प्रमुखा विकल्पसूचिः उद्घाट्यताम्

आर्यभटीयम् भास्कर-विरचित-भाष्योपेतम्

आर्यभटकृतम् आर्यभटीयम् भास्कर-विरचित-भाष्योपेतम्

गीतिकापादःसम्पाद्यताम्

[ मङ्गलाचरणम् ]

यस्मात् अशेषजगताम् प्रभवम् स्थितिम् च संहारम् अपि उपदिशन्ति समग्रधीकाः । भृग्वङ्गिरःप्रभृतयः विदितान्तरायाः तस्मै नमः कमलजाय चतुर्मुखाय ।

अथ अशेषजगदनुग्रहाय आचार्यार्यभटमुखारविन्दविनिस्सृत-दशगीतिका-सूत्रव्याख्यानम् आरभ्यते । तस्य एव अशेषविघ्ननिराकरणाय सर्वविद्याप्रभवस्य भगवतः कमलयोनेः प्रणामप्रक्रान्तशास्त्रवस्तुपरिग्रहाय आर्याम् आदौ प्रयुक्तवान् --

प्रणिपत्य एकम् अनेकम् कम् सत्याम् देवताम् परम् ब्रह्म । आर्यभटः त्रीणि गदति गणितम् कालक्रियाम् गोलम् ॥ १ ॥

अस्याः पदविभागः॒ -- प्रणिपत्य, एकम्, अनेकम्, कम्, सत्याम्, देवताम्, परम्, ब्रह्म, आर्यभटः, त्रीणि, गदति, गणितम्, कालक्रियाम्, गोलम् ।

अत्र प्रणिपत्य इति "प्र"-शब्दः प्रकर्षवाची, प्रकर्षेण निपत्य प्रणिपत्य, प्रणामम् कृत्वा इति अर्थः । क्त्वाप्रत्ययेन पूर्वकालक्रिया अभिधीयते, यथा स्नात्वा भुङ्क्ते इति । स्नानक्रिया अनन्तरम् भोजनक्रिया । एवम् अत्र अपि प्रणिपतनानन्तरम् गणितम्, कालक्रियाम्, गोलम् च गदति । एकम्, अभेदरूपेण व्यवस्थितम्, निर्विकारम् । अनेकम्, न एकम् अनेकम्, भेदरूपेण व्यवस्थितम् । कम्, कः इति प्रजापतेः आख्यानम् । कम् प्रणिपत्य एवंगुणविशिष्टम्।

अथ यदि असौ प्रजापतिः एकः कथम् असौ अनेकः? यदि असौ अनेकः कथम् एकः? एकानेकयोः परस्परविरुद्धयोः युगपत् एकत्र अवस्थानम् न सम्भवति, यथा अत्यन्तविरुद्धयोः च्छाया आतपयोः उष्णशीतयोः वा इति । अत्र उच्यते -- यथा वृक्षः एकवस्तुरूपेण [तिष्ठति], असौ एव यदा मूल-स्कन्ध-शाखा-प्ररोहादिप्रपञ्चेन विकल्प्यते तदा अनेकः । एवम् असौ अपि परमात्मा निर्विकारः निरञ्जनः एकः एव, असौ एव [यदा] अनेकप्राणिशरीरे व्यवस्थितः विकल्प्यते [तदा] अनेकः । आह च --

एकः एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा च एव दृश्यते जलचन्द्रवत् ॥ [अमृतबिन्दूपनिषत्, श्लो॰ १२]

इति । अथवा असौ एकः एव आसीत्, ततः स्वयम् अर्धेन पुरुषः अभवत् अर्धेन नारी इति । ततः सर्वान् प्राणिनः असृजत् इति । अथवा असौ भगवान् प्रजापतिः विश्वरूपः । तस्मात् तस्य विश्वरूपत्वात् एकानेकत्वम् एकस्मिन् युगपत् सम्भवति इति अयम् अदोषः ।

सत्याम् देवताम् । देवः एव देवता, सत्या च देवता च । स एव कः सत्यत्वेन देवतात्वेन च विशिष्यते । कम् सत्याम् देवताम् प्रणिपत्य । न केवलम् सत्यत्वेन देवतात्वेन च विशेषितः । केन च तर्हि इति आह -- परम् ब्रह्म । परम् च तत् ब्रह्म परम् ब्रह्म । परम् श्रूयते पुलस्त्य-पुलह-क्रत्वादिकम् । एवम् असौ भगवान् कः, सत्या देवता, परम् ब्रह्म च । कम्, सत्याम् देवताम्, परम् ब्रह्म च प्रणिपत्य ।

अथ कथम् कः शब्दः पुल्लिङ्गः, सत्या देवता स्त्रीलिङ्गः, परम् ब्रह्म नपुंसकलिङ्गः? तैः भिन्नलिङ्गैः एकम् वस्तु अभिधीयते । ननु च अत्र सर्वैः एव शब्दैः एकलिङ्गैः भवितव्यम्? न इति आह । एते शब्दाः आविष्टलिङ्गाः । तैः आविष्टलिङ्गैः शब्दैः एकम् एव वस्तु अभिभीयते । यथा -- "कारणम् इयम् ब्राह्मणी, भूतम् इयम् ब्राह्मणी, आवपनम् इयम् उष्ट्रिका" इति [अष्टाध्यायी अ॰ ४, पादः १, सूत्रम् ३, पातञ्जलमहाभाष्यम्, आक्षेपवार्तिकः ५११७]

अथवा ब्रह्मणोः द्वयोः अप्य् आचार्येण प्रणिपातः कृतः, शब्दब्रह्मणः परब्रह्मणः च । तयोः उपवर्णना इयम् क्रियते -- प्रणिपत्य इति । निगदव्याख्यानम् एवम् -- एकम्, परिज्ञानतः तु तत्त्वस्य अभेदरूपत्वात्, यस्मात् सर्वेषु एव ज्ञेयेषु परिज्ञानमात्रसामान्यम् एकम्॑ अनेकम् ऋग्यजुःसामाथर्वेतिहासपुराणशिक्षाकल्पव्याकरणनिरुक्तछन्दोविचितिज्योतिषम् इति आदिशब्दरूपेण व्यवस्थितत्वात् अनेकम् । कः इति शब्दब्रह्मणः आख्यानम् । कम् एकम् अनेकम् प्रणिपत्य । सत्याम् देवताम् इति एतत् द्वयोः ब्रह्मणोः शेषः, सत्या देवता शब्दब्रह्म । उक्तम् च --

ज्ञानान्तरभावि यत् च हि फलम् ज्ञात्वा क्रिया अतः च यत् सर्वस्य अव्यभिचारिकारणम् इति ज्ञानस्थितौ निश्चयः । ज्ञेयम् च अपरिमाणम् अल्पविषयश्रौतादिशास्त्रम् पुनर् दिव्यम् चक्षुः अतीन्द्रिये अपि विषये व्याहन्यते न क्वचित् ॥

परम् ब्रह्म । "परम्"-शब्दः प्रकर्षवाची । प्रकृष्टम् ब्रह्म परम् ब्रह्म, यत् सर्वैः अपि मुक्तिवादिभिः प्रार्थ्यते, मोक्षदः परमात्मा इति अर्थः । एवम् च द्वयोः ब्रह्मणोः प्रणामः कृतः । अन्यत्र अपि "ब्रह्म"-शब्देन शब्दब्रह्म-परब्रह्मणोः एव ग्रहणम् । तद् यथा --

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परम् च यत् । शब्दब्रह्मणि निष्णातः परम् ब्रह्म अधिगच्छति ॥ [अमृतबिन्दूपनिषद्, श्लो॰ ७॑ वायुपुराणम्, अम्शः ६, अ॰ ५, श्लो॰ ६४] इति ।

अथवा, प्रणिपत्य कम् हिरण्यगर्भम्, एकानेकस्वरूपम्, सर्वप्राणिनाम् महत् नाम । तत्र विशेषः एकम्, तस्य तस्य यतः अधिष्ठातृदेवता हिरण्यगर्भः एकः एव । यदा कारणानाम् अधिष्ठातृदेवताविशेषभेदेन विवक्ष्यते तदा अनेकम् । तत् यथा -- त्रयोदश कारणानि, त्वचः वायुः, चक्षुषः सूर्यः, श्रोत्रस्याः आकाशः, रसनस्याः आपः, घ्राणस्य पृथिवी, एवम् पञ्चानाम् बुद्धीन्द्रियाणाम् अधिष्ठात्र्यः देवताः, वाचः अग्निः, पाणेः इन्द्रः, पादस्य विष्णुः, पायुनः मित्रः, उपस्थस्य प्रजापतिः, एवम् कर्मेन्द्रियाधिष्ठात्र्यः देवताः, मनसः चन्द्रः, बुद्धेः सविता, अहङ्कारस्य रुद्रः इति । सत्याम् देवताम् अन्तर्यामिनः ईश्वरस्य भगवतः परमात्मनः कारणशक्त्या अधिष्ठिताः सर्वे एव पदार्थाः स्वार्थे प्रवर्तन्ते । अतः ताम् परमात्मनः कारणशक्तिम् सत्याम् देवताम् । अतः एव स्त्रीलिङ्गेन निर्देशः कृतः । परम् ब्रह्म यत् तत् अधिकारी ब्रह्म परमात्मा तम् । एवम् ब्रह्मत्रयम् प्रणिपत्य । यदि एवम्, चकारः तर्हि कर्तव्यम् । न कर्तव्यम् । अन्तरेण अपि चकारम् च अर्थः गम्यते एव । तत् यथा --

बाले वृद्धे क्षते क्षीणे क्षीरम् युक्त्या प्रयोजयेत् ।

इति । बाले च वृद्धे च क्षते च क्षीणे च इति गम्यते । एवम् अत्र अपि च अर्थः, कम् च सत्याम् देवताम् च परम् ब्रह्म च इति ।

आर्यभटः आचार्यस्य समाख्यानः । त्रीणि गदति । त्रीणि वस्तूनि गदति इति । ननु अत्र एवम् युक्तम् वक्तुम् -- "आर्यभटः अहम् त्रीणि गदामि" इति, अन्यथा अन्यस्य कस्यचित् एतत् वाक्यम् आभाति । यथा किंचित् कश्चित् पृच्छति -- "राजकुले केन किम् उक्तम् इति आह -- एवम् उक्ते राजनि एवम् देवदत्तो ब्रवीति । यज्ञदत्तः अपि एवम् एव निगदति" इति । तस्मात् तत्र अपि आर्यभटः त्रीणि गदति इति, न तत् आचार्यस्य वचनम् इति । अत्र उच्यते । अयम् आचार्यः महानुभावः स्वयम् एव ब्रुवन् परत्वम् आपाद्य कथयति, यथा आह कौटिल्यः --

सुखग्रहणविज्ञेयम् तत्त्वार्थपदनिश्चितम् । कौटिल्येन कृतम् शास्त्रम् विमुच्य ग्रन्थविस्तरम् ॥ [अर्थशास्त्रम्, १.१.१९]

इति । अथवा यः तेजस्वी पुरुषः समरेषु निकृष्टासितेजोवितानच्छुरितबाहुः शत्रुसङ्घातम् प्रकाशम् प्रविश्य प्रहरन् एवम् आह -- "अयम् असौ उदितः अदितिकुलप्रसूतः समरेषु अनिवारितवीर्यः यज्ञदत्तः प्रहरति । यदि कस्यचित् शक्तिः प्रतिप्रहरतु" इति । एवम् असौ अपि आचार्यः गणितकालक्रियागोलातिशयज्ञानोदधिपारगः वित्सभाम् अवगाह्य "आर्यभटः त्रीणि गदति गणितम् कालक्रियाम् गोलम्" इति उक्तवान् ।

गणितम् कालक्रियाम् गोलम् । गणितम्, क्षेत्रच्छायाश्रेढीसमकरणकुट्टाकारादिकम् । कालः, प्राणविनाडीनाड्यहोरात्रपक्षमाससंवत्सरयुगादिकम् । तत्परिज्ञानार्थम् क्रिया कालक्रिया । अन्ये पुनः क्रिया अव्यतिरिक्तम् कालम् एतेन अभ्युपगच्छन्ति । तेषाम् अयम् विग्रहः -- कालः च असौ क्रिया च कालक्रिया । एवम् एतौ द्वौ पक्षौ -- केचित् कालम् क्रियाव्यतिरिक्तम् मन्यन्ते, अन्ये क्रिया एव कालः इति । उभयथाः अस्माकम् अदोषः इति, येन अस्मदीये सिद्धान्ते सूर्योदयात् प्रभृति यावत् अपरः सूर्योदयः तावत् अहोरात्रम्, यः च सूर्याचन्द्रमसोः परः विप्रकर्षः सः अर्धमासः, यः च तयोः परः सन्निकर्षः स मासः॑ एवम् द्वादशमासाः संवत्सरः इति अयम् कालः, क्रियाव्यतिरिक्तः वा अस्तु क्रिया वा इति । गोलम्, ग्रहभ्रमणधरित्रीसंस्थानदर्शनोपायम् । गदति इति कर्तृवाचकः शब्दः, वाक्यत्वात् । गणितकालक्रियागोलानाम् द्वितीयैकवचने निर्देशः गणितम् कालक्रियाम् गोलम् इति गणितशब्दः नपुंसकलिङ्गम्, कालक्रिया स्त्रीलिङ्गम्, गोलः पुल्लिङ्गम् । एतेषाम् सामान्योपक्रमेण नपुंसकलिङ्गेन एव आचार्येण अभिधानम् [कृतम्] "त्रीणि गदति" इति ।

अत्र अयम् गणितशब्दः अशेषगणिताभिधायी, तस्मात् अशेषगणिताभिधायित्वात् यथा क्षेत्रगणितम् ब्रवीति, एवम् ग्रहगणितम् अपि॑ ग्रहगणितस्य च क्षेत्राद्यव्यतिरिक्तत्वात् कालक्रियागोलयोः च गणिताव्यतिरिक्तत्वात् गणितम् निगदति इति एतावत् एव सिद्धे कालक्रियागोलग्रहणम् कुर्वन् आचार्यः ज्ञापयति -- क्षेत्रच्छायाश्रेढीसमकरणकुट्टाकारादिकम् सामान्यगणितम् किंचित् वक्ष्ये, विशेषगणिते पुनः कालक्रियया गोलेन तात्पर्यम् इति । अन्यथा अशेषगणिताभिधायिगणितशब्देन एव सिद्धत्वात् कालक्रियागोलयोः पृथग्ग्रहणम् अनावश्यकम् स्यात् । तथा च, आचार्येण गणितपादे गणितवस्तु दिङ्मात्रम् एव अभिहितम्, कालक्रियागोलयोः कालक्रियागोल [वस्तु] विशेषेण । अवश्यम् अयम् अर्थः अभ्युपगन्तव्यः -- किंचित् गणितम् इति / अन्यथा हि महत् गणितवस्तु, अष्टौ व्यवहाराः मिश्रक-श्रेढी-क्षेत्र-खात-चिति-क्राकचिक-राशि-च्छायाभिधायिनः । मिश्रकः इति सकलगणितवस्तुसंमिश्रकः संस्पर्शकः इति अर्थः । श्रेढी इति आद्युत्तरप्रचितः इति अर्थः । क्षेत्रम् इति अनेकाश्रिक्षेत्रफलानि आनयति इति अर्थः । खातः इति खन्यप्रमाणम् निर्दिशति इति अर्थः । चितिः इति इष्टकाप्रमाणेन उपरिनिचितवस्तुप्रमाणम् आवेदयति इति अर्थः । क्राकचिकम् इति, क्रकचः नम दारुच्छेदकम्, तस्मिन् क्रकचे भवः क्राकचिकः, तद्वस्तुप्रमाणम् अवगमयति इति अर्थः । राशिः इति धान्यादिरूपवस्तुनिचितम् तद्वस्तुप्रमाणम् जनयति इति अर्थः । छाया इति शङ्क्वादिच्छायाप्रमाणेन कालम् कथयति इति अर्थः । इति व्यवहारगणितस्य अष्टाभिधायिनः चत्वारि बीजानि प्रथमद्वितीयतृतीयचतुर्थानि यावत् तावत् वर्गावर्गघनाघनविषमाणि । एतत् एकैकस्य ग्रन्थलक्षणलक्ष्यम् मस्करि-पूरण-मुद्गल-प्रभृतिभिः आचार्यैः निबद्धम् कृतम्, स कथम् अनेन आचार्येण अल्पेन ग्रन्थेन शक्यते वक्तुम् । तत् सुष्ठु उक्तम् अस्माभिः किंचित् गणितम् विशेषतः कालगोलौ इति । एवम् इयम् आर्या व्याख्याता ॥ १॥

[ संख्याविन्यासे परिभाषा ]

युगभगणादिसङ्ख्यासंक्षेपम् विवक्षुः आचार्यः [परि]भाषासूत्रप्रदर्शनाय गीतिकासूत्रम् आह --

वर्गाक्षराणि वर्गे अवर्गे अवर्गाक्षराणि कात् ङ्मौ यः । खद्विनवके स्वराः नव वर्गे अवर्गे नवान्ति अवर्गे वा ॥ २ ॥

अस्य गीतिसूत्रस्य पदानि -- वर्गाक्षराणि, वर्गे, अवर्गे, अवर्गाक्षराणि, कात्, ङ्मौ, यः, खद्विनवके, स्वराः, नव, वर्गे, अवर्गे, नव, अत्यन्तवर्गे, वा ।

वर्गाक्षराणि, वर्गाक्षराणि ककारादीनि मकारपर्यन्तानि । "ते वर्गाः पञ्च पञ्च" इति [कातन्त्रम्, १.१.१० ] । वर्गाक्षरोच्चारणक्रमेण या सङ्ख्या अभिधीयते सा सङ्ख्या वर्गशब्देन उच्यते, अभेदोपचारात् । अतः वर्गाक्षरसङ्ख्या इति अर्थः । सा वर्गे, वर्गे इति गणितशास्त्रे विषमस्थानस्याः आख्या, तस्मिन् विषमस्थाने वर्गाक्षरसङ्ख्या उपचीयते । अवर्गे, न वर्गः अवर्गः समस्थानः, तस्मिन् अवर्गसंज्ञिते समस्थाने । अवर्गाक्षराणि, तानि यकारादीनि हकारपर्यवसानानि । कुतः एतत्? "नञ् इव युक्तम् अन्यसदृशाधिकरणे तथा ह्य् अर्थगतिः" [अष्टाध्यायी, ३.१.१२, पातञ्जलभाष्यम्] इति । वर्गाक्षराणि ककारादीनि ।

यादीनाम् [तु] यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणाकृतितुल्यम् एव क्षत्रियम् आनयति नान्त्यजादि, एवम् अत्र अपि केवलम् व्यञ्जनानाम् एव ग्रहणम् । तेषाम् यकारादीनाम् अवर्गाक्षराणाम् या सङ्ख्या सा अवर्गस्थाने उपचीयते । सा [वर्गाक्षराणाम् सङ्ख्या] वर्गस्थाने उपचीयमाना अवर्गस्थानम् अपि यदा प्राप्नोति, तदा प्राप्नुवाना या तेषाम् स्ववर्गाक्षराणाम् उपचितिः सा वर्गस्थानः एव, तस्याः अन्त्योपचितित्वात् । वर्गाक्षरसङ्ख्यायाः वर्गस्थाने उपचीयमानात् अवकाशः न अस्ति चेत् सङ्ख्यायाः सर्गः न विद्यते इति वर्गावर्गयोः स्थानयोः स्थाप्यते । अथवा, या दशादिका सङ्ख्या सा द्विस्थानावगाहिनी, तस्याः द्विस्थानावगाहनशीलत्वात् द्वयोः अपि स्थानयोः स्थाप्यते । अन्यथा दशादिसङ्ख्यायाः अभावः एव स्यात् । तद् एकादिनवान्तसङ्ख्यया एव व्यवहारः स्यात् ।

अथवा "ङ्मौ" इति अत्र मकारग्रहणम् कुर्वन् आचार्यः ज्ञापयति -- या दशोत्तरवर्गाक्षरसङ्ख्या सा वर्गे वा अवर्गे च भवति । अन्यथा "गो यः" इति एवम् ब्रूयात् । एवम् अवर्गाक्षरसङ्ख्या अपि वर्गस्हाने योज्या । वर्गाक्षराणाम् सङ्ख्या वर्गस्थाने ककाराद् उपचीयते । एतत् उक्तम् भवति -- यानि वर्गाक्षराणि श्रूयते तानि ककारात् प्रभृति पठितानि भवन्ति इति । अन्यथा हि "स्वम् रूपम् शब्दस्य अशब्दसंज्ञा" [अष्टाध्यायी, १.२.६८] इति । यत् यत् अक्षरम् उच्चारितम् तत् तस्य एव रूपस्य प्रतिपादकम् स्यात्, न कादिसङ्ख्यायाः । अतः उक्तम् "कात्" इति ।

ङ्मौ, ङः च मः च ङ्मौ । अनच्कौ एव ङकारमकारौ, तयोः द्वि[वच]ननिर्देशः ङ्मौ । ङकारमकारयोः या सङ्ख्या सा एकत्र संवृत्ता यकारसङ्ख्या भवति । ङकारः पञ्च, मकारः पञ्चविंशतिः, एते सङ्ख्ये एकत्र त्रिंशत्, तेन त्रिंशत्संख्यो यकारः । रेफादीनाम् अवर्गाक्षरत्वात् यकारसङ्ख्या एव केवलम् प्राप्नोति, अनिर्देशात् अन्यत्सङ्ख्यायाः । न रेफादीनाम् यकारसङ्ख्या । कुतः? यदि रेफादीनाम् अपि यकारसङ्ख्या एव स्यात् तदा यकारम् एव सर्वत्र ब्रूयात्, न रेफादीनि । "नवराषहः गत्वांशकान् प्रथमपाताः" इति अत्र [रा]षहेषु एकम् एव अवर्गाक्षरम् ब्रूयात् । तस्मात् न रेफादीनाम् यकारसङ्ख्या । का तर्हि? केचित् आहुः -- एकैकवृद्ध्या रेफादीनाम् सङ्ख्या, यकारत्रिंशत्, रकारः एकत्रिंशत्, लकारः द्वात्रिंशत् इति आदि । एतत् न । कुतः? एकत्रिंशदादिसङ्ख्यायाः अन्येन एव प्रकारेण सिद्धत्वात् । यकारः त्रिंशत्, स एव यदा यकारः ककारसंयुक्तः तदा हि एकत्रिंशत्, खकारादिभिः द्वात्रिंशत्, त्रयः त्रिंशत् आदिः इति सङ्ख्या ।

अन्ये आहुः -- रेफादयः दशोत्तरवृद्ध्या वर्धन्ते इति, रेफः चत्वारिंशत्, लकारः पञ्चाशत् । एवम् अवर्गाक्षराभावात् न शक्यते प्रतिपत्तुम् । यथा कात् इति आचार्येण अभिहितत्वात् एकाद्येकोत्तरिता सङ्ख्या वर्गाक्षराणाम् प्रतिपद्यते, एवम् अवर्गाक्षराणाम् अपि यात् इति यदा उच्यते तदा दशोत्तरिता सङ्ख्या प्रतिपत्तुम् शक्यते । अन्यथा "यात्" इति अपि उच्यमाने कथम् दशोत्तरिता सङ्ख्या, ननु च एकोत्तरिता स्यात् । न इति आह -- यस्मात् कात् इति [वर्गाक्षराणि] वर्गस्थाने उपचीयन्ते तस्मात् तेषाम् एकोत्तरिता सङ्ख्या, यानि पुनर् अवर्गाक्षराणि यादीनि एकोत्तरोपचयानि अवर्गस्थाने तस्मात् दशोत्तरिता एव वृद्धिः भवति, अवर्गस्थानस्य दशकसङ्ख्याधारत्वात् । एवम् तर्हि याद्ग्रहणम् कर्तव्यम् । न कर्तव्यम् । कथम्? अक्रियमाणे अयम् अर्थः अवगम्यते । अकृतम् एव यदि कृतम् एव, किम् इति न पठ्यते? पठ्यते एव "ङ्मौ यः" । अत्र अयम् यकारः अनच्कः ङ्मौ यः, अपरः यकारः अपि अनच्कः एवम् पञ्चमीविभक्त्यन्तः ङ्मौ यः । अत्र एकः यकारः लुप्तनिर्दिष्टः प्रतिपत्तव्यः । यथा "क्ङिति च" [अष्टाध्यायी, १.१.५] इति अत्र लुप्तनिर्दिष्टः गकारः, किति गिति ङिति इति, एवम् अत्र अपि । अथवा द्वियकारोच्चारणे अपि विशेषः न अस्ति एव । एवम् याद् इति अस्य अयम् अर्थः सिद्धः । यदि एकोत्तराणि अवर्गस्हानस्थितत्वात् दशोत्तराणि एव भवन्ति तदा किम् इति आचार्येण "ङ्मौ यः" इति महाप्रयासः कृतः । कथम् तर्हि वक्तव्यः? "गः यः" इति गकारः त्रिसङ्ख्यः, अवर्गस्थानस्थितत्वात् एव अयम् त्रिंशत्कः भविष्यति । न, ङकारमकारसङ्ख्यावत् एव शेषाणि अपि रेफादीनि चत्वारिंशदादिसङ्खानि भवन्ति इति अवर्गस्थानाश्रयात् एव सिद्धे सति ङ्मकारग्रहणम् कुर्वन् आचार्यः ज्ञापयति इति उक्तम् -- यावन्ति वर्गस्थानानि तेषु सर्वेषु एव सा सङ्ख्या युगपत् प्राप्ता, अवर्गाक्षराणाम् च या सङ्ख्या यावन्ति अवर्गस्थानानि तेषु सर्वेषु एव ।

अतः तत्सङ्ख्यानिरूपणार्थम् आह -- खद्विनवके स्वराः नव वर्गे अवर्गे । खानि शन्यानि, खानम् द्विनवकम् खद्विनवकम्, तस्मिन् खद्विनवके, अष्टादशसु शून्योपलक्षितेषु [स्थानेषु] । स्वराः नव वर्गे अवर्गे । वर्गे वर्गस्थाने नव स्वराः । अष्टादशसु च स्थानेषु नव वर्गस्थानानि, तत्र नवसु वर्गस्थानेषु नव स्वराः । के पुनर् ते नव स्वराः ग्राह्याः? यदि ह्रस्वाः एव केवलम् परिगृह्यन्ते तदा न पूर्यन्ते । अथ दीर्घाः एव केवलम् परिगृह्यन्ते तदा अपि अष्टौ स्वराः भवन्ति, ननु लृवर्णस्य दीर्घाभावात् । अथ ह्रस्वाः दीर्घः च परिगृह्यन्ते तदा अतिरिच्यन्ते, अनिष्टम् प्राप्नोति । "झा ग्ड ग्ला र्ध द्ड" [गीतिका॰, १०] इति अत्र आकारस्य द्वितीये च प्रतिपादितत्वात् द्वितीयवर्गस्थाने झकारसङ्ख्या स्थाप्यमाना नवशतानि स्युः, न नव । अभीष्यते च नवसङ्ख्या, नवसङ्ख्याकः झकारः । तत्र ह्रस्वः एव झकारः पठ्यते इति चेत् "नृषि योजनम् ञिला भूव्यासः" [गीतिका॰, ६] इति अत्र लकारे पञ्चसहस्राणि स्युः, न पञ्चाशत् । तत्र च अवश्यम् दीर्घः लकारः पठितव्यः, अन्यथा गीतिः एव भिद्येत । अतः न केवलम् ह्रस्वाः न केवलम् दीर्घाः, न अपि ह्रस्वदीर्घाः, न स्वराः मातृकापठितात् परिगृह्यन्ते । कस्मात् तर्हि स्वराः परिगृहीतव्याः? उच्यते -- यत्र नव एव केवलाः स्वराः पठ्यन्ते, तस्मात् परिगृहीतव्याः । कस्मिन् नव एव केवलाः पठ्यन्ते? आह -- पाणिनीये व्याकरणे प्रत्याहारे अ इ उ ऋ ऌ ए ओ ऐ औ इति एते नव स्वराः । तत्र प्रथमे वर्गस्थाने अकारः, द्वितीये इकारः, तृतीये उकारः, इति आदि । एवम् स्वरोपलक्षितेषु वर्गस्थानेषु वर्गाक्षरसङ्ख्या । अवर्गाक्षरसङ्ख्या च स्वरोपलक्षितवर्गस्थानोत्तरे अवर्गस्थाने ।

अथवा वर्गे अवर्गे इति अयम् वीप्सा, वर्गे अवर्गे च, वर्गस्थाने अवर्गस्थाने च ते एव नव स्वराः । तद् यथा -- अकारः प्रथमे वर्गस्थाने तदनन्तरावर्गस्थाने च । तद् यदि वर्गाक्षरसंयुक्तः अकारः प्रथमवर्गस्थाने "भृगुबुध" इति आदिषु, स एव यदा अवर्गाक्षरसंयुक्तः तदा तत्प्रथमवर्गस्थानानन्तरावर्गस्थाने "नवराषह" इति आदिषु । एवम् इकारादिषु अपि स्वेषु वर्गावर्गस्थानेषु योज्यम् । अथ दीर्घेषु अकारादिषु कथम् करणीयम्? उच्यते -- यथा ते व्याकरणे अकारादयः स्वराः अष्टादशप्रभेदाः, द्वादश भेदाः च लृवर्णसन्धिस्वराः परिगृह्यन्ते, एवम् अत्र अपि । तेन "ञिला भूव्यास" इति आदिषु आकारः प्रथमः एव वर्गस्थानेषु । अष्टादशस्थानेषु यानि वर्गस्थानानि अवर्गस्थानानि च तेषु वर्गाक्षरावर्गाक्षरसङ्ख्या निरूपिता ।

यदा पुनर् अष्टादशव्यतिरिक्तेषु स्थानेषु सङ्ख्या कस्यचित् विवक्षिता भवति तदा कथम् करणीयम् इति? अत्र आह -- नवान्त्यवर्गे वा । नवानाम् अन्तः नवान्तः । नवान्ते भवम् नवान्त्यम् । नवान्त्यः च असौ वर्गः च नवान्त्यवर्गः । तस्मिन् नवान्त्यवर्गे वा स्वराः भवन्ति, विकल्पिताः स्वराः भवन्ति । विकल्पः च कस्मिंशित् कथम् उपलक्ष्यते? यथा "पुत्रच्छेद्यविकल्पा अपत्यच्छेद्यप्रकाराः", एवम् अत्र अपि केनचित् प्रकारेण विकल्पिताः नवात्यवर्गे दशमे वर्गस्थाने स्वराः भवन्ति । यदि प्रथमे वर्गस्थाने अकारः शुद्धः विकल्पितः स एव तस्मात् वर्गस्थानात् दशमे वर्गस्थाने अनुस्वारादिना विकल्प्यते, एवम् इकारादयः स्वस्मात् वर्गस्थानात् दशमे वर्गस्थाने, पुनर् अपि च यावत् अभीष्टम् भवति तावत् तेन अपि अनुबन्धेन स्वरान् विकल्प्य सङ्ख्योपदेष्टव्या । एतत् परिभाषाबीजम् आचार्येण सङ्ख्याविवक्षूणाम् अनुग्रहाय उपदिष्टम् । स्वशास्त्रव्यवहारः तु लृवर्णवर्गस्थानात् न अतिरिच्यते ।

वर्गाक्षराणाम् अवर्गाक्षराणाम् च [या] सङ्ख्या सा अक्षराभिहितत्वात् यावन्ति वक्ष्यमाणानि गीतिकासूत्रेषु अक्षराणि तेषाम् सर्वेषाम् एव प्राप्नोति तत् च अनिष्टम् प्रसज्येत, तेन अत्र अर्थवन्ति यानि अक्षराणि तेषाम् सङ्ख्या न भवेत् इति एतत् वक्तव्यम् । यथा -- "युगरविभगणाः ख्युघृ" [गीतिका ॰, ३] इति अत्र ख्युघृ-शब्दस्य सङ्ख्या इष्यते न युगरविभगणशब्दस्य । यदि प्रतिषेधः न उचते तदा ख्युघृ-शब्दस्य यथा सङ्ख्या एवम् युगरविभगणशब्दस्य अपि प्राप्नोति । स तर्हि प्रतिषेधः अवश्यम् वक्तव्यः । न वक्तव्यः । यदि सर्वेषाम् एव अक्षराणाम् गीतिकासूत्रप्रतिबद्धानाम् सङ्ख्या स्यात् तदा सर्वम् एव एतत् शास्त्रम् अनर्थकम् स्यात् ।

[ ज्योतिषशास्त्रप्रादुर्भावे व्याख्याकारमतम् ]

अथ कथम् अस्य अतीन्द्रियाणाम् स्फुटग्रहगत्यर्थानाम् प्रादुर्भावः? ब्रह्मणः प्रसादेन इति । एवम् अनुश्रूयते -- अनेन आचार्येण महद्भिः तपोभिः ब्रह्मा आराधितः । अतः अस्य तत्प्रसादेन स्फुटग्रहगत्यर्थानाम् प्रादुर्भावः इति । आह च --

अतीन्द्रियार्थावगतेः तपोभिः परोपकारक्षमकाव्यदृष्टेः । यः अलङ्कृतेः अव्ययम् अन्वयस्य पराशरस्य अनुकृतिम् चकार ॥ इति । ब्रह्मणः कुतः? ब्रह्मा स्वयंभूः ज्ञानराशिः । ततः सर्वासाम् विद्यानाम् प्रादुर्भावः । अतः अनेन लोकानुग्रहाय स्फुटग्रहगत्यर्थवाचकानि दश गीतिकासूत्राणि गणितकालक्रियागोलार्थवाचकम् आर्याष्टशतम् च विनिबद्धम् । स्फुटग्रहगत्यर्थहेतवः अर्थाः, तस्मात् सर्वदा एव नित्याः, तेषाम् शब्देभ्यः अवगतिः इति शब्दबद्धाः, यथा सुवर्णिकारः सुवर्णम् आदाय कटककेयूरकुण्डलाद्यलङ्कारम् निष्पाद्य निष्पन्नम् अपि अलङ्कारम् भङ्क्त्वा अन्यत्वम् आपादयति । अथ च सुवर्णस्य तापच्छेदनिकषादिपरीक्षणेन अन्यत्वम् मनाग् अपि न भवति इति अर्थानाम् अपि साधुशब्दालङ्कारनानावृत्तबन्धैः विरच्यमानानाम् अनन्यत्वम् इति । श्रुतौ अपि शतपथे बृहदारण्यके पठ्यते॑ तद् यथा -- "पेशस्कारी पेशसः मात्राम् अपादयान्यन्नवतरम् कल्याणतरम् रूपम् तनुते" [बृहदारण्यकोपनिषत्, ४.४.४] इति । एवम् अयम् आगमार्थः ब्रह्मणः सकाशात् आचार्येण अधिगतः ।

अथ अन्ये मन्यन्ते -- "ज्योतिषाम् उदयमध्यास्तमयप्राप्तीन् दृष्ट्वा प्रत्यक्षानुमानाभ्याम् परिच्छिद्य स्वधीविरचितम्" इति । एतत् च न । ज्योतींषि क्षितितलम् भित्वा पूर्वस्याम् दिशि उद्गतानि क्रमेण अम्बरमध्यम् अतीत्य परस्याम् दिशि क्षितितलम् भित्वा एव प्रविशन्तः लक्ष्यन्ते । एतावति उदयास्तमयान्तरे वियत्युपलक्षणाभावात् ज्योतिषाम् गतिप्रमाणपरिच्छेदः दुःसम्पाद्यः, गतेः चेयत्तापरिज्ञानाभावात् "एतावता कालेन इयती गतिः एतावता कालेन कियती" इति गणितकर्म न प्रवर्तते । प्रमाणफलराश्योः अपरिज्ञानात् अप्रवत्तेः च गणितकर्मणः ग्रहाणाम् युगभगणापरिज्ञानम्, युगभगणापरिज्ञानात् ग्रहगतिपरिज्ञानाभावः । यथा अत्र अश्वादीनाम् गतिः प्रत्यक्षेण देशकालाभ्याम् सह उपपद्यते इति अतः गणितकर्म प्रवर्तते, अतीन्द्रियत्वात् ग्रहगतेः वियत्युपलक्षणाभावात् न प्रत्यक्षेण परिच्छिद्यते, कथम् तर्हि आगमात् उपगतग्रहयुतिग्रहनक्ष्त्रयोगग्रहणादयः प्रत्यक्षीक्रियन्ते?

अन्यत् च -- ग्रहादीनि ज्योतींषि क्षितितलम् भित्त्वा एव पूर्वस्याम् दिशि उद्गतानि क्रमेण अम्बरमध्यम् अतीत्य क्षितितलम् भित्वा एव अस्तम् गच्छन्तः लक्ष्यन्ते । ज्योतिश्चक्रस्य प्रवहाक्षेपात् ज्योतिश्चक्रप्रतिबद्धाः ग्रहाः प्राङ्मुखाः स्वगत्या भ्रमन्तः अपि लघ्व्या ज्योतिश्चक्रगत्या अपराम् दिशम् आसादयन्तः लक्ष्यन्ते, कुलालचक्रारूढकीटवत् । तस्मात् अन्या ज्योतिश्चक्रगतिः, अन्या ग्रहगतिः प्राङ्मुखी । कुतः? यस्मात् ग्रहः अश्विन्याम् दृष्टः भरण्यादिषु परस्परम् प्राग्व्यवस्थितेषु नक्षत्रेषु उपलक्ष्यते भचक्रे, न रेवत्यादिषु परस्परापरस्थितेषु । तस्मात् ज्योतिश्चक्रग्रहगत्योः भिन्नत्वात् उदयास्तमयदेशान्तरप्राप्त्यनुमानम् उपपद्यते । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्येण अधिगतः इति । ग्रहस्य नक्षत्राणाम् च नित्यसम्बन्धात् नक्षत्राणाम् निस्चलत्वात् ग्रहगत्यनुमानम् इति एतत् च न । बहूनि नक्षत्राणि तेषु ग्रहस्य पारम्पर्येण भुक्तेः अनेकरूपत्वात् विक्षेपापक्रमचक्रवशात् दक्षिणोत्तरमछ्यासन्नदूरचारित्वात् ग्रहस्य एकस्मिन् एव नक्षत्रे गतिपर्ययेण उदयास्तमयवक्रानुवक्रसम्भवात् ग्रहगतिवैचित्र्यम्, गणितेन च एकरूपा गतिः अनुमीयते । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्येण अधिगतः इति ।

अन्यत् च -- देशान्तराक्षविशेषात् ग्रहगतिवैचित्र्यम् । तत् यथा -- लङ्कायाम् अक्षाभावात् सर्वदा एव तुल्ये रात्र्यहनी लङ्कासमीपवर्तिनाम् रोहणसिंहलानाम् च॑ ततः उत्तरतः दिवसस्य वृद्धिः निशायाः हानिः, दक्षिणतः निशायाः वृद्धिः दिवसस्य हानिः इति । सूर्यग्रहणम् अपि अक्षदेशान्तरवशात् क्वचित् खण्डम्, क्वचित् सकलम्, क्वचित् न एव । चन्द्रग्रहणम् च इह घटीव्यतीतायाम् रात्र्याम्, घटिकादेशान्तरापरदेशस्थिता ग्रहीतारः दिनान्ते कथयन्ति, पूर्वतः च याता दूरोद्गतस्य चन्द्रमसः ग्रहणम् कथयन्ति । तस्मात् उदयमध्यास्तप्राप्तिनक्षत्रयोगपर्ययादिभिः विचित्रा इयम् ग्रहगतिः देशान्तराक्षविशेषैः च अतिविचित्रत्वम् आपद्यमाना न शक्यते अनेकरूपत्वात् गणितन्यायेन आनेतुम् । न च कश्चित् एवम् प्रकाराणाम् देशकालपर्ययेण उपपद्यमानानाम् प्रतिजागरिता । यः च सर्वः चिरम् जीवति स वर्षशतम् जीवति । तस्य अपि युगपत् अनेकदेशान्तराक्षविशेषत् नक्षत्रयोगपर्ययादिभिः उत्पद्यमानग्रहगतयः युगपत् न प्रत्यक्षीभवन्ति । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्येण अधिगतः इति । वक्ष्यति च --

सदसज्ज्ञानसमुद्रात् समुद्धृतम् ब्रह्मणः प्रसादेन । सज्ज्ञानोत्तमरत्नम् मया निमग्नम् स्वमतिनावा ॥ [गोलपादः, ४९]

इति ।

[ वेदाङ्गेषु ज्योतिषशास्त्रप्राधान्यम् ]

न केवलम् ज्योतिषाम् अयम् आगमः, वेदाङ्गम् च । "तस्मात् ब्राह्मणेण निष्कारणम् षडङ्गः वेदः अध्येयः" [पाताञ्जलमहाभाष्यम्, पस्पशाह्निकम्] षडङ्गेषु प्रधानम् ज्योतिषाम् अयनम् । कुतः अस्य प्राधान्यम्? यस्मात् अनधीतशिक्षादयः अपि प्राग् गुरूपदेशात् वेदान् अधीयते, न च तेषाम् दुरधीतम् भवति । न अनधिगतज्योतिषाम् अयना वेदोक्तान् यज्ञकालान् जानते । अथ शिक्षया वर्णानाम् स्थानकरणप्रयत्नानि निरूप्यन्ते --

अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरः तथा । जिह्वामूलम् च दन्ताः च नासिकोष्ठौ च तालु च ॥ [पाणिनीयशिक्षा, श्लो॰ १३]

इति आदि । वर्णाः उच्चार्यमाणाः स्वैः स्वैः स्थानकरणप्रयत्नैः स्वभावतः एव आस्यात् निष्क्रामन्ति, न अन्यतः । "अकुहविसर्जनीयाः कण्ठ्याः, ऋटुरषाः मूर्धन्याः ।" अकुहविसर्जनीयाः उच्चार्यमाणा कण्ठप्रदेशात् एव आस्यात् निष्क्रामन्ति न मूर्ध्नः, ऋटुरषाः उच्चार्यमाणाः मूर्ध्नः एव न अन्यस्मात् प्रदेशान्तरात् इति । यस्मात् तेषाम् स्थानकरणप्रयत्नाः स्वभावतः एव सिद्धाः तस्मात् तेषाम् स्थानकरणप्रयत्नः निरर्थकः । तथा च अनधीतव्याकरणाः अपि ब्राह्मणाः वेदान् अधीयते । न च तेषाम् दुरधीतम् भवति । न च अनधीतज्योतिषाम् अयना वेदोक्तान् यज्ञकालान् जानते । व्याकरणेन किल वेदानाम् रक्षा क्रियते । रक्षा अपि प्रजानाम् पार्थिवैः दुष्टनिग्रहेण शिष्टानुग्रहेण च क्रियते । एवम् वेदानाम् शब्दराशित्वात् असाधूनाम् उद्धारः निग्रहः, साधूनाम् शब्दानाम् सम्यक् कृतः अनुग्रहः इति । एतत् च न । नित्याः वेदाः । तेषु शब्दराशिप्रक्षेपाणाम् [स्वतः सिद्धिः], दृष्टानुविधित्वात् छन्दसः । यः यः शब्दः वेदेषु पठ्यते तस्य तस्य अप्रसिद्धलक्षणस्य अपि स्वयम् लक्षणम् साध्यम् प्रत्ययप्रकृतिलोपागमवर्णविकारादिभिः । न च ज्योतिषाम् अयनस्य अपि । ये ये वेदे यज्ञकालाः दृष्टाः ते सर्वे एव ज्योतिषाम् अयने गणितलक्षणसिद्धाः एव ।

अन्यत् च -- "दृष्टानुविधित्वात् छन्दसः" इति यदि वेदेषु दृष्टः एव अनुविधीयते तदा नहि किञ्चित् प्रयोजनम् व्याकरणेन । अथ ऋग्यजुःसाम्नाम् सर्वेषाम् एव प्रतिपदानिरुक्तेः निरुक्तस्य आव्यापिता । अथ छन्दोविचितैः ऋग्यजुःसाम्नाम् नित्यः एव छन्दः निबद्धः । न च तेषाम् इदानीम् काव्यपदपूर्वः निबद्धः क्रियते । न च अन्यूनाधिकलक्षणानाम् ऋग्यजुःसाम्नाम् इदानीम् अन्यथाकरणम् करणम् । एवम् च बाह्वृचे श्रुतौ श्रूयते, न हि एकेन अक्षरेण द्वाभ्याम् वा ऊनानि छन्दांसि क्रियन्ते इति । न हि एवम् वेदोक्तानाम् यज्ञकालानाम् इति क्रमः श्रूयते । न हि आधानादिषु संस्कारेषु कालविशेषाः ज्योतिषाम् अयनात् विना अवगम्यन्ते । तत् यथा संस्कारेषु --

एवम् गच्छन् स्त्रियम् क्षामाम् मघाम् मूलम् च वर्जयेत् । सुस्थः इन्दौ सुलक्षण्याम् विद्वांसम् पुत्रम् अश्नुयात् ॥ [याज्ञवल्क्यस्मृतिः, आचाराध्यायः, विवाहप्रकरणम्, श्लो॰ ८०]

इति । तत्र मघामूलयोः प्रतिपत्तिच्छेदौ इन्दोः च सुस्थदुःस्थताम् च नानधीतज्योतिषाम् अयना जानते । "सा यदि गर्भम् न दधीत सिंह्या श्वेतपुष्प्या उपोष्य पुष्येण मूलम् उत्थाप्य" इति [पारस्करगृह्यसूत्रम्, का॰ १, कण्डिका १३, सू॰ १] तत्र पुष्यस्य प्रतिपत्तिच्छेदौ नानधीतज्योतिषाम् अयना जानते । तथा च पुंसवने -- "यत् अहः पुंसा नक्षत्रेण चन्द्रमाः [युज्येत] तत् अहर् उपवास्य" इति [पारस्करगृह्यसूत्रम्, १. १४. ३] । तत्र पुंनक्षत्राणि पुनर् वसुपुष्यहस्तस्वातिश्रवणाः । एतेषाम् निरुपहतानाम् अनुकूलहतानाम् च प्रतिपत्तिच्छेदौ नानधीतज्योतिषाम् अयना जानते ।

अन्यत् च --

नामधेयम् दशम्याम् तत् द्वादश्याम् वा अस्य कारयेत् । पुण्ये अहनि मुहूर्त्ते वा नक्षत्रे वा गुणान्विते ॥ [मनुस्मृतिः, २.३०] इति । अत्र पुण्यस्य अह्नः, नक्षत्रस्य गुणान्वितस्य, मुहूर्तस्य वा प्रतिपत्तिच्छेदौ नानधीतज्योतिषाम् अयना जानते ।

अन्यत् च -- "उदगयने आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिम् गृह्णीयात्", "त्रिषु त्रिषु उत्तरादिषु", "स्वातौ मृगशिरसि रोहिण्याम् च" [पारस्करगृह्यसूत्रम्, १.४.५-७] इति अत्र उदगयनादीनाम् उत्तरादीनाम् नक्ष्त्राणाम् वधूवरयोः अनुकूलानाम् च प्रतिपत्तिच्छेदौ नानधीतज्योतिषाम् अयना जानते, एवमादि प्रतिशाखम् संस्काराणाम् पुण्याहनक्षत्रमुहूर्तचोदना ज्योतिषाम् अयनाङ्गविषयाः तद्विद्भ्यः एव अवगन्तव्याः, न गुरूपदेशात् सम्प्रदायाविच्छेदात् वा अवगन्तव्याः । इति अध्येयम् ज्योतिषाम् अयनम् ।

अन्यत् च -- छन्दसः उपाकर्मणि "अथ अतः अध्यायोपाकर्म । ओषधीनाम् प्रादुर्भावे श्रवणेन श्रावण्याम् पौर्णमास्याम् श्रावणस्य पञ्चमी हस्तेन वा" [पारस्करगृह्यसूत्रम्, २.१०.१-२] इति अत्र श्रावणपौर्णमासीम् श्रवणेन युक्ताम्, श्रावणस्य पञ्चमीम् हस्तेन युक्ताम् नानधीतज्योतिषाम् अयना जानते । अन्यत् च -- [छन्दसः उत्सर्गे] "पौषस्य रोहिण्याम् मध्यमायाम् वाष्टकायाम् अध्यायान् उत्सृजेरन्" [पारस्करगृह्यसूत्रम्, २.१२.१] इति एतत् च

। अथ नक्षत्राधानेषु "या असौ वैशाखस्य आमावास्या तस्याम् आदधीत सा रोहिण्या सम्पद्यते" [आपस्तम्बश्रौतसूत्रम्, ४.३.२०॑ बौधायनव्याख्या] इति अत्र प्राग् एव रोहिण्या वैशाखस्य आमावास्यायाः परिज्ञानयोग्यस्य आधानद्रव्यस्य अर्जनम् ऋत्विजाम् च वरणम् इति एतत् च ज्योतिषाम् अयनाङ्गविषयम्, तद्विद्भ्यः एव अवगन्तव्यम्, न गुरूपदेशात् सम्प्रदायाविच्छेदात् वा अवगन्तव्यम् इति अध्येयम् ज्योतिषाम् अयनम् । तथा च "कृत्तिकासु अग्निम् आदधीत" [तैत्तिरीयब्राह्मणम्,
१.१.२.१] एवमादि नक्षत्राधानचोदनाः च "पश्विज्या संवत्सरे [संवत्सरे], प्रावृषि आवृत्तिमुखयोः वा" [कात्यायनश्रौतसूत्रम्, पशुबंध॰, १-२] इति आवृत्तिमुखयोः प्रतिपत्तिच्छेदौ वेदिनाम् अनधीतज्योतिषाम् अयना [न] जानते । अन्यत् च -- "दर्शपौर्णमासाभ्याम् यजेत" [शतपथब्राह्मणम्, ११.२.५.१०] इति एवमादि चोदनाः च [श्रौत]स्मार्तेषु च कर्मसु "अपरपक्षे श्राद्धम् कुर्वीत ऊर्ध्वम् वा चतुर्य्याम्" [पारस्करगृह्यसूत्रपरिशिष्टकारभाष्यम्, श्राद्धसूत्रम्
१] ।

अपि नः स कुले जायात् यः नः दद्यात् त्रयोदशीम् ।
पायसम् मधुसंयुक्तम् वर्षासु च मघासु च ॥
[मनुस्मृतिः, ३.२६४]

इति ।

किम् बहुना, श्रौतस्मार्तविषयाणाम् तिथिनक्षत्रविषयाणाम् कर्मणाम् नित्यानाम् काम्यानाम् च न ज्योतिषाम् अयनात् विना समारम्भः, इति अध्येयम् ज्योतिषाम् अयनम् ।

[ लोकव्यवहारे ज्योतिषशास्त्रोपादेयता ]

लोकः च तिथिनक्षत्रमुहूर्तविषयाणाम् [सम्बन्धेन एव] शुभेषु कार्येषु प्रवर्तते । तथा च पुष्पफलपाणिः सर्वः एव दैवज्ञम् उपेत्य पृच्छति -- "कदा मे किम् भविष्यति? कदा अहम् कृष्यादिकर्मणि प्रवर्ते? कदा अहम् दैवज्ञकेन उपतिष्ठे? कदा अहम् अध्वानम् प्रपद्ये? कदा राजानम् पश्यामि? इहस्थस्य शुभम् मे भविष्यति आहोस्विद् अन्यस्थानगतस्य? केन कर्मणा प्रवृत्तस्य मे फलम् भविष्यति?" इति एतत् दैवज्ञात् अवगतार्थः
सर्वः एव शुभेषु कार्येषु प्रवर्तते । अशुभेषु अपि -- "कदा परदेशम् दिधक्षुः अहम् प्रवर्ते? कदा वैरिणः विनाशाय प्रतिष्ठे? कदा गजाश्वहरणम् [विदधे]? कदा पुरम् ग्रामम् वा घातयामि?" एतत् च दैवज्ञात् अवगत्य सर्वः प्रवर्तते । म्लेच्छादयः अपि च शकुननिमित्तस्वप्नबलात् एव कार्येषु प्रवर्तन्ते । यस्य च यत्किञ्चित् शुभम् भवति स ब्रवीति "शुभनक्षत्रमुहूर्तेषु अहम् आगतः", यस्य वा यत्किञ्चित् स्खलितम् भवति स ब्रवीति -- "मम नक्षत्रपीडा
वर्तते, न अनुकूलाः ग्रहाः" इति । तथा च हस्तिशिक्षाविदः स्वशास्त्रोक्ततिथिनक्षत्रेषु एव पारिबन्धादिहस्तिकर्मसु प्रवर्तन्ते ।

पक्षच्छिद्रेषु तिथयः ये यस्य -रवः मता।

तेषु तेषु पारिप्रवेशबन्धम् च परिवर्जयन्ति ।

नक्षत्रम् हस्तिनाम् प्राह स्वयम् एव प्रजापतिः ।
हस्तहस्तविशुद्धः हि हस्तिनाम् कर्म कीर्त्यते ॥

इति आदि । तथा च अश्वशिक्षायाम् --

अश्विन्याम् रेवतौ पुष्ये पुनर् वस्योः च कारयेत् ।
वाजिनाम् सर्वकर्माणि स्वातौ वारुणहस्तयोः ॥

इति । तथा च विषतन्त्रे --

कृत्तिकासु विशाखासु मघासु भरणीषु च ।
सार्पे मूले तथा अर्द्रायाम् सर्पदष्टः न जीवति ॥

आविद्धम्लेच्छादयः अपि च न शुभतिथिनक्षत्रमुहूर्तान् उल्लङ्घ्य प्रवर्तन्ते । तथा क्षुतरुदिताक्रुष्टप्रत्यस्खलितश्रवणम् परिहरन्ति । तृणकाष्ठभारलवणास्थिमत्तोन्मत्तक्लीबाहिदर्शनम् परिहरन्ति । सितकुसुमस्वादुफलेक्षुवंशा[म्बर]स[म]लङ्कृतस्त्रीपूर्णकुम्भादिदर्शनम् अभिनन्दन्ति । इति अध्येयम् ज्योतिषाम् अयनम् लोकानुग्रहाय । इति एवम् इदम् प्रथमम् गीतिकासूत्रम् ॥ २ ॥

[ ग्रहाणाम् युगभगणाः ]

ग्रहाणाम् युगभगणप्रदर्शनाय आर्याम् आह --

युगरविभगणाः ख्युघृ शशि
चयगियिङुशुछ्लृ कु ङिशिबुण्लृष्खृ प्राक् ।
शनि ढुङ्विघ्व गुरु ख्रि-
च्युभ कुज भद्लिझ्नुखृ भृगुबुधसौराः ॥ ३ ॥

अस्याः पदानि -- युगरविभगणाः, ख्युघृ अविभक्तिकः निर्देशः, शशि अविभक्तिकः एव, चयगियिङुशुछ्लृ अविभक्तिकः, कु अविभक्तिकः एव, ङिशिबुण्लृष्खृ अविभक्तिकः, प्राक्, शनि, ढुङ्विघ्व, गुरु, ख्रिच्युभ, कुज, भद्लिझ्नुखृ, एतानि शन्यादीनि अपि च पदानि अविभक्तिकनिर्दिष्टानि एव । अविभक्तिकनिर्देशाः अन्यत्र अपि दृश्यन्ते "ऐउण् ऋऌक्", "सर्वविश्व" इत्यादिषु च । भृगुबुधसौराः ।

[युगरविभगणाः] । युगे रविभगणाः युगरविभगणाः, युगस्य वा रविभगणाः युगरविभगणाः । युगम् कालक्रियापादे वक्ष्यते । अथ अत्र द्वन्द्वनिर्देशः कस्मात् न भवति? -- युगम् च रविभगणाः च युगरविभगणाः, युगम् ख्युघृ रविभगणाः ख्युघृ इति । एवम् च सति द्वन्द्वनिर्देशे यत् तत् कालक्रियापादे वक्ष्यते, तत् एव न वक्तव्यम् भवति । सत्यम्, किन्तु त्रैराशिकम् न सिद्ध्यति । सप्तमासमासे षष्ठीसमासे वा क्रियमाणे त्रैराशिकम्
सिद्धम् । यदि दिवससङ्ख्ये वर्षसङ्ख्ये वा युगे यथानिर्दिष्टाः ग्रहभगणाः लभ्यन्ते तदा अस्मिन् निर्दिष्टे कियन्तः इति तत्कालमध्यमग्रहभगणादयः लभ्यन्ते । षष्ठीसमासे च यद् यस्य दिवससङ्ख्यस्य वर्षसङ्ख्यस्य युगस्य यथानिर्दिष्टाः ग्रहभगणाः लभ्यन्ते, अस्य इष्टस्य कियन्तः इति मध्यमग्रहभगणादिसिद्धिः । द्वन्द्वे पुनर् न एतत् सिद्ध्यति । असौ च अत्र युगभगणशब्दः सर्वत्र अधिकारार्थे प्रयुज्यते । अधिकारे च यथा युगरविभगणाः
एवम् युगे शशिभगणाः इत्यादि । अन्यथा कस्मिन् काले कस्य वा कालस्य एते ग्रहभगणाः इति एतत् ने निर्दिष्टम् भवति । तस्मात् षष्ठीसप्तमीसमासाभ्याम् अन्यतरेण व्याख्येयम्, अर्केण एव ग्रहाणाम् युगप्रसिद्धेः । उक्तम् च --

विशिष्टदेशकालार्कभादिपर्याययोगजः ।
कालः ग्रहात् च सदसद्वर्गः स्यात् व्यावहारिकम् ॥

इति । उत्तरत्र अपि अधिकारार्थम् रवियुगभगणशब्दः सम्बन्धनीयः, रवियुगे शशिभगणाः रवियुगस्य वा इति । कथम् इदम्? [रवियुगभगणाः इति] पाठान्तरे अपि द्वन्द्वनिर्देशात् षष्ठीसप्तम्यर्थः दुर्लभः भवेत् अधिकारः च । एवम् तर्हि एकशेषनिर्देशः अत्र प्रतिपत्तव्यः, रवियुगभगणाः च रवियुगभगणाः च रवियुगभगणाः इति । एकेन रवियुगभगणशब्देन रवियुगभगणाः च रवियुगभगणप्रमाणसंसिद्धिः द्वितीयेन षष्ठीसप्तमीसमासाभ्यां
त्रैराशिकसिद्धिः इति । यदि एवम् युगरविभगणशब्देन अपि अयम् अर्थः शक्यते ज्ञातुम्, न किञ्चित् पाठान्तरे प्रयोजनम् ।

युगरविभगणाः कियन्तः? उच्यन्ते -- ख्युघृ । उकारवर्गस्थाने अयम् खकारः यकारः च, तेन उकारवर्गस्थाने द्वात्रिंशत् । घृ ऋकारवर्गस्थाने घकारः, तेन तस्मिन् स्थाने चत्वारि । एवम् एकत्र त्रिचत्वारिंशत् लक्षा विंशतिसहस्राणि । अङ्कैः अपि ४३२०००० ।

शशि चयगियिङुशुछ्लृ । प्रकृताधिकारयुगभगणसंयोगेन शशिशब्दः व्याख्येयः -- युगशशिभगणाः । अत्र अपि तौ एव समासौ । युगशशिभगणाः चयगियिङुशुछ्लृ । पूर्ववत् एव वर्गावर्गस्थानेषु सङ्ख्या स्थापनीया । रसाग्निरामदहनेष्वद्रिशैलशिलीमुखाः । अङ्कैः अपि ५७७५३३३६।

कु ङिशिबुण्लृष्खृ । तथा एव युगकुभगणाः तथा एव स्वस्थाने अपि विनिवेशिताः, खाम्बरेष्वद्रिरामाश्वियमाष्टतिथयः, १५८२२३७५०० ।

भचक्रप्रतिबद्धानि नक्षत्राणि तस्य भचक्रस्य प्रवहाक्षेपवशात् अपराम् दिशम् आसादयन्ति । नक्षत्राणि [भुवम्] ग्रहवत् स्वगत्या प्राङ्मुखीम् भ्रमन्तीम् इव पश्यन्ति इति अनया युक्त्या भुवः भगणनिर्देशः ।

प्राक् । ये एते ग्रहाः विवस्वदादयः प्राङ्मुखाः भ्रमन्ति । यदि अपि भपञ्जरप्रवहाक्षेपात् अपगच्छन्ति दिशम्, तथा अपि एते स्वगत्या प्राङ्मुखम् एव गच्छन्ति । अल्पत्वात् गतेः कालान्तरेण प्राचीम् दिशम् आसादयन्तः लक्ष्यन्ते, कुलालचक्रस्थकीटवत् । यदि एते प्राग्गतयः न स्युः, तदा अश्विन्याम् दृष्टः [ग्रहः] भरण्याम् न उपलक्ष्येत । यदि एते अपराभिमुखाः स्युः, तदा अश्विन्याम् दृष्टाः रेवत्याम् उपलक्ष्येरन् । तस्मात् एते प्राङ्मुखाः एव
भ्रमन्ति इति अतः "प्राक्" इति ।

किम् पुनर् भूभगणोपदेशे प्रयोजनम् इति आह -- "रविभूयोगाः [भूदिवसाः]", [कालक्रिया॰, ५] इति भूदिवसानयनम् । न एतत् अस्ति, प्रकारान्तरनिष्पन्नत्वात् कुदिवसानाम् । यदि अपि अयम् एव कुदिवसप्रतिपत्तेः उपायः स्यात् तथा अपि उपदेशगौरवात् न युज्यते । का उपदेशगुरुता? उच्यते -- "कु ङिशिबुण्लृष्खृ" इति कुभगणोपदेशः, "रविभूयोगाः भूदिवसाः" इति भूदिवसोपदेशः । कथम् तर्हि अभिधीयते? उच्यते -- भूदिवसप्रमाणनिर्देशः । एवम् लघुतरप्रकारः
। तस्मात् न एकम् प्रयोजनम् उपदेशस्य एतावतः कारणम् भवितुम् अर्हति । अन्यत् अपि प्रयोजनान्तरम् अस्ति इति आह । तत् यथा -- कलियातभूभगणैः सर्वे एव ग्रहाः मीनमेषसन्ध्युदयकालावधयः आनीयन्ते । कलि[यात]रविमण्डलाहर्गणसमासः [एव] कलियातभूभगणाः । तैः त्रैराशिकम् -- यदि युगप्रसिद्धभूभगणैः इष्टग्रहभगणाः मीनमेषसन्धिप्रारब्धाः प्राप्यन्ते, तदा कलियातभूभगणैः कियन्तः इति इष्टग्रहभगणादयः । अथवा
सूर्योदयकालावधेः एव ग्रहाः आनीयन्ते । कथम्? रविभगणाः याताहर्गणे क्षिप्त्वा तद्दिवससूर्यराश्यादीन् च अधः विन्यस्य इष्टग्रहभगणैः क्रमेण संगुणय्य स्वच्छेदैः षष्ट्यादिभिः भक्त्वा उपरि उपरि आरोप्य तथा एव भूभगणैः विभजेत, लब्धम् इष्टग्रहमण्डलानि । शेषम् द्वादशादिगुणितम् कृत्वा तद् अवशिष्टम् [अधः अधः] प्रक्षिप्य तथा एव च अपहृते राश्यादयः । अथवा, रविमण्डलाहर्गणयोगम् द्वादशभिः संगुणय्य रवियातराशयः
प्रक्षिप्यन्ते, त्रिंशता भागानित्यादि [अर्घात् त्रिंशता संगुणय्य रवियातभागान् प्रक्षिपेत् इति आदि] कर्म कृत्वा खखषड्घनच्छेदराशिम् निधाय त्रैराशिकम् -- यदि युगभूभगणैः अभीष्टग्रहभगणाः लभ्यन्ते, तदा खखषड्घनभागहारभूभगणैः कियन्तः? तेन खखषड्घनगुणितयुगभूभगणैः भागे हृते भगणादिलब्धिः । अथवा, राश्यादिगुणकारसंवर्ग- [१२ x ३० x ६०]-खखषड्घन-[२१६००]योः गुणकारभागहारयोः तुल्यत्वात् नष्टयोः
अभीष्टग्रहभगणगुणितभूभगणलिप्तानाम् युगभूभगणाः एव भागहारः, फलम् अभीष्टग्रहलिप्ताः ।

