आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च/षष्ठः पटलः

पटलः १

पटलः २

पटलः ३

पटलः ४

पटलः ५

पटलः ६

पटलः ७

पटलः ८


अथ षष्ठः पटलः ॥
चतुर्दशः खण्डः ।
मन्त्राम्नानक्रमेण विवाहादयस्संस्कारा व्याख्याताः ।
अनन्तरं तत्क्रमेणैव सीमन्तादयो व्याख्यायन्ते
१० सीमन्तोन्नयनम्
१ सीमन्तोन्नयनकालः ।
सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि ॥ आपस्तम्बगृह्यसूत्र १४.१ ॥
टीकाः
अनुकूलावृत्ति १४.१
सीमन्तो नाम केशमध्येर्खाविशेषः ।
स उन्नीयते यस्मिन् कर्मणि तत्<सामन्तोन्नयनन्नाय>कर्म गर्भसंस्कारः ।
तच्चतुर्थे मासि कर्तव्यम् ।
प्रथमनियमादाधारसंस्कारोऽयम् ।
आधारे च संस्कृते तत्राहिताः सर्व एव गर्भाः संस्कृता भवन्ति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१
<सामन्तोन्नयनमित्>कर्मनामधेयम्, यस्मिन् कर्मणि गर्भिण्यास्सीमन्त उन्नीयते तत्व्याख्यास्याम इति शेष ।
तच्च<प्रथमे गर्भे॑>न तु गर्भे गर्भे ।
गर्भार्थमेवाधारस्त्रूसंस्कारः ।
स्त्रीसंस्कारत्वात्सकृदेव कृतस्सीमन्तस्सर्वानेव गर्बान् संस्करोति ।
<चतिर्थे मासि>चतुर्थे मासे ।
अल्लोपश्छान्दसः,ऽछन्दोवत्सूत्राणि भवन्तिऽइति स्मृतेः ॥१॥
२ तत्र प्रधानहोमा, जयादयश्च ।
ब्राह्मणान्भोजयित्वाऽशिषो वाचयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र १४.२ ॥
टीकाः
अनुकूलावृत्ति १४.२
तत्र पूर्वेद्युर्नान्दीश्राद्धम् ।
अथ तस्मिन्नहनि<ब्राह्मणान् भोजयित्वा>तैर्भुक्तवद्भिः<आशिषो वाचयित्वा>अग्नेरुपसमाधानादि प्रतिपद्यते सकृत्पात्राणि शलल्यादयश्च सह शम्यः ॥२॥
अष्टौ प्रधानाहुतयोऽधाता ददातु नो रयिऽमिति चतस्रोऽयस्त्वाहृदा कीरिणेऽति चतस्रः ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.२
इह ब्राह्मणभोजनाशीर्वचनयोर्विधानं उपनयनवत्क्रमार्थम् ।
पात्रासादनकाले तु यथार्थ शलल्यादीनि सकृदेवासाद्यानि ।
शम्याश्च परिध्यर्थे ।
<उत्तराः>ऽधाता ददातु नो रयिम्ऽइति चतस्रोऽयस्त्वा हृदा कीरिणाऽइति चतस्र इत्यष्टौ ।
शेषं सुगमम् ॥२॥
३ त्रेण्या शलल्या सीमन्तोन्नयनम् ।
परिषेचनान्तं कृत्वापरेणाग्निं प्राचीमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैश्शलालुग्लप्सेनेत्यूर्ध्व सीमन्तमुन्नयति व्याहृतीभिरुत्तराभ्यां च ॥ आपस्तम्बगृह्यसूत्र १४.३ ॥
टीकाः
अनुकूलावृत्ति १४.३
<प्राचीं>प्राङ्मुखीं स्वयं प्रत्यङ्मुखः ।
त्रिषु प्रदेशेषु एनी श्वेती<त्रेणी> ।
इकारलोपश्छान्दशः ।
णत्वं च ।
<शलली>शल्यकस्य रोमसूची ।
सविशाखा नाडी<पुञ्जील>मित्युच्यते ।
दर्भस्य पुञ्जीलानि त्रीणि भवन्ति ।
उदुम्बरस्य फलसङ्घातविशेषस्तरुणः <शलालुग्लप्स>इत्युच्यते ।
पिशाचोदुम्बरस्येत्यन्ये ।
एतानि द्रव्याणि युगपद्गृहीत्वा<तैस्सीमन्तमुन्नयति ऊ>र्ध्वमुदूहति भूर्भुवस्सुवरित्ये ताभिः
<उत्तराभ्यां च>ऽराकामहं,ऽयास्तेराकऽइत्येताभ्याम् ।
त्रयाणामन्ते सकृदुन्नयनम् ।
इह मन्त्रसमाम्नाये व्याहृतीनां पाठो न कर्तव्यः ।
व्याहृतिभिरित्येतेनैव सिद्धस्सम्प्रत्ययः ।
यथा व्याहृतीश्च जपित्वा, व्याहृतीर्विहृताः, इत्यादौ ।
एवं सिद्धे व्याहृतीनां पाठः समाम्नायार्थम् ।
किञ्चासति पाठे व्याहृतिभिरुत्तराभ्याञ्चेत्युच्यमाने याजमानसमाम्नायात्ग्रहणं प्राप्नोतिव्याहृतिभिरुत्तराभ्याञ्च मन्त्राभ्यांऽउच्छुष्मो अग्नऽ इत्येताभ्यामिति ।
तत्र पाठस्य प्रसिद्धत्वात् ।
ऽराकामहंऽऽयास्ते राकेऽइत्येतयोश्च प्रधानाहुतित्वं विज्ञायेत, विशेषाभावात् ।
तस्मादस्मादेव समाम्नायद्ग्रहणं यथा स्यादिति व्याहृतीनामिह पाठः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.३
प्राचीं<प्राङ्मुखीम् ।>
स्वयं तु प्रत्यङ्मुखः ।
<त्रेणी>त्रीण्येतानि शुक्लानि यस्यास्सा ।
यद्वा त्रिषु प्रदेशेषु एनी श्वेता ।
त्रेणीति च रूपं छान्दसम् ।
<शल्ली>सूच्याकारं शल्यलोम ।
त्रेणीति शलल्या विशेषणम् ।
<दर्भपुञ्जीलं>सविशाखा नाडी ।
<शलालुर्गो>ष्ठोदुम्बरः, करपत्रोदुम्बरः, पिशाचोदुम्बरैत्यनर्थान्तरम् ।
<ग्लप्सः>स्तबकः॑पिशाचोदुम्बरस्य तरुणफलसङ्घातविशेष इत्यर्थः ।
इत्येतैर्द्रव्यैर्युगपद्गृहीतैरूर्ध्व<सीमन्तमुन्नयति>शिरसि मध्ये रेखामुदूहति ।
कैर्मन्त्रैः?ऽभूर्भुवस्सुवःऽऽराकामहं सुहवाम्ऽऽयास्ते राके सुमतयःऽ इत्येतैर्मन्त्रैः ।
चकारो बहुमन्त्रज्ञापनार्थः ॥३॥
४ वीणागाथिभ्यां वीणागानार्थ संशासनम् ।
गायतमिति वीणागाथिनौ संशास्ति ॥ आपस्तम्बगृह्यसूत्र १४.४ ॥
टीकाः
अनुकूलावृत्ति १४.४
वीणया यो गाथां गायति स<वीणगाथी> ।
तावुभौ प्रागेवानीतौ भवतः ।
तौ <संशास्ति> संप्रेष्येति<गायतमिति> ।
तौ गायतः ।
तत्रऋङ्नियमः ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.४
वीणया गाथां गायत इति<वीणागाथिनौ> ।
<गायतमिति संशास्ति>संप्रेष्यति ॥४॥
उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा ॥ आपस्तम्बगृह्यसूत्र १४.५ ॥
टीकाः
अनुकूलावृत्ति १४.५
<उत्तरयोः>ऋचोः या<पूर्वा>ऽयौगन्धरिऽत्येषा ।
सा<साल्वानां>सीमन्तकर्मणि गाथा साल्वदेशनिवासिनां अस्यामृचि गानं कर्तव्यमित्यर्थः ।
स देशो यमुनातीरे भवति ।
वैश्याश्च तत्र भूयिष्ठं भवन्ति ।
तेषामेव राजा यौगन्धरिः ॥६॥
इतराऽसोम एव नो राजेऽत्येषा ।
न सर्वेषां ब्राह्मणानामपि तु साल्वानाम् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.५
<उत्तरयोः>ऋचोः वीणागाथिनौ गायेताम् ।
केषां कतरा गाथा?इत्यत आह<पूर्वेति ।
पूर्वा>ऽयौगन्धरिः"इत्येषा ।
साल्वदेशीयानां त्रयाणां वर्णानामपि गाथा॑ऽसालवीःऽइत्यविशेषलिङ्गात् ।
अन्यदेशवासिनां<ब्राह्मणानामितरा>ऽसोम एव नो राजाऽइत्येषा ।
क्षत्रियवैश्यानां तुऽसोमोमएव नो राजावतु मानुषीः प्रजाः (आश्व.गृ.११२७) इत्याश्वलायनीये दृष्टायां सार्ववर्णीक्या मृचि गानं कर्तव्यम् ।
न तु गानाभावः ।
गायतमित्यविशेषेण संशासनविधानात् ।
केचित्साल्वानामपि ब्राह्मणानामितरेति ॥५॥
५ गाने निकटवर्तिन्या नद्या नामनिर्देशः ।
नदीनिर्देशश्च यस्यां वसन्ति ॥ आपस्तम्बगृह्यसूत्र १४.६ ॥
टीकाः
अनुकूलावृत्ति १४.६
द्वितीये मन्त्रे असौ शब्दस्य स्थाने नद्या नाम संबुध्या निर्देष्टव्यम् ।
यस्यां वसन्ति यामुपजीवन्तीत्य४ हः ।
यथातीरेण कावेरि तवेति ।
क्षत्रियाणां तु सर्वेषां कल्पान्तरदृष्टायां सार्ववर्णिक्यामृचि गानं भवति ।
"सोम एव नो राजेत्याहुर्मानुषीः प्रजाः ।
विवृत्तचक्रा आसीना" इति ।
अत्रापि नदीनिर्देशस्सम्बुध्या ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.६
ऽसोम एव नो राजाऽइत्यस्वां असावित्यस्य स्थानेऽकावेरिऽऽवेगवतिऽइति सम्बुध्या<नदीनिर्देसश्च>भवति ।
कस्या नद्याः?इति चेत्ऽ<यस्यां वसन्तिऽ> समीपसप्तमी चेयम् ।
