पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्य । अमुष्मा इति जातस्य २
यत्किंचाग्निहोत्री कामयेत तदग्नीन्याचेत । उपैनं तन्नमतीति विज्ञायते ३
उपस्थेयोऽग्नी३र्नोपस्थेया३ इत्युक्तम् ४
नक्तमुपतिष्ठते न प्रातः ५
न प्रातरग्निमुप चनावरोहेन्न प्रातराहिताग्निश्चन मन्येतेति वाजसनेयकम् ६
भूर्भुवः सुवः सुप्रजाः ह्प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरित्येवोपतिष्ठेतेति वाजसनेयकम् । भर्तुं वः शकेयं श्रद्धा मे मा व्यागादिति वा ७
वात्सप्रेणैव सायं प्रातरुपतिष्ठेतेत्येके ८
गोषूक्तेनाश्वसूक्तेन वा ९
इत्येकोनविंशी कण्डिका इति पञ्चमः पटलः
6.20
प्रातरवनेकेन प्रातरुपस्थेयः १
अधिश्रित उन्नीयमाने वा ममाग्ने वर्चो विहवेष्वस्त्विति चतस्रो जपित्वापां पते योऽपां भागः स त एष प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातय इति त्रिर्भूमौ प्रतिषिच्य कालाय वां जैत्रियाय वामौद्भेत्त्रियाय वामन्नाद्याय वामवनेनिजे सुकृताय वाम् । इदमहं दुरद्मन्यां निष्प्लावयामि भ्रातृव्याणां सपत्नानामहं भूयासमुत्तमः । अपां मैत्रादिवोदकमिति हस्तौ प्रक्षाल्य श्रियं धातर्मयि धेहि श्रियो माधिपतिं कुरु । विशामीशानो मघवेन्द्रो मा यशसा नयदिति जपित्वाथर्व्युष्टा देवजूता वीडु छपथजम्भनीः । आपो मलमिव प्राणिजन्नस्मत्सु शपथाँ अधीत्याचम्येन्द्रियावतीमद्याहं वाचमुद्यासं दीर्घप्राणोऽच्छिन्नो ऽदब्धो गोपाः । अजस्रं दैव्यं ज्योतिः सौपर्णं चक्षुः सुश्रुतौ कर्णौ देवश्रुतौ कर्णौ केशा बर्हिः शिखा प्रस्तरो यथास्थानं कल्पयध्वं शं हृदयायादो मा मा हासिष्टेति यथालिङ्गमङ्गानि संमृश्य २
इति विंशी कण्डिका
6.21
वर्चोऽसि वर्चो मयि धेह्यायुकृदायुःपत्नी स्वधा वो गोप्त्र्यो मे स्थ गोपायत मा रक्षत मात्मसदो मे स्थ । मा नः कश्चित्प्रघान्मा प्रमेष्मह्युप प्रत्नमुप भूर्भुवः सुवरायुर्मे यच्छतेति सर्वानुपस्थायोत्तरेणानुवाकेनाहवनीयं घर्मा जठरान्नादं मामद्यास्मिञ्जने जुरुतमन्नादोऽहमद्यास्मिञ्जने भूयासमनन्नादः स यो ऽस्मान्द्वेष्टि । कवी मातरिश्वाना पशुमन्तं मामद्यास्मिञ्जने कुरुतं पशुमानहमद्यास्मिञ्जने भूयासमपशुः स योऽस्मान्द्वेष्टि । यमाङ्गिरसा यशस्विनं मामद्यास्मिञ्जने कुरुतं यशस्व्यहमद्यास्मिञ्जने भूयासमयशाः स योऽस्मान्द्वेष्टि । अग्ने यो नो अन्ति शपति यश्च दूरे समानो अग्ने अरणो दुरस्युः । वैश्वानरेण सयुजा सजोषास्तं प्रत्यञ्चं संदह जातवेदः । अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान्द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्ते शोचिस्तेन तं प्रतिशोच योऽस्मान्द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्ते तपस्तेन तं प्रतितप योऽस्मान्द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्ते हरस्तेन तं प्रतिहर योऽस्मान्द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्ते तेजस्तेन तं प्रतितितिग्धि योऽस्मान्द्वेष्टि यं च वयं द्विष्मः १