शनि ढुङिवघ्व । पूर्ववत् शनियुगभगणाः ढुङ्विघ्व, कृतरसेषु अङ्गमनवः, अङ्कैः अपि १४६५६४ । गुरु ख्रिच्युभ । पूर्ववत् एव, कृताश्वियमाब्धिरसाग्नयः, अङ्कैः अपि ३६४२२४ । तथा एव कुज भद्लिझ्नुखृ, वेदाश्विवसुरसरन्ध्रयमास्विनः, अङ्कैः अपि २२९६८२४ ।

भृगुबुधसौराः । भृगुः च बुधः च भृगुबुधौ, तयोः सौराः । सूर्यस्य इमे सौराः । के? भगणाः । भृगुबुधयोः सौराः, भृगुबुधसौराः । सूर्यस्य ये भगणाः ते एव शुक्रबुधयोः अपि ख्युघृ-सङ्ख्या इति । एतेषाम् युगभगणानाम् उत्पत्तिप्रत्याख्यानम् "क्षितिरवियोगादिनकृद्" [गोलपादः, ४८] इति अस्याम् कारिकायाम् व्याख्यास्यामः । एवम् द्वितीया गीतिः ॥ ३ ॥

[ ग्रहोच्चयुगभगणाः ]

ग्रहोच्चयुगभगणप्रतिपादनाय आह --

चन्द्रोच्च र्जुष्खिध बुध
सुगुशिथृन भृगु जषबिखुछृ शेषार्काः ।

चन्द्रोच्च, र्जुष्खिध, बुध, सुगुशिथृन, भृगु, जषबिखुछृ, एतेषाम् अविभक्तिकः निर्देशः, शेषार्काः ।

अत्र अपि अधिकृतयुगभगणसंयोगेन एव व्याख्येयम् । चन्द्रोच्चस्य युगभगणाः चन्द्रोच्चयभगणाः, र्जुष्खिध नवेन्दुयमाष्टवस्वब्धयः, अङ्कैः अपि ४८८२१९ । बुध एवम् बुधोच्चयुगभगणाः सुगुशिथृन खाश्व्यम्बरमुनिरामरन्ध्राद्रिशशिनः, अङ्कैः अपि १७९३७०२० । भृगु तथा एव भृगूच्चयुगभगणाः जषबिखुछृ वस्वष्टाग्नियमाश्विशून्याद्रयः, अङ्कैः अपि ७०२२३८८ ।

अत्र अयम् भृगुशब्दः, आहोस्वित् भृगुजशब्दः? भृगुः नाम भगवान् महर्षिः तस्य पुत्रः शुक्रः तस्य ये भगणाः निर्दिश्यन्ते॑ तेन भृगुजः इति, अथवा भार्गवः इति निर्देश्यः । यदि अयम् भृगुजशब्दः, तदा षबिखुछृ इति एते भगणाः प्राप्नुवन्ति, जषबिखुछृ इति एते च इष्यन्ते । कथम् तर्हि अत्र भृगुशब्दः एव विज्ञेयः, यत् उत भृगुजशब्दः? भृगुशब्दः एव विज्ञायते । कुतः? अन्यत्र भृगुजशब्दस्य आश्रवणात् । अत्र शास्त्रे भृगुजशब्देन न
क्वचित् शुक्रः आचार्येण निर्दिष्टः । तेन तर्हि भृगुशब्देन भृगुगुरुबुधशनि इति आदि यदि अपि उच्यते, भार्गवशब्देन निर्देशः कर्तव्यः, न भृगुशब्देन, भृगोः अपत्यम् भार्गवः इति । न एषः दोषः, भृगोः अपत्यम् भृगुः इति अपि भवति, "यथा बभ्रुः, मण्डुः, लमकः" [अष्टाध्यायी, ३.१.२. पातञ्जलभाष्यम्] इति । बभ्रोः अपत्यम् बाभ्रव्यः इति आदि वक्तव्ये बभ्रुः इति उच्यते, एवम् माण्डव्यः मण्डुः । तथा एव भार्गवः भृगुः ।

शेषार्काः । निर्दिष्टेभ्यः ये अन्ये ते शेषाः, ते च शनिगुरुभौमाः । तेषाम् शेषाणाम् । अर्कस्य इमे आर्काः । के? भगणाः । शेषाणाम् आर्काः, शेषार्काः । "ख्युघृ"तुल्याः एव उच्चभगणाः शनिगुरुभौमानाम् । यतः सूर्यादयः विग्रहवन्तः परिभ्रमन्तः राशिषु उपलक्ष्यन्ते, तेन तेषाम् भगणाः कीर्त्यन्ते । एते पुनर् शश्युच्चादयः न एव लक्ष्यन्ते॑ तेषाम् कथम् भगणाः भवन्ति, अलक्ष्यमाणत्वात् इति? अत्र उच्यते -- अत्र चन्द्रादीनाम् एव [स्वोच्चस्थितानाम्
भगणाः] । अथवा स्फुटग्रहगतिः अत्र साध्यते । तस्याः साधनोपायाः मध्यमः, शीघ्रः, मन्दः, परिधयः, ज्या इति आदयः । सा च स्फुटा ग्रहगतिः एतैः उपायैः साधयितुम् शक्यते, न अन्यथा । यथा प्रकृतिप्रत्ययलोपागमवर्णविकारादिभिः उपायैः साधुशब्दः साध्यते, एवम् अत्र अपि । तस्मात् उपायाः उपेयसाधकाः । तेषाम् न नियमः । उक्तम् च --

उपादायाः अपि ये हेयाः तान् उपायान् प्रचक्षते ।
उपायानाम् च नियमः न अवश्यम् अवतिष्ठते ॥
[वाक्यपदीयम्, २.३८]

इति । तस्मात् उपायमात्रत्वात् न दोषः ।

[ पातयुगभगणाः ]

अथ पातभगणप्रदर्शनार्थम् आह --

बुफिनच पातविलोमा

अधिकृतयुगभगणसंयोगात् युगपातविलोमभगणाः । बुफिनच रसाश्वियमदस्राग्नियमाः, अङ्कैः अपि २३२२२६॑ एते भगणाः । पातस्य विलोमा विपरीतगतिः प्रसिद्धा, तेन अत्र अनुलोमगतिजिज्ञासुभिः मण्डलात् विशोध्यते, तस्य पातस्य अनुलोमगतिः भवति । सा चन्द्रात् विशोध्यते । तस्मात् पातविशुद्धशेषात् चन्द्रमसः क्षेपः साध्यते । यदि एतावता प्रयोजनेन पातः मण्डलात् शोध्य अनुलोमः क्रियते अत्र, तर्हि महाप्रयासः - पातः मण्डलात् शोध्यः,
स चन्द्रात् इति । कथम् तर्हि? यः एव करणागतपातः चन्द्रमसि क्षिप्यते, विलोमत्वात् अपचयः क्षेपः इति । तस्मात् उत्तरः दक्षिणः वा विक्षेपः साध्यते । किम् अयम् चन्द्रमसः पातः उच्यते, ननु च सर्वेषाम् एव अयम् इति? नहि, पारिशेष्यात् चन्द्रस्य एव अयम् पातः, ग्रहाणाम् पाताः वक्ष्यन्ते, "नवराषह" [गीतिका॰, ८] इति । तस्मात् परिशिष्टः चन्द्रस्य एव अयम् । ननु सूर्यः अपि अन्यः अस्ति? तस्य विक्षेपाभावात् पाताभावः ।

[ भगणारम्भकालादिनिर्देशः ]

एते ग्रहोच्चपातभगणाः कस्मिन् काले, कस्मिन् देशे, कस्मात् ज्योतिश्चक्रप्रदेशात् प्रवृत्ताः इति एतत् न ज्ञायते । अतः तत्प्रदर्शनार्थम् आह --

बुधाह्नि अजार्कोदयात् च लङ्कायाम् ॥ ४ ॥

बुधाह्नि, अजार्कोदयात्, च, लङ्कायाम् ।

बुधस्य अहः बुधाहः, तस्मिन् बुधाह्नि । ननु च "राजाहस्सखिभ्यष्टच्" [अष्टाध्यायी, ५.४.१९] इति समासान्ते कृते बुधाहे इति भवितव्यम् । न एषः दोषः, समासान्तविधेः अनित्यत्वात् । अनित्यः समासान्तविधिः, कस्मिन् चित् भवति कस्मिन् चित् न भवति इति । तेन बुधाह्नि इति अपि भवति । बुधदिवसे बुधादिवारः अनन्तरकृतयुगप्रवृत्तौ । तेन बुधादिवारात् कृतयुगादि अहर् गणः गण्यते । अजार्कोदयात् अजः मेषः । अर्कस्य उदयः अर्कोदयः । अजः च अर्कोदयः
च अजार्कोदयः । "सर्वः द्वन्द्वः विभाषायाम् एकवत् भवति" [अष्टाध्यायी २.२.२९, पातञ्जलभाष्यम्] इति एकवत् भावः । तस्मात् अजार्कोदयात्, मेषादेः अर्कोदयात् च । मेषादेः भगणप्रदेशात् सूर्योदयात् च लङ्कायाम् एते ग्रहाः स्वान् स्वान् भगणान् भोक्तुम् आरब्धाः । मेषादेः यस्मात् एते प्रवृत्ताः तस्मात् एषु ग्रहेषु न क्षेपः न अपचयः । यस्मात् सूर्योदयात् तस्मात् अर्धरात्र्यादिषु कालविशेषेषु यथा इष्टम् स्वभोगैः सञ्चालनम्, यतः लङ्कायाम् ततः अन्येषु
देशेषु देशान्तररेखायाः पूर्वतः अपरतः व्यवस्थितेषु देशान्तरफलापचयः क्षेपः च । चकार एतान् एव अर्थान् समुच्चिनोति । बुधाह्नि अर्कोदयात् लङ्कायाम् इति । एवम् तृतीया गीतिः ॥ ४ ॥

[ अल्पमानम् तद्गतप्रमाणम् च ]

कल्पयुगमन्वन्तराणाम् गतागतप्रतिपादनाय आह --

काहः मनवः ढ मनुयु-
गाः श्ख गताः ते च मनुयुगाः छ्ना च ।
कल्पादेः युगपादाः
ग च गुरुदिवसात् च भारतात् पूर्वम् ॥ ५ ॥

काहः, मनवः, ढ इति अविभक्तिकः निर्देशः, मनुयुगाः, श्ख अयम् अपि अविभक्तिकः एव, गताः, ते, च अविभक्तिकः, मनुयुगाः, छ्ना [अविभक्तिकः], च, कल्पादेः, युगपादाः, ग अविभक्तिकः एव, च, गुरुदिवसात्, च, भारतात्, पूर्वम् ।

कः इति प्रजापतेः आख्यानम् । कस्य अहः काहः, ब्रह्मदिवसः इति अर्थः । तस्य काहस्य कियत् प्रमाणम् इति आह -- मनवः ढ । चतुर्दश मनवः काहस्य प्रमाणम् । ब्रह्मणः दिवसे चतुर्दश मनवः परिवर्तन्ते । एकैकस्य मनः कियत् कियत् अन्तरम् इति आह -- मनुयुगाः श्ख । द्वासप्ततियुगानि मनः मनोः अन्तरम् । अत्र कथम् उच्यते तद् द्वासप्ततियुगानि मनोः अन्तरम् इति । अन्ये पुनर् अन्यथा मन्यन्ते --

तद् एकसप्ततिगुणम् मन्वन्तरम् इह उच्यते ।

इति । एकसप्ततिः चतुर्युगानि मनोः अन्तरम् । अत्र कथम्? उच्यते -- ये एवम् मन्यन्ते तेषाम् पूर्वापरविरोधः । एकसप्ततिः चतुर्युगानि मनोः अन्तरम् इति उक्त्वा त एवम् पुनर् अपि आह --

सहस्रयुगपर्यन्तम् अहर् यत् ब्रह्मणः विदुः ।
रात्रिम् युगसहस्रान्ताम् ते अहोरात्रविदः जनाः ॥
[श्रीमद्भगवद्गीता, ८.१७॑ मनुस्मृतिः, १.७३]

इति । तत्र एकसप्ततिः चतुर्दशभिः गुणितानि न एव युगसहस्रम् भवति । तस्मात् उच्यते पूर्वापरविरोधः । यदि एकसप्ततिः मनोः अन्तरम्, कथम् चतुर्दशमन्वन्तराणि युगसहस्रम् भवति? अस्माकम् तु द्वासप्ततिः चतुर्युगानि मनोः अन्तरम् । अष्टोत्तरम् सहस्रम् ब्राह्मः दिवसः इति एतत् उपपन्नम् ।

तेषु मनुषु चतुर्दशसु कियन्तः मनवः व्यतिक्रान्ताः इति आह -- गताः ते च । गताः च-सङ्ख्या, षट् इति अर्थः । सप्तमस्य मनोः कियन्ति युगानि इति आह -- मनुयुगाः छ्ना । मनोः सप्तमस्य व्यतीतानि सप्तविंशतिः युगानि । अष्टाविंशतितमस्य युगस्य पादाः व्यतीताः ग त्रिसङ्ख्याः कृतत्रेताद्वापरसंज्ञिताः । च पादपूरणे । गुरुदिवसात् च भारतात् पूर्वम् । गुरोः दिवसः गुरुदिवसः, तस्मात् गुरुदिवसात्, भारतात् च पूर्वम् । गुरुदिवसेन उपलक्षितात्
भारतात् पूर्वम् इति सामान्येन अभिहितत्वात् कलियुगादेः पूर्वम् इति व्याख्येयम् । अन्यथा पूर्वशब्दात् अतिरिच्यते । एते मनवः, एतानि च युगानि, एते च युगपादाः व्यतिक्रान्ताः । चकार एतान् एव अर्थान् समुच्चिनोति ।

अत्र एतत् प्रष्टव्यम् -- किम् एतानि युगानि युगपादाः च तुल्यप्रमाणाः आहोस्वित् भिन्नप्रमाणाः इति? केचित् आहुः भिन्नप्रमाणाः इति । तद् यथा --

चत्वारि आहुः सहस्राणि [वर्षाणाम् यत् कृतम् युगम्] ।
तस्य तावत् शती सन्ध्या सन्ध्यांशः च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥
[मनुस्मृतिः, १.६९-७०]

अस्माकम् पुनः तत्र युगपादाः सर्वे एव तुल्यप्रमाणाः । अन्यथा अतीतानागतग्रहगतिपरिज्ञानम् एव न घटते । अयम् च युगादिगतनिर्देशः ग्रहगतिपरिज्ञानाय एव । तद् यथा -- षण्मनवः व्यतिक्रान्ताः इति । षण्णाम् च मनूनाम् व्यतीतानि युगानि द्व्यग्न्यब्धयः, ४३२ । एतानि च सप्तमस्य मनोः सप्तविंशतिः युगानि, तत्सहितानि नवेषु अब्धयः, ४५९ । एतानि व्यतीतयुगानि वर्षाणि क्रियन्ते । कथम्? ख्युघृ-सङ्ख्यानि वर्षाणि युगप्रमाणम् । तेन ख्युघृ-गुणानि
वर्षाणि, वस्वष्टाश्विवस्तुरन्ध्ररूपाणि अयुतगुणानि, १९८२८८०००० । एतानि च अष्टाविंशतितमयुगस्य पादत्रयस्य वर्षाणि कृताश्व्यग्नयः अयुतगुणाः ३२४००००, एतैः सहितानि अर्कर्तुवसुरन्ध्ररूपाणि अयुतगुणानि १९८६१२०००० एतावान् कालः कलियुगादौ ब्रह्मदिवस्य अतीतः । यावन्ति वर्षाणि अतीतानि कलियुगस्य तावन्ति अत्र प्रक्ष्प्य अहर्गणः क्रियते । अस्मिन् अहर्गणे गुरोः प्रभृति दिनवारः, कृतयुगाद्यहर्गणे बुधात्, कलियुगादेः शुक्रात् । "बुधाह्नि अजार्कोदयात् च
लङ्कायाम्" इति कृतयुगादौ बुधवासरोपदेशात् कल्पादेः गुरुः अभ्यूहितः, कलियुगादेः च भृगुः । एवम् कल्पाद्यहर्गुणे, कृतयुगाद्यहर्गणे वा क्रियमाणे न कस्यदित् क्षेपः ।

यदा पुनः कलियुगव्यतीतात् एव अहर्गणः क्रियते, तदा शश्युच्चस्य राशित्रयम् क्षेपः, पातस्य षड्राशयः । कथम्? [द्वाप]रान्ताहर्गणम् पातभगणैः शश्युच्चस्य भगणैः च पृथक् पृथक् संगुणय्य भूदिवसैः भागलब्धानि मण्डलानि, शेषे द्वादशगुणिते भूदिवसैः अपहृते षड्राशयः पातस्य, शश्युच्चस्य च त्रयः राशयः लभ्यन्ते । अथवा चतुर्भिः समैः युगपादैः पातभगणाः शश्युच्चभगणाः च लभ्यन्ते, तत् एतैः समैः त्रिभिः
युगपादैः कियन्तः इति भगणाः लभ्यन्ते । शेषे द्वादशगुणे [चतुर्विभक्ते राशयः] इति । एवम् इदम् चतुर्थम् गीतिकासूत्रम् ॥ ५ ॥

[ ग्रहाणाम् कक्ष्याप्रमाणानि ]

एते ग्रहाः भ्रमन्तः कियत्प्रमाणासु कक्ष्यासु भ्रमन्ति इति एतत् न ज्ञायते, तत्ज्ञानार्थम् आह --

शशिराशयः ठ चक्रम्,
ते अंशकलायोजनानि य-व-ञ-गुणाः ।
प्राणेन एति कलाम् भम्,
खयुगांशे ग्रहजवः, भवांशे अर्कः ॥ ६ ॥

[शशिराशयः, ठ अविभक्तिकः, चक्रम्, ते, अंशकलायोजनानि, य-व-ञ-गुणाः, प्राणेन, एति, कलाम्, भम्, खयुगांशे, ग्रहजवः, भवांशे, अर्कः ।]

शशिग्रहणात् अभिहिताः शशिभगणाः परिगृह्यन्ते । ते शशिभगणाः राशयः कर्तव्याः । कथम् इति आह -- ठ चक्रम्, द्वादशराशयः चक्रम् भवति इति । शशिभगणाः चक्रसंज्ञिताः द्वादशभिः गुण्यन्ते, ततः ते राशयः भवन्ति । ते राशयः अंशकलायोजनानि कर्तव्याः । कथम् इति आह -- ते अंशकलायोजनानि य-व-ञ-गुणाः । "य"गुणाः राशयः अंशाः, "व"गुणाः कलाः, "ञ"गुणाः योजनानि । एवम् इमानि आकाशकक्ष्यायोजनानि भवन्ति ।
व्योमाम्बरखरसाद्रीषुखयमाद्रिसागरादिवेदरवयः, अङ्कैः अपि १२४७४७२०५७६०००, आकाशकक्ष्या । यावन्तम् आकाशप्रदेशम् रवेः मयूखाः समन्तात् द्योतयन्ति तावान् प्रदेशः खगोलस्य परिधिः, खकक्ष्या । अन्यथा हि अपरिमितत्वात् आकाशस्य परिमाणाख्यानम् न उपपद्यते ।

चन्द्रमसः लिप्ता दशयोजनानि इति अतः अणुत्वात् चन्द्रभगणैः एव उपदिष्टा खकक्ष्या । अन्येषाम् भगणैः अपि एषा शक्यते एव । ननु तद् यथा -- रवेः युगभगणाः लिप्तीकृताः द्वयेकाग्निरामनवकाः दशलक्षाभ्यस्ताः, ते च अङ्कैः अपि ९३३१२०००००० । रवेः लिप्तायोजनानि रामाग्नीन्दवः, योजनाष्टादशसहस्त्रभागाः च रन्ध्रवस्वग्निरवयः, अङ्कैः अपि लिख्यन्ते
१३३
१२३८९
१८००० ।
एतैः योजनैः योजनभागैः च गुणिताः युगरविलिप्ताः खकक्ष्यायोजनानि भवन्ति । शनैः चरस्य अपि लिप्तायोजनानि खवेदरन्ध्राग्नयः, रूपाब्धिरसाङ्गरामांशाः खाकाशाष्टाद्रीन्दवः, अङ्कैः अपि
३९४०
१७८००
३६६४१ ।
एतैः युगशनैः चरलिप्ताः गुणिताः तानि एव खकक्ष्यायोजनानि भवन्ति । एवम् अन्यभगणेभ्यः अपि खकक्ष्यायोजनानि भवन्ति ।

प्राणेन एति कलाम् भम् । ननु च अत्र कक्ष्याः प्रक्रान्ताः, तासु प्रक्रान्तासु "प्राणेन एति कलाम् भम्" इति एतत् अप्राकरणिकम् । न एतत् अस्ति । एतानि सूत्राणि । सूत्रेषु च केचित् अर्थाः प्राकरणिकाः केचित् अप्राकरणिकाः, विचित्रत्वात् सूत्राणाम् । प्राणेन उच्छ्वासेन, एति गच्छति, कलाम् लिप्ताम्, भम् ज्योतिश्चक्रम् । प्रवहेण-आक्षिप्यमाणम् ज्योतिश्चक्रम् कलाम् एति उच्छ्वासतुल्येन कालेन । ज्योतिश्चक्रम् लिप्तानाम् खखषड्घनम्, तत् अहोरात्रेण पर्येति । अहोरात्रस्य
प्राणाः खखषड्घनतुल्याः । तेन कलाः च ज्योतिश्चक्रसम्बन्धाः प्राणाः च तुल्याः । तस्मात् छायाकरणादिषु प्राणेषु एव ज्यादिकम् कर्म प्रवर्तते । ज्योतिश्चक्राहोरात्रयोः आदिः रव्युदयात् इति कालक्रियापादे विस्तरेण व्याख्यास्यामः ।

ग्रहकक्ष्याप्रदर्शनार्थम् आह -- खयुगांशे ग्रहजवः । ख इति अनेन पूर्वनिर्दिष्टा खकक्ष्या परिगृह्यते । युगग्रहणेन युगसम्बन्धिनः ग्रहाणाम् भगणाः परिगृह्यन्ते । यदि खयुगांशे ग्रहजवः इति युगम् परिगृह्यते, एकत्वात् युगस्य एका एव सर्वेषाम् ग्रहाणाम् कक्ष्या स्यात् । खस्य युगांशः खयुगांशः । खकक्ष्यायाः स्वैः स्वैः युगभगणैः भागे हृते यत् लब्धम् तत् युगांशः । तस्मिन् युगांशे । ग्रहाणाम् जवः ग्रहजवः । जवः
वेगः गतिः इति अर्थान्तरम् । तावति परिधिप्रदेशे ग्रहाः परिभ्रमन्ति, स्वैः स्वैः गतिविशेषैः । खकक्ष्यायाम् स्वैः स्वैः युगभगणैः भागे हृते यथास्वम् ग्रहकक्ष्याः भवन्ति । [कथम्?] उच्यते -- त्रैराशिकगणितविशेषेण । "षष्ट्या सूर्याब्दानाम्" [कालक्रिया॰, १२] इति अत्र ख्युघृ-तुल्यैः अर्कवर्षैः खकक्ष्यातुल्यानि योजनानि सर्वे एव ग्रहाः पूरयन्ति इति वक्ष्यति । तेन यदि एतावद्भिः युगभगणैः इष्टग्रहस्य [= इष्टग्रहस्य युगभगणैः] खकक्ष्या
[लभ्यते], ततः एकेन भगणेन का इति स्वकक्ष्या लभ्यते ।

भवांशे अर्कः । भस्य वांशः भवांशः, नक्षत्रपरिधेः षष्ट्यंशः सूर्यकक्ष्या भवति । कथम् उच्यते नक्षत्रकक्ष्यायाः षष्टिभागः सूर्यकक्ष्या इति, नक्षत्रकक्ष्यायाः असिद्धत्वात्? न अत्र सूर्यकक्ष्या अभिधीयते । किम् तर्हि? नक्षत्रकक्ष्या । कथम्? या अत्र सूर्यकक्ष्या सा नक्षत्रकक्ष्यायाः षष्टिभागः । सूर्यकक्ष्या च "खयुगांशे ग्रहजवः" इति अनेन सिद्धा यदि नक्षत्रकक्ष्यायाः षष्टिभागः तदा सर्वा नक्षात्रकक्ष्या कियती भवति
इति षष्ट्या गुण्यते, तदा तस्याः नक्षत्रकक्ष्यायाः प्रमाणम् भवति । सा च वसुगगनाम्बरशून्यरसाश्विरामाद्रिशशिनः, अङ्कैः अपि १७३२६०००८ । विचित्रत्वात् गणितनिर्देशस्य क्वचित् राशिः सकलः अभिधीयते, क्वचित् राशेः एकदेशः । अत्र पुनः राशेः एकदेशेन षष्ट्यंशेन सकलः राशिः अभ्यूह्यते ।

इष्टग्रहकक्ष्याभिः इष्टग्रहयोजनकर्णाः आनीयन्ते । यदि --

चतुरधिकम् शतम् अष्टगुणम् द्वाषष्टिः तथा सहस्राणाम् ।
[गणितपादः, १०]

इति एतावता परिधिना अयुतप्रमाणविष्कम्भार्धम् लभ्यते, तदा इष्टकक्ष्यापरिधिना किम् इति तत्कक्ष्यायोजनविष्कम्भार्धम् लभ्यते । तद् एव योजनकर्णः स्वस्फुटजिज्ञांसुभिः स्फुटीक्रियते । यदि व्यासार्धलिप्ताभिः इयानिष्टयोजनकर्णः लभ्यते, तदा तेन अविशेषकर्णेन भूताराग्रहविवरेण कियान् योजनकर्णः इति स्फुटयोजनकर्णः लभ्यते । एवम् इदम् पञ्चमम् गीतिकासूत्रम् ॥ ६ ॥

[ भू-शशि-ग्रहाणाम् व्यासाः ]

योजनानि इति उक्तम् । तेषाम् योजनानाम् प्रमाणम् न ज्ञायते । तत्परिज्ञानार्थम् भूग्रहाणाम् व्यासप्रमाणप्रतिपादनार्थम् च आह --

नृषि योजनम्, ञिला भू-
व्यासः अर्केन्द्वोः घ्रिञा गिण, क मेरोः ।
भृगु-गुरु-बुध-शनि-भौमाः
शशि-ङ-ञ-ण-न-मांशकाः, समार्कसमाः ॥ ७ ॥

नृषि अविभक्तिकः, योजनम्, ञिला अविभक्तिकः, भूव्यासः, अर्केन्द्वोः, घ्बिञा गिण क इति एते अविभक्तिकाः निर्देशाः, मेरोः, भृगु-गुरु-बुध-शनि-भौमाः, शशि-ङ-ञ-ण-न-मांशकाः, समाः, अर्कसमाः ।

नृणाम् षि नृषि, अष्टौ पुरुषसहस्राणि । नृषिः एव योजनम् नृषि योजनम् । "पुरुषः धनुर्दण्डः नरः" इति पर्यायाः । एतत् उक्तम् भवति -- अष्टौ धनुस्सहस्राणि योजनम् । अनेन योजनप्रमाणेन ञिला भूव्यासः । "ञिला" इति पञ्चाशदुत्तरम् सहस्रम् । ञिला एव भूव्यासः ञिला भूव्यासः, "व्यासः विष्कम्भः विस्तरः" इति पर्यायाः ।

अन्ये पुनर् अन्यथा मन्यन्ते -- जम्बूद्वीपविष्कम्भः, ततः द्विगुणोत्तराः समुद्राः द्वीपाः च इति अनया प्रक्रियया द्विगुणश्रेढ्याः चतुर्दशगच्छायाः यत् सर्वधनम् तावत् प्रमाणम् तस्य इति । एतत् अपि च गोलपादे विस्तारेण विचार्य प्रत्याख्यास्यामः । अन्यत् च तत्र एव अक्षोन्नत्या भूपरिधियोजनानयनम् उपदेक्ष्यामः । अथ तु पुराणे गङ्गाद्वारकुमार्यन्तरालम् योजनसहस्रम् उच्यते । तत् च [न] प्रत्यक्षेण उपलभ्यते । तत् यथा -- लङ्कोज्जयिन्योः
अन्तरालम् योजनानाम् शतद्वयम् । लङ्कातः दूरत् उत्तरेण कुमारी । तथा च कुमार्युज्जयिन्योः अन्तरालम् न योजनशतद्वयम् अपि पूर्यते । उज्जयिन्याः गङ्गाद्वारम् न योजनशतमात्रम् अपि । एवम् गङ्गाद्वारकुमार्यन्तरालम् योजनशतत्रयम् अपि न पूर्यते, किम् उच्यते योजनसहस्रम् इति । अथ अन्ये मन्यन्ते विषयान्तरबहुत्वात् भुवः महत्त्वम् इति । यथा पारशव-कुलपर्वत-[कु]रु- प्रभृतयः देशाः योजनशतसङ्ख्यया श्रूयन्ते, तेन भुवः महत्त्वम्
इति । तत् च न, गोलाकारत्वात् भुवः । तत्पृष्ठपरिध्युपरिचक्रव्यवस्थिताः एते देशाः इति एतत् सर्वम् एव सम्भवति । अथवा तत्र अल्पप्रमाणानि योजनानि श्रूयन्ते, येन एकेन दिवसेन विंशतिमात्राणि योजनानि गच्छन्ति इति । तस्मात् एतावान् एव भूव्यासः ।

भूव्यासः गणितेन अपि आनेतुम् शक्यते । तत् यथा -- स्फुटतिथिः तावत् सूर्यग्रहणे पूर्वापरयोः कपालयोः परे [= परमे तिथौ] विज्ञायते एव । तत्र परायाम् [=अमायाम्] तिथौ उदयास्तमययोः चतस्रः नाडिकाः अपचीयन्ते उपचीयन्ते वा । तत्र काले दृग्ज्या व्यसार्धम्, आदित्यस्य [लम्बनम्] मध्यमगत्या तिस्रः लिप्ताः षट्पञ्चाशद्विलिप्ताः च [३ऽ ५६ऽऽ] । चन्द्रमसः अपि द्वापञ्चाशल्लिप्तिकाः सार्धाः [५२ऽ ३०ऽऽ] । उभयोः अपि सूर्याचन्द्रमसोः विपरीतकर्मणा
स्वाभिः स्वाभिः लम्बनलिप्ताभिः स्वयोजनकर्णावभ्यस्य, दृग्गतिज्यया व्यासार्धतुल्यया विभज्य, सूर्याचन्द्रमसोः भूव्यासार्धम् पृथक् पृथक् लभ्यते । तद्द्विगुणम् भूव्यासः । अतः सुष्ठु उक्तम् आचार्येण "ञिला भूव्यासः" इति ।

अर्कः च इन्दुः च अर्केन्दू, तयोः अर्केन्द्वोः, व्यासः इति अनुवर्तमानात्, घ्रिञा चतुश्चत्वारिंशच्छतानि दशोत्तराणि [४४९०] अर्कस्य व्यांसः । इन्दोः गिण शतत्रयम् पञ्चदशोत्तरम् [३१५] । सूर्याचन्द्रमसोः योजनव्यासौ एतौ । लिप्ताभिः व्यवहारः इति लिप्ताव्यासः क्रियते -- यदि स्वयोजनक्रणेन व्यासार्धलिप्ताः लभ्यन्ते तदा योजनव्यासैः कियन्तः इति लिप्ताव्यासलब्धिः, मध्यमयोजनकर्णेन मध्यमः, स्फुटेन स्फुटः । क मेरोः । मेरोः एकयोजनम् व्यासः
। एतत् अपि च "मेरुः योजनमात्रः" [गोलपादः, ११] इति अस्याम् कारिकायाम् वक्ष्यामः ।

भृगु-गुरु-बुध-शनि-भौमाः । भृगुः च गुरुः च बुधः च शनिः च भौमः च भृगुगुरुबुधशनिभौमाः । अत्र अपि षष्ट्या निर्देशः युक्तः, भृगुगुरुबुधशनिभौमानाम् व्यासः इति । न एतत् अस्ति । यदा व्यतिरेकः विवक्षितः तदा व्यतिरेकलक्षणा षष्ठी भवति । यदा पुनर् व्यतिरेकन् एव न विव्क्षितः तदा षष्ठी न उत्पद्यते । तत् यथा कश्चित् कञ्चन ब्रवीति "आदित्यस्य बिम्बम् पश" इति । तदाबिम्बव्यतिरेकेण आदित्यः, आदित्यव्यतिरेकण वा बिम्बम्
निर्दिष्टम् भवति । यदा पुनर् अव्यतिरेकविवक्षा तदा यत् एव बिम्बम् स एव आदित्यः ।

न ईक्षेत उद्यन्तम् आदित्यम् न अस्तम् यान्तम् कदाचन
[मनुसृतिः, ४.३७]

इति आदि । अत्र अपि अयम् एव । बिम्बाव्यतिरिक्ताः ग्रहाः निर्दिश्यन्ते । शशि-ङ-ञ-ण-न-म-अंशकाः । शशिव्यांसस्य अनन्तरोक्तस्य ङ-ञ-ण-न-मांशकाः, एते भृगु-गुरु-बुध-शनि-भौमाः । शशिव्यासस्य ङांशः भृगुः पञ्चभागः, ञांशः गुरुः दशभागः, णांशः बुधः पञ्चदशभागः, नांशः शनिः विंशतिभागः, मांशः भौमः पञ्चविंशतिभागः । एतानि चन्द्रकक्ष्याप्रमाणपरिमाणानि ग्रहाणाम् व्यासयोजनानि ।

अथ किम् इति स्वकक्ष्याप्रमाणसम्भवानि एव च योजनानि न उच्यन्ते? अयम् आचार्यस्य अभिप्रायः -- यदि ग्रहाणाम् स्वकक्ष्यानिष्पन्नानि व्यासयोजनानि अभिधीयन्ते तदा व्यासलिप्तानयने स्वकक्ष्योत्पन्नाः स्फुटयोजनकर्णाः भागहाराः स्युः, लम्बनदृक्क्षेपलिप्तानयने च । तथा ग्रहाणाम् मनाग् अपि लम्बनदृक्क्षेपलिप्ताः न स्युः । दृश्यन्ते च तेषाम् लम्बननतिविशेषाः । तदर्थम् अत्र भागहाराः प्रदर्श्यन्ते । कथम्? शशि-ङ-ञ-ण-न-म-अंशकाः
इति । शशिव्यासस्य योजनप्रमाणस्य लिप्तानयने शशियोजनकर्णः भागहारः । तेन स भागहारः पञ्चादिभिः गुण्यते । स तावत् छेदः शशिव्यासः शुक्रादिव्यासः भवति ।
शुक्रस्य
३१५
१७१८८५॑
गुरोः
३१५
३४३७७०॑
बुधस्य
३१५
५१५६५५॑
शनेः
३१५
६८७५४०॑
भूतनयस्य
३१५
८५९४२५॑
उपरिमांशः व्यासार्धेन गुणितः छेदेन विभक्तः लिप्तागतः ग्रहव्यासः भवति मध्यमः । स्फुटार्थम् पुनर् यथा -- स्वभूताराग्रहविवरेण छेदान् संगुणय्य व्यासार्धेन विभजेत्, स्फुटाः भवन्ति । ते एव ग्रहयोगेषु भूव्यासार्धगुणितस्य स्वदृग्गतेः स्वदृक्क्षेपस्य च भागहाराः, फलम् लम्बनावनतिलिप्ताः इति ।

चत्वारि मानानि वक्ष्यन्ते सौर-सावन-नाक्षत्र-चान्द्राणि । तत्र न ज्ञायते केन मानेन शास्त्रे अस्मिन् व्यवहारः कर्तव्यः इति अतः आह -- समार्कसमाः । समाः वर्षम्, समाः अस्मिन् शास्त्रे अर्कसमाः । अर्केण वर्षेण व्यवहर्तव्यम् अस्मिन् । अस्य एव निश्चयावगमनार्थम् वक्ष्यति "षष्ट्या सूर्याब्दानाम्" [कालक्रियापादः, १२] इति आदि । एवम् इदम् षष्ठम् गीतिकासूत्रम् ॥ ७ ॥

[ परमापक्रमः ग्रहविक्षेपाः च ]

एते ग्रहाः स्वकक्ष्यासु भ्रमन्तः विषुवते उत्तरेण दक्षिणेन च व्यावर्तमानाः लक्ष्यन्ते । तस्मात् तत्परिज्ञानार्थम् आह --

भापक्रमः ग्रहांशाः,
शशिविक्षेपः अपमण्डलात् झार्धम् ।
शनि-गुरु-कुज ख-क-ग-अर्धम्,
भृगु-बुध ख, स्चाङ्गुलः घहस्तः ना ॥ ८ ॥

भापक्रमः, ग्रहांशाः, शशिविक्षेपः, अपमण्डलात्, झार्धम्, शनि-गुरु-कुज, ख-क-ग-अर्धम्, भृगु-बुध, ख स्चाङ्गुलः, घतस्तः, ना ।

भ चतुर्विंशतिः । भ एव अपक्रमः भापक्रमः । प्राङ्मुख[गमनेन] यद्दक्षिणेन उत्तरेण वा समरेखातः अपगमनम् अपक्रमः । केषाम् अयम् अपक्रमः किमात्मकः वा चतुर्विंशतिः इति आह -- ग्रहांशाः । ग्रहाणाम् आदित्यादीनाम् एते अंशकाः रासेः त्रिंसद्भागाः । समरेखातः उत्तरेण चतुर्विंशतिभागान् ग्रहः अपक्रामति मेषवृषमिथुनेषु क्रमेण, तान् एव अपक्रमभागान् उत्क्रमेण कर्कटकसिंहकन्यासु निवर्तते॑ दक्षिणेन
तुलावृश्चिकधनुःषु [क्रमेण] तान् एव उत्क्रमेण मकरकुम्भमीनेषु इति ।

अत्र ग्रहग्रहणम् किम् अर्थम् क्रियते? ग्रहाणाम् सर्वेषाम् एव एते अपक्रमांशकाः यथा स्युः इति, अन्यथा हि केषाम् एव स्युः । न एतत् अस्ति । अत्र ग्रहाः प्रक्रान्ताः तेषाम् प्रकृतत्वात् ग्रहाणाम् एव एते अंशकाः न अन्येषाम् । अवश्यम् ग्रहग्रहणम् कर्तव्यम् । अपक्रममण्डलात् विक्षेपांशाः उच्यन्ते । अपक्रममण्डलात् झार्धम् चन्द्रः विक्षिपति तथा शनिगुरुकुजभृगुबुधाः स्वान् भागान् विक्षिपन्ति । यस्मात् चन्द्रादीनाम् अपक्रममण्डलात् विक्षेपभागाः
अभिधीयन्ते अतः चन्द्रादीनाम् एव केवलानाम् अपक्रमभागाः अपि स्युः न आदित्यस्य । ग्रहग्रहणे पुनः क्रियमाणे सर्वेषाम् एव अपक्रमभागाः सिद्ध्यन्ति इति ।

शशिविक्षेपः अपमण्डलात् झार्धम् । शशिनः विक्षेपः शशिविक्षेपः । सः अपमण्डलात् । अप-मण्डलम् अपक्रममण्डलम्, तस्मात् अपक्रममण्डलात्, उत्तरेण दक्षिणेन वा चन्द्रस्य विक्षेपः । विषुवन् मण्डलात् अपक्रमः उत्तरेण दक्षिणेन वा, अपक्रममण्डलम् [च], तस्मात् विक्षेपः उत्तरेण दक्षिणेन वा । झार्धम्, झकारेण नव, झस्य अर्धम् झार्धम्, अर्धोनपञ्चभागाः चन्द्रमसः विक्षेपः । तथा एव अपक्रममण्डलात् एव शेषाणाम्
अपि ग्रहाणाम् विक्षेपाः ।

शनि-गुरु-कुज ख-क-गार्धम् । शनिगुरुकुजानाम् यथासङ्ख्येन, शनेः ख, द्वौ [भागौ] विक्षेपः॑ गुरोः क, एकः भागः॑ कुजस्य गार्धम्, गकारेण त्रयः भागाः, गस्य अर्धम् गार्धम्, सार्धः अंशः । भृगु-बुध ख । भृगुबुधयोः ख-सङ्ख्या विक्षेपः द्वौ भागौ । अत्र "भृगुबुधशनीनाम् ख" इति उच्यमाने खकारग्रहणम् एकम् न कर्तव्यम् भवति, तत् किम् इति आचार्येण पृथक् पाठेन द्विः खकारग्रहणम् कृतम्? उच्यते -- पृथक्
पृथक् कर्मप्रदर्शनार्थम्॑ शनिगुरुकुजानाम् एकम् विक्षेपकर्म भृगुबुधयोः अन्यत्, तस्मात् एतत् कर्मद्वयम् इति पृथक् पृथक् पाठात् एव सिद्ध्यति ।

"नृषि योजनम्" इति अत्र पुरुषः एव केवलः अभिहितः । सः पुरुषः कत्यङ्गुलः, कतिहस्तः वा इति एतत् न उपदिष्टम् । तदर्थम् आह -- स्चाङ्गुलः । सकारेण नवतिः, चकारेण षट्, स्चाङ्गुलः षण्णवत्यङ्गुलः । अङ्गुलस्य प्रमाणम् गणितपरिभाषातः प्रतिपत्तव्यम् -- अष्टौ यवमध्यान्यङ्गुलप्रमाणम् इति आदि । घहस्तः चतुर्हस्तः । ना पुरुषः । ननु च "नृषियोजनम्" इति अत्र एव एतत् वक्तुम् युक्तम् । एवम् मन्यन्ते । यथा इष्टग्रहयोगेषु अन्तरम्
विक्षेपलिप्ताः लभ्यन्ते । अङ्गुलानि हस्तान् च कृत्वा ग्रहयोः अन्तरम् अवधार्यम् इति । एवम् अपि विज्ञायते एव कियतीभिः लिप्ताभिः अङ्गुलम् भवति इति । अत्र स्वधिया प्रतिदिनग्रहचारगणितनिपुणतया अभ्यूह्यम् । उद्देशतः तु स्वधिया उपलक्षितम् उच्यते --

योगे पादाङ्गुलम् लिप्ता यथा वा लक्ष्यते दृशा ।
[महाभास्करीयम्, ६.५५]

इति । एवम् इदम् सप्तमम् गीतिकासूत्रम् ॥ ८ ॥


[ ग्रहोच्चपातस्थानानि ]

चन्द्रपातात् प्रवृत्तस्य चन्द्रमसोः विक्षेपः साध्यते । अनिर्दिष्टत्वात् पातस्य, ग्रहाणाम् पुनः कस्मात् प्रभृति विक्षेपाः साध्यन्ते एव इति एतत् न ज्ञायते । अतः तेशाम् पातभागानाम् मन्दोच्चभागानाम् च प्रतिपादनाय आह --

बुध-भृगु-कुज-गुरु-शनि न-व-
रा-ष-ह गत्वा अंशकान् प्रथमपाताः ।
सवितुः अमीषाम् च तथा
द्वा-ञखि-सा-ह्दा-ह्ल्य-खिच्य मन्दोच्चम् ॥ ९ ॥

बुध-भृगु-कुज-गुरु-शनि अविभक्तिकः निर्देशः, न-व-रा-ष-ह अयम् अपि अविभक्तिकः, गत्वा, अंशकान्, प्रथमपाताः, सवितुः, अमीषाम्, च, तथा, द्वा ञखि सा ह्दा ह्ल्य खिच्य एतानि अपि द्वादीनि अविभक्तिकानि, मन्दोच्चम् ।

बुध-भृगु-कुज-गुरु[-शनि] अविभक्तिकम् एतत् ग्रहणकवाक्यम् । सूत्राणाम् सोपसंस्कारत्वात् संस्कारम् अपेक्षते । कः अस्य संस्कारः? प्रक्रान्तद्योतिकया विभक्त्या संयोगः, बुध-भृगु-कुज-गुरु-शनीनाम् इति । एतेषाम् बुधादीनाम् "ना"दयः अंशाः । यथासङ्ख्येन बुधस्य न विंशतिः, भृगोः व षष्टिः, कुजस्य रा चत्वारिंशत्, गुरोः ष अशीतिः, शनेः ह शतम् । एतान् अंशकान् गत्वा, एतेषाम् बुध-भृगु-कुज-गुरु-शनीनाम् प्रथमपाताः व्यवस्थिताः
इति । प्रथमपातग्रहणम् द्वितीयपातनिराकरणार्थम् । यदि प्रथमपातग्रहणन् न क्रियते तदा सामान्येन द्वयोः अपि पातयोः ग्रहणम् स्यात् । तथा च विक्षेपादिग्रहणे निश्चयः न स्यात्, यस्मात् प्रथमपातात् उत्तरेण ग्रहाणाम् विक्षेपः भवति, द्वितीयात् पातात् दक्षिणेन । उक्तम् च --

प्रथमात् पातात् शशिनः अपमण्डलस्य उत्तरेण विक्षेपः ।
विक्षेपः दक्षिणतः पुनर् अपि पातात् द्वितीयात् च ॥

इति । एते एव पाताः षड्राशियुताः द्वितीयपाताः भवन्ति । अत्र "गत्वा अंशकान् प्रथमपाताः" इति उच्यते । यदि ग्रहपाताः चलन्ति तदा एवम् युक्तम् वक्तुम् -- एतान् अंशकान् गत्वा प्रथमपाताः व्यवस्थिताः इति । बाढम् चलन्ति एते ग्रहपाताः, अन्यथा हि अयम् निर्देशः एव न घ्हटते "गत्वा अंशकान्" इति । यदि एतेषाम् ग्रहपातानाम् [गतिः तर्हि] चन्द्रपातवत् युगभगणनिर्देशः किम् इति आचार्येण न क्रियते ? अन्यत् च, यदि एतेषाम् गतिः स्यात् ग्रहविक्षेपाः न स्फुटाः
भवेयुः । अत्यन्तसूक्ष्मा एषाम् गतिः, महता कालेन कियती उपचीयते, ततः स्तोकत्वात् अन्तरस्य विक्षेपाः स्फुटाः एव लक्ष्यन्ते । आचार्येण गतिमत्वम् पातानात् निर्देशता तेषाम् गतिः अपि निर्दिष्टा एव "यस्मात् इङ्गितेन, चेष्टितेन, निमिषितेन, महता वा सूत्रप्रबन्धेन च, आचार्याणाम् अभिप्रायः गम्यते" । तस्मात् अनेन एव सूत्रबन्धेन ग्रहपातानाम् गतिमत्वम् उपदिषता तेषाम् युगभगणान् मुक्तकात् एव निर्दिष्टवान्, अन्यथा हि तेषाम् गतिमत्वनिर्देशः अनर्थकः
स्यात् । सम्प्रदायाविच्छेदात् स्मरन्ति वृद्धाः तत् युगभगणम् । तत् यथा --

वस्वब्धियमाश्विखबाणाद्रीषुहुताशनः युगाब्दगणः ।
पातानाम् शतगुणितः मुक्तककथितम् किल आर्येण ॥
एकत्रिद्विचतुरिषून् क्रमशः भगणान् प्रयान्ति सर्वेषाम् ।
कल्पादेः गतकालात् गणनीयम् अतः गतिः तेषाम् ॥

तदानयनम् इदानीम् -- कल्पादेः अब्दनिरोधात् अयम् अब्दराशिः इति ईरितः खाग्न्यद्रिरामार्करसवसुरन्ध्रेन्दवः । ते च अङ्कैः अपि १९८६१२३७३० । अस्मिन् बुधादिपातभगणगुणिते स्वयुगविभक्ते भगणादयः पातभोगाः लभ्यन्ते । पातयुगप्रमाणम् सर्वेषाम् एव "खाकाशाष्टकृतद्विद्विव्योमेष्वद्रीषुवह्नयः" अङ्कैः अपि ३५७५०२२४८०० । एतैः युगवर्षैः बुधस्य पातः भगणम् एकम् भुङ्क्ते, शुक्रस्य त्रीणि, कुजस्य द्वौ, गुरोः चत्वारः, शनिपातः
पञ्च । एतेषाम् यथास्वम् लब्धाः पातभागाः यथापठिताः, एतत् एव गुरुशनैः चरयोः एका तत्परा [च] लभ्यते ।

अयम् अपरः प्रकारः -- बुध-भृगु-कुज-गुरु-शनि । प्रथमाबहुवचनसंस्कृतम् इदम् ग्रहणकवाक्यम् व्याख्यायते बुध-भृगु-कुज-गुरु-शनयः । न-व-रा-ष-ह इति एतान् अंशकान् मेषादिपरमाणोः प्रभृति गत्वा प्रथमपातेषु व्यवस्थिताः इति अर्थः । अत्र "तात्स्थ्यात् ताच्छाब्द्यम्", यथा "मञ्चाः क्रोशन्ति", मञ्चस्थेषु क्रोशत्सु मञ्चाः क्रोशन्ति इति उच्यते । एवम् अत्र अपि प्रथमपातव्यवस्थितान् एव ग्रहान् प्रथमपातः इति उक्तवान् । तदा तावन्तः
एव भागाः, न एते चलन्ति । यदि अपि कैश्चित् एषाम् गतिः उच्यते तथा अपि अस्माकम् नादरः, येन अतिमहता अपि कालेन मनाग् अपि अन्तरम् न भवति, यतः कलियुगान्ते शनैः चरपातस्य तिस्रः लिप्ताः, न किञ्चित् अन्तरम् । कलियुगे च परिसमाप्ते सर्वम् एव जगत् प्रलीयते, प्रलीने च जगति पुनर् अन्या सृष्टिः जायते, तत्र न जानीमः किम् भविष्यति इति । अथ च अन्तरे ने किञ्चित् अन्तरम्, न कश्चित् विशेषः । यत् अपि उक्तम् आचार्येण तत् शास्त्रभावप्रक्रियासम्प्रदायाविच्छेदप्रदर्शनार्थम्
। अन्यथा हि अनन्तत्वात् कालस्य गतिः एषाम् अल्पा अपि उपचीयमाना महती सञ्जायते । सा च अन्यथा न प्रतिपत्तुम् शक्यते इति पातयुगभगणनिर्देशः ।

सवितुः अमीषाम् च । सवितुः आदित्यस्य, अमीषाम् च ग्रहाणाम् बुधभृगुकुजगुरुशनीनाम् मन्दोच्चभागाः, केन एव प्रकारेण सवितुः द्वा अष्टसप्ततिभागाः, बुधस्य ञखि शतद्वयम् दशोत्तरम्, भृगोः सा नवतिः, कुजस्य ह्दा शतम् अष्टादशोत्तरम्, गुरोः ह्ल्य साशीतिकम् शतम्, शनेः खिच्य शतद्वयम् षट्त्रिंशदुत्तरम् मन्दोच्चम् । एते भागाः एषाम् ग्रहाणाम् पृथक् पृथक् मन्दोच्चम् । मन्दोच्चानाम् बहुत्वात् मन्दोच्चानि इति भवितव्यम् । न
एतत् अस्ति । सामान्योपक्रमः अत्र कृतः, यथा -- "रक्षोहागमलघ्वसन्देहाः प्रयोजनम्" [अष्टाध्यायी, १.१.१., पातञ्जलभाष्यम्] इति, एवम् अत्र अपि "द्वा ञखि सा ह्दा ह्ल्य खिच्य मन्दोच्चम्" ।

अत्र शीघ्रोच्चम् मन्दोच्चम् इति । यस्य शीघ्रा गतिः तत् शीघ्रोच्चम्, यस्य पुनर् गतिः एव न अस्ति तत् मन्दोच्चम् इति । कथम्? उच्यते । लोके -- "शीघ्रः देवदत्तः" यः हि क्षिप्रतरम् गच्छति स शीघ्रः, "मन्दः यज्ञदत्तः" इति यः हि मन्दतरम् गच्छति स मन्दः । एवम् अत्र अपि यस्य अतिशीघ्रगतिः ग्रहगतेः तत् शीघ्रोच्चम् । यस्य पुनर् ग्रहगतेः अल्पीयसी गतिः [तत् मन्दोच्चम्] । एवम् ग्रहाणाम् अपि युक्तम् एव एतत् ।

अथ किम् इति मन्दोच्चगतिः न अभिहिता? उच्यते -- सूक्ष्मत्वात् आचार्यस्य न अत्र आदरः, महता अपि कालेन न किञ्चित् एव अन्तरम् भवति । अपि च मुक्तकेन एव आचार्येण अभिहितम् इति सम्प्रदायाविच्छेदात् अवधार्यते । अथवा गत्वा अंशकान् सवित्रादीनाम् मन्दोच्चानि व्यवस्थितानि इति व्याख्यायते । अन्यथा हि "तथा"-शब्दः सार्थकः न स्यात् । यथा बुधादीनाम् प्रथमपाताः "ना"दीन् अंशकान् गत्वा व्यवस्थिताः, एवम् एतेषाम् सवित्रादीनाम् मन्दोच्चानि
"द्वा"दीन् अंशकान् गत्वा व्यवस्थितानि इति । तेषाम् च मन्दोच्चानाम् अत्यन्तसूक्ष्मत्वात् वर्षगणेन एव आचार्येण यत् आख्यातम् तत् एव अव्यवच्छिन्नसम्प्रदायप्रतिपत्त्या अभिधीयते । तत् यथा --

अष्टिकृताद्र्यष्टिनवाजैः उच्चयुगम् तिग्मदीधितेः उक्तम् ।
दशघनगुणितैः अब्दैः विश्वान् भुङ्क्ते क्रमात् भगणान् ॥
दन्ताष्टाब्ध्यग्निगुणाष्टरामयमलाः युगम् भवति अब्धाः ।
शतगुणिताः शशिजस्य प्राहुः भगणान् च सप्त एव ॥
व्योमाम्बरवेदकृतच्छिद्राब्धिकृताब्धिनन्दशैलाब्दाः ।
शुक्रस्य अर्धम् सूरेः भगणः भोगः तयोः एकः ॥
व्योमाम्बरशून्यकृताश्विरुद्रशरशैलवसुमुनीन्दुसमाः ।
असितोच्चयुगम् कौजम् द्विगुणन् भग[णा]नवेषवस्तु तयोः ॥
कल्पादिकालगणिता मन्दोच्चानाम् भवन्ति या गतयः ।
"गत्वा"शब्दात् एतत् व्याख्याता भास्करेण अत्र ॥

तत् यथा -- मन्दोच्चानयनम् प्रत्येतेषाम् कल्पादेः अब्दनिरोधात् गतकालः खाग्न्यद्रिरामार्करसवसुरन्ध्रेन्दवः, ते च १९८६१२३७३० । एतेषु वर्षेषु यथास्वम् मन्दोच्चभगणगुणितेषु स्वयुगाब्दविभक्तेषु रव्यादीनाम् मन्दोच्चानाम् राशिभागादयः लभ्यन्ते । एतेषाम् अपि कलियुगान्ते अपि अल्पम् अन्तरम्, यतः च शनैः चरस्य अपि सप्तमात्रा लिप्ता मन्दोच्चस्य उपचयः, न कश्चित् फलविशेषः । यथा अपि तु शास्त्रसम्प्रदायाविच्छित्तिकथने ग्रहपातेषु उक्तम्
तत् अत्र अपि अवधारणीयम् इति । एवम् इदम् अष्टमम् गीतिकासूत्रम् ॥ ६ ॥
[ ओजपदयोः मन्दशीघ्रपरिधयः ]

मन्दशीघ्रोच्चपरिधिप्रमाणप्रतिपादनाय आह --

झार्धानि मन्दवृत्तम्
शशिनः छ, ग-छ-घ-ढ-छ-झ यथा उक्तेभ्यः ।
झा-ग्ड-ग्ला-र्ध-द्ड तथा
शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ॥ १० ॥

झार्धानि, मन्दवृत्तम्, शशिनः, छ ग छ घ ढ छ झ एते छादयः अविभक्तिकनिर्देशाः, यथा उक्तेभ्यः, झा-ग्ड-ग्ला-र्ध-द्ड अविभक्तिकः निर्देशः, तथा शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ।

झार्धानि । झस्य अर्धानि झार्धानि । वक्ष्यमाणानि मन्दशीघ्रोच्चवृत्तानि झार्धप्रमाणानि प्रतिपत्तव्यानि । मन्दवृत्तम् इति एकवचननिर्देशः । "प्रत्येकम् वाक्यपरिसमाप्तिः" [अष्टाध्यायी, १.१.१, पातञ्जलभाष्यम्] इति अनेन न्यायेन मन्दवृत्तम् शशिनः छ, सप्त झार्धानि, सार्धैकत्रिंशत् भागाः॑ यथा उक्तेभ्यः मन्दोच्चभागविधानक्रमेण सवितृ-बुध-भृगु-कुज-गुरु-शनयः परिगृह्यन्ते । सवितुः ग, त्रीणि झार्धानि, सार्धत्रयोदशभागाः
। बुधस्य छ, सप्त झार्धानि, सार्धैकत्रिंशद्भागाः । भृगोः घ, चत्वारि झार्धानि, अष्टादशभागाः । कुजस्य ढ, चतुर्दश झार्धानि, त्रिषष्टिभागाः । गुरोः छ, सप्त झार्धानि, सार्धैकत्रिंशद्भागाः । शनेः झ, नव झार्धानि, सार्धचत्वारिंशद्भागाः । यथा उक्तेभ्यः यथा उक्तम् यथोक्तम्, तेभ्यः यथा उक्तेभ्यः । सवित्रादीनाम् च मन्दोच्चेभ्यः । ननु च अत्र सम्बन्धलक्षणया षष्ठ्या भवितव्यम्, यथा उक्तानाम् इति । न एतत् अस्ति । यथा उक्तेभ्यः
इति अनया पञ्चम्या मन्दोच्चविशुद्धेभ्यः राशिभ्यः मन्दोच्चात् अधिकेभ्यः राशिभ्यः वा राश्यादिभ्यः ज्याविभागेन एते परिधयः गुणकाराः । यथा उक्तेभ्यः इति अनेन एव वचनेन मन्दोच्चम् ग्रहमध्यात् पात्यते, परिशिष्टस्य ज्यासङ्कलनाय त्रैराशिकम् क्रियते । परिधिसंस्कारकरणम् च त्रैराशिकप्रसिद्ध्यर्थम् । यद्य् अस्य षष्टिशतत्रयपरिधेः इयम् ज्या ततः अभीष्टग्रहपरिधेः का ज्या लभ्यते । सा एव ज्या भुजाफलम् कोटिफलम् च इति अभिधीयते
। तत्र झार्धेन अपवर्त्य षष्टिशतत्रयपरिधिम् यथा उक्ताः च ग्रहपरिधयः झार्धापवर्तिताः । तेन गुणकारभागहारयोः झार्धापवर्तितयोः कर्मणि क्रियमाणे इष्टज्यायाः अशीतिः भागहारः यथोक्ताक्षरसङ्ख्यापरिधयः गुणकाराः ।

शीघ्रोच्चपरिधयः -- झा, नव झार्धानि, चत्वारिंशत् सार्धाः भागाः शनेः । ग्ड, षोडश झार्धानि, द्वासप्ततिभागाः गुरोः । ग्ला, त्रिपञ्चाशत् झार्धानि, शतद्वयम् अष्टत्रिंशदुत्तरम् सार्धम् भागानाम् कुजस्य । र्ध, एकोनषष्टिः झार्धानि, पञ्चषष्त्यधिकशतद्वयम् सार्धम् भागानाम् भृगोः । द्ड एकत्रिंशत् झार्धानि, एकोनचत्वारिंशदुत्तरम् शतम् सार्धम् भागानाम् बुधस्य । शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ।
शनि-गुरु-कुज-भृगु-बुधानाम् उच्चशीघ्राः तेभ्यः शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ।

शीघ्रोच्चेभ्यः इति वक्तव्ये उच्चशीघ्रेभ्यः इति विपरीतनिर्देशम् कुर्वन् आचार्यः ज्ञापयति -- शीघ्रोच्चात् ग्रहः शोध्यते इति । तस्मात् शुद्धशेषात् ज्या उत्पाद्यन्ते । ताभिः त्रैराशिकम् पूर्ववत् । पूर्वम् आचार्येण मन्दक्रमेण ग्रहाः निर्दिष्टाः । शशी सर्वेभ्यः शीघ्रः लक्ष्यते, तस्मात् मन्दः सविता, ततः मन्दः बुधः, तथा उत्तरम् भृगु-कुज-गुरु-शनयः । अयम् पुनर् शीघ्रक्रमः, शनि-गुरु-कुज-भृगु-बुधाः इति । एते शन्यादयः यथा उत्तरम्
शीघ्राः । एवम् इदम् नवमम् गीतिकासूत्रम् ॥ १० ॥

[ युग्मपदयोः मन्दशीघ्रपरिधयः ]

एतेभ्यः एव मन्दशीघ्रेभ्यः द्वितीयचतुर्थपदपरिधिप्रमाणपरिज्ञानाय आह --

मन्दात् ङ-ख-द-ज-डा
वक्रिणाम् द्वितीये पदे चतुर्थे च ।
जा-ण-क्ल-छ्ल-झ्न उच्चात्
शीघ्रात्, गियिङ्श कुवायुकक्ष्या अन्त्या ॥ ११ ॥

मन्दात्, ङ ख द ज डा इति एतानि अविभक्तिकानि, वक्रिणाम्, द्वितीये, पदे, चतुर्थे, च, जा ण क्ल छ्ल झ्न एतानि अविभक्तिकानि, उच्चात्, शीघ्रात्, गियिङ्श अविभक्तिकः, कुवायुकक्ष्या, अन्त्या ।

मन्दात् । तथा एव मन्दोच्चविशुद्धात् राश्यादिकात् उत्पन्नायाः ज्यायाः एते परिधिसंज्ञिताः गुणकाराः । तथा एव झार्धप्रमाणपरिमिताः -- बुधस्य ङ, पञ्च झार्धानि, द्वाविंशतिस्सार्धभागाः, भृगोः ख, द्वे झार्धे, नव भागाः । कुजस्य द, अष्टादश झार्धानि, एकाशीतिभागाः । गुरोः ज, अष्टौ झार्धानि, षट्त्रिंशद्भागाः । शनेः डा, त्रयोदश झार्धानि, अष्टपञ्चाशत् सार्धभागाः ।

वक्रिणाम् द्वितीये पदे चतुर्थे च । वक्रम् येषाम् ते वक्रिणः । वक्रिणः इति अनेन शशिसवित्रोः अग्रहणम्, येन तयोः वक्रा गतिः न अस्ति । वक्रिणः च बुध-भृगु-कुज-गुरु-शनयः । तेषाम् एते परिधयः । द्वितीये पदे चतुर्थे च । ये पूर्वाभिहिताः परिधयः ते उत्सर्गेण चतुर्षु पदेषु प्राप्ताः । तेषाम् द्वितीयचतुर्थयोः पदयोः एते परिधयः अपवादेन अभिधीयन्ते । द्वितीयचतुर्थपादव्यतिरेकेण पूर्वोक्तपरिधीनाम् विषयः । चकारः द्वितीयेषु
च चतुर्थेषु च इति एतत् अर्थम् समुच्चिनोति ।

अथवा -- वक्रिणाम् द्वितीये पदे । एते बुधादयः ग्रहाः द्वितीये पदे वक्रिणः भवन्ति । वक्राम् गतिम् चरन्ति इति अर्थः । ननु च मन्दग्रहणानन्तरम् द्वितीये पदे वक्रिणः इति उच्यन्ते, तेन मन्दोच्चस्य द्वितीयपदे वक्रपरिज्ञानम् प्राप्नोति, तत् च न इष्यते । न एतत् अस्ति । वक्रिणः द्वितीये पदे बुधादयः इति सामान्येन उच्यते । "सामान्यचोदनाः च विशेषे अवतिष्ठन्ते " इति विशेषे अवस्थाप्यते । कः च विशेषः ? शीघ्रोच्चद्वितीयपदे एतेषाम् बुधादीनाम्
वक्रपरिज्ञानम् इति अयम् विशेषः । उक्तम् च --

मन्दोच्चात् अनुलोमम् प्रतिलोमम् च एव शीघ्रोच्चात् ।
[गोल॰, १७]

इति । चतुर्हे च । एते परिधयः द्वितीये चतुर्थे च पदे गुणकाराः । द्वितीये एव पदे वक्रपरिज्ञानम् अन्यत्र अपि --

प्रथमे दृश्यविधानम् द्वितीयपदगाः तु वक्रगाः सर्वे ।
अनुवक्रगाः तृतीये पदे चतुर्थे अस्तम् उपयान्ति ॥ इति ।

