आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/द्वादशप्रश्नः
अथ द्वादशः प्रश्नः.
देशबन्धः चित्तस्य धारणा ।
१
तत्र प्रत्ययैकतानता ध्यानम् ।
२
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।
३
त्रयमेकत्र संयमः ।
४
तज्जयात्प्रज्ञालोकः ।
५
तस्य भूमिषु विनियोगः ।
६
त्रयमन्तरङ्गं पूर्वेभ्यः ।
७
तदपि बहिरङ्गं निर्बीजस्य ।
८
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्तान्वयो निरोधपरिणामः ।
९
तस्य प्रशान्तवाहिता संस्कारात् ।
१०
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ।
११
शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्र्यतापरिणामः ।
१२
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ।
१३
शान्तोदिताव्यपदेशधर्मानुपाती धर्मी ।
१४
क्रमान्यत्वं परिणामान्यत्वे हेतुः ।
१५
परिणामात्रयसंयमादतीतानागतज्ञानं ।
१६
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ।
१७
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ।
१८
प्रत्ययस्य परचित्तज्ञानम् ।
१९
न तत्सालम्बनं तस्याविषयीभूतत्वात् ।
२०
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ।
२१
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ।
२२
मैत्र्यादिषु बलानि ।
२३
बलेषु हस्तिबलानि ।
२४
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ।
२५
भुवनज्ञानं सूर्यसंयमात् ।
२६
चन्द्रे ताराव्यूहज्ञानम् ।
२७
ध्रुवे तद्गतिज्ञानम् ।
२८
नाभिचक्रे कायव्यूहज्ञानम् ।
२९
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।
३०
कूर्मनाड्यां स्थैर्यम् ।
३१
मूर्धज्योतिषि सिद्धदर्शनम् ।
३२
प्रातिभाद्वा सर्वम् ।
३३
हृदये चित्तसंवित् ।
३४
सत्वपुरुषयोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः
पदार्थात् स्वार्थसंयमात् पुरुषज्ञानम् ।
३५
ततः प्रातिभाश्रावणवेदनादर्शनास्वादवार्ता जायन्ते ।
३६
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ।
३७
बन्धकारणशैथिल्यात् प्रचारसंवेदनात् चित्तस्य परशरीरावेशः ।
३८
उदानजयात् जलपङ्ककण्टकादिषु असङ्ग उत्क्रान्तिश्च ।
३९
समानजयात् ज्वलनम् ।
४०
श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ।
४१
कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्चाकाशगमनम् ।
४२
बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः ।
४३
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ।
४४
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ।
४५
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ।
४६
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ।
४७
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ।
४८
सत्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ।
४९
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ।
५०
स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ।
५१
क्षणतत्क्रमयोः संयमात् विवेकजं ज्ञानम् ।
५२
जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ।
५३
तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ।
५४
सत्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ।
५५
जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ।
५६
जात्यन्तरपरिणामः प्रकृत्यापूरात् ।
५७
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्
५८
निर्माणचित्तान्यस्मितामात्रात् ।
५९
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ।
६०
तत्र ध्यानजमनाशयम् ।
६१
कर्माशुक्लाकृष्णं योगितस्त्रिविधमितरेषाम् ।
६२
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ।
६३
तासामनादित्वं चाशिषो नित्वत्वात् ।
६४
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वात् तेषमभावे तदभावः ।
६५
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदात् धर्माणाम् ।
६६
ते व्यक्तसूक्ष्मा गुणात्मानः ।
६७
परिणामैकत्वात् वस्तुतत्वम् ।
६८
वस्तुसाम्ये चित्तभेदात् तयोर्विविक्तः पन्थाः ।
६९
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ।
७०
तदुपरागापेक्षित्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ।
७१
सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ।
७२
न तत्स्वभासं दृश्यत्वात् ।
७३
एकसमये चोभयानवधारणम् ।
७४
चित्तान्तरदृश्ये बुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ।
७५
चितेरप्रतिसङ्क्रमायाः तदाकारतापत्तौ स्वबुद्धिसंवेदनं ।
७६
इत्यायुर्वेदसूत्रे द्वादशः प्रश्नः.