इत्येकविंशी कण्डिका
6.22
अग्ने रुचां पते नमस्ते रुचे रुचं मयि धेहि । अर्वाग्वसो स्वस्ति ते पारमशीयार्वाग्वसो स्वस्ति ते पारमशीयार्वाग्वसो स्वस्ति ते पारमशीय । तन्तुरसि ततो मा च्छित्था असौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति पुत्राणां नामानि गृह्णाति त्रिस्त्रिरेकैकस्य । स्वस्ति वोऽस्तु ये मामनुस्थ षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चापश्चौषधयश्चोर्क्च सूनृता च । यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः । वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् । अग्न आयूंषि पवसे दधिक्राव्णो अकारिषमिति द्वे ममाग्ने वर्चो विहवेष्वस्त्विति चतस्रोऽग्नीषोमाविमं सु म इत्येषा । तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि । अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । न मिनन्ति स्वराज्यम् १
इति द्वाविंशी कण्डिका
6.23
अद्या नो देव सवितः प्रजावत्सावीः सौभगं । परा दुःष्वप्नियं सुव । विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्म आ सुव । अनागसो अदितये वयं देवस्य सवितुः सवे । विश्वा वामानि धीमहि । स हि रत्नानि दाशुषे सुवाति सविता भगः । तं चित्रं भागमीमहे । वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः सौभगम् । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम । दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्याः स योनिः । वेदांसि विद्या मयि सन्तु चारवोऽग्नीषोमा यशो अस्मासु धत्तम् । अग्निर्येन विराजति सोमो येन विराजति सूर्यो येन विराजति विराड् येन विराजति तेनाहं विश्वतस्परि विराज्यासमिहैकवृदित्युपस्थायाग्नेस्तृणान्यपचिनोति । तेजस्वी ह ब्रह्मवर्चसी भवतीति विज्ञायते १
इति त्रयोविंशी कण्डिका इति षष्ठः पटलः
6.24
प्रवत्स्यन्संप्रेष्यत्यग्नीन्समाधेहीति १
ज्वलत उपतिष्ठते २
पशून्नः शंस्य पाहि तान्नो गोपायास्माकं पुनरागमादित्याहवनीयम् । प्रजां नो नर्य पाहि तां नो गोपायास्माकं पुनरागमादिति गार्हपत्यम् । अन्नं नो बुध्न्य पाहि तन्नो गोपायास्माकं पुनरागमादित्यन्वाहार्यपचनम् ३
अन्तराग्नी तिष्ठञ्जपतीमान्नो मित्रावरुणा गृहान्गोपायतं युवम् । अविनष्टानविहृतान्पूषैनानभिरक्षत्वास्माकं पुनरागमादिति ४
पूर्ववद्विराट्क्रमैरुपस्थायाशित्वा प्रवसथमेष्यन्नाहाग्नीन्समाधेहीति ५
ज्वलत उपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यम् । अन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादित्यन्वाहार्यपचनम् । पशून्मे शंस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयम् ६
मम नाम प्रथमं जातवेद इति च ७
वाग्यतोऽभिप्रव्रजति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तःस्थुर्नो अरातयः । उदस्माँ उत्तरान्नयाग्ने घृतेनाहुत । रायस्पोषेण संसृज प्रजया च बहून्कृधीति ८