जा ण क्ल छ्ल झ्न । शीघ्रोच्चात् द्वितीयचतुर्थयोः पदयोः परिधयः । शनेः जा, अष्टौ झार्धानि, षट्त्रिंशद्भागाः । गुरोः ण, पञ्चदश झार्धानि, सप्तषष्टिः सार्धभागाः । कुजस्य क्ल, एकपञ्चाशत् झार्धानि, अर्धोनकम् त्रिंशदुत्तरम् शतद्वयम् भागानाम् । भृगोः छ्ल, सप्तपञ्चाशज्झार्धानि, सार्धम् षट्पञ्चाशदुत्तरम् शतद्वयम् भागानाम् । बुधस्य झ्न, एकोनविंशज्झार्धानि त्रिंशदुत्तरम् शतम् सार्धम् भागानाम् ।

उच्चात् शीघ्रात् । अत्र अपि शीघ्रोच्चात् इति वक्तव्ये उच्चात् शीघ्रात् इति विपरीतग्रहणम् कुर्वन्नाच्चार्यः ज्ञापयति -- शीघ्रोच्चात् ग्रहः शोध्यते इति । पदचतुष्टयग्रहणात् च कर्मचतुष्टयम् -- प्रथमम् मन्दोच्चकर्म, तदनन्तरम् शीघ्रकर्म, पुनर् मन्दकर्म, तदनन्तरम् शीघ्रकर्म । ततः ग्रहस्फुटः लभ्यते । रविचन्द्रयोः एकपरिधिनिर्देशात् एकम् एव कर्म ।

अथ कश्चित् ज्यारहितम् कर्म कर्तुम् इच्छति, तदर्थम् आह -- गियिङ्श कुवायुकक्ष्यान्त्या । त्रयस्त्रिंशच्छतानि पञ्चसप्तत्यधिकानि [३३७५] कुवायुकक्ष्याप्रमाणम् । कुः भूः, कुवायुः भूसम्बन्धी वायुः, तस्य इयम् अन्त्या कक्ष्या । एतावतः वायुकक्ष्यापरिच्छिन्नाकाशप्रदेशात् परतः नियतः वायुः येन नियतगतिना प्रवहेण ज्योतिश्चक्रम् इदम् भ्राम्यते । कुवायुकक्ष्याप्रमाणपरिच्छिन्नात् आकाशप्रदेशात् आरादनियताः वायवः इतः ततः परिभ्रमन्ति
।

कुवायुकक्ष्यायाः ग्रहकर्म -- ये अभीष्टाः भागाः तान् चक्रार्धभागेभ्यः विशोध्य शेषम् तैः एव अभीष्टभागैः गुणितम् प्रतिराश्य एकम् कुवायुकक्ष्यायाः द्वादशगुणितायाः शोध्यते, ततः शेषस्य यः चतुर्थोंशः स भागहारः । यत् प्रतिराशितम् तत् अन्त्यफलेन गुणितम् भागहारेण विभजेत् । लब्धम् अभीष्टफलम् । उक्तम् च अस्माभिः कर्मनिबन्धे --

मख्यादिरहितम् कर्म कथ्यते तत्समासतः ।
चक्रार्धांशकससूहात् विशोध्याः ये भुजांशकाः ॥
तच्छेशगुणिताः द्विष्ठाः शोध्याः खखेषुखाब्धितः ।
शेषस्य चतुर्थांशेन द्विष्ठम् अन्त्यफलाहतम् ॥
बाहुकोट्योः फलम् कृत्स्नम् क्रमोत्क्रमगुणस्य वा ।
[ महाभास्करीयम्, ७.१७-१९ ]
इति दशमम् गीतिकासूत्रम् ॥ ११ ॥

[ चतुर्विंशतिज्यार्धानि ]

अत्र अशेषग्रहकर्म, तत् च ज्याप्रतिबन्धम् इति अतः ज्यादर्शनार्थम् आह --

मखि भखि फखि धखि णखि ञखि
ङखि हस्झ स्ककि किष्ग श्घकि किघ्व ।
घ्लकि किग्र हक्य धकि किच
स्ग झश ङ्व क्ल प्त फ छ कलार्धज्याः ॥ १२ ॥

"मखि"आदयः निगदेन एव व्याख्याताः । कलार्धज्याः । कलाः च ताः अर्धज्याः च कलार्धज्याः । एताः ज्याः लिप्ताप्रमाणपरिमिताः । अर्धज्याभिः यतः शास्त्रव्यवहारः तेन अर्धज्या एव उक्ता ॥ १२ ॥

[ दशगीतिकासूत्रपरिज्ञानफलम् ]

दशगीतिकासूत्रपरिज्ञानफलप्रदर्शनाय आह --

दशगीतिकसूत्रम् इदम्
भूग्रहचरितम् भपञ्जरे ज्ञात्वा ।
ग्रहभगणपरिभ्रमणम्
स याति भित्त्वा परम् ब्रह्म ॥ १३ ॥

अत्र परिभाषागीतिकाः दशगीतिकाः गृह्यन्ते । एतत् दशगीतिकसूत्रम् भूग्रहचरितम् । भुवि लोके । ग्रहाणाम् चरितनिबन्धनत्वात् एतत् एव दशगीतिकसूत्रम् ग्रहचरितम्, ग्रहचरितहेतुत्वात् वा यथासुखम् कृतम् इति । भुवि ग्रहचरितम् भूग्रहचरितम् । न अन्यलोके ग्रहचरितनिबन्धनम् अस्ति यतः दशगीतिकसूत्रम् तेन उच्यते भूग्रहचरितम् । भपञ्जरे ज्ञात्वा । भपञ्जरः गोलः, तस्मिन् गोले तत् ग्रहचरितम् ज्ञात्वा, अवगम्य, ग्रहाणाम् स्फुटगतेः प्रतिपत्तिहेतुः
यतः गोलः, एतत् ग्रहाणाम् भानाम् च परिभ्रमणमार्गम् भित्त्वा परम् ब्रह्म याति । यः गोले समग्रम् दशगीतिकसूत्रप्रतिबद्धम् ग्रहचरितम् जानाति स परम् ब्रह्म याति इति ॥ १३ ॥

दशगीतिकसूत्रर्था व्याख्याता भास्करेण मन्दधियाम् ।
प्रतिपत्तये प्रकामम् सर्वः हि समानभूतये यतते ॥

इति भास्करस्य कृतौ दशगीतिकासूत्रव्याख्या परिसमाप्ता ॥


गणितपादःसम्पाद्यताम्

[मङ्गलाचरणम् ]

यन्नामसंस्मरणमात्रभवाभवानि
श्रेयः ऽशुभानि विबुधासुरमानवानाम् ।
तस्मै सकृष्णकमलोद्भवमौलिघृष्ट-
पादारविन्दयुगलाय नमः शिवाय ॥ १ ॥

आचार्यार्यभटः तपोभिः अमलैः आराध्य पद्मोद्भवम्
यत् लेभे ग्रहचारसारविषयम् बीजम् महार्थम् स्फुटम् ।
तस्य अतीन्द्रियगोचरार्थनिपुणस्पष्टोरुसद्वस्तुनः
व्याख्यानम् गुरुपादलब्धम् अधुना किञ्चित् मया लिख्यते ॥ २ ॥

[ प्रतिपाद्यवस्तुनिर्देशः ]

अथ आचार्यार्यभटमुखारविन्दविनिस्सृतम् पदार्थत्रयम् -- गणितम्, कालक्रिया, गोलः इति यत् एतत् गणितम् तत् द्विविधम् चतुर्षु सन्निविष्टम् । वृद्धिः हि अपचयः च इति द्विविधम् । वृद्धिः संयोगः, अपचयः ह्रासः । एताभ्याम् भेदाभ्याम् अशेषगणितम् व्याप्तम् । आह च --

संयोगभेदा गुणनागतानि शुद्धेः च भागः गतमूलमुक्तम् ।
व्याप्तम् समीक्ष्य उपचयक्षयाभ्याम् विद्यात् इदम् द्व्यात्मकम् एव शास्त्रम् ॥

संयोगस्य वृद्धेः, भेदाः गुणनागतानि । तानि च -- असदृषयः राश्योः अभ्यासः गुणना, यथा चतुर्णाम् पञ्चानाम् च विंशतिः । गतम् सदृशाभ्यासः वर्गः घनः च । द्विगतम् वर्गः, यथा चतुर्णाम् चतुर्णाम् च षोडश । एवम् त्रिगतम् घनः, यथा चतुर्णाम् चतुर्णाम् चतुर्णाञ् च चतुष्षष्टिः । "शुद्धेः च" इति अत्र योगार्थम् चकारः पठ्यते । तेन श्रेढीकुट्टाकारादिषु लोके च अनियतस्वरूपवृद्धिः सा च परिगृहीता भवति । शुद्धेः च भागः
गतमूलमुक्तम् । शुद्धेः अपचयस्य भेदः भागः, गतानाम् मूलानि च । अत्र अपि श्रेढीकुट्टाकारादि[षु] लोके च अनियतस्वरूपः अपचयः चकारात् एव परिगृह्यते । एवम् शास्त्रे, लोके च न सः अस्ति गणितप्रकारः यः अयम् वृद्ध्यात्मकः अपचयात्मकः वा न भवति ।

यदि एवम् अत्र कथम् प्रक्रिया परिकल्पनीया? यत्र चतुर्भागः पञ्चभागेन गुणितः जातः विंशतिभागः । इयम् च गुणना संयोगस्य भेदः उच्यते । स च अयम् शुद्धेः भेदः आपतितः । यत्र चतुर्भागेन विंशतिभागस्य भागः, तत्र दृष्टः पञ्चभागः । एवम् अयम् शुद्धेः भेदः संयोगभेदः आपतितः । उभयत्र परिगारः उच्यते -- [ एकायाम् अविस्तारे चतुरश्रक्षेत्रे विंशत्यायातचतुरश्रक्षेत्राणि । ] तत्र एकस्य आयामः पञ्चभागः, विस्तारः
चतुर्भागः । तयोः अभ्यासः फलम् क्षेत्रस्य विंशतिभागः । विंशतिभागस्य चतुर्भागः पञ्चभागः इति न दोषः । एवम् क्षेत्रगणिते परिहारः । राशिगणिते परिहारार्थम् यत्नः करणीयः । अपरः आह -- "गणितम् राशिक्षेत्रम् द्विधा" । एवम् करणीपरिकर्म --

कर्णभुजयोः समत्वम् करोति यस्मात् ततः करणी ।

गणितम् द्विप्रकारम् -- राशिगणितम् क्षेत्रगणितम् । अनुपातकुट्टाकारादयः गणितविशेषाः राशिगणिते अभिहिताः, श्रेढीच्छायादयः क्षेत्रगणिते । तत् एवम् राश्याश्रितम् क्षेत्राश्रितम् वा अशेषम् गणितम् । यत् एतत् करणीपरिकर्म तत् क्षेत्रगणिते एव । यदि अपि अन्यत्रे करणीपरिकर्म, तथा अपि तस्य न कर्णबुजाकोटिप्रतिपादकत्वम् इति न दोषः । एतत् च करणीपरिकर्मत्वम् यत्कर्णादिप्रतिपादकत्वम् । चतुर्षु सन्निविष्टम्, चत्वारि बीजानि, तेषु सन्निविष्टाम्
। उक्तम् गणितम् । कालक्रियागोलौ तत्र तत्र एव उपदेक्ष्यामः ।
अत्र आचार्यार्यभटः शास्त्रम् आरभमाणः चेतसि इष्टदेवताप्रणामः हि भक्त्या प्रयुक्तः --

ब्रह्म-कु-शशि-बुध-भृगु-रवि-
कुज-गुरु-कोण-भगणान् नमस्कृत्य ।
आर्यभटः तु इह निगदति
कुसुमपुरे अभ्यर्चितम् ज्ञानम् ॥ १ ॥

ब्रह्मा अस्य इष्टदेवता । इष्टदेवताप्रणामः हि भक्त्या प्रयुक्तः स्वाभिः लाषतेष्टकार्यविघातिनः विघ्नान् विनिहन्ति । अथवा देवासुरमुकुटमणिमयूखमालालङ्कृतचरणत्वात् सर्वासाम् देवतानाम् प्रधानतमः ब्रह्मा, अतः तस्य आदौ नमस्क्रियाम् कृतवान् आचार्यः । अथवा आचार्येण स्वायंभुवसिद्धान्तसंक्षेपवस्तुरचना प्रस्तुता, स्वायंभुवसिद्धान्तस्य च विधाता भगवान् वेधाः, ततः अस्य युज्यते प्रथमम् प्रणामः तम् कर्तुम्
। अक्षदेशान्तरायत्ता ग्रहगतिः, तौ च अक्षदेशान्तरविशेषौ भूवशात् इति तत् अनन्तरम् नमस्कृतवान् भुवम् । शश्यादीन् उपरि उपरि अवस्थितान् तद्गतिनिबन्धनत्वात् शास्त्रस्य इति नमस्कृतवान् । ब्रह्मा च कुः च शशी च बुधः च भृगुः च रविः च कुजः च गुरुः च कोणः च भगणाः च ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भगणाः । अतः तान् ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भगणान्, नमस्कृत्य प्रणम्य इति अर्थः । भानि ज्योतींषि
अश्विन्यादीनि, तेषाम् गणः भगणः । यत् अत्र शश्यादीनाम् उपरि उपरि अवस्थाने वक्तव्यम् तत् कालक्रियापादे वक्ष्यामः । आर्यभटः इति स्वसंज्ञाभिधानेन अन्याः स्वायंभुवसिद्धान्तानुसारिण्यः कृतयः सन्ति इति एतत् प्रदर्शयति । तेन बहुत्वात् स्वायांभुवसिद्धान्तानुसारिणीनाम् कृतीनाम् केन इयम् कृतिः कृता इति न ज्ञायते । अतः स्वसंज्ञाभिधानम् । यथा "कौटिल्येन कृतम् शास्त्रम्" इति [अर्थशास्त्रम्, १.१.१९] । "तु"-शब्दः पादपूरणे । ["इह"-शब्दः] अस्य पुरम्
प्रदर्शयति । निगदति ब्रवीति । कुसुमपुरे अभ्यर्चितम् ज्ञानम् । कुसुमपुरम् पाटलिपुत्रम्, तत्र अभ्यर्चितम् ज्ञानम् निगदति । एवम् अनुश्रूयते -- अयम् किल स्वायंभुवसिद्धान्तः कुसुमपुरनिवासिभिः कृतिभिः पूजितः, सत्सु अपि पौलिश-रोमक-वासिष्ठ-सौर्येषु । तेन आह -- "कुसुमपुरे अभ्यर्चितम् ज्ञानम्" इति ॥ १ ॥

[ सङ्ख्यास्थाननिरूपणम् ]

सङ्ख्यास्थाननिरूपणार्थम् आह --

एकम् च दश च शतम् च
सहस्रम् तु अयुतनियुते तथा प्रयुतम् ।
कोट्यर्बुदम् च वृन्दम्
स्थानात् स्थानम् दशगुणम् स्यात् ॥ २ ॥

लघ्वर्थम् सङ्ख्यास्थानानि प्रक्रम्यन्ते । अन्यथा हि सङ्ख्यास्थान निरूपणाभावात् गुरुः गणितविधिः स्यात् । कथम्? रूपबहुत्वस्थापनायाम् रूपाणि बहूनि स्थापयितव्यानि भवन्ति । सत्याम् पुनः स्थानकल्पनायाम् यत् रूपैः बहुभिः निर्वर्त्यम् कर्म तत् एकेन एव निर्वर्तयितुम् शक्यते ।

एकम् च दश च शतम् च सहस्रम् । एतेषाम् एकदशशतसहस्राणाम् प्रथमद्वितीयतृतीयचतुर्थानि स्थानानि । तु पादपूरणे । अयुतनियुते अयुतम् च नियुतम् च अयुतनियुते । अयुतस्य पञ्चमम् स्थानम् । दशसहस्राणि अयुतम् । नियुतस्य षष्ठम् स्थानम् । नियुतम् लक्षः । तथा तेन एव प्रकारेण प्रयुतस्य सप्तमम् स्थानम् । दशलक्षाः प्रयुतम् । कोटिः, कोट्याः अष्टमम् स्थानम् । लक्षाः शतम्, कोटिः । अर्बुदम्, अर्बुदस्य नवमम् स्थानम् । दशकोट्यः
अर्बुदम् । वृन्दम्, वृन्दस्य दशमम् स्थानम् । कोटिशतम् वृन्दम् ।

स्थानात् स्थानम् दशगुणम् स्यात् । स्थानात् स्थानम् अन्यत् दशगुणम् स्वपरिकल्पितस्थानात् उत्तरम् स्थानम् दशगुणम् भवति इति यावत् । किम् अर्थम् इदम् उच्यते । ननु च एतानि स्थानानि अनन्तरापेक्षया दशगुणानि एव । यदि एभ्यः अन्यस्थानपरिग्रहार्थम् वचनम् तथा सति स्थानाभिधानम् अनर्थकम् । कुतः? स्थानात् स्थानम् दशगुणम् स्यात् इति अनेन एव अभिहिता, अभिहितस्थानपरिग्रहस्य सिद्धत्वात् । न एषः दोषः । स्थानात् स्थानम् दशगुणम्
स्यात् इति एतत् लक्षणम् । एकादीनि स्थानानि अस्य लक्षणस्य उदाहृतानि । न एतत् अस्ति । न हि सूत्रकाराः संक्षेपविवक्षवः लक्षणम् उदाहरणम् ब्रूयुः । न एवम् विज्ञायते । यदा लक्षणम् उदाहरणम् च निरर्थकम् तर्हि एकादिवृन्दानतायाः सङ्ख्यायाः संज्ञाः निरूप्यन्ते । स्थानात् स्थानम् दशगुणम् इति एकादिसंख्यायाः स्थाननिरूपणमात्रम् एव उपदिश्यते, उपयोगाभावात् न सङ्ख्यासंज्ञा ।

अत्र एतत् प्रष्टव्यम् -- का एषाम् स्थानानाम् शक्तिः, यत् एकम् रूपम् दश शतम् सहस्रम् च भवति । सत्याम् च एतस्याम् स्थानशक्तौ क्रायकाः विशेषेष्टक्रय्यभोजनाः स्युः । क्रय्यम् च विवक्षातः अल्पम् बहु च स्यात् । एवम् च सति लोकव्यवहारान् यथाभावप्रसङ्गः । न एषः दोषः । स्थाने व्यवस्थितानि र्तूपाणि दशादीनि कृतानि । किम् तर्हि तैः? तानि प्रतिपाद्यन्ते लेखागमन्यायेन । अथवा लघ्वर्थम् स्थानानि प्रक्रम्यन्ते इति उक्तम् अस्माभिः ।
न्यासः च स्थानानाम् --

० ० ० ० ० ० ० ० ० ०
॥ २ ॥

[ वर्गपरिकर्म ]

वर्गपरिकर्मप्रदर्शनाय आर्यापूर्वार्धम् आह --

वर्गः समचतुरश्रः फलम् च सदृशद्वयस्य संवर्गः ।

वर्गः करणी कृतिः वर्गणाः यावकरणम् इति पर्यायाः । समाश्चतस्रः अश्रयः यस्य सः अयम् [सम]चतुरश्रः क्षेत्रविशेषः, स वर्गः । समचतुरश्रक्षेत्रविशेषः संज्ञी, वर्गः संज्ञा । अत्र संज्ञिसंज्ञयोः अभेदेन उपचारेण उच्यते "वर्गः समचतुरश्रः" इति । यथा "मांसपिण्डः देवदत्तः" इति । अन्यथा अत्र यावान् समचतुरश्रक्षेत्रविशेषः तस्य सर्वस्य अनिष्टस्य अपि वर्गसंज्ञाप्रसङ्गः । क्व अन्यत्र अनिष्टस्य समचतुरश्रक्षेत्रविशेषस्य
वर्गसंज्ञाप्रसङ्गः? उच्यते -- असमकर्णस्य

परिलेखौ १ & २

समचतुरश्रक्षेत्रविशेषस्य अस्य (परिलेखः १) । द्विसमत्र्यश्रक्षेत्रस्य समुन्नतवदवस्थितस्य अस्य (परिलेखः २) ।

वर्गसंज्ञाप्रसङ्गे कः दोषः? उच्यते -- "फलम् च सदृशद्वयस्य संवर्गः" इति सदृशद्वयस्य संवर्गः फलम् प्राप्नोति, न च इष्यते एवम् । क्व तर्हि? कर्णग्रहणम् कर्तव्यम्॑ वर्गः समकर्णसमचतुरश्रक्षेत्रविशेषः इति । अथवा तुल्यसङ्ख्याभ्याम् कर्णाभ्याम् उपलक्षितस्य एव समचतुरश्रक्षेत्रविशेषस्य वर्गसंज्ञा जिज्ञास्यते । कुतः? न अनिष्टार्थत्वात् शस्त्रप्रवृत्तेः । अथवा न एव लोके एवम् आकारविशिष्टस्य समचतुरश्रक्षेत्रस्य समचतुरश्रसंज्ञा
सुसिद्धा । आयतचतुरश्रक्षेत्रादिषु वर्गकर्मणः अस्तित्वात् तेषाम् असमचतुरश्राणाम् अपि वर्गसंज्ञाप्रसङ्गः । न एषः दोषः । तेशु अपि यः वर्गः स समचतुरश्रक्षेत्रफलम् । तत् यथा -- समचतुरश्रक्षेत्रम् आलिख्य अष्टधा विभज्य त्रिकचतुष्कविस्तारायामानि चत्वारि आयतचतुरश्रक्षेत्राणि पञ्चकर्णानि परिकल्पयेत् । तत्र एवम् परिकल्पितचतुरश्रायतचतुरश्रक्षेत्रकर्णबाहुकम् समचतुरश्रम् क्षेत्रम् मध्ये अवतिष्ठते । यः तत्र
आयतचतुरश्रक्षेत्रकर्णायतवर्गः, स च अन्तःसमचतुरश्रक्षेत्रे फलम् । त्रिभुजे अपि एतत् एव दर्शनम्, अर्धायतचतुरश्रत्वात् त्रिभुजस्य । दुर्विदग्धप्रत्यायनाय च क्षेत्रम् आलिख्यते --

परिलेखः ३

अस्माद् यः यः वर्गः समचतुरश्रक्षेत्रविशेषः । एवम् फलम् च सदृशद्वयस्य संवर्गः । संवर्गः इति अस्य समचतुरश्रस्य क्षेत्रफलम् निरुच्यते । सदृशस्य द्वयम् सदृशद्वयम् । अथवा सदृशद्वयम् च तद्द्वयम् च समसदृशद्वयम् । सदृशद्वयस्य संवर्गः । संवर्गः घातः गुणना हतिरुद्धर्तना इति पर्यायाः । सदृशद्वयसंवर्गः फलम् तस्य समचतुरश्रस्य । सदृशद्वयसंवर्गः इति अत्र इष्टबाहुवचनम् कर्तव्यम् । अन्यथा हि
ययोः कयोश्चित् सदृशयोः संवर्गः फलम् प्राप्नोति । न एतत् अस्ति । नहि फलार्थी अन्यक्षेत्रम् उद्दिश्य अन्ययोः अभ्यासम् करोति । न हि ओदनार्थी पांसून् आदत्ते ।

उद्देशकः --

एकादिनवान्तानाम् वर्गाः ये तान् पृथक् पृथक् ब्रूहि ।
शतपादस्य च वर्गम् शतस्य तेन एव युक्तस्य ॥ १ ॥

न्यासः -- १, २, ३, ४, ५, ६, ७, ८, ९॑ शतपादः २५, शतम् अनेन युक्तम् १२५ ।

यथासङ्ख्येन एकादिनवान्तानाम् फलम् च "सदृशद्वयस्य संवर्गः" इति लब्धाः वर्गाः, न्यासः -- १, ४, ९, १६, २५, ३६, ४९, ६४, ८१ ।

एवम् एषाम् लक्षणानि सूत्राणि --

अन्त्यपदस्य च वर्गम् कृत्वा द्विगुणम् तत् एव च अन्त्यपदम् ।
शेषपदैः आहन्यात् उत्सार्य उत्सार्य वर्गविधौ ॥
इति, तैः एकादिनवान्तानाम् रूपाणाम् वर्गसङ्ख्या वक्तव्या । कुतः? अज्ञातायाम् वर्गसङ्ख्यायाम् यतः अन्त्यपदस्य वर्गसङ्ख्या न शक्यते न्यस्तुम् । अस्माकम् पुनः सर्वम् लक्षणेन एव संगृहीतम् ।

शतपादस्य वर्गः ६२५॑ शतस्य तेन एव युक्तस्य १५६२५ ।

भिन्नवर्गः अपि एवम् एव । किन्तु सदृशीकृतयोः छेदांशराश्योः पृथक् पृथक् वर्गम् कृत्वा छेदराशिवर्गेण अंशराशिवर्गस्य भागलब्धम् भिन्नवर्गः ।

उद्देशकः --
षण्णाम् सचतुर्थानाम् रूपस्य च पञ्चभागसहितस्य ।
रूपद्वितयस्य च मे ब्रूहि कृतिम् नवमहीनस्य ॥ २ ॥

न्यासः -- ६ १ २
१ १ १
४ ५ ९॰

करणम् -- "छेदगुणम् सांशम्" इति
२५
४ ।
एतयोः छेदांशयोः रास्योः पृथक् पृथक् वर्गराशी १६, ६२५. छेदराशिवर्गेण अंशराशिवर्गम् हृत्वा लब्धम्
३९
१
१६ ।
एवम् शेषयोः अपि यथासङ्ख्येन
१ ३
११ ४६
२५ ८१ ॥ २ ॥

[ घनपरिकर्म ]

घनपरिकर्मप्रदर्शनाय आर्यापरार्धम् आह --

सदृशत्रयसंवर्गः घनः तथा द्वादशाश्रितः स्यात् ॥ ३ ॥

[ सदृशत्रयस्य संवर्गः ] सदृशत्रयसंवर्गः । सदृशत्रयसंवर्गः घनः भवति । घनः वृन्दम् सदृशत्रयाभ्यासः इति पर्यायाः । स च द्वादशाश्रितः । द्वादश अश्रयः यस्य स अयम् द्वादशाश्रितः, स्यात् भवेत् । "तथा"शब्देन समचतुरश्रताम् घनस्य प्रतिपादयति । न एतत् अस्ति । अन्तरेण अपि "तथा"शब्दम् अस्य घनस्य समचतुरश्रता शक्यते एव प्रतिपत्तुम् । कुतः ? सदृशत्रयसंवर्गः इति अनेन समचतुरश्रक्षेत्रफलस्य तत्क्षेत्रवाहुसडृशम्
एव उच्छ्रायम् आचष्टे, यस्मात् क्षेत्रफलम् उच्छ्रायगुणितम् घनफलम् । अथवा "वर्गः समचतुरश्रः" इति अत्र अधिकृतम् समचतुरश्रग्रहणम् अनुवर्तते, अश्रयः यस्य मृदा अन्येन वा प्रदर्शयितव्याः ।

उद्देशकः --

एकादिनवान्तानाम् रूपाणाम् मे घनम् पृथक् ब्रूहि ।
अष्टाष्टाकवर्गघनम् शतपादकृतेः कृतेः च अपि ॥ ३ ॥

न्यासः -- १, २, ३, ४, ५, ६, ७, ८, ९॑ अष्टाष्टकवर्गः ४०९६॑ शतपादकृतेः कृतिः ३९०६२५ ।

एकादिनवान्तानाम् "सदृशत्रयसंवर्गः घनः" इति यथासङ्ख्येन लब्धाः घनाः १, ८, २७, ६४, १२५, २१६, ३४३, ५१२, ७२९ ।

अत्र अपि येषाम् "अन्त्यपदस्य घनम् स्यात्" इत्यादि लक्षणसूत्रम्, तेषाम् एकादीनाम् घनसङ्ख्या वक्तव्या । कुतः ? अनिर्ज्ञातायाम् घनसङ्ख्यायाम् यतः हि अन्त्यपदस्य घनसङ्ख्या न्यस्तुम् न शक्यते । अष्टाष्टकवर्गस्य [घनः] ६८७१९४७६७३६, शतपादस्य कृतेः कृतेः अपि ५९६०४६४४७७५३९०६२५ ।

भिन्नघनः अपि एवम् एव । उद्देशकः --

षट्पञ्चदशाष्टानाम् तावत् भागैः विहीनगणितानाम् ।
घनसङ्ख्याम् वद विशदम् यदि घनगणिते मतिविशदा ॥ ४ ॥

न्यासः -- ५ ४ ९ ७
५ ४ ९ ७
६ ५ १० ८

लब्धाः यथासङ्ख्येन घनाः --

१९८ ११० ९७० ४८८
१०७ ७४ २९९ १९१
२१६ १२५ १००० ५१२

[ वर्गमूलम् ]

वर्गमूलानयनाय आह --

भागम् हरेत् अवर्गात् नित्यम् द्विगुणेन वर्गमूलेन ।
वर्गात् वर्गे शुद्धे लब्धम् स्थानान्तरे मूलम् ॥ ४ ॥

भागः हृतिः भजनम् अपवर्तनम् इति पर्यायाः । तम् भागम्, हरेत् गृह्णीयात् । कस्मात् स्थानात् प्रभृति इति आह -- अवर्गात्, न वर्गः अवर्गः, तस्मात् अवर्गात् । अत्र गणिते विषमम् स्थानम् वर्गः । तस्य एव नञा विषमत्वे प्रतिषिद्धे अवर्गः इति समम् स्थानम्, यतः हि विषमम् समम् च स्थानम् । केन भागम् हरेत् इति आह -- नित्यम् द्विगुणेन वर्गमूलेन । द्वौ गुणः यस्य तत् द्विगुणम् । किम् तत् ? वर्गमूलम् । तेन द्विगुणेन वर्गमूलेन । कथम्
पुनर् तत् वर्गमूलम् लभ्यते इति आह -- वर्गात् वर्गे शुद्धे लब्धम् स्थानान्तरे मूलम् । वर्गात् विषमस्थानात्, शुद्धे वर्गे वर्गगणिते इति अर्थः, यत् अत्र लब्धम् तत् स्थानान्तरे मूलसंज्ञम् भवति । स्थानात् अन्यस्थानम् स्थानान्तरम्, तस्मिन् स्थानान्तरे तस्य लब्धस्य मूलसंज्ञा । यत्र पुनः स्थानान्तरम् एव न विद्यते, तत्र तस्य तत्र एव मूलसंज्ञा । कुतः ? स्थानान्तरस्य असम्भवात् । एतत् एव सूत्रम् पुनर् पुनर् आवर्तये यावत् परिसमाप्तम् गणितकर्म
इति ।

उद्देशकः --

एकादीनाम् मूलम् वर्गाणाम् पूर्वदृष्टसङ्ख्यानाम् ।
इच्छामि सखे ज्ञातुम् शरयमरसवर्गराशेः च ॥ १ ॥

न्यासः -- १, ४, ९, १६, २५, ३६, ४९, ६४, ८१, ६२५ ।

पृथक् पृथक् यथासङ्ख्येन वर्गमूलानि लब्धानि -- १, २, ३, ४, ५, ६, ७, ८, ९, २५ ।

भिन्नमूलानयने उद्देशकः --

षण्णाम् सचतुर्थानाम् त्रयोदशानाम् [स]चतुर्नवांशानाम् ।
विगणय्य वर्गमूले वद भटसङ्ख्यानुसारेण ॥ २ ॥

न्यासः -- ६ १३
१ ४
४ ९

करणम् -- छेदोपरिराश्योः अभ्यासम् कृत्वा अंशम् प्रक्षिपेत् । जातम्
२५ । १२१
४ । ९ ।

एतयोः अंशच्छेदराश्योः पृथक् पृथक् मूले
५ । ११
२ । ३ ।
छेदराशिमूलेन अंशराशिमूलस्य भागलब्धम् भिन्नवर्गमूलम्
२
१
२ ,
त्रयोदशानाम् सचतुर्नवांशानाम् च भिन्नवर्गमूलम्
३
२
३ ॥ ४ ॥

[ घनमूलम् ]

घनमूलानयनाय आह --

अघनात् भजेत् द्वितीयात्
त्रिगुणेन घनस्य मूलवर्गेण ।
वर्गः त्रिपूर्वगुणितः
शोध्यः प्रथमात् घनः च घनात् ॥ ५ ॥

न घनः अघनः, तस्मात् अघनात् । [भजेत्] भागम् हरेत्, भागम् गृह्णीयात् इति अर्थः । अघनस्थानस्य अनेकत्वात् आह -- द्वितीयात् । अत्र गणिते घनः एकः, द्वौ अघनौ । कुतः एतत् घनः एकः द्वौ अघनौ इति उच्यते -- "वर्गः त्रिपूर्वगुणितः शोध्यः प्रथमात् अघनात्" इति प्रथमाघनसिद्धिः, "अघनात् भजेत् द्वितीयात्" इति द्वितीयाघनसिद्धिः । घनः पुनर् एकः एव, द्वितीयस्य अश्रवणात् । अघनात् द्वितीयात् प्रभृति केन भागम् हरेत् इति आह -- त्रिगुणेन
घनस्य मूलवर्गेण । त्रयः गुणाः अस्य त्रिगुणः । कः ? घनस्य मूलवर्गः । तेन त्रिगुणेन घनस्य मूलवर्गेण । वर्गः त्रिपूर्वगुणितः सोध्यः प्रथमात् । वर्गः त्रिभिः पूर्वेण च राशिना गुणितः त्रिपूर्वगुणितः । कस्य वर्गः ? लब्धस्य इति वाक्यशेषः । शोध्यः । शोधयितव्यः । प्रथमात् अघनात् इति सम्बन्धनीयम् । घनः च घनात् । घनः च शोधयितव्यः । कुतः ? घनात् । घनस्थानात् । ततः घनमूलम् भवति इति अध्याहार्यम् । अत्र इदम् एव
घनराशिम् दृष्ट्वा घनः एकः द्वौ अघनौ इति विगणय्य यत्र घनः तस्मात् घनमूलम् पूर्वम् एव कुर्यात्, घनः च घनात् शोध्यः इति अनेन । ततः सर्वम् इदम् आर्यासूत्रम् उपस्थितम् भवति, "अघनात् भजेत् द्वितीयात्" इत्यादि ।

उद्देशकः --

एकादीनाम् मूलम् घनराशीनाम् पृथक् तु मे ब्रूहि ।
वस्वश्विमुनीन्दूनाम् घनमूलम् गण्यताम् आशु ॥ १ ॥

न्यासः -- १, ८, २७, ६४, १२५, २१६, ३४३, ५१२, ७२९, ९७२८.
लब्धम् घनमूलम् यथासङ्ख्येन १, २, ३, ४, ५, ६, ७, ८, ९, १२.

उद्देशकः --

कृतयमवसुरन्ध्ररसाब्धिरूपरन्ध्राश्विनागसङ्ख्यस्य ।
मूलम् घनस्य सम्यक् वद भटशास्त्रानुसारेण ॥ २ ॥

न्यासः -- ८२९१४६९८२४ । लब्धम् घनमूलम् २०२४ ।

एवम् एव भिन्नघनमूलानयने अपि उद्देशकः --

मूलम् त्रयोदशानाम् पञ्चघनांशैः त्रिशून्यरूपाख्यैः ।
अधिकानाम् भिन्नाख्यम् विगण्यताम् सङ्ख्यया सम्यक् ॥ ३ ॥

न्यासः --
१३
१०३
१२५ ।
लब्धम् घनमूलम्
२
२
५ ॥ ५ ॥

[त्रिभुजक्षेत्रफलम् ]

अथ त्रिभुजक्षेत्रफलानयनार्थम् आह --

त्रिभुजस्य फलशरीरम् समदलकोटीभुजार्धसंवर्गः ।

तिस्रः भुजाः यस्य क्षेत्रस्य तत् इदम् क्षेत्रम् त्रिभुजम् । भुजा बाहुः पार्श्वम् इति पर्यायाः । तत्र त्रीणि क्षेत्राणि सम-द्विसम-विषमाणि । "त्रिभुजस्य" इति त्रिभुजक्षेत्रजातिमङ्गीकृत्य एकवचननिर्देशः । तस्य त्रिभुजस्य । फलशरीरम् । फलस्य शरीरम् फलशरीरम्, फलप्रमाणम् इति अर्थः । समदलकोटीभुजार्धसंवर्गः । समदलकोटी, अवलम्बकः । अत्र केचित् -- समे दले यस्याः सा इयम् समदला, समदला च असौ कोटी च समदलकोटी इति वर्णयन्ति
। तेशाम् सम-द्विसमत्र्यश्रक्षेत्रयोः एव फलसिद्धिः, न विषमत्र्यश्रक्षेत्रस्य । अस्माकम् पुनर् समदलकोटी इति अनेन अवलम्बकव्युत्पत्त्या ब्रुवताम् त्रयाणाम् अपि फलानयनम् सिद्धम् । अथवा ये व्युत्पत्तिम् कुर्वन्ति तेषाम् अपि त्रयाणाम् त्र्यश्रक्षेत्राणाम् फलानयनम् सिद्धम् एव । कुतः ? "रूढेषु क्रिया व्युत्पत्तिकर्मार्था न अर्थक्रिया" इति । भुजायाः अर्धम् भुजार्धम् । अथ अत्र भुजाशब्देन भुजा बाहुः पार्श्वम् इति सामान्येन त्रयाणाम् पार्श्वानाम्
प्रतिपत्तौ प्रसक्तायाम् विशिष्टा एव भुजा परिगृह्यते, भुजासंज्ञिता । "सामान्यचोदनाः च विशेषे अवतिष्ठन्ते" इति । अत्र गणिते भुजाशब्दः औणादिकः प्रतिपत्तव्यः, अन्यथा हि "भुजान्युब्जौ पाण्युपतापयोः" [अष्टाध्यायी, ७.३.६१ ] इति भुजाशब्दस्य पाणावर्थे निपातितत्त्वात् क्षेत्रपार्श्वे न लभ्यते । तस्याः भुजायाः अर्धम् भुजार्धम् । समदलकोट्या भुजार्धस्य च संवर्गः समदलकोटीभुजार्धसंवर्गः, त्रिभुजस्य फलशरीरम् भवति ।

उद्देशकः --

सप्ताष्टनवभुजानाम् क्षेत्राणाम् यत् फलम् समानाम् तु ।
पञ्चश्रवणस्य सखे षड्भूसङ्ख्यद्वितुल्यस्य ॥ १ ॥

न्यासः --

परिलेखः ४

एतानि त्रीणि समानि ।
द्विसमस्य अपि न्यासः --

परिलेखः ५

करणम् -- "समत्र्यश्रिक्षेत्रे समा एव अवलम्बकस्थितिः" इति भूम्यर्धम् आबाधा
३
१
२ ।
"यः च एव भुजावर्गः कोटीवर्गः च कर्णवर्गः सः" [गणित॰, १७ ] इति भुजाकोट्योः वर्गौ कर्णवर्गः । तेन, भुजावर्गे कर्णवर्गात् शुद्धे शेषम् समदलकोटीवर्गः
३६
३
४,
समदलकोटी करण्यः
३६
३
४
इति । भुजार्धम् अपि करण्यः
१२
१
४ ।
तेन, करण्योः संवर्गः अस्ति इति लब्धम् क्षेत्रफलम् "समदलकोटीभुजार्धसंवर्गः" इति करण्यः
४५०
३
१६ ।
शेषयोः अपि समयोः एवम् एव यथासङ्ख्येन फलम् [करण्यः ७६८ ], करण्यः
१२३०
३
१६ ।

द्विसमत्र्यश्रिक्षेत्रस्य अपि "समा एव अवलम्बकस्थितिः" इति आबाधा ३, समदलकोटी पूर्वकरणेन एव ४, फलम् अपि तेन एव करणेन १२ ।

उद्देशकः --

कर्णौ द्वौ दश निर्दिष्टौ धात्री [च] तस्य षोडश प्रोक्ता ।
द्विसमस्य तस्य वाच्यम् फलसङ्ख्यानम् प्रयत्नेन ॥ २ ॥

न्यासः --

परिलेखः ६

लब्धम् पूर्वकरणेन फलम् ४८ ।

विषमत्रिभुजक्षेत्रेषु उद्देशकः --

कर्णः त्रयोदश स्यात् पञ्चदशान्यः मही द्विसप्ता एव ।
विषमत्रिभुजस्य सखे फलसङ्ख्या का भवेत् अस्य ॥ ३ ॥

न्यासः --

परिलेखः ७

करणम् -- भुजयोः वर्गविशेषः तयोः वा समासविशेषाभ्यासः त्रिभुजक्षेत्रे आबाधान्तरसमासविशेषाभ्यासः भवति । भूम्या आबाधान्तरसमासप्रमाणया विभज्य लब्धम् भूमौ एव संक्रमणम् । "अन्तरयुक्तम् हीनम् दलितम्" इति [गणित॰, २४ ] । अनेन क्रमेण आबाधान्तरप्रमाणे लभ्येते । ताभ्याम् आबाधान्तरप्रमाणाभ्याम् विषमत्रिभुजस्य समदलकोट्यानयनम् । तत् यथा -- भुजयोः वर्गराशी १६९, २२५ । एतयोः विशेषः ५६ । भुजयोः
एकीभावः २८, तयोः विशेषः २ । तयोः अभ्यासः इति [भुजयोः वर्गविशेषः] आबाधान्तरसमासप्रमाणया भूम्या १४, अनया हृते लब्धम् ४, अनेन भुवा सह संक्रमणम् "अन्तरयुक्तम् हीनम्" इति १८, १० । दलम् इति यथाक्रमेण आबाधान्तरे १, ५ । एताभ्याम् त्रिभुजक्षेत्रस्य अवलम्बकानयनम् -- पञ्चदशकेन कर्णेन नवप्रमाणेन च आबाधान्तरेण लब्धा समदलकोटी १२॑ त्रयोदशप्रमाणेन कर्णेन पञ्चप्रमाणेन च आबाधान्तरेण लब्धा सा एव समदलकोटी
१२ । फलम् "समदलकोटीभुजार्धसंवर्गः" इति भुजा भूमिः, तस्याः अर्धम् ७, समदलकोटीभुजार्धसंवर्गः इति फलम् आगतम् ८४ ।

उद्देशकः --

पञ्चाशत् सा एका भूः त्रिंशत् सप्ताधिका भवेत् कर्णः ।
विंशतिः अन्यः प्रोक्तः विषमत्रिभुजस्य किम् फलम् वाच्यम् ॥ ४ ॥

न्यासः --

परिलेखः ८

लब्धम् पूर्वकरणेन च आबाधान्तरे १६, ३५, समदलकोटी १२, फलम् २०६ ।

[शडश्रिघनफलम् ]

घनफलानयनार्थम् अस्य एव त्रिभुजक्षेत्रस्य आर्यापश्चार्धम् आह --

ऊर्ध्वभुजातत्संवर्गार्धम् स घनः षडश्रिः इति ॥ ६ ॥

ऊर्ध्वभुजा क्षेत्रमध्यः उच्छ्रायः, तत् इति क्षेत्रफलम्, ऊर्ध्वभुजायाः तस्य च संवर्गः ऊर्ध्वभुजातत्संवर्गः, तस्य अर्धम् ऊर्ध्वभुजातत्संवर्गार्धम् । स घनः घनफलम् इति यावत्, स च षडश्रिः । षडश्रयः यस्य सः षडश्रिः घनः । अथ निर्ज्ञाते ऊर्ध्वभुजाप्रमाणे घनफलम् ऊर्ध्वभुजातत्संवर्गार्धम् इति शक्यते वक्तुम्, न च अनिर्ज्ञाते । सत्यम् एव एतत् । किन्तु अत्र निर्ज्ञातम् एव ऊर्ध्वभुजाप्रमाणम् । कुतः ? शास्त्रे
तदानयनोपायप्रदर्शनात् । तत् यथा -- ऊर्ध्वभुजा हि नाम क्षेत्रमध्यः उच्छ्रायः इति प्रत्यक्षम् । स च तिर्यगवस्थितस्य शृङ्गाटकक्षेत्रबाहोः कर्णवदवस्थितस्य कोटिः, भुजाकर्णमूलक्षेत्रकेन्द्रान्तरालम् । तदानयने त्रैराशिकम् -- यदि त्रिभुजक्षेत्रावलम्बकेन त्रिभुजक्षेत्रबाहुः लभ्यते तदा तस्य एव त्रिभुजक्षेत्रबाहुदलसङ्ख्यकस्य अवलम्बकस्य कियान् बाहुः इति । एतत् कर्णभुजाकोटित्रैराशिकविधानम् प्रदेशान्तरप्रसिद्धम् एव इति न
अत्र अभिहितम् । स च प्रदेशः "यः च एव भुजावर्गः कोतीवर्गः च कर्णवर्गः सः" [गणित॰, १७] इति, "त्रैराशिकफलराशिम् तम् अथ इच्छाराशिना हतम्" [गणित॰, २६ ] इति च ।

उद्देशकः --

शृङ्गाटकघनगणितम् द्वादशगणिताश्रितस्य यत् च अस्य ।
ऊर्ध्वभुजापरिमाणम् स्फुटतरम् आचाक्ष्व मे शीघ्रम् ॥ १ ॥

न्यासः --

परिलेखः ९

करणम् -- यदि अष्टोत्तरशतकरणिकेन [अवलम्बकेन] चतुश्चत्वारिंशदुत्तरशतकरणिकः कर्णः लभ्यते, तदा षट्त्रिंशत्करणिकेन अवलम्बकेन कियान् कर्णः इति । त्रैराशिकोपपत्तिप्रदर्शनार्थम् क्षेत्रनयासः --

परिलेखः १०

त्रैराशिकन्यासः च १०८, १४४, ३६ । [ एताः करण्यः ]

लब्धः अन्तःकर्णः [करण्यः] ४८ । अयम् एव कर्णः ऊर्ध्वम् अवस्थितत्रिभुज[क्षेत्रस्य भुजा] । कर्णकृतेः भुजावर्गविशेषः ऊर्ध्वभुजावर्गः । स च १६ । तत्र ऊर्ध्वभुजा सूत्रकैः शलाकादिभिः वा प्रदर्शयितव्या । क्षेत्रफलम् [करण्यः] ३८८८. एतासाम् क्षेत्रफलकरणीनाम् ऊर्ध्वभुजाकरणीनाम् च संवर्गार्धम् घनः भवति । अर्धम् इति अत्र करणित्वात् द्वयोः करणीभिः चतुर्भिः भागः ह्रियते । लब्धम् घनफलम् करण्यः ९३३१२ ।

उद्देशकः --

अष्टादश कर्णानाम् सङ्ख्या शृङ्गाटकस्य निर्दिष्टा ।
ऊर्ध्वभुजागणिताग्रम् जिज्ञासुः अहम् सखे तस्य ॥ २ ॥

न्यासः --

परिलेखः ११

ऊर्ध्वभुजा पूर्वकरणेन एव करण्यः २१६ । फलम् अपि पूर्ववत् एव लब्धम् करण्यः १०६२८८२ ॥ ६ ॥

[ वृत्तक्षेत्रफलम् ]

अथ वृत्तक्षेत्रफलानयनार्थम् आह --

समपरिणाहस्य अर्धम् विष्कम्भार्धहतम् एव वृत्तफलम् ।

परिणाहः परिधिः । समः च असौ परिणाहः च समपरिणाहः, तस्य अर्धम् । अन्ये पुनर् अन्यथा विग्रहम् कुर्वन्ति -- समः परिणाहः यस्य क्षेत्रस्य तत् समपरिणाहम्, तस्य अर्धम् इति । तेषाम् क्षेत्रफलार्धस्य ग्रहणम् प्राप्नोति, अन्य-पादार्थेन समपरिणाहशब्देन क्षेत्राभिधानात् । विष्कम्भः व्यासः, तस्य अर्धम् विष्कम्भार्धम्, तेन हतम् विष्कम्भार्धहतम्, विष्कम्भार्धगुणितम् इति यावत् । एवकारकरणम् आर्यापूरणार्थम् प्रतिपत्तव्यम्
। अथवा एवकारकरणेन उपायनियमः क्रियते । समपरिणाहस्य अर्धम् विष्कम्भार्धहतम् एव वृत्तफलम्, न अन्यत् उपायान्तरम् इति । न, एतत् अस्ति, उपायान्तरश्रवणात् अन्यत्र "व्यासार्धकृतिः त्रिसङ्गुणा गणितम्" इति । न एतत् उपायान्तरम् सूक्ष्मम्, किन्तु व्यावहारिकम् इति । तस्मात् एकम् एव उपायान्तरम्, सूक्ष्मगणितानयनस्य न अन्यत् इति ।

उद्देशकः --

अष्टद्वादशषट्काः विष्कम्भाः तत्त्वतः मया दृष्टाः ।
तेषाम् समवृत्तानाम् परिधिफलम् मे पृथक् ब्रूहि ॥ १ ॥

न्यासः -- ८, १२, ६

परिलेखः १२

एतेषाम् त्रैराशिकेन वक्ष्यमाणविष्कम्भपरिधिप्रमाणफलाभ्याम् [गणित॰, १०] लब्धाः परिधयः यथाक्रमेण --
२५ ३७ १८
८३ ४३७ ५३१
६२५ ६२५ ६२५
फलानयने करणम् -- समपरिणाहस्य अर्धम् इति विष्कम्भार्धम् जातम् ४ । अनेन एव तत्समपरिणाहस्य अर्धम्
१२
३५४
६२५
गुणितम् वृत्तफलम् जातम्
५०
१६६
६२५
अनेन एव करणेन शेषयोः परिध्योः यथासङ्ख्येन फले --
११३ २८
६१ ३४३
६२५ १२५०

[गोलघनफलम्]
घनफलप्रदर्शनार्थम् आह --

तत् निजमूलेन हतम् घनगोलफलम् निरवशेषम् ॥ ७ ॥

तत् इति अनेन पूर्वार्धगणितनिष्पन्नम् वृत्तक्षेत्रस्य तत्फलम् परिगृह्यते । निजमूलम् आत्मनः मूलम् । यत् क्षेत्रफलम् तत् स्वकीयेन मूलेन गुणितम् इति यावत् । अथवा तत् क्षेत्रफलम्, निजम् अवितथम् आम्नायाविरुद्धम् इति अर्थः, मूलेन हतम्, अन्यस्य अश्रुतत्वात् स्वेन मूलेन तत्क्षेत्रफलम् गुणितम् । निजमूलेन हतम् निजमूलहतम् इति विग्रहः । तत् पुनर् क्षेत्रफलम् मूलक्रियमाणम् करणित्वम् प्रतिपद्यते, यस्मात् करणीनाम् मूल[म् अपेक्षितम्]
। ततः पुनर् अपि करणीनाम् अकरणीभिः संवर्गः न अस्ति इति क्षेत्रफलम् करण्यते । एवम् अयम् अर्थः अर्थात् अवसीयते क्षेत्रफलवर्गः क्षेत्रफलेन गुणितः इति । घनः च असौ गोलः च घनगोलः, गोलः वृत्तम्, घनगोलस्य फलम् घनगोलफलम् । निरवशेषम् । न किञ्चित् अनेन कर्मणा शिष्यते । येन अन्येन कर्मणा घनगोलफलम् आनयन्ति न तेन घनगोलफलम् निरवशेषम् भवति, व्यावहारिकत्वात् तस्य कर्मणः --
व्यासार्धघनम् भित्वा नवगुणितम् अयोगुडस्य घनगणितम् ।
इति ।

उद्देशकः --

द्वौ पञ्च तथा पङ्क्तिः व्यासाः ज्ञेयाः क्रमेण वृत्तानाम् ।
घनगोलफलानि एषाम् जिज्ञासुः अहम् समासेन ॥ १ ॥

न्यासः --

परिलेखः १३

एषाम् परिधयः त्रैराशिकेन एव लब्धाः यथासङ्ख्येन --
६ १५ ३१
१७७ १७७ ५२
६२५ २५० १२५

करणम् -- पूर्वाभिहितगणितकर्मणा [द्वि]विष्कम्भक्षेत्रस्य यत् फलम् आयातम्
३
१७७
१२५० तस्य मूलम् एतत् एव करणीगतम् अशुद्धकृतित्वात् प्रतिपत्तव्यम् । तत् च सवर्णितम् जातम्
३९२७
१२५०. एतत् क्षेत्रफलवर्गेण गुणितम् जातम् घनफलम् करण्यः ३१, करणीभागाः च
१२६८३९८३
१९५३१२५००० ।

एवम् शेषयोः अपि यथासङ्ख्येन घनफलकरण्यः करणीभागाः च --
७५६९४८४४७६
७५५८९८३ ५८९८३
८०००००० १२५०००

[समलम्बचतुर्भुजफलम्]

द्वि[सम-विषम]चतुरश्रादीनाम् अन्तःकर्णयोः च अत्र सम्पातप्रमाणफलपरिज्ञानाय आर्याम् आह --

आयामगुणे पार्श्वे तद्योगहृते स्वपातेलेखे ते ।
विस्तरयोगार्धगुणे ज्ञेयम् क्षेत्रफलम् आयामे ॥ ८ ॥

आयामः विस्तारः दैर्घ्यम् इति पर्यायाः । आयामः गुणः ययोः ते आयामगुणे । के ते ? पार्श्वे । भूः एकम् पार्श्वम् मुखम् इतरम् । आयामगुणे भूवदने इति अर्थः । तयोः योगः तद्योगः । कयोः ? पार्श्वयोः । तद्योगहृते । के ? आयामघ्ने पार्श्वे । स्वस्य पातः स्वपातः, स्वपातयोः लेखे स्वपातलेखे । द्वे अपि पृथक् पृथक् लब्धे इति वाक्यशेषः । स्वपातलेखा नाम अन्तःकर्णयोः संपातस्य भूमुखमध्यस्य च अन्तरालम् । विस्तरः क्षेत्रस्य पृथुत्वम्
। यदि एवम् विस्तारः इति प्राप्नोति "प्रथने वाक्यशब्दे" [अष्टाध्यायी, ३.३.३३] इति घञि कृते । ने एषः दोषः । अयम् अवस्त्रे स्तरशब्दः, तेन विशब्देन समासान्तः असौ "विविधस्तरः विस्तरः" इति । विस्तरयोः योगः विस्तरयोगः, भूवदनयोगः इति अर्थः । विस्तरयोगस्य अर्धम् विस्तरयोगार्धम्, विस्तरयोगार्धम् गुणः यस्य स विस्तरयोगार्धगुणः । कः ? आयामः । तस्मिन् विस्तरयोगार्धगुणे आयामे क्षेत्रफलम् ज्ञेयम् । विस्तरयोगार्धगुणः आयामः क्षेत्रफलम्
इति यावत् । सम्यक् अनादिष्टेन आलिखिते क्षेत्रे स्वपातलेखाप्रमाणम् त्रैराशिकगणितेन प्रतिपादयितव्यम् । तथा त्रैराशिकेन एव उभयपार्श्वे कर्णावलम्बकसम्पातानयनम् । पूर्वसूत्रेण अत्र द्विसमविषमत्र्यश्रक्षेत्रफलम् दर्शयितव्यम् । वक्ष्यमाणसूत्रेण अन्तरायतचतुरश्रक्षेत्रफलानयनम् अनेन वा अन्येषु अपि क्षेत्रेषु यानि तेषाम् अन्तर्वर्तीनि क्षेत्राणि तेषाम् कर्णावलम्बकादिसाधनम् तत् उपदिष्टलक्षणेन एव । न च तेषाम् अन्यत्र अवस्थानमात्रात्
एव अन्यत् करणम् स्यात् ।

उद्देशकः --

भूमिः चतुर्दश स्यात् वदनम् चत्वारि च एव रूपाणि ।
कर्णौ त्रयोदशाग्रौ संपाताग्रम् फलम् च वद ॥ १ ॥

न्यासः --

परिलेखः १४

करणम् -- मुखभूमिविशेषार्धम् भुजा [५] । तया भुजया पृथगुक्तगणितेन एव अवलम्बकसिद्धिः, स च १२ । अयम् एव अवलम्बकः आयामः । पृथक् पृथक् पार्श्वे अनेन गुणिते जाते ४८, १६८. पार्श्वयोः योगः १८. अनेन भागलब्धे स्वपातलेख

२९
२१
३३ विस्तरयोगार्धः १. अनेन आयामः गुणितः क्षेत्रफलम् १०८ ।

उद्देशकः --

विंशतिः एकाभ्यधिका पङ्क्तिः नव च एव कीर्तिता सङ्ख्या ।
धात्रीकर्णमुखानाम् गणितम् सम्पातलेखम् आचक्ष्व ॥ २ ॥

न्यासः --

परिलेखः १५

स्वपातलेखे पूर्वकरणेन
२ ५
२ ३
५ ५ ।
क्षेत्रफलम् १२० ।

उद्देशकः --

त्रिंशत् त्र्यधिका भूमिः सप्तदश अन्यानि कीर्तितानि अत्र ।
गणितम् तत्र कियत् स्यात् स्वपातलेखे च के स्याताम् ॥ ३ ॥

न्यासः --

परिलेखः १६

अस्य त्रिसमचतुरश्रस्य क्षेत्रस्य लब्धे स्वपातलेखे
५ ९
१ ९
१० १० ।
क्षेत्रफलम् ३७५ ।

विषमचतुरश्रक्षेत्रेषु फलमात्रम् एव उद्दिश्यते, न सम्पातलेखे, दुर्ज्ञातत्वात् अवलम्बकस्य । अन्यत् अपि च -- यत् अत्र विषमचतुरश्रम् क्षेत्रम् न तत् अन्यगणितक्षेत्रैः समानम् । तत् च --

पञ्चकृतिमुखेन युतम् षष्टिः वसुधाप्रमाणम् आख्यातम् ।
कर्णौ त्रयोदशमितौ चतुस्त्रिभिः ताडितौ क्रमशः ॥ ४ ॥

अस्य यौ अवलम्बकौ तौ न सदृशौ । अत्र च यत् उपदिश्यते तस्य यौ अवलम्बकौ तौ तुल्यसङ्ख्यौ । तेन गणितशास्त्रान्तरोपदिष्टविषमचतुरश्रक्षेत्रस्य अस्य च असादृश्यम् सति अपि च विषमत्वे ।

अथ यत् गणितशास्त्रान्तरोपदिष्टविषमचतुरश्रक्षेत्रम् यत् च इह उपदिश्यते तयोः द्वयोः अपि फलनिर्देशः अपि अनेन उपदेशेन शक्यते [कर्तुम्] । दुर्ज्ञातावलम्बकस्य किम् ? उच्यते -- विषमक्षेत्रेषु फलमात्रम् एव उद्दिश्य[ते], न सम्पातलेखे च इति । अथ चेत् परिज्ञातः अवलम्बकः भवति तदा फलम् च सम्पातलेखे च शक्यते विज्ञातुम् । कथम् ? पूर्वोपदिष्टगणितकर्मणा एव ।

उद्देशकः --

आयामः द्वादश प्रोक्तः भूमिः एकोनविंशतिः ।
मुखम् पञ्च समाख्यातम् कर्णौ तस्य अथ कीर्तितौ ॥
दश पञ्च-त्रिभिः च एव सम्युक्तानि पृथक् पृथक् ।
फलम् सम्पातलेखे च ज्ञातुम् इच्छामि तत्त्वतः ॥ ५ ॥

न्यासः --

परिलेखः १७

लब्धे सम्पातलेखे
२ ९
१ १
२ २ ।
क्षेत्रफलम् १४४ । एवम् अन्येषु अपि एवंविधेषु क्षेत्रेषु फलानयनम् सम्पातलेखानयनम् च ॥ ८ ॥

[क्षेत्रफलम् प्रत्ययकरणम् च ]

सर्वक्षेत्राणाम् फलप्रत्ययकरणार्थम् आह --

सर्वेषाम् क्षेत्राणाम् प्रसाध्य पार्श्वे फलम् तदभ्यासः ।

सर्वेषाम् क्षेत्राणाम् फलम् निर्देष्टव्यम् । कथम् ? प्रसाध्य पार्श्वे । "प्र"-शब्दः प्रकृष्टवाची, प्रकर्षेण पार्श्वे साधयित्वा इति । कः च तयोः प्रसाध्यमानयोः पार्श्वयोः प्रकर्षः ? उच्यते -- पार्श्वता । कः पुनर् अर्थः पार्श्वताशब्दस्य इति । उच्यते -- यदि सर्वक्षेत्रम् प्रसाध्यमानम्, [तदा "पार्श्वता"-शब्दास्य अर्थः] पार्श्वे एव भवति, आयतचतुरश्रम् एव इति यावत् । फलम् तदभ्यासः । तेषाम् सर्वक्षेत्राणाम् प्रत्याकलितपार्श्वायतचतुरश्राणाम्
फलम् तयोः पार्श्वयोः अभ्यासः, विस्तारायामाभ्यासः इति यावत् । "अभ्यासः गुणना संवर्गः" इति पर्यायाः ।

अथ सर्वशब्दस्य निरवशेषवाचित्वात् निरवशेषाणि एव क्षेत्राणि आक्षिप्यन्ते, तस्मात् सर्वक्षेत्राणाम् फलस्य अनेन एव सूत्रेण सिद्धत्वात् पूर्वाभिहितसूत्राभिधानम् अनर्थकम् । न अनर्थकम् । प्रत्ययकरणम् फलम् च अनेन उच्यते । अभिहितानाम् क्षेत्राणाम् फलस्य प्रत्ययकरणम्, यस्मात् गणितविदः मस्करि-पूरण-पूतनादयः सर्वेषाम् क्षेत्राणाम् फलम् आयतचतुरश्रक्षेत्रे प्रत्याययन्ति । उक्तम् च --

करणैः उक्तैः नित्यम् फलम् अनुगम्य आयते तु विज्ञेयम् ।
प्रत्ययकरणम् क्षेत्रे व्यक्तम् फलम् आयते यस्मात् ॥

अनभिहितानाम् क्षेत्राणाम् फलान् अयनम् अभीष्टक्षेत्रायतचतुरश्रीकरणेन एव ।

अथ कथम् एकेन एव यत्नेन फलानयनम् प्रत्ययकरणम् च प्रसाध्यते ? अथ इदम् प्रत्ययकरणार्थम् प्रकृतम्, स कथम् फलानयनाय भवति ? अथ फलानयनार्थम्, कथम् प्रत्ययकरणाय ? नेअ एषः दोषः । अन्यार्थम् प्रकृतम् अन्यार्थम् साधकम् दृष्टम् । तत् यथा -- "शाल्यर्थम् कुल्याः प्रणीयन्ते । ताभ्यः च पानीयम् पीयते, उपस्पृश्यते च ।" [ अष्टाध्यायी, १.१.२२, पातञ्जलभाष्यम् ] एवम् इह अपि । तत् यथा --

आयतचतुरश्रक्षेत्रफलानयन उद्देशकः --

अष्टौ पञ्च च पङ्क्तिविस्तारः दैर्घ्यम् अपि अमीषाम् यत् ।
अष्टिः द्वादश मनवः गणितम् कियत् आयतानाम् तु ॥ १ ॥

न्यासः --

परिलेखः १८

अष्टौ एकम् पार्श्वम् ॑ षोडश अन्यत् । तयोः पार्श्वयोः अभ्यासः, फलम् आगतम् १२८ । शेषयोः अपि एवम् एव ६०, १४० ।

पूर्वसूत्रनिष्पन्नक्षेत्रफलानाम् प्रत्ययकरणम् प्रदर्श्यते । तत् यथा --

त्रिचतुर्भुजवृत्तानाम् दृष्टानि फलानि यानि गणितेन ।
तेषाम् प्रत्ययकरणम् कथय कथम् भवति सर्वेषाम् ॥ २ ॥

अस्य समत्र्यश्रिक्षेत्रस्य पूर्वदृष्टस्य एव कथम् फलप्रत्ययकरणम् [इति] न्यासः --

परिलेखः १९

एतत् एव न्यस्तम् आयतचतुरश्रक्षेत्रम् जातम् --

परिलेखः २०

[ त्रिभुजस्य अवलम्बकः आयामः ] करण्यः
३६
३
४
[भूम्यर्धम् विस्तारः करण्यः
१२
१
४ ]
फलम् पार्श्वयोः अभ्यासः इति करण्यः
४५०
३
१६
पूर्वलिखिता [एव ] ।