यस्यास्समीपे वसन्ति तस्या निर्देश इत्यर्थः ॥६॥
६ यवाङ्कराबन्धनम्, ततो वाग्यमश्च ।
यवान् विरूढानाबध्य वाचं यच्छत्यानक्षत्रेभ्यः ॥ आपस्तम्बगृह्यसूत्र १४.७ ॥
टीकाः
अनुकूलावृत्ति १४.७
<विरूढात्>अङ्कुरितान् सूत्रबद्धानाबध्नाति शिरसि वध्वाः ।
सैव वाचं यच्छति ।
एवमुपदेशो भोजनञ्चास्यास्मिन्नहनि नेच्छन्ति ।
यवाश्च प्रागेव वप्तव्याः यथास्मिन् काले विरूढा भवन्ति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.७
अङ्कुरितान् सूत्रग्रथितान्<यवान्>वध्वाशिशरस्याबध्नाति ।
शिरसीति कुतः?आचारात् ॥७॥
७ नक्षत्रोदयानन्तरं वक्सान्वारम्भणं, वाग्विसर्गश्च ।
उदुतेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य वत्समन्वारभ्य व्याहृतीश्च जपित्वा वाचं विसृजेत् ॥ आपस्तम्बगृह्यसूत्र १४.८ ॥
टीकाः
अनुकूलावृत्ति १४.८
<वत्सः>पुमान् गौश्च भवति ।
व्याहृतयस्समस्ताः याजमानसमाम्नायात्प्रत्येतव्याः ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.८
विस्पष्टार्थम् ।
इह केचिदध्येतारोऽयच्छतोऽऽविसृजतऽइति द्विवचने पठन्ति ।
तस्मिन् पक्षे वाग्यमनादिपदार्थपञ्चकमुभौ जायापती कुरुतः ।
केचित्यवाबन्धनादि सर्व वधूरेव॑न पतिरिति ॥८॥
११ पुंसुवनम्
१ तस्य कालः ।
पुंसुवनं व्यक्ते गर्भे तिष्येण ॥ आपस्तम्बगृह्यसूत्र १४.९ ॥
टीकाः
अनुकूलावृत्ति १४.९
पुमान् येन सूयते <तत्पुंसुवनं>नाम कर्म ।
उवङादेशश्छान्दसः ।
मन्त्रदर्शनात्पुंसुवनमसीति ।
आश्वलायनस्तु गुणमेव प्रायुङ्क्त ।
तत्,<व्यक्ते गर्भे>कर्तव्यम् ।
गर्भव्यक्तिश्च तृतीये चतुर्थे वा मासि ।
यदापि चतुर्थे तदा सीमन्तात्पूर्वमेव पुंसवनम् ।
निमित्तस्य पूर्वत्वात् ।
पश्चादुपदेशस्य तु प्रयोजनं वक्ष्यामः ।
<तिष्येण>तच्च तिष्ये कर्तव्यम् ।
ऽनक्षत्रे च लुपीऽति अधिकरणे तृतीया ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.९
<पुंसुवनमित्यपि>कर्मनामधेयम्, येन कर्मणा निमित्तेन गर्भिणि पुमांसमेव सूते <तत्पुंसवनम्> ।
व्याख्यायत इति शेषः ।
अत्र चोवङादेशश्छान्दसः ।
आश्वलायनस्तुऽपुंसवनम्ऽइति सगुणमेव प्रायुङ्क्त ।
<व्यक्ते गर्भे>अस्ति गर्भ इति निश्चिते ।
व्यक्तिश्च तृतीये चतुर्थे वा मासे॑बहुचादिषु स्मृत्यन्तरेषूभयथा दर्शनात्. यदि पुंसवनं चतुर्थे स्यात्तदा पूर्व सीमन्तं कृत्वैव ।
कुत एतत्? पुंसवने पश्चात्क्रियमाणेऽपि चोदितकालानतिक्रमात्, पश्चान्मन्त्राम्नानसूत्रोपदेशयोरेवंक्रमार्थत्वाच्च ।
केचित्तृतीयवच्चतुर्थेऽपि सीमन्तात्पूर्व निमित्तस्य पूर्वत्वादिति ।
इदमपि सीमन्तवत्प्रथमगर्भ एव, न तु प्रतिगर्भम्॑पिष्टपेषणन्या यदेव ।
एतच्च पुमांसं जनयतीत्यत्र विवेचयिष्यते ।
<तिष्येण तिष्यनक्षत्रे पुंस>वनं कर्तव्ययमिति व्यवाहितेन सम्बन्धः॑ऽप्रकरणात्प्रधानस्यऽइति न्ययात् ।
शुङ्गाहरणे त्वनियमः ॥
२ न्यग्रोधवृक्षात्फलविशिष्टाग्राङ्कुरानयनम्, सीमन्तवत्प्रधानाहुतयो जयादयश्च ।
न्यग्रोधस्य या प्राच्युदीचीं वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि ॥ आपस्तम्बगृह्यसूत्र १४.१० ॥
टीकाः
अनुकूलावृत्ति १४.१०
<न्यग्रोधस्य>वृक्षस्य<या प्राची शाखोदीची वा> तस्याः<शुङ्गामग्राङ्कुरं> <सवृषणां>फलं वृषणमिति व्यपदिश्यते सादृश्यादेव ।
तद्वतीं शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि परिषेचनान्तं कर्म प्रतिपद्यते ।
अग्नेरुपसमाधानादिवचनात्ततः पूर्व ब्राह्मणभोजनमाशीर्वचनं च न भवति ।
अन्ते तु भवति"शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजये"दिति ।
तथा यत्परिषेचनादीर्ध्व संशासनादि तदपि न भवति ।
अपरेणाग्निं प्राचीमिति पुनरिहोपदेशात् ।
तत्रप्रयोगःपूर्वद्युर्नान्दीश्राद्धम् ।
अपरेज्युरग्नेरुपसमाधानादि सकृत्पात्रप्रयोगः ।
शुङ्गया सह परिधय एव, न शम्याः ।
आज्यभागान्तेऽन्वारब्धायां धाता ददातु नो रयिऽमिति चतस्रो यस्त्वा हृदा कीरिणेति चतस्रः जयादि प्रतिपद्यते ।
परिषेचनान्ते ततो वक्ष्यमाणं कर्म ॥ १२ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१०
<सवृषणां>वृषणाकृतिकेन फलद्वर्येन संयुक्तां,<शुङ्गां> अग्रङ्कुरम् ।
व्यक्तमन्यत् ।
अत्र च सीमन्तवदग्नेरुपसमाधानादीत्यतिदेशात्ब्राह्मणभोजनमाशीर्वचनं च तन्त्रात्पुरस्तान्निवर्तते ।
कर्मान्ते तु भवत एव ।
शुचीन्मन्त्रवतर्स्सवकृत्येषु भोजयेन ।
(आप.ध.२१५११) इति सामान्यवचनात्,ऽलोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथापुण्याहं स्वस्तिऋद्विमिति वाचयित्वा (आप.ध.११३९) इति वचनाच्च ।
पात्रप्रयेगे च शुङ्गादीनां कर्मोपयुक्तानां सकृदेव सादनम् ।
तथात्र परिधय एव, न तु शम्याःऽशम्याः परिध्यर्थेऽइति अत्र चौलगोदानग्रहणात् ।
तथैवऽसीमन्तवदग्नेरुपसमाधानादिऽइत्यादिना परिषेचनान्तकल्पातिदेशस्य विवक्षितत्वादिहापि त एवाष्टौ प्रधानहोमाः ॥१०॥
अथ समाप्ते तन्त्रशेषे कर्तव्यमाह
३ तानङ्कुराननृतुमत्या कुमार्या पेषयित्वोत्तानं शायिताया गर्भिण्या दक्षिणनासायां निषेचनम् ।
अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपिनयति ॥ आपस्तम्बगृह्यसूत्र १४.११ ॥
टीकाः
अनुकूलावृत्ति १४.११
यस्याः प्रादुर्भीतं रजः सा अवस्नाता ।
तद्विपरीता<अनवस्नाता> ।
एवंभूता कन्या कर्त्री पेषणस्य ।
प्रयोजकः पतिः ।
उपलोदृषत्पुत्रः ।
दृषदर्थेऽपि दृषत्पुत्र एव ।
तत्र शुङ्गां पेषयित्वा वस्त्रेण परिप्लाव्य अपरेणाग्निं <प्राचीं> प्राङ्मुखीं<उत्तानां ऊर्ध्वमुखीं,> निपात्य शाययित्वा<उत्तरेण यजुषा>ऽपुंसुवनमसीऽत्यनेन तं रसं अङ्गुष्ठेन तस्या नासिकाच्छिद्रे दक्षिणे <अपिनयति>अपिगमयति ।
प्राङ्मुख एव ।
(पिधाय नयनं स्वयं च प्राङ्मुखः) ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.११
स्नाननिमित्तस्य रजसोऽनुत्पन्नत्वात्या न स्नाता तया<अनवस्नातया>कन्यया दृषदर्थापन्ने <दुषत्पुत्रे>शुङ्गां निधाप्य<दृषत्पुत्रान्तरेण> पेषयित्वा तद्रसंवस्त्रेण प्लावयित्वा ततो जायामपरेणाग्निं <प्राचीं>प्राक्छिरसं<उत्ता>नामूर्ध्वमूखीं,<निपात्य>शाययित्वा ।
ऽपुंसुवनमसिऽइति यजुषा <दक्षिण नासिकाछिद्रे अङ्गुष्ठेन>करणभूतेन तद्रसमपिनयति गर्भ प्रापयति ।
सा रसं न निष्ठीवेदित्यर्थः ॥११॥
४ तत्फलकथनम् ।
पुमांसं जनयति ॥ आपस्तम्बगृह्यसूत्र १४.१२ ॥
टीकाः
अनुकूलावृत्ति १४.१२
एवमनेन कर्मणा संस्कृता स्त्री<पुमासं जनयति ।>
केचिदर्थवादमिदं मन्यन्ते ।
फलविधौ कामसंयोगेन क्रियाया अनित्यत्वप्रसङ्गात् ।
यद्यर्थवादः प्रतिगर्भमावृत्तिप्रसङ्गः ।
एवं तर्हि प्रथमे गर्भे इत्यनुवर्तते ।
एवमर्थमेव चास्य पश्चादुपदेशः ।
व्यक्तं चैतत्
छन्दोगानांप्रथमे गर्भे तृतीय मासि पुंसवनमिति ।
अन्ये फलविधिं मन्यन्ते ।