आरादग्निभ्यो वाचं विसृजते ९
इति चतुर्विंशी कण्डिका
6.25
प्रवसन्काले विहारमभिमुखोऽग्न्युपस्थानं जपति १
इहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इति यद्यनुपस्थाय प्रवसेदेतयैवोपतिष्ठेत २
समिधः कृत्वा प्रत्येति ३
यथा ह वा इतं पितरं प्रोषिवांसं पुत्राः प्रत्याधावन्त्येवं ह वा एतमग्नयः प्रत्याधावन्ति । स शकलान्दारूणि वाहरन्नेति यथैव तत्पुत्रेभ्य आहरन्नेति । तादृक्तदिति विज्ञायते ४
आरादग्निभ्यो वाचं यच्छति ५
यद्येनं राजा पिताचार्यो वान्तरेणाग्नीन्स्याच्छदिर्दर्शे नैनमाद्रियेत ६
विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम । नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वः सं मा रय्या सृजेत्यभ्यैति ७
अग्नीन्समाधेहीति ८
ज्वलत उपतिष्ठते ९
पशून्नः शंस्याजूगुपस्तान्नः पुनर्देहीत्याहवनीयमभिप्राण्याग्ने सहस्राक्ष शतमूर्धञ्छतं ते प्राणाः सहस्रमपानाः । त्वं साहस्रस्य राय ईशिषे सहस्रधारस्य पयसः । तस्य नो रास्व तस्य ते भक्षीय तस्य ते वयं भूयिष्ठभाजो भूयास्मेत्याहवनीयम् १०
इति पञ्चविंशी कण्डिका
6.26
प्रजां नो नर्याजूगुपस्तां नः पुनर्देहीति गार्हपत्यमभिप्राण्याग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं सुगृहपतिर्मया त्वं गृहपतिना भूयाः । शतंहिमा द्वा यू राधांसीत्संपृञ्चानावसंपृञ्चानौ तन्व इति गार्हपत्यम् १
अन्नं नो बुÞयाजूगुपस्तन्नः पुनर्देहीत्यन्वाहार्यपचनमभिप्राण्यान्तराग्नी तिष्ठञ्जपति यथा प्रवत्स्यदुपस्थाने २
अजूगुपतमभ्यराक्षीदिति मन्त्रं संनमति ३
मम नाम तव च जातवेद इति चतसृभिराहवनीयम् ४
प्रजां मे नर्याजूगुपस्तां मे पुनर्देहीति गार्हपत्यमभ्यपान्यान्नं मे बुÞयाजूगुपस्तन्मे पुनर्देहीत्यन्वाहार्यपचनमभ्यपान्य पशून्मे शंस्याजूगुपस्तान्मे पुनर्देहीत्याहवनीयमभ्यपान्य पूर्ववद्विराट्क्रमैरुपतिष्ठते । अजूगुप इति मन्त्रं संनमति ५
अग्न्युपस्थानवदत्र समिधो दिशां चोपस्थानम् ६
नवमीं चेदतिप्रवसेन्मित्रो जनान्यातयति प्रजानन्निति मैत्र्योपस्थाय मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात् ७
समिध आहुतिमुपस्थानमित्येवमनुपूर्वाण्येके समामनन्ति ८
इति षड्विंशी कण्डिका
6.27
तदाहुर्नाग्निरुपस्थेयः कः श्रेयांसं विषुप्तं बोधयिष्यतीति । अभयंकराभयं मे कुरु स्वस्ति मेऽस्त्वभयं मे अस्त्वित्येव ब्रूयात् । प्रवत्स्यदुपस्थानमागतोपस्थानं चाधिकृत्य वाजसनेयिनः समामनन्ति १
नमो वोऽस्तु प्रवत्स्यामि नमो वोऽस्तु प्रावात्स्यमिति बृह्वृचाः २
गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वः सुवनिः सुमेधा गृहानैमि मनसा मोद मानः । येषामध्येति प्रवसन्येषु सौमनसो बहुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता भूरिधनाः सखायः स्वादुसंमुदः । अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु न इति गृहानभ्येति ३