एवम् एव [द्वि]समेषु, विषमेषु च । विषमाख्यस्य न्यासः --

परिलेखः २१

अस्य अपि अवलम्बकः आयामः १२, भूम्यर्धम् विस्तारः ७ ।

परिलेखः २२

अस्य अपि पूर्ववत् एव विस्तारायाम् अयोः संवर्गः फलम् ८४ ।

अथवा आयतचतुरश्रक्षेत्रयोः अर्धक्षेत्रफलसंयोगः अस्य फलम् । तयोः द्वयोः पञ्चविस्तारस्य द्वादशायाम् अस्य एकस्य, द्वितीयस्य अपि नवविस्तारस्य द्वादशायाम् अस्य अर्धक्षेत्रफलसंयोगः अस्य फलम् । तयोः द्वयोः पञ्चविस्तारस्य द्वादशायाम् अस्य एकस्य द्वितीयस्य अपि नवविस्तारस्य द्वादशायाम् अस्य न्यासः --

परिलेखः २३

द्वादशपञ्चकस्य फलम् विस्तारायामाभ्यासक्रमेण ६०, अस्य अर्धम् एव अस्मिन् विषमत्र्यश्रिक्षेत्रे इति ३०, नव[विस्तार]द्वादशायाम् अस्य फलम् १०८, अस्य अपि अर्धम् एव अस्मिन् अनुप्रविष्टम् इति ५४ ॑ एतयोः अर्धफलयोः योगः सा एव चतुरशीतिः ८४ ।

एवम् द्विसमत्रिसमविषमचतुरश्रेषु अपि फलम् प्रत्यायनीयम् । वृत्तक्षेत्रे विष्कम्भार्धम् विस्तारः, परिध्यर्धम् आयामः, तत् एव आयतचतुरश्रक्षेत्रम् । अनया दिशा प्रकीर्णक्षेत्रे फलम् स्वधिया अभ्यूह्यम् । तत् यथा --

मुखम् एकादश दृष्टम् प्रतिमुखम् अपि उच्यते तथा च नव ।
आयामः विंशतिकः फलम् अस्य कियत् भवेत् गणक ॥ ३ ॥

न्यासः --

परिलेखः २४

करणम् -- "प्रसाध्य पार्श्वे फलम् तदभ्यासः" इति विषमयोः पार्श्वयोः योगः २०, अस्य अर्धम् १०. [ आयामः २० ]. एते दशकविंशतिके पार्श्वे । एतयोः अभ्यासः क्षेत्रफलम् [ २०० ] ।

उद्देशकः --

अष्टाष्टौ पणवमुखे व्यासः द्वौ षोडश उच्यते दैर्घ्यम् ।
कियत् अस्य फलम् वाच्यम् पणवाकृतिसंस्थितस्य अस्य ॥ ४ ॥

न्यासः --

परिलेखः २५

करणम् -- मुखयोः समासः १६, अर्धम् ८. एतत् विस्तारेण २ युक्तम् १०. अस्य अर्धम् ५. एवम् "प्रसाध्य पार्श्वे फलम् तदभ्यासः" इति आगतम् फलम् ८० ।

उद्देशकः --

विस्तारः पञ्च उक्तः नवोदरम् पृष्ठम् अस्य पञ्चदश ।
करिदन्तक्षेत्रफलम् कियत्प्रमाणम् विनिर्देश्यम् ॥ ५ ॥

न्यासः --

परिलेखः २६

करणम् -- पृष्ठोदरसमासः २४. अर्धम् १२. एतत् विस्तारार्धगुणम् फलम् त्रिंशत् ३० ।

एवम् सर्वक्षेत्रेषु पार्श्वद्वयपरिकल्पनया फलम् निर्देष्टव्यम् ।

[ व्यासार्धतुल्यज्या ]

समवृत्तविष्कम्भार्धतुल्यज्याप्रदर्शनार्थम् आह --

परिधेः षड्भागज्या विष्कम्भार्धेन सा तुल्या ॥ ९ ॥

परिधिः परिणाहः वृत्तम् इति पर्यायाः । तस्य परिधेः षड्भागस्य या ज्या सा विष्कम्भार्धेन तुल्या । परिधेः षड्भागः राशिद्वयम् । राशिद्वयक्षेत्रावगाहिनी या ज्या सा परिधेः षड्भागस्य ज्या । तस्याः अर्धम् राशेः एकस्य अर्धज्या । एतत् च सर्वम् छेद्यके प्रतिपादनीयम् इति । अस्मिन् च विरचितमुखदेशसितवर्त्यङ्कुरकर्कटेन आलिखिते छेद्यके यत् षड्भागज्यायाः अर्धम् तत् राशेः अर्धज्या । तया अर्धज्यया निर्ज्ञातायाः अर्धज्यकोत्पत्तिम् वक्ष्यति
। एताम् एव षड्भागज्याम् प्रतिपादयिषता वृतक्षेत्रे षट् समत्र्यश्रिक्षेत्राणि प्रसङ्गेन प्रदर्शितानि । अत्र विष्कम्भार्धबाहूनि । षट् वा धनुःक्षेत्राणि विष्कम्भार्धज्याकानि । एवम् च षडश्रिक्षेत्रम् । प्रयोजनम् च अस्य षड्भागज्याप्रदर्शनस्य "समवृत्तपरिधिपादम् छिन्द्यात्" [ गणित॰, ११ ] इति अस्याम् कारिकायाम् वक्ष्यति ॥ ९ ॥

[ वृत्ते व्यासपरिधिसम्बन्धः ]

त्रैराशिकेन समवृत्तानयनार्थम् आह --

चतुरधिकम् शतम् अष्टगुणम् द्वाषष्टिः तथा सहस्राणाम् ।
अयुतद्वयविष्कम्भस्य आसन्नः वृत्तपरिणाहः ॥ १० ॥

चतुर्भिः अधिकम् चतुरधिकम् । किम् तत् ? शतम् । अष्टाभिः गुणितम् अष्टगुणम् । एतत् उक्तम् भवति -- अष्टौ शतानि द्वात्रिंशदुत्तराणि इति । सहस्राणि च द्वाषष्टिः । एतत् उभयम् एकत्र ६२८३२ । अयुतद्वयम् च विष्कम्भः च अयुतद्वयविष्कम्भः । अथवा अयुतद्वयसङ्ख्यः विष्कम्भः अयुतद्वयप्रमाणः वा अयुतद्वयविष्कम्भः । तस्य अयुतद्वयविष्कम्भस्य । स च २०००० । आसन्नः विकटः । कस्य आसन्नः ? सूक्ष्मस्य परिणाहस्य । कथम् विज्ञायते
सूक्ष्मस्य आसन्नः इति, न पुनर् व्यावहारिकस्य आसन्नः ॑ यावता श्रुतपरिकल्पना सूक्ष्मव्यावहारिकयायोः तुल्या । न एषः दोषः, सन्देहमात्रम् इदम् । सर्वसन्देहेषु वेदम् अवतिष्ठते "व्याख्यानतः विशेषप्रतिपत्तिः [ नहि सन्देहात् अलक्षणम् ]" [ अष्टाध्यायी, शिवसूत्रम् ६, पातञ्जलभाष्यम् ] इति । तस्मात् सूक्ष्मस्य आसन्नः इति व्याख्यास्यामः । अथवा आसन्नशब्देन तत्समीपवर्तिना अभिधीयते । तेन च तत् एव आसन्नशब्देन उच्यते । तर्हि किञ्चित् भिन्नम् । यदि
व्यावहारिकासन्नः व्यावहारिकात् अपि पापीयान् परिधिः, न कश्चित् पापतरम् प्रयासम् करोति, तेन सूक्ष्मासन्नः इति न्यायसिद्धम् । अथ आसन्नपरिधिः कस्मात् उच्यते, न पुनर् स्फुटपरिधिः एव उच्यते ? एवम् मन्यन्ते -- स उपायः एव न अस्ति येन सूक्ष्मपरिधिः आनीयते । ननु च अयम् अस्ति --

विक्खंभवग्गदसगुणकरणी वट्टस्स परिरओ होदि ।

[ विष्कम्भवर्गदशगुणकरणी वृत्तस्य परिणाहः भवति । ]

इति । अत्र अपि केवलः एव आगमः न एव उपपत्तिः । रूपविष्कम्भस्य दशकरण्यः परिधिः इति । अथ मन्यते प्रत्यक्षेण एव प्रमीयमाणः रूपविष्कम्भक्षेत्रस्य परिधिः दशकरण्यः इति । न एतत्, अपरिभाषितप्रमाणत्वात् करणीनाम् । एकत्रिविस्तारायाम् आयतचतुरश्रक्षेत्रकर्णेन दशकरणिकेन एव तद्विष्कम्भपरिधिः वेष्ट्यमाणः स तत्प्रमाणः भवति इति चेत् तत् अपि साध्यम् एव ।

अन्यत् च -- वृत्तक्षेत्रे चत्वारि धनुःक्षेत्राणि, एकम् आयतचतुरश्रक्षेत्रम् । तेषाम् फलसमासेन वृत्तक्षेत्रफलेन भवितव्यम् । तानि फलानि संयोज्यमानानि न वृत्तक्षेत्रफलतुल्यानि भवन्ति ।

तत्प्रतिपादनार्थम् उद्देशकः --

दशविष्कम्भक्षेत्रे पूर्वापरभागे एकरूपम् अवगाह्य ।
जीवा षड् दक्षिणोत्तरयोः अपि द्वे रूपे अवगाह्य अष्टौ ॥

तासाम् जीवानाम् आनयनोपायसूत्रम् गाथा --

ओगाहूणम् विक्खम्भम् एगाहेण संगुणम् कुर्यात् ।
चौगुणिअस्स तु मूऌअम् जीवा सव्वखत्ताणम् ॥
[ अवगाहोनम् विष्कम्भम् अवगाहेण सङ्गुणम् कुर्यात् ।
चतुर्गुणितस्य तु मूलम् सा जीवा सर्वक्षेत्राणाम् ॥ ]

धनुःक्षेत्रन्यासः च --

परिलेखः २७

धनुःक्षेत्रफलानयने सूत्रम् गाथा --

इसुपायगुणा जीवा दसिकरणि भवेत् विगणिय पदम् ।
धनुपट्ट अम्मिखत्ते एदम् करणम् तु णाअव्वम् ॥
[ इषुपादगुणा जीवा दशकरणीभिः भवेत् विगुण्य फलम् ।
धनुःपट्टे अस्मिन् क्षेत्रे एतत् करणम् तु ज्ञातव्यम् ॥ ]

अनया गाथया पूर्वापरधनुःक्षेत्रफले क॰
९०
४,
क॰
९०
४.
एते क्षेत्रफले करणिप्रक्षेपविधानेन प्रक्षेप्तव्ये । करणीप्रक्षेत्रपसूत्रम् गाथा --

औवट्टि अ दस्सकेण इ मूलसमासस्समोत्थवत् ।
ओवट्टणायगुणियम् करणिसमासम् तु णाअव्वम् ॥
[ अपवर्त्य च दशकेन हि मूलसमासः समोत्थम् यत् ।
अपवर्तनाङ्कगुणितम् करणिसमासम् तु ज्ञातव्यम् ॥ ]

तथाकृत्वा लब्धम् क॰ ९० । दक्षिणोत्तरधनुषोः अपि तथा एव फले क॰ १६०, क॰ १६० । [ समासः च क॰ ] ६४० । समस्तयोः पुनर् समासः क॰ १२१० । मध्यस्थायतचतुरश्रक्षेत्रफलम् करण्यः २३०४ । धनुःक्षेत्रफलसमासराशेः अस्य च करणीसमासक्रियया समस्यमाने राश्योः असंक्षेपता ।

पृष्ठानयनम् अपि च दशकरणीपरिधिप्रक्रियापरिकल्पनया सदा न [ भवति । यतः ] पृष्ठानयने सूत्रम् आर्यार्धम् --

ज्यापादशरार्धयुतिः स्वगुणा [ दशसङ्गुणा करण्यस्ताः ]

[अत्र उद्देशकः -- द्विपञ्चासत् विष्कम्भे द्विः अवगाह्य । ]

"ओगाहूणम् विक्खम्भम्" इति अनेन ज्या लब्धा विंशतिः [२०] । [ अनया ज्यया ] पृष्ठानयनम् -- ज्यापादः
[२०
४ = ] ५,
शरार्ध [१] युतिः ६, स्वगुणा ३६, दशसङ्गुणाः ३६०, एता करण्यः पृष्ठम् । सकलज्यावर्गः चत्वारि शतानि, पृष्ठम् करणीनाम् षष्टिशतत्रयम् इति, कथम् एतत् संघटते । ज्यायसा ज्यातः पृष्ठेन भवितव्यम् । तत् एतत् विचार्यमाणम् अत्यन्तसूक्ष्मवादिनाम् ज्यातः पृष्ठम् अल्पीयमानम् आपतितम् अतः अस्यै अविचारितमनोहरायै नमः अस्तु दशकरण्यै ।

अथ अपरः अपि उद्देशकः --

षड्विंशतिविष्कम्भक्षेत्रे एकम् अवगाह्य ।

पूर्वकरणेन एव ज्या दश १० । पूर्ववत् एव पृष्ठम् अस्याः नवतिः करणीनाम् ९० । ज्यावर्गः शतम् १०० ।

एवम् इदम् आलोच्यमानम् अत्यन्तस्थूलताम् आपन्नम् इति । तस्मात् स उपायः एव न अस्ति इति सूक्तम् ।

अथ एतौ महान्तौ राशी कस्मात् उच्येते, न पुनर् अपवर्तितौ एव उच्येते॑ आचार्यः च लाघविकः, न तस्य लाघविकस्य महाराश्यभिधानम् युज्यते । इदम् एकम् आचार्यस्य मृश्यताम् । अथवा अयुतद्वयविष्कम्भम् इति अल्पैः अक्षरैः उच्यते । न तथा अपवर्तितविष्कम्भाभिधाने अल्पाक्षरता । अथवा मन्यते -- महापरिधिविष्कम्भाभिधाने महाविष्कम्भासु ज्यासु अल्पपरिग्रहापचयेषु न फलविशेषः अल्पान्तरत्वात् इति, तथा च "मखि" आदिषु क्वचित्
असतः उपादानम् कृतम्, क्वचित् च सतः परित्यागः ।

परिणाहः परिधिः, वृत्तम् क्षेत्रम्, वृत्तस्य परिणाहः वृत्तपरिणाहः, वृत्तपरिधिः इति अर्थः । अनेन विष्कम्भे निर्ज्ञाते परिधिः आनीयते, परिधौ च निर्ज्ञाते विष्कम्भे इति । कथम् ? यदि अस्य विष्कम्भस्य अयम् परिधिः इच्छाविष्कम्भस्य कियान्, यदि अस्य परिधेः अयम् विष्कम्भः इच्छापरिधेः कियान् इति ।

उद्देशकः --

द्विचतुःसप्ताष्टानाम् व्यासानाम् यानि वृत्तगणितानि ।
सूक्ष्मासन्नानि सखे विगणय गणितानुसारेण ॥ १ ॥

क्षेत्रस्य न्यासः --

परिलेखः २८

लभ्दानि वृत्तानि यथाक्रमेण --

६ १२ २१ २५
१७७ ३५४ १२३९ ८३
६२५ ६२५ १२५० ६२५

परिधौ निर्ज्ञाते विष्कम्भानयने उद्देशकः --

नवनवयमरामाणाम् अष्टाभिः शरयमांशहीनानाम् ।
खखरसवृन्दस्य च मे व्यासौ आचक्ष्व विगणय्य ॥ २ ॥

न्यासः --

३२९९
८
२५ । २१६००

लब्धौ यथाक्रमेण व्यासौ १०५० । ६८७५
६२५
१३०९

[छेद्यकविधिना ज्या आनयनम् ]

अथ ज्यानयनार्थम् आह --
समवृत्तपरिधिपादम् छिन्द्यात् त्रिभुजात् चतुर्भुजात् च एव ।
समचापज्यार्धानि तु विष्कम्भार्धे यथा इष्टानि ॥ ११ ॥

समवृत्तम् परिधिः यस्य क्षेत्रस्य तत्क्षेत्रम् समवृत्तपरिधिः, तस्य पादः समवृत्तपरिधिपादः । सति एतस्मिन् व्याख्याने क्षेत्रफलस्य ग्रहणम् प्राप्नोति । आचार्यप्रभाकरेण अयम् एव विग्रहः प्रदर्शितः । स गुरुः इति कृत्वा अस्माभिः न उपालभ्यते । अन्यत् च -- काष्ठतुल्यज्याभिधानम् युक्तम् इति अशास्त्रज्ञः अपि जानाति इति तेन एव काष्ठतुल्यज्या प्रत्याख्याता । वयम् तु ब्रूमः -- अस्ति काष्ठतुल्यज्या इति । यदि काष्ठतुल्यज्या न स्यात् तदा समायामवनौ
व्यवस्थानम् एव अयोगुडस्य न स्यात् । तेन अनुमीमहे कश्चित् प्रदेशः सः अस्ति इति येन असौ अयोगुडः समायामवनौ अवतिष्ठते । स च प्रदेशः परिधेः षण्णवत्यंशः । काष्ठतुल्यज्या अन्यैः अपि आचार्यैः अभ्यवगता --

तत्परिधेः शतभागम् स्पृशति धराम् गोलकशरीरात् ।

इति । समवृत्तः अयम् परिधिः समवृत्तपरिधिः, समवृत्तपरिधेः पादः समवृत्तपरिधिपादः, तम् समवृत्तपरिधिपादम् छिन्द्यात् । ज्याविभागेन इति वाक्यशेषः । ज्याविभागेन समवृत्तपरिधौ खण्ड्यमाने त्रिभुजात् चतुर्भुजात् च क्षेत्रात् समचापज्यार्धानि निष्पद्यन्ते, न विषमचापज्यार्धानि । तानि विशिष्टानि एव परिगृह्यन्ते, द्विचतुरष्टषोडशद्वात्रिंशत् इति आदीनि द्विगुणोत्तराणि । "तु"-शब्दात् द्विचतुष्षडष्टदशद्वादशचतुर्दशादीनि च । विष्कम्भार्धे
त्रिभुजक्षेत्रम् उत्पद्यते । तस्मात् त्रिभुजात् चतुर्भुजात् च क्षेत्रज्यार्धानि निष्पद्यन्ते ।

कथम् पुनर् विष्कम्भार्धे त्रिभुजम् च चतुर्भुजक्षेत्रम् उत्पद्यते इति उच्यते -- यस्य व्यासार्धम् भुजा कर्णः वा भवति तद्व्यासार्धे निष्पन्नम् । अथवा विष्कम्भार्धे एव ज्यार्धानि निष्पद्यन्ते । विष्कम्भार्धावयवत्वात् न विष्कम्भार्धम् अतिरिच्य वर्तन्ते इति अर्थः । अथवा विष्कम्भार्धे सति ज्यार्धानि निष्पद्यन्ते । निर्ज्ञाते हि विष्कम्भार्धे शक्यते ज्या कल्पयितुम्, न अन्यथा । कथम् ? यस्मात् उक्तम् "परिधेः षड्भागज्या विष्कम्भार्धेन
सा तुल्या" [ गणित॰, ९ ] इति । यथा इष्टानि यथा ईप्सितानि, समचापज्यार्धानि ।

अस्याम् कारिकायाम् ज्योत्पत्तिविस्तुमात्रम् एव प्रतिपादितम् आचार्येण, [ करणम् ] तु न प्रतिपादितम्॑ प्रदेशान्तरप्रसिद्धत्वात् करणस्य । अथवा ज्योत्पत्तौ यत् करणम् तत् सर्वम् छेद्यकविषयम्, छेद्यकम् च व्याख्यानगम्यम् इति [ न ] प्रतिपादितम् ।

अथ किम् अर्थम् समवृत्तपरिधिपादः एव ज्याविभागेन छिद्यते, न पुनर् समवृत्तपरिधिः छेद्यते ? न एषः दोषः । समवृत्तपरिधिपादप्रमाणमात्रम् त्रयः राशयः । एवम् चतुर्षु चतुर्भागेषु । यस्मात् परिधिपादप्रमाणस्य तुल्यत्वात् सर्वेषाम् परिधिपादानाम् ज्यार्धानि तुल्यानि भवन्ति इति परिधिपादज्यार्धे इति एव प्रतिपादितानि व्यवहारप्रसिद्ध्यर्थम् ।

उद्देशकः --

वसुदहनकृतहुताशनसङ्ख्ये विष्कम्भार्धे कियत्प्रमाणानि ज्यार्धानि ।

राश्यर्धकाष्ठानि निष्पाद्यन्ते । विष्कम्भार्धम् ३४३८ ।

करणम् -- यावत् तावत् प्रमाणपरिच्छिन्नविष्कम्भार्धतुल्येन कर्कटकेन मण्डलम् आलिख्य तत् द्वादशधा विभजेत् । ते च द्वादशभागाः राशयः इति परिकल्प्याः । अथ द्वादशधा विभक्ते मण्डले पूर्वेण राशिद्वयाग्रावगाहिनीम् दक्षिणोत्तराम् ज्याकाराम् लेखाम् कुर्यात् । एवम् पश्चिमभागे अपि । एवम् एव दक्षिणोत्तरभागयोः अपि च पूर्वापरायताम् ज्याम् कुर्यात् । पुनर् अपि च पूर्वापरदक्षिणोत्तरदिक्षु तथा एव च राशिचतुष्टयाग्रावगाहिन्यः
लेखाः कुर्यात् । तथा त्र्यश्री[णि] कर्तव्यानि ।

तथा च परिधिनिष्पन्नम् क्षेत्रम् कर्कटकेन विरचितवर्तिकामुखेन लिख्यते । एवम् आलिखिते क्षेत्रे सर्वम् प्रदर्शयितव्यम् ।

परिलेखः २९

अत्र आलेख्ये व्यासार्धतुल्या चतुर्णाम् काष्ठानाम् [पूर्ण]ज्या । तदर्धम् द्विकाष्ठज्या । सा च १७१९ । एषा भुजा, व्यासार्धम् कर्णः इति, भुजाकर्णवर्गविशेषस्य मूलम् अवलम्बकः । सा एव चतुर्णाम् काष्ठानाम् ज्या । सा च २९७८ । एताम् व्यासार्धात् विशोध्य शेषम् द्विकाष्ठशरः, शरद्विकाष्ठज्यावर्गयोगमूलम् कर्णः । सा एव द्विकाष्ठ[पूर्ण]ज्या च १७८० । अर्धम् अस्याः काष्ठस्य एकस्य ज्या, ८९० । एषा भुजा, व्यासार्धम् कर्णः । भुजाकर्णवर्गविशेषस्य
मूलम् अवलम्बकः । स च पञ्चानाम् काष्ठानाम् ज्या । सा च ३३२१, विषमत्वात् अतः ज्या न उत्पद्यन्ते । एवम् त्रिभुजात् पञ्च ज्यार्धानि व्याख्यातानि ।

अन्तःसमचतुरश्रक्षेत्रे व्यासार्धतुल्या बाहवः । तस्य कर्णः व्यासार्धयोः वर्गयोगमूलम् । तत् च ४८६२ । अस्य अर्धम् त्रयाणाम् काष्ठानाम् ज्या । सा च २४३१ । एवम् एका ज्या चतुर्भुजात् निष्पन्ना, विषमत्वात् उत्पत्तिः न अस्ति ।

विष्कम्भार्धे षट् राश्यर्धकाष्ठज्यार्धानि प्रतिपादितानि । तस्मिन् एव विष्कम्भार्धे राशिचतुर्भागकाष्ठज्या व्याख्यास्यामः । तत् यथा -- पूर्ववत् आलिखिते क्षेत्रे व्यासार्धम् एव अष्टानाम् काष्ठानाम् [पूर्ण]ज्या । तदर्धम् चतुर्णाम् काष्ठानाम् ज्या, सा च १७१९ । इयम् भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषमूलम् कोटिः । सा अष्टानाम् काष्ठानाम् ज्या, सा च २९७८ । एताम् व्यासार्धात् विशोध्य शेषम् चतुःकाष्ठज्याशरः ।
शरचतुष्काष्ठज्यावर्गयोगमूलम् कर्णः । सा चतुर्णाम् काष्ठानाम् [पूर्ण]ज्या, सा च १७८० । तद्दलम् द्विकाष्ठज्या, [सा] च ८९० । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषमूलम् कोटिः । सा दशानाम् काष्ठानाम् ज्या, सा च ३३२१ । एताम् व्यासार्धात् विशोध्य शेषम् द्विकाष्ठशरः । शरद्विकाष्ठज्यावर्गयोगमूलम् कर्णः । सा एव द्विकाष्ठ[पूर्ण]ज्या, सा च ८९८ । अर्धम् अस्याः काष्ठस्य एकस्य ज्या, सा च ४४९ । एषा भुजा, व्यासाऋधम् कर्णः, भुजाकर्णवर्गविशेषस्य
मूलम् कोटिः । सा एकादशानाम् काष्ठानाम् ज्या, सा च ३४०९ । विषमत्वात् अतः ज्या न उत्पद्यते ।

अथ द्विकाष्ठज्याम् व्यासार्धात् विशोध्य शेषम् दशकाष्ठशरः । शरदशकाष्ठज्यावर्गयोगमूलम् कर्णः । स [एव] काष्ठानाम् दशानाम् [पूर्ण] ज्या, सा च ४१८६ । अर्धम् अस्याः पञ्चानाम् काष्ठानाम् ज्या, सा च २०९३ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य मूलम् कोटिः । सा सप्तानाम् काष्ठानाम् ज्या, सा च २७२८ । विषमत्वात् अतः ज्या न उत्पद्यते । एवम् त्रिभुजात् नव ज्यार्धानि ।

पूर्ववदुक्तसमचतुरश्रक्षेत्रस्य व्यासार्धबाहुकस्य व्यासार्धयोः वर्गयोगमूलम् कर्णः । स च द्वादशानाम् काष्ठानाम् [पूर्ण]ज्या, सा च ४८६२ । अर्धम् अस्याः षण्णाम् काष्ठानाम् ज्या, सा च २४३१ । एताम् व्यासार्धात् विशोध्य शेषम् षट्काष्ठशरः, शरषट्काष्ठज्यावर्गयोगमूलम् कर्णः । स एव षण्णाम् काष्ठानाम् [पूर्ण]ज्या, सा च २६३० । अर्धम् अस्याः त्रयाणाम् काष्ठानाम् ज्या, सा च १३१५ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य
मूलम् कोटिः । सा नवानाम् काष्ठानाम् ज्या । सा च ३१७७ । विषमत्वात् अतः ज्या न उत्पद्यते । एवम् चतुर्भुजात् तिस्रः ज्याः । विष्कम्भार्धे द्वादश ।

द्वादश राशिचतुर्भागकाष्ठज्यार्धानि व्याख्यातानि । तस्मिन् एव विष्कम्भार्धे राश्यष्टभागज्या वक्ष्यामः । तत् यथा -- पूर्ववदालिखिते क्षेत्रे व्यासार्धम् एव षोडशानाम् काष्ठानाम् [पूर्ण]ज्या । तदर्धम् अष्टानाम् काष्ठानाम् ज्या, सा च १७१९ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य मूलम् कोटिः । सा षोडशानाम् काष्ठानाम् ज्या, सा च २९७८ । एताम् व्यासार्धात् विशोधयेत् । शेषम् अष्टकाष्ठशरः । शराष्टकाष्ठज्यावर्गयोगमूलम्
कर्णः । स एव अष्टानाम् काष्ठानाम् [पूर्ण]ज्या, सा च १७८० । अर्धम् अस्याः चतुर्णाम् काष्ठानाम् ज्या, सा च ८९० । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य मूलम् कोटिः । सा एव विंशतेः काष्ठानाम् ज्या, सा च ३३२१ । एताम् व्यासार्धात् विशोध्य शेषम् चतुःकाष्ठशरः । शरचतुष्काष्ठज्यावर्गयोगमूलम् कर्णः । स एव चतुर्णाम् काष्ठानाम् [पूर्ण]ज्या, सा च ८९८ । अर्धम् अस्याः काष्ठयोः ज्या, सा च ४४९ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य
मूलम् कोटिः । सा एव द्वाविंशतेः काष्ठानाम् ज्या, सा च ३४०९ । एताम् व्यासार्धात् विशोधयेत् । शेषम् द्विकाष्ठशरः । शरद्विकाष्ठज्यावर्गयोगमूलम् कर्णः । स एव काष्ठयोः [पूर्ण]ज्या, सा च ४५० । अर्धम् अस्याः काष्ठस्य ज्या, सा च २२५ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य मूलम् कोटिः । सा एव त्रयोविंशतेः काष्ठानाम् ज्या, सा च ३४३१ । विषमत्वात् अतः ज्या न उत्पद्यते ।

अथ चतुर्णाम् काष्ठानाम् ज्याम् व्यासार्धात् विशोधयेत् । शेषम् विंशतेः काष्ठानाम् शरः । शरविंशतिकाष्ठज्यावर्गयोगमूलम् कर्णः । स विंशतेः काष्ठानाम् [पूर्ण]ज्या, सा च ४१८६ । अर्धम् अस्याः दशानाम् काष्ठानाम् ज्या, सा च २०९३ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य मूलम् कोटिः, सा एव चतुर्दशानाम् काष्ठानाम् ज्या, सा च २७२८ । एताम् व्यासार्धात् विशोधयेत् । शेषम् दशकाष्ठानाम् शरः । शरदशकाष्ठज्यावर्गयोगमूलम्
कर्णः । स एव दशानाम् काष्ठानाम् [पूर्ण]ज्या, सा च २२१० । अर्धम् अस्याः पञ्चानाम् काष्ठानाम् ज्या, सा च ११०५ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषमूलम् कोटिः । सा एव एकोनविंशतेः काष्ठानाम् ज्या, सा च ३२५६ । विषमत्वात् अतः ज्या न उत्पद्यते ।

अथ द्विकाष्ठज्याम् व्यासार्धात् विशोधयेत् । शेषम् द्वाविंशतेः काष्ठानाम् शरः । शरद्वाविंशतिकाष्ठज्यावर्गयोगमूलम् कर्णः । स एव द्वाविंशतेः काष्ठानाम् [पूर्ण]ज्या । सा च ४५३४ । अर्धम् अस्याः एकादशानाम् काष्ठानाम् ज्या, सा च २२६७ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य मूलम् कोटिः । सा एव त्रयोदशानाम् काष्ठानाम् ज्या, सा च २५८५ । विषमत्वात् अतः ज्या न उत्पद्यते ।

अथ दशानाम् काष्ठानाम् ज्याम् व्यासार्धात् विशोधयेत् । शेषम् चतुर्दशानाम् काष्ठानाम् शरः । शरचतुर्दशकाष्ठज्यावर्गयोगमूलम् कर्णः । स एव चतुर्दशानाम् काष्ठानाम् [पूर्ण] ज्या, सा च ३०४० । अर्धम् अस्याः सप्तानाम् काष्ठानाम् ज्या, सा च १५२० । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषमूलम् कोटिः । सा एव सप्तदशानाम् काष्ठानाम् ज्या, सा च ३०८४ । विषमत्वात् अतः ज्या न उत्पद्यते ।

एवम् त्रिभुजात् राश्यष्टभागकाष्ठज्याः व्याख्याताः । अथ चतुर्भुजात् व्याख्यास्यामः । अन्तःसमचतुरश्रक्षेत्रस्य व्यासार्धतुल्याः बाहवः । तयोः वर्गयोगमूलम् कर्णः । स एव चतुर्विंशतेः काष्ठानाम् [पूर्ण]ज्या, सा च ४८६२ । अर्धम् अस्याः द्वादशानाम् काष्ठानाम् ज्या, सा च २४३१ । एताम् व्यासार्धात् विशोधयेत् । शेषम् द्वादशानाम् काष्ठानाम् शरः । शरद्वादशकाष्ठज्यावर्गयोगमूलम् कर्णः । स एव द्वादशानाम् काष्ठानाम् [पूर्ण]ज्या,
सा च २६३० । अर्धम् अस्याः षण्णाम् काष्ठानाम् ज्या, सा च १३१५ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य मूलम् कोटिः । सा अष्टादशानाम् काष्ठानाम् ज्या, सा च ३१७७ । एताम् व्यासार्धात् विशोधयेत् । शेषम् षण्णाम् काष्ठानाम् शरः । शरषट्काष्ठज्यावर्गयोगमूलम् कर्णः । स एव षण्णाम् काष्ठानाम् [पूर्ण]ज्या, सा च १३४२ । अर्धम् अस्याः त्रयाणाम् काष्ठानाम् ज्या, सा च ६७१ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषस्य मूलम् कोटिः,
सा एव एकविंशतेः काष्ठानाम् ज्या, सा च ३३७२ । विषमत्वात् अतः ज्या न उत्पद्यते ।

अथ षण्णाम् काष्ठानाम् ज्याम् व्यासार्धात् विशोधयेत् । शेषम् अष्टादशकाष्ठानाम् शरः । शराष्टादशकाष्ठज्यावर्गयोगमूलम् कर्णः । स एव अष्टादशानाम् काष्ठानाम् [पूर्ण]ज्या, सा च ३८२० । अर्धम् अस्याः नवानाम् काष्ठानाम् ज्या, सा च १९१० । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषमूलम् कोटिः । सा एव पञ्चदशानाम् काष्ठानाम् ज्या, सा च २८५९ । विषमत्वात् अतः ज्या न उत्पद्यते ।

एवम् राश्यष्टभागकाष्ठज्याः चतुर्विम्शतिः । अनेन एव विधानेन विष्कम्भार्धे यथेष्टानि ज्यार्धानि निष्पादयितव्यानि इति ॥ ११ ॥

[ प्रकारान्तरेण खण्डज्या ]

ज्याविभागप्रदर्शनार्थम् आह --

प्रथमात् चापज्यार्धात् यैः ऊनम् खण्डितम् द्वितीयार्धम् ।
तत्प्रथमज्यार्धांशैः तैः तैः ऊनानि शेषाणि ॥ १२ ॥


प्रथमात् आद्यात् चापज्यार्धात् । यैः ऊनम् यावद्भिः अंशैः ऊनम् अप्राप्तसदृशम् । किम् तत् ? खण्डितम् द्वितीयार्धम्, खण्डितम् पूर्वार्याभिहितच्छेद्यकविधिना छिन्नम् द्वितीयचापज्यार्धम् । तत्प्रथमज्यार्धांशैः । तत् इति यावद्भिः प्रथमचापज्यार्धात् द्वितीयचापज्यार्धम् ऊनम् तावन्तः तैः परिगृह्यन्ते, ज्यायाः अर्धम् ज्यार्धम्, प्रथमम् च तज्ज्यार्धम् च प्रथमज्यार्धम् ॑ अथवा प्रथमा च असौ ज्या च प्रथमज्या, प्रथमज्या
च असौ अर्धम् च प्रथमज्यार्धम् ॑ प्रथमज्यार्धस्य अंशः प्रथमज्यार्धांशः ॑ प्रथमज्यार्धांशः च प्रथमज्यार्धेन भागम् हृत्वा लब्धा यथा पञ्चांशः षडंशः, ते च प्रथमज्यार्धांशाः च तत्प्रथमज्यार्धांशाः तैः तत्प्रथमज्यार्धांशैः । तैः तैः अंशैः इति वीप्साग्रहणम् च अर्थवत् भवति । ऊनानि शेषाणि । ऊनानि रहितानि, शेषाणि तृतीयादि ज्यार्धानि भवन्ति ।

तत् यथा -- प्रथमम् चापज्यार्धम् इदम् छेद्यकेन निष्पन्नम् २२५ । द्वितीयम् चापज्यार्धच्छेदम् २२४ । एतत् प्रथमचापज्यार्धात् एकेन ऊनम् । द्वितीयचापज्यार्धांशम् प्रथमचापज्यार्धम् च एकत्र ४४९ । अस्य प्रथमचापज्यार्धेन भागे [हृते] लब्धम् अर्धाधिकेन द्वे रूपे । ताभ्याम् पूर्वेण च [एकेन ऊनम्] प्रथमचापज्यार्धम् [तृतीयज्यार्धम्] भवति । तत् च २२२ । त्रयाणाम् संयोगः ६७१ । अस्य प्रथमचापज्यार्धेन भागलब्धम् अर्धाधिकेन
त्रीणि रूपाणि । तैः पूर्वलब्धैः च त्रिभिः ऊनम् प्रथमचापज्यार्धम् चतुर्थज्यार्धम् भवति । तत् च २१९ । चतुर्णाम् ज्यार्धानाम् संयोगः ८९० । अस्य प्रथमज्यार्धेन भागलब्धम् चत्वारि रूपाणि अर्धाधिकेन । तैः पूर्वैः च षड्भिः ऊनम् प्रथमम् चापज्यार्धम् पञ्चमज्यार्धम् भवति । तत् च २१५ । एतैः शेषाणि व्याख्यातानि इति ।

इदम् च व्याख्यानम् आचार्यप्रभाकरेण व्याख्यातम् । तत् च अयुक्तम् अनर्थकम् अप्रत्याख्याय व्याख्यानम् कर्तुम् । कथम् अनर्थकम् ? अत्र गणितशास्त्रे लघूपायप्रदर्शनार्थम् उपायान्तरप्रदर्शनार्थम् वा सूत्रान्तरम् आरभ्यते । अत्र अन्यतरगन्धः अपि न अस्ति । कथम् ? पूर्वार्याभिहितछेद्यकविधिना निर्ज्ञाताभ्याम् प्रथमद्वितीयचापज्यार्धाभ्याम् इदम् कर्म क्रियते । तस्मिन् द्विसूत्रायतत्वात् कर्मणः लाघवम् न अस्ति । उपायान्तरता
च [न] पूर्वसूत्राश्रयत्वात ।

एतस्मात् न अर्थः अनेन सूत्रेण । कथम् पुनर् इमाः ज्याः पृथक् पृथक् विज्ञायन्ते ? अतिबालिशवाक्यम् एतत् । तज्ज्योत्पत्तेः । काष्ठद्विकाष्ठत्रिकाष्ठादिज्यार्धानि प्रतिपादितानि । तेषाम् अन्योन्यविशेषेण पृथक् पृथक् ज्याः भवन्ति इति अगणितज्ञः अपि च जानाति, किम् पुनर् सांवत्सरः । तथा च मन्दबुद्धिप्रतिपत्त्यर्थम् प्रस्तीर्यते । तत् यथा --

२२५, ४४९, ६७१, ८९०, ११०५, १३१५, १५२०. १७१९, १९१०, २०९३, २२६७, २४३१, २५८५, २७२८, २८५९, २९७८, ३०८४, ३१७७, ३२५६, ३३२१, ३३७२, ३४०९, ३४३१, ३४३८ ।

अनन्तरानन्तररहिताः क्रमेण पृथक् पृथक् ज्याः --

२२५, २२४, २२२, २१९, २१५, २१०, २०५, १९९, १९१, १८३, १७४, १६४, १५४, १४३, १३१, ११९, १०६, ९३, ७९, ६५, ५१, ३७, २२, ७ ।

एताः एव उत्क्रमेण अन्त्यात् आरभ्य उत्क्रमज्याः ॥ १२ ॥

[ वृत्तादिसिद्धिः ]

वृत्तादिसिद्धिम् दिङ्मात्रप्रदर्शनार्थम् आह --

वृत्तम् भ्रमेण साध्यम् त्रिभुजम् च चतुर्भुजम् च कर्णाभ्याम् ।
साध्या जलेन समभूः अधः ऊर्ध्वम् लम्बकेन एव ॥ १३ ॥

वृत्तम् क्षेत्रम् भ्रमेण साध्यते । भ्रमशब्देन कर्कटकः परिगृह्यते । तेन कर्कटेन समवृत्तम् क्षेत्रम् परिलेखप्रमाणेन परिमीयते । त्रिभुजम् च चतुर्भुजम् च कर्णाभ्याम् । त्रिभुजम् क्षेत्रम् चतुर्भुजम् च क्षेत्रम् कर्णाभ्याम् प्रसाध्यते । त्रिभुज तावत् समायामवनौ सूत्रम् प्रसार्य रेखाम् कुर्यात् । सा च --

--------------------------------
परिलेखः ३०

अत्र उभयाग्रव्यवस्थितेन कर्कटकेन मत्स्यम् उत्पादयेत् । एतद्वक्त्रपुच्छनिष्क्रान्तापरसूत्रम् अवलम्बकः ।

परिलेखः ३१

अस्य अग्रे सूत्रस्य एकम् अग्रम् निधाय द्वितीयाग्रम् भूम्यग्रे निश्चलम् निधाय रेखाम् कुर्यात् । द्वितीयाग्रे अपि तथा एव । एवम् ते कर्णसूत्रे । ताभ्याम् कर्णसूत्राभ्याम् प्रसाधितम् त्रिभुजम् --

परिलेखः ३२

चतुर्भुजे इष्टचतुर्भुज[कर्ण]तुल्यम् सूत्रम् तिर्यक् प्रसारयेत् । तत् च सूत्रम् --

परिलेखः ३३

द्वितीयम् च एतत् मध्यजनितस्वस्तिकम् तिर्यक् एव प्रसार्यते । तथा च कर्णसूत्रे

परिकेखः ३४

एतयोः पार्श्वानि पूरितानि, चतुरश्रक्षेत्रम् निष्पन्नम् ।

परिलेखः ३५

साध्या जलेन समभूः । समभूः जलेन साध्यते । तत् यथा -- चक्षुःसूत्रसमीकृतायामवनौ त्रिकाष्ठोपरि निर्वाते जलकुम्भम् निधाय अधः सुषिरम् कुर्यात्, यथा तत् उदकम् एकरूपया धारया स्रवति । तत् प्रस्रुतम् अम्भः समन्तात् परिवर्तुलम् यत्र प्रयाति सा भूः समा, यत्र तत् अम्भः वृत्तम् भङ्क्त्वा प्रतिष्ठते तत् निम्नम्, यत्र न अवगाहते तत् उन्नतम् इति । अधः ऊर्ध्वम् लम्बकेन एव । अधः उपलक्षितस्य यः ऊर्ध्वप्रदेशः सः
अवलम्बकेन एव साध्यते । ऊर्ध्वप्रदेशस्य वा यः अधःप्रदेशः असौ अपि अवलम्बकेन एव । अवलम्बकः च गुरुद्रव्यैकाग्रासक्तम् सूत्रम् इति ॥ १३ ॥

[ स्ववृत्तविष्कम्भार्धम् ]

स्ववृत्तविष्कम्भार्धानयनार्थम् आह --

शङ्कोः प्रमाणवर्गम् छायावर्गेण संयुतम् कृत्वा ।
यत् तस्य वर्गमूलम् विष्कम्भार्धम् स्ववृत्तस्य ॥ १४ ॥

[ शङ्कोः आकारप्रकारविवेचनम् ]

अत्र शङ्कोः आकारप्रमाणयोः विप्रवदन्ते सांवत्सराः । केचित् तावत् आहुः -- द्वादशाङ्गुलशङ्कुः मूलत्रिभागे चतुरश्रः, मध्यत्रिभागे त्र्यश्रिः, उपरित्रिभागे शूलाकारः इति । सूक्ष्मत्वात् विग्रहस्य सूक्ष्मया एकया कोट्या छायाग्रस्य सुलक्ष्यत्वात् शेषैः च दुःसम्पादत्वात् इति तत् च न । शूलाग्रस्य अवलम्बकस्य विन्यासाभावात् ऋजुता एव दुःसम्पाद्या । तदभावात् सर्वगुणाभावः । गोपुच्छाकृतिवृत्तोदरः तु भ्रष्टावलम्बकत्वेन एव प्रत्याख्याता
।

अपरे आहुः -- चतुरश्रः चतुर्दिशम् अवलम्बकसाधनसम्भवात् कोटिद्वयेन छायाग्रहणात् अभीष्टकोट्याम् दिग्ग्रहणसिद्धिः इति । एतत् अपि युज्यते, किन्तु तादृशस्य सम्प्रति शिल्पिनः समचतुरश्रक्षेत्रसम्पादिनः दुर्लभत्वात् यदि अपि स्वभ्यस्तविद्यः कश्चित् कदाचित् सम्भवेत्, तथा अपि प्रतिक्षणम् सूर्यस्य अभिमुखस्थापनात् पुनर् पुनर् शङ्कोः मुखचालनम् कर्तव्यम् । तथा च अतिसूक्ष्मदृशः तावता अभीष्टच्छायातिक्रान्ता स्यात् इति दोषः, एतस्मात्
परित्याज्यः अयम् अपि शङ्कुः । अनेन एव सर्वत्र शङ्कवः प्रयुक्ताः ।

आर्यभटीयाः स्वमतम् अभिनिनिष्ठापयिषवः व्यावर्णयन्ति । तत् यथा -- प्रशस्तदारुमयः हि असुषिरः राजिग्रन्थव्रणवर्जितः भ्रमसिद्धः मूलमध्याग्रान्तरालतुल्यवृत्तः न अल्पव्यासः न अल्पायामः च प्रशस्तः । त्रिभिः चतुर्भिः वा अवलम्बकैः अस्य ऋजुस्थितिः साधयितव्या । शङ्कोः मध्यसूत्रस्य असिद्धत्वात् अवलम्बकस्थितिः अपि दुःसम्पाद्य इति अतः शङ्कुमध्यसूत्रसाधनम् प्रदर्श्यते । तत् यथा -- शङ्कुमुच्चे प्रदेशे निश्चलम् निधाय
अवलम्बकेन शङ्कुमूलमस्तकयोः मध्ये विज्ञाय तदग्रसक्तम् सूत्रम् प्रसार्य उभयपार्श्वे च लेखे कुर्यात् । एतत् उभयपार्श्वमध्यलेखे, ततः पुनर् अपि कर्कटकेन लोहेन मूलाग्रमध्यसूत्राभ्याम् मत्स्यम् उत्पाद्य शेषमध्यलेखासाधनम् । ननु च अत्र अपि दोषः अस्ति एव, सर्वदिक्षु तन्मस्तकस्य छायाग्रस्य विपुलवृत्तत्वात् छायामध्यम् दुर्लक्ष्यम् । तेन च विना आदिग्रहणाभावः इति । न एषः दोषः । शङ्कोः उपरि केन्द्रे विष्कम्भार्धाधिकान्या
समवृत्ता शलाका मध्यप्रसाधिनी लोही दार्वी वा क्रियते । तदा आदिग्रहणमध्यपरिज्ञानम् च भविष्यति इति । अथवा प्राज्ञस्य अवलम्बकसूत्रेण पूर्वविन्यस्तेन एव किञ्चित् उत्क्षिप्तेन मध्यपरिज्ञानम् । अथ अङ्गुलविभागात् तीक्ष्णेन शस्त्रेण मनाक् शकलितम् कृतम् । अन्यथा हि प्रमाणग्रहणम् अनर्थकम् स्यात् । तस्मात् यथेष्टप्रमाणः शङ्कुः द्वादशाङ्गुलः इति सुप्रसिद्धम् अङ्गीकृत्य उच्यते । उद्देशकेषु एतत् प्रतिपादयिष्यामः । यावत् यावत् अयम् पृथुः
गुरुः च भवति तावत् तावत् वायुना न एव चाल्यते, यावत् यावत् च दीर्घः भवति तावत् तावत् च अङ्गुलावयवाः सूक्ष्माः सुपरिज्ञाताः भवन्ति । तस्मात् पृथुगुरुदीर्घेषु आदरः कार्यः इति अभिहितः शङ्कोः आकारः ।

[ शङ्कुप्रमाणविवेचनम् ]

इदानीम् प्रमाणम् उपदेक्ष्यामः । केचित् आहुः -- अर्धहस्तः द्वादशधा विभक्तशरीरः इति । न एषः नियमः । किन्तु अभीष्टसङ्ख्याप्रविभक्तशरीरः अभीष्टसङ्ख्याप्रविभक्तः इति अर्थः । यत्र प्रमाणग्रहणम् कृतम्, तत्र अपि समाङ्गुलविभागे केन्द्रविभागे च कौशलम् अभ्यसनीयम् ।

[ श्लोक-व्यख्या ]


शङ्कोः प्रमाणवर्गम्, शङ्कोः इत्थम् प्रपञ्चतप्रमाणस्य प्रमाणग्रहणम् अनियतप्रमाणप्रतिपादनार्थम् इति उक्तम् । यदि शङ्कोः नियतम् एव प्रमाणम् स्यात् तदा शङ्कोः वर्गम् इति इयता अपि उच्यमाने तन्नियतप्रमाणः एव प्रतिपत्तिः । प्रमाणस्य वर्गः प्रमाणवर्गः, तम् प्रमाणवर्गम् । छायावर्गेण, छायायाः वर्गः छायावर्गः, तेन छायावर्गेण । संयुतम् कृत्वा, एकीकृत्य इति अर्थः । यत् तस्य वर्गमूलम्, तस्य संयुक्तस्य राशेः
वर्गमूलम् यत्, तत् स्ववृत्तविष्कम्भार्धम् भवति । किम् तत् वृत्तम् यस्य इदम् विष्कम्भार्धम् इति उच्यते ? तत् मूलतुल्येन कर्कटकेन आलिखितस्य वृत्तस्य तत् विष्कम्भार्धम् । यदि एवम् सर्वे एव संख्याविशेषः स्ववृत्तविष्कम्भार्धम् भवति । न एषः दोषः । यदि सर्वसङ्ख्याविशेषः स्ववृत्तविष्कम्भार्धम् भवति एव, किम् नः छिन्नम् ? अत्र पुनर् शङ्कुप्रमाणच्छायावर्गयोगमूलम् स्वविष्कम्भार्धम् विशिष्टम् एव परिगृह्यते, तेन अन्यस्य
स्ववृत्तविष्कम्भार्धस्य ग्रहणम् न एव अत्र प्रसज्यते । प्रसक्ते च दोषपरिहारः वा विधीयते । अत्र च स्ववृत्तविष्कम्भार्धग्रहणम् त्रैराशिकप्रसिद्ध्यर्थम् -- यदि अस्य स्ववृत्तविष्कम्भार्धस्य एते शङ्कुच्छाये तदा गोलविष्कम्भार्धस्य के इति शङ्कुच्छाये लभ्येते । तौ एव विषुवति अवलम्बकाक्षज्ये इति उच्यते ।

उद्देशकः --

पञ्चनवार्धचतुर्था छाया दृष्टा क्षितौ समायाम् तु ।
विषुवन् मध्ये सूत्रे शङ्कोः द्वादशविभक्तस्य ॥ १ ॥

न्यासः -- शङ्कुः १२, छाया ५॑ शङ्कुः १२, छाया ९॑ शङ्कुः १२, छाया
३
१
२

करणम् -- शङ्कुच्छाययोः वर्गौ १४४, २५, एकत्र १६९ । अस्य मूलम् स्ववृत्तविष्कम्भार्धम् । तत् च इदम् १३ । एतस्य क्षेत्रस्य न्यासः --

परिलेखः ३६

स्ववृत्तविष्कम्भार्धम् नाम छायाग्रात् आरभ्य शङ्कुमस्तकप्रापि सूत्रम् । तत्सूत्रानुसारेण भूमौ दृष्टिम् निधाय शङ्कुमस्तकासक्तम् विवस्वन्तम् पश्यति । अक्षज्या आनयने त्रैराशिकस्थापना -- १३ । ५ । ३४३८ । लब्धम् अक्षज्या १३२२ । एषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशेषमूलम् अवलम्बकः ३१७४ । त्रैराशिकेन अपि १३ । १२ । २३२८ । लब्धम् अवलम्बकः ३१७४ । अपरे अपि अत्र क्षेत्रविशेषाः । त्रैराशिके वाचः युक्तिः -- यदि अस्य
स्ववृत्तविष्कम्भार्धस्य छायातुल्या भुजा शङ्कुतुल्यः अवलम्बकः तदा अस्य गोलव्यासार्धस्य कौ भुजौ अलम्बौ इति । छायया घटिकानयने, मध्याह्ने छायया च सूर्यानयने स्ववृत्तविष्कम्भार्धस्य अयम् एव विधिः । किन्तु छायया घटिकानयने शङ्कुना कार्यम् इति शङ्कुः एव आनीयते । सममण्डलछायया सूर्यानयने स एव । मध्याह्नच्छायया सूर्यानयने नतज्यया प्रयोजनम् इति छाया एव आनीयते ।

शेषयोः अपि स्ववृत्तविष्कम्भार्धे १५ ।
१२
१
२ ।
त्रैराशिकेन एव अक्षज्यावलम्बकौ २०६३, २७५०॑ ९६३, ३३०० ।

उद्देशकः --

पञ्चदशाङ्गुलशङ्कोः पादेन युता षडङ्गुला छाया ।
विषुवत् दिनमध्याह्ने वाच्या अक्षज्या अवलम्बकौ च अत्र ॥ २ ॥


न्यासः -- शङ्कुः १५, छाया
६
१
४ ।
आगतम् स्ववृत्तविष्कम्भार्धम्
१६
१
४ ।
अनेन स्ववृत्तविष्कम्भार्धेन आगतौ अक्षज्यौ अलम्बकौ १३२२, ३१७४ ।

उद्देशकः --

त्रिंशत् प्रमाणशङ्कोः षोडश दृष्टा यदा अङ्गुलच्छाया ।
मध्यात् कियत् गतः अर्कः विततमयूखः ततः वाच्यः ॥ ३ ॥

न्यासः -- शङ्कुः ३०, छाया १६ । आगतम् स्ववृत्तविष्कम्भार्धम् ३४ । लब्धम् तदक्षज्या १६१८
॥ १४ ॥

[ प्रदीपच्छायाकर्म ]

प्रदीपच्छायाकर्म आह --

शङ्कुगुणम् शङ्कुभुजाविवरम् शङ्कुभुजयोः विशेषहृतम् ।
यत् लब्धम् ता छाया ज्ञेया शङ्कोः स्वमूलात् हि ॥ १५ ॥

शङ्कुः गुणः यस्य तत् शङ्कुगुणम् । किम् तत् इति आह -- शङ्कुभुजाविवरम् । भुजाशब्देन प्रदीपोच्छ्रायः उच्यते, प्रदीपोच्छ्रायस्य शङ्कोः च यत् अन्तरालम् तत् शङ्कुभुजाविवरम्, तत् शङ्कुगुणम् । शङ्कुभुजयोः विशेषहृतम् शङ्कोः प्रदीपोच्छ्रायस्य यः विशेषः स शङ्कुभुजयोः विशेषः, तेन हृतम् भक्तम् । यत् लब्धम् सा छाया शङ्कोः तस्य एव स्वमूलात् तस्य एव शङ्कोः मूलात् सा छाया लभ्यते ।

उद्देशकः --

यष्टिप्रदीपमूलात् द्वासप्तत्युच्छ्रितात् अशीत्याम् च ।
त्रिंशत्काद्विंशत्याम् स्थितस्य शङ्कोः वद च्छाये ॥ १ ॥

न्यासः --

परिलेखः ३७

शङ्कुभुजाविवरम् ८०, एतत् शङ्कुगुणम् ९६०॑ भुजा ७२, शङ्कुः १२, एतयोः विशेषः ६०, अनेन हृतम् शङ्कुगुणम् शङ्कुभुजाविवरम्, लब्धा छाया १६ ।

द्वितीयोद्देशकन्यासः --

परिलेखः ३८

पूर्वकरणेन एव लब्धा छाया
१३
५
३ ।
एतत् कर्म त्रैराशिकम् । कथम् ? शङ्कुतः अधिकायाः उपरिभुजायाः यदि शङ्कुभुजान्तरालप्रमाणम् छाया लभ्यते तदा शङ्कुना का इति छाया लभ्यते ।

विपरीतकर्मणा उद्देशकः --

छाया षोडश दृष्टा द्वासप्तत्युच्छ्रितस्य दीपस्य ।
मूलम् कियता शङ्कोः द्वादशकस्य त्वया वाच्यम् ॥ २ ॥

न्यासः --

परिलेखः ३९

करणम् -- शङ्कुभुजान्तरेण अनेन ६० छाया लब्धा, तेन "भागहराः ते भवन्ति गुणकाराः" [गणित॰, २८ ] इति छाया १६, गुणिता जाता ९६०॑ एतत् एव "शङ्कुगुणम् शङ्कुभुजाविवरम्" अत्र अपि शङ्कुः गुणकारः आसीत् इति "गुणकारा भागहरा" [ गणित ॰, २८ ] इति शङ्कुना १२ हृतम् शङ्कुभुजाविवरम् लब्धम् । तत् च ८० ।

उद्देशकः --

यष्टिप्रदीपमूलात् पञ्चाशद्विवरसंस्थितः शङ्कुः ।
तस्य च्छाया पङ्क्तिः वाच्यः तस्मिन् कियान् दीपः ॥ ३ ॥

न्यासः --

परिलेखः ४०

करणम् -- "शङ्कुगुणा कोटी सा छायाभक्ता भुजा भवति" [गणित॰, १६ ] इति वक्ष्यमाणकरणेन शङ्कुभुजाविवरयुक्तच्छाया कोटिः भवति इति । शङ्कुभुजाविवरम् ५०, छाया १०, एकत्र ६०, एतत् शङ्कुगुणम् ७२०, छायाभक्तम् भुजाप्रमाणम् ७२ ॥ १५ ॥
[ शङ्कुच्छायाद्वयेन दीपोच्छ्रायापसारज्ञानम् ]

अनिर्ज्ञातदीपोच्छ्रायावसानयोः शङ्कुच्छायाद्वयेन आनयनम् आह --

छायागुणितम् छायाग्रविवरम् ऊनेन भाजितम् कोटी ।
शङ्कुगुणा कोटी साञ्छायाभक्ता भुजा भवति ॥ १३ ॥

छायागुणितम् छायया गुणितम् । किम् छायागुणितम् ? छायाग्रविवरम्, छायाग्रयोः विवरम् छायाग्रविवरम्, छायाग्रान्तरालभूमिः इति अर्थः । तत् यथा -- अनिर्ज्ञातोच्छ्राययष्टिप्रदीपात् कियत् अपि अपसृत्य शङ्कुः स्थापितः । तस्य छाया ज्ञायते एव । तच्छायाग्रात् परिगणिते अन्तरे द्वितीयशङ्कुः, तच्छायाग्रात् पूर्वशङ्कुच्छायाग्रम् इति अन्तरम् छायाग्रविवरम् । तदिष्टया प्रथमच्छायया द्वितीयच्छायया वा गुणितम् । ऊनेन भाजितम्, ऊनम् छाययोः
विशेषः, तेन ऊनेन भाजितम् । कोटी अवसानभूमिः । तत् यदि प्रथमच्छायया गुणितम् तदा प्रथमच्छायाग्रयष्टिप्रदीपान्तरालम् भवति, द्वितीयया छायया यदि तदग्रयष्टिप्रदीपान्तरालम् । शङ्कुगुणा कोटी, शङ्कुः गुणः यस्याः सा इयम् शङ्कुगुणा कोटी । छायाभक्ता भुजा भवति, भुजा यष्टिप्रदीपोच्छ्रायः । छायाद्वयम् अपि तत्कोटिभ्याम् प्रसाध्यते ।

उद्देशकः --

शङ्कोः समयोः दृष्टे क्रमशः दशषोडशाङ्गुले छाये ।
अग्रान्तरम् च दृष्टम् त्रिंशत् कोटीभुजे वाच्ये ॥ १ ॥

न्यासः --

परिलेखः ४१

करणम् -- छायाग्रविवरम् ३०, एतत् प्रथमच्छायागुणितम् ३००॑ छाययोः विशेषः ६, अनेन लब्धम् कोटी ५०॑ इयम् एव कोटी शङ्कुगुणा जाता ६००, छायाभक्ता भुजा ६० । द्वितीयच्छायातः अपि कोटी ८०, भुजा सा एव ६० ।

उद्देशकः --

पञ्च सप्त क्रमात् छाये नरयोः तुल्ययोः स्मृते ।
अष्टौ अग्रान्तरम् दृष्टम् भुजकोटी तदा उच्यताम् ॥ २ ॥

न्यासः --

परिलेखः ४२

पूर्ववत् लब्धा कोटी २०, भुजा ४८ । द्वितीयच्छायातः अपि कोटी २८, भुजा सा एव ४८ ।

विषुवत् अहनि गगनतल[मध्य]वर्तिनि सवितरि समदक्षिणोत्तरदेशच्छायाग्रान्तरालयोजनैः छायाविशेषेण शङ्कुना [च] केचित् विवस्वदवनितलान्तरालयोजनानि आनयन्ति, तत् अयुक्तम् । अत्र प्रदीपच्छायाद्वयकर्मालापावतारः अपि न उपपद्यते । कुतः ? यस्मात् आह "भूरविविवरम् विभजेत्" [गोल॰, ३९ ] इति । भूः शङ्कुः, रवियोजनकर्णः शङ्कुभुजाविवरम्, सकलजगदेकप्रदीपः भगवान् भास्करः स्वयम् एव प्रदीपोच्छ्रायः इति अतः
विवस्वदवनितलान्तरालयोजनानयनम् न घटते, "भूरविविवरम्" इति सिद्धानाम् एव योजनानाम् उपदेशात् । अथ सविता एव प्रदीपोच्छ्रायः इति सवितृविष्कम्भप्रमाणम् आनीयते इति चेत्, तत् च न । यस्मात् स्वकक्ष्याकर्णभूविवरयोजनः गगनतलमध्यासीनः लोकान् द्योतयन् लक्ष्यते, तस्मात् प्रदीपोच्छ्रायः स्वयम् सविता [न] भवितुम् अर्हति । अथ विवस्वान् प्रदीपोच्छ्रायः, सवितृधरित्रीमध्यान्तरालयोजनानि अशेषावनितलमण्डलव्यासप्रमाणस्य शङ्कोः
विवरम्, तथा च द्वितीयस्य तावत् शङ्कोः अवस्थानाभावात् च न युज्यते । तस्मात् सुष्ठु उक्तम् "प्रदीपच्छाया[द्वय]कर्मालापावतारः अपि न उपपद्यते " इति ।

इयम् च धरित्री गोलाकारा पठ्यते । तेन तत्पृष्ठवर्तिनाम् अस्माकम् वक्रत्वात् परिधेः शङ्कुच्छाया भुजकोटिकर्मपरिकल्पना अत्र [न] प्रवर्तते, यतः सलिलसमीकृते प्रदेशे शङ्कुच्छायया भुजाकोटिकर्णक्षेत्रसंस्थानम्, न च एतावत्या भुवः शक्यते समीकरणम् कर्तुम् । अथ अभ्युपगम्य इदम् उदाह्रियते -- विषुवती उज्जयिन्याम् दिनार्धवर्तिनी उष्णदीधितौ छाया पञ्चाङ्गुला । तया अक्षः लब्धः भागाः द्वाविंशतिः लिप्ताः सप्तत्रिंशत्
। अनेन अक्षेण लङ्कोज्जयिन्यन्तरालयोजनानि लब्धानि सप्ताम्बरयमसङ्ख्यानि २०७ । ततः उज्जयिन्या उत्तरेण विषुवती एव मध्याह्नच्छाया स्थानेश्वरे सप्ताङ्गुला । तया च अक्षः लभ्दः भागाः त्रिंशत् सपादाः । अनेन अक्षेण लङ्कास्थानेश्वरान्तरालयोजनानि लब्धानि शराद्रियमसङ्ख्यानि २७५ । अत्र एतेषाम् योजनानाम् विशेषः अष्टषष्टिः शङ्कुद्वयविवरम्, छाययोः अन्तरेण द्वाभ्याम् युक्ता अष्टषष्टिः, छायाग्रविवरम् सप्ततिः । अत्र गणितकर्म "छायागुणितम्
छायाग्रविवरम्" इति आदिकर्मणा कोटियोजनानि लभ्यन्ते । तैः च द्वितीयच्छायया नीयमानैः लङ्कास्थानेश्वरान्तरालयोजनैः एव भवितव्यम् , यस्मात् तस्मिन् काले विवस्वदधोवस्थितः देशः लङ्का । यदि विवस्वान् भुजा यदि वा विवस्वतः यः उच्छ्रायः, तस्मात् कोटेः लङ्कास्थानेशवरान्तरालयोजनसङ्ख्यानत्वात् गणितकर्म अपि अत्र न क्रामति । अत्र च यया कोट्या भुजा साध्यते सा च तावत् न सिद्धा, तया असिद्धया सिद्धभुजा साध्यते इति एतत् अयुक्तम् । अन्यत्
च यत् छाया द्वादशाङ्गुलस्य शङ्कोः प्रत्यक्षम् अस्माभिः उपलब्धा तया आङ्गुलप्रमाणया योजनैः कर्म क्रियते इति एतत् च न उपपद्यते । अथ द्वादशयोजनप्रमाणस्य शङ्कोः पञ्चयोजना सप्तयोजना च छाया इति एतत् अपि तावतः शङ्कोः लम्बकेन ऋजुस्थितिः अशक्या ज्ञातुम्, न च उत्क्षेपणस्थापने । छाया च समायामवनौ साध्यते तावत्सु योजनेषु निम्नोन्नतसरित् इति आदिविषमता तेन तदवगतिः न शक्यते । तस्मात् यथा आगमसिद्धौ एव सहस्रमरीचेः
उच्छ्रायविष्कम्भौ । ततः न अत्र इयम् गणितप्रक्रियाप्रकारवागुरा प्रसारणीया इति ॥ १६ ॥

[ भुजकोटिकर्णानाम् सम्बन्धः ]

कर्णानयनार्थम् आह --

यः च एव भुजावर्गः कोटीवर्गः च कर्णवर्गः सः ।

यः च भुजावर्गः यः च कोटिवर्गः एतौ वर्गौ एकत्र कर्णवर्गः भवति ।

उद्देशकः --

त्रिचतुष्कभुजाकोट्योः षडष्टसङ्ख्यानयोः तयोः च अपि ।
द्वादशकनवकयोः च क्रमेण कर्णाः विनिर्देश्याः ॥ १ ॥

न्यासः --

परिलेखः ४३

करणम् -- एते भुजाकोटी ३, ४॑ एतयोः वर्गौ ९, १६॑ एकत्र कर्णवर्गः २५, अस्य मूलम् कर्णः ५ । एवम् अध्यर्धाश्रिक्षेत्रे आयतचतुरश्रक्षेत्रे वा कर्णः योज्यः । एवम् परिशिष्टक्षेत्रयोः कर्णौ लब्धौ १०, १५ ॥

[ वृत्ते अर्धज्याशरयोः सम्बन्धः ]

वृत्तक्षेत्रावगाहज्यानयनआय आर्यापश्चार्धम् आह --

वृत्ते शरसंवर्गः अर्धज्यावर्गः स खलु धनुषोः ॥ १७ ॥

वृत्ते क्षेत्रे, शरयोः संवर्गः शरसंवर्गः, सः अर्धज्यावर्गः भवति । स खलु धनुषोः, तयोः एव धनुषोः अर्धज्यावर्गः भवति ।

उद्देशकः --

क्षेत्रे दशाविष्कम्भे द्विकाष्टसङ्ख्यौ शरौ मया दृष्टौ ।
तत्र एव नवैकमितौ अर्धज्ये तु क्रमात् वाच्ये ॥ १ ॥

न्यासः --

परिलेखः ४४

करणम् -- एतौ द्वौ शरौ २, ८ । एतयोः संवर्गः अर्धज्यावर्गः १६ । अस्य मूलम् ४, इयम् अर्धज्या । द्वितीयोद्देशके अपि लब्धा अर्धज्या ३ ।

अत्र एव श्येनमूषिकोद्देशान् व्यावर्णयन्ति । तत् यथा -- अर्धज्या भुजा, अर्धज्यामण्डलकेन्द्रान्तरालम् कोटिः, तद्वर्गयोगमूलम् कर्णः मण्डलव्यासार्धम् । तत् तु प्रदर्श्यते --

न्यासः --

परिलेखः ४५

इयम् अर्धज्या श्येनस्थानोच्छ्रायः, अर्धज्यापरिध्यन्तरालम् मूषिकप्रचारभूमिः, विष्कम्भार्धम् कर्णः श्येनमार्गः । मण्डलकेन्द्रम् मूषिकवधप्रदेशः । तत्र श्येनस्थानोच्छ्रायः अर्धज्या इति तद्वर्गः, मूषिकप्रचारभूमिः शरः इति तेन विभज्यते, लब्धम् द्वितीयः शरः । तेन "अन्तरयुक्तम् हीनम्" [श्लो॰ २४ ] इति एतम् कृत्वा लब्धम् मूषिकावासप्राप्यभूमिः श्येन[गति]कर्णप्रमाणम् च । यः एव द्वितीयः महाशरः स एव वंशभङ्गपदे
अर्धत्र्यश्रिक्षेत्राकारेण व्यवस्थितः । तत् च प्रदर्शितम् । एवम् गणितम् बीजमात्रम् उपदिष्टम् ।

[ उद्देशकः ] --

द्वादशहस्तोच्छ्रितस्य प्राकारस्य उपरि श्येनः व्यवस्थितः । तेन प्राकारमूलात् चतुर्विंशतिहस्तनिष्क्रान्तः मूषिकः [दृष्टः, तेन] मूषिकेन च श्येनः । तत्र मूषिकः तद्भयात् प्राकारावस्थितम् आत्मीयालयम् द्रुततरम् प्रस्थितः अन्तरे श्येनेन कर्णगतिना व्यापादितः । तत्र इच्छामः ज्ञातुम् [कि]यत् अन्तरम् आखुना प्राप्तम्, कियत् वा श्येनेन आयातम् इति ॥ २ ॥

न्यासः --

परिलेखः ४६

करणम् -- श्येनोच्छ्रायवर्गः १४४, एतत् अनेन मूषिकप्रचारभूमिप्रमाणेन २४ विभज्य लब्धम् ६, अनेन अन्तरेण मूषिकप्रचारभूमिः युक्ता ३०, अपचिता १८ । एतयोः अर्धम् श्येनगतिः मूषिकावासान्तरालम् च यथाक्रमेण १५, ९.