तत्र च"एषवा अनृणो यः पुत्री"ति (तै.सं६३१०) वचनात्पुत्रस्य सकृदुत्पादनं नित्यमिति यावदेकः पुत्र उत्पद्येत तावदूगर्भेषु भवति ।
ऊर्ध्व तु पुत्रेच्छायां सत्यां भवति दुहितुरीप्सायां न भवति ।
प्रथमग्रहणं च नानुवर्तते, पुनर्र्गभग्रहणात् ।
पुंसुवनस्य तु पश्चादुपदेशो यथा चतुर्थे मासि तत्क्रियते तस्य पश्चात्प्रयोगार्थ इति ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१२
कर्मणीनेन संस्कृता अन्तर्वत्नी<पुमांसं जनयतीत्य>र्थवादः नित्यत्वात्पुंसुवनस्य ।
एथवा फलम्॑
सूत्रकारेणोपदिष्टत्वात्॑यथा
ऽसहस्रं तेन कामदुघोऽवरुन्धेऽइति ।
फलमक्षेऽपिऽएष वा अनृणो यः पुत्रीऽइत्यादिव चनैस्सकृदपि पुत्रोत्पादनस्य अवश्यक र्तव्यत्वात्तदङ्गं पुंसुवनं प्रथमे गर्भे कर्तव्यमेव ।
तत ऊर्ध्व तु यत्र यत्र गर्भे पुत्रेप्सा तत्र तत्र कर्तव्यं नान्यत्र ।
यस्त्वतिक्रान्त चोदनः स्त्रीरेव जनयेयमिति कामयते तस्य सकृदपि न भवति ।
अन्ये तुपुमांसं जनयतीत्येतद्वचनं गर्भे गर्भेऽस्य कर्तव्यतापरमिति ॥१२॥
५ क्षिप्रसुवनं कर्म ।
क्षिप्रं सुवनम् ॥ आपस्तम्बगृह्यसूत्र १४.१३ ॥
टीकाः
अनुकूलावृत्ति १४.१३
येन कर्मणा क्षिप्रं सूयते तत्<क्षिप्रंसुवनं>नाम कर्मोच्यते ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१३
येन<क्षिप्रं>शीघ्रं सूतेऽन्तर्वत्नी न चिरं कालं पीड्यते तत्<क्षिप्रंसुवनं>नाम इति कर्मोपदिश्यते ॥१३॥
अनाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमुत्तरेण यजुषाभिमृश्यैताभिरद्भिरुत्तराभिरवोक्षेत् ॥ आपस्तम्बगृह्यसूत्र १४.१४ ॥
टीकाः
अनुकूलावृत्ति १४.१४
<अनाप्रीतेना>स्पृष्टोदकेनानुस्रोतसं उदकस्य प्रस्नवतो न प्रतीपम् ।
<पत्तः>पादयोरधस्तात्यस्याः श्वेतोपमानि पत्राणि पीतोप मानि पुष्पाणि या च मध्याङ्णे पुष्यति सा तीर्यन्ती वनेषु जायते ।
वेणुपत्रोपमानि च यस्याः पत्रीणि रक्तोपमानि च पुष्पाणि यां चाग्निशिखेत्याहुः ।
सा शोष्यन्ती ततोषधिद्वयं समूलपत्रमादाय सुष्लिष्टं निदधाति ।
<मुर्धन्>मुर्धनीत्यर्थः ।
अपरे पिष्टिवा आलिम्पन्ति ।
अथ<तामुत्तरेण यजुषाऽ>आभिष्ट्वाहं दशभिरभिमृशामिऽइत्यनेनाभिमृशति ।
दशभिरिति लिङ्गादुभाभ्यां पाणिभ्यामभिमर्शनमनुलोमं मुखादारभ्य तत एताभिराहृताभिरेवाद्भिस्तामवोक्षेत् ।
उत्तराभिस्तिसृभिः ऋग्भिःऽयथैव सोमः पवतऽइत्येताभिः प्रतिमन्त्र मवोक्षणम् ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१४
<अनाप्रीतेन> अनुदकलिप्तेन अस्पृष्टोदकेनेत्यर्थः ।
तथाभूतेन<शरावेण ।>
<अनुस्रोतसं>स्रोतोषनुलोभं न प्रतीपं गृहीतमुदमाहृत्य ।
पत्तस्तस्याः पादयोः<तूर्यन्तीं>अधःपुष्पिताख्यामोषधिं निधाय ।
<शोष्यन्तीं>प्रसवपीडया शुष्यमाणां स्त्रियंऽआभिष्ट्वाहं दशभिरभिभूमृशामिऽइति यजुषोभाभ्यां हस्ताभ्याम् ।
वमूर्धन्<मूर्धन्यभिमृश्य ।
एताभिराहताभिरद्भिः उत्तराभिः>ऽयथैव सोमः पवतेऽ इत्यादिभिस्तिसृभिस्तां<सकृदेवावोक्षेत् ।>
केचित्प्रतिमन्त्रम्॑दृष्टोपकारत्वादिति ।
तत्र प्रथमाया ऋचःऽप्रतितिष्ठतुऽइत्यवसानम् ।
द्वितीयायाःऽता कृतम्ऽइति ।
तृतीयायाःऽसरस्वतीःऽइति ।
अन्ये तुशोष्यन्तीति चौषधिः ।
तां मूर्ध्निं निधाय स्त्रियं यत्र क्वचाभिमृशेदिति ।
तन्न॑शोष्यन्तीसंज्ञाया ओषधेरप्रसिद्धत्वात् ।
केचित्शोष्यन्तीनामौषधिः या वनेषु जायते, वेणुपत्रोपमानि च यस्याः पत्राणि, पुष्पाणि च रक्तोपमानि, यां चाग्निशिखेत्याहुरिति ।
तन्न॑यतो वाच्यवाचकभावो नेपद्शगम्यः, यथादुर्वार्तिककारपादाः
ऽवाच्यवाचकभावो हि नाचार्यैरुपदिश्यते ।
अन्यथानुपपत्त्या तु व्यवहारात्स गम्यते ॥
(तं.वा.१३९) इति ।
इह तु व्यवहाराभावादेव विप्रतिपत्तिः ।
सा भाष्यकारादप्याप्ततमप्रणीताभिधानकोशेषु शोष्यन्तीशब्दस्याग्निशिखापरपर्यायतया पाठाच्छाम्यति ।
न च तथा दृश्यते ।
तस्माद्वरं पूर्वोक्तमेव व्याख्यानमिति ॥१४॥
अथान्यद्भैषज्यमाह
६ जरायुपतनार्थ कर्म ।
यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् ॥ आपस्तम्बगृह्यसूत्र १४.१५ ॥
टीकाः
अनुकूलावृत्ति १४.१५
<जरायु> गर्भावेष्ठनं,<तद्यदि न पतेत्,> तत उत्तरो विधिः कर्तव्यः ।
कः पुनरसौ?क्षिप्रंसुवने यो विधिश्चोदितःऽअनाप्रीतेन शरावेणेऽत्यादि (<एवं विहिताभिरद्भिः उत्तराभ्यां>मन्त्राभ्यां"तिसदेव पद्यस्व, निरै तु पृश्नि शेवलऽमित्येताभ्यां प्रतिमन्त्रमवोक्षेत् ।
एते च कर्मणी स्वभार्याविषयौ)यक्ष्मगृहीतामन्यां वेति कर्मान्तरे यत्नकरणात् ।
अन्ये पुनरविशेषेणेच्छन्ति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१५
<यदि> प्रसूतायास्तस्या<जरायु>गर्भप्रावरणं<न पतेत्तदा>ऽअनाप्रीतेन शरावेणऽइत्यादिविधिनाऽहृताभिरद्भिः ऐतु गर्भौ अक्षितःऽ
इत्येताभ्यामृग्भ्यां तामवोक्षेत् ।
केचित्प्रतिमन्त्रम् ।
तथा पूर्वस्मिन्नवोक्षणे षडवसानास्तिस्र ऋचः ।
इह तुऽतिलदेव पद्यदेव पद्यस्वऽइत्येका ऋक्॑ऽनिरैतु पृश्निऽइत्यपरं यजुरिति ॥१५॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने चतुर्दशः खण्डः समाप्तः ॥
पञ्चदशः खण्डः ।
१२ जातकर्म
१ जातस्य कुमारस्य वात्सप्रेणाभिमन्त्रणम्, मूर्धन्यवघ्राणम्, दक्षिणकर्णजपश्च ।
जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यमाभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः ॥ आपस्तम्बगृह्यसूत्र १५.१ ॥
टीकाः
अनुकूलावृत्ति १५.१
जातमिति पुल्लिङ्गस्य विवक्षितत्वात्पुंस एवायं जातकर्माख्यः संस्कारः ।
न स्त्रियाः ।
वत्सप्रीर्नाम ऋषिः ।
तेन दृष्टं वात्सप्रं दिवस्परीत्येषोऽनुवाकः ।
प्रत्यृचमभिमर्शनम् ।
सर्वान्त इत्यन्ये ।
<उत्तरेण यजुषा>ऽअस्मिन्नहऽमित्यनेन ।
उत्तरत्र मातुरिति विशेषणादिह स्व उपस्थ आदधाति ।
उत्तराभिरिति पाठः उत्तराभिः तिसृभिः ऋग्भिः अभिमन्त्रणादीनि त्रीणि कर्तव्यानि ।
ऽअङ्गादङ्गाऽदित्यभिम्नत्रणम् ।
ऽअश्मा भवेऽतिमूर्धन्यवघ्राणम् ।
ऽमेधां तऽइति दक्षिणे कर्णे जापः ।
जप इत्यर्थः ।
केचित्तु उत्तराभ्यामिति द्विवचनान्तपाठमाश्रित्य द्वयोर्मन्त्रयोः त्रिष्वपि कर्मसु विनियोगं मन्यन्ते ।
तेषामवघ्राणलिङ्गेनाभिमन्त्रणं कर्णयोर्जपश्च प्राप्नोति ।
आश्वलायनश्चाहकर्णयोरुपनिधाय मेधाजननं जपति मेधां ते देवस्सवितेति (आश्व.श्रौ.११३२) ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.१
जातं जातमात्रम्, प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ॥
(मनु.२२९) इति वचनात् ।
एतच्चोपरिशोध्यते ।
जात कुमारं पिता वात्सप्रेणऽदिवस्परिऽ(तै.सं४२२) इत्यनुवाकेन अन्ते सकृदभिमृश्यऽअस्मिन्नहम्ऽइत्यनेन यजुषा स्वस्योपस्थे तमाधाय, उत्तराभ्यांऽअङ्गादङ्गात्ऽऽअश्मा भवऽइति द्वाभ्यां तस्याभिमन्त्रणं कर्तव्यम्, तथैव ताभ्यामेव मूर्धन्यवघ्राणम्, एतयोरेवर्चोः दक्षिणे कर्णे जापो जप इत्यर्थः ।
