आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/अष्टमप्रश्नः
अथ अष्टमः प्रश्नः.
अहरहस्सरसादनमिच्छन्ति ।
१
अरिष्टगामी रोगहारकः ।
२
पृथिव्युद्भवरसासृक्कषायरसनेन्द्रियप्रवर्तकरसो रसोचितकषायनिवर्तकः ।
३
अबुद्भवमांसोषणरसः श्वयथुदूषकः ।
४
वातभूतोद्भवमज्जान्तर्हितलवणाम्लरसो रसासृग्धातुरोगनिवारकः ।
६
अनेकपुष्पवद्द्रव्यं शुक्लहीनबलरोगापहः ।
१०
रक्तपुष्पाज्जातबीजजन्याः फलसारकाः ।
११
श्वेतपुष्पजातबीजजन्याः सारसारकाः ।
१२
पीतपुष्पजातबीजजन्याः पत्रसारकाः ।
१३
बीजाज्जातबीजजन्याः बीजसारकाः ।
१५
पुष्पज्जातबीजजन्याः पुष्पसारकाः ।
१६
पीतपुष्पाज्जातश्शुक्लधात्वधोगतविकारप्रकृतिमपहरन्
स्वादुरसवच्चरमधातुपोषकः ।
१७
श्वेतजन्यजातरसास्तत्पुष्पवन्महीरुहः सकलपवनापहाः ।
१८
श्वेतपुष्पवत्पादपाः पित्तप्रहारकाः ।
१९
पीतपुष्पवन्महीरुहः कफामयान् घ्नन्ति ।
२०
अनलोत्पादकजाताः पीतधर्ममध्यभूताः ।
२४
अनिलाधिक्यद्रव्याणि दुर्गुणगुणहीननिर्गुणवन्न भासन्ते ।
२६
जातरूपानिलरूपे अनेकवर्णेष्वेकाधिको भवेत् ।
२७
एकैकजातीयानामनेकजन्मनामेवंविधिः ।
२८
तद्भूतरूपाधिगतवातपित्तकफान्यविकारहेतुज्ञानवानायुष्कामो भवति ।
२९
[१२]दोषप्रभावज्ञानपूर्वकं नाभेरधस्तादूर्ध्वे हृदिस्थवातपित्तकफाः समस्ता असमस्तास्समग्राण्यामयप्रतिपादकाः ।
३०
यत्रस्था ये रसास्तत्तद्भूतजातास्ते धातुपोषकाः ।
३१
शुक्लशोणितसन्निपातकास्तथा ।
३३
मातुराहारजातहेतुकाः तावद्द्रव्यजा रुजः योनिप्रकृतयश्चिरावृतास्ताभिरावर्तन्ते । ताभिरभिवर्धन्ते ।
३४
शुक्लशोणितसन्निपातकाले वा मातुराहारजातहेतुका
योनिप्रकृतयस्ताभिरावृतास्ताभिरभिवर्धन्ते ।
३६
शरीरे शोषकपोषकद्रव्यैस्तथा ।
३७
कायकामविकारजाताः मानसिकाश्चाभिघातजाः यावन्तोऽभिवर्धन्ते यावद्द्रव्यजातरोगाः अवयवविकारहेतुकास्तावद्द्रव्यजातरुजः प्रपद्यन्ते ।
३८
भूतपूर्वजातरसजातरोगास्तत्तद्भूतपूर्वरसादनाज्जातरोगाः ।
३९
समानजात्यामयहेतुकजातिद्रव्यैः तद्भूतभूतावयवाः प्रवर्धन्ते ।
४०
जाङ्गलानूपसाधारणदेशादिक्रमाद्वातकफपित्तामयाः तद्भूतभूतभेषजाः विध्युक्तप्रकारास्स्मृताः ।
४२
ऊर्ध्वाधोवस्तिकर्मोपकारकम् ।
४७
तस्मिन् निवर्तकतैलघृतलेह्यादयः पोषकाः ।
४८
शास्त्रविषयद्रव्यभेदज्ञानवान् भिषक् ।
४९
सर्वौषधक्षमो रोगी भवेदरोगी ।
५०
व्युत्क्रमास्ते दोषविकारकाः ।
५१
विषमगतिविकारकारको रोगः ।
५२
अरोगी दोषसमगत्या ।
५३
प्रातरुत्थायाभिमतदेवतायाजनम् ।
५५