क्षेमाय वः शान्त्यै प्रपद्ये शिवं शग्मं शंयोः शंयोरिति प्रविशति ४
ऊर्जं बिभ्रद्वः सुमनाः सुमेधा गृहानागां मनसा मोदमानः । इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशामीति प्रविश्य जपति । संविशन्वा ५
इति सप्तविंशी कण्डिका इति सप्तमः पटलः
6.28
सगृहः प्रयास्यन्वास्तोष्पतीयं जुहोति १
अहुते यानेषु भण्डान्यारोपयन्ति २
न हीनमन्वाहरेयुः ३
यद्यनोवाह्यं स्यात्पूर्वं तं प्रवहेयुरप वोद्धरेयुः ४
यत्र संहिता रात्रीर्वसेत्पञ्च सप्त नव दश वा तत्प्रयास्युञ्जुहुयात् ५
नवरात्रवास्तौ वा पुनरेत्यैकामुषित्वा प्रयास्यञ्जुहुयात् ६
दक्षिणो युक्तो भवति सव्यो ऽयुक्तः । अपि वाग्निष्ठस्य दक्षिणो युक्तः सव्यस्य योक्त्रं परिहृतम् । सर्वेषु वा युक्तेषु ७
वास्तोष्पत इत्यनुद्रुत्योत्तरया गार्हपत्ये हुत्वावक्षाणानि संप्रक्षाप्य पृथगरणीष्वग्नीन्समारोपयते ये धार्यन्ते ८
उपर्यग्नावरणी धारयञ्जपत्ययं ते योनिरृत्विय इति ९
अपि वा यजमान एवात्मन्समारोपयते १०
या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानमच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः स क्षय एहीति हस्तं प्रताप्य मुखायाहरते ११
वास उपावरोह जातवेदः ह्पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजां रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोण इति लौकिकेऽग्नावुपावरोहयति १२
अरण्योर्वोपावरोह्य मन्थेत् १३
यदरण्योः समारूढः स्यान्निर्वर्तमान एतं मन्त्रं जपेत् १४
इत्यष्टाविंशी कण्डिका
6.29
इदं श्रेयोऽवसानं यदागां स्योने मे द्यावापृथिवी अभूताम् । अनमीवाः प्रदिशः सन्तु मह्यम् । गोमद्धनवदश्ववत्पुरुषवद्धिरण्यवत्सुवीरवत्स्वाहेत्यवसिते जुहोति १
नानिष्ट्वाग्रयणेनाहिताग्निर्नवस्याश्नीयात् २
व्रीहीणां यवानां श्यामाकानामित्यग्रपाकस्य यजेत ३
अमावास्यायां पौर्णमास्यां वा ४
आमावास्यं तन्त्रम् ५
सप्तदश सामिधेन्यः ६
निर्वपणकाल आग्नेयमष्टाकपालं निर्वपति पुराणानां व्रीहीणाम् ७
यथा दान्तेनादान्तं संयुनक्ति तादृक्तदिति विज्ञायते ८
येन यज्ञेनेर्त्सेत्कुर्यादेव तत्राग्नेयमष्टाकपालमिति विज्ञायते ९
नवानामितराण्यैन्द्राग्नं द्वादशकपालमाग्नेन्द्रं वा वैश्वदेवं पयसि चरुं सौम्यं श्यामाकं चरुं द्यावापृथिव्यमेककपालम् १०
पुरस्तात्सौम्याद्द्यावापृथिव्यमेके समामनन्ति ११
निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ पञ्चाज्यानीर्जुहोति शतायुधाय शतवीर्यायेति १२
पुरस्ताद्वा स्विष्टकृतः १३
प्रोक्षादि कर्म प्रतिपद्यते १४
एकमुलूखलं मुसलं प्रतिबीजं वा १५
सर्वेषु हविष्कृदवहननमन्त्रः १६
तुषोपवपनम् १७
उत्तममोप्य वाचं विसृजते १८
एषोऽन्येषां नानाबीजानां समवेतानां कल्पः १९
अलंकरणकाल आज्येनैककपालमभिपूरयति २०
आविःपृष्ठं वा कृत्वासादयति २१