उद्देशकः --

अष्टादशकोच्छ्राये श्येनः स्तम्भे स्थितः हि आखुः ।
आवासात् निष्क्रान्तः तु एकाशीत्या भयात् श्रयेनात् ॥
गच्छन् आलयदृष्टिः क्रूरेण निपातितः ततः मार्गे ।
कियता प्राप्नोति बिलम् श्येनगतिः वा तदा वाच्यम् ॥ ३ ॥

न्यासः --

परिलेखः ४७

लब्धम् आखोः आगतभूमिः
८
१
२ ,
श्येनगतिः

४२
१
२ .

अनेन एव प्रकारेण वंशभङ्गोद्देशकः --

अष्टादशकोच्छ्रायः वंशः वातेन पातितः मूलात् ।
षड्गत्वा असौ पतितः त्रिभुजम् कृत्वा क्व भग्नः स्यात् ॥ ४ ॥

न्यासः --

वंशः १५, मूलात् यः अपसारः तत्प्रमाणम् अर्धज्या ६, तस्य वर्गः ३६, वंशप्रमाणेन अनेन १८ भक्तः लब्धम् २, पूर्ववत् "अन्तरयुक्तम् हीनम् दलितम्" [ गणित॰ २४ ] इति वंशशकले १०, ८.

परिलेखः ४८

उद्देशकः --

षोडशहस्तः वंशः पवनेन निपातितः स्वमूलात् तत् ।
अष्टौ गत्वा पतितः कस्मिन् भग्नः मरुत्वतः वाच्यः ॥ ५ ॥

न्यासः --

परिलेखः ४९

लब्धे वंशशकले १०, ६.

कमलोद्देशकेषु दृश्यकमलप्रमाणम् एकः शरः । कमलनिमज्जनभूमिः अर्धज्या । अत्र पूर्ववत् अर्धज्यावर्गे शरहृते महाशरः लभ्यते तत्र दृश्यकमलसंक्रमणेन जलप्रमाणम् कमलप्रमाणम् च ।

उद्देशकः --

कमलम् जलात् प्रदृश्यम् विकसितम् अष्टाङ्गुलम् निवातेन ।
नीतम् मज्जति हस्ते शीघ्रम् कमलाम्भसी वाच्ये ॥ ६ ॥

न्यासः --

परिलेखः ५०

दृश्यकमलस्य [प्रमाणम्] ८, निमज्जनभूमिः २४ ।

करणम् -- अर्धज्यायाः चतुर्विंशतेः वर्गः ५७६, तत् दृश्यकमलेन अष्टाभिः भागलब्धम् ७२ । एतत् दृश्यकमलयुक्तम् ८०, विहीनम् च ६४ । एते दलिते कमलप्रमाणम् जलप्रमाणम् च ४०, ३२ ।

उद्देशकः --

अङ्गुलषट्कम् कमलम् मज्जति हस्तद्वयम् गतम् मूलात् ।
इच्छामि तत्र बोद्धुम् पङ्कजम् अम्भःप्रमाणम् च ॥ ७ ॥

न्यासः --

परिलेखः ५१

दृश्यम् ६, निमज्जनभूमिः ४८ । लब्धम् पूर्ववत् पङ्कजप्रमाणम् १९५, अम्भः प्रमाणम् १८९.

मत्स्यबकोद्देशकेषु अपि एवम् एव आयतचतुरश्रक्षेत्रस्य एकः बाहुः अर्धज्या, बाहुद्वयम् महाशरः, शेषम् मूषिकोद्देशकवत् कर्म ।

उद्देशकः --

षड्द्वादशिका वापी तस्याम् पूर्वोत्तरे स्थितः मत्स्यः ।
वायव्ये कोणे स्यात् बकः स्थितः तद्भयात् तूर्णम् ॥
भित्वा वापीम् मत्स्यः कर्णेन गतः दिशम् ततः याम्याम् ।
पार्श्वेन आगत्य हतः बकेन वाच्यम् तयोः यातम् ॥ ८ ॥

न्यासः --

परिलेखः ५२


बकमत्स्यकरणम् -- वापीपार्श्वम् अर्धज्या इति तस्य वर्गः ३६, पार्श्वद्वयम् महाशरः इति जातम् १८ । अनेन भागलब्धम् २ । एतेन अष्टादशभिः संक्रमणेन लब्धम् मत्स्यबकगतिप्रमाणम् वापीपार्श्वशेषः च १०, ८ । पार्श्वशेषे पार्श्वपतिते शेषः दक्षिणापरकोणप्राप्तिः मत्स्यस्य ।
उद्देशकः --

द्वादशदशिका वापी हि आग्नेयस्थः बकः अथ मत्स्यः अपि ।
ऐशान्याम् अपराशागतः हतः असौ कियत् वाच्यम् ॥ ९ ॥

न्यासः --

परिलेखः ५३

पूर्ववत् लब्धम् दक्षिणापरकोणात् बकेन गतम्
३
३
११ ।
पश्चिमबाहोः अनुप्रविष्टमत्स्यगतिः
८
८
११ ।
विलोमबीजकरणेन एतत् सर्वम् अनुष्ठितम् ।

प्रत्ययकरणम् च सर्वेषु एव क्षेत्रेषु "यः च एव भुजावर्गः कोटीवर्गः च कर्णवर्गः सः" [गणित॰, १७ ] इति अनेन एव इति ॥ १७ ॥

[ वृत्तावगाहशरज्ञानम् ]

वृत्तावगाहशरानयनाय आह --

ग्रासोने द्वे वृत्ते ग्रासगुणे भाजयेत् पृथक्त्वेन ।
ग्रासोनयोगलब्धौ संपातशरौ परस्परतः ॥ १८ ॥

ग्रासेन ऊने ग्रासोने । के ? द्वे वृत्ते, ग्राह्यग्राहकमण्डलद्वयम् । ग्रासगुणे, ग्रासः गुणः ययोः ते ग्रासगुणे । भाजयेत् पृथक्त्वेन, एकैकम् । केन ? ग्रासोनयोगलब्धौ । ग्रासोनयोः योगः ग्रासोनयोगः, तयोः एव वृत्तयोः ग्रासविवर्जितयोः समासः ॑ तेन ग्रासोनयोगेन लब्धौ ग्रासोनयोगलब्धौ । सम्पाते शरौ सम्पातशरौ, अवग्राहशरौ इति यावत् । परस्परतः, अन्योन्यतः । यस्मात् महाविष्कम्भस्य अल्पः शरः महत्वात् मण्डलस्य, अल्पव्यासस्य
महान् शरः । यस्मात् अल्पस्य मण्डलस्य अल्पः अपि अवयवः अतिवक्रः उपलभ्यते, न तथा महतः । तस्मात् तौ संपातशरौ परस्परतः भवतः ।

उद्देशकः --

अशीतिविष्कम्भतमोमयेन द्वात्रिंशत् इन्दोः स्थगिता यदा अष्टौ ।
ज्ञातुम् तत् इच्छामि शरौ कियन्तौ राहोः अथ इन्दोः परिपूर्णमूलैः ॥ १ ॥

न्यासः --

परिलेखः ५४

करणम् -- ग्रासोने द्वे वृत्ते ७२, २४ । ग्रासगुणे ५७६, १९२ । ग्रासोनयोगः ९६ । अनेन लब्धौ शरौ चन्द्रमसः ६, राहोः २, परस्परतः इति ॥ १८ ॥

[ श्रेढीगणितम् ]

अथ इदानीम् श्रेढीगणितानयनाय आह --

इष्टम् व्येकम् दलितम् सपूर्वम् उत्तरगुणम् समुखम् मध्यम् ।
इष्टगुणितम् इष्तधनम् तु अथवा आद्यन्तम् पदार्धहतम् ॥ १९ ॥

इष्टम्, ईप्सितम् । विगतम् एकेन व्येकम् । दलितम्, अर्धितम् । सपूर्वम्, इष्टात् पदात् यानि प्रागवस्थितानि [ पदानि ] तानि पूर्वशब्देन उच्यन्ते, सह पूर्वेण वर्तते इति सपूर्वम् । उत्तरः गुणः यस्य तदुत्तरगुणम् । समुखम्, मुखमादिः, सह मुखेन वर्तते इति समुखम् । मध्यधनम् भवति । इष्टगुणितम्, इष्टेन गुणितम् इष्टगुणितम् । इष्टधनम्, इष्टस्य गच्छस्य धनम् भवति ।

अत्र बहूनि सूत्राणि मुक्तकव्यवस्थितानि, तेषाम् यथासंयोगम् सम्बन्धः । "इष्टम् व्येकम् दलितम् उत्तरगुणम् समुखम्" इति मध्यधनानयनार्थम् सूत्रम् । "मध्यम् इष्टगुणितम् इष्टधनम्" इति गच्छधनानयनार्थम् । "इष्टम् व्येकम् सपूर्वम् उत्तरगुणम् समुखम्" इति अन्त्योपान्त्यादिधनानयनार्थम् । "इष्टम् व्येकम् दलितम् सपूर्वम् उत्तरगुणम् समुखम् इष्टगुणितम् इष्टधनम्" इति अवान्तरयथेष्टपदसङ्ख्यानयनार्थम् । एवम्
एतानि पादोनया आर्यया प्रतिबद्धानि । तानि यथाक्रमेण उद्देशकेषु एव प्रतिपादयिष्यामः ।

उद्देशकः --

आदिः द्वितयम् दृष्टम् श्रेढ्याः प्रवदन्ति च उत्तरम् त्रीणि ।
गच्छः पञ्च निरुक्तः मध्याशेषे धने ब्रूहि ॥ १ ॥

न्यासः -- आदिः २, उत्तरम् ३, गच्छः ५ ।

करणम् -- इष्टम् गच्छः ५, व्येकम् ४, दलितम् २, उत्तरगुणम् ६, समुखम् ८, एतत् मध्यधनम् । एतत् एव इष्टगच्छेन गुणितम् सर्वधनम् जातम् ४० ।

उद्देशकः --

अष्टावादिः यस्याः पञ्च प्रवदन्ति च उत्तरम् श्रेढ्याः ।
गच्छः अष्टादश दृष्टः मध्याशेषे धने वाच्ये ॥ २ ॥

न्यासः -- आदिः ८, उत्तरम् ५, गच्छः १८ ।

पूर्ववत् लब्धम् मध्यधनम्
५०
१
२,
सर्वधनम् ९०९ ।

अन्त्योपान्त्यादिधनानयने उद्देशकः --

एकादशोत्तरायाः सप्तादेः पञ्चविंशतिः गच्छः ।
तत्र अन्त्योपान्त्यधने वद शीघ्रम् विंशतेः च कियत् ॥ ३ ॥

न्यासः -- आदिः ७, उत्तरम् ११, गच्छः २५ ।

करणम् -- इष्टम् पञ्चविंशतिः २५, पूरणम् पदम् एकम् इति एकम् रूपम् १, एतत् एव व्येकम् शून्यम् ०, एतत् एव सपूर्वम् इति शून्येन क्षिप्ता चतुर्विंशतिः २४, उत्तरगुणम् २६४, समुखम् २७१, एतत् अन्त्यधनम् । उपान्त्यधनानयने अत्र पूर्वाणि पदानि त्रयोविंशतिः २३ । एतैः पूर्वकरणेन उपान्त्यधनम् लब्धम् २६० । विंशतेः तु पूर्वपदानि एकोनविंशतिः । एतैः पूर्ववत् विंशतितमस्य पदस्य धनम् २१६ ।

अवान्तरे यथेष्टपदसङ्ख्याधनानयने उद्देशकः --

द्व्यादित्र्युत्तरसङ्ख्यम् दिने दिने कार्तिके क्रमात् मासे ।
प्रददाति महीपालः पञ्चदशाहे गते विप्रः ॥
ब्रह्मिष्ठः सम्प्राप्तः तस्मै दत्ता दशाहधनसङ्ख्या ।
पञ्चदिनोत्था अन्यस्मै कथय धनम् किम् तयोः तत्र ॥ ४ ॥

न्यासः -- आदिः २, उत्तरम् ३, गच्छः ३०। अत्र पञ्चदशाहे गते ब्रह्मिष्ठः आगतः तस्मै षोडशाहात् प्रभृति यत् उपचितम् दशाहधनम् तत् दत्तम् इति दश १० इष्टम्, व्येकम् इति जातम् ९, दलितम् इति
४
१
२,
एतत् सपूर्वम् इति
१९
१
२
उत्तरगुणितम् इति
५८
१
२,
समुखम् इति
६०
१
२,
इष्टगुणितम् इष्टधनम् इति दशगुणितम् जातम् ६०५ । द्वितीयस्य अपि ४१५ ।

उद्देशकः --

पञ्चदशादिः यस्मिन् उत्तरम् अष्टादश उच्यते गच्छः ।
त्रिंशत् मध्यदशानाम् धनसङ्ख्याम् गण्यताम् शीघ्रम् ॥ ५ ॥

न्यासः --

[ आदिः ] १५, उत्तरम् १८, गच्छः ३०, दशसु व्यतिरिक्तेषु च शेषेषु मध्यस्थितानि पदानि १० । लब्धम् पूर्वकरणेन २७६० ।

सर्वधनानयने उपायान्तरम् पुनर् अपि आर्यापादेन आह --

तु अथवा आद्यन्तम् पदार्धहतम् ।

अथवा अयम् अपरः प्रकारः । आदिः च अन्तः च आद्यन्तम् । आदिशब्देन आदिधनम् परिगृह्यते, अन्तशब्देन अन्त्यधनम् । तत् आद्यन्तम् । पदम् गच्छः, तस्य अर्धम् पदार्धम्, पदार्धेन हतम् पदार्धहतम् । तत् आद्यन्तम् पदार्धगुणितम् इष्टधनम् इति अनुवर्तनात् इष्टधनम् भवति ।

उद्देशकः --

पञ्चभिः आद्यः शङ्खः पञ्चोनशतेन यः भवेत् अन्त्यम् ।
एकादशशङ्खानाम् यत् तत् मूल्यम् त्वम् आचक्ष्व ॥ ६ ॥

न्यासः --

आदिशङ्खमूल्यम् ५, अन्त्यस्य ९५, शङ्खाः ११ ।

करणम् -- आद्यन्तधने १००, पदार्धम्
५
१
२
अनेन गुणितम् सर्वशङ्खमूल्यम् ५५० ।

उद्देशकः --

आदिधनम् एकम् उक्तम् हि अन्त्यधनम् प्रोच्यते शतम् सद्भिः ।
पदम् अपि तावत् प्रोक्तम् सर्वधनम् तत् कियत् दृष्टम् ॥ ७ ॥

न्यासः --

आदिधनम् १, अन्त्यधनम् १००, गच्छः अपि एतत् एव १०० । सर्वधनम् पूर्ववत् ५०५० ॥ १९ ॥

[ गच्छज्ञानम् ]

गच्छानयनार्थम् आह --

गच्छः अष्टोत्तरगुणितात् द्विगुणाद्युत्तरविशेषवर्गयुतात् ।
मूलम् द्विगुणाद्यूनम् स्वोत्तरभजितम् सरूपार्धम् ॥ २० ॥

गच्छः इति अनेन [प]दधनम् परिगृह्यते । अष्टोत्तरगुणितात् अष्टाभिः उत्तरेण च गुणितम् अष्टोत्तरगुणितम् । तस्मात् अष्टोत्तरगुणितात् । द्विगुणाद्युत्तरविशेषवर्गयुतात्, द्विगुणः च असौ आदिः च द्विगुणादिः, द्विगुणादेः उत्तरस्य च विशेषः द्विगुणाद्युत्तरविशेषः, द्विगुणाद्युत्तरविशेषस्य वर्गः द्विगुणाद्युत्तरविशेषवर्गः, द्विगुणाद्युत्तरविशेषवर्गेण युतम् द्विगुणाद्युत्तरविशेषवर्गयुतम्, तस्मात् द्विगुणाद्युत्तरविशेषवर्गयुतात् गच्छधनात्
[सर्वधनात्] अष्टोत्तरगुणितात् मूलम्, द्विगुणाद्यूनम् द्विगुणः च असौ आदिः च द्विगुणादिः, तेन द्विगुणादिना ऊनम् द्विगुणाद्यूनम्, स्वोत्तरेण भजितम् स्वोत्तरभजितम्, सह रूपेण वर्तते इति सरूपम्, अर्धम् दलितम्, गच्छः भवति ।

उद्देशकः --

आदिः पञ्च प्रोक्तः सप्ताख्यम् च उत्तरम् भवेत् श्रेढ्या ।
पञ्चोनशतम् द्रव्यम् गच्छः वाच्यः कियान् तस्य ॥ १ ॥

न्यासः --

आदिः ५, उत्तरम् ७, सर्वधनम् ९५ ।

करणम् -- गच्छधनात् अष्टोत्तरगुणितात् इति गच्छधनम् अष्टाभिः उत्तरेण च गुणितम् जातम् ५३२० । द्विगुणः आदिः १०, एतत् उत्तरविशेषितम् ३, एतस्य वर्गः ९, अनेन युक्तम् जातम् ५३२९, एतस्मात् मूलम् ७३, द्विगुणाद्यूनम् ६३, स्वोत्तरेण अनेन ७ भजितम् ९, सरूपम् १०, अर्धम् गच्छः ५ ।

उद्देशकः --

नवकाष्टौ वृद्धिमुखे यत्र यत् कीर्त्यते धनम् क्रमशः ।
रामाष्टशरम् दृष्टम् पदप्रमाणम् त्वया वाच्यम् ॥ २ ॥

न्यासः --

आदिः ८, उत्तरम् ९, गच्छधनम् ५८३ । पूर्ववत् लब्धम् पदप्रमाणम् ११ ॥ २० ॥

[ चितिघनज्ञानम् ]

सङ्कलनासङ्कलनानयनाय आह --
एकोत्तराद्युपचितेः गच्छाद्येकोत्तरत्रिसंवर्गः ।
षड्भक्तः स चितिघनः सैकपदघनः विमूलः वा ॥ २० ॥

उत्तरम् च आदिः च उत्तरादी । एकम् उत्तरादी यस्याः सैकोत्तरादिः । एकोत्तरादिः च असौ उपचितिः च एकोत्तराद्युपचितिः । उपचितिः श्रेढी एकोत्तरादित्वेन विशेष्यते । स एव एकोत्तराद्युपचितिः सङ्कलना इति उच्यते । तस्याः एकोत्तराद्युपचितेः सङ्कलनासंज्ञितायाः गच्छात् प्रभृति एकोत्तरत्रिसंवर्गः एकोत्तराणाम् त्रयाणाम् गच्छादेः सम्वर्गः । तत् यथा -- गच्छः, स एकोत्तरम्, पुनर् अपि एकोत्तरम् । त्रयाणाम् गच्छादेः संवर्गः । तत् यथा -- गच्छः, स एकोत्तरम्,
पुनर् अपि एकोत्तरम् । एतत् उक्तम् भवति -- गच्छः, स एव एकोत्तरः, स एव गच्छः द्व्युत्तरः, तेषाम् त्रयाणाम् संवर्गः, षड्भक्तः षड्भिः विभाजितः, स चितिघनः चितेः घनः चितिघनः सङ्कलनासङ्कलना इति अर्थः । अथ अन्यः करणोपायः -- सैकपदघनः, सैकम् च तत्पदम् च सैकपदम्, सैकपदस्य घनः सैकपदघनः, विगतः मूलेन विमूलः षड्भक्तः इति अनुवर्तते । वा सैकस्य पदस्य घनगणितम् वा स्वमूलविरहितम् षड्भिः भक्तम् चितिघनः
भवति ।

उद्देशकः --

पञ्चानाम् अष्टानाम् चतुर्दशानाम् च याः क्रमात् चितयः ।
गच्छः तराः त्रिकोणा [ रूपविधानम् च ] मे वाच्यम् ॥ १ ॥

न्यासः --

परिलेखः ५५

यथाक्रमेण गच्छाः ५, ८, १४ ।

करणम् -- गच्छः पञ्च ५ । अयम् एकोत्तरः ६ । पुनर् अयम् एकोत्तरः ७ । एतेषाम् त्रयाणाम् संवर्गः २१० । अयम् षड्भक्तः सङ्कलनासङ्कलना भवति ३५ ।

द्वितीयोपायकरणम् -- सैकपदम् ६, अस्य घनः २१६, अयम् विमूलः इति षड्भिः एव रहितः २१०, पूर्ववत् षड्भक्तः सङ्कलनासङ्कलना भवति ३५ ।

शेषयोः अपि लब्धम् यथाक्रमेण १२०, ५६० ॥ २१ ॥

[ वर्गचितिघनः घनचितिघनः च ]

वर्गघनसङ्कलनानयनाय आह --

सैकसगच्छपदानाम् क्रमात् त्रिसम्वर्गतस्य षष्ठः अंशः ।
वर्गचितिघनः स भवेत् चितवर्गः घनचितिघनः च ॥ २२ ॥

सह एकेन वर्तते इति सैकः । सह गच्छेन वर्तते इति सगच्छः । अनन्तरप्रकृतः सैकसगच्छः । पदम् गच्छः तत्र सैकम् च [सैक] सगच्छम् च पदम् च सैकसगच्छपदानि । तेषाम् सैकसगच्छपदानाम् क्रमात् आनुपूर्व्यात् । त्रयाणाम् संवर्गितम् त्रिसंवर्गितम् । केषाम् त्रयाणाम् ? प्रकृतानाम् सैकसगच्छपदानम् । षष्ठः अंशः । तस्य त्रिसंवर्गितस्य षष्ठः अंशः षष्ठः भागः । वर्गचितिघनः स भवेत् । वर्गस्य चितिः वर्गचितिः वर्गचितेः
घनः वर्गचितिघनः । वर्गसङ्कलना इति अर्थः । चितिवर्गः घनचितिघनः च । चितेः वर्गः सङ्कलनावर्गः इति यावत् । स एव चितिवर्गः घनचितिघनः भवति ।

उद्देशकः --

सप्तानाम् अष्टानाम् सप्तदशानाम् चतुर्भुजाः चितयः ।
एकविधानम् वाच्यम् पदः तराः ताः हि वर्गाख्याः ॥ १ ॥

न्यासः --

परिलेखः ५६

करणम् -- पदम् ७, सैकम् ८, एतत् एव सगच्छम् १५ । एतेषाम् त्रयाणाम् संवर्गः ८४०, षड्भक्तः वर्गचितिघनप्रमाणम् १४० । शेषयोः अपि यथाक्रमेण लब्धम् २०४, १७८५ ।

घनचितौ उद्देशकः --

चतुरश्रघनाः चितयः पञ्चचतुर्नवस्तराः विनिर्देश्याः ।
एकावघटिताः ताः समचतुरश्रेष्टकाः क्रमशः ॥ २ ॥

न्यासः --

परिलेखः ५७

परिलेखः ५८

करणम् -- चितिसङ्कलना । सा च "अथवा आद्यन्तम् पदार्धहतम्" [ गणित ॰, २९ ] इति अनेन आनीयते । अत्र आदिः एकः १, अन्त्यधनम् पञ्च ५, एकत्र षट् ६, पदार्धेन पञ्चानाम् अर्धेन हतम् सङ्कलनाचितिः पञ्चानाम् जाता १५, अस्य वर्गः घनचितिघनः भवति । स च २२५ । शेषयोः अपि यथाक्रमेण लब्धम् १००, २०२५ ॥ २२ ॥

[ प्रकारान्तरेण राशिद्वयसंवर्गज्ञानम् ]

द्वयोः रास्योः संवर्गानयन उपायान्तरम् आह --

सम्पर्कस्य हि वर्गात् विशोधयेत् एव वर्गसम्पर्कम् ।
यत् तस्य भवति अर्धम् विद्यात् गुणकारसंवर्गम् ॥ २३ ॥

सम्पर्कः समासः । येन द्वयोः राश्योः सम्पर्कः भवति इति द्वयोः एव सम्पर्कः परिगृह्यते । तस्य सम्पर्कस्य । हि पादपूरणे । वर्गात्, कृतेः । विशोधयेत् एव, अपनयेत् एव । किम् इति आह -- वर्गसम्पर्कम् । वर्गीकृतयोः सम्पर्कः वर्गसम्पर्कः वर्गसमासः, तम् वर्गसम्पर्कम् सम्पर्कस्य वर्गात् विशोधयेत् । यत् तस्य भवति अर्धम्, तस्य शुद्धशेषस्य अर्धम् दलम् यत् भवति । विद्यात्, अवबुद्ध्यात् । गुणकारसंवर्गम्, गुणकारयोः संवर्गः
गुणकारसम्वर्गः, तम् गुणकारसंवर्गम् विद्यात् ।

उद्देशकः --

पञ्चानाम् च चतुर्णाम् सप्तनवानाम् च कः भवेत् घातः ।
अष्टानाम् च दशानाम् पृथक् पृथक् वाच्यताम् शीघ्रम् ॥ १ ॥

न्यासः --
५ ७ ८
४ ९ १०
करणम् -- पञ्चानाम् चतुर्णाम् च सम्पर्कः ९, अस्य वर्गः ८१॑ पञ्चानाम् वर्गः २५, चतुर्णाम् वर्गः १६, एकत्र ४१, सम्पर्कवर्गात् इमम् पञ्चवर्गचतुर्वर्गसम्पर्कम् विशोधयेत् । तत्र शेषः ४० । अस्य अर्धम् पञ्चानाम् चतुर्णाम् च संवर्गः लब्धः २० । शेषयोः अपि यथाक्रमेण ६३, ८० ॥ २३ ॥

[ गुण्य-गुणकयोः आनयनम् ]

गुणकारयोः आनयनाय आह --

द्विकृतिगुणात् संवर्गात् द्व्यन्तरवर्गेण संयुतात् मूलम् ।
अन्तरयुक्तम् हीनम् तत् गुणकारद्वयम् दलितम् ॥ २४ ॥

द्वयोः कृतिः द्विकृतिः, द्विकृतिः गुणः यस्य स द्विकृतिगुणः, तस्मात् द्विकृतिगुणात् । कस्मात् इति आह -- संवर्गात् । द्व्यन्तरवर्गेण सम्युतात् । द्वयोः अपि अन्तरम् द्व्यन्तरम्, द्व्यन्तरस्य वर्गः द्व्यन्तरवर्गः, तेन द्व्यन्तरवर्गेण संयुतात् । द्विकृतिगुणात् संवर्गात् द्वयोः अपि अन्तरवर्गेण मिश्रितात् यत् मूलम् । तत् अन्तरयुक्तम् अन्तरेण युक्तम् अन्तरयुक्तम् । हीनम् विरहितम् । तद्गुणकारद्वयम् तस्य संवर्गस्य गुणकारद्वयम् । दलितम् अर्धितम् ।

उद्देशकः --

संवर्गः अष्टौ दृष्टः व्यक्तम् तत्र अन्तरम् भवेत् द्वितयम् ।
अष्टादशके मुनयः गुणकारौ तौ तयोः वाच्यौ ॥ १ ॥

न्यासः -- संवर्गः ८, अन्तरम् २ । संवर्गः १८, अन्तरम् ७ ।

करणम् -- संवर्गः ८, एतत् द्विकृतिगुणम् ३२॑ द्व्यन्तरम् २, अस्य वर्गः ४, अनेन संयुक्तः ३६ । अस्य मूलम् ६, एतत् तेन अन्तरेण युक्तम् ८, हीनम् ४ । यथाक्रमेण दलितौ परस्परगुणकारौ ४, २ ।

द्वितीयोद्देशके अपि गुणकारौ लब्धौ ९, २ ।

अत्र गुण्यगुणकारयोः अविशेषात् गुणकारद्वयम् इति उच्यते ॥ २४ ॥


[ मूलफलज्ञानम् ]

मूलफलानयनार्थम् आह --

मूलफलम् सफलम् कालमूलगुणम् अर्धमूलकृतियुक्तम् ।
तन्मूलम् मूलार्धोनम् कालहृतम् स्वमूलफलम् ॥ २५ ॥

मूलम् शतादि, फलम् वृद्धिः, मूलस्य फलम् मूलफलम् । सह फलेन वर्तते इति सफलम्, आत्मीयया वृद्ध्या युक्तम् मूलफलम् इति यावत् । कालमूलगुणम्, कालम् च मूलम् च कालमूले, कालमूले गुणौ यस्य मूलफलस्य तत् कालमूलगुणम् मूलफलम् । अर्धमूलकृतियुक्तम्, [ अर्धम् मूलस्य अर्धमूलम् मूलार्धम् इति, अर्धमूलस्य कृतिः अर्धमूलकृतिः, मूलकृतेः चतुर्थः भागः इति ], [अर्ध]कृतित्वात् द्वयोः वर्गेण इति चतुर्विभागः, तया
अर्धमूलकृत्या युक्तम् अर्धमूलकृतियुक्तम् । तन्मूलम्, तस्य एव निष्पादितस्य मूलम् तन्मूलम् । मूलार्धोनम्, मूलस्य शतादेः अर्धेन ऊनम् मूलार्धोनम् । कालहृतम्, कालेन हृतम् कालहृतम् । स्वमूलफलम्, स्वस्य मूलस्य फलम् स्वमूलफलम् ।

उद्देशकः --

जानामि शतस्य फलम् न च किन्तु शतस्य यत्फलम् सफलम् ।
मासैः चतुर्भिः आप्तम् षड् वद वृद्धिम् शतस्य मासोत्थाम् ॥ १ ॥

न्यासः --

१०० ०
१ ४
० ६
मासः ४, फलम् ६ ।

करणम् -- मूलफलम् सफलम् ६, कालमूलगुणम् २४०० । अर्धमूलकृतिः २५००, अनया युक्तम् ४९०० । एतस्य मूलम् ७०, मूलार्धोनम् २०, कालहृतम् [स्व]मूलफलम् जातम् ५ ।

प्रत्ययकरणम् पञ्चराशिकेन -- यदि शतस्य मासिकी वृद्धिः पञ्च तदा चतुर्भिः मासैः शतवृद्धेः [पञ्चधनस्य] का वृद्धिः इति ।

न्यासः --

१ ४
१०० ५
५ ०
लब्धम् १ । एतत्सहिता शतवृद्धिः षड् रूपाणि ६ ।

उद्देशकः --

पञ्चविंशतेः मासिकी वृद्धिः न ज्ञायते । या पञ्चविंशतेः मासिकी वृद्धिः सा तेन एव अर्धेण अन्यत्र प्रयुक्ता, सह वृद्ध्या पञ्चभिः मासैः दृष्टा रूपत्रयम् पञ्चभागोनम् । तत्र इच्छामः ज्ञातुम् का पञ्चविंशतेः मासिकी वृद्धिः, का वा पञ्चविंशतिव[ऋ]द्धेः पञ्चमासप्रयुक्ताया वृद्धिः इति ॥ २ ॥

न्यासः --

२५ ०
१ ५
० २
४
५

लब्धम् पूर्वकरणेन पञ्चविंशतेः मासिकी वृद्धिः २, पञ्चविंशतिवृद्धेः च पञ्चानाम् मासानाम् वृद्धिः
०
४
५ ।

उद्देशकः --

शतस्य मासिकी वृद्धिः न ज्ञायते । किन्तु शतवृद्धिः अन्यत्र प्रयुक्ता पञ्चभिः मासैः सह वृद्ध्या दृष्टा रूपपञ्चदशकम् । तत्र इच्छामः ज्ञातुम् का च शतस्य मासिकी वृद्धिः का वा शतस्य वृद्धेः पञ्चमासप्रयुक्ताया वृद्धिः इति ॥ ३ ॥

न्यासः --
१०० ०
१ ५
० १५
मासाः ५, सफलम् १५ ।

लब्धम् -- पूर्ववत् शतवृद्धिः १०, शतवृद्धेः पञ्चमासप्रयोगात् वृद्धिः ५ ॥ २५ ॥

[ त्रैराशिकम् ]

त्रैराशिकप्रतिपादनार्थमध्यर्धार्याम् आह --

त्रैराशिकफलराशिम् तम् अथ इच्छाराशिना हतम् कृत्वा ।
लब्धम् प्रमाणभजितम् तस्मात् इच्छाफलम् इदम् स्यात् ॥ २६ ॥
छेदाः परस्परहताः भवन्ति गुणकारभागहाराणाम् ।

त्रयः राशयः समाहृताः त्रिराशिः । त्रिराशिः प्रयोजनम् अस्य गणितस्य इति त्रैराशिकः । त्रैराशिके फलराशिः त्रैराशिकफलराशिः । तम् त्रैराशिकफलराशिम् । अथशब्दः परिज्ञानवस्तुपरिग्रहे उत्तरग्रन्थप्रतिपादने वर्तते । अत्र एवंप्रकारः अर्थः कः अत्र प्रतिपादितः ? उच्यते -- परिभाषा । सा च लोकव्यवहारात् प्रतिविषयम् भिन्ना इति लोकप्रयोगात् एव प्रदर्शिता । अन्यथा हि प्रतिविषयम् भिन्नाः परिभाषाः विषयाः च संख्यातीताः । तेन उपदेष्टुम्
अशेषतः सा न शक्यते । अतः अथशब्देन लोकप्रसिद्धाम् परिभाषाम् प्रतिपादयति । इच्छाराशिना हतम् कृत्वा, यः असौ फलराशिः स इच्छाराशिना हतः क्रियते, तम् इच्छाराशिना हतम् गुणितम् कृत्वा । लब्धम्, लब्धम् आप्तम् । कथम् इति आह -- प्रमाणभजितम्, प्रमाणराशिना भजितम् प्रमाणभजितम् । तस्मात् एवंविधात् राशेः प्रमाणभजितात् । इच्छाफलम्, इच्छायाः फलम्, इच्छाफलम्, इच्छाराशिफलम् इति अर्थः । इदम् इति लब्धम् प्रत्यक्षीकृत्य उक्तम् ।

अत्र त्रैराशिकम् एव केवलम् अभिहितम् आचार्यार्यभटेन, पञ्चराशिकादयः अनुपातविशेषाः कथम् अवगन्तव्याः ? उच्यते -- अनुपातबीजमात्रम् एव आचार्येण उपदिष्टम् ॑ तेन अनुपातबीजेन सर्वम् एव पञ्चराश्यादिकम् सिद्ध्यति । कुतः ? पञ्चराशिकादीनाम् त्रैराशिकसङ्घातत्वात् । कस्मात् पञ्चराश्यादयः त्रैराशिकसंहताः ? पञ्चराशिके त्रैराशिकद्वयम् संहतम्, सप्तराशिके त्रैराशिकत्रयम्, नवराशिके त्रैराशिकचतुष्टयम् इति आदि उद्देशकेषु
एव उपदेक्ष्यामः ।

यदा पुनः राशयः सच्छेदाः स्युः तदा कथम् कर्तव्यम् इति आह --

छेदाः परस्परहताः भवन्ति गुणकारभागहाराणाम् ।

छेदाः परस्परस्य हताः अन्योन्यहताः । केषाम् इति अतः आह -- गुणकारभागहाराणाम् । गुण्यगुणकारयोः परस्परापेक्षया गुणकारत्वम् , यस्मात् गुण्यः गुणकारेण गुण्यते, गुणकारः अपि गुण्येन, न कश्चित् फलविशेषः । तेन उक्तम् गुण्यगुणकारौ गुणकारशब्देन । गुणकारौ च भागहारः च गुणकारभागहाराः । अतः तेषाम् गुणकारभागहाराणाम् छेकाः परस्परहताः ये गुणकारच्छेदाः भागहारहताः ते भागहाराः भवन्ति, भागहारच्छेदाः
च गुणकारहताः गुणकाराः भवन्ति इति एतत् अनुक्तम् अपि अवगम्यते एव, यस्मात् तद्धर्माय छेदाः परस्परम् नीयन्ते । भागहाराणाम् संवर्गः भागहारः । गुणकाराणाम् संवर्गः गुणकारः इति अर्थात् अवगम्यते ।

उद्देशकः --

चन्दनपलानि पञ्च क्रीतानि मया हि रूपकैः नवभिः ।
चन्दनम् एकेन तदा लभ्यम् [ किम् ] रूपकेण एव ॥ १ ॥

तत्र यथाक्रमेण स्थापना । उक्तम् च --

आद्यन्तयोः तु सदृशौ विज्ञेयौ स्थापनासु राशीनाम् ।
असदृशराशिः मध्ये त्रैराशिकसाधनाय बुद्धेः ॥

इति ।

न्यासः -- ९ ५ १

करणम् -- रूपकैः नवभिः पञ्चचन्दनपलानि इति नव प्रमाणराशिः, पञ्च फलराशिः । एकेन रूपेण किम् इति एकम् इच्छाराशिः । तेन एकेन इच्छाराशिना फलराशिः गुणितः ५, प्रमाणराशिना नवकेन विभज्यते
५
९ ।
तत्र फलेषु भागम् न प्रयच्छति इति "चतुष्कर्षम् पलम्" इति चतुर्भिः गुणितम्
२०
९ ।
लब्धम् कर्षद्वयम् कर्षभागौ च [ नवानाम्] । कर्षब् २ कर्षभागः
२
९ ।

उद्देशकः --

आर्द्रकभारः दशभिः सपञ्चभागैः यदा अभिविक्रीतः ।
पलशतमूल्यम् शीघ्रम् सार्धपलस्य अत्र मे वाच्यम् ॥ २ ॥

न्यासः --

२००० १० १००
१ १
५ २

सवर्णिते स्थापना --

२००० ५१ २०१
५ २

"छेदाः परस्परहताः" इति गुणकारयोः छेदाः भागहारम् गताः । ५, २ एताभ्याम् छेदाभ्याम् भागहारः गुणितः जातः २०००० । [ गुणकारयोः २०१, ५१ अनयोः घातः ] १०२५१ । पूर्ववत् लब्धम् विंशोपकाः १०, विंशोपकभागाः च
२५१
१००० ।

उद्देशकः --

अष्टाभिः सत्र्यंशैः मृगनाभ्या लभ्यते पलम् सदलम् ।
कृतवीर्येण विगण्यम् सपञ्चभागेन किम् मया लभ्यम् ॥ ३ ॥

न्यासः --

[ ८ १ १
१ १ १
३ २ ५ ]

सवर्णितेन --

[ २५ ३ ६
३ २ ५ ]

[पूर्ववत् करणेन ] कृतवीर्यलब्धम् मृगनाभ्या माषकाः १३, गुञ्जाः ४, गुञ्जाभागाः
३
२५ ।

उद्देशकः --

नागः विंशतिहस्तः प्रविशति अर्धाङ्गुलम् मुहूर्त्तेन ।
प्रत्येति च पञ्चांशम् कतिभिः अहोभिः बिलम् प्राप्तम् ॥ ४ ॥

न्यासः -- सर्पः ४८० अङ्गुलात्मकः, प्रविशति अर्धाङ्गुलम्
१
२,
प्रतियेति [च अङ्गुलपञ्चभागः
१
५ ] ।

अत्र पञ्चभागविशुद्धम् अर्धाङ्गुलम् सर्पस्य मौहूर्त्तिकी गतिः इति पञ्चभागम् अर्धात् विशोध्य स्थापना --

९
१०,
मुहूर्तः १, सर्पप्रमाणाङ्गुलानि ४८० ।

लब्धम् दिवसाः
५३
१
३

मिश्रराशिषु अपि एतत् एव अनुपातबीजम् । तत् यथा --

उद्देशकः --

अष्टौ दान्ताः त्रयः दम्याः इति गावः प्रकीर्तिताः ।
एकाग्रस्य सहस्रस्य कति दान्ताः कति इतरे ॥ ५ ॥

न्यासः -- अष्टौ दन्ताः ८, त्रयः दम्याः ३, दन्तदम्यानाम् एकोत्तरम् सहस्रम् १००१ ।

अत्र अयम् त्रैराशिकन्यासः --

दान्तदम्याः ११, दान्ताः ८, सर्वसमुदायः १००१ ।

अत्र इयम् वाचः युक्तिः -- एकादशभिः दान्तदम्यैः अष्टौ दान्ताः लभ्यन्ते, तत् एकाग्रेण सहस्रेण कियन्तः दान्ताः इति लब्धाः दान्ताः ७२८ तथा एव दम्याः २७३ ।

एवम् प्रक्षेपकरणेषु अपि उद्देशकः --

समवायकाः तु वणिजः पञ्चैकैकोत्तरादिमूलधनाः ।
लाभः सहस्रसंख्यः वद कस्मै तत्र किम् देयम् ॥ ६ ॥

न्यासः -- धनानि १, २, ३, ४, ५ । लाभः सहस्रम् १००० ।

करणम् -- प्रक्षेपकधनेन अनेन १५, अयम् लाभः १००० । यथाक्रमेण एकेन द्वाभ्याम् इति आदि लब्धाः लाभाः [ प्रथमस्य ]
६६
२
३,
द्वितीयस्य
१३३
१
३,
तृतीयस्य २००, चतुर्थस्य
२६६
२
३,
पञ्चमस्य
३३३
१
३ ।

भिन्ने अपि उद्देशकः --

अर्धेन तृतीयेन प्रक्षेपेण अष्टमेन ये वणिजः ।
सप्ततिः एकेन ऊना लाभः तेषाम् कियान् कस्य ॥ ७ ॥

न्यासः --
१ १ १ । लाभः ६९ ।
२ ३ ८

अत्र भिन्नगणितन्यायेन "छेदगुणः सच्छेदम्" इति सवर्णिते जाताः
१२ ८ ९
२४ २४ २४ । छेदैः प्रयोजनम् न अस्ति इति अंशाः केवलाः १२, ८, ३ । एतेषाम् पूर्ववत् प्रक्षेपन्यायेन एकत्र [ योगः ] २३ । अनेन प्रक्षेपेण अस्य लाभस्य ६९ भागः स्वांशैः पृथक् पृथक् गुणितस्य त्रैराशिकविभागेन लब्धाः भागाः ३६, २४, ९ ।

[ पञ्चराशिकम् ]

पञ्चराशिके उद्देशकः --

शतवृद्धिः मासे स्यात् पञ्च कियान् मासषट्प्रयुक्तायाः ।
वृद्धिम् वद विंशत्या यदि भटगणितम् त्वया बुद्धम् ॥ ८ ॥

न्यासः -- १००१ २०
१ ६
५

करणम् -- प्रथमत्रैराशिकम् १००, ५, २० । लब्धम् रूपकः १ । द्वितीयत्रैराशिकम् -- यदि मासेन रूपकः, षड्भिः कियन्तः इति लब्धम् रूपकाः षट् ।

एतत् एव गणितम् युगपत् क्रियमाणम् पञ्चराशिकम् भवति । तत्र अपि शतस्य मासे इति [ शतम् रूपम् च ] प्रमाणराशिद्वयम्, पञ्च इति फलराशिः विंशत्या षड्भिः मासैः किम् इति विंशतिः षट् च इच्छाराशिः । तत्र पूर्ववत् एव इच्छाराशिः फलराशिना गुणितः प्रमाणराशिभ्याम् विभज्यते, फलम् पूर्ववत् एव । त्रैराशिकम् एव एतत् द्विधा व्यवस्थितम् । छेदाः अपि पूर्ववत् गुणकारभागहाराणाम् परस्परम् गच्छन्ति ।

[ उद्देशकः ] --

[ शतस्य मासद्वय]प्रयुक्तस्य वृद्धिः पय्न्न्च । पञ्चविंशतेः पञ्चमासप्रयुक्तायाः का वृद्धिः इति ॥ ९ ॥

न्यासः -- १०० २५ लब्धम् ३
२ ५ १
५ ८

उद्देशकः --

[शतस्य अर्धचतुष्क]मासप्रयुक्तस्य वृद्धिः अर्धपञ्चकाः रूपकाः । तदा पञ्चाशतः दशमासप्रयुक्तस्य का वृद्धिः इति ॥ १० ॥

न्यासः -- १०० ५०
३ १०
१
२
४
१
२

लब्धम् रूपकाः षट् ६, सप्तभागाः त्रयः च
३
७ ।

उद्देशकः --
विंशत्याः सार्धायाः सत्र्यंशः रूपकः भवेत् वृद्धिः ।
मासे सपञ्चभागे पादोनानाम् तु सप्तानाम् ॥
मासैः षड्भिः वाच्यम् दशभागयुतैः तु का भवेत् वृद्धिः ।
ज्ञात्वा छेदविकल्पम् सम्यक् भटतन्त्रसूत्रेण ॥ ११ ॥

सवर्णिते स्थापना --
४१ २७
२ ४
६ ६१
५ १०
४ ०
३

लब्धम् रूपकद्वयम् [ २, विंशोपकाः ] ४, विंशोपकभागाः च
२६
४१ ।

[ सप्तराशिकम् ]

सप्तराशिके उद्देशकः --

सप्तोच्छ्रितस्य करिणः त्रिंशत् परिधेः नवायतस्य यदा ।
नव कुडुवाः लभ्यन्ते नित्यम् संशुद्धशालिपृथुकानाम् ॥
पञ्चोच्छ्रितस्य वाच्यम् सप्तायाम् अस्य दन्तिनः किम् स्यात् ।
अष्टाविंशतिपरिधेः वाच्याः पृथुकाः तदा लभ्याः ॥ १२ ॥

स्थापना -- ७ ५
३० २८
९ ७
९ ०

लब्धम् पृथुककुडुवाः ४, सेतिके २, सेतिकभागाः
२
३

उद्देशकः --

हस्त्युत्तमस्य चतुर्हस्तोच्छ्रितस्य षडायतस्य पञ्चपरिणाहस्य अर्धतृतीयाः कुडुवाः लभ्यन्ते माषानाम् यदा तदा त्र्युच्छ्रितस्य पञ्चायतस्य अर्धपञ्चमपरिणाहस्य किम् लभ्यम् ॥ १३ ॥

न्यासः -- ४ ३
६ ५
५ ९
२
५ ०
२

लब्धम् कुडुवः १, सेतिका १, मानकौ २, अर्धमानकम्
१
२ ।
एवम् नवरास्यादिषु योज्याः ।

[ व्यस्तत्रैराशिकम् ]

व्यस्तत्रैराशिकम् अपि एतत् एव । तत्र गुणकारभागहारविपर्यासे विशेषः । तत् यथा --

[उद्देशकः ]

पञ्चसौवर्णिके पले दृष्टानि षोडशा पलानि सुवर्णस्य यदा तदा चतुस्सौवर्णिके कियन्ति इति ॥ १४ ॥

न्यासः -- ५ १६ ४

अत्र पञ्चसौवर्णिकेन पलेन षोडश पलानि इति पञ्चभिः षोडश गुणिताः सुवर्णाः भवन्ति । एते सुवर्णाः चतुर्भिः ह्र्टाः चतुस्सौवर्णिकपलानि भवन्ति । एवम् लब्धानि पलानि २० ।

स्वसिद्धान्ते च यदि व्यासार्धमण्डले भुजाफलम् इदम् लभ्यते तदा तत्कालोत्पन्नकर्णविष्कम्भार्धमण्डले किम् इति तत्र महति कर्णप्रमाणे अल्पीयस्यः [ भुजाफलकला ] भवन्ति, अल्पकर्णे वह्व्यः इति व्यासार्धम् गुणकारः [ कर्णः भागहारः ] ।

उद्देशकः --

अष्टौ पिटकाः दृष्टाः चतुर्दशप्रसृतिकेन मानेन ।
अष्टप्रसृतिकमाने पिटकाः के स्युः तदा वाच्याः ॥ १५ ॥

न्यासः -- ८ १४ ८

लब्धम् पिटकाः १४ ॥ २६-२७ ॥

[ कलासवर्णनम् ]

कलासवर्णोद्देशप्रदर्शनार्थम् आर्यापश्चार्धम् आह --

छेदगुणम् सच्छेदम् परस्परम् तत् सवर्णत्वम् ॥ २७ ॥

सह छेदेन वर्तते इति सच्छेदम् । किम् तत् ? राशिरूपम् । अत्र सच्छेदम् राशिरूपम् विन्यस्य एतत् उच्यते -- "छेदगुणम् सच्छेदम् परस्परम्" इति । छेदः गुणः यस्य राशिरूपस्य तद्राशिरूपम् छेदगुणम् । परस्परम् अन्योन्यम्, एकेन राशिच्छेदेन इतरः राशिः सच्छेदः गुण्यते, इतरेण अपि इतरः [ राशिः तद्वत् विन्यस्तः ] । तत् सवर्णत्वम्, तत् एव निर्वर्तितम् कर्म सवर्णत्वम् । सवर्णकयोः यथा इष्टम् संयोगः विश्लेषः च ।

उद्देशकः --

अर्धम् षष्ठम् द्वादशभागम् चतुर्थभागसंयुक्तम् ।
एकत्र कियत् द्रव्यम् निर्देश्यम् तत्क्रमेण एव ॥ १ ॥

न्यासः -- १ १ १ १
२ ६ १२ ४

करणम् -- द्वयोः
१ १
२ ६,
एतौ परस्परच्छेदेन गुणितौ सच्छेदौ राशी
६ २
१२ १२ ।
एकत्र
२
३ ।
पुनर् तृतीयरासिना स्थापना
२ १
३ १२,
प्रक्षिप्तेन
[ ३ ]
[ ४ ] ।
एवम् चतुर्थराशिना
३ १
४ ४, लब्धम् रूपकम् १ ।

उद्देशकः --

अर्धम् षष्ठम् भागम् तृतीयकेन सहितम् कियत् द्रव्यम् ।
अर्धम् षष्ठः द्वादशकः विंशः सपञ्चभागः च ॥ २ ॥

न्यासः -- १ १ १
२ ६ ३

द्वितीयोद्देशके स्थापना --
१ १ १ १ १
२ ६ १२ २० ५

लब्धम् पूर्वकरणेन उभयत्रैकराशिकम् रूपम् १, १ ।

उद्देशकः --

अर्धम् षड्भागोनम् पञ्चांशम् च अपि सप्तभागोनम् ।
त्र्यंशम् पादोनम् वा गणयते [ गणकाः ] कियत् द्रव्यम् ॥ ३ ॥

न्यासः -- १ १॰ १ १॰ ११॰
२ ६ ५ ७३४

लब्धम् यथाक्रमेण --१ २ १
३ ३५१२

[विपरीतकर्म ]

प्रतिलोमकरणप्रदर्शनार्थम् आह --

गुणकाराः भागहराः भागहराः ते भवन्ति गुणकाराः ।
यः क्षेपः सः अपचयः अपचयः क्षेपः च विपरीते ॥ २८ ॥

गुणकाराः भागहराः, ये गुणकाराः आसन् ते प्रतिलोमक्रमणि [भागहाराः भवन्ति] । भागहराः ते भवन्ति गुणकाराः, [ये] भागहाराः ते गुणकाराः भवन्ति । यः क्षेपः सः अपचयः, पूर्वम् यः क्षेपः आसीत् स विलोमकर्मणि अपचयः भवति । अपचयः क्षेपः च, यः अपचयः स क्षेपः विपरीतकर्मणि भवति ।

अत्र ये उद्देशकाः ते प्रायशः प्रदर्शिताः । स्वतन्त्रे अपि च छायानीतशङ्कोः घटिकानयनम् प्रति व्यासार्धम् भागहारः आसीत् इति गुणकारः, लम्बकः गुणकारः आसीत् इति भागहारः । तत्र उत्तरगोले [क्षितिज्या क्षिपे] दित्यपनीयते, दक्षिणगोले अपनयेत् इति प्रक्षिप्यते । ततः विपरीतत्वात् एव व्यासार्धम् गुणकारः, स्वाहोरात्रार्धम् भागहारः । लब्धज्या विपरीतकर्मणा एव काष्ठीक्रियते । तस्मिन् काष्ठे उत्तरगोले चरप्राणाः प्रक्ष्प्यन्ते विशोधितत्वात्,
दक्षिणगोले विशोध्यन्ते क्षिप्तत्वात् इति आदि । एवम् सर्वत्र स्वतन्त्रे विपरीतकर्म नियोज्यम् ।

अन्यत्र अपि उद्देशकः --

द्विगुणम् रूपसमेतम् पञ्चविभक्तम् त्रिताडितम् भूयः ।
द्व्यूनम् सप्तविभक्तम् लब्धम् रूपम् कियत् भवेत् पूर्वम् ॥ १ ॥

न्यासः -- २ गु, १ क्षे, ५ हा, ३ गु, २ ऊ, ७ हा, सप्तभिः भागलब्धम् रूपकम् १ ।

करणम् एतत् -- लब्धम् रूपम् १, सप्तभिः गुणितम् जातम् ७, द्वाभ्याम् युक्तम् ९, त्रिभिः भक्तम् ३, पञ्चगुणम् १५, एकोनम् १४, दलितम् लब्धम् ७ ।

उद्देशकः --

त्रिगुणम् रूपविहीनम् दलितम् द्वाभ्याम् समन्वितम् भूयः ।
भक्तम् त्रिभिः तु तस्मात् द्विकहीनम् किम् भवेत् रूपम् ॥ २ ॥

न्यासः -- ३ गु, १ ऊ, २ हा, २ क्षे, ३ हा, २ ऊ, लब्धम् रूपम् १ ।पूर्ववत् आगतम् ५ ॥ २५ ॥

[ अनेकवर्णसमीकरणविशेषः ]

राश्यूनक्रमसङ्कलितानयनम् आह --

राश्यूनम् राश्यूनम् गच्छधनम् पिण्डितम् पृथक्त्वेन ।
व्येकेन पदेन हृतम् सर्वधनम् तत् भवति एवम् ॥ २९ ॥

राशिना ऊनम् राश्युनम् । [ राश्यूनम् ] राश्यूनम् इति अनया वीप्सया अनन्त्यम् गणितकर्म प्रदर्शयति । गच्छः पदम् पर्यवसानम् इति पर्यायाः । गच्छस्य धनम् गच्छधनम्, पदधनम् । राश्यूनन्यायेन यावत् पदम् तत् गच्छधनम् उच्यते । पिण्डितम् पृथक्त्वेन । पिण्डितम् एकत्र कृतम् । पृथक्त्वेन इति राश्यूनक्रमलब्धपदानाम् अविनष्टस्थापनाम् प्रदर्शयति । अविनष्टस्थापनाप्रयोजनम् च सर्वधनम् च सर्वधनात् अविनष्टस्थापितपदधने
अपनीते पृथक् पृथक् पदानाम् धनानि भवन्ति । यदि केवलम् सर्वधनपरिज्ञानमात्रम् एव स्यात् तदा पृ(थ)क्त्वेन इति अनर्थकम् स्यात्, यस्मात् अपृथक्करणे अपि सर्वधनस्य सिद्धत्वात् । विगतम् एकम् व्येकम्, तेन व्येकेन, तेन पदेन च । व्येकैः पदैः इति बहुवचनेन अत्र भवितव्यम् । न एषः दोषः । पदजातिम् अङ्गीकृत्य "जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यात्" [अष्टाध्यायी, १.२.५८ ] इति एकवचनम् कृतम् । तेन यः अर्थः व्येकैः पदैः इति
स एव अर्थः व्येकेन पदेन इति अवगम्यते । हृतम् भक्तम् । सर्वधनम्, सर्वेषाम् पदानाम् यथाक्रमेण धनम् एकत्र तत् सर्वधनम् उच्यते । तत् भवति एवम्, यत् एवम् कृते कर्मणि तत् सर्वधनम् भवति ।

उद्देशकः --

मत्तामत्तकरेणुविक्करचिता यूथा गजानाम् वने
एकापायचयेन [ ये अत्र ] गणिताः त्रिंशत् रसानाम् कृतिः ।
सप्तानाम् अपि सा एव च एकसहिता नागाग्रम् आगण्यताम्
यूथानाम् च पृथक् पृथक्त्वगणितम् निर्वर्ण्यताम् तत्त्वतः ॥ १ ॥

न्यासः -- ३०, ३६, ४९, ५० ।

करणम् -- एतानि धनानि अविनष्टानि एकत्र १६५ । व्येकम् पदम् ३ । अनेन लब्धम् सर्वधनम् ५५ । एतस्मात् प्रथमपदम् अपास्य मत्ताग्रम् २५, द्वितीयम् अपास्य अमत्तसङ्ख्या १९, तृतीयम् अपास्य करेणुसङ्ख्या ६, चतुर्थम् अपास्य विक्कसङ्ख्या ५ ।

उद्देशकः --

नागाः वाजखरोष्ट्रवेसरगवाम् एकैकहीनाः क्रमात्
अष्टाविंशतिः एकहीनगणिता रूपोनम् अन्त्यम् पुनर् ।
तेषाम् सर्वधनम् पृथक् च नियमात् वाच्यम् त्वया निश्चितम्
कृत्स्नम् च आर्यभटप्रणीतगणितम् दृष्टम् गुरोः अन्तिके ॥ २ ॥

न्यासः -- २८, २७, २६, २५, २४, २३, २१ । लब्धम् सर्वधनम् २९ । पृथक् पृथक् १, २, ३, ४, ५, ६, ८ ॥ २९ ॥

[ एकवर्णसमीकरणम् ]

समकरणोद्देशकप्रदर्शनार्थम् आह --

गुलिकान्तरेण विभजेत् द्वयोः पुरुषयोः तु रूपकविशेषम् ।
लब्धम् गुलिकामूल्यम् यदि अर्थकृतम् भवति तुल्यम् ॥ ३० ॥

गुलिकाशब्देन अविज्ञातमूल्यवस्त्वभिधीयते । गुलिकानाम् अन्तरम् गुलिकान्तरम् तेन गुलिकान्तरेण, अविज्ञातमूल्यवस्तूनाम् अन्तरेण इति अर्थः । विभजेत् द्वयोः पुरुषयोः तु रूपकविशेषम् । द्वयोः इति अनेन द्वयोः एव इदम् कर्म न त्र्यादीनाम् इति एतत् प्रदर्शयति । रूपकविशेषम् इति अनेन च निर्ज्ञातसङ्ख्यम् धनम् परिगृह्यते । रूपकम् दीनारादिकम् । लब्धम् गुलिकामूल्यम्, यत् अत्र लब्धम् तत् गुलिकामूल्यम् । यदि अर्थकृतम् भवति तुल्यम्, येन
अर्थेन कृतम् तत् तुल्यम् सदृशम् भवति ।

उद्देशकः --

अश्वाः लक्षणयुक्ताः वणिजः नित्यम् बलान्विताः सप्त ।
प्रथमस्य मया दृष्टम् द्रव्यशतम् च एव हस्तगतम् ॥
नव तुरगाः निर्दृष्टाः द्रव्याशीतिः धनम् द्वितीयस्य ।
वाच्यम् घोटकमूल्यम् तुल्यार्धेण एव तुल्यधनौ ॥ १ ॥

न्यासः -- ७ १००
९ ८०

करणम् -- गुलिकान्तरम् २, रूपकविशेषम् २०, एतत् गुलिकान्तरेण विभक्तम् घोटकस्य एकस्य मूल्यद्रव्यम् दश १० । अनेन अर्धेण प्रथमस्य घोटकानाम् मूल्यम् ७०, द्वितीयस्य ९०, [स्व]स्वहस्तगतेन अनेन [च] गतौ तुल्यधनौ १७० उभयोः अपि ।