वचनबलाच्च जपाभिमन्त्रणयोरवघ्राणलिङ्गबाधः ।
अभिधानं तु जातसंस्कारक्रियासामान्यात् ।
एतच्चऽतर्धिस्थाणुचतुष्पथव्यतिक्रमेऽ (आप.गृ.५१६) इत्यत्रोपपादितम् ।
केचितुत्तराभिरिति पाठो, नोत्तराभ्यामिति ।
तेनऽअङ्गादङ्गात्ऽइत्यभिमन्त्रणम् ।
ऽअश्मा भवऽइत्यवघ्राणम् ।
ऽमेधां ते देवःऽइति जपः ।
अत एवाश्वलायनः "कर्णयोरुपनिधाय मे धाजननं जपतिऽमेधां ते देवस्सविताऽइति" ।
मधुघृतप्राशनं तुऽत्वयि मेधाम्ऽ इति यजुर्भिरेव त्रिभिरिति ।
तन्न॑नधीयमानपाठाङ्गीकारे अतिप्रसङ्गात् ॥१॥
२ नक्षत्रनामनिर्देशः ।
नक्षत्रनाम च निर्दिशति ॥ आपस्तम्बगृह्यसूत्र १५.२ ॥
टीकाः
अनुकूलावृत्ति १५.२
अभिजिघ्राम्यसौ इत्यत्रासौशब्दस्य स्थाने नक्षत्रनामनिर्देशः ।
तत्संबुध्या निर्दिशेत्पशूनां त्वा हिंकारेणाभिझिघ्राम्याश्वयुजेत्यादि ।
तत्र नक्षत्रशब्देषु जातार्थे रूपनिर्णयार्थः श्लोकः
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.२
रोरेममृज्येचिषु वृद्धिरादौष्ठात्पे च वान्त्यश्रवशाश्वयुक्षु ।
शेषेषु नाम्वोः कप्रस्स्वरोषन्त्यः स्वाप्वोरदीर्घस्साविसर्ग इष्टः ॥
अस्यार्थःरोहिणी रेवती मघा मृगशीर्षा ज्येष्ठा तित्राइत्येतेषु आद्यक्षरनिर्दिष्टेषु आदौ वृद्धिर्बवति,ऽनक्षत्रेभ्यो बहुलम्, (पा.सू.४३३७)इति बहुलग्रहणाज्जातार्थप्रत्ययस्य च लुगभावः ।
रूपं च रौहिणः रैवतः माघः मार्गशीर्षः ज्यैष्ठः चैत्रः इति ।
ष्ठात्पे च, प्रोष्ठपदेत्यत्र ष्ठकारात्परे पकारे च वृद्धिः ।
"जे प्रोष्ठपदानाम्ऽ(पा.सु.७३१८)इत्युत्तरपदवृद्धिरित्यर्थः ।
पूर्ववच्च लुगभावः प्रोष्ठपादः ।
वान्त्यश्रवशाश्वयुक्षु ।
अन्त्यमाम्नानतः अपभरणीरित्यर्थः ।
श्रवः श्रवणं शशतभिषकश्वयुकित्येतेषु चतुर्षु वा विकल्पेन वृद्धिः ।
अत्र च श्रवणापभरण्योः बहुलग्रहणादेव लुको विकल्पः ।
अश्वयुक्छतभिषजोस्तुऽवत्सशालाभिजिदश्वयुक्छ तभिषजो वाऽ(पा.सू.४३३६)
इति सूत्रेण ।
अपभरणः आपभरणः ।
श्रवणः श्रावणः ।
शतभिषक्शातभिषजः ।
अश्वयुकाश्वयुजः ।
शेषेषु न उक्तादन्येषु नक्षत्रेषु न वृद्धिः यतोऽत्रऽश्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्त विशाखाषाढाबहुलाल्लुक्ऽ (पा.सू.४३३४) इत्यनेन, नक्षत्रेभ्यो बहुलम्ऽइत्यनेन च लुग्व भवति ।
ऽलुक्तद्धितलुकिऽ(पा.सू१२४९) इति स्त्रीप्रत्ययनिवृत्तिः कृत्तिकः तिष्यः आश्रेषः फाल्गुनः हस्तः विशाखः अनूराधः आषाढः श्रविष्ठः ।
आम्वोः कपरः स्वरोऽन्त्यः, आर्द्रमूलयोरन्त्यः स्वरः कशब्दपरो भवति ।
पूर्वाङ्णापरोह्णार्द्रअमूलाऽइत्यादिना वुन्प्रत्यय इत्यर्थः ।
आर्द्रकः मूलकः ।
स्वाप्वोरदीर्घस्साविसर्ग इष्टः, स्वाप्वोः स्वातीपुनर्वस्वोरन्त्यस्वरोऽदीर्घस्सविसर्गश्चेष्टः ।
ऽश्रविष्ठाफल्गुनीऽइत्यादिना लुक् ।
सविसर्गत्वं च पूर्वस्य स्त्रीप्रत्ययस्यनिवृत्तौ हल्ङ्यादिलोपाभावात् ।
उत्तरस्यतु तनुवदुकारान्तत्वात् ।
स्वातिः पुनर्वसुः ।
एवं सर्वेषां नक्षत्रनाम्नां प्रथमया निर्देशः सूक्तवाके ।
जातकर्मणि पुनस्सम्बुद्ध्या ॥२॥
तद्रहस्यं भवति ॥ आपस्तम्बगृह्यसूत्र १५.३ ॥
टीकाः
अनुकूलावृत्ति १५.३
नक्षत्रनाम रहस्यं भवति ।
यथा परे न जानन्ति तथा वक्तव्यमित्यर्थः सूक्तवाकादिष्वप्येवमेव ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.३
नक्षत्रनाम च रहस्यं निर्दिशतीति सूत्रे प्रणेतव्ये सूत्रान्तरकरणात्यत्नामनक्षत्रनिबन्धनं, यच्च दशम्यां कृतं तदुभयं जातकर्म सूक्तवाकान्नप्राशनाभिवादनादिषु नित्यं रहस्यमेव निर्देश्यं भवति ॥३॥
३ कुमारस्य मधुघृतप्राशनम्, दधिघृतप्राशनं च ।
मधु, घृतमिति संसृज्य तस्मिन् दर्भेण हिरण्यं निष्टर्क्य बध्वावदायोत्तरैर्मन्त्रैः कुमारं प्राशयित्वोत्तराभिः पञ्चभिस्स्नापयित्वा दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्गारचतुर्थाभिः कुमारं प्राशयित्वाद्भिश्शेषं संसृज्य गोष्ठे निनयेत् ॥ आपस्तम्बगृह्यसूत्र १५.४ ॥
टीकाः
अनुकूलावृत्ति १५.४
मधुघृतमित्येतद्वयं विषमपरिमाणं कास्यपात्रे संसृज्य तस्मिन् हिरण्यं दर्भेण, निष्टर्क्य बध्वाऽदधाति ।
निष्टर्क्यमिति बन्धनविशेषो लोकप्रसिद्धः ।
तथा बद्धेन हिरण्येन तद्रसद्वयमादाय तेनैव कुमारं प्राशयेत् ।
<उत्तरैस्त्रिभिः>ऽत्वयि मेधाऽमित्यादिभिः प्रतिमन्त्रं प्राशनम् ।
तत<उत्तराभिः पञ्चभिः>ऋग्भिःऽक्षेत्रियै त्वेऽत्यादिभिः प्रतिमन्त्रं स्ना॰ुयति ।
ततोऽन्यस्मिन् कांस्यपात्रे दधि घृतञ्च संसृड्य तत्पृषदाड्यं तेनैव कांस्येन प्राशयति ।
<व्याहृतीभिरेङ्कारचतुर्थाभिः>भूः स्वाहेत्यादिभिः प्रतिमन्त्रम् ।
ततश्<शेषद्वयमद्भिस्संसृड्य गेष्ठे निनयेत्> ।
कुमारग्रहणं असमर्थस्यापि कुमारस्यैव प्राशनमुपायेन यथा स्यादिति ।
तेन यत्नाभावे"धानाः कुमारान् प्राशयन्ति""क्षैत्रपत्त्यं च प्राशयन्ति"इत्यादौ प्राशनमसमर्थानां न भवति ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.४
<निष्टकर्य> शिखाबन्धनवत्सरन्ध्रेण ग्रन्थिना निष्टर्क्य बध्नाति॑प्रजानां प्रडननायऽइति लिङ्गात् ।
<उत्तरैर्मन्त्रैः>ऽमेधां ते देवस्सविताऽइत्यृचा,ऽत्वयि मेधान्ऽइति त्रभिर्यजुर्भिः ।
प्राशनं चतुर्णामन्ते सकृदेव हिरण्येन गृहात्वा ।
"मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम्ऽ ।
(मनु.२२९)
इति मनुवचनात् ।
<उत्तराभिः> पञ्चभिःऽक्षेत्रियै त्वा निऋत्यै त्वाऽइत्यादिभिः ।
स्नापनमपि पञ्चानामन्ते सकृदेव ।
<दधि धृतमितिव> <समसृष्टं पृषदा>ज्यम् ।
तच्च यस्मिन् कांस्ये संसृज्यते तेनैव प्राशयेन्न हस्तेन ।
व्याहृती<भिरोघ्कारचतुर्थाभिः>ऽभूः स्वाहाऽ इत्यादिभिः ।
अत्राप्यन्ते सकृत्प्राशनम् ।
प्राशित<शेषमद्भिस्संसृज्य गेष्ठे> अधिकरणेऽन्यो <निनयेत् ।>
केचित्मधृघृतसंसर्गोऽपि कास्ये नियतः ।
प्राशनद्वयं स्नापनं च प्रितिमन्त्रमिति ॥४॥
४ दक्षिणस्तनदापनम् ।
उत्तरया मातुरुपस्थ आधायोत्तरया दक्षिणं स्तनं प्रतिधाप्योत्तराभ्यां पृथिवीमभिमृश्योत्तरेण यजुषा संविष्टम् ॥ आपस्तम्बगृह्यसूत्र १५.५ ॥
टीकाः
अनुकूलावृत्ति १५.५
अथ तं कुमारंऽमा ते कुमारऽमित्येतया<मातुरुपस्थ>आदधाति ।
एतावन्तं कालं स्वोपस्थे ।
तस्मात्शेषनिनयनम प्यन्येन कारायितव्यम् ।
तत<उत्तरयर्चा>ऽअयं कुमारऽइत्येतया<दक्षिणं स्तनं प्रतिधाप्य> तत उ<त्तराभ्यां ऋग्भ्यां>ऽयद्भूमेर्हृदयऽमित्येताभ्यां प्रतिमन्त्रं पृथिवीमभिमृशति ।
ततः तं कुमारं अभिमृषाटायां भूमौ संवेशयति माता ।
तं संविष्टमुत्तरेण यजुषाऽनामयति न रुदतीऽत्यनेनाभिमृशति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.५
<उत्तरया>ऽमा ते कुमारम्ऽइत्येतया कुमारं<मातुरुपस्थ> आदधाति ।