प्रचरणकाल उद्धृत्य बर्हिषदं कृत्वा जुह्वामुपस्तीर्याधायाशयमन्वानीयाभिघार्योपांशु प्रचरति २२
इत्येकोनत्रिंशी कण्डिका
6.30
सर्वहुतमपर्यावर्तयन्नृजुं प्रतिष्ठितं न हस्तेन जुहुयात् १
यदि हुतः पर्यावर्तेत स्रुचोऽग्रेण कल्पयेत् २
न पाणिना ३
वरे दत्ते कल्पयितव्यः ४
आधायाभिघार्य पुनर्होतव्य इत्येके ५
अपि वा नैककपालं कुर्वीताज्येन द्यावापृथिवी यजेत ६
ये प्राचीनमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं ददाति । वासः श्यामाके ७
भद्रान्नः श्रेयः समनैष्ट देवा इति यजमानभागं प्राश्नाति ८
सर्वेषाम् वा भक्षाणां मन्त्रवतां प्रत्याम्नायः स्यात् ९
अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानाम् १०
सिद्धमिष्टिः संतिष्ठते ११
अपि वामावास्यायां पौर्णमास्यां वाग्रयणेष्टिमन्वायातयेत् १२
अपि वामावास्यां पौर्णमासीं वा नवैर्यजेत् १३
अपि वाग्निहोत्रीं व्रीहिस्तम्बं यवस्तम्बं वा ग्रासयित्वा तस्याः पयसा सायंप्रातर्जुहुयात् १४
अपि वा नवानां यवाग्वा सायंप्रातर्जुहुयात् १५
अपि वा नवानां गार्हपत्ये स्थालीपाकं श्रपयित्वाहवनीये जुहुयादाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यः १६
अपि वा नवानां चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् १७
एवं यवैर्यजेत् १८
तत्राग्नेयश्यामाकौ न भवतः १९
य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं ददाति । एतमु त्यं मधुना संयुतं यवं सरस्वत्या अधि मनावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति यजमानभागं प्राश्नाति । सर्वेषां वा भक्षाणां मन्त्रवतां प्रत्याम्नायः स्यात् २०
सिद्धमिष्टिः संतिष्ठते २१
इति त्रिंशी कण्डिका
6.31
यदि नानातन्त्रां श्यामाकेष्टिं कुर्वीत श्यामाकानुद्धर्तवा इति संप्रेष्यति १
तस्याः सप्तदश सामिधेन्यः २
सद्वन्तावाज्यभागौ । विराजौ संयाज्ये ३
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते । सोम यास्ते मयोभुव इति सद्वन्तौ । प्रेद्धो अग्न इमो अग्न इति विराजौ ४
वासो दक्षिणा दधिमन्थो मधुमन्थो मधुपर्को मधुग्लुन्थो बभ्रुर्वा पिङ्गलः ५
सिद्धमिष्टिः संतिष्ठते ६
हरितयवशाकशमीधान्यानां नवानां फलानामनिष्टे ऽपि प्राश्ने याथाकामी ७
वेणुयवानामिष्टिमेके समामनन्ति ८
वेणुयवेषु पक्वेषु वेणुयवानुद्धर्तवा इति संप्रेष्यति ९
तस्या एतदेव तन्त्रमेषा देवता १०
आग्नेयी मैत्रावरुणी प्राजापत्या वा ११
स प्रत्नवदिति द्वे धाय्ये चतस्र आज्यभागयोर्दश हविषां द्वे स्विष्टकृतः १२
व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेता यवेभ्यो दर्शपूर्णमासावेवं यवैरा व्रीहिभ्योऽपि वा व्रीहिभिरेवोभत्रैते ह वै सूपचरतमा भवन्तीति बह्वृचब्राह्मणम् १३
वर्षासु श्यामाकैर्यजेत शरदि व्रीहिभिर्वसन्ते यवैर्यथर्तु वेणुयवैरिति विज्ञायत इति विज्ञायते १४
इत्येकश्रिंशी कण्डिका इत्यष्टमः पटलः
इति षष्ठः प्रश्नः