उद्देशकः --

कुङ्कुमपलानि च अष्टौ एकस्य धनस्य रूपका नवतिः ।
द्वादश पलानि विद्यात् अन्यस्य धनस्य रूपकाः त्रिंशत् ॥
तुल्यार्धेण च क्रीतम् कुङ्कुमम् द्वाभ्याम् कियत् पलार्धेण ।
इच्छामि तत्र बोद्धुम् मूल्यम् वित्तम् च तुल्यम् एव तयोः ॥ २ ॥

न्यासः -- ८ ९०
१२ ३०

लब्धम् पूर्ववत् कुङ्कुमपलस्य एकस्य मूल्यम् १५ । तुल्यधनम् २१० उभयोः ।

एते एव गुलिकाः अज्ञातप्रमाणाः यावत् तावन्तः उच्यन्ते, रूपकाः एव तत्र अपि । यावत् तावत् संज्ञया अपि उद्देशकाः अभिधीयन्ते । तत् यथा --

[उद्देशकः ]

सप्त यावत् तावत् सप्त च रूपकाः समाः द्वयोः यावत् तावतोः द्वादशानाम् [च] रूपकाणाम्, कियन्तः यावत् तावत् प्रमाणाः ॥ ३ ॥

न्यासः -- ७ ७
२ १२

करणम् -- पूर्ववत् गुलिकानाम् यावत् तावताम् विशेषः उपरि शुद्धे ५ । अधः शुद्धे रूपकविशेषः ५ । यावत् तावत् विशेषेण रूपकविशेषस्य भागलब्धम् यावत् तावत् प्रमाणम् १ । एतेन यावत् तावत् प्रमाणेन यावत् तावन्तः गुलिकाः जाताः क्रमेण ७, २॑ स्वान् स्वान् रूपान् प्रक्षिप्य समाः । प्रथमस्य १४, द्वितीयस्य तत् एव १४ ।

उद्देशकः --

नव गुलिकाः सप्त [च] रूपकाः समाः त्रयाणाम् [तु] गुलिकानाम् ।
त्रयोदशानाम् च रूपकाणाम् तदा किम् गुलिकामूल्यम् ॥ ४ ॥

न्यासः -- ९ ७
३ १३

लब्धम् गुलिकामूल्यम् १ ।

यदा पुनर् रूपकाः शोध्याः भवन्ति तदा --

उद्देशकः --

नव गुलिकाः रूपकाः चतुर्विंशतिः ऋणम् द्वे गुलिके [च] ।
अष्टादश रूपकाः समाः [कथय] किम् गुलिकामूल्यम् ॥ ५ ॥

न्यासः -- ९ २४
२ १८
अत्र गुलिकाः उपरि शुद्ध्यन्ते, रूपकाः अधः शोध्याः न शुद्ध्यन्ति । ततः --

सोज्झम् भूणारधणम् अणम् अणदो नयमदो नयमदो सोज्झम् ।
विपरीते साधणए सोज्झम् वा किम् व गुहोऌअम् ॥

अत्र गुलिकाः उपरि शोध्याः गुलिकाभ्यः शुद्ध्यन्ते॑ अधःशोध्याः रूपकाः न, शोध्यत्वात् च विपरीतम् प्रक्षिप्यन्ते । प्रक्षिप्ते सति जाताः ४२ । गुलिकाविशेषैः सप्तभिः भागलब्धम् षट् ६ । [प्रथमस्य यावत् ता]वत् प्रमाणम् ९, षड्गुणितम् ५४, ऋणगतरूपकाः चतुर्विंशतिः शुद्धाः शेषम् त्रिंशत् ३० । [द्वितीयस्य] द्वे गुलिके षड्भिः गुणिते १२, अष्टादशयुक्ते ३० । एवम् समधनाः ।

समकरणेषु [एवम्] सर्वत्र योज्यम् ॥ ३० ॥

[ योगकालज्ञनम् ]

योगकालानयनार्थम् आह --

भक्ते विलोमविवरे गतियोगेन अनुलोमविवरे द्वौ ।
गत्यन्तरेण लब्धौ द्वियोगकालौ अतीतैष्यौ ॥ ३१ ॥

भक्ते, हृते । विलोमविवरे, एकः गच्छति अपरः तत्प्रतिमुखम् प्रत्यागच्छति तत् विलोमविवरम्, अनुलोमगतेः विलोमगतेः च अन्तरम् इति । अत्र अनुलोमशब्दः लुप्तनिर्दिष्टः प्रत्येतव्यः । अथवा विलोमविवरम् एवंप्रकारम् एव परिगृह्यते, यदि द्वौ अपि विलोमगती स्याताम्, तदा अनुलोमविवरम् एव स्यात् । तस्मिन् विलोमविवरे भक्ते । केन इति आह -- गतियोगेन । गत्योः योगः गतियोगः, तेन गतियोगेन । अनुलोमविवरे, अनुलोमगत्योः विवरम् अनुलोमविवरम्
। द्वौ इति द्वयोः प्रतिलोमानुलोमयोगकालयोः परम् अंशम् करोति । गत्यन्तरेण, गत्योः अन्तरम् [गत्यन्तरम्] गतिविशेषः, तेन गत्यन्तरेण । लब्धौ द्वियोगकालौ, द्वयोः योगः द्वियोगः, द्वियोगस्य कालौ द्वियोगकालौ । अतीतैष्यौ अतीतः च एष्यः च अतीतैष्यौ । अतीतः अतिक्रान्तः, एष्यः भावि । तत् यथा -- यदा एकः ग्रहः पुरस्तात् स्थितः वक्री, [अन्यः] पश्चात् अवस्थितः चारेण गच्छति, तयोः अन्तराललिप्ता विलोमविवरम् । तत्र एकस्य अनुलोमचारिणः, अपरस्य प्रतिलोमम्
आगच्छतः अल्पेन कालेन योगः भविष्यति इति तयोः भुक्तियोगेन भागः ह्रियते, यस्मात् तावान् एव तयोः आह्निकः भोगः । तेन त्रैराशिकम् क्रियते -- यदि अनेन आह्निकेन भोगेन एकः दिवसः लभ्यते, तदा अनेन विलोमविवरेण किम् इति । दिवसा घटिका वा लभ्यन्ते । तावान् कालः अतिक्रान्ते योगे अतीतः, भाविनि योगे एष्यः । तत्र समलिप्ताविधानम् भुक्त्या त्रैराशिकम् -- यदि षष्ट्या घटिकाभिः ग्रहस्फुटगतिः लभ्यते, तदा विलोमोत्पन्नघटिकाभिः का भुक्तिः इति
लब्धम् अनुलोमगतौ ग्रहे प्रक्षिप्यते विलोमगतेः अपनीयते । एवम् तौ समलिप्तौ ग्रहाविष्टकालसम्भवौ भवतः । अथ वक्रगतिः पश्चात् अवतिष्ठते, पुरस्तात् अनुलोमगतिः तदा लब्धम् फलम् वक्रगतौ प्रक्षिप्यते अतिक्रान्तत्वात्, अनुलोमगतिः विशोध्यते अतिक्रान्तत्वात् एव । यदा पुनर् अनुलोमगती एतौ भवतः तदा भुक्तिविशेषेण अनुलोमविवरस्य भागः, यस्मात् भुक्तिविशेषतुल्यम् आह्निकम् गत्यन्तरम् तयोः । ततः अनेन गत्यन्तरेण भुक्तिविशेषेण
जनितेन षष्तिः नाड्यः उपलभ्यन्ते तदा अनुलोमविवरेण किम् इति घटिकाः लभ्यन्ते । ताभिः च ग्रहस्फुटभुक्त्या सह त्रैराशिकम् -- यदि षष्ट्या स्फुटभुक्तिः लभ्यते, आभिः घटिकाभिः किम् इति । लब्धम् शीघ्रगतौ पश्चात् व्यवस्थिते उभयम् उभयत्र स्वम् स्वम् प्रक्षिप्यते । शीघ्रगतौ पुरःस्थिते तत् उभयम् उभयस्मात् अपनीयते । एवम् द्वियोगकालौ अतीतैष्यौ भवतः । यदा च द्वौ अपि वक्रगती भवतः तदा अपि एवम् एव कर्म । इदम् एव कर्म
अस्माभिः कर्मनिबन्धे उक्तम् --

ग्रहयोः अन्तरम् भाज्यम् प्रतिलोमानुलोमयोः ।
भुक्तियोगेन वा अन्यत्र भोगविश्लेषसङ्ख्यया ॥
दिनादिः लभ्यते कालः योगिनाम् योगकारकः ।
भुक्तेः अनेकरूपत्वात् स्थूलः कालः स गम्यते ॥
समलिप्तावतः युक्त्या कुर्यात् तन्त्रस्य वेदिता ।
सोपदेशात् गुरोः नित्यम् अभ्यासात् वा अवगम्यते ॥
[महाभास्करीयम्, ६.४९-५१]

इति ।

सूर्याचन्द्रमसोः अपि --

गन्तव्ययाततिथिशेषहते रवीन्द्रोः भुक्ती क्रमेण दिनभुक्तिविशेषभक्ते ।
लब्धेन युक्तरहितौ शशितिग्मरश्मी ज्ञेयौ समौ सकललोकविधानहेतू ॥
[महाभास्करीयम्, ४.६४]

लौकिकगणिते अपि उद्देशकः --

सार्धम् योजनम् एकः वलभीतः याति असौ दिनेन एव ।
आगच्छति हरुकच्छात् पादयुतम् योजनम् हि अपरः ॥
अन्तरम् अनयोः दृष्टम् तु अष्टादश योजनानि पथिकेन ।
वाच्यम् योगः कियता कालेन अभूत् तयोः गणक ॥ १ ॥

न्यासः -- वलभीप्रस्थितस्य [गतिः]
३
२,
हरुकच्छात् आगच्छतः [गतिः]
५
४,
तयोः विलोमविवरम् १८ ।

करणम् -- अनयोः गतियोगः
११
४ ।
अनेन विलोमविवरस्य भागलब्धम् दिवसाः ६, दिवसभागाः च
६
११ ।

अनुलोमविवरोद्देशकः --

वलभीतः याति नरः गङ्गाम् दिवसेन योजनम् सार्धम् ।
अपरः त्रिभागहीनम् शिवभागपुरात् तदा याति ।
अष्टौ त्रिगुणानि तयोः अन्तरम् उक्तम् च योजनानि बुधैः ।
एकेन पथा यातौ कियता कालेन संयुक्तौ ॥ २ ॥

न्यासः -- वलभीप्रस्थितस्य गतिः
३
२,
शिवभागपुरप्रस्थितस्य गतिः
२
३,
अनुलोमविवरम् २४ ।

करणम् -- एतयोः गतिविशेषः
५
६,
अनुलोमविवरम् २४ । अस्य गतिविशेषेण भागलब्धम् दिवसाः २८, दिवसभागाः च
४
५
॥ ३१ ॥

[ कुट्टाकारः ]

इदानीम् कुट्टाकारगणितम् अभिधीयते । तत्र आर्यासूत्रद्वयम् --

अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारेण ।
शेषपरस्परभक्तम् मतिगुणम् अग्रान्तरे क्षिप्तम् ॥ ३२ ॥
अधौपरिगुणितम् अन्त्ययुक् ऊनाग्रच्छेदभाजिते शेषम् ।
अधिकाग्रच्छेदगुणम् द्विच्छेदाग्रम् अधिकाग्रयुतम् ॥ ३३ ॥

अधिकाग्रभागहारम् छिन्द्यात् । अग्रम् शेषः । अधिकाग्रम् यस्य सः अयम् अधिकाग्रः । अधिकाग्रः च असौ भागहारः च अधिकाग्रभागहारः । तम् अधिकाग्रभागहारम्, छिन्द्यात् विभजेत् इति अर्थः । केन इति आह -- ऊनाग्रभागहारेण । शेषपरस्परभक्तम् । लब्धेन न अस्ति प्रयोजनम्, शेषेण सह कर्म क्रियते । परस्परेण भक्तम् परस्परभक्तम्, इतरेतरभक्तम् इति अर्थः । शेषेण सह परस्परभक्तम् शेषपरस्परभक्तम् । मतिगुणम्,
स्वबुद्धिगुणम् इति अर्थः । कथम् पुनर् स्वबुद्धिगुणः क्रियते ? अयम् राशिः केन गुणितम् इदम् अग्रान्तरम् प्रक्षिप्य विशोध्य वा अस्य राशेः शुद्धम् भागम् दास्यति इति । अग्रान्तरे क्षिप्तम् । समेषु क्षिप्तम् विषमेषु शोध्यम् इति सम्प्रदायाविच्छेदात् व्याख्यायते ।

एवम् परस्परेण लब्धानि पदानि अवस्थाप्य, मतिः च अधः, पश्चिमलब्धम् च मत्या अधः । अधुपरिगुणितम्, अधःस्थितेन राशिना उपरिरासिः गुणितः । अन्त्ययुक्, अन्त्येन राशिना पश्चिमलब्धेन सहितः । एवम् भूयः भूयः कर्म यावत् कर्मपरिसमाप्तिम् इति । ऊनाग्रच्छेदभाजिते शेषम्, ऊनाग्रस्य यत् छेदम् तेन भाजिते शेषम्, तेन ऊनाग्रच्छेदेन पूर्वगणितकर्मणा निष्पन्नराशेः विभक्तशेषम् परिगृह्यते । अधिकाग्रच्छेदगुणम्, अधिकाग्रच्छेदेन
अभ्यस्तम् । द्विच्छेदाग्रम्, द्वयोः छेदयोः अग्रम्, अग्रम् सङ्ख्या । अधिकाग्रयुतम्, अधिकाग्रेण युतम् अधिकाग्रयुतम् । एतत् उक्तम् भवति -- ऊनाग्रच्छेदभाजिते शेषम् अधिकाग्रच्छेदेन अभ्यस्तम् अधिकाग्रसहितम् तत् द्वयोः अपि छेदयोः भाज्यराशिः भवति इति ।

एवम् साग्रकुट्टाकारः व्याख्यातः । निरग्रकुट्टाकारः अपि उत्तरत्र वक्ष्यति ।

उद्देशकः --

पञ्चभिः एकम् रूपम् द्वे रूपे च एव सप्तभागेन ।
अवशिष्यते तु राशिः विगण्यताम् तत्र का सङ्ख्या ॥ १ ॥

न्यासः -- १ २
५ ७

करणम् -- अधिकाग्रच्छेदम् सप्त ७, ऊनाग्रच्छेदेन पञ्चकेन ५, भाजिते शेषम् उपरि द्वौ २ अधः पञ्च ५ । अल्पः राशिः इति अत्र एव मतिः कल्प्यते । अयम् [उपरि] राशिः केन गुणितः रूपम् अग्रान्तरम् प्रक्षिप्य पञ्चभिः शुद्धम् भागम् दास्यति इति लब्धा मतिः द्वे रूपे । भागलब्धम् एकम् १, शेषम् ० । अस्य स्थापना
२
१ ।
तृतीयपदस्य असम्भवात् एतत् एव सञ्जातम् । ऊनाग्रच्छेदभाजिते शेषम् २, अधिकाग्रच्छेदेन सप्तकेन गुणितम् जातम् १४, अधिकाग्र[२]सहितम् १६ । एतत् एव द्विच्छेदाग्रम् । अयम् एव राशिः पञ्चभिः भागम् ह्रियमाणः एकाग्रः, सप्तभिः द्व्यग्रः इति ।

उद्देशकः --

द्वादशभिः पञ्चाग्रः सप्ताग्रः स च पुनर् मया दृष्टः ।
एकत्रिंशद्भक्तः कः असौ राशिः भवेत् एकः ॥ २ ॥

न्यासः -- ५ ७
१२ ३१

करणम् -- "अधिकाग्रभागहारम् छिन्यात् ऊनाग्रभागहारेण" इति शेषम् उपरि सप्त, अधः द्वादश । एतयोः परस्परभक्ते लब्धम् एकम्, पुनर् एकम् एव, शेषम् उपरि द्वौ अधः पञ्च । अत्र मतिः । समानि पदानि इति अयम् राशिः केन गुणितः रूपद्वयम् अग्रान्तरम् प्रक्षिप्य पञ्चभिः शुद्धम् भागम् दास्यति इति लब्धम् रूपम् चतुष्कम् मतिः । ताम् पूर्वलब्धस्य अधः व्यवस्थापयेत् । भागलब्धम् च रूपद्वयम् इति एवम् लब्धम् अधः व्यवस्थाप्यः
। "अधौपरिगुणितम् अन्त्ययुग्" इति अनेन न्यायेन लब्धम् १० । एतत् एव "ऊनाग्रच्छेदभाजिते शेषम् अधिकाग्रच्छेदगुणम्" जातम् ३१०, "अधिकाग्रयुतम् द्विच्छेदाग्रम्" तत् च इदम् ३१७ ।

उद्देशकः --

अष्टाभिः पञ्चाग्रः चतुरग्रः कीर्तितः नवभिः एव ।
सप्तभिः एकाग्रः असौ विगण्यताम् कः भवेत् राशिः ॥ ३ ॥

न्यासः -- ५ ४ १
८ ९ ७

करणम् --
५ ४
८ ९.
एतयोः कुट्टाकारेण [लब्धम्] रूपम् १, राशिः च त्रयोदश । अत्र छेदयोः अभ्यासः भागहारः इति स्थापना
१३ १
७२ ७ ।
एतयोः पूर्ववत् लब्धः राशिः ८५ । अयम् राशिः अष्टाभिः भागम् ह्रियमाणः पञ्चाग्रः, नवभिः चतुरग्रः, सप्तभिः एकाग्रः इति ।

उद्देशकः --

द्व्याद्यैः शट्पर्यन्तैः एकाग्रः यः अवशिष्यते राशिः ।
सप्तभिः एव स शुद्धः वद शीघ्रम् कः भवेत् गणक ॥ ४ ॥

न्यासः -- १ १ १ १ १ ०
२ ३ ४ ५ ६७

अत्र इच्छया अधिकाग्रः राशिः परिकल्पनीयः । लब्धम् पूर्ववत् राशिप्रमाणम् ३०१ । एवम् साग्रकुट्टाकारः व्याख्यातः ।

[ निरग्रकुट्टाकारः ]
इदानीम् तु एव सूत्रे निरग्रकुट्टकार्थम् व्याख्यास्यामः । अधिकाग्रभागहारम् छिन्द्यात् अपवर्तयेत् इति अर्थः । केन इति आह -- ऊनाग्रभागहारेण । अग्रम् सङ्ख्या, ऊनम् च तदग्रम् च ऊनाग्रम्, ऊनाग्रम् च तत् भागहारः च स ऊनाग्रभागहारः, तेन ऊनाग्रभागहारेण, अपवर्तयेत् इति अर्थः । यथा एकविंशतिः सप्तभिः अपवर्त्यते । येन भागहारः अपवर्तितः तेन एव भाज्यः अपि अपवर्तनीयः । कथम् इदम् अवगम्यते येन एव भागहारः
अपवर्तितः तेन एव भाज्यः अपि अपवर्तनीयः इति ? सम्प्रदायाविच्छेदात् । अथवा न्यायः एषः, अपवर्तितस्य भागहारस्य अपवर्तितेन एव भाज्येन भवितव्यम् इति, यथा सप्तभिः एकविंशतिः भागाः अपवर्तिताः त्रिभागाः । अथवा भागहारस्य अपवर्तनम् ब्रुवता आचार्येण भाज्यस्य अपि अपवर्तनम् अभिहितम् एव । कुतः ? भागहारभाज्ययोः सहचारित्वात् । यथा स्थलानि परिमृज्यन्ताम् इति उक्ते सरकाणि अपि परिमृज्यन्ते । अधिकाग्रभागहारम् इति आदिना ग्रन्थेन
एतत् प्रतिपादयति -- अपवर्तितयोः भागहारभाज्ययोः कुट्टाकारः इति । शेषपरस्परभक्तम्, भागहारभाज्ययोः परस्परभक्तम् इति । मतिगुणम् इति एतत् पूर्वेण समानम् । अग्रान्तरे क्षिप्तम्, अग्रम् सङ्ख्या, अग्रस्य अन्तरम् अग्रान्तरम् सङ्ख्यान्तरम् इति अर्थः । तत् च इच्छापरिकल्पितम् इदम् सङ्ख्यान्तरम् प्रक्षिप्य अपनीय वा अस्य राशेः शुद्धम् भागम् दास्यति इति । अधौपरिगुणितम् अन्त्ययुक् इति एतत् सर्वम् पूर्वेण समानम् । ऊनाग्रच्छेदभाजिते शेषम्,
अपवर्तितभागहारशेषम् इति अर्थः । कुट्टाकारः भवति इति वाक्यशेषः । उपरि [रासिः] भागहारेण भक्तः [कार्यः] अधोराशिः भाज्यराशिना भाज्यः । गणिते अपि उक्तम् --

उपरि च भागहारेण भक्ते हि राशिः भवेत् वा ।

इति एवम् आदिना ग्रन्थेन । शेषे कुट्टाकारभागलब्धे भवतः इति । अधिकाग्रच्छेदगुणम् इति आदि न निरग्रकुट्टाकारेषु [उपयुज्यते ] ।

तत् यथा उद्देशकः --

अष्टौ केन अभ्यस्ताः षड्रूपयुताः हृताः त्रयोदशभिः ।
दद्युः शुद्धम् भागम् कः गुणकारः किम् आप्तम् च ॥ ५ ॥

न्यासः -- ८ ६
१३

भाज्यः अष्टौ, भागहारः त्रयोदश, अग्रान्तरम् षट् ।

करणम् -- भाज्यभागहारराशी रूपेण अपवर्तितौ
८
१३
"शेषपरस्परभक्तम्" इति जातम्
१
१
१
१ ।
परस्परभक्तशेषम्
१
२ ।
"मतिगुणम् अग्रान्तरे क्षिप्तम्" इति अयम् एकः राशिः केन गुणितः षड्रूपाणि प्रक्षिप्य द्वाभ्याम् शुद्धम् भागम् दास्यति इति मतिः द्वे २, मत्या गुणितम् जातम्
२
२ ।
एतत् षड्रूपयुतम्
८
२ ।
लब्धम् रूपचतुष्कम् ४ । एतत् सर्वम् यथाक्रमेण
१
१
१
१
२
४ ।

"अधौपरिगुणितम् अन्त्ययुक्" इति जातम्
२२
१४ ।
"ऊनाग्रच्छेदभाजिते शेषम्" इति ऊनाग्र[=अपवर्तित]भागहारभाज्यभक्तशेषम् स्थापितम्
९
६ ।
अयम् कुट्टाकारः भागलब्धम् च ।

उद्देशकः --

एकादश केन हताः त्रिकरहिताः ते हृताः त्रिविंशत्या ।
दद्युः शुद्धम् अथ अंशम् लब्धम् गुणकम् च मे ब्रूहि ॥ ६ ॥

न्यासः -- ११
२३

[त्रिक]रहितात् लब्धम् पूर्वक्रमेण एव कुट्टाकारः भागलब्धम् च
१७
८ ।

[ग्रहकुट्टाकारः, मण्डलशेषविधिः]

अथ इदानीम् ग्रहगणिते कुट्टाकारः योज्यते -- रविभागणाः केन गुणिताः मण्डलशेषम् अपनीय भूदिवसानाम् शुद्धम् भागम् दद्युः इति रविभगणाः भूदिवसाः च न्यस्यन्ते
४३२००००
१५७७९१७५०० ।
एतौ ऊनाग्रच्छेदार्थम् परस्परेण भाज्यौ । शेषम् ऊनाग्रच्छेदः पञ्चसप्ततिशतानि ७५०० । अनेन अपवर्तितौ
५७६
२१०३८९।
एतौ ऊनाग्रच्छेदभाजितौ शेषौ । एतयोः भगवतः भास्करस्य कुट्टाकारः साध्यः ।

उद्देशकः --

मध्यम् रवेः मृगपतौ धनुः अंशकार्धे
दृष्टम् मया दिनकरोदयकालजातम् ।
आगण्यताम् दिनगणः भटशास्त्रसिद्धः
याताः च तस्य भगणाः कलिकालसिद्धाः ॥ ७ ॥

न्यासः -- [मध्यमरविः] ४ । २८ । २० ।

"गणकाराः भागहराः" [गणित॰, २८] इति मण्डलशेषानयनम् । तत् यथा -- सवितारम् लिप्तीकृत्य जातम् ८९०० । एतत् अनेन २१०३८९ गुणितम् खखषड्घनेन [२१६००] भक्तम्, लब्धम् मण्डलशेषम् ८६६८८ । इदम् एव मण्डलशेषम् अग्रान्तरम् परिकल्प्य कुट्टाकारः क्रियते ।

[न्यासः]
५७६ अग्रान्तरम् ८६६८८
२१०३८९

लब्धम् कुट्टाकारन्यायेन --
८२०१०६८५६५
२२४५२७६८

ऊनाग्रभागहारभाज्यभक्तशेषौ --
[१०५३४५
२८८ ]

[२८८] एतत् कलियातम्, अहर्गणः च -- १०५३४५ ।

अथवा एकरूपापचयेन कुट्टाकारम् कृत्वा अहर्गणः मण्डलानि च आनीयन्ते । तत् यथा -- एकापचयेन कुट्टाकारभागलब्धौ --
९४६०२
२५९

अनेन मण्डलशेषेण च त्रैराशिकम् -- यदि एकरूपापचयेन अयम् कुट्टाकारः मण्डलशेषापचयेन कियान् इति न्यासः -- १, ९४६०२, ८६६८८ । अत्र लब्धम् निरपवर्तितदिवसैः विभक्तशेषम् अहर्गणः पूर्वलिखितः एव । मण्डलानयने एकरूपापचयेन इदम् भागलब्धम्, मण्डलशेषापचयेन कियत् इति न्यासः -- १, २५९, ८६६८८ । अत्र लब्धम् निरपवर्तितमण्डलैः विभक्तम् शेषम् मण्डलानि पूर्वलिखितानि एव ।

[ मण्डलगन्तव्यविधिः]

अथवा निरपवर्तितभागहारभाज्यराशी [मण्डलगन्तव्यम्] [क्षेपः च] परिकल्प्य कुट्टाकारः क्रियते । तत् यथा --

गन्तव्यम् रविणा अष्टम् अस्य भवनस्य आहुः कलानाम् शतम्
सञ्चिन्त्य आशु वद अश्मकस्य गणितम् ज्ञातम् त्वया चेत् यदि ।
यावन्ति अद्य कलेः गतानि मतिमन् वर्षाणि सर्वाणि मे
तु अह्नाम् यः च गणः स च एव विशदम् वाच्यम् कलेः यः गतम् ॥ ८ ॥

न्यासः -- गन्तव्यम् रविणा --
७
१
४०


अनेन मण्डलगन्तव्येन "गुणकाराः भागहराः" इति मण्डलगन्तव्यम् १२३७०१ । अनेन उपचयाग्रेण पूर्ववत् अहर्गणः कलियातम् च
१०५३४५
२८८ ।

एकरूपोपचयेन कुट्टाकारः भागलब्धम् च
११५७८७
३१७ ।
पूर्ववत् अनेन अपि यदि एकरूपोपचयेन अयम् कुट्टाकारः भागलब्धम् वा मण्डलगन्तव्योपचयेन [१२३७०१] कः कुट्टाकारः भागलब्धम् च इति लब्धम् निरपवर्तितभागहारभाज्यभक्तशेषम् अहर्गणः भागलब्धम् च ।

अत्र मण्डलगन्तव्यप्रक्षेपात् एकम् अधिकम् भवति । अतः मण्डलम् एकम् अपनीयते । एवम् मण्डलकुट्टाकारः व्याख्यातः ।

[ राशिकुट्टाकारः ]

इदानीम् तु राशिकुट्टाकारः उच्यते । तत् यथा --

उद्देशकः --

वात्या हृताः सभगणाः दिवसस्य भर्त्तुः
ये राशयः दिवसराशिवशेन लब्धाः ।
शेषम् त्रिसप्त नवपञ्च च भागलिप्ताः
वाच्यम् दिवाकरगतम् दिनराशिसाकम् ॥ ९ ॥

न्यासः -- ०
०
२१
५९

करणम् -- "गुणकाराः भागहराः" इति राशिशेषम् लब्धम् १५४१६८ । अपवर्तितरविभगणाः द्वादशगुणाः रासयः इति स्थापना
६९१२
२१०३८९ ।
राशिशेषम् १५४१६८ ।

लब्धम् कुट्टाकारक्रमेण अहर्गणः भागलब्धम् च --
१७६५६४
५८००

भागलब्धम् द्वादशभिः विभज्य लब्धम् भुक्तभगणाः । शेषम् राशयः । ते च ४८३, [४] । अहर्गणाः [१७६५६४ । अथवा] यावत् अभिरुचितम् पृच्छकाय ।

एकरूपापचयेन अपि कुट्टाकारम् कृत्वा लब्धम् --

११३०७८
३७१५

एताभ्याम् अपि त्रैराशिकेन अहर्गणः भागलब्धम् च
१७६५६४
५८००

शेषम् समानम् ।

[ प्रकारान्तरेण साधनविधिः]

अन्ये पुनर् द्वादशानाम् भूदिवसानाम् च एकापनयेन कुट्टाकारम् कृत्वा त्रैराशिकम् कुर्वन्ति । यस्मात् मण्डलशेषस्य द्वादश गुणकारः । तत्र गताः राशयः मण्डलशेषम् च लभ्यन्ते । तत् यथा --

न्यासः --
१२
२१०३८९

अत्र लब्धम् कुट्टाकारः भागलब्धम् च --
१२२७२७
७

शेषम् उक्तत्वात् न उक्तम् ।

[ भागकुट्टाकारः ]

भागशेषः उद्देशकः --

भगणभवनभागाः वातनीताः समस्ताः
दिनकरपरिभुक्ताः लिप्तिकाः पञ्च दृष्टाः ।
वद यदि दिनराशिम् वेत्सि चेत् आश्मकीयम्
गतम् अपि दिनभर्तुः मण्डलाद्यम् क्षणेन ॥ १० ॥

न्यासः --
०
०
०
५

[लब्धम्] भागशेषम् -- १७५३२

पूर्ववत् लब्धम् अहर्गणः भागलब्धम् च --
६२७१५
६१८१२

यदा पुनर् एकापनयेन कुट्टाकारम् कृत्वा त्रैराशिकम् क्रियते तदा अपि स एव अहर्गणः, तत् एव भागलब्धम् । तत् यथा -- एकापनयेन अपि कुट्टाकारभागलब्धे स्याताम् । ते च --
५९८७३
५१०११

अनेन त्रैराशिकेन पूर्ववत् लब्धः एव अहर्गणः भागलब्धम् च । भागलब्धे षष्टिशतत्रयभक्ते गतमण्डलानि राशिभागाः च जाताः १७१, ८, [१२] ।

अन्ये पुनर् त्रिंशतः निरपवर्तितभूदिनानाम् च कुट्टाकारम् कृत्वा त्रैराशिकेन गतभागान् राशिशेषम् च आनयन्ति । तत् यथा --

[न्यासः] --
३०
२१०३८९
[अत्र] कुट्टाकारः भागलब्धम् च --
७०१३
१
अनेन त्रैराशिकम् कृत्वा राशिशेषम् गतभागाः च --
८४७४०
१२
अनेन राशिशेषेण अहर्गणानयनस्य अभिहित्वात् न उक्तम् ।

[ लिप्ताकुट्टाकारः ]

एवम् लिप्ताशेषम् दृष्ट्वा कुट्टाकारः क्रियते । तत् यथा --

उद्देशकः --

मण्डलर्क्षलवलिप्तिका हृता मारुतेन [विकला प्रदृश्यते] ।
कथ्यताम् दिनगणः विवस्वतः भुक्तमण्डलगृहांशलिप्तिकाः ॥ ११॥

न्यासः --
०
०
०
०
१

पूर्ववत् लब्धम् लिप्तिकाशेषम् -- ३५०६

करणम् -- खखषड्घनेन अपवर्तितरविभगणान् संगुणय्य स्थापना --
१२४४१६००
२१०३८९

अत्र भागहारेण भाज्यम् विभज्य लब्धम् पृथग्विनष्टम् स्थापयेत् । शेषस्य भूदिवसानाम् च कुट्टाकारम् कृत्वा लब्धस्य उपरिराशिम् कुट्टाकारम् अविनष्टस्थापितेन पृथक् संगुणय्य भागलब्धम् प्रक्षिपेत् । भागलब्धम् भवति । अनेन क्रमेण लब्धम् अहर्गणः भागलब्धम् च । स्थापना --
१२५३४२
७४१२२४६

भागलब्धे खखषड्घनभक्ते गतमण्डलानि राशिभागलिप्ताः च --
३४३
१
२७
२६

अथवा एकापनयेन कुट्टाकारम् कृत्वा त्रैराशिकम् क्रियते । तत् यथा -- एकापनयेन कुट्टाकारः भागलब्धम् च --
८१६४७
४८२८२९१

शेषम् उक्तत्वात् न उक्तम् ।

अथवा षष्ट्या भूदिवसानाम् च एकापनयेन कुट्टाकारम् कृत्वा भागशेषम् गतलिप्ताः च लभ्यन्ते अनुपातेन । तत् यथा -- एकापनयेन षष्ट्या भूदिवसानाम् च कुट्टाकारः भागलब्धम् च --
१०८७०१
३१

एवम् लिप्तातत्पराशेषयोः अपि योज्यम् ।

अथ कश्चित् सूर्यम् उद्दिश्य कियता कालेन पुनर् एवंविधः सूर्यः भविष्यति इति पृच्छति, स एवम् वक्तव्यः -- निरपवर्तितभूदिनतुल्यैः इति, यस्मात् निरपवर्तितभूदिनैः क्षिप्तः सूर्यः तादृक् एव भवति ।

[वारकुट्टाकारः ]

अथ कश्चित् सूर्यदिने सूर्यम् उद्दिश्य पुनर् कियता कालेन सूर्यदिने सोमदिने अन्यस्य वा ग्रहवारदिवसे सूर्यः एवम् भविष्यति इति पृच्छति, तत् यथा -- निरपवर्तितभूदिनेषु सप्तहृतावशिष्टेषु कुट्टाकारः क्रियते । ग्रहवारः यः निर्दिष्टः तस्मात् य[त् उ]त्तरः ग्रहवारः ततः प्रभृति एकोत्तरया वृद्ध्या अपचयम् परिकल्प्य एवम् लब्धम् कुट्टाकारः निरपवर्तितभूदिनानाम् गुणकारः तेन गुणितेषु निरपवर्तितभूदिनेषु निर्दिष्टसूर्येण आनीतम्
अहर्गणम् प्रक्षिप्य जातदिवसतुल्यः कालः आदेष्टव्यः । तत् यथा --

उद्देशकः --

धन्विन्यंशाः शरकृतिसमाः षट्कृतिः मौरिकाणाम्
मध्यम् भानोः दश च विकलासंयुतम् वर्णयन्ति ।
रात्रेः पातुः तनुजदिवसे केन कालेन तुल्यः
भावी सूर्यः कथय विशदम् जीवशुक्रज्ञवारे ॥ १२ ॥

बुधदिवसे अयम् सूर्यमध्यमः --
८
२५
३६
१०

अनेन सूर्येण पूर्वकरणेन लब्धम् अहर्गणः १००० । अस्मिन् अहर्गणे बुधवारः । अथ कुट्टाकारानयनम् । निरपवर्तितभूदिवसेषु सप्तभक्तेषु शेषः ४ । जीवदिनार्थम् कुट्टाकारः एकापनयेन २, अनेन निरपवर्तितभूदिवसाः गुणिताः जाताः ४२०७७८, अस्मिन् पूर्वलब्धा[हर्गणयुते जातः] कालः ४२१७७८ । शुक्रदिनार्थम् कुट्टाकारे द्वौ अपनीयते । लब्धम् पूर्ववत् कालः ८४२५५६ । बुधदिनार्थम् कुट्टाकारः ७ । कालः च १४७३७२३ ।

एवम् सर्वेषु एव दिवसवारेषु युक्त्या कालः कुट्टाकारः च योज्यः ।

[ ग्रहकुट्टाकारे विशेषः ]

यः उपचयाग्रः कुट्टाकारः स च राशिभागलिप्ताशेषेषु अपि योज्यः । तत् यथा --

उद्देशकः --

ये भुक्ताः पवनहृताः सराशिभागाः
दृश्यन्ते दिवसकरेण भोज्यलिप्ताः ।
तन्मात्राः विषयकृतिः शिवैः समेताः
वाच्यः अह्नाम् अथ च गणः द्वाकरः च ॥ १३ ॥

न्यासः --
०
०
३६

अत्र अपवर्तितभगणान् भागीकृत्य उपचयाग्रेण सह पूर्ववत् कुट्टाकारलब्धः अहर्गणः भागलब्धः च
६६०२७
६५०७७ ।
अत्र भागलब्धम् एकेन अधिकम् भवति । एकम् अपनीय शेषे षष्टिशतत्रयभक्ते रवेः भगणाः राशयः भागाः च प्रतिवक्तव्याः ।

एकरूपोपचयेन अपि कुट्टाकारम् कृत्वा गन्तव्याग्रेण अनेन १२६२३३ त्रैराशिकम् । अनेन अपि लब्धम् अहर्गणः भागलब्धम् च पूर्वलिखितम् एव । एवम् अन्येषाम् अपि ग्रहाणाम् कुट्टाकारः योज्यः ।

[ वारकुट्टाकारे विशेषः ]

अथ कश्चित् एवम् पृच्छति -- सूर्याचन्द्रमसौ सूर्यदिने सोमदिने वा इयत्सङ्ख्यौ । एतौ पुनर् कियता कालेन एतावत्सङ्ख्यौ एव भविष्यतः इति । अत्र कुट्टकारक्रमः -- कश्चित् राशिः सूर्यस्य निरपवर्तितभूदिवसैः भागम् ह्रियमाणः शून्याग्रः, चन्द्रस्य अपि शून्याग्रः एव सः । अस्मिन् उद्देशने द्वयोः अपि सम्बन्धः द्विच्छेदाग्रसंवर्गः हि नाम सदृशीकरणम् राशेः । अत्र च सूर्यस्य निरपवर्तितदिवसाः अनेन ३४४९ अपवर्तिताः लब्धम् ६१ । चन्द्रस्य
अपि तेन एव अपवर्तितेन जाताः ६२५ । ततः सूर्यस्य निरवर्तितदिनानाम् अपवर्तितचन्द्रदिवसाः गुणकारः । ते च अत्र लिखिताः एव । गुणिते जातम् १३१४९३१२५ । चन्द्रस्य अपि सूर्यापवर्तितदिवसैः गुणिते जातम् १३१४९३१२५ । अनेन राशिना पूर्ववत् ग्रहकुट्टाकारः योज्यः । तत् यथा --

उद्देशकः --

सूर्याचन्द्रमसौ तुलाधरनरे दृष्टौ मया तत्त्वतः
भागैः द्वादशभिः द्वयेन च युतौ सूर्यस्य वारोदये ।
लिप्ताभिः शशिसून्यसागरयुतौ जीवस्य वारे पुनर्
शुक्रस्य अथ शनैश्चरस्य दिवसे तुल्यौ कियद्भिः दिनैः ॥
विलिप्ताभिः अधिकः अर्कः विज्ञेयः भूधरेन्दुभिः ।
शोधयेत् च निशानाथात् विलिप्ताः धृतिसम्मिताः ॥ १४ ॥

न्यासः --

[सू॰] [चं॰]
६ ६
१२ २
१ ३९
१७ ४२

लब्धम् आभ्याम् अहर्गणः -- ७५०० ।

करणम् -- सूर्याचन्द्रमसोः निरपवर्तितदिवसानाम् ग्रहभक्तशेषम्
१
७ ।
निर्दिष्टवारात् उत्तरतः चतुर्थः जीवः, पञ्चमः शुक्रः, षष्ठः शनैश्चरः इति एतैः एवम् तु इमे ग्रहभक्तशेषात् यथाक्रमेण लब्धाः जीवस्य ४, शुक्रस्य ५, शनैश्चरस्य ६ । एते एव सूर्याचन्द्रमसोः निरप[व]र्तितदिवसानाम् गुणकाराः । गुणकारगुणितेषु आनीताहर्गणम् प्रक्षिप्य क्रमेण --

[ ५२५९८००००, ६५७४७३१२५, ७८८९६६२५० दिवसाः ]

[ ग्रहयोयेन कुट्टाकारः ]

अथ कश्चित् द्वौ ग्रहौ एकत्र कृत्वा अहर्गणम् पृच्छति तस्य अयम् उपायः -- निर्दिष्टग्रहभगणानाम् समासितानाम् भूदिवसानाम् च अपवर्तनम् कृत्वा कुट्टाकारः करणीयः । तत् यथा --

उद्देशकः --

त्रिंशत्पञ्चशशाङ्काः संयुक्तौ शशिदिवाकरौ दृष्टौ ।
दिनराशिम् ब्रूहि गतम् चक्राणि च यानि भ्क्तानि ॥ १५ ॥

न्यासः -- १
५
३०

करणम् -- चन्द्रादित्यभगणाः ६२०७३३३६ । [युगकुदिनप्रमाणम् च] १५७७९१७५०० । एतौ द्वादशभागेन अपवर्तितौ जातौ --
५१७२७७८
१३१४९३१२५

मण्डलशेषम् -- १२९६६६८३ । अत्र लब्धम् पूर्ववत् अहर्गणः भागलब्धम् च --
८७९४२८८६
३४५९५६५

एकापनयेन अपि त्रैराशिकम् कृत्वा स एव अहर्गणः भागलब्धम् च लभ्यते । तत् यथा --

एकरूपापचयेन अपि कुट्टाकारः भागलब्धम् च --
५७६९९६९२
२२६९८३५

[ अत्र अपि त्रैराशिकेन पूर्वोक्तः एव अहर्गणः भागलब्धम् च । ]

एवम् अन्येषाम् अपि समासप्रश्नेषु कुट्टाकारः कल्पनीयः, राशिभागलिप्ताशेषेषु अपि । एवम् एव त्रिचतुःसमासेषु अपि विस्तरेण व्याख्येयम् ।

[ द्व्यग्रकुट्टाकारः ]

अथ कश्चित् दिवसकरमण्डलशेषपरिसमाप्तिकाले जनितम् दिविचरम् उद्दिश्य दिवसकरम् दिविचरभगणान् पृच्छति, तस्य अयम् उपायः -- निर्दिष्टदिविचरम् रविभगणान् च अपवर्त्य कुट्टाकारः योज्यः । तत् यथा --

उद्देशकः --

भानुमण्डलसमाप्तिकालजः मेदिनीहृदयजः अभिलक्षितः ।
द्वित्रिपञ्चविषयाः गृहादयः ब्रूहि मण्डलगतम् कुजार्कयोः ॥ १६ ॥

न्यासः -- २
१५
५

करणम् -- कुजार्कभगणाः --
२२९६८२४
४३२००००

एतौ चतुर्विंशतिभिः अपवर्तितौ --
९५७०१
१८००००

मण्डलशेषम् इदम् ३७५४२ । लब्धम् रविकुजयोः यातभगणाः ६८१४२, ३६२२९ ।

एकापनयेन अपि कुट्टाकारम् कृत्वा त्रैराशिकेन ते एव भगणाः । तत् यथा --
एकापनयेन कुट्टाकारः भागलब्धम् च --
१७४३०१
९२६७१

एवम् एव अन्येषाम् अपि ग्रहाणाम् ।

अथवा ग्रहम् उद्दिश्य ग्रहम् एव अन्यम् [पृच्छति तत्र] अपि भागहारभाज्यपरिकल्पनया कुट्टाकारः कल्पनीयः ।

अथ मण्डलपरिसमाप्तिकालात् अन्यकालसम्भूतग्रहभगणादीन् उद्दिश्यते तथा [ग्रह]भगणात् तत्र रविभगणराशिभागलिप्तान् च पृच्छति, तस्य अपि कुट्टाकारानयनस्य अयम् उपायः -- रविभगणान् खखषड्घनेन संगुणय्य निर्दिष्टभगणैः सह अपवर्त्य कुट्टाकारविधिः इति । तत् यथा --

उद्देशकः --

स्वोच्चांशकार्धम् अधिरूढमहेन्द्रसूरी
तेजोवितानविमलीकृतदिङ्मुखेन ।
सूर्येण यातम् इह पृच्छति च आश्मकीये
वाच्यम् किम् आशु वद तस्य विशालबुद्धे ॥ १७ ॥

न्यासः -- ०
३
४
३०

करणम् -- [गुरुभगणाः] खखषड्घनगुणितसूर्यभगणैः सह अपवर्तिते द्विनवत्युत्तरशतभागेन जातौ
१८९७
४८६००००००
शेषम् अपचयः १२७५७५००० । लब्धम् सूर्ययात[लिप्ताः गुरु]भगणाः च ७८९७५०००, [३०८] । लिप्ताः खखषड्घनभक्ताः मण्डलानि राशयः भागाः लिप्ताः च सूर्यस्य
३६५६
३
०
०

एकापनयन अपि कुट्टाकारम् कृत्वा त्रैराशिकेन एतत् एव लभ्यते । तत् यथा -- एकापनयेन अपि कुट्टाकारः भागलब्धम् च --
१३५०१४२३३
५२७

एवम् राश्यादिशेषेषु अपि योज्यम् ।

[वेलाकुट्टाकारः ]

अथ वेलाकुट्टाकारः । कश्चित् ग्रहम् उदयकालात् अन्यकालजनितम् प्रदर्श्य दिवसगणम् पृच्छति, तस्य अयम् आनयनोपायः -- इष्टकालच्छेदगुणितान् निरपवर्तितभूदिवसान् कृत्वा पूर्ववत् कुट्टाकारम् निष्पाद्य इष्टकालच्छेदभक्तः अहर्गणः । तत् यथा --

उद्देशकः --

रात्र्यर्धकालजनितः दिवसस्य भर्तुः
इष्टः मृगार्धसहितः अष्टचतुष्कलाग्रः ।
लिप्तात्रिभागशकलद्वितयेन युक्तः
शीघ्रम् दिनादि भगणान् च वद आश्मकीयम् ॥ १८ ॥

न्यासः -- ९
१५
३२
४०

करणम् -- अहर्गणः चतुर्भागेन अनेन इति चत्वारि निरपवर्तितदिनानाम् गुणकारः इति चतुर्भागेन रविभगणान् अपवर्त्य स्थापना
१४४
२१०३८९ ।
मण्डलशेषम् १६६८७६ । लब्धम् पूर्ववत् कुट्टाकारः [७००३] । अस्य चतुर्थांशात् अहर्गणः [१७५०] ।

एवम् आस्तमयिकः उद्देशकः --

अस्ताद्रेः तुङ्गशृङ्गव्यवहितवपुषः तिग्मरश्मेः गतानाम्
चक्राद्यङ्कावलीनाम् क्रमगणितचयः विस्मृतः सर्वः एव ।
दृष्टः लिप्ताग्रशेषः गुणवियदुडुपाः स्पष्टः एव अङ्कराशिः
शीघ्रम् वाच्यः गणः अह्नाम् कलियुगगणितः मण्डलादिः च भास्वान् ॥ १९ ॥
न्यासः -- २८८ [x २१६००] शेषम् १०३
२१०३८९

अनेन अपचयेन पूर्ववत् अहर्गणस्थापना -- ९९२७५

भागलब्धम् रवेः यातमण्डलराशिभागलिप्ताः --
२७१
९
१६
१३

एकापनयेन कुट्टाकारः भागलब्धम् च
१६३२९४
४८२८२९१ ।
अनेन अपि त्रैराशिकेन पूर्वानीतः अहर्गणः भागलब्धम् च मण्डलादि [पूर्वोक्तम् एव] ।

माध्याह्निकः उद्देशकः --

[यत् शेषम् मण्डलानाम् ख] नवनगचतुर्भूतशीतांशुतुल्यम्
मध्यम् यातस्य भानोः पटुतरनिकरद्योतिताशामुखस्य ।
दृष्टम् वाच्यः गणः अह्नाम् गतभगण[चयः यः अपि कालेन] सिद्धः
कुट्टाकारोपदेशः विधिवत् अधिगतः येन तेन आश्मकीयः ॥ २० ॥

न्यासः --
[ १४४
२१०३८९] मण्डलशेषम् १५४७९० ।

अनेन मण्डलशेषेण पूर्वकरणेन लब्धम् [कुट्टाकारः] भागलब्धम् च
३९९७
२,
कुट्टाकारस्य चतुर्थः अंशः अहर्गणः ९९९ ।

एकापनयेन कुट्टाकारः भागलब्धम् च
१६८०१९
११५ । अनेन त्रैराशिकेन पूर्ववत् अहर्गणानयनम् ।

तथा च याममुहूर्तनाडीविनाडिकाकालेषु अपि यथायोगम् युक्त्या कुट्टाकारः विकल्पनीयः । तत् यथा --

उद्देशकः --

नाडीभिः कियतीभिः अपि उपचितात् अह्नाम् गणात् आगतः
तिग्मांशोः भगणादिकः अत्र विलयम् नीतः अधुना वात्यया ।
दृष्टः सप्ततिः एकरूपसहिता शेषः कलानाम् मया
वक्तव्यः द्युगणः गतः च सवितुः स्पष्टाः च याः नाडिकाः ॥ २१ ॥

लिप्ताशेषः ७१ ।

करणम् -- अपवर्तितरविभगणान् षष्ट्या सह अपवर्तयेत् । षष्ट्या द्वादशभागेन पञ्च । अपवर्तितरविभगणानाम् द्वादशभागेन अष्टचत्वारिंशत् । पञ्चभिः भूदिनानि [शेषम् च] संगुणय्य स्थापना --

४८ [x २१६००] शेषम् ७१ [x ५]
१०५१९४५

[एषु पञ्चभिः अपवर्तनम् कृत्वा स्थापना --
२०७३६० शे॰ ७१]
२१०३८९

पूर्ववत् कुट्टाकारम् कृत्वा लब्धः अहर्गणः -- ७२०, नाड्यः ३ ।

रवियातभगणादयः च --
१
११
१९
४१

एकापनयनेन अपि कुट्टाकारः भागलब्धम् च --
५९८७३
५९०११

पूर्ववत् त्रैराशिकेन अहर्गणः भागलब्धम् च ।

[अनपवर्तितशेषेण कुट्टाकारः ]

अथ पुनर् अ[न]पवर्तितम् एव शेषम् उद्दिश्य अहर्गणम् यातम् च पृच्छति, तस्य अपि अयम् आनयनोपायः । भागहारभाज्याग्राणाम् एकेन अपवर्तनच्छेदेन अपवर्तनम् कृत्वा पूर्ववत् कुट्टाकारः क्रियते । अथ पुनर् एतानि भागहारभाज्याग्राणि छेदेन एकेन अपवर्तनम् न प्रयच्छन्ति यथा तथा असौ उद्देशकः, तादृशः च एकः राशिः एव न अस्ति अतः न आनीयते ।

उद्देशकः --

शरयमवसवः शताभिनिघ्ना दिनकरमण्डलशेषराशिसङ्ख्या ।
अविकृतभगणक्षमादिनोत्था कथय तया दिनराशिमण्डलानि ॥ २२ ॥

न्यासः -- ४३२०००० शेषम् -- ८२५००
१५७७९१७५००

एते राशयः च खाकाशशरमुनिभिः अपवर्त्य कुट्टाकारेण अहर्गणः रवियातमण्डलानि च --
१९९०६६
५४५ ।

[द्व्यग्रकुट्टाकारविशेषः ]

अथ कश्चित् [द्वि]च्छेदाग्रन्यायेन एकम् अहर्गणम् ग्रहयोः भिन्नाग्रभगणशेषाभ्याम् पृच्छति, तस्य अपि "अधिकाग्रभागहारम् छिन्द्य" आदित्यनेन द्विच्छेदाग्रानयनम् ।

उद्देशकः --

अर्काङ्गारकवासरैः अपहृतः कश्चित् दिनानाम् गणः
लब्धौ [तत्र न वेद्मि] न एव च तयोः शेषौ मया लक्षितौ ।
यौ तौ मण्डलताडितौ अथ पुनर् भक्तौ दिनैः स्वैः पृथक्
तत्र आप्तम् मरुता अपनीत[म् अधुना च अग्रे तयोः ति]ष्ठतः ॥
अर्कस्य अश्विनगाब्धिनागशिखिनः शेषः कुजस्य उच्यते
भूताश्व्यङ्गनभः अष्टशीतकिरणक्षोणीषरक्ष्माभृतः ।
एताभ्याम् पृथक् [अर्कभूमिसुतयोः अह्नाम्] गणौ तद्गतौ
द्व्यग्रम् च अपि तयोः विगण्य गणकाः व्यावर्णयध्वम् क्रमात् ॥ २३ ॥

न्यासः -- अर्कस्य ३८४७२
भौमस्य ७७१८०६२५

एताभ्याम् मण्डलशेषाभ्याम् पृथक् पृथक् पूर्वेण क्रमेण कुट्टाकारम् कृत्वा अहर्गणौ लब्धौ, अर्कस्य ८८३३, भौमस्य ६४०००० । एताभ्याम् अग्राभ्याम् "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारेण" इति अनेन कुट्टाकारः क्रियते ।

तथा च न्यासः --
[अर्कस्य] ८८३३ [भौमस्य] ६४००००
२१०३८९ १३१४९३१२५
अग्रान्तरम् -- ६३११६७

एतयोः छेदाग्रान्तराणाम् अनेन २१०३८९ अपवर्तनम् कृत्वा स्थापना --
१ ३
६२५

अत्र ऊनाग्रच्छेदः एकः तेन सर्वः एव राशिः शुद्ध्यते इति अतः राशिविपर्ययात् व्याख्यायते । तथा च न्यासः १ । अत्र रूपम् विद्यते । अयम् एकः राशिः केन गुणितः अग्रान्तरम् त्रीणि अपनीय [शरयमर्तुभिः भागे हृते] शुद्धम् भागम् प्रयच्छति इति लब्धः राशिः त्रीणि रूपाणि । अस्य विपर्यस्तराशिक्रमेण एव शरयमर्तुभिः भागे हृते शेषः कुट्टाकारः त्रिकः तेन अधिकाग्रच्छेदेन गुणितः जातः १८७५ । अनेन अधिकाग्रच्छेदः अयम् १३१४९३१२५ गुणितः
अधिकाग्रयुतः द्विच्छेदाग्रम् संजातम् शराद्रिगुणनवाब्धिद्विवियद्भूतशररसाब्धिनेत्राणि, अङ्कैः अपि न्यासः २४६५५०२४९३७५ । अयम् राशिः द्विच्छेदाग्रः । एवम् अन्येन छेदाग्रेण सह कुट्टाकारे क्रियमाणे द्विच्छेदाग्रसंवर्गः हारताम् प्रतिपद्यते । द्विच्छेदाग्रराशिभ्याम् सह कुट्टाकारेण त्रिच्छेदाग्रानयनम् । एवम् चतुरग्राणि अपि स्वधिया अभ्यूह्यानि इति ।

[ कक्ष्याविधौ द्व्यग्रकुट्टाकारः ]

अथ कक्ष्याहर्गणेषु उद्देशकः --

कक्ष्याप्रक्रमसङ्ख्यया गणितयोः शेषौ रवीन्द्वः रवेः
द्व्यष्टेषु अद्ब्धिकृताब्धिखेषुभुवनच्छिद्रेन्दवः कीर्तिताः ।
नन्दाङ्गाश्विनिशाकराः कृतिहताः सम्यक् सहस्रस्य ते
द्व्यग्रम् वाच्यम् अहर्गणः कलिभुजः याताः च तत्पर्ययाः ॥ २४ ॥

न्यासः -- १९३५०४४४५८२रवेः
४९७९७८१३९६६
१२६९०००००० चन्द्रस्य
३७२४९२००००

अग्रान्तरम् १८०८१४४४५८२ । एते भागहाराग्रराश्योः अपवर्तनम् प्रयच्छन्ति । वेदनवर्तुशून्ययमैः [ २०६९४ ] अपवर्त्य स्थापना । २०६९४ एतैः अपवर्तिता रविकक्ष्या २४०६३८९ । चन्द्रस्य अपि १८०००० । अग्रान्तरम् अपवर्तितम् ८७३७५३ ।

एतैः अपवर्तितभागहाराग्रान्तरराशिभिः कुट्टाकारन्यायेन लब्धः राशिः गुणयमाद्रिपुष्करर्तुशरांगाद्रीन्दुयमाः, अङ्कैः अपि २१७६५६३७२३ । "ऊनाग्रच्छेदभाजिते शेषम्" इति । अयम् राशिः ऊनाग्रच्छेदेन अनेन १८०००० भक्तः शेषम् [३७२७] । [अनेन] शेषेण अधिकाग्रच्छेदः [अयम् २४०६३८९] गुणितः जातः सप्तोदधियमाङ्गाष्टनन्दाष्टशरनन्दवसवः, अङ्कैः अपि ८९५८९८६२४७ । अयम् राशिः अपवर्तनेन अनेन [२०६९४ गुणितः जा]तः
वस्विन्दूदधिभूतरन्ध्राग्नीन्दुरसयमाद्रिनन्दाग्निशरधृतयः, अङ्कैः अपि १८५३९७२६१३९५४१८ । अयम् एव अधिकाग्रेण युतः [वियदभ्रखखा]ब्धिवसुरुद्ररसाङ्गेन्दूदधिशरधृतयः, अङ्कैः अपि १८५४१६६११८४०००० । अयम् राशिः द्विच्छेदाग्रः । अस्य भूदिनैः सह अपवर्तित[खकक्ष्यया भागे कृते ] अहर्गणः लभ्यते । कथम् पुनर् खकक्ष्यायाः भूदिनस्य च अपवर्तनम् ? उच्यते -- कक्ष्याभिः ग्रहानयने खकक्ष्यायाः अहर्गणः गुणकारः,
स्वकक्ष्याभूदिनसंवर्गः भागहारः इति खकक्ष्यायाः भूदिनानाम् च अपवर्तनेन वियदम्बरतिथिनन्दैः लब्धम् खकक्ष्यातः कृतोदधिनगशररामाग्निरसगुणेन्दवः, अङ्कैः अपि १३६३३५७४४ । भूदिनेभ्यः अपि शराब्धियमाद्रीन्दवः, अङ्कैः अपि १७२४५ । अनेन भूदिनलब्धेन यथा स्वग्रहकक्ष्या गुणिता, अहर्गणापवर्तितखकक्ष्याभ्यासस्य भागहाराः भवन्ति । पूर्वलिखितद्विच्छेदाग्रराशिः अपवर्तितखकक्ष्याहर्गणसंवर्गः इति अतः स्वभागहाराभ्याम्
विभज्य लब्धम् सूर्याचन्द्रमसोः यातभगणाः । रवेः ३७२३, चन्द्रस्य ४९७७७ । यौ अत्र शेषौ तयोः मण्डलशेषौ यथाक्रमेण निर्दिष्टौ भवतः । अस्मिन् एव द्विच्छेदाग्रे अपवर्तितखकक्ष्यया विभक्ते लब्धम् अहर्गणः रसविश्वाः शतवर्गगुणिताः, अङ्कैः अपि १३६०००० ।

उद्देशकः --

कक्ष्याख्यातविधिक्रमेण गणितौ शेषौ कलानाम् क्रमात्
द्व्यङ्गेषु अब्धिशिलीमुखत्रिकनभोभूतेन्द्रियाष्ट्यः रवेः ।
चन्द्रस्य आयुतताडिताः कृतरसाः वस्वग्नयः सूक्ष्मकाः
वाच्याः तद्भगणादयः दिनगणः द्व्यग्रम् च ताभ्याम् तयोः ॥ २५ ॥

न्यासः -- रवेः १६५५०३५४५६२
४९७९७८१३९६६
चन्द्रस्य अपि २४३८६४००००
३७२४९२००००

अत्र कुट्टाकारस्य युगपत् सम्पादयितुम् अशक्यत्वात् पृथक् पृथक् कुट्टाकारेण सूर्याचन्द्रमसोः मण्डलशेषौ अपवर्तनीयौ स्वच्छेदाभ्याम् "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारेण" इति अनेन क्रमेण अहर्गणानयनम् । तत् यथा -- रवेः शेषभागहारौ अपवर्तितौ षड्भिः --
२७५८३९२४२७
८२९९६३५६६१
एताभ्याम् अपवर्तितशेषभागहाराभ्याम् कुट्टाकारः चिन्त्यते । तत्र भागशेषम् षष्ट्या सङ्गुणय्य अनेन एव अपवर्तितभागहारेण भागम् हृत्वा रवेः लिप्ताः लभ्यन्ते, लिप्ताशेषः च अतिरिच्यते । स लिखितः एव । तत्र इदम् चिन्त्यते -- सष्टिः केन गुणिता लिप्ताशेषम् अपनीय अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति । एवम् भागशेषः उपलभ्यते । स च ७३७७३१८०४१ । अथवा षष्टिः केन गुणिता एकम् अपनीय षड्भिः अपवर्तितभागहारेण हृता शुद्धम्
भागम् दास्यति इति एकापनयनकुट्टाकारम् अपि आनीय तेन भागशेषानयनम् लिप्तानयनम् च । एकरूपापनयनेन कुट्टाकारः भागलब्धम् च --
८१६१३०८४००
[५९]

अनेन कुट्टाकारेण पूर्वलिखितः भागशेषः लभ्यते । ततः पुनर् अपि तेन भागशेषेण त्रिंशता च कुट्टाकारः क्रियते । त्रिंशत् केन गुणिता भागशेषम् अप[नीय] षड्भिः अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति राशिशेषः उपलभ्यते । स च ५५०२३४६५२० । एवम् पुनर् अपि अनेन कुट्टाकारः क्रियते । द्वादश केन गुणिता राशिशेषम् अपनीय तस्य एव षड्भिः अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति मण्डलशेषः उपलभ्यते । स च
३२२५०७४०९७ । अयम् अपवर्तितभागहारभाज्याभ्याम् उत्पन्नः इति षड्भिः गुणितः प्रागुपन्यस्तोद्देशकमण्डलशेषः भवति इति सः पूर्वलिखितः एव । एकापनयनेन [कुट्टाकारः] भागलब्धम् च ७६०७९९९३५६ । भागलब्धैः पृतह्क् पृथक् राशिभागलिप्तानयनम् ।
[ ११]

एवम् चन्द्रस्य अपि शेषभागहारराशी क्रमेण आयुतगुणिताष्टोत्तरशतेन अपवर्त्य स्थापना --२२५८
३४४९

आभ्याम् क्रमेण कुट्टाकारः पूर्ववत् । षष्ट्या च भागशेषः लभ्यते, स च २२२२ । एकापनयनेन अपि कुट्टाकारः भागलब्धम् च
१७८२
३१ ।
पुनर् अपि भागशेषापनयनेन त्रिंशता च कुट्टाकारम् कृत्वा राशिशेषः लभ्यते । स च ३०४ । एकापनयनेन अपि कुट्टाकारः भागलब्धम् च
११५
१ ।
ततः पुनर् अपि राशिशेषापनयनेन द्वादशानाम् च कुट्टाकारम् कृत्वा मण्डलशेषः लभ्यते, स च ११७५ । एकापनयनेन अपि कुट्टाकारः भागलब्धम् च
२०१२
७ ।

अत्र च आनीतः मण्डलशेषः एव अष्टोत्तरशतेन आयुतगुणितेन अभ्यस्तः प्रागुपन्यस्तोद्देशकमण्डलशेषः भवति "चन्द्रस्य आयुतताडिताः कृतरसाः" इति आदि पूर्वलिखिता एव ।

एवम् मण्डलशेषौ सूर्याचन्द्रमसोः अवगम्य "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारेण" इति अनेन पूर्वक्रमेण गतमण्डलानि अहर्गणः च पूर्वलिखितः एव । अथवा यः असौ पूर्वमण्डलशेषराशिना अनेन क्रमेण आनीतः खखषड्घनेन गुणितः स्वकक्ष्याभागहारेण अपहृतः यथाविहितलिप्ताशेषराशिः इति अतः इदम् विचिन्त्य[ते -- खख]षड्घनः केन गुणितः सूर्याचन्द्रमसोः पृथक् पृथक् अभिहितलिप्ताशेषम् अपनीय
स्वकक्ष्योक्तभागहाराभ्याम् अपहृतम् पृथक् शुद्धम् भागम् प्रयच्छति इति एवम् कुट्टाकारे कृते सूर्याचन्द्रमसोः पृथक् पृथक् गतमण्डलानि तयोः मण्डलशेषराशी च लभ्येते । तानि मण्डलानि मण्डलशेषराशी च पूर्वलिखितः एव ।