तद्रूपलक्षणोपशयाप्तिभिर्निर्धारणम् ।
५६
दोषाः कालमनुसरन्ति ।
५७
कालानुकूलभेषजं कुर्यात् ।
५८
तिक्तक्षीरप्रदार्द्रशाखादिभिर्दन्तस्यान्तः प्रक्षालनम् ।
५९
लोचनावलोचनम्
६०
आपादमस्तकं तैलाभिषेचनम्
६१
उद्वर्तनं कफघ्नम् ।
६२
यथासुखोष्णाद्भिः प्रक्षालनम् ।
६३
ततः सङ्कल्पपूर्वं स्नानमाचरेत् ।
६४
दशविधस्नानमशक्तेषु ।
६५
अशुद्धे सत्यायुर्विनश्यति ।
६६
शुद्धकर्माधिकारः ।
६७
आयुष्कामयमानं भेषजम् ।
६८
शतायुः पुरुषश्शतेन्द्रिय आयुष्येवेन्द्रिये प्रतितिष्ठति ।
६९
पराशयमालक्ष्यान्तर्हितं कुर्वन् प्रवर्तेत ।
७०
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।
७१
यान्यनिन्दितानि तानि त्वयोपास्यानि ।
७२
नो इतराणि ।
७३
यान्यस्माकं सुचरितानि ।
७४
ये के चास्मच्छ्रेयांसो ब्राह्मणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् ।
७५
श्रद्धया देयम् ।
७६
अश्रद्धयाऽदेयम् ।
७७
श्रिया देयम् ।
७८
ह्रिया देयम् ।
७९
भिया देयम् ।
८०
संविदा देयम् ।
८१
वित्तशाठ्यं न कारयेत् ।
८२
तस्माद्विषयप्रवृत्त्या सुखमेकमनुभूयते ।
८३
धर्मार्थकामहेतुपूर्वकम् ।
८४
मध्यमस्सर्वपुरुषार्थः ।
८५
प्रकाशयेत्पण्डितानाम् ।
८६
न पीडयेन्नातिलालयेदिन्द्रियाणि ।
८७
एवं सततम् ।
८८
न हिंस्यात्सर्वभूतानि ।
८९
प्रातरविकारं निरीक्षयेत् ।
९०
विसृष्टविण्मूत्राद्विमलाशयः ।
९१
सर्वात्मानं स्वशरीरवत्पश्यति ।
९२
देवब्राह्मणगोऽर्थिनस्सुपूजयेत् ।
९३
विधिनियमिताचारवान् भुङ्क्ते ।
९४
आयुरारोग्यमैश्वर्यं यशोलोकांश्च शाश्वतान् ।
९५
अर्कानिलानलनक्षत्रादयः कालचक्रसिद्धाः प्रचरन्ति ।
९६
विविधसुखं कालचक्रं प्रयच्छति ।
९७
स कालस्सर्वं सृजति ।
९८
स सर्वजगत्पोषकः ।
९९
स एव नाशहेतुकः ।
१००
स एवंवित् ।
१०२
जगदन्नमयं करोति ।
१०३
कालकर्मवशात्तत्तत्फलं प्रददाति ।
१०४
इत्यायुर्वेदस्य अष्टमः प्रश्नः समाप्तः.
- ↑ जलमेहाति--A.
- ↑ पुष्पी--B.
- ↑ पुष्पी--B.
- ↑ पुष्पी--B.
- ↑ रसास्थिमज्जा-–B.
- ↑ काण्डा--A&C
- ↑ हव--A&C.
- ↑ प्रदहन्ति--B.
- ↑ वर्णा--B&C.
- ↑ 'रक्तरूपे'-- इत्यादि 'द्रव्याणि' इत्यन्तं न A.C. कोशयोर्द्दृश्यते ।
- ↑ पित्रप्रभा इति पाठः.
- ↑ दोषभाव--A&C.
- ↑ स्थितान्पुष्णन्ति--A.
- ↑ तच्चकिलोको--C.
- ↑ भाषणवि--B.
- ↑ रूपप्रकारं--A&C.
- ↑ A.C.कोशयोनैतद्दृश्यते ।
- ↑ तैर्दाहः—-A.B.C.
- ↑ तैर्दाहः—-A.B.C.
- ↑ भिगमनं न्यव्यात्--B. भिगमनं स्वस्यात्--A&C.
- ↑ नित्यो--A.