← अध्यायः १ शिक्षा
आपिशलशिक्षा
अध्यायः ३ →

स्थानप्रकरणम़्

तत्र स्थानं तावत् । १ ।

अकुहविसर्जनीयाः कण्ठ्याः । २ ।

हविसर्जनीयावुरस्यावेकेषाम् । ३ ।

जिह्वामूलीयो जिह्व्यः । ४ ।

कवर्गावर्णानुस्वारजिह्वामूलीया जिह्व्या एकेषाम् । ५ ।

सर्वमुखस्थानमवर्णमेके । ६ ।

इचुयशास्तालव्याः । ७ ।

ऋटुरषा मूर्धन्याः । ८ ।

रो दन्तमूलस्थानमेकेषाम् । ९ ।

ऌतुलसा दन्त्याः । १० ।

वकारो दन्तोष्ठ्यः । ११ ।

सृक्वस्थानमेके । १२ ।

उपूपध्मानीया ओष्ठ्याः । १३ ।

अनुस्वारयमा नासिक्याः । १४ ।

कण्ठनासिक्यमनुस्वारमेके । १५ ।

यमाश्च नासिक्यजिह्वामूलीया एकेषाम् । १६ ।

एदैतौ कण्ठतालव्यौ । १७ ।

ओदौतौ कण्ठोष्ठ्यौ । १८ ।

ञमङणना स्वस्थाना नासिकस्थानाश्च । १९ ।

द्विवर्णाणि सन्ध्यक्षराणि । २० ।

सरेफ ऋवर्णः । २१ ।

एवमेतानि स्थानानि । २२ ।