[ कक्ष्याविधौ त्र्यग्रकुट्टाकारः ]

एवम् त्र्यग्रकुट्टाकारः अपि विगण्यते । तत् यथा --

उद्देशकः --

तिग्मांशोः गगनाग्निदस्रगगनम् सूर्याब्धिरामेषवः
रामाङ्गाब्धिवियत्कृशानुदहनाः शेषः स्मृतः माण्डलः ।
इन्दोः अम्बरशून्यवेदगगनम् रामाब्धिदस्रद्विकम्
रन्ध्राद्र्यम्बरसप्तभूतयमलाः शेषः गुरोः उच्यते ॥
व्योमाभ्राब्धिशरार्थसप्तगिरयः वस्वङ्कषट्षट्कका
भूतेन्द्वङ्करसाग्निदृष्टनिचयः कक्ष्याभिधानात् अयम् ।
त्र्यग्राहर्गणमण्डलानि विधिव[त् वाच्यानि] तत्सङ्ख्यया
कुट्टाकारविचित्रता परिगता यदि अश्मकोक्तक्रमात् ॥ २६ ॥

न्यासः --
रवेः ३३०४६३५३४१२०२३०
४७२३३२२६५४६७५१०
चन्द्रस्य २५७०७९२२४३०४००
३५३३०८६६२०००००
गुरोः ३६९१५६६९८७७५५४००
५६०२२५४०७११७५०००

अत्र एतयोः [रविचन्द्रा]ग्रयोः अन्तरम् व्योमाग्निवसुनवाष्टषड्रुद्ररसशरभूताद्रि-कृताम्बराग्नयः, अङ्कैः अपि ३०४७५५६११६८९८३० ।

[भागहाराग्रा]णाम् सून्याङ्कशरयमवसुदस्ररसनवेन्दुभिः अपवर्तनम्, अङ्कैः अपि १९६२८२५९० । अनेन अपवर्तिते रवेः नवाष्टाग्निरसाम्बराब्धियमाः, अङ्कैः अपि २४०६३८९॑ चन्द्रस्य शून्याम्बराकाशवियदष्टेन्दवः, अङ्कैः अपि १८००००॑ अग्रान्तरम् अपवर्तितम् १५५२६३७ ।

एताभ्याम् अपवर्तितभागहाराभ्याम् अपवर्तिताग्रान्तरेण कुट्टाकारः लब्धः स्वराङ्गाद्रिरामाङ्गरसाद्रिरसवसुलोकाः, अङ्कैः अपि ३८६७६६३७६७ । अयम् ऊनाग्रच्छेदेन अपवर्तितेन अपहृतः सन् अविशिष्टः स्वराङ्गाद्रिदहनाः ३७६७ । अयम् अपवर्तिताधिकाग्रभागहारेण गुणितः भूयः च अपवर्तितेन शून्याङ्कशरयमवसुदस्ररसनवेन्दुभिः [गुणितः] अधिकाग्रेण युतः जातः द्विच्छेदाग्रराशिः
सून्याम्बरोदधिवियदग्नियमाकाशशरशराद्रिशून्येन्दुरसाम्बराङ्गाङ्काद्रि-स्वरेन्दवः, अङ्कैः अपि १७७९६०६१०७५५०२३०४०० । अस्य द्विच्छेदाग्रस्य तृतीयच्छेदाग्रेण सह कुट्टाकारे क्रियमाणे निवृत्तकर्मच्छेदयोः अभ्यासः छेदः भवति यमरसेन्दुमुनिशराश्विरसाद्रिजलधिशर-मुनिरूपदहनाद्रिशून्याष्टाम्बरनवमुनिवस्वङ्गाष्टयः, अङ्कैः अपि न्यासः -- १६६८७९०८०७३१७५४७६२५७१६२०००००० । अत्र उपन्यस्ततृतीयच्छेदेन अधिकाग्रच्छेदस्य भागः तत्र शून्यम्
अवशिष्यते । तत् एव शून्यम् कुट्टाकारः इति पूर्वनिष्पन्नम् द्विच्छेदाग्रम् त्र्यग्रम् तत् पूर्वलिखितम् एवम् । तस्य खकक्ष्योत्पन्नयोजनानाम् एव अङ्कराशिनः अनेन आकाशोदधिवसुरूपशिखिशरकृतम् अनुलोकाङ्करविभागः १२९३१४४५३१८४० । लब्धम् अहर्गणः शरवसुरूपाङ्गाद्रिविश्वाः १३७६१८५ ।

एवम् अयम् कुट्टाकारविधिः विचिन्त्यमानः महोदधिजलतरणवदप्रमेयः इति विरम्यते ।

[ एकापचयेन कुट्टाकारलब्धी ]

एते ग्रहकुट्टाकाराः श्लोकैः अपि उपनिबध्यन्ते । तत् यथा --
भास्करादिशरीराय भास्करायुततेजसे ।
जगदुत्पत्तिसंहारहेतवे शम्भवे नमः ॥ १ ॥

कुट्टाकारः च लाभः च द्वन्द्वतः भगणात् इतः ।
निर्दिश्यते क्रमात् अत्र तद्विदाम् प्रीतये मया ॥ २ ॥

[ सूर्यस्य ]

तिग्मांशोः [नयन]नभोरसाब्धिनन्दाः [९४६०२ ]
तत् लब्धम् भगणभवम् नवेषुदस्राः [२५९] ।
राशीनाम् वसुनगखम् गुणाः शिवाः च [११३०७८]
लाभः स्यात् शरशशिनः अद्रिरामसङ्ख्या [३७१५] ॥ ३ ॥

रामाद्रिनागनवभूत[५९८७३]समांशकस्य
लब्धः [अत्र रुद्र]वियदङ्कशराः [५९०११] प्रदिष्टाः ।
लप्तः अद्रिवेदरसरूपमतङ्गगजः [८१६४७] अधः
रूपाङ्कदस्रभुजगद्विकनागवेदाः [४८२८२९१] ॥ ४ ॥

एकाद्रिरन्ध्रखरसाः तु [६०९७१] विलि[प्तिकानाम्
सञ्जातम् एव] गुणकारम् अतः अत्र लब्धम् ।
शीतांशुरन्ध्रकृतबाणगुणाग्निषट्क-
चन्द्राश्वि[२१६३३५४९१]सङ्ख्यम् अनु तस्य च तत्पराणाम् ॥ ५ ॥

दस्रनाग[मुनिवेदपयोधिरूप १४४७८२ म्] अत्र गुणकारम् उशन्ति ।
रूपनन्दजलधीन्दुनगाङ्गद्विद्विनागवियदग्नि[३०८२२६७१४९१]म् अधः च ॥ ६ ॥

षड्विंशतिः जलधिरन्ध्र[९४२६]समानसङ्ख्यः
ज्ञेयः [प्रतत्परभवः] गुणकारराशिः ।
शीतांशुरन्ध्रमनुनन्दशशाङ्कदस्र-
व्योमाब्धिशून्यरवयः [१२०४०२१९१४९१] खलु तत्र लब्धम् ॥ ७ ॥

एकः एव स्मृतः छेदः चक्रादीनाम् विवस्वतः ।
प्रतत्परान्तमा[नानाम्] खाम्बरेषुमहीभृतः [७५००] ॥ ८ ॥

[ चन्द्रस्य ]

शीतरश्मि[भगणैः] प्रकुट्टिते
सप्तरामवसुषट्स्वराद्रयः [७७६८३७] ।
लब्धराशिनिचयः व्यवस्थितः
पुष्कराग्निकृतनागबाहवः [२८४३३] ॥ ९ ॥


राशितः अपि रसदस्रतापसा
व्योमवेदगगनाश्विनः [२०४०७२६] गुणः ।
तत्र लब्धनिचयः विकथ्यते
रुद्रवह्निरसनन्दपन्नगाः [८९६३११] ॥ १० ॥

चन्द्रसूर्यगगनाब्धिपावकाः [३४०१२१ ]
भागशेषगुणकारसंज्ञितः ।
भूतबाणशरचन्द्रकुञ्जराः
सागराम्बुनिवहाः च [४४८१५५५] लब्धकः ॥ ११ ॥

नागबाणशिवदस्र[२११५८]सम्मितः
लिप्तिकासु विगणय्य कीर्त्यते ।
नन्दरुद्रगिरयः अश्विभूधराः
[अष्टयः अत्र १६७२७११९] गणितेन लभ्यते ॥ १२ ॥

वेदविश्वरसरूप [१६१३४] सम्मितम्
शीतरश्मिविकलासमुद्भवः ।
बाणरूपगुणशक्रपावकाः
भूतषट्कमुनयः [७६५३१४३१५] परः स्मृतः ॥ १३ ॥

तत्परेषु धृतिभूतषट्ककाः [६५१८]
निर्दिशन्ति गुणकारसङ्ख्यया ।
ऋक्षनन्दशशिरामकुञ्जर-
व्योमबाणशरधार्तवः [१८५५०८३१९२७] अपरः ॥ १४ ॥

तत्परेषु परतः च कीर्तिताः
रामनन्दयमदस्रकाः [२२९३] क्रमात् ।
रुद्रबाणगिरिदस्रसागराः
भूतषट्कतिथिनन्दविक्रमाः [३९१५६५४२७५११] ॥ १५ ॥

अंशात् आरभ्य शीतांशोः पञ्च [५] पञ्च [५] गुणः परः ।
छेदः कल्प्यः क्रमात् अत्र दन्तशैल[७३२]समन्वितः ॥ १६ ॥

[ चन्द्रोच्चस्य ]

नन्दर्षिनागागरसाः रसाष्ट-
प्रालेयरश्म्यद्रि[७१८६६७८७९]समानसङ्ख्यः ।
इन्दूच्च[कस्य गुणकः अत्र] भचक्रदृष्टः
चन्द्राङ्गलोकयमदस्रयमाः च [२२२३६१] लब्धः ॥ १७ ॥

अब्धीशु[दस्राश्विनभः यमेन्दु-]
षट्क[६१२०२२५४]प्रमाणः गुणकारराशिः ।
लब्धः अद्रिलोकाश्विनगाश्विदस्राः [२२७२३७]
राशिक्रमात् अत्र विगण्यमाणः ॥ १८ ॥

वेदाष्टबाणाङ्गरसाः नवाष्ट-
प्रालेयरश्मि[१८९६६५८४]क्रमसङ्ख्यया उक्तः ।
अंशक्रमात् अग्नियमाङ्गसूर्य-
शीतांशुदस्राः [२११२६२३] गणितेन लब्धः ॥ १९ ॥

लिप्तागतः दन्तनभोद्रिनाग-
व्योमेषवः [५०८७०३२] अस्मिन् गुणकारराशिः ।
नक्षत्रषट्पर्वतनन्दरन्ध्र-
लोकाग्नि[३३९९७६२७]सङ्ख्यः कथितः अत्र लब्धः ॥ २० ॥

विलिप्तिकायाः शशिसप्तदन्त-
क्षोणीधराः [७३२७१] स्युः गुणकारसङ्ख्या ।
लोकाङ्गदिङ्नागकृशानुनन्दाः
दस्रान्विताः [२९३८१०६३] लाभम् उशन्ति तज्ज्ञाः ॥ २१ ॥

अष्टाङ्गधात्रीधररामनन्द[९३७६८]-
सङ्ख्यासमानः अत्र हि तत्परोत्थम् ।
तन्मात्रनन्दाग्निशशाङ्करूप-
व्योमाङ्गबाणाश्वियमाः च [२२५६०११३९५] लब्धः ॥ २२ ॥

प्रतत्प[रायाः] क्रमशः अब्धिशैल-
वस्वङ्कषट्केन्दु[१६९८७४]समानसङ्ख्यः ।
लब्धः च रुद्राष्टशशाङ्कलोक-
शून्येषुदस्राश्विशराब्धिदस्राः [२४५२२५०३१८११] ॥ २३ ॥

राश्यादीनाम् क्रमात् [अत्र छेदाः कल्प्याः यथोक्तवत्] ।
द्वादशः [१२] च ततः पञ्च [५] [पञ्च ५ यावत् तु] तत्परम् ॥ २४ ॥

[ चन्द्रपातस्य ]

सप्ताद्रिचन्द्राङ्गनभोङ्गबाण-
दस्राङ्ग[६२५६०६१७७]सङ्ख्यम् गुणकारम् आहुः ।
[लाभः च पातस्य] गणेषु सम्यक्
दस्राश्वशून्याश्विनवप्रमाणः [९२०७२] ॥ २५ ॥

शीतांशुशून्याब्धिकृशानुषट्क-
पञ्चेषुरुद्रम् [११५५६३४०१] प्रवदन्ति तज्ज्ञाः ।
त्रिच्छिद्रशून्याब्धिनभः यमाः च [२०४०९३]
लाभः [अत्र] राशिक्रमसम्प्रभूतः ॥ २६ ॥

शीतांशुसप्ताङ्गकृशानुवेद-
षट्लोकदस्राः [२३६४३६७१] गुणकारभूताः ।
हिमांशुनन्दाङ्गयमेषुसूर्याः [१२५२६९१]
लाभः अनु भागक्रमसङ्ख्ययोक्तम् ॥ २७ ॥

अष्टेषुवस्विन्दुषडेकवेदाः [४१६१८५८]
प्रोक्ताः कलानाम् गुणकारसंख्याः ।
पञ्चाग्निदस्राम्बरलोकदस्र-
विश्वैः [१३२३०२३५] समानम् प्रवदन्ति लब्धम् ॥ २८ ॥
वेदाङ्कभूभृद्यमसप्तनागाः [८७२७९४]
राशिविलिप्तागुणकारयुक्त्या ।
लब्धः क्रमेण अत्र नगाम्बराष्ट-
दस्राद्रिवेदाङ्गरसेन्दवः [१६६४७२८०७] स्युः ॥ २९ ॥

यः तत्परेभ्यः गुणकारराशिः
वस्वङ्गषट्सप्तकृशानवः [३७६६८] अत्र ।
लब्धः अपि सप्ताम्बरबाण[सप्त]-
सप्ताम्बरेन्द्वग्निकृत[४३१०७७५०७]प्रमाणः ॥ ३० ॥

नन्दाग्निनन्दवसुषट्कशशाङ्क[१६८९३९]सङ्ख्यम्
प्रतत्पराणाम् प्रवदन्ति गुण्यम् ।
एकाद्रिबाणाद्रिनवेषुचन्द्र-
शून्याम्बराष्टी शशिनः च [११६००१५९७५७१] लब्धः ॥ ३१ ॥

भगणानाम् द्विक[२]च्छेदः राशीनाम् द्वादश [१२] उच्यते ।
अंशादिनिचयानाम् तु पञ्चकः [५] कथ्यते बुधैः ॥ ३२ ॥

[भौमस्य]

भौमस्य विश्वार्कदिगष्टयः [१६१०१२१३] स्युः
भपर्ययाणाम् गुणकारजातः ।
लब्धः अत्र सप्ताग्निसमुद्रलोक-
दस्र[२३४३७] प्रमाणम् कथितम् क्रमेण ॥ ३३ ॥

नन्दाब्धिशून्येषुशशाङ्कदस्र-
वेदाग्नयः [३४२१५०४९] अस्मिन् गुणकारमानम् ।
राशिक्रमात् लोककृताङ्गसप्त-
नन्देषवः [५९७६४३] लब्धिचयम् निरुक्तम् ॥ ३४ ॥

भागप्रमाणम् कृतशून्यवेद-
नन्देन्दुविश्वम् [१३१९४०४] प्रवदन्ति गुण्यम् ।
लब्धस्य चन्द्राङ्ककृशानुचन्द्र-
च्छिद्राङ्ग[६९१३९१]तुल्या विहिता अत्र सङ्ख्या ॥ ३५ ॥

[लैप्तः तु] दस्राङ्कशशाङ्कलोक-
षण्णागरूपाणि [१८६३१९२] गुणः गुणज्ञैः ।
दृष्टा अत्र लब्धिः तु शशाङ्कलोक-
[सप्ताम्बराष्टेषु] गजेषु [५८५८०७३१] तुल्यम् ॥ ३६ ॥

विलिप्तिकानाम् रसषट्कदस्र-
पञ्चेषुरूपाणि [१५५२६६] गुणः प्रतीतः ।
लाभः शरार्थाङ्गकृशानुशून्य-
रन्ध्राश्विनन्दद्विक[२९२९०३६५५]तुल्यम् आहुः ॥ ३७ ॥

लोकाङ्गदस्राष्टधृति[१८८२६३]प्रमाणम्
गुण्यम् क्रमात् तत्परसङ्ख्यया अस्मिन् ।
बाणाग्निषट्सप्तनगाम्बराङ्क-
बाणाग्निषट्सप्तनगाम्बराङ्क-
शून्याग्निशीतांशुयमाः च [२१३०९०७७६३५] लब्धः ॥ ३८ ॥

दस्राश्विसप्ताष्टकृत[४८७२२]प्रमाणम्
प्रतत्पराणाम् निचयः गुणस्य ।
रूपेषुषट्काग्निनभोश्विवेद-
वस्वष्टशून्याग्निगुणाः च [३३०८८४२०३६५१] लब्धः ॥ ३९ ॥

मण्डलानाम् गृहाणाम् च छेदः द्वादशकः [१२] स्मृतः ।
पञ्च [५] पञ्च [५] परेषाम् तु भागादीनाम् इति स्थितिः ॥ ४० ॥

[बुधशीघ्रोच्चस्य ]

अङ्गाद्रिदस्रक्षिति[भृद्गजेषु-
लोकाश्वि २३५८७२७६ सङ्ख्यम् शशि]जस्य गुण्यः ।
भपर्ययाणाम् नवसूर्यनाग-
षड्दस्र[२६८१२९]सङ्ख्यम् क्रमशः च लब्धः ॥ ४१ ॥

राशिक्रमे[ण अङ्क]शशाङ्कनाग-
षण्णन्दनागेषुसमः [५८९६८१९] गुणः स्यात् ।
सप्ताष्टलोकाब्धिनभस्सनाग[८०४३८७]-
निर्दिष्टसंख्यः विधिवत् च लब्धः ॥ ४२ ॥

भागेषु वेदाश्विसमुद्रनन्द-
बाणाष्टचन्द्रान् [१८५९४२४] गुणकारम् आहुः ।
छिद्राग्निलोकाङ्कनभः अङ्गशैल[७६०९३३९]-
संख्याप्रमाणम् खलु तत्र लब्धम् ॥ ४३ ॥

सिद्धम् कलानाम् यमबाणनन्द-
वेदेषुचन्द्रान् [१५४९५२] गुणकारम् आहुः ।
लाभः शराङ्काङ्गरसाब्धिशून्य-
वस्वग्नि[३८०४६६९५]सङ्ख्यः गणकैः निरुक्तः ॥ ४४ ॥

राशिः विलिप्तागुणकारसंज्ञः
दस्राद्रिचन्द्राग्नितिथि[१५३१७२]प्रमाणम् ।
नन्दाद्रिचन्द्राष्टगिरीषुषट्क-
भूताश्विदस्रा [२२५६५७८१७९] विधिना अत्र लब्धः ॥ ४५ ॥

उक्तः गुणः तत्परसङ्ख्यया अत्र
पूर्णाङ्कसंस्कारधृतिम् [१८४८९०] वदन्ति ।
चन्द्राङ्कशून्येषुरसाब्धिचन्द्र-
लोकाब्धिलोकाष्टि[१६३४३१४६५०९१]समः च लाभः ॥ ४६ ॥

षट्सप्तदस्राष्टनभः सरूपम् [१०८२७६]
प्रतत्पराणाम् गुणना अथ लब्धम् ।
चन्द्राङ्कवस्वेषुषडेकदस्र-
षट्पञ्चदस्राब्धिशिलोच्चया अर्थान् [५७४२५६२१६५८९१] ॥ ४७ ॥

विंशतिः [२०] च तथा षष्तिः [६०] छेदः मण्डलराशिजः ।
भागादीनाम् क्रमात् पञ्च [५] प्रवदन्ति मनीषिणः ॥ ४८ ॥

[ गुरोः ]

अष्टौ गुणव्योमकृशानुभूत-
शून्याङ्गशैला [७६०५३०३८] गुणजः समूहः ।
पञ्चेषुभूताद्रिसुधामयूखाः [१७५५५]
लब्धः गुरोः स्यात् भगणक्रमेण ॥ ४९ ॥

वेदाद्रिदस्राग्निशराश्विनाग-
दस्रा [२८२५३२७४] गुणः राशिविधानदृष्टः ।
लब्धः अङ्कतत्त्वाष्टनग[७८२५९]प्रमाणः
निरुच्यते अस्मिन् गणितत्प्रसिद्धेः ॥ ५० ॥

नन्दाद्रिवस्वष्टनभः अद्रिवेदा [४७०८८७९]
राशिः गुणाख्यः खलु भागजातः ।
भूताङ्कतिग्मांशुनवाग्नि[३९१२९५]तुल्यम्
लाभप्रमाणम् प्रवदन्ति तज्ज्ञाः ॥ ५१ ॥

सप्तेन्दुशैलाम्बरलोकनागान् [८३०७१७]
लिप्ताक्रमात् गुण्यम् उशन्ति तज्ज्ञाः ।
नन्देन्दुधृत्यब्धिशशाङ्कवेदा [४१४१८१९]
लाभः कलानाम् कथितः विगण्य ॥ ५२ ॥
विलिप्तिकानाम् शशिषट्कनागा
दस्राष्टषड्भिः [६८२८६१] गुणकारजातम् ।
रूपाङ्कनन्दाद्रिनगाश्विवेद-
शून्याश्विनः [२०४२७७९९१] अस्मिन् प्रवदन्ति लब्धम् ॥ ५३ ॥

दन्ताङ्गनन्दाद्रिसुधामयूख[१७९६३२]-
सङ्ख्यः गुणः च अत्र हि तत्पराणाम् ।
सप्ताम्बराद्र्यष्टियमाब्धिदस्रान्
दन्तैः समेतान् [३२२४२१६७०७] कथयन्ति लब्धम् ॥ ५४ ॥

एकाग्निरामेषुधृति[१८५३३१]प्रमाणम्
प्रतत्पराणाम् गुणजा अत्र लब्धम् ।
रूपाद्रिशीतांशुनगाष्टवेद-
व्योमाङ्कतन्मात्रनवाङ्कचन्द्राः [१९९५९०४८७१७१] ॥ ५५ ॥

मण्डलानाम् च राशीनाम् छेदः द्वादशकः [१२] स्मृतः ।
भागलिप्तादिराशीनाम् छेदः पञ्च एव [५] कथ्यते ॥ ५६ ॥

[ शुक्रशीघ्रोच्चस्य ]

नन्दाब्धिशून्याङ्गकृताभ्रशून्य-
शैला [७००४६०४९] भृगूच्चस्य गुणः गणानाम् ।
लाभः अब्धिरामाद्रिशिवाग्नि[३११७३४]तुल्यः
सङ्ख्याविधानक्रमसङ्ख्यया उक्तम् ॥ ५७ ॥

पक्षेषुवेदाम्बरचन्द्रशैल-
नागाग्नयः [३८७१०४५२] राशिगुणः प्रदिष्टः ।
लब्धः निशानाथहुताशानाग्नि-
शैलाङ्गशून्याश्विसमः [२०६७३३१] समूहः ॥ ५८ ॥

दस्रापगानाथशिलोच्चयेन्दु-
[शराब्धिषट् ६४५१७४२ सङ्ख्य]समः अंशगुण्यः ।
तन्मात्रभूताङ्गरसाग्निलोक-
व्योमेन्दवः [१०३३६६५५] राशिः अथ अत्र लब्धः ॥ ५९ ॥

अङ्गाङ्गपक्षोदधिचन्द्रशक्रा [१४१४२६६]
राशिः कलानाम् गुणकारजातः ।
[शशाङ्क]लोकाङ्कशशाङ्कबाण-
च्छिद्रेषुलोकेन्दु[१३५९५१९३१]समः अत्र लाभः ॥ ६० ॥

अष्टाश्विनागाग्निकृताङ्ग[६४३८२८]तुल्यम्
प्राहुः गुणाख्यम् विकलासु जातम् ।
लब्धः च रूपाद्रिविवस्वदग्नि-
वेदाग्निशीतांशुनगाग्नयः [३७१३४३१२७१] स्युः ॥ ६१ ॥

सङ्ख्याक्रमात् तत्परराशिगुण्यः
पक्षाष्टभूभृद्दहनार्क[१२३७८२]सङ्ख्यः ।
लोकाष्टपक्षाङ्कयमेषुषट्क-
रामाष्टपक्षाब्धि[४२८३६५२९२८३]समः अत्र लाभः ॥ ६२ ॥

प्रतत्पराणाम् गुणकारराशिः
अङ्गक्षमाभृद्गगनाङ्क[९०७६]सङ्ख्यः ।
रूपेषुवस्वङ्गषडद्रिपक्ष-
पञ्चाब्धिनागान् धृतिकम् च [१८८४५२७६६८५१] लब्धः ॥ ६३ ॥

मण्डलानाम् सराशीनाम् छेदः द्वादशकः [१२] स्मृतः ।
शक्रारिपूज्यभागादेः पञ्च [५] पञ्च एव [५] कथ्यते ॥ ६४ ॥

[ शनेः ]

रुद्राश्वि[भूताङ्गनभोग्निरुद्रा ११३०६५२११]
गु[णः प्रदि]ष्टः भगणेषु तज्ज्ञैः ]
तिग्मद्युतेः आत्मजलब्धराशिः
दस्राभ्रबाणाम्बररात्रिनाथाः [१०५०२] ॥ ६५ ॥

वेदाष्टभूताङ्ककृशानुरूप-
चन्द्रर्तवः [६११३९५८४] अस्मिन् गुणकारराशिः ।
राशिक्रमात् लब्धसमः तु सङ्ख्यः
सप्ताब्धिचन्द्राष्टरसा [६८१४७] निरुक्ताः ॥ ६६ ॥

छिद्राग्निचन्द्राङ्गशराङ्कनाग-
प्रालेयरश्मि[१८९५६१३९]प्रभवः गुणाख्यः ।
अंशावधेः अग्निरसाष्टलोक-
रामर्तवः [६३३८६३] लाभभवः समूहः ॥ ६७ ॥

सप्ताब्धिशैलोदधिषट्कदस्रान् [२६४७४७]
दृष्टः समूहः गुणकारजन्मा ।
लिप्ताक्रमात् अत्र विगण्यमानः
रामाङ्गरुद्राग्निशराः [५३११६३] च लाभः ॥ ६८ ॥

शीटांशुदस्राम्बररुद्रनागा [८११०२१]
राशिः विलिप्ताप्रभवः गुणस्य ।
सप्ताष्टनेत्राङ्कयमाङ्गसप्त-
नन्द[९७६२९२८७]प्रमाणा विहिता अत्र लब्धिः ॥ ६९ ॥

निर्दिश्यते तत्परराशिगुण्यः
सूर्याग्निशून्याङ्क[निशाधिनाथाः १९०३१२] ।
लाभः अद्रिशून्येषु[शराङ्ग]भूत-
वेदाद्रिरामामृतसन्मयूखाः [१३७४५६५५०७] ॥ ७० ॥

प्रतत्पराणाम् नवशून्यबाण-
भूताष्टचन्द्रा [१८५५०९] गुणना अथ लाभः ।
रुद्राश्विवेदाङ्कसमुद्रपक्ष-
च्छिद्राग्निशून्यम् फणिभृत्समेतम् [८०३९२४९४२११] ॥ ७१ ॥

चतुष्कः [४] भगणच्छेदः राशीनाम् द्वादश एव [१२] च ।
छेदः क्रमेण पञ्च [५] उक्तः सौरस्य लवतः स्फुटः ॥ ७२ ॥

[ चन्द्रकेन्द्रस्य ]

अग्नीषुनन्दाग्निशशाङ्कसूर्य-
वेदाग्नयः [३४१२१३९५३] स्युः भगणोत्थगुण्यः ।
शीतांशुकेन्द्रस्य गुणाङ्करूप-
रामाष्टलोकार्क[१२३८३१९३]समः च लब्धः ॥ ७३ ॥

तद्राशितः रामनभः अद्रिसप्त-
दस्राश्विवस्वद्रि[७८२२७७०३]समः गुणः स्यात् ।
लब्धः अश्विनागाम्बरपन्नगाङ्ग-
शून्याब्धिरामा [३४०६८०८२] गणकैः निरुक्तः ॥ ७४ ॥

रामाङ्गदस्राद्रिभुजङ्गचन्द्र-
षट्काश्वि[२६१८७२६३]सङ्ख्यः अंशकजः गुणः स्यात् ।
रूपाङ्गसप्तेषुगुणेन्दुदस्र-
वेदाग्नि[३४२१३५७६१]सङ्ख्यम् प्रवदन्ति लब्धम् ॥ ७५ ॥

लिप्तागतः अस्मिन् गुणकारराशिः
वेदाश्विनागाग्निनगाग्निवेदाः [४३७३८२४[ ।
पञ्चेन्दुरामाश्विगुणा[ङ्गनाग-
नेत्राब्धि]लोकाः [३४२८६३२३१५] खलु तत्र लब्धः ॥ ७६ ॥

विलिप्तिकानाम् गुणकारराशिः
सप्ताग्निनागाग्निशशाङ्क[१३८३७]तुल्यः ।
नन्दाद्रिनागस्वरशून्यनाग-
शून्येषुषट्[६५०८०७८७९]तुल्यकम् अत्र लब्धम् ॥ ७७ ॥

दृष्टः गुणः तत्परराशिलब्धः
शून्याष्टनागाग्निरवि[१२३८८०]प्रमाणम् ।
रुद्राम्बराद्र्यङ्गकृताग्निरन्ध्र-
बाणाङ्कवेदाः सगुणाः च [३४९५९३४६०११] लब्धः ॥ ७८ ॥

प्रतत्पराणाम् जिनवह्निदस्र-
शक्रा [१४२३२४] गुणः तत्र [तु] लब्धराशिः ।
रूपेषुदस्राङ्कवसुस्वराश्वि-
नागेषुनागाङ्कनभः जिनाः च [२४०९८५८२७८९२५१] ॥ ७९ ॥

छेदः अपवर्तकः ज्ञेयः राशीनाम् द्वादशात्मकः [१२] ।
भागादीनाम् क्रमात् छेदाः पञ्च [५] दृष्टाः क्रमात् बुधैः ॥ ८० ॥

[ अधिदिवसस्य ]

रन्ध्रशून्येषुदस्राद्रिषट्क[६७२५०९]तुल्यः अधिकः गुणः ।
लब्धराशिः क्रमात् व्योम्[सप्ताङ]आम्बरदस्रकाः [२०६७०] ॥ ८१ ॥

[ अवमदिवसस्य ]

चन्द्राग्न्यम्बरसप्ताब्धियमषट्कः [६२४७०३१] अवमः गुणः ।
लब्धः अपि नववेदाद्रिशैलरन्ध्राणि [९७७४९] कीर्त्यते ॥ ८२ ॥

[सूर्यापक्रमस्य ]

अपक्रमस्य सप्ताब्धिपुष्कराणि [३४७] गुणः क्रमात् ।
लब्धराशिः क्रमात् दृष्टः [रूपवेद]निशाकरः [१४१] ॥ ८३ ॥

[ अधिमासस्य ]

युगाधिमासैः मुनिचन्द्रलोक-
व्योमाम्बराङ्कः धृतयः च [१८९००३१७] दृष्टः ।
गुण्यः अत्र लब्धः अपि शराष्टशून्य-
नवेन्दवः [१९०८५] अस्मिन् भगणेषु नित्यम् ॥ ८४ ॥

शीतांशुरन्ध्राग्निनभःशिवाश्वि-
सूर्यैः [१२२११०३९१] समानः गुणकारराशिः ।
लोकाब्धिषण्णन्दमुनीन्द्र[१४७९६४३]सङ्ख्यः
लब्धः अत्र राशिः खलु राशिजातः ॥ ८५ ॥

रसाग्निवस्वब्धिकृशानुसप्त-
वेदाश्विनः [२४७३४८३६] स्युः गुणकारराशिः ।
रूपेषुभूतैकनवाङ्कनागा [८९९१५५१]
लब्धः क्रमेण अंशककर्मसिद्धः ॥ ८६ ॥

वस्वद्रिवेदेन्द्रगजाग्नि[३८१४४७८]सङ्ख्यः
लिप्तासु दृष्टः गुणकारराशिः ।
नन्देन्दुनागाद्रिनवैकलोक-
नाग[८३१९७८१९]प्रमाणम् प्रवदन्ति लब्धम् ॥ ८७ ॥

नन्दाब्धिपञ्चाश्विमनु[१४२५४९]प्रमाणम्
दृष्टः विलिप्तागुणकारसिद्धिः ।
रुद्राद्रिसंस्कारशराङ्गनाग-
प्रालेयरश्मिम् [१८६५४८७११] प्रवदन्ति लाभम् ॥ ८८ ॥

सङ्ख्या [गुणस्य] अपि च तत्पराणाम्
रसा नभः अङ्गाब्धिकृशानुचन्द्राः [१३४६०६] ।
लोकाष्टषण्णन्दकृशानुदस्र-
च्छिद्राङ्गबाणाः सदिशः च [१०५६९२३९६८३] लब्धः ॥ ८९ ॥

प्रतत्परेभ्यः अर्ककृताग्निनन्द[९३४१२]-
राशिः निरुक्तः गुणकारजातः ।
एकाग्निभूताष्ट[त्रिभूप]नाग-
व्योमाभ्रवेदाब्धि[४४००८१६३८५३१]समः अत्र लाभः ॥ ९० ॥

भगणानाम् सराशीनाम् द्वादश [१२] एव अपवर्तकः ।
पञ्च [५] पञ्च एव [५] शेषाणाम् छेदः अस्मिन् अपवर्तने ॥ ९१ ॥

इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्ये गणितपादः समाप्तः ॥


कालक्रियापादःसम्पाद्यताम्

[ मङ्गलाचरणम् ]

सूर्येन्दुखाग्निमरुदप्क्षितिदीक्षिताख्यम्
मूर्त्यष्टकम् सकललोकहितार्थभावम् ।
यः अभूत् स्वयम् हि करुणातनुः अप्रमेयः
तस्मै नमः त्रिभुवनस्थितये शिवाय ॥

[ कालविभागः क्षेत्रविभागः च ]

अथ गणितानन्तरम् कालक्रिया प्रस्तूयते । अथ कः कालः, का वा क्रिया? अत्र केचित् वदन्ति -- "क्रियाव्यतिरिक्तः कालः" । अपरे -- "क्रिया कालः" इति । क्रियाव्यतिरिक्तः अस्तु कालः [क्रिया वा], किम् एतेन । अस्माकम् तु सूर्याचन्द्रमसोः यः परः विप्रकर्षः सः अर्धमासः । यः च तयोः सन्निकर्षः स मासः । एवम् द्वादश मासाः संवत्सरः इति आदि कालः । क्रिया व्यापारः । कालस्य क्रिया कालक्रिया । कालपरिज्ञानार्था क्रिया इति यावत् । सा च क्रिया गतिः । तया क्रियया
कालः ज्ञायते इति एतत् प्रतिपादयिष्यति । तत् यथा --

वर्षम् द्वादशमासाः त्रिंशद्दिवसः भवेत् स मासः तु ।
षष्टिः नाड्यः दिवसः षष्टिः च विनाडिका नाडी ॥ १ ॥

वर्षम् अब्दः समाः संवत्सरः इति पर्यायाः । अयम् वर्षशब्दः नपुंसकलिङ्गः समायाम् वर्तते । तस्य वर्षस्य प्रमाणम् द्वादश मासाः । द्वौ च दश च द्वादश । मासाः संवत्सरस्य शाखाः । त्रिंशद्दिवसः भवेत् स मासः तु । त्रिंशत् सङ्ख्या । दिवसाः दिनानि अहानि इति पर्यायाः । भवेत् स्यात् । स यः असौ मासः अभिहितः सः त्रिम्शद्दिवसः इति अर्थः । षष्टिः नाड्यः दिवसः । तस्य दिवसस्य एकस्य प्रमाणम् षष्टिः नाड्यः । नाड्यः घटिकाः । षष्टिः
च विनाडिका नाडी । तस्याः नाड्याः प्रमाणम् विनाड्यः षष्टिः । विनाड्यः विघटिकाः ।

अत्र उच्यते -- "वर्षम् द्वादश मासाः" इति आदि न आरब्धव्यम्, लोकप्रसिद्धत्वात् । सर्वेषु एव अयम् न्यायः लोकवेदप्रसिद्ध्या अङ्गीकरणीयः । "वर्षम् द्वादशमासाः" इति आदि विना अपि लक्षणेन लोकः जानीते, तथा च भृतकेभ्यः भुक्तवेतनम् ददाति । यदि लोकप्रसिद्धम् अपि अभिधीयते तदा अत्र बहु वक्तव्यम् जायते । "नृषि योजनम्", [गीतिका॰, ७] "स्चाङ्गुलः घहस्तः ना" [गीतिका॰, ८] इति अत्र
यव-सर्षप-यूक-लिक्षा-वालाग्र-रथरेणु-त्रसरेणुस्थूलसूक्ष्मपरमाणूनाम् प्रमाणम् वक्तव्यम् । त्रैराशिके च अनेकजनपदव्यवहारात्मिका परिभाषा वक्तव्या । अथ यदि अपि लोकप्रसिद्धिः अङ्गीक्रियते तथा अपि तु "वर्गाक्षराणि वर्गे" [गीतिका॰, २] इति अत्र वर्गावर्गाक्षरस्वरनिरूपणम् वक्तव्यम् एव । कुतः? लोकाप्रसिद्धेः । [यदि एवम् तदा] व्याकरणे वर्गावर्गाक्षर[स्वरनिरूपणम् अनर्थ]कम् । न एष दोषः । लोकः पूर्वाचार्याः अबाह्यशास्त्राणाम्
प्रणेतारः इति उक्तम् । "वर्गाक्षराणि वर्गे" [गीतिका॰, २] इति अत्र वर्गावर्गाक्षरस्वरनिरूपणायाम् व्याकरणम् अबाह्यम् शास्त्रम् । "गुर्वक्षराणि षष्टिः विनाडिका" [कालक्रिया॰, २] इति अत्र गुर्वक्षराणाम् लक्षणम् वक्तव्यम् । यदि "वर्षम् द्वादश मासाः" इति आदि ग्रन्थः न आरभ्यते तदा एतत् सर्वम् लोकप्रसिद्ध्या सेत्स्यति । तस्मात् अप्रत्यायनम् एव अस्तु । न एष दोषः । अनारभ्यमाणायाम् अस्याम् परिभाषायाम् सावनस्य एव मानस्य एते भेदाः स्युः न सौरचान्द्रनाक्षत्राणाम्,
यस्मात् सावनम् एव एकम् मानम् लोकप्रसिद्धम्, न सौरचान्द्रनाक्षत्राणि । तत् सर्वेषु एव मानेषु इयम् एव परिभाषा यथा स्यात् इति [सूत्रम् आरब्धव्यम्] ।

अन्यथा हि "रविमासेभ्यः अधिकाः तु ये चान्द्राः" [कालक्रिया॰, ६] इति अत्र रविभगणानाम् द्वादश गुणकारः न लभ्येत, "शशिदिवसाः विज्ञेयाः भूदिवसोनाः तिथिप्रलयाः" [कालक्रिया॰, ६] इति अत्र शशिदिवसानाम् त्रिंशत्कः गुणकारः न लभ्येत, "षष्टिः नाड्यः दिवसः" इति अत्र अपि होराशास्त्राविरोधेन षष्टिः नाड्यः परिकल्पिताः । अन्यथा हि इच्छया विभागः दिवसस्य शक्यते परिकल्पयितुम् । इच्छया विभागे परिकल्प्यमाने कः पुनर् होराशास्त्रविरोधः?
उच्यते --

आद्यन्तराश्योरुदयप्रमाणम् द्वौ द्वौ मुहूर्तौ नियतम् प्रदिष्टौ ।

इति अत्र द्विनाडिकः मुहूर्तः व्याख्यायते । सा च नाडिका दिवसस्य षष्टिभागः इति । अन्यथा परिकल्प्यमाने अयम् अर्थः अन्यथा स्यात् ।

कथम् पुनर् दिवसस्य षष्टिभागः साध्यते इति अत्र अभिधीयते -- अत्र केचित् ब्रुवते -- "सुवर्णरजतताम्राणाम् अन्यतमम् पात्रम् अर्धवृत्ताकारम् षष्टिपलपानीयाधारकम् पूरकम् निस्रावकम् वा घटिके" इति । न एष नियमः । यावत् पलानि षष्टिः पानीयम् प्रस्रवति आपूर्यते वा, तावता नाडिकाकालः इति । प्राज्ञाः तु न एवम् इति मन्यन्ते । कथम् तर्हि? अहोरात्रप्रस्रुतस्य पानीयस्य षष्टिभागः घटिकाप्रमाणः इति स्थूलः कल्पः, सूक्ष्मः तु समायामवनौ
निर्दिष्टाकारस्य शङ्कोः घटिकाच्छायाम् अङ्कयित्वा घटिका साध्यते, घटिकाछिद्रम् च छायाकालवशात् उक्त्या योजयितव्यम् ॥ १ ॥

गुर्वक्षराणि षष्टिः विनाडिका आर्क्षी षट् एव वा प्राणाः ।
एवम् कालविभागः क्षेत्रविभागः तथा भगणात् ॥ २ ॥

गुर्वक्षराणि षष्टिः विनाडिका आर्क्षी । गुरूणि च तानि अक्षराणि च गुर्वक्षराणि, षष्टिः विनाडिका आर्क्षी । यावता कालेन षष्टिः गुर्वक्षराणि पठितानि तावान् कालः विनाडीसंज्ञितः । "गुर्वक्षराणि षष्टिः विनाडिका" इति अनेन सर्वेषाम् एव सौरसावननाक्षत्रचान्द्राणाम् मानानाम् विनाडिकाकालतुल्यतायाम् प्रसक्तायाम् तद्विषयनिरूपणार्थम् आह -- आर्क्षी । कतमा विनाडिका गुर्वक्षराणि षष्टिः? आर्क्षी, न शेषाः । ऋक्षाणि नक्षत्राणि । नक्षत्रशब्देन नाक्षत्रम्
मानम् परिगृह्यते । ऋक्षाणाम् अयम् कालः आर्क्षः । अयम् च कालः विनाडिकाभिधीयमानः स्त्रीत्वम् प्रतिपद्यते इति स्त्रीलिङ्गनिर्देशेन विनाडिका इति उक्तम् ।

षट् एव वा प्राणाः, प्राणाः उच्छ्वासाः, आर्क्ष्यविनाडिकायाः प्रमाणम् । आर्क्ष्यम् च मानम् भचक्रभ्रमणकालम् । यतः आह -- "प्राणेन एति कलाम् भम्" [गीतिका॰, ६] इति । उच्छ्वासकालेन भचक्रम् कलाम् पर्येति, ऋक्षचक्रम् इति अर्थः । अत्र आर्क्षी विनाडिका षट् वा प्राणाः [तुल्याः] । आर्क्षीभिः विनाडिकाभिः [दशभिः] एकांशकः । अतः ज्योतिश्चक्रसम्बन्धिनः प्राणाः लिप्तासङ्ख्याः इति प्राणैः ज्यादिकर्म प्रवर्तते । अन्यथा हि "[फ छ] कलार्धज्याः"
[गिईतिका॰, १२] इति उक्तत्वात् प्राणैः ज्याग्रहणम् न प्राप्नोति । अन्यत् च -- सामान्येन एव "षट् वा प्राणाः विनाडिका" इत् उच्यमाने सर्वमानानाम् एव विनाडिकाकालस्य तुल्यताप्रसङ्गः । अवशिष्टानाम् मानानाम् विनाडिकायाः प्रमाणम् नाडिकायाः षष्टिभागः एव । न तस्याः विनाडिकायाः अवयवप्रमाणाभिधानम् क्रियते, प्रयोजनाभावात् ।

गुर्वक्षरेषु मध्यमवृत्तिग्रहणम् । "गुर्वक्षराणि षष्टिः" इति अत्र मध्यमायाम् वृत्तौ षष्टिः गुर्वक्षराणि विनाडिकाकालः इति वक्तव्यम् । अन्यथा हि तिसृषु अपि वृत्तिषु अविशेषेण ग्रहणम् प्राप्नोति । तत् यथा -- द्रुतायाम् वृत्तौ षष्टिः गुर्वक्षराणि अल्पेन कालेन पठ्यन्ते, बिलम्बितायाम् महता कालेन इति, मध्यमायाम् पुनर् न अल्पेन, न महता कालेन । तत् तर्हि मध्यमवृत्तिग्रहणम् कर्तव्यम् । कथम् अनुच्यमानम् अवगम्यते? लोकप्रसिद्धेः
। तत् यथा -- लोके अनिर्दिष्टेषु कार्येषु मध्यमप्राप्तिः । एवम् अत्र अपि -- "मासान्ते पक्षस्य अन्ते स हि आकाशे देशे स्वम् मिश्रम् वक्रम् कान्तम् वृत्तम् पूर्णम् चन्द्रम् सत्त्वात् रात्रौ ते क्षुत्क्षाम प्रादन्ते श्वेतः प्राज्यः क्रूरः तस्मात् वा अन्ते हर्म्यस्य अन्तः संसुप्तस्य एकान्ते कर्तव्या" । एतानि षष्टिः गुर्वक्षराणि विनाडिकाकालः । षट् एव वा प्राणाः । प्राणाः उच्छ्वासाः । ते वा षट्, तस्याः एव अर्क्ष्यविनाडिकायाः कालः । अत्र अपि स्वस्थस्य अश्रान्तस्य नीरुजस्य योगिनः
प्राणाः परिगृह्यन्ते । अत्र अपि स्वस्थः न महता कालेन उच्छ्वसिति । एवम् [अ]श्रान्तः अपि । योगी न पुनर् व्यानवशान् महता कालेन उच्छ्वसिति । अत्र त्रुटि-त्रुट्यवयवादयः कालावयवाः कस्मात् न उच्यन्ते? एवम् मन्यन्ते -- तैः व्यवहारः न अस्ति इति । व्यवहारार्थम् च कालावयवग्रहणम् इति ।

एवम् कालविभागः । एवम् वर्षमासदिवसघटिकाप्राणाः कालविभागः । किम् अर्थम् इदम् अभिधीयते -- "एवम् कालविभागः" इति । ननु च कालविभागः निर्दिष्टः । एवम् तस्य निर्दिष्टस्य ग्रहणम् "एवम् कालविभागः" इति । अस्य अनभिधानात् शक्यते ज्ञातुम् यथा अप्रपञ्चितप्रमाणः कालविभागः इति । न एष दोषः । "एवम् कालविभागः" एवंप्रकारः कालविभागः इति अर्थः । प्रकारार्थे तु व्याख्यायमाने अन्ये अपि कालविभागाः परिगृहीताः भवन्ति
। तत् यथा -- पञ्चसंवत्सराः युगम्, द्वादशमासाः संवत्सरः, द्वौ मासौ ऋतुः ते च वसन्त-ग्रीष्म-वर्षा-शरद्-हेमन्त-शिशिराख्याः, ऋतुत्रयम् अयनम्, मासार्धम् पक्षः शुक्लः कृष्णः च, दिवसरात्रिचतुर्भागः यामः, द्विनाडिकः मुहूर्तः, इति एवम् आदि ।
क्षेत्रविभागः तथा भगणात् । क्षेत्रम् भगोलः । तस्य क्षेत्रस्य विभागः । तथा तेन एव प्रकारेण । यथा कालस्य विभागः, क्षेत्रस्य अपि भगणात् । कालस्य वर्षात् प्रभृति विभागः उक्तः, क्षेत्रस्य तु भगणात् प्रभृति प्रवृत्तेः । तत् यथा -- द्वादशराशयः भगणः, राशिः त्रिंशत् भागाः, षष्टिः लिप्ता भागः, षष्टिः विलिप्ता लिप्ता, षष्टिः तत्परा विलिप्ता इति ईदृशः । उद्देशकः --

भगणः राशिः भागः कला च विकला च तत्परा च एव ।
क्षेत्रस्य एताः संज्ञाः कालविभागेन तुल्याः स्युः ॥

[द्वियोगपरिज्ञानम्]

द्वियोगपरिज्ञानाय आर्यापूर्वार्धम् आह --

भगणाः द्वयोः द्वयोः ये विशेषशेषाः युगे द्वियोगाः ते ।

भगणाः निर्दिष्टाः एव ग्रहाणाम् गीतिकासु । द्वयोः द्वयोः इति वीप्साग्रहणम् त्र्यादिनिवृत्त्यर्थम् । ये विशेषशेषाः, द्वयोः द्वयोः ग्रहयोः भगणानाम् ये विशेषशेषाः भगणाः तावन्तः तयोः युगे द्वियोगाः बभूवुः भविष्यन्ति वा ।

अत्र द्वयोः द्वयोः भगणविशेषाः एव तयोः योगाः इति कथम् अवसीयते, न पुनर् तयोः अभ्यासः योगः वा? उच्यते । तत् यथा -- द्वौ अश्वौ च परिमण्डलारोहे परिकल्पितौ । तत्र एकस्य कक्ष्या षष्टिः धनुषाम्, अपरस्य त्रिंशत् । तौ पञ्चदण्डगती । महति मण्डले यावत् मण्डलचतुर्भागम् गच्छति तावत् अल्पे मण्डले अर्धम् गच्छति । यावत् महति मण्डले अर्धम् गच्छति तावत् सकलम् अल्पमण्दलम् गच्छति । एवम् यावत् महति मण्डले एकः परावर्तः
तावत् अल्पे मण्डले परावर्तद्वयम्, तावति च तयोः एकः योगः । एवम् ग्रहेषु अपि योज्यम् । युज्यते एतत् यदि ग्रहाः समगतयः । समगतयः ग्रहाः इति प्रतिपादयिष्यति ।

उद्देशकः -- गुरोः अङ्गारकस्य च युगे कियन्तः योगाः इति ।

लब्धम् योगाः गगन[जल]दरसयमाग्निरन्ध्रशशाङ्काः [१९३२६००] । एवम् सर्वेषाम् अपि ।

कः पुनर् अत्र द्वियोगानाम् विनियोगः? उच्यते । यदि चतुर्युगाहर्गणेन इष्टग्रहयोः द्वियोगाः लभ्यन्ते, [तर्हि] कलियाताहर्गणेन कियन्तः इति लब्धम् समतिक्रान्ताः द्वियोगाः । शेषम् गतगन्तव्यम् कृत्वा युगद्वियोगैः विभजेत् । लब्धम् गतगन्तव्यदिवसा इति एकः विनियोगः । [शेषम् षष्ट्या सङ्गुण्य युगद्वियोगैः विभजेत् लब्धम् घट्यादि ।] यदि चतुर्युगाहर्गणेन इष्टग्रहयोः द्वियोगाः लभ्यन्ते [तर्हि] कलियाताहर्गणेन कियन्तः इति लब्धम् समतिक्रान्ताः
द्वियोगाः । शेषे द्वादशादिगुणिते रास्यादिलब्धिः । तैः द्वियोगराश्यादिभिः मन्दगतिग्रहः युक्तः शीघ्रगतिग्रहः भवति । शीघ्रगतिः च द्वियोगराश्यादिहीनः मन्दगतिः भवति इति अपरः विनियोगः । द्वियोगैः च राश्यादीन् आनीय तयोः अपि भगणसमासेन अपि भगणसमासगतभगणराश्यादीन् विधाय "अन्तरयुक्तम् हीनम्" [गणित॰, २४] इति अनेन एकत्र क्षिपेत् एकत्र विशोधयेत्, क्षिप्तविशोधितयोः अर्धम् तयोः गतभगणराशिभागलिप्ताः इति अन्यः विनियोगः
। कुट्टाकारविनियोगः तु प्रदर्शितः एव इति ।

[युगे व्यतीपातसंख्या]

व्यतीपातज्ञानाय आर्यापश्चार्धम् आह --

रविशशिनक्षत्रगणाः सम्मिश्राः च व्यतीपाताः ॥ ३ ॥

नक्षत्राणाम् गणाः नक्षत्रगणाः । नक्षत्राणि अश्विन्यादीनि । रविः च शशी च रविशशी । रविशशिनः नक्षत्रगणाः चन्द्रादित्यभगणाः इति यावत् । ते च रसदहनशिखिगुणशैलाकाशयमर्तवः [६२०७३३३६] । एते व्यतीपाताः । सम्मिश्राः च व्यतीपाताः । सम्मिश्राः एकीकृताः । केन संमिश्राः? अन्यस्य अश्रुतत्वात्, रविशशिभगणाः नक्षत्रगणैः एव । ते एव व्यतीपाताः द्विगुणिताः इति अर्थः । ते च द्विशैलरसर्तुमनुकृतरवयः [१२४१४६६७२] ।

अथ एतौ व्यतीपातौ अभिहितौ द्वादशषड्राश्यात्मकौ । अत्र इदम् प्रष्टव्यम् -- [किम् इदम्] व्यतीपातयोः उदाहरणम् आहोस्वित् लक्षणम् इति? यदि इदम् उदाहरणम् तदा सर्वम् इष्टम् सेत्स्यति, तत् अस्तु उदाहरणम् इति । तत् यथा -- चन्द्रादित्यौ स्फुटीकृतौ यदि एकत्र द्वादशराशयः तदा व्यतीपातः । ननु च लोके द्वादशराशिकः वैधृतः इति प्रसिद्धम् ? न एषः दोषः । संज्ञाकृतः भेदः न फलम् प्रति, यस्मात् व्यतीपातस्य वैधृतस्य च तुल्यम् फलम्
भगवद्भिः गर्गादिभिः उपदिष्टम् । तौ एव सूर्याचन्द्रमसौ स्फुटौ एकत्र यदि षड्राशयः तदा अपि व्यतीपातः ।

अथ व्यतीपातस्य अतीतैष्यपरिज्ञानार्थम् त्रैराशिकम् -- यदि सूर्याचन्द्रमसोः स्फुटभुक्तिसमासेन षष्टिघटिकाः लभ्यन्ते, [तदा] अनेन अतीतैष्येण कियत्य इति लभ्दम् घटिकाः विघटिकाः च । अथवा अतीतैष्यव्यतीपातकालिकौ सूर्याचन्द्रमसौ ज्ञातुम् इच्छति, तदा अतीतैष्येण सह त्रैराशिकम् -- यदि सूर्याचन्द्रमसोः स्फुटभुक्तिसमासेन सूर्यभुक्तिः चन्द्रभुक्तिः वा लभ्यते, [तदा] अनेन अतीतैष्यसूर्याचन्द्रमसोः भुक्तिसमासेन किम् इति भुक्तिः
लभ्यते । तेन रहितौ सहितौ सूर्याचन्द्रमसौ व्यतीपातकालिकौ । एवम् स्थूला व्यतीपातभुक्तिः । यथा सूक्ष्मा भवति तथा प्रदर्श्यते । उक्तम् च --

नानायने व्यतीपातः तुल्यापक्रमयोः तयोः ।
उद्देशः तस्य चक्रार्धम् विक्षेपम् च अधिकोनकम् ॥
[महाभास्करीयम्, ४.३६ ]
इति । सूर्याचन्द्रमसौ नानायने तुल्यापक्रमौ यदा भवतः तदा व्यतीपातः, चन्द्रस्य विक्षेपसहितः रहितः वा अपक्रमः । अस्मिन् किल व्यतीपातयोगे क्षीरतरुशाखावच्छेदे विगतक्षीरता ॥ ३ ॥

[ युगे ग्रहोच्चनीचभगणाः ]

उच्चनीचपरिवर्तज्ञानार्थम् आह --

स्वोच्चभगणाः स्वभगणैः विशेषिताः स्वोच्चनीचपरिवर्ताः ।

स्वोच्चभगणाः स्वभगणैः विशेषिताः । स्वकीयम् उच्चम् स्वोच्चम्, तस्य स्वोच्चस्य भगणाः स्वोच्चभगणाः । अत्र ग्रहाणाम् उच्चद्वयम्, मन्दोच्चम् शीघ्रोच्चम् च । अत्र कतरत् उच्चम् परिगृह्यते? शीघ्रोच्चम् इति आह । मन्दोच्चस्य यदि अपि गतिः अभ्युपगता तथा अपि युगभगणस्य व्यवहारः न अस्ति इति शीघ्रोच्चभगणाः एव परिगृह्यन्ते । स्वभगणैः विशेषिताः स्वोच्चनीचपरिवर्ताः । उच्चभगणानाम् स्वभगणानाम् च यः विशेषः स उच्चनीचपरिवर्तः
। यस्मात् नैरंश्यात् यावत् नैरंश्यम् तावत् उदयास्तमयवक्रानुवक्राः भवन्ति इति उच्चपरिवर्तः परिकल्पितः । ये निरंशद्वयान्तरे दिवसाः ते परिवर्तस्य दिवसाः । परिवर्ताः ग्रहाः च युगादौ मेषादितः प्रवृत्ताः । मीनान्ते शीघ्रभगणपरिसमाप्तिः । ग्रहभोगाधिकः शीघ्रभोगः परिकल्पितः । उच्चनीचपरिवर्ताः । उच्चपरिवर्ताः नीचपरिवर्ताः च तावन्तः एव, यस्मात् एकस्मिन् निरंशद्वयान्तरेषु ग्रहस्य उच्चनीचप्राप्ती संभवतः ।

अथ कः पुनर् उच्चः, कः वा नीचः इति? यत्र ग्रहाः सूक्ष्माः लक्ष्यन्ते कर्णस्य महत्त्वात् स आकाशप्रदेशः उच्चसंज्ञितः । यत्र असौ एव ग्रहः महाबिम्बः लक्ष्यते कर्णस्य अल्पत्वात् स आकाशप्रदेशः नीचसंज्ञितः इति ।

अथ परिवर्तैः अपि उच्चम् केन्द्रम् वा आनीयते । कथम्? यदि चतुर्युगाहर्गणेन एते उच्चनीचपरिवर्ताः लभ्यन्ते, तदा कलियाताहर्गणेन कियन्तः इति लब्धम् समतिक्रान्ताः परिवर्ताः, शेषे द्वादशा[दिगुणिते] राश्यादिकः परिवर्तभोगः । परिवर्तभोगरहितः ग्रहः ग्रहसहितः वा परिवर्तभोगः उच्चभोगः । उच्चभोगसहितः परिवर्तभोगः [परिवर्तभोगरहितः वा उच्चभोगः ] ग्रहभोगः । परिवर्तभोगः एव केन्द्रभोगः । अन्यत् च द्वियोगाभिहितेन
समानम् ।

अथ "भगणाः द्वयोः द्वयोः ये विशेषशेषाः युगे द्वियोगाः ते" [कालक्रिया॰, ३] इति अस्याम् एव कारिकायाम् ननु गतः अयम् अर्थः किम् अत्र अभिधीयते? उच्चनीचपरिवर्तसंज्ञार्थम् अयम् आरम्भः । तत्र द्वियोगमात्रम् एव प्रतिपादितम् । अथ च तत् द्वयोः द्वयोः ग्रहयोः भगणविशेषः इति अभिहितः । न उच्चग्रहभगणविशेषः इति [ पृथक् उक्तिः ] ।

[अश्वयुजाद्याः गुर्वब्दाः ]

गुरुवर्षनिरूपणाय आह --

गुरुभगणाः राशिगुणाः अश्वयुजाद्याः गुरोः अब्दाः ॥ ४ ॥

गुरुभगणाः राशिगुणाः । गुरोः भगणाः गुरुभगणाः, बृहस्पतिभगणाः इति यावत् । राशिगुणाः द्वादशगुणाः इति यावत् । अश्वयुजाद्याः गुरोः अब्दाः । अश्वयुक् अब्दः, आदौ भवति [इति] आद्यः, अश्वयुक् आद्यः येषाम् ते अश्वयुजाद्याः । गुरोः अब्दाः गुरोः संवत्सराः इति अर्थः । ते च अश्वयुक्-कार्तिक-मार्गशीर्ष-पौष-माघ-फाल्गुन-चैत्र-वैशाख-ज्येष्ठ-आषाढ-श्रावण-प्रौष्ठपदाख्याः । अत्र त्रैराशिकम् -- यदि चतुर्युगाहर्गणेन एते गुरोः अब्दाः
वसुवसुरसाकाशमुनिदहनकृताः [४३७०६८८] [लभ्यन्ते, तदा] कलियाताहर्गणेन कियन्तः इति । लब्धाः समतिक्रान्ताः समाः । लब्धासु समासु द्वादशभक्ते, शेषाः अश्वयुजाद्याः समाः । कथम् इदम् विज्ञायते अश्वयुजाद्याः समाः इति ? उच्यते -- "अश्वयुजाद्याः गुरोः अब्दाः" इति वचनात् । ननु तत् एव वचनम् अस्माभिः चोदितम् परिहारः अपि अस्माभिः उच्यते । यस्मात् युगादौ अश्विन्याम् अमरपतिगुरुरुदयशिखरिशिखरमधिरूढः तस्मात् अश्वयुजाद्याः गुरोः समाः
।

उक्तम् च --

यस्मिन् उदेति नक्षत्रे प्रवासोपगतः अङ्गिराः ।
संवत्सरः तदृक्षादिः बार्हस्पत्यः प्रगण्यते ॥

इति ।

अथ वसुवसुरसाकाशमुनिदहनकृतसङ्ख्यैः [४३७०६८८] त्रैराशिकेन बृहस्पतिः अपि आनीयते । कथम्? यदि चतुर्युगाहर्गणेन वसुवस्वादयः बृहस्पतिराशयः लभ्यन्ते, [तदा] कलियाताहर्गणेन कियन्तः इति लब्धाः राशयः । शेषे त्रिंशदादिगुणिते भागलिप्ता[दयः] । एवम् इदम् अर्थात् आपन्नम् भवति । ये समतिक्रान्ताः गुरोः राशयः ते समतिक्रान्ताः गुरोः अश्वयुजाद्याः संवत्सराः, शेषे च वर्तमानः इति ।

अथ वसुवस्वादयः गुरोः संवत्सराः इति अभिधीयन्ते । ननु च तैः युगसंवत्सरैः तुल्यैः भवितव्यम्? न इति आह । ये युगसंवत्सराः ते सौर्येण मानेन दृष्टाः, अम् च ये गुरोः अब्दाः ते गुरुमानेन । त्तत् एव युगम् सौर्येण अनुमीयमानम् गगनजलदबिन्दुमे[घ]यमहुताशकृत [४३२००००] सङ्ख्यम् । तत् एव बार्हस्पत्येन वसुवस्वादि [४३७०६८८] सङ्ख्यम् । बार्हस्पत्याब्दम् बृहस्पतेः राशिभोगः इति न सौर्यबार्हस्पत्यौ तुल्यौ इति ॥ ४ ॥

[ सौरचान्द्रसावननाक्षत्रमानानि ]

सौर-चान्द्र-सावन-नाक्षत्रमानप्रदर्शनार्थम् आह --

रविभगणाः रव्यब्दाः रविशशियोगाः भवन्ति शशिमासाः ।
रविभूयोगाः दिवसाः भावर्ताः च अपि नाक्षत्राः ॥ ५ ॥

रविभगणाः रव्यब्दाः । रवेः भगणाः, रविभगणाः, रव्यब्दाः, रविवर्षाणि इति यावत् । ये एव रविभगणाः ते एव रव्यब्दाः । तथा इदम् अनुक्तम् अपि गम्यते रविराशि-भाग-लिप्ता रविमास-दिवस-नाड्यः इति । यस्मात् द्वादशराशयः भगणः, त्रिंशद्भागा राशिः, भागषष्ट्यवयवः लिप्ता, षड्राशयः अयनम् उत्तरम् दक्षिणम् च मकरकुलीरादितः इति । कथम् इदम् अवसीयते मकरकुलीरादितः इति न पुनर् धनिष्ठादेः आश्लेषार्धात् इति, यस्मात् उक्तम्
--

अर्धाश्लेषात् श्रविष्ठादेः प्रवृत्ते दक्षिणोत्तरे ।
क्षेमसस्यसुभिक्षाख्ये तु अयने घर्मतेजसः ॥ इति ।

अत्र उच्यते -- श्रुत्योः भिन्नवाक्यता । शक्यते एव तत् वक्तुम्, अदृष्टार्थत्वात् । "श्रुत्यर्थानुष्ठानफलस्य सर्वशाखाप्रत्ययम् एकम् कर्म" इति । श्रुतिस्मृत्योः पुनर् भेदे या च स्मृतिः प्रत्यक्षाविरुद्धा सा परिगृह्यते । इयम् अस्माकम् स्मृतिः प्रत्यक्षाव्यभिचारिणी, यतः प्रत्यक्षेण एव उत्तरदक्षिणप्रवृत्तिः मकरकर्कटादितः एव उपलक्ष्यते । कथम्? यस्मात् धनुषः अन्ते मकरादिस्थिते विध्वस्ताशेषध्वान्तसंघाते भगवति भास्करे दिनमध्यंगते
सर्वमध्याह्नच्छायाभ्यः महती मध्याह्नच्छाया लक्ष्यते । सा च क्रमेण अपचीयमाना मकरादितः एव, न श्रविष्ठादेः । यत् च कर्कटादौ सर्वमध्याह्नच्छायाभ्यः स्वल्पीयसी मध्याह्नच्छाया, सा च क्रमेण उपचीयमाना कर्कटादितः एव, न अश्लेषार्धात् इति अतः प्रत्यक्षसिद्धम् अयनम् ।

अथवा अयम् अन्यार्थपरः एव ग्रन्थः । कर्कटादेः दक्षिणायनम् मकरादेः च उत्तरायणम् इति एतस्य अभ्युपगमात् एव उच्यते -- यदा भवगान् भास्करः अर्धाश्लेषात् दक्षिणम् मार्गम् प्रवर्तते पुनर् वस्वोः चतुर्थांशदिम् [अर्थात् कर्कटादिम्] परित्यज्यते तदा क्षेमसस्यसुभिक्षाः भवन्ति । यदा च मकरादिम् परित्यज्य श्रविष्ठादेः उत्तरम् [मार्गम्] प्रतिपद्यते तदा च तत्फलार्थत्वम् इति । अथ अयम् विवस्वान् कथम् एवम् प्रवर्तते इति?
उच्यते -- ग्रहाणाम् द्वयी गतिः, सङ्ख्यानुगता औत्पातिकी च । यदा औत्पातिकी गतिः एवम् प्रकारा भवति तदा क्षेमसस्यसुभिक्षाख्ये अयने [भवतः] । यदा पुनर् कर्कटमकरादिम् अप्राप्त्वा एव दक्षिणोत्तरप्रवृत्तिनिवृत्ती भवतः तदा अक्षेमा असस्या असुभिक्षा इति एतत् प्रदर्शयति ।

अपि अत्र अविदितपरमार्थाः रोमकाः पठन्ति --

वसुदैवादिसार्पार्धात् अयनम् मुनयः जगुः ।
मृगकर्क्यादितः दृष्टम् कथम् तत् हि गतेः विना ॥

इति आदिग्रन्थेन । क्षुद्रविद्रावणोपन्यासक्रमेण युगभगणान् आहुः --

तस्मात् अत्र वियद्रुद्रकृतनन्दधृतीः (१८९४११०) युगम् ।
भगणान् सप्तविश्वाख्यानादित्यान्त्योत्क्रमात् क्रमात् ॥ इति ।

अत्र कथम् इदम् घटते यदि उत्क्रमेण क्रमात् वा पुनर् वस्वोः मेषादेः अपि दक्षिणायनम् प्रवर्तते न कर्कटादौ एव? तथा च वर्षाऋतुः मेषादेः प्रवर्तेत [मकरादेः] वसन्तः । तथा च कालविपर्यासः प्रसज्येत । एवम् च श्रुत्यर्थः न अनुष्ठितः भवति । "वसन्ते यजेत", चैत्रवैशाखौ वसन्तः, "मधुः च माधवः च वासन्तिकौ ऋतू" [तैत्तिरीयसंहिता, ४.४.११] । तथा च "शरदि वाजपेयेन यजेत्", अश्वयुक्कार्तिकौ शरत्, "इषः च ऊर्जः च शारदौ
ऋतू" [तैत्तिरीयसंहिता, ४.४.११] इति । इदम् च ज्योतिषाम् अयनम् अङ्गम् वेदस्य । तस्मात् न अयनस्य गतिः । मकरकर्कटादितः अयनम् इति । सर्वसिद्धान्तगुरुः आचार्यलाटदेवः आह --

मकरादौ उदगयनम् दक्षिणम् अयनम् च चन्द्रभवनादौ ।

इति ।

ऋतुनिश्चयाय आह --

ऋतवः शिशिर-वसन्त-ग्रीष्म-घनागम-शरद्-हिमागमनाः ।
मकरात् राशिद्वयगतदिनकरभोगस्थितिसमानाः ॥

इति ।

अन्यत् च -- अपक्रमवृद्धिः धनुः मिथुनान्ते एव इति । रात्रिदिवसयोः महती वृद्धिः मकरकर्कटादौ एव, न अन्यतः एव इति । प्रत्यक्षसिद्धम् इदम् इति । अतः अयनयुगभगणपरिकल्पना मुधा ।

अथ इदम् प्रष्टव्यम् -- स्फुटगत्या परिगह्यन्ते आहोस्वित् मध्यमगत्या इति । यदि मध्यमगत्या, [तदा] यानि सौर्यमानाभिहितानि प्रयोजनानि तानि मध्यमगत्या प्राप्नुवन्ति, स्फुटगत्या चेष्यन्ते । कानि पुनर् तानि प्रयोजनानि इति? उच्यते --

वायोः मूर्च्छनम् अभ्राणाम् उत्पत्तिः चक्षुषोः बलम् ।
शीतोष्णवर्षप्राप्तिः च प्रसादः सलिसस्य च ॥

सत्त्वानाम् मदलाभाः स्युः आर्तवः च अपि योषिताम् ।
फलपुष्पोद्गमम् च एव पत्राङ्कुरविरोहणम् ॥

अयनाना[म् ऋतूनाम्] च मुहूर्तानाम् च दर्शनम् ।
परिवेषपरीधानम् परिधीनाम् तथा एव च ॥

गन्धर्वनगराणाम् च तथा इन्द्रधनुषाम् अपि ।
उल्कानाम् अशनीनाम् च सन्ध्ययोः विद्युताम् तथा ॥

भूरथाभ्रनिनादानाम् धिष्ण्यानाम् पतनस्य च ।
ज्योतिषाम् वर्णभेदस्य ग्रहाणाम् चेष्टितस्य च ॥

अग्नेः औष्ण्यस्य शक्त्योः च विलयस्य उद्भवस्य च ।
सौरम् मानम् विजानीयात् प्रवर्तकनिवर्तकम् ॥

इति आदि प्रयोजनानि ।

यदि स्फुटगत्या तत् एतानि प्रयोजनानि परिगृहीतानि भवन्ति, इदम् तु न सिद्ध्यति अधिकावमानाम् ग्रहणम् । यस्मात् अधिकावमानाम् ग्रहणम् मध्यमेन मानेन । अथ कथम् स्फुटार्थम् वचनम् मध्यमगतिप्रतिपत्तये भविष्यति । अथ मध्यमगतिप्रतिपत्तये स्फुटार्थम् कथम् इति । न एषः दोषः । "शल्यर्थम् कुल्याः प्रणीयन्ते, ताभ्यः च पानीयम् पीयते, तासु च उपस्पृश्यते" [अष्टाध्यायी, १.१.२२ पातञ्जलभाष्यम्] इति सिद्धम् । एतत् उभयग्रहणात्
उभयम् अत्र परिगृह्यते इति मध्यमगत्या स्फुटगत्या च । मध्यमगत्या अधिकावमानाम् ग्रहणम् सिद्धम्, स्फुटगत्या च संहिताकाराभिहितानि प्रयोजनानि ।

रविशशियोगाः भवन्ति शशिमासाः । रवेः शशिनः च योगाः रविशशियोगाः । भवन्ति शशिमासाः । ये युगे रविशशियोगाः अभिहिताः ते शशिमासाः । ते च प्राग् यथा सिद्ध्यन्ति तथा व्याख्यातम् । शशिमासैः शशिदिवसघटिकाः व्याख्याताः । शशिमासेन कानि पुनर् प्रयोजनानि?