इह च मातृग्रहणादितः पूर्व स्वोपस्थ एव ।
अत एव च शेषनिनयनमन्यकर्तृकम् ।
<उत्तरया>ऽअयं कमारः इत्येतया<धक्षिणं स्तनं प्रतिधापयति>पाययति ।
इदं च मन्त्रस्तन नियमयोर्विधानं प्रथमस्तनपानविषयम्, प्रथमातिक्रमे कारणाभावात् ।
ततश्च जातोष्टिः,ऽवैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनातिऽ(तै.सं.२२५) इत्यादिना यद्यपि पुत्रजन्माख्यानिमित्तसंयोगेन श्रुता तथापि क्षामवत्यादिवन्न निमित्तादनन्तरं कर्तव्या ।
कुत एतत्?रात्रिसत्रन्यायेन आर्थवादिकपुत्रगतब्रह्मवर्चसादिकामनासंवलितस्यैव जन्मनोऽधिकारहेतुत्वाभ्युपगमात्
जातेष्ठिप्रवृत्तेश्चोत्कटजीवत्पुत्रगतपूततादिफलरागाधीनत्वात्दीर्घकालसमाप्यायां चेष्टौ कृतायां पश्चाद्वैधस्तनमाने सति कुमार एव शेषी शिष्कण्ठतया न जीवेत् ।
ततश्चेष्टेयां रागाधीनायां प्रवृत्तिरेव न स्यात् ।
तस्मात्जननानन्तरमेव संशासनान्तं जातकर्मैव कर्तव्यम् ।
इष्टिस्तूक्तेन न्यायेन निमित्तस्वारस्यभङ्गस्य दुर्निवारत्वात्चोदकानुग्रहाच्चाशौचेऽपगते पर्वण्येव कर्तव्या ।
<उत्तराभ्यां>ऽयद्भूमेर्हृदयंऽइत्येताभ्यां<पृथिवीं>सकृद<भिमृशति,>यत्र कुमारश्शतं<संविष्टं> <ऽ>नामयति न रुदतिऽइति<यजुषा> भिमृशति ॥५॥
५ फलीकरणहोमाः ।
उत्तरेण यजुषा शिरस्त उद्कुम्भं निधाय सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रिः प्रतिस्वाहाकारं हुत्वा संशास्ति प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति ॥ आपस्तम्बगृह्यसूत्र १५.६ ॥
टीकाः
अनुकूलावृत्ति १५.६
ततस्तस्य शिरस्समीपे <उत्तरेण यजुषा>ऽआपस्सुप्तेष्विऽत्यनेन उदकुम्भं निदधाति ।
ततस्सर्षपान् फलीकरणमिश्रानञ्जलि ना जुहोति<उत्तरैर्मन्त्रैः>अष्टाभिःऽअयं कलिऽमित्यादिभिः ।
तत्र च प्रतिस्वाहाकारं त्रिर्होमः ।
सकृन्मन्त्रेण द्विस्तूष्णीम् ।
द्रव्यं च पुनः पुनरादेयम् ।
केचित्तु सकृदुपात्तेनैव त्रिर्जुह्वति ।
उत्तरयोश्च होमयोः स्वाहाकारमात्रमावर्तयन्ति ।
होमश्चायमपूर्वः तन्त्रस्याविधा नात्
परिस्तरणं तु भवति ।
परिषेटनं समन्तमुभयतः ।
हुत्वा ततस्संशास्ति ।
कान् !ये सूतिकागारं प्रविशन्ति ।
तत्र संशासने एवकारः
एवमित्यस्यार्थे ।
एतदुक्तं भवतिअस्य सूतिकागारस्य यदा यदा प्रवेशो युष्माभिः क्रियते तदा तदा सर्षपान् फलीकरण
मिश्रनस्मिन्नग्नावेवं तूष्णीमावपत यथा मयोप्ताः अञ्जलिना त्रिल्त्रिश्चेति ।
तत्र तूष्णीमित्यतिदेशप्राप्तस्य मन्त्रस्य प्रतिषेधः ।
यथासंप्रैषं ते
कुर्वन्ति ।
होमश्चायं कुमारस्य रक्षार्थः संस्कारः, न मातुः, प्रकरणात् ।
तेन यद्यपिऽयस्यै विजातायां मनऽइति मातुरपि रक्षा प्रतीयते तथापि
तदर्थो होमो न भवति ।
ततश्च स्त्रीप्रसवे दशाहमध्ये पुत्रमृतौ च न भवति ॥ ६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.६
<उत्तरेण>ऽआपस्सुप्तेषुऽइत्यनेन<यजुषा> कुमारस्य शिरस्समीपे उदकस्य पूर्णकुम्भं निधाय अथऽयत्र क्व ताग्निम्ऽ (आय.ध.२१२३) इत्यादिविधिना श्रोत्रियागारादग्निमाहृत्य तमुपनिधाय<फलीकरणमिश्रान् सर्षपानुत्तरैः>ऽअयं कलिम्ऽइत्यादिभिरष्टभिर्मन्त्रैः अञ्जलिना प्रतिमन्त्रं<त्रिस्रिर्जुहोति> ।
तत्र तु द्विस्तूष्णीम् ।
तूष्णीकेष्वपि स्वाहाकारो भवति, प्रतिमन्त्रमिति सिद्धे प्रतिस्वाहाकारमित्यधिकाक्षरात् ।
अथ सूतिकागृहपालान्<समशास्तिप्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति> ।
सम्प्रैषस्य चायं विवक्षितोर्ऽथः प्रतिप्रवेशं तदनन्तरमेव सर्षपान् फलीकरणमिश्रानञ्जलिना अस्मिन्नेवाग्नौ तूष्णीं वाग्यता एव आवपतेति ।
एव काराच्च प्रवेशावापयोर्मध्ये त्रुटिमात्रस्यापि कालस्य न क्षेपः ।
सर्षपाणामेवाञ्जलिना आवापः॑प्रकृतत्वात् ।
केचितेवकार एवमित्यर्थे ।
तूष्णीमिति चातिदेशप्राप्तमन्त्रप्रतिषेधार्थमिति ॥६॥
(प.६.,खं.१५७)
एवमहरहरानिर्दशतायाः ॥ आपस्तम्बगृह्यसूत्र १५.७ ॥
टीकाः
अनुकूलावृत्ति १५.७
विजननप्रभृति यावत्दशाहानि न निर्गच्छन्ति तावदेव होमः कर्तव्यः संशानञ्चेत्यर्थः ।
सकृच्चहोमाः, न शायम् ।
यद्यपि संशासनमनन्तरं तथापि तावन्मात्रस्यायमतिदेशो न भवति ।
तस्य होमाशेषत्वात् ।
नापि वात्सप्रादेः ।
कृत्स्नस्य कल्पान्तरेषु सर्वेष्वप्रसिद्धत्वात् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.७
यथैतदनन्करोक्तं तूष्णीमावपनं एवमहरहः अनिर्दशतायास्सूतिकागृहपालैः कर्तव्यम् ।
आङ्मर्यादायाम् ।
<निर्दशा>निर्गता दशभ्योऽहोरात्रेभ्यो या रात्रिस्सा ।
आदशम्या रात्रेरित्यर्तः ॥७॥
एवं जातकर्मोत्त्क्वा क्रमप्राप्तं नामकरणमाह
१३ नामकरणम्
६ तस्य कालः ।
(प.६.,खं.१५८)
दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ॥ आपस्तम्बगृह्यसूत्र १५.८ ॥
टीकाः
अनुकूलावृत्ति १५.८
उत्थानं नाम सूतिकालिङ्गानामग्न्युदकुम्भादीनामपनयनम् ।
भर्तुश्च नापितकर्म ।
यच्चन्यत्स्त्रियो विदुः तच्च सर्ववर्मानां दशमेऽहनि भवति ।
दशमीशब्देन न रात्रिरुच्यते किं तर्हि ?अहोरात्रसमुदायः यथा"तस्मात्सदृशीनां रात्रीणा"मिति ।
तत्र परिभाषावशादहन्येव कर्म स्नानं च सति सम्भवे तस्मिन्नेवाहनि नियमेन भवति ।
प्रकारणादेव सिद्धे पुत्रस्येति वचनं वक्ष्यमाणोऽनाम्नो लक्षणविशेषःऽतस्यैव यथा स्यात् ।
तेन कुमार्याःऽअयुजाक्षरं कुमार्याःऽ(आप.गृ.१५११) इत्येतावदेव भवति ।
नऽनाम पूर्वमाख्यातोत्तरऽमित्यादि ।
<पिता मातेति> ता च ददतुर्यदग्रे"(तै.सं.१५१०) इति ।
तत्र प्रयोगः शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजये (आप.घ.२१५११) दिति ब्राह्मणान् भोजयित्वा पितामाता च नामाग्रेऽभिव्याहृत्याशीर्वचनं ब्राह्मणैरभिव्याहारयेताम् ।
अमुष्मै स्वस्तीति कल्पान्तरे दर्शनात् ।
केचित्नाम करिष्याव सङ्कल्पमिच्छन्ति ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.८
<दशम्यां>रात्रौ दशमेऽहनि ।
<उत्थितायां>सूतिकागृहान्निष्क्रान्तायां प्रसूतिकायां स्नातायां च सत्याम् ।
एवं वदता दशमेऽहनि निष्क्रम्य स्नातव्यमित्युक्तं भवति ।
<पुत्रस्य पिता नाम दधातिव> व्यावस्थापयति॑न तु करोति॑शब्दार्थयोस्सम्बन्धस्य नित्यत्वात् ।
<माता> <च ।>
इतिशब्दश्चार्थे, मातापितरौ सहितौ नाम धत्त इति ।
इममर्थ मन्त्रवर्णेऽप्याह"मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे" (तै.सं.१५१०० इति ॥८॥
७ नामनि पुंसोऽक्षरसंख्या ।
(प.६.,खं.१५९)
द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठानान्तं घोषवदाद्यन्तरन्तस्थम् ॥ आपस्तम्बगृह्यसूत्र १५.९ ॥
टीकाः
अनुकूलावृत्ति १५.९
अथ नाम्नो लक्षणविशेषः ।
