आपिशलशिक्षा/चतुर्थोध्यायः
← अध्यायः ३ | शिक्षा आपिशलशिक्षा/अध्यायः ४ |
अध्यायः ५ → |
अन्तःप्रयत्नप्रकरणम्
प्रयत्नो द्विविधः । १ ।
आभ्यन्तरो बाह्यश्च । २ ।
आभ्यन्तरस्तावत् । ३ ।
स्पृष्टकरणाः स्पर्शाः । ४ ।
ईषत्स्पृष्टकरणाः अन्तस्थाः । ५ ।
ईषद्विवृतकरणा ऊष्माणः । ६ ।
विवृतकरणाः स्वराः । ७ ।
तेभ्य ए ओ विवृततरौ । ८ ।
ताभ्यामै औ । ९ ।
ताभ्यामप्याकारः । १० ।
संवृतोऽकारः । ११ ।
इत्येषोऽन्तःप्रयत्नः । १२ ।