दर्शम् च पौर्णमासम् च तथेज्याद्याः क्रिया भुवि ।
पर्वाणाम् च परिज्ञानम् तिथीनाम् प्रत्ययः तथा ॥
प्राबल्यम् औषधीनाम् च रसानाम् व्यक्तिः एव च ।
पूरणम् हीनता च इन्दोः तथा एव लवणाम्भसः ॥
गर्भाणाम् जीवनम् च अपि तथा अपि अयनम् एव च ।
राहोः आगमनप्राप्तिः [च] ऐन्दवम् मानम् आश्रिताः ॥

एवम् आदीनि प्रयोजनानि ।

रविभूयोगाः दिवसाः । रवेः भुवः च योगाः रविभूयोगाः । ये युगे रविभूयोगाः ते युगे भूदिवसाः । भूदिवसः नाम रवेः अर्धोदयात् प्रभृति पुनर् अर्धोदयम् इति । सावनः दिवसः भूदिवसः इति उच्यते । रोमकैः स एव भूदिवसः रव्युदयः इति संज्ञितः । कानि पुनर् सावनमानस्य प्रयोजनानि?

यज्ञकालपरिज्ञनम् यज्ञेषु सवनानि च ।
व्रतः दीक्षणकालः च चूडोपनयनानि च ॥
आयुषाम् च अपि निर्लेखा प्रयोगाणाम् च वृद्धयः ।
ग्रहचारपरिज्ञानम् आदेशगमनानि च ।
यानि च अपि एवम् आदीनि सङ्ख्योद्दिष्टानि तानि वै ।
सावनेन एव मानेन गण्यन्ते इति निश्चयः ॥

एतानि प्रयोजनानि ।

भावर्ताः च अपि नाक्षत्राः । भानाम् आवर्ताः भावर्ताः, भचक्रभ्रमणानि । तत् च भचक्रम् किम् आदिः इति एतत् विचार्यम् । यदि मेषादिः स्यात् [तदा] मेषादिस्थे सवितरि सवितृभचक्राद्योः युगपत् उदयः, द्वितीयः पुनर् अनुदिते एव सवितरि भचक्राद्युदयः, न च भचक्रादिद्वयोदयान्तरे षष्टिः नाड्यः । तथा च "प्राणेन इति कलाम् भम्" [गीतिका॰, ६] इति चक्रलिप्तानाम् अहोरात्रघटिकाप्रमाणलिप्तानाम् च तुल्यता न उपपद्यते, यस्मात् अपूर्णे एव अहोरात्रे
भचक्रादिः उदेति । यदा पुनर् आदित्योदयः भचक्रादिः परिगृह्यते तदा अहोरात्रप्राणाः स्वदेशराश्युदयप्राणतुल्याः । ते च खखषड्घनतुल्याः । भचक्रलिप्ताः च तावत्यः इति एतत् उपपन्नम् ।

अन्यत् च -- उदयलग्नविधिः सूर्यात् एव प्रवर्तते, औदयिकात् च रवेः । स चेष्टकाले स्वाभीष्टकालादित्य[राशेः विचार्य]माणः यावत् पुनर् उदयः इति तावत् न अन्तरम् विदधाति । तस्मात् रव्युदयः एव भचक्रादिः, व्यवहारप्रसिद्ध्यर्थम् । यदि एवम् ग्रहभुक्तराशयः रव्याक्रान्तराशिप्रदेशात् एव प्राप्नुवन्ति? न एषः दोषः, "बुधाह्न्यजार्कोदयात् च लङ्कायाम्" [गीतिका॰, ४] इति एषाम् अजादिनिरूपणात् । कुभगणाः च युगाद्यन्तयोः अजार्कोदयात् एव प्रतिपरिसमाप्ताः
इति तेषाम् च अजादिता सिद्धा । ते एव युगभचक्रावर्ताः नाक्षत्रदिवसाः भूदिवसाः इति, दिवसग्रहणानुवर्तनात् । के पुनर् ते भावर्ताः? ये कुभगणाः, "कु ङिशिबुण्लृष्खृ" [१५८२२३७५००] इति गीतिकासु [गीतिका॰, ३] उक्ताः । कथम् एते कुभगणाः भावर्ताः इति उक्ताः? भचक्रप्रतिवद्धानि नक्षत्राणि । तस्य प्रवहाक्षेपात् अपराम् दिशम् आसादयन्ति । नक्षत्राणि भुवम् स्वगत्या प्राङ्मुखम् भ्रमन्तीम् इव पश्यन्ति इति अनया गत्या भुवः भगणानिर्देशाः । तेन उक्तम्
-- "भावर्ताः च अपि नाक्षत्राः" इति । अन्ये पुनर् "क्व आवर्ताः च अपि नाक्षत्राः" इति पठन्ति । तेषा पाठात् एव हि सर्वम् उपपन्नम् ।

अथ अन्ये पुनर् अन्यथा वर्णयन्ति --

द्दर्शात् दर्शः चान्द्रः त्रिंशत् दिवसाः तु सावनः मासः ।
सौर्यः अर्कराशिभोगः नाक्षत्रः च इन्दुमण्डलकम् ॥
[लाटदेवस्य कृतितः]

दर्शात् दर्शः चान्द्रः इति सूर्याचन्द्रमसोः यः परः सन्निकर्षः स दर्शशब्देन उच्यते, स च तयोः योगः । "रविशशियोगाः भवन्ति शशिमासाः" इति तुल्यम् लक्षणम् । त्रिंशत् दिवसाः तु सावनः मासः इति एतत् अपि "रव्युदयाः त्रिंशत् " इति तुल्यम् । सौर्यः अर्कराशिभोगः इति "रविभगणाः रव्यब्दाः", "रवेः राशयः अपि रविमासाः" इति एतत् अपि तुल्यम् लक्षणम् । "नाक्षत्रम् च इन्दुमण्डलकम्" इति इन्दोः मण्डलम् नाक्षत्रः मासः इति । तत्र प्रत्यहम् यः चन्द्रभोगः
स तन्मासावयवः इति ।

नक्षत्राणि अपि विभज्यन्ते । तत् यथा -- यः चन्द्रभगणस्य त्रिंशद्भागः स नाक्षत्रः दिवसः । एवम् नवनक्षत्रदशभागः नाक्षत्रः दिवसः इति एतत् अभिन्नम् लक्षणम् ।

अस्माकम् आचार्येण स्वतन्त्रान्तराविरुद्धप्रक्रियाप्रतिपादनार्थम् इदम् उक्तम् "भावर्ताः च अपि नाक्षत्राः" इति । का च स्वतन्त्रान्तरप्रक्रिया? "प्राणेन एति कलाम् भम्" [गीतिका॰, ६] इति, प्राणेन कलाम् भम् गच्छति इति ज्योतिश्चक्रलिप्तानाम् भावर्तप्राणानाम् च तुल्यत्वे ज्यादयः विधयः सिद्ध्यन्ते, न अन्यथा इति इयम् प्रक्रिया । येषाम् च "नाक्षत्रम् च इन्दुमण्डलकम्" इति लक्षणम्, तैः संहिताकाराभिहितप्रयोजनसिद्ध्यर्थम् उक्तम् । अत्र एकेन लक्षणेन
प्रयोजनस्य अपरिग्रहात् लक्षणद्वयम् इदम् इष्यते । कथम्? तत्र आवृत्तिः एकशेषः इति, भावर्तशब्दस्य एकशेषव्याख्यानात् भावर्ताः च भावर्ताः च, भावर्ताः । भानि ज्योतींषि अश्विन्यादीनि । तेषाम् आवर्ताः भावर्ताः, भपर्ययाः इति अर्थः । पर्ययः च नक्षत्राणाम् चन्द्रविषयः एव परिगृह्यते, लोकव्यवहारात् । लोकः हि चन्द्राक्रान्तनक्षत्रैः एव व्यवहरति । अथवा अन्यार्थम् प्रकृतम् अन्यार्थम् अपि भवति, "शाल्यर्थम् कुल्याः प्रणीयन्ते, तासु च उपस्पृश्यते"
[अष्टाध्यायी, १.१.२२, पातञ्जलमहाभाष्यम्] इति । अथवा "भावर्तः च नाक्षत्रः" इति एकवचनेन सिद्धे "भावर्ताः च नाक्षत्राः" इति बहुवचननिर्देशम् कुर्वन् आचार्यः ज्ञापयति नाक्षत्रस्य अनेकलक्षणम् इति । अथवा चकारः अत्र प्रयुक्तः, न तेन अत्र कश्चित् अर्थः साध्यते, अथ च प्रयुक्तेन मन्यामहे नाक्षत्रस्य अनेकम् लक्षणम् इति । तत् च अनेकम् लक्षणम् यथा व्यवस्थितम् तथा व्याख्यातम् इति अतः लक्षणद्वयम् अपि स्वसिद्धान्तसिद्धम् ।

अथ नाक्षत्रस्य मानस्य कानि प्रयोजनानि?

संवत्सराणाम् मासानाम् ऋतूनाम् पर्वणाम् तथा ।
अयनानाम् च सर्वेषाम् समाप्तिप्रतिपत्तयः ॥
शुभाशुभम् च लोकानाम् मानम् उन्मानम् एव वा ।

इति एवमादीनि प्रयोजनानि ।

अथ इयम् उक्तिः वाग्वागुरा क्षुद्रविद्रावणपरा नाक्षत्रमानप्रदर्शितप्रयोजनैः लक्ष्यते "संवत्सराणाम् मासानाम् ऋतूनाम्" इति । संवत्सराणाम् तावत् प्रतिपच्छेदनिमित्तम् नाक्षत्रम् [न] भवति, यतः संवत्सरः शास्त्रे चैत्रशुक्लादेः प्रवर्तते । स च चैत्रशुक्लादिः चान्द्रेण उपलक्ष्यते । संहिताकाराणाम् च बृहस्पतिचारे यः संवत्सरः बृहस्पतेः नक्षत्रोदयात् प्रवर्तते --

यस्मिन् उदेति नक्षत्रे प्रवासोपगतः अङ्गिराः ।

इति । मासानाम् अपि न भवति । यस्मिन् कृत्तिकाभिः युतः चन्द्रमाः, अस्मिन् मासे अर्धमासे च इति कार्तिकः मासः । स चन्द्रनक्षत्रयोगविशेषः चान्द्रः मानविशेषः । ऋतूनाम् अयनानाम् [च ज्ञानम्] सौर्येण मानेन इति प्रदर्सितम् एव अस्माभिः । तस्मात् एतत् न नाक्षत्रमानम् । यैः "नाक्षत्रम् च इन्दुमण्डलकम्" इति अस्य अनुवर्तनात् "भावर्ताः च नाक्षत्राः" इति अस्य शब्दार्थव्याख्याने नैकशेषबहुवचननिर्देशः [कृतः] "च"-शब्दात् इति बुधैः एव विदितपरमार्थैः
मुखम् आयासितम् । तस्मात् अस्माकम् आचार्येण अतीन्द्रियार्थदर्शिना अभिहितम् आचार्यार्यभटेन तत् एव नाक्षत्रमानम् । तस्मात् "इयम् उक्तिः वग्वागुरा क्षुद्रविद्रावणपरा नाक्षत्रमानप्रदर्शितप्रयोजनैः लक्ष्यते" इति सुष्ठु उक्तम् ।
अथ एतानि सौर्य-सावन-चान्द्र-नाक्षत्राणि मानानि मध्यमगत्या प्रतिपादितानि । तत्प्रयोजनार्थम् स्फुटगत्या प्रतिपत्तव्यानि इति प्रदिष्टम् । आचार्यलाटदेवेन तु स्फुटगत्या एव प्रतिपादितानि --

दर्शात् दर्शः चान्द्रः त्रिंशत् दिवसाः तु सावनः मासः ।

इति आदिग्रन्थेन इति ।

अत्र च अयम् प्रश्नः -- "अवमाधिमासकैः विना द्युगणम्" इति । यातवर्षाणि मासीकृत्य वर्तमानमासैः संयोज्य त्रैराशिकम् -- यदि युगरविमासैः युगचान्द्रमासाः लभ्यन्ते, [तदा] एतैः [रविः] मासैः कियन्तः चान्द्रमासाः इति, लब्धम् चान्द्रमासाः । ते त्रिंशद्गुणाः वर्तमानतिथियुक्ताः कार्याः । ततः त्रैराशिकम् -- यदि युगचान्द्रदिवसैः युगाहर्गणः लभ्यते [तदा] एतैः चान्द्रदिवसैः किम् इति, अहर्गणः लभ्यते । तत्र एकः प्रक्षेपः । अथ कः
च असौ एकः प्रक्षेपः? उच्यते -- यः असौ लभ्यते अहर्गणः स अतीतः । शेषः वर्तमानः । वर्तमानेन अहर्गणः भवति इति एकः प्रक्षेपः । "तेन दिवाकरोडुपौ" इति एतत् उत्तरत्र वक्ष्यते । ताभ्याम् स्फुटपर्वदर्शनम् इति ।

चन्द्रादित्याभ्याम् विना स्फुटतिथ्यानयनम् । तत् यथा -- "[यदि] युगाहर्गणेन चन्द्रवर्षाणि वसुमुनिगिरियमविषयकृतवेद [४४५२७७८] तुल्यानि लभ्यन्ते, तदा अनेन इष्टाहर्गणेन कियन्ति इति वर्षाणि लभ्यन्ते । शेषे द्वादशा[दि]गुणिते मास-दिवस-घटिका-विघटिकाः च लभ्यन्ते । एवम् मध्यमा तिथिः भवति । अथ शश्युच्चनीचपरिवर्तैः त्रैराशिकम् -- यदि युगाहर्गणेन शश्युच्चनीचपरिवर्ताः लभ्यन्ते, [तदा] अनेन इष्टाहर्गणेन कियन्तः इति, अतीताः
परिवर्ताः लभ्यन्ते । शेषे द्वादशादिगुणिते राश्यादयः लभ्यन्ते । त्रिराशिरहितम् शशिकेन्द्रम् । ततः फलम् शशिभुक्तिः च आनीयते । फलस्य द्वादशभिः भागे नाड्यः विनाड्यः च लभ्यन्ते । तावत् मध्यमतिथौ यथान्यायेन ऋणम् धनम् वा कर्तव्यम् । सूर्यानयनार्थम् त्रैराशिकम् -- यदि युगाहर्गणेन वसुमुनिगिरियमदहनेन्दु[१३२७७८]तुल्यानि अधिकवर्षाणि लभ्यन्ते, तदा कलियाताहर्गणेन कियन्तः इति, वर्ष-मास-दिवस-घटिकाः लभ्यन्ते ।
प्रतिराशितमध्यमतिथिवर्षादिभ्यः ते शोध्याः शेषम् रविवर्षादयः । तेभ्यः मासद्वयम् [२] च अष्टादश [१८] च दिवसान् अपनीय रविकेन्द्रम् भवति । तेन फलानयनम् भक्त्यानयनम् च । फलस्य द्वादशभिः भागे लब्धाः नाड्यः विनाड्यः च । तिथौ एव ऋणधनव्यत्यासम् कुर्यात् । अथ किम् इति ऋणधनव्यत्यासः क्रियते? उच्यते -- सूर्यस्य यत् ऋणम् तत् तिथेः उपचयः, धनम् यत् तत् अपचयः इति । एवम् तिथिः निष्पन्ना भवति । ततः इदम् क्रियते -- यदि
मध्यमभुक्त्यन्तरेण षष्टिः नाड्यः लभ्यन्ते, [तदा] स्फुटगत्यन्तरेण कियत्य इति, गत्यन्तरनाड्यः उपलभ्यन्ते । ताभिः त्रैराशिकम् -- यदि एताभिः गत्यन्तरनाडिकाभिः षष्टिः नाड्यः लभ्यन्ते, [तदा] अनेन तिथिशेषेण कियत्य इति तिथिनाड्यः विनाड्यः च लभ्यन्ते । अथवा त्रैराशिकद्वयम् भङ्क्त्वा इदम् कर्म क्रियते । मध्यमभुक्त्यन्तरेण तिथिशेषम् गुणयित्वा स्फुटभुक्त्यन्तरेण भागसिद्धम् घटिकाविघटिकाः च । कथम् पुनर् त्रैराशिकद्वयम्
भिन्नम्? उच्यते -- यदि मध्यमभुक्त्यन्तरेण षष्टिः नाड्यः लभ्यन्ते [तदा] स्फुटभुक्त्यन्तरेण कियत्य इति एकम् त्रैराशिकम् । पुनर् -- लब्धेन फलेन यदि षष्टिः नाड्यः, [तदा] अनेन तिथिशेषेण कियत्य इति । यः पूर्वत्रैराशिके गुणकारः स इह अर्थात् भागहारः इति । अथ देशान्तरविशेषेण च अक्षविशेषेण च यत् फलम् उपजायते तत् अपि युक्त्या योजयितव्यम् इति ॥ ५ ॥

[ अधिमासावमदिनानि]
अधिमासावमपरिज्ञानाय आह --

अधिमासकाः युगे ते रविमासेभ्यः अधिकाः तु ये चान्द्राः ।
शशिदिवसाः विज्ञेयाः भूदिवसोनाः तिथिप्रलयाः ॥ ६ ॥

ये रविमासेभ्यः अधिकाः चान्द्रमासाः ते युगे युगे अधिमासाः भवन्ति, ये च भूदिवसोनाः शशिदिवसाः ते युगे तिथिप्रलयाः । प्रलयः विनाशः । तिथीनाम् प्रलयाः तिथिप्रलयाः । अवमरात्राणि इति अर्थः । एवम् ब्रुवता एतत् प्रदर्शितम् भवति -- सौर्यचान्द्रान्तरम् अधिमासभोगः, सावमम् सावनम् चान्द्रम् मानम् इति । अधिकावमयोः मध्यमगत्या उपचयः इति उक्तम् । यदि स्फुटगत्या स्यात् तदा द्वितीयायाम् प्रवृत्तायाम् प्रतिपत् तृतीया [नि]वृत्तिप्रवृत्ती
न स्तः । अधिमासावमैः किम् निर्वर्त्यते? अहर्गणः इति आह । न एतत् अस्ति, विना अपि अधिमासावमैः अहर्गणस्य निर्वर्तितत्वात् । न एषः दोषः, उपायान्तरत्वात् । अधिमासावमैः विना अहर्गणस्य साधनम् प्रदर्शितम् । येन च अधिमासावमैः अहर्गणः लभ्यते स उपायः प्रदर्शयितव्यः । न एतत् अस्ति, एकोपायत्वात् । स च अयम् च एकः उपायः । कथम् एकोपायता? ये चान्द्रमासाः ते साधिकाः तेषाम् साधिकत्वात् साधिकः एव मासराशिः लभ्यते । पुनर् अपि च भूदिवसानाम्
रहितावमत्वात् त्रैराशिकेन रहितावमः अहर्गणः लभ्यते । अथ कश्चित् लघूकरणार्थी गुणकारात् भागहारम् अपनयेत् तस्य शेषगुणिते लब्धम् प्रतिराशितगुण्ये [क्षिपेत्] । यदि भागहारात् अवशिष्यते तत्र शेषगुणिते लब्धम् गुण्यात् प्रतिराशितात् अपनीयम् इति एषः गणितन्यायः । अथ अत्र गुणकाराधिकत्वात् मासाः क्षिप्यन्ते भागहाराधिकत्वात् दिवसाः अपचीयन्ते इति एकोपायता । तस्मात् न अर्थः अनया कारिकया, तथापि लोकव्यवहारार्थम् अधिमासावमानाम्
उपदेशः कर्तव्यः । लोकः च अधिमासावमैः व्यवहरति । उक्तम् च -- "करणाधिष्ठितम् अधिमासकम् कुर्यात्", "त्रिशतम् सचतुष्पञ्चाश[तम् अ]होरात्राणाम् कर्म सांवत्सरः" इति । अधिमासार्थम् त्रैराशिकम् -- यदि युगवर्षैः मासैः वा युगाधिमासकाः लभ्यन्ते, ततः यातवर्षादिभिः कियन्तः इति अधिमासकलब्धिः । एवम् एव अवमानाम् चान्द्रदिवसैः इति ।

अत्र च अयम् प्रश्नः -- "तेन दिवाकरोडुपौ" इति अहर्गणेन विना चन्द्रादित्यानयनम् । तत् यथा -- यातवर्षेषु द्वादशगुणितेषु गतमासान् क्षिपेत् । ततः त्रिंशद्गुणितेषु दिवसान् प्रक्षिप्य त्रैराशिकम् -- यदि पूर्णवियदम्बरजलधरपयोधरयमशरविषयेषुचन्द्रैः [१५५५२०००००] युगसौरदिवसैः युगाधिमासकाः लभ्यन्ते, ततः एतैः दिवसैः कियन्तः इति, लभ्दम् अधिमासकाः । शेषे क्षेपः उच्यते -- यदि भूदिवसतुल्येन अवमशेषेण युगाधिमासतुल्यः
उपचयः अधिमासकशेषस्य लभ्यते, तदा अनेन अवमशेषेण कियान् इति । यत् लब्धम् तत् अधिमासकशेषे प्रक्षिप्य युगचान्द्रमासैः रसरामाग्निगुताशनत्रिकृतत्रिविषयैः [५३४३३३६] भागलब्धम् भागाः, षष्टिगुणिते लिप्ताः । त्रिंशगुणाधिकयुतम् दिवसराशिम् कृत्वा त्रैराशिकम् -- यदि युगचान्द्रदिनैः युगावमदिनानि लभ्यन्ते, ततः एतैः किम् इति लभ्दम् अवमः । शेषम् षष्ट्या संगुण्य भूदिवसैः पूर्णाम्बरशरनगशशिरन्ध्रमुनिगिरिविषयरूपैः [१५७७९१७५००]
विभजेत्, लब्धम् घटिकाः ।

अथ किम् अर्थम् अधिकावमशेषयोः शशिमासभूदिवसैः भागः ह्रियते? उच्यते -- यः असौ अधिमासशेषः स चान्द्रमासावयवः । अतः तेन सच्छेदेन त्रैराशिकम् -- यदि युगशशिमासैः सूर्यभगणाः लभ्यन्ते, ततः अनेन शशिमासावयवेन कियन्तः इति । तत्र शशिमासावयवच्छेदेन सह रविभगणेन अपवर्तनम् -- रविभगणानाम् रविभगणभागेन एकः गुणकारः, छेदस्य तावत् भागेन षष्टिशतत्रयम् । तत्र भगणेषु भागम् न प्रयच्छति
इति द्वादश त्रिंशत् च गुणकारः । तत्र षष्टिशतत्रयभागेन रूपम्, तावत् भागेन एव छेदस्य अपि रूपम् एव । शशिमासाः एव केवलाः भागहाराः इति । अवमशेषः अपि भूदिनावयवः इति त्रैराशिकम् -- यदि भूदिनैः चान्द्रदिवसाः लभ्यन्ते, ततः अनेन भूदिवसावयवेन चान्द्रदिवसच्छेदेन किम् इति । तत्र गुणकारभागहारयोः तुल्यत्वात् नाशः । शेषे षष्टिगुणे भूदिवसभक्ते घटिकाः इति । अथ यातवर्षाणि भगणाः, मासाः राशयः, दिनानि भागाः इति परिकल्प्य
अवमशेषलब्धघटिकाः च लिप्ताः । एभ्यः अधिकशेषलब्धम् विशोधयेत् । शेषम् मध्यमसूर्यः । तेभ्यः एव त्रयोदशगुणितेभ्यः अधिकशेषफलम् विशोधयेत् । शेषम् मध्यमचन्द्रः ।

अधिमासकैः अपि अवमाः आनीयन्ते । तत् यथा -- अभीष्टवर्षाणि दिनीकृत्य त्रैराशिकम् -- [यदि] युगसूर्यदिवसैः युगाधिमासकाः लभ्यन्ते, ततः एतैः अभीष्टसूर्यदिवसैः कियन्तः इति, अधिमासकाः समतिक्रान्ताः लभ्यन्ते, वर्तमानस्य च शेषः । तत् एतत् त्रैराशिकम् -- यदि युगाधिमासैः युगावमरात्रा[णि] लभ्यन्ते ततः एतैः अधिमासकैः अभीष्टैः कियन्तः इति गणितन्यायेन सवर्णीकृत्य युगावमैः गुणयेत् । अथवा अभीष्टाधिमासराशिम् अंशराशिम्
च पृथक् पृथक् युगावमैः संगुणय्य अंशराशिम् युगसूर्यदिवसैः विभज्य लभ्दम् उपरि क्षिप्त्वा युगाधिमासकैः भागलब्धम् अभीष्टकालावमाः । अथवा त्रैराशिकद्वयम् भङ्क्त्वा अपि आनीयन्ते -- यदि युगसूर्यदिवसैः अधिमासकाः लभ्यन्ते, ततः अभीष्टदिवसैः कियन्तः इति एकम् त्रैराशिकम् । ततः पुनर् अपि -- यदि युगाधिमासकैः युगावमाः लभ्यन्ते, ततः त्रैरासिकन्यायविरचितराश्युत्पन्नाधिमासकैः कियन्तः इति । तत्र पूर्वत्रैराशिके युगाधिमासकः
गुणकारः द्वितीयत्रैराशिके भागहारः । अतः गुणकारभागहारयोः तुल्यत्वात् नष्टयोः अभीष्टदिवसानाम् युगावमः गुणकारः, युगसौर्यदिवसः भागहारः, लब्धम् अभीष्टावमाः ।

अभीष्टावमैः अपि अधिमासकाः आनीयन्ते । अभीष्टवर्षमासेषु तत् उत्पन्नाधिमासकान् प्रक्षिप्य त्रिंशता संगुणय्य त्रैराशिकद्वयम् क्रियते -- यदि युगशशिदिवसैः युगावमाः लभ्यन्ते ततः अभीष्टशशिदिवसैः कियन्तः इति अवमाः । एवम् एकम् त्रैरासिकम् । पुनर् -- यदि युगावमैः युगाधिमासकाः लभ्यन्ते ततः अभीष्टावमैः पूर्वत्रैराशिकविरचितैः कियन्तः इति, अधिमासकाः लभ्यन्ते । तत्र पूर्वत्रैराशिके युगावमाः गुणकारः, इह भागहारः
। अतः गुणकारभागहारयोः तुल्यत्वात् नष्टयोः युगशशिदिवसः भागहारः, युगाधिमासकः गुणकारः, फलम् अभीष्टाधिमासकाः । पूर्ववत् वा पृथक् पृथक् त्रैराशिकेन अपि करणीयम् ।

अथ अधिमासकैः अभीष्टग्रहाः अपि आनीयन्ते । तत् यथा -- यदि युगाधिमासकैः अभीष्टग्रहभगणाः लभ्यन्ते, तदा इष्टाधिमासकैः कियन्तः इति । अधिमासपतनकालावधेः अभीष्टग्रहभगणादयः लभ्यन्ते । असौ एव अभीष्टकालिकः क्रियते । कथम्? अधिमासक[शेषेण] अभीष्टग्रहभगणान् संगुणय्य अधिमासकैः गुणितशशिदिवसैः विभजेत् । तत्र भगणादयः लभ्यन्ते, [ते] पूर्वलब्धाधिमासकग्रहभगणेषु योज्यन्ते तदा
अवमरात्रपतनकालावधेः भवति । ततः पुनर् अपि अवमरात्रशेषम् षष्ट्या संगुणय्य शशिदिवसैः एव विभजेत् । लब्धम् घटिकाः । ततः -- यदि षष्टिघटिकाभिः अभीष्टग्रहभुक्तिः लभ्यते, [तदा] आभिः घटिकाभिः किम् इति । लब्धम् पूर्वस्थापिते ग्रहे दद्यात्, अभीष्टदिवसस्य उदयकालावधेः [ग्रहः] भवति ।

अथ अवमैः अपि -- यदि युगा[वमैः अभीष्टग्रहभगणाः] लभ्यन्ते ततः यातावमैः कियन्तः इति । अवमरात्रपरिसमाप्तिकालावधेः अभीष्टग्रहभगणादयः लभ्यन्ते, ततः इष्टदिवसौदयिकः क्रियते । कथम्? अवमरात्रशेषेण अभीष्टग्रहभगणान् संगुणय्य युगावमभूदिवससंवर्गेण विभजेत् । लब्धम् भगणादयः । तान् पूर्वलब्धभगणादिषु क्षिपेत् । औदयिकः ग्रहः भवति ।

अत्र अयम् प्रश्नः --

अवमैः यः अधिकमासान् अवमानि च यः करोति अधिकमासैःञ्।
ताभ्याम् वा ग्रहम् इष्टम् तस्य अहम् शिष्यताम् यामि ॥ १ ॥

इति।
अधिमासावमशेषाभ्याम् सूर्याचन्द्रमसोः आनयनम् उक्तम् । इदानीम् अवमशेषात् एव सर्वग्रहानयनम् अभिधास्यते । तत् यथा -- युगावमम् षष्ट्या अपवर्त्य स्थापना -- ४१८०४३ । अथ आदित्यानयने तावत् एते अपवर्तितावमाः केन गुणिताः अपवर्तितादित्यभगणान् अपनीय तत् अपवर्तितभूदिनानाम् तु शुद्धम् भागम् दद्युः इति कुट्टाकारः क्रियते । तत्र लब्धम् कुट्टाकारः सप्तेन्दुरसाद्रिवसवः, अङ्कैः अपि ८७६१७ । अनेन अवमशेषम् संगुणय्य
अपवर्तितभूदिनैः एव विभजेत् । शेषम् तत्र रवेः मण्डलशेषः । एतेन आदित्यानयनम् व्याख्यातम् ।

उद्देशकः --

षट्सप्तबाणेन्दुशराद्रिशून्यदस्रप्रमाणः अवमजातशेषः ।
एतेन शेषः रविमण्डलानाम् वाच्यः विवस्वान् च कलान्तसङ्ख्यम् ॥ २ ॥

अवमशेषः २०७५१५७६ । लब्धम् रवेः मण्डलशेषः ४९६६५, रविः च २ । २४ । ५८ ।

चन्द्रस्य अपि कुट्टाकारानयनम् पूर्ववत् एव । अपवर्तितावमाः केन गुणिताः अपवर्तितचन्द्रभगणान् अपनीया अपवर्तित[भू]दिनानाम् शुद्धम् भागम् प्रयच्छति इति कुट्टाकारन्यायेन लब्धम् कुट्टाकारः २११९२३६ । उद्दिष्टावमशेषेण चन्द्रानयनम् ।

अथवा मध्यमात् सूर्यात् सहयातभगणैः लिप्तीकृत्य त्रैराशिकम् -- यदि युगरविलिप्ताभिः युगशशिभगणाः लभ्यन्ते, [तदा] एताभिः यातरविलिप्ताभिः कियन्तः इति । लब्धम् भगणाः, शेषे द्वादशादिगुणिते मध्यमः चन्द्रः लभ्यते । अथवा खखषड्घनेन यदा युगरविलिप्ताः अपवर्तिताः भवन्ति [तदा] रविभगणाः भागहारः, शशिभगणाः यातरविलिप्तानाम् गुणकारः, फलम् मध्यमचन्द्रलिप्ताः । एवम् अनेन न्यायन चन्द्रात् अभीष्टग्रहात्
वा इष्टग्रहः आनीयते । कथम्? निर्ज्ञातग्रहयातलिप्तानाम् अभीष्टग्रहभगणाः गुणकारः निर्ज्ञातग्रहयुगलिप्ताः भगणाः वा भागहारः, फलम् [भगणाः] लिप्ताः [वा] । अत्र अयम् प्रश्नः --

सवितुः शशिनम् करोति यः शशिनः स्थितितः तारकग्रहान् ।
अस्मत्सिद्धान्तवर्जितात् कालज्ञप्रवरः स उच्यते ॥ ३ ॥

इति ॥ ६ ॥

[ मानुषपितृदेववर्षप्रमाणानि ]

मानुषपितृदेवानाम् वर्षप्रमाणनिरूपणाय आह --

रविवर्षम् मानुष्यम् तत् अपि त्रिंशद्गुणम् भवति पित्र्यम् ।
पित्र्यम् द्वादशगुणितम् दिव्यम् वर्षम् विनिर्दिष्टम् ॥ ७ ॥

रविवर्षम्, रवेः वर्षम् रविवर्षम् । रविवर्षस्य च प्रमाणम् अभिहितम् -- "रविभगणाः रव्यब्दाः" [कालक्रिया॰, ५] इति । रवेः भगणभोगः मानुषाणाम् वर्षम् । यत् एव रवेः वर्षम् तत् एव मानुषाणाम् वर्षम् इति । तत् अपि त्रिंशद्गुणम् भवति पित्र्यम् । तत् मानुष्यम् वर्षम् त्रिंशद्गुणितम् पित्र्यम् वर्षम् भवति, यस्मात् मासः तेषाम् अहोरात्रम् । उक्तम् च -- "शशिमासार्धम् पितरः" [कालक्रिया॰, १७] इति । पित्र्यम् द्वादशगुणितम् दिव्यम् वर्षम्
विनिर्दिष्टम् । पिट्र्णाम् यत् वर्षम् तत् द्वादशगुणितम् एकम् वर्षम् देवानाम्, यस्मात् पित्र्यम् वर्षम् मासः देवानाम् । यथाक्रमेण एकत्रिंशत्षष्टिशतत्रय[गुणम्] च [रविवर्षम्] मनुजपितृदेवानाम् [वर्षाणि] ॥ ७ ॥

[युगमानम् ब्रह्मदिनप्रमाणम् च]

चतुर्युगब्रह्मदिनज्ञापनार्थम् आह --

दिव्यम् वर्षसहस्रम् ग्रहसामान्यम् युगम् द्विषट्कगुणम् ।
अष्टोत्तरम् सहस्रम् ब्राह्मः दिवसः ग्रहयुगानाम् ॥ ८ ॥

यत् एतत् दिव्यम् वर्षम् तत् द्वादशभिः सहस्रेण गुणितम् ग्रहसामान्यम् युगम् । ग्रहाणाम् सामान्यम् ग्रहसामान्यम् । किम् तत्? युगम् । यस्मात् सर्वे ग्रहाः सहशीघ्रोच्चैः युगपत् मीनमेषसन्धौ भवन्ति, तस्मात् युगम् ग्रहसामान्यम् । तत् च वियदम्बराकाशशून्ययमरामवेदाः [४३२००००] । एतत् एव कृत-त्रेता-द्वापर-कलिवर्षाणाम् प्रमाणम् । अस्माकम् तु युगपादाः सर्वे एव च तुल्यकालाः । पौराणिकैः तु भिन्नकालाः व्याख्याताः --

चत्वारि आहुः सहस्राणि वर्षाणाम् यत् कृतम् युगम् ।
तस्य तावत् शती सन्ध्या सन्ध्यांशः च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥
[मनुस्मृतिः, १.६९-७०]

इति । कृतप्रमाणम् वियदम्बराकाशवसुयममुनिचन्द्राः [१७२८०००] । त्रेताप्रमाणम् वियदम्बराकाशरसनवार्काः [१२९६०००] । द्वापरप्रमाणम् वियदम्बराकाशवेदरसवसवः [८६४०००] । कलिप्रमाणम् वियदम्बराकाशयमरामवेदाः [४३२०००] । समासितानि वियदम्बराकाशशून्ययमरामवेदाः [४३२००००]। किम् पुनर् अत्र युक्तम् -- पुराणकारैः यथा भिन्नप्रमाणानि कृतादीनि व्याख्यातानि तथा प्रतिपत्तुम्, आहोस्वित् यथा अस्माकम् आचार्येण प्रतिपादितानि समप्रमाणानि
इति? यथा अस्माकम् प्रसिद्धानि तथा इति आह । यदि पुराणप्रक्रियाप्रसिद्धानि युगपादप्रमाणानि परिगृह्यन्ताम्, तदा कलियुगादौ ग्रहाः मीनमेषसन्धौ युगपत् मध्यमगत्या न स्युः । कथम् इति उच्यते । युगपादानाम् त्रयाणाम् एकत्रप्रमाणम् वियदम्बराकाशाष्टवसुवसुरामाः [३८८८०००] इति एतैः अहर्गणम् उत्पाद्य यथाविहितमध्यमग्रहगणितप्रक्रियायाम् युगपत् मीनमेषसन्धौ मध्यमग्रहाः न लभ्यन्ते । अनया एव प्रक्रियया इदानीम्
अपि ग्रहगत्याम् साध्यमानायाम् एव इष्टग्रहाणाम् गतिः न लभ्यते । यदि पुनर् समम् एव कृतादीनाम् प्रमाणम् तत् इदम् त्रयाणाम् अपि युगपादानाम् प्रमाणम् वियदम्बराकाशशून्यकृतयमाग्नयः [३२४००००], अनेन यातेन सर्वम् इष्टम् उपपद्यते । तस्मात् "यथा अस्माकम् प्रसिद्धानि " इति सुष्ठु उक्तम् ।

अष्टोत्तरम् सहस्रम् ब्राह्मः दिवसः ग्रहयुगानाम् । ग्रहयुगम् इति यत् एतत् ग्रहसामान्यम् युगम् तत् परिगृह्यते । तत् अष्टोत्तरेण सहस्रेण गुणितम् प्रजापतेः एकदिवसप्रमाणम् भवति । ननु च अत्र अपि पौराणिकैः सह विरुध्यते । कथम्? पौराणिकैः --

सहस्रयुगपर्यन्तम् अहर् यत् ब्रह्मणः विदुः ।
रात्रिम् युगसहस्रान्ताम् ते अहोरात्रविदः जनाः ॥
[भगवद्गीता, ८.१७]

इति सहस्रयुगपर्यन्तम् ब्रह्मणः दिवसप्रमाणम् उक्तम् । अत्र च अष्टोत्तरम् सहस्रम् चतुर्युगानाम् इति । अत्र तावत् विचार्यते । पौराणिकैः -- "सहस्रयुगपर्यन्तम् अहर् यत् ब्रह्मणः विदुः" इति अभिधाय तैः एव एकसप्ततिः चतुर्युगानाम् मन्वन्तरम् चतुर्दश मनवः ब्राह्मः दिवसः इति [अभिहितम्] । अत्र एकसप्ततिः चतुर्दशगुणिता सहस्रसङ्ख्याम् न प्राप्नोति । उच्यते च -- चतुर्दश मन्वन्तराणि ब्रह्मणः दिवसः, सहस्रम् चतुर्युगानाम् इति स्ववचनविरोधः
। अस्माकम् तु द्वासप्ततिः चतुर्युगानाम् मन्वन्तरम्, अष्टोत्तरसहस्रम् ब्राह्मः दिवसः इति युक्तिसिद्धम् एतम् । कथम् पुनर् इदम् ज्ञायते द्वासप्ततिः चतुर्युगानाम् मन्वन्तरम् इति? गीतिकासूक्तत्वात् ।

काहः मनवः ढ मनुयुगाः श्ख । इति ।
[गीतिका॰, ५] ॥ ८ ॥

[उत्सर्पिण्यादियुगविभागः]

उत्सर्पिण्यपसर्पिणीसुषमादुष्ष्मापरिज्ञानाय आह ----

उत्सर्पिणी युगार्धम् पश्चात् अपसर्पिणी युगार्धम् च ।
मध्ये युगस्य सुषमा आदौ अन्ते दुष्षमा इन्दूच्चात् ॥ ९ ॥

उत्सर्पिणी नाम यस्मिन् प्राणिनाम् आयुर्यशोवीर्यसौख्यादीनि उपचीयन्ते स कालः उतस्र्पिणीसंज्ञकः । तस्य च प्रमाणम् युगार्धम् । युगस्य अर्धम् युगार्धम् । युगम् तु अभिहितम् एव । तस्य अर्धसङ्ख्याप्रमाणम् उत्सर्पिणी वियदम्बराकाशशून्यरसेन्दुयमाः [२१६००००] । पश्चात् अपसर्पिणी युगार्धम् च । पश्चात् इति अनेन उस्तर्पिणीकालानन्तरम् अपसर्पिणीकालम् दर्शयति । यस्मात् पूर्वप्रवृत्तस्य पश्चात् इति व्यपदेशः भवति । यस्मिन् प्राणिनाम्
आयुर्यशोवीर्यसौख्यादीनि अपचीयन्ते स अपसर्पिणीसंज्ञकः कालः । तस्य च प्रमाणम् युगस्य पश्चार्धम् वियदम्बराकाशशून्यरसेन्दुयमाः [२१६००००] ।

एवम् च -- मध्ये युगस्य सुषमादौ अन्ते दुष्षमेनूच्चात् । तस्य पूर्वार्धस्य मध्ये सुषमा दुष्षमा च । आदौ अन्ते च । आदौ सुषमा अन्ते दुष्षमा । सुषमादुष्षमाप्रमाणम् युगचतुर्भागः । कथम्? मध्ये इति वचनात् । युगार्धस्य अर्धम् युगचतुर्भागः इति । प्रतिग्रहम् युगभेदात् आह -- "इन्दूच्चात्" । इन्दूच्चात् निष्पन्नात् युगात् एते उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाकालाः अवगन्तव्याः इति । अथ किम् उच्यते इन्दूच्चात् इति ? ननु च ग्रहसामान्यम्
युगम् इति अभिहितम् । सत्यम् । एवम् एतत् । प्रतिग्रहम् अपवर्तनविशेषात् युगभेदः । तत् यथा -- रवेः मण्डलानि षण्मुनिशराः [५७६], दिवसप्रमाणेन युगम् अपि नववसुरामशून्येन्दुयमाः [२१०३८९] । चन्द्रस्य दिवसप्रमाणेन युगम् शरयमाङ्गविषयेषुरूपदस्राः [२१५५६२५] । एवम् अन्येषाम् अपि ।

अथ युगस्य किम् लक्षणम्? उच्यते -- चैत्रशुक्लप्रतिपदि अर्धोदिते सवितरि लङ्कायाम् मीनमेषसन्धौ प्रवृत्तः ग्रहः पुनर् मीनमेषसन्धौ चैत्रशुक्लप्रतिपदि सवितुः अर्धोदये लङ्कायाम् यावता कालेन प्राप्नोति तावत् कालः युगम् इति । उक्तम् च --

चैत्रसितादौ सूर्ये विषुवति अर्धोदिते प्रवृत्तस्य ।
मेषादेः मीनान्तम् तथाविधस्य एव संप्राप्तिः ॥

इति ।

भिन्नाग्रेषु युगेषु एकाग्रीकरणम् कुट्टाकारेण अभिहितम् -- "कश्चित् द्वाभ्याम् एकाग्रः त्रिभिः द्व्यग्रः" इति आदि । अथवा इन्दूच्चात् निमित्तात् उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाणाम् गतगन्तव्यम् विज्ञेयम् इति । कथम् पुनर् गतगन्तव्यपरिज्ञानस्य इन्दूच्चनिमित्तत्वम् प्रतिपद्यते इति ? उच्यते -- कुट्टाकारगणितेन, यस्मात् इन्दूच्चयाताग्रस्य इन्दूच्चभगणाः युगवर्षाणि युगदिवसाः [वा] भाज्यभागहारताम् प्रतिपद्यन्ते । तत् यथा अस्मिन् वस्तुभिः
वा परिकल्पितः उद्देशकः --

निशीथिनीनाम् अधिपस्य तुङ्गजम् गतम् तु राशित्रितयम् यदा भवेत् ।
तदा कियत् यातम् अथ आशु गण्यताम् युगस्य वर्षाग्रदिनाग्रताम् च मे ॥ १ ॥

लब्धम् वर्षाग्रम् वियदम्बराकाशशून्यकृतयमाग्नयः [३२४००००], दिनाग्रम् च शररविवसुवह्निवेदरामवसुरुद्राः [११८३४३८१२५] ।

अथवा अयम् अपरः प्रकारः -- उत्सर्पिणी युगार्धम् । उत्सर्पति इति उत्सर्पिणी, उपचीयते इति अर्थः । का सा उत्सर्पिणी? ग्रहभुक्तिः इति अध्याहार्यम् । सा पुनर् कियन्तम् कालम् उत्सर्पिणी इति आह -- युगार्धम् । युज्यन्ते अस्मिन् ग्रहाः इति युगम् । तत् च नक्षत्रचक्रम् एव परिगृह्यते, यस्मात् एकस्मिन् मण्डले ग्रहस्य ग्रहैः सह योगः सम्भवति । तस्य युगस्य अर्धम् युगार्धम्, षड्राशयः । पश्चात् अपसर्पिणी युगार्धम् च । पश्चात् पुनर् अपि अपसर्पिणी युगार्धम्
एव । राशिषट्कम् इति अर्थः । मध्ये युगस्य सुषमा, तस्य युगस्य मध्ये अन्तरे इति अर्थः । सुषमा आदितः अन्ततः च गण्यमाने सुषमा, एकस्य पदस्य आदितः अपरस्य अन्ततः इति अर्थः । [आदौ अन्ते च] दुष्षमा दृष्टा । अन्यप्रकारेण इति वाक्यशेषः ।

कथम् एताः पुनर् उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाग्रहभुक्तयः विज्ञायन्ते इति अत्र आह -- इन्दूच्चात्, चन्द्रकेन्द्रात् इति अर्थः । तत् यथा -- इन्दोः केन्द्रस्य यदा राशित्रयम् द्वौ भागौ अष्टाविंशतिः च कलाः, तदा प्रभृति मध्यमभुक्तिः उपचीयते, यावत् केन्द्रम् राशिषट्कम् संजातम् इति । ततः तस्मात् राशिषट्कात् केन्द्रात् उपचितानाम् भुक्तीनाम् उत्क्रमेण अपचयः, यावत् केन्द्रस्य अष्टौ राशयः सप्तविंशतिः भागाः द्वात्रिंशत् लिप्ताः च संजाताः
। एताः एव उत्क्रमेण द्वितीयपदान्तात् प्रविगण्यमानाः तुल्याः इति आदौ अन्ते च सुषमा । अथवा आदौ अन्ते च, द्वितीयपदनिर्दिष्टकेन्द्रात् प्रभृति क्रमेण याः भुक्तयः याः च तृतीयपदनिर्दिष्टकेन्द्रात् उत्क्रमेण भुक्तयः ताः तुल्याः, एवम् चतुर्थप्रथमपदयोः अपि, इति आदौ अन्ते च सुषमा । अन्यथा दुष्षमा ।

अत्र इन्दुकेन्द्रम् उद्दिश्य आचार्येण उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाः प्रदर्शिताः । एतत् विधानम् अन्येषाम् अपि ग्रहाणाम् प्रतिपत्तव्यम् । तत् यथा -- सूर्यस्य यदा केन्द्रम् राशित्रयम् सचतुष्पञ्चाशल्लिप्तम्, तदा सूर्यस्य व्यासार्धतुल्यः कर्णः, भुक्तिः च मध्यमा । यदा च अष्टौ राशयः एकोनत्रिंशद्भागाः लिप्ताः च षट् गताः [तदा अपि] व्यासार्धतुल्यः [कर्णः] , मध्यमा भुक्तिः च । कुजा[दीनाम् अपि] व्यासार्धतुल्यम् भूताराग्रहविवरम्
भवति । तथा "[कक्ष्याप्रतिमण्डलगाः] [कालक्रिया॰, १७] इति अस्याम् कारिकायाम् वक्ष्यते ॥ ९ ॥

[आर्यभटजन्मकालः ]

आचार्यार्यभटः स्वजन्मकालज्ञानार्थम् आह --

षष्ट्यब्दानाम् षष्टिः यदा व्यतीताः त्रयः च युगपादाः ।
त्र्यधिका विंशतिः अब्दाः तदा इह मम जन्मनः अतीताः ॥ १० ॥

षष्ट्यब्दानाम् षष्टिः । षष्टिः अब्दाः षष्टिगुणाः इति अर्थः । यदा व्यतीताः । यदा यस्मिन् काले, व्यतीताः व्यतिक्रान्ताः । त्रयः च युगपादाः । युगस्य पादाः युगपादाः, ते च यदा त्रिसङ्ख्याः व्यतीताः । त्र्यधिकाः विंशतिः अब्दाः । त्रिभिः अधिकाः त्र्यधिकाः विंशतिः अब्दाः । तदा । तस्मिन् काले । मम जन्मनः अतीताः ।

एतत् एव आचार्यार्यभटः शास्त्रव्याख्यानसमये वा पाण्डुरङ्गस्वामि-लाटदेव-निशङ्कु-प्रभृतिभ्यः प्रोवाच । अथ अत्र इदम् प्रष्टव्यम् -- अस्य व्याख्यानम् किम् उपकरोति इति? उच्यते -- अनेन अतीतेन कालेन परिज्ञातेन सुखम् आदित्यादीनाम् कालः अतीतः अनागतः वा पठ्यते । अथ च सम्प्रदायाविच्छेदात् व्यतीतः कालः विज्ञायते । न एतत् अस्ति । अनभिधाने बहु अत्र स्मरणीयम् । त्रयाणाम् युगपादानाम् वर्षसङ्ख्या शून्याम्बराकाशवियद्वेदयमाग्नयः
[३२४००००] । गतम् च कलियुगस्य । एकस्य अभिधाने एतावतः तावत् सम्प्रदायाविच्छेदात् अरः न कर्तव्यः । किन्तु आचार्यजन्मकालावधेः यः उत्तरः कालः अस्य एव सम्प्रदायाविच्छेदः अधिगन्तव्यः ।

अन्यत् च "षष्ट्यब्दानाम् षष्टिः" इति अस्य अभिधाने प्रयोजनम् अभिधास्यते । अयम् अस्य अभिप्रायः -- कृतयुगादेः अहर्गणः साध्यः । अन्यथा क्षेपः शश्युच्चपातयोः जायते इति । कृतयुगादेः पुनर् अहर्गणे क्रियमाणे शश्युच्चपातयोः न एव क्षेपः । "बुधाह्न्यजार्कोदयात् च लङ्कायाम्" [गीतिका॰, ४] इति बुधादिः अहर्गणः दिवसवारः । इदानीम् तु लघुगणितव्यवहारार्थम् कलियुगाहर्गणः क्रियते । शुक्रादिदिवसवारः । चन्द्रोच्चस्य राशित्रयम्, राशिषट्कम्
च राहोः क्षेपः, तमसः च मण्डलात् विलोमत्वात् विशोध्यते । अथवा करणागतम् एव तमः यथा इष्टस्फुटचन्द्रमसि प्रक्षिप्य दक्षिणोत्तरदिग्विधेः विक्षेपानयनम् इति ।

अथ अहर्गणे दृष्टे ग्रहगत्यानयनम् -- यदि युगाहर्गणेन ग्रहाणाम् गीतिकाभिहितभगणाः लभ्यन्ते अनेन अहर्गणेन कियन्तः इति, लब्धम् समतिक्रान्ताः भगणाः । शेषे द्वादशादिगुणिते राश्यादिमध्यमग्रहसिद्धिः ।

अथ अत्र रोमकाः प्रत्यब्दशोधनेन आदित्यम् आनयन्ति । तेन च आदित्येन सर्वान् एव ग्रहान् इति । एतत् अत्र अपि प्रदर्श्यम् । तत् यथा -- प्रत्यब्दशोधनम् हि नाम चैत्रशुक्लप्रतिपदि अर्धोदयात् आरभ्य यावत् आदित्यौदयिकस्य मण्डलगन्तव्यस्य भोगकालः । स युगान्ते युगरविभगणैः प्रमाणेच्छाभूतैः दिवससङ्ख्याः एव भवन्ति । यथा इष्टरविभगणैः त्रैराशिकम् क्रियते, तत् यथा -- "यदि युगरविभगणैः भूदिवससङ्ख्यः अहर्गणः
लभ्यते इष्टरविभगणैः कियान् इति अहर्गणः लभ्यते, शेषे षष्ट्यादिगुणिते घटिकादयः इति रविभगणसमाप्तिकालावधेः अहर्गणः लभ्यते । तस्मात् चैत्रशुक्लावधिनिष्पन्नवर्षान्तिकः अहर्गणः शोध्यते, चैत्रशुक्लादेः उपरिष्टात् रविभगणसमाप्तिकालावधयः भविष्यन्ति ।

अथवा वर्षान्तिकेन अहर्गणेन त्रैराशिकम् -- यदि चतुर्युगाहर्गणेन खुघृ-तुल्याः सूर्यभगणाः लभ्यन्ते, अनेन कलियाताहर्गणेन कियन्तः इति लब्धम् भगणाः । शेषात् गतगन्तव्यम् कृत्वा गतगन्तव्यराशेः युगसूर्यभगणैः भागलब्धम् दिवसाः । शेषे षष्ट्यादिगुणिते घटिकादयः । चैत्रशुक्लादेः उपरिष्टात् अधः वा रविभगणसमाप्तिकालावधयः दिवसादयः भवन्ति । एतत् एव प्रत्यब्दशोधनम् अस्माभिः कर्मनिबन्धे लघुतरम्
प्रतिपादितम् । तत् यथा --

रुद्रैः सहस्रहतषट्छकलैः च हत्वा
वर्षाणि रन्ध्रवसुवह्निसमानसङ्ख्यैः ।
युक्त्वा सदा प्रविगणय्य खरामभक्ते
मासाः भवन्ति दिवसाः च हृते अवशिष्टाः ॥

संहत्य रन्ध्रयमलैः सररामभागः
भूयः अग्निवेदगुणितेषु हरेत् च भागम् ।
खव्योमखद्विमुनिभिः प्रलयाः तिथीनाम्
संयोज्य भूतयमरुद्रहृते दिनानि ॥

वर्षेषु रन्ध्रकृतचन्द्रसमाहतेषु
षट्सप्तपञ्चविहृतेषु दिनादिलाभः ।
ते योजिताः दशहतासु समासु संज्ञाम्
सम्प्राप्नुवन्ति रविजाः इति निश्चयः मे ॥

रविजदिवसयोज्याः च अवमाः ये अत्र लब्धाः
सततम् अधिकमासान् शोधयेत् खाग्निनिघ्नान् ।
भवति यत् अवशिष्टम् शोधनीयम् समायाम्
यदि तत् अधिकशुद्धम् क्षेप्यम् एव उपदिष्टम् ॥ इति ।

[महाभास्करीयम्, १.२२-२३, २७-२८]

एवम् प्रत्यब्दशोधनम् आनीय ततः अर्कः साध्यते । कथम्? एतत् अपि तत्र उक्तम् एव --

मधुसितदिवसाद्यः हीनहीनः गणः अह्नाम्
दिविचरहृतशिष्टः वारमाहाब्दपादिम् ।
ततः इदम् अपि शोध्यम् शोधनीयम् समायाम्
पतितसमतिरिक्तः गृह्यते न अपरः अत्र ॥

सप्तत्या दिवसाद्याः शरभागाः द्विगुणिताः विघटिकाः च ।
तद्रहितः ग्रहदेहः रविबुधभृगवः च निर्दिष्टाः ॥ इति ।
[महाभास्करीयम्, १.३०-३१]

एवम् सूर्यः सिद्धः । [तस्मात् भगणेषु] द्वादशगुणितेषु सूर्यभुक्तराशयः प्रक्षिप्यन्ते । ततः त्रिंशद्गुणितेषु भागाः इति । एवम् सूर्याहर्गणः सिद्धः । सूर्याहर्गण[तुल्य]म् अंशम् आदित्यः भुङ्क्ते ।

अथ सर्वेषाम् ग्रहाणाम् सूर्यदिवसभोगानयनम् । युगरव्यब्दाः षष्टिशतत्रयगुणिताः युगरविदिवसाः । यदि एतैः अभीष्टग्रहभगणाः लभ्यन्ते, तदा एकेन रविदिवसेन कियन्तः इति त्रैराशिकन्यायेन [लब्धम् भगणात्मिका ग्रहगतिः] । राशिभागलिप्तानयने द्वादश-त्रिंशत्-षष्टिः च गुणकाराः । तेषाम् संवर्गः खखषड्घनः । अतः खखषड्घनस्य खखषड्घनभागे एकम्, युगरविदिवसानाम् खखषड्घनभागेन द्वासप्ततिः सहस्राणि,
इति अतः द्वासप्ततिसहस्रैः प्रतिस्वस्वग्रहभगणानाम् भागः, लभ्यन्ते ग्रहाणाम् सूर्यदिवसभुक्तयः अतः च यथालब्धाः लिख्यन्ते -- चन्द्रमसः लिप्ताः द्वाविंशतिः लिप्तात्रिसहस्रभागाः नववसुरामाः, भौमस्य लिप्ताः एकत्रिंशत् लिप्तात्रिसहस्रभागाः रूपखमुनिपक्षाः, बृहस्पतेः लिप्ताः पञ्च लिप्तापञ्चसप्तत्युत