सव्यञ्जनो निर्व्यञ्जनो वा स्वरोऽक्षरं<नाम>द्रव्यप्रधानं, तत्पूर्वपदं यत्र तत्<नामपूर्व> क्रियानिमित्तमाख्यातं, तदुत्तरपदं यत्र तत्<आख्यातोत्तरं> दीर्घात्परोऽभिनिष्ठानो विसर्जनीयोऽन्ते यस्य तत्<दीर्घाभिनिष्ठानान्तम्> तथा घोषवद्व्याञ्जनमादिभूतं यस्य तत्<घोषवदादि>अन्तर्मध्ये अन्तस्था यस्य तत्<अन्तरन्तस्थम्>वर्गाणां तृतीयचतुर्थौ इकारश्च घोषवन्तः ।
यरलवा अन्तस्थाः ।
दिवं नयतीति द्युतिः ।
गाः श्रयते इति गोश्रिः ।
गां प्रीणतीति गोप्तीः ।
हिरण्यः ददातीति हिरण्यदाः
भूरिदाः हरदत्त इत्यादीन्युदाहरणानि ।
"ऋष्यणूकं देवाताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्यु"रिति (बौ.गृ.२ २२८,२९) बौधायनः ।
<ऋष्यणूकं> ऋष्यभिधीयि वसिष्ठो जमदग्निरिति ।
<देवताणूकं>देवताभिधायि रुद्रो विष्णुरिति ।
<पूर्वपुरुषाः> पित्रादयः ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.९
अथ व्यवस्थापनीयस्य नाम्नो लक्षणमुच्यते<द्व्यक्षरं चतुरक्षरं>वेति समासेऽभिप्रेतः, न तु रूढिःऽनामपूर्वमाख्यातेत्तरम्ऽइति पूर्वोत्तरखण्डव्यवस्थापनात् ।
नापि वाक्यम्॑तस्य द्रव्यवाचकत्वाभावात् ।
कुतः पुनर्वाक्यसमासयोरर्तवत्समुदायत्वाविशेषेऽपि समास एव द्रव्यवाचको न वाक्यम्?इति चेत्॑ऽकृत्तद्धितमासाश्चऽ(पा,सू.१२४६) इति समासग्रहणस्य नियमार्थत्वात् ।
<नामपूर्व, > द्रव्यवाचकं सुबन्तं पदं नाम, तत्पूर्व यस्य तन्नामपूर्वम् ।
तथा आख्यातमुत्तरं पदं यस्य नाम्नस्तदाख्यातोत्तरम् ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.९
ननुऽसुप्सुपाऽइति समासनियमाताख्यातेन तिङन्तेन नैव समासः?सत्यम्॑त एवात्र आख्यातशब्देन आख्यात सदृशं क्विबन्तं सुबन्तमेव विवक्षितम् ।
सादृश्यं च क्रियाप्राधान्याभावेऽपि क्रियावाचित्वमात्रात्,ऽक्विबन्तो धातुत्वं न जहातिऽइति धातुसंज्ञत्वाच्च ।
<दीर्घाभिनिष्ठानान्तं>दीर्घश्चाभिनिष्ठानश्चान्ते यस्य नाम्नस्तत्तथोक्तम् ।
अभिनिष्ठान इति विसर्जनीयस्य पूर्वाचार्याणां संज्ञा ।
घोषवान् वर्ण आदिर्यस्य नाम्नस्तत्<घोषवदादि ।>
घेषवर्णाश्च प्रातिसाख्यसूत्रे प्रसिद्दाः,ऽऊष्मविसर्जनीयप्रथमद्वितीया अघोषाः
न हकारः ।
व्यञ्जनशेषो घोषवान्ऽइति ।
<अन्तरन्तस्थं>अन्तः मध्ये यस्य नाम्नोऽन्तस्थाः यरलवास्तत्तथोक्तम् ।
द्व्यक्षरस्योदा हरणंवार्दाः
वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि ।
चतुरक्षरस्य तु भाष्योक्तंऽद्रविणोदाः वरिवोदाःऽइति ।
एतद्द्वयमपि छान्दसम् ।
अन्यदपि हिरण्यदा युवतिदाइत्यादि ॥९॥
८ऽसुऽशब्दघटितस्य नाम्नः प्राशस्त्यम् ।
(प.६.,खं.१५१०)
अपि वा यस्मिन् स्वित्युपसर्गस्स्यात्तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् ॥ आपस्तम्बगृह्यसूत्र १५.१० ॥
टीकाः
अनुकूलावृत्ति १५.१०
अपि वा अयमपि पक्षःयस्मिन्नाम्निऽसुऽइत्ययमुपसर्गः स्यात्देवतत्र लक्षणम् ।
नान्यद्व्यक्षरत्वादि ।
तद्धि प्रतिष्टिताम् ।
हि शब्दोऽतिशये ।
पूर्वस्मादप्यतिशयेन प्रतिष्ठितं, तेन पूर्वमपि द्व्यक्षरादि प्रतिष्ठितम् ।
तथाच पूर्वास्मिन्नेव लक्षणे स्थित्वा भरद्वाज आहद्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं तद्धि प्रसिद्धमिति विज्ञायते इति ।
<प्रतिष्ठितमिति> ।
ध्रुवमविनाश्या युष्यमित्यर्थः ।
सुभद्रस्सुमुख इत्याद्युदाहरणम् ।
उपसर्ग इति वचनात्सोमसुदित्यादि प्रतिष्ठितं न भवति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.१०
अपि वा यस्मिन्नाम्निऽसुऽइत्ययुमुपसर्गस्स्यात्तन्नाम<प्रतिष्ठितं>आयुष्मद्यज्ञादिक्रियाच्च भवति॑यथासुजातः सुदर्शन इत्यादि ।
इह ब्राह्मणग्रहणात्द्व्यक्षरादिविशेषणैः स्विति विशेषणं विकल्प्यते ।
हिशब्दोऽनर्थको निपातः, अनर्थको मिताक्षरेषुऽइति वचनात् ।
उपसर्गग्रहणमुसर्गप्रतिरूपकाणां सुपसोमेत्यादीनां व्युदासार्थम् ।
अत्र बोधायनो विकल्पान्तराण्याहऽऋष्यणूकं देवताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्युःऽइति ।
अणूकमभिधायकं, प्रकरणात् ।
ऋष्यणूकं वसिष्ठः नारदः इत्यादि ।
देवताणूकं विष्णुः शिवः इति ।
पूर्वपुरुषाणां पितृपितामहादीनां वा नामानि यज्ञशर्मा, सोमशर्मा इत्यादिमि ॥१०॥
९ कुमार्या नामकरणम् ।
अयुजाक्षरं कुमार्याः ॥ आपस्तम्बगृह्यसूत्र १५.११ ॥
(प.६,खं.१५११)
टीकाः
अनुकूलावृत्ति १५.११
या स्ख्या अर्थविमितुं न शक्यते सा अयुक्संख्या ।
अयुञ्जि अक्षराणि यत्र ततयुजाक्षरमेकाक्षरं त्र्यक्षरमित्यादि ।
एतावदेव कुमार्या नामलणम्गौः, वाक्, पृथिवि, पार्वतीति ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.११
<अयुगक्षरं> विषमाक्षरं<कुमार्या> नाम भवति ।
अयुजाक्षरमिति छान्दसः ।
अयुगक्षरत्वमेकमेवात्र विशेषणम्, द्व्यक्षरादीनामनेन निर्वतितत्वात् ।
तद्व्यथाश्रीः, गौः, भारती, कमला, पतिवल्लभा, कमलेक्षणा, इत्यादि ।
कुमार्या अपि जातकादयश्चौलान्ताः देहंसस्कारार्थाः क्रियास्तूष्णीं कर्तव्या एव ।
"अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ॥
संस्कारार्थ शरीरस्य यथाकालं यथाक्रमम्" ॥
(म.स्मृ.२६६)
इति मनुवचनात् ।
इह च द्रव्यनिष्ठा भावार्थाः प्राशनवपनादय एव निष्कृष्य कर्तव्याः, न तु होमाः॑ेवमेव शिष्टाचारात्, स्मृत्यर्तसारे दृष्टत्वाच्च ॥११॥
१० प्रवासादेत्य पित्रा पुत्रस्य मूर्धावघ्राणादि ।
प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्ण उत्तरान्मन्त्रान् जपेत् ॥ आपस्तम्बगृह्यसूत्र १५.१२ ॥
(प.६.,खं.१५१२)
टीकाः
अनुकूलावृत्ति १५.१२
<प्रवासादागत्य>तु<उत्तराभ्यामभिमन्त्रणमवघ्राणं च> क्रमेण कर्तव्यम् ।
अङ्गादङ्गादित्यभिमन्त्रणं,ऽअश्मा भवेऽत्यवघ्राणम् ।
नामनिर्देशश्चाऽभिजिघ्रामि यज्ञशर्मऽन्निति ।
मन्त्रलिङ्गात्कुमार्या अभिमन्त्रणान्तरोपदेशाच्च सिद्धे पुत्रग्रहणं मूर्धन्यवघ्राणं दक्षिणं कर्णे जापश्च कुमार्या मा भूत् ।
अन्यथा लिङ्गविरोधाभावातुभयं कुमार्या अपि स्यात् ।
तस्या अपि प्रकृतत्वात् ।
कुमारीमुत्तरेणेत्ययं च अभिमन्त्रणस्यैव प्रत्याम्नायः स्यात्, नेतरयोः ।
उत्तरे मन्त्राःऽअग्निरायुष्मानिति पञ्चेऽत्यादिष्टाः तान् पुत्रस्य<दक्षिणे> <कर्णे जपेत्> ।
मन्त्रग्रहणं क्रियतेऽअग्निरायुष्मानिति पञ्चेऽत्यस्य पञ्चशब्दस्य मन्त्रेषु वृत्तिरिति प्रज्ञापनार्थम् ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.१२
<प्रवासादागत्योत्तराभ्यां>ऽअङ्गादङ्गात्ऽअश्मा भवऽइत्येताभ्यां<पुत्रस्याभिमन्त्रणं> कर्तव्यम् ।
तथैताभ्यामेव<मूर्धन्यवघ्राणम्> ।
असावित्यस्य स्थाने दशम्यां कृतं नाम सम्बुद्ध्या गृह्णाति ।
केचित्ऽअङ्गादङ्गादित्यभिमन्त्रणम् ।
ऽऽअश्मा भवेऽत्यवघ्राणमिति ।
तथा सति एवं विभज्यैव विनियुञ्जीत, क्रमेणेति वा ब्रूयात् ।
ततः पुत्रस्य<दक्षिणे कर्णे उत्तरान्>ऽअग्निरायुष्मान् स वनस्पतिभिःऽइत्यादिकान् सानुषङ्गान् पञ्च<मन्त्रान् जपेत्> ।
एतच्च त्रयं प्रतिपुत्रमावर्तते ॥ १२ ॥
११ एवं कुमार्या अपि ।
कुमारीमुत्तरेण यजुषाभिमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १५.१३ ॥
(प.६.,खं.१५१३)
टीकाः
अनुकूलावृत्ति १५.१३
प्रवासादेत्य<कुमारी>स्त्रीप्रजां<उत्तरेण यजुषा>ऽसर्वस्मादात्मनः सम्भूतासीऽत्यनेन<अभ्मन्त्रयते> ।
दुहितरमिति कर्तव्ये कुमारीमिति वचनं प्रदानादूर्ध्व माभूदिति ।
पुत्रस्य तु यावज्जीवं भवति पुत्रेऽपि प्रोषितागते अभिमन्त्रणादित्रयं भवति न्यायस्य तुल्यस्य तुल्यत्वात् ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.१३
प्रवासादेत्येत्यनुवर्तते ।
<उत्तरेण>ऽसर्वस्मादात्मनःऽइत्यनेन<यजुषा>कुमारीं कन्यामप्रत्ता<मभिमन्त्रयते> ।
कुमार्यस्त्वेतावदेव, न त्ववघ्राणजपौ॑वचनात्, तत्र पुत्रस्येति ग्रहणान्मन्त्रस्थपुल्लिङ्गविरोधाच्च ॥१३॥
इति श्रीसुदर्षनार्यविरचिते गृह्यतात्पर्यपदर्शने पञ्चदशः खण्डः ॥
षोडशः खण्डः ।
१४ अन्नप्राशनम्
१ तत्र कुमारस्य दध्यादिप्राशनम् ।
जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति संसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ॥ आपस्तम्बगृह्यसूत्र १६.१ ॥
(प.६.,खं.१६१)
टीकाः
अनुकूलावृत्ति १६.१
अथ कुमारस्यान्नप्राशनम् ।
तत्<जन्मनोऽधि>जननदित्वसादारभ्य षष्ठे मासि कर्तव्यम् ।
मासाश्च सौरचान्दामासादयः ।
तत्करिष्यन् ब्राह्मणान् भोजयित्वा युग्मान् तैराशिषो वाचयतिपुण्याहं स्वस्ति ऋद्धिमिति ।
नात्र पूर्वेद्युरभ्युदयश्राद्धं, देवेज्याभावात् ।
यत्रापगेद्युः देवेज्या तत्र पूर्वेद्युः पितृभ्यः क्रियते ।
ऽतस्मात्पितृभ्यः पूर्वेद्युः क्रियते ।
उत्तरमहर्देवान् यजते, इति वचनात् ।
वाचयित्वाऽशिषः दध्यादि चतुष्टयं संसृज्य तेन कुमारं प्राशयेत् ।
<उत्तरैर्मन्त्रैश्चतुर्भिः>ऽभूरपांत्वेऽत्यादिभिः ।
त्वौषधीनामिति मध्यमयोरनुषजति ।
अपामित्यस्य तु पाठो मन्त्रचतुष्टयप्रज्ञापनार्थः ।
असावित्यत्र मानग्रहणं सम्बुध्याऽओषझयस्सन्तु यज्ञशर्मऽन्निति ।
प्रतिमन्त्रं प्राशनम् ।
सर्वान्त इत्यन्ये ।
कुमारं इति चनात्कुमार्या विधिवदन्नप्राशनं न भवतिआवृतैव कुमार्या (आश्व.गृ.११४७)
इत्याश्वलायनवचनात् ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१
<जन्मनेऽधि>जन्मन आरभ्य, दिवसगणनया षष्ठे मासि ।
तेन मार्गशीर्ष शुक्ले द्वितीयायां जातस्य न मार्गशीर्षो मासः पूर्णो गण्यते ।
अत एव ज्योतिषे बृहस्पतिः
ऽपञ्चाशद्दिवसात्त्रिघ्नात्पश्चात्त्रिहतषष्टिकात् ॥
अर्वागेवोत्तमा भुक्तिः"...... इति ।
<ब्राह्मणान् भोजयित्वेत्युक्तार्थम् ।>
आशीर्वचनानन्तरं दध्यादिचतुष्टयं संसृज्य<उत्तरैर्मन्त्रैःऽ> <भूरपां>त्वौषधीनांऽइत्यादिभिश्चतुर्भिः कुमारं सकृदेव प्राशयोत् ।
सम्बुद्ध्या च नामग्रहणम् ।
द्वितीयतृताययोरपिऽत्वौषधीनाम्ऽइत्यादेरनुषङ्गः ॥१॥
२ दध्यादिस्थाने तैत्तिरीयमांसविधानम् ।
तैत्तिरेण (रीयेण) मांसेनेत्येके ॥ आपस्तम्बगृह्यसूत्र १६.२ ॥
(प.६.,खं.१६२)
टीकाः
अनुकूलावृत्ति १६.२
तित्तिरेः पक्षिणः<मांसेन>तदन्नप्राशनं कर्तव्यमित्येके आचार्या मन्यन्ते ।
मांसं व्यञ्जनमोदस्य ।
अन्ये तु मांसमेव मन्त्रवत्प्राश्यं मन्यन्ते ।
मांसग्रहणं शोणितादेः प्रतिषेधार्थम् ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.२
व्यक्तार्थमेतत् ॥२॥
१५ चौलम्
१ तस्य कालः ।
जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः ॥ आपस्तम्बगृह्यसूत्र १६.३ ॥
(प.६.,खं.१६३)
टीकाः
अनुकूलावृत्ति १६.३
अथ चौसविधिः यस्मिन् कर्मणि केशाः प्रथमं खण्ड्यते तत्चौलम् ।
चूडा प्रयोजनमस्येति ।
डलयोरविशेषः ।
तत्
जन्मनः प्रभृति तृतीये वर्षे पुनर्वसेवोर्नक्षत्रे कर्तव्यम् ।
कुमारं प्राशयेदिति विहितत्वात्पुंस एवेदं विधिवच्चौलम् ।
कुमार्यास्त्वावृतैव ।
एवञ्चेत्कृत्वा अपरेणाग्निं प्राञ्चमिति पुंलिङ्गमुपपद्यते ।
जन्मग्रहणं गर्भादारभ्य तृतीये वर्षे मा भूदिति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.३
<जन्मनोऽधीति>पूर्ववत् ।
ततश्चऽगर्भादिस्सङ्खया वर्षाणांऽइति गर्भवर्ष न गण्यते ।
<चौलमिति>कर्मनामधेयम् ।
यस्मिन् कर्मणि चूडासन्निधानं तच्चौलं॑<पुनर्वस्वोः॑>कर्तव्यमिति शेषः ॥३॥
२ उपनयनवन्नान्दीश्राद्वम् ।
ब्राह्मणानां भोजनमुपायनवत् ॥ आपस्तम्बगृह्यसूत्र १६.४ ॥
(प.६,खं.१६४)
टीकाः
अनुकूलावृत्ति १६.४
उपनयने ब्राह्मणभोजने विशेषाभावातादिपदलोपोऽत्र द्रष्टव्यः ।
ब्राह्मणभोजनादीति ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा कुमारं भोजयित्वेत्येतावदिह द्रष्टव्यम् ।
अनुवाकस्य प्रथमेनेत्यादिपरस्तादतिदेक्ष्यते ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.४
अत्र चऽ<ब्राह्मणानां भोजनम्ऽ>इति ग्रहणमाशीर्वचनकुमारभोजनयोरपि प्रदर्शनार्थम् ।
भोजनादीत्यादिशब्दो वा द्रष्टव्यः॑ उपायनवदिति वचनात् ।
उपनयनमेवोपायनम् ॥४॥
सीमन्तवदग्नेरुपसमाधानादि ॥ आपस्तम्बगृह्यसूत्र १६.५ ॥
(प.६.,खं.१६५)
टीकाः
अनुकूलावृत्ति १६.५
अग्नेरुपसमाधानादिपरिषेचनान्तं सीमन्तवत्कर्तव्यम् ।
पूर्वेद्युर्नान्दीश्राद्धं, सकृत्पात्राणि, शलल्यादिभिस्सह शम्याः ।
अन्वारब्धायां इत्यत्र च कुमारस्यान्वारम्भः ।
परिषेचनान्तस्य चादिदेशः ।
यत्तुऽगायतमिति वीणाथिनौऽइत्यादि न तस्यात्रातिदेशः ।
अपरेणाग्निं प्राञ्चमिति विधानात्पुनरुपवेशस्य ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.५
<अग्नेरुपसमाधानादि>तन्त्रं सप्रधानहोमं परिषेचनान्तमिह<सीमन्तदिति> ।
ततश्चान्वारब्धे कुमारे प्रधानहोमाः ।
पात्रप्रयोग काले शललल्यादीनां सकृदेव सादनम् ॥५॥
३ कुमारस्य केशानां विनयनम्, शिखानिधानं च ।
केशान् विनीय यथर्षि शिखा निदधाति ॥ आपस्तम्बगृह्यसूत्र १६.६ ॥
(प.६.,खं.१६६)
टीकाः
अनुकूलावृत्ति १६.६
<विनयनं>पृथक्करणं वप्तव्यानां शिखार्थानाञ्च ।
<तूष्णीमिति>वाग्यमनार्थ न मन्त्रप्रतिषेधार्थम्, प्राप्त्यभावात् ।
<यथार्षि>यावन्त ऋषयो यस्य प्रवरे तावतीश्शिखाः करोतित्र्यार्षेयस्य तिस्नः पञ्चार्षेयस्य पञ्चेति ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.६
<प्राञ्चं>प्राङ्मुखम् ।
वतूष्णीं वाग्यतः ।
<केसान् विनीय>विविधं नीत्वा॑वप्तव्यान् शिखार्थाश्च पृथक्पृथक्कृत्वेत्यर्थः ॥
यथार्षियावन्त ऋषयस्स्प्रवरे तावती<श्शिखा निदधाति> ।
एकार्षेयस्यैका शिखा द्व्यार्षेयस्य द्वे इत्यादि ॥६॥
यथा वैषां कुलधर्मः स्यात् ॥ आपस्तम्बगृह्यसूत्र १६.७ ॥
(प.६.,खं१६७)
टीकाः
अनुकूलावृत्ति १६.७
अथवा<यथा>येन प्रकारेण<एषां>कुमारस्य कुलजानां<कुलधर्मः>प्रवर्तते तथा शिखां करोति ।
एषां इति वचनं कर्तुः कुलधर्मो मा भूदिति ।
तेनास्मिन् कर्मणि पितैव कर्तेति नियमो नास्ति ।
अन्यत्र तु सति सम्भवे कुमारकर्मसु तस्यैव नियमः ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.७
अथवायथा येन प्रकारेण एषां कुलजानां कुलधर्मः प्रवर्तते, तथा शिखा कर्तव्या ।
केचितेषामिति वचनात्पितुरन्योऽपि चौलकर्तेति ॥७॥
(प.६.,खं.१६८)
टीकाः
अनुकूलावृत्ति १६.७
ऽउष्णाश्शीतास्वानीयेऽत्यादिऽदर्भस्तम्बे वा निदधातीऽत्येवमन्तं उपनयनवत्कर्तव्यमित्यर्थः ॥८॥
४ उपनयनवत्दिग्वपनादि ।
अपां संसर्जनाद्याकेशनिधानात्समानम् ॥ आपस्तम्बगृह्यसूत्र १६.८ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.८
व्याख्यातमेवैतत्समावर्तने ॥८॥
क्षुरं प्रक्षाल्य निदधाति ॥ आपस्तम्बगृह्यसूत्र १६.९ ॥
(प.६.,खं.१६९)
टीकाः
अनुकूलावृत्ति १६.९
क्षुरस्य प्रक्षालनंविधीयते ।
निधानमर्थप्राप्तम् ।
यदा निदधाति तदा प्रक्षाल्येति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.९
अत्र प्रक्षालनमेव विधीयत्॑निधानं त्वर्थप्राप्तम् ॥९॥
५ वपने उपयुक्तेन क्षुरेण त्रिरात्रपर्यन्तं कर्माकरणम् ।
तेन त्र्यहं कर्मनिवृत्तिः ॥ आपस्तम्बगृह्यसूत्र १६.१० ॥
(प.६,खं.१३१०)
टीकाः
अनुकूलावृत्ति १६.१०
तेन क्षुरेण त्रिष्वहोरात्रेषु नापितकर्म न कर्तव्यम् ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१०
तेन क्षुरेण त्र्यहं नापितकर्मनिष्टवृत्तिस्स्यात् ॥१०॥
वरं ददाति ॥ आपस्तम्बगृह्यसूत्र १६.११ ॥
(प.६.,खं.१६११)
टीकाः
अनुकूलावृत्ति १६.११
अस्मिन्कर्मणि समाप्ते कुमारस्य पिता ब्रह्मणे वरं ददाति ।
ऽगौर्वै वरऽइत्त्युक्तम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.११
वरं गां पिता ददाति दक्षिणत असीनाय ब्राह्मणाय ।
यद्यन्यश्चौलकर्ता तदा तस्मै ॥११॥
१ गोदानव्रतं, तत्कालश्च ।
एवं गोदानमन्यस्मिन्नपि नक्षत्रे षोडशे वर्षे ॥ आपस्तम्बगृह्यसूत्र १६.१२ ॥
(प.६ हं.,१६१२)
टीकाः
अनुकूलावृत्ति १६.१२
यथा चौलं एवमस्य गोदानाख्यमपि कर्म कर्तव्यम् ।
तत्र तृतीयस्य वर्षस्यापवादः<षोडशे> <वर्षे>इति ।
<अन्यस्मिन्नपि नक्षत्रे>पुण्याह एव ।
पुनर्वसु नियमस्यापवादः ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१२
<गोदानमिति>कर्मनामधेयम्॑यस्मिन्कर्मण्यङ्गभूतं गोदानयोश्शिरःप्रदेशाविशेषयोर्वपनम् ।
यत्रापि पक्षे शिखावर्जित सर्वकेशवपनं, यथर्षि च शिखाः॑तत्रापि गोदानयोर्वपनं कर्मनामधेयप्रवृत्तिनिमित्तं विद्यत एव ।
तद्गोदानाख्यं कर्म ।
<एवं> यथाचौलं ब्राह्मणभोजनादि वरदानान्तं कर्तव्यम् ।
तच्चन्य<स्मिन्नपि नक्षत्रे> रोहिण्यादौ,<वर्ष च षोडशे> भवति ॥१२॥
अत्र पक्षान्तरमाह
अग्निगोदानो वा स्यात् ॥ आपस्तम्बगृह्यसूत्र १६.१३ ॥
(प.६.,खं.१६१३)
टीकाः
अनुकूलावृत्ति १६.१३
अग्निर्देवता यत्र गोदाने तदग्निगोदानं यस्य वसोऽग्निगोदानः ।
(अग्निशब्देन तद्दैवत्यं गोदानं लक्ष्यते ।
अग्निर्गोदानमस्येति विग्रहः) ।
एकस्य गोदानशब्दस्य लोपः, उष्ट्रमुखवत् ।
तत्र बौधायनःषोडशे वर्षे गोदानम् ।
तस्य चौलवत्तूष्णीं प्रतिपत्तिरवसानं च ।
.....अग्नि गोदानो वा भवति ।
तस्य काण्डोपाकरकाण्डसमापनाभ्यां प्रतिपत्तिरवशानं च ।
(बौ.गृ.३२५२५८) इति ।
किमुक्तं भवति?आग्नेयानां काण्डानां उपाकरणसमापनयोर्यः कल्पः तत्र चौलधर्माः प्रवर्तन्त इति ।
षोडशे वर्षे भवति ।
सकृत्पात्राणि न शमयाः ।
अस्यास्मिन् गृह्येऽनुपदिष्टत्वात्यत्गोदानमुपदिष्टं तत्रैव शम्याविधिः ।
तत्र प्रयोगः ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा तूष्णीं केशश्मश्रु वापयित्वाग्नेरुपसमाधानादि परिषेचनान्तानि आग्नियकाण्डोपाकरणवत्कृत्वा शुक्रियवद्देवतोपस्थानंऽअग्ने व्रतपते व्रतं चरिष्यामि"इति ।
अन्ये संवत्सरे व्रतचर्या ।
अन्ते विसर्गः ।
एवमेवाचारिषमित्यादि विकारः शुक्रियवत्दैवतम् ।
केशश्मश्रुवपनम् ।
अन्ते ब्राह्मणभोजनम् ।
उभयत्र नान्दीमुखश्राद्धं केचित्कुर्वन्ति ।
अपरे न ॥ १३ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१३
अग्नये गोदानं यस्य<सोऽग्निगोदानो ब्रह्मचारी> ।
पुल्लिङ्गनिर्देशाच्चैवं विग्रहः ।
अस्मिन् पक्षे आज्यभागान्ते कृतेऽअग्नये काण्डर्षये स्वाहाऽइत्याज्येनैवैका प्रधानाहुतिः ।
ततो जयादि क्षुरप्रक्षालनान्तम् ॥१३॥
संवत्सरं गोदानव्रतमे (मित्ये) क उपदिशन्ति ॥ आपस्तम्बगृह्यसूत्र १६.१४ ॥
(प.६ हं.,१६१४)
टीकाः
अनुकूलावृत्ति १६.१४
कृतगोदानस्यापि तच्छेषतया<संवत्सरं> व्रतचरणमेकं आचार्या<उपदिशन्ति> ।
चौलगोदानेऽयं विकल्पः ।
अग्निगोदाने तु काण्डोपाकरणातिदेशात्नित्यमेव यदा व्रतचर्या तदा वरदानादूर्ध्व देवतोपस्थानं पूर्ववदन्ते, विसर्गश्च पूर्ववदेव ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१४
अधीतेऽपि वेदे, अवश्यं<संवत्सरं गोदानव्रतं>ब्रह्मचर्य चरितव्यमित्येक उपदिशन्ति॑वैकल्पिकमित्यर्थः ॥१४॥
उभयोरपि गोदानयोश्चौलाद्विशेषमाह
२ तत्र वपने विशेषः ।
एतावन्नाना सर्वान् केशान् वापयते ॥ आपस्तम्बगृह्यसूत्र १६.१५ ॥
(प.६ हं.,१६१५)
टीकाः
अनुकूलावृत्ति १६.१५
अस्मिन् चौलगोदाने तु<एतावन्नाना>पृथग्भावश्चौलात् ।
अत्र<सर्वान् केशान् वापयते>सशिखान् ।
चौले तु यथर्षि शिखा निदधात् ।
अन्ये श्मश्त्वादीनां प्राप्त्यर्थ सर्वग्रहणं वर्णयन्ति ।
तेषां केशशब्द उपलणार्थः ।
तथा चाश्वलायनःकेशश्मश्रुलोमनखान्युदकसंस्थानि संप्रेष्यति ।
(आश्व.गृ.११८६) इति ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१५
<एतावन्नाना>एतावान् भेदः ।
यदपिधानार्थयापि शिखया सद<सर्वान् केशान् वापयत>इति ।
ततस्चेह विनयनाभावाच्छलल्यादीनां निवृत्तिः ।
अत्र च वापयत इति णिजन्तनिर्देशादाचार्य एव गोदानकर्मणः कर्ता ।
वरदानञ्चाचार्यायैव ।
तथात्र शिखाया अपि वपनंऽएतावन्नाना सर्वान् केशान्वापयतेऽइत्यस्मादेव वचनात्॑सत्रवत् ।
अन्य आहुःऽरिक्तो वा एषोऽनपिहितो यन्मुडस्तस्यैतदपिधानं यच्छिखेति ।
सत्रेषु तु वचनात्वपनं शिखायाःऽ(आप.ध.११० ८.९)
इति सत्रेभ्योऽन्यत्र शिखाया वपनग्रतिषेधातिहापि नैव श्खाया वपनमिति ॥१५॥
उदकोपस्पर्शनमिति छन्दोगाः ॥ आपस्तम्बगृह्यसूत्र १६.१६ ॥
(प.३.,खं.१६१६)
टीकाः
अनुकूलावृत्ति १६.१६
अस्मिन् गोदानव्रते <अहरहरुदकोपस्पर्शनं>कर्तव्यमिति<छन्दोगा> उपदिशन्ति ।
त्रिषवणमिति केचित् ॥ १६ ॥
इति श्रीहरदत्तविरचितायामनाकुलायां गृह्यसूत्रवृत्तौ षोडशः खम्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१६
सांवत्सरिकगोदानव्रतपक्षे <अहरहरुदकोपस्पर्शनं छन्दोगा>उपदिशन्ति॑विकल्प इत्यर्थः ॥१६॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने षोडशः खण्डः ॥
षष्ठः पटलस्समाप्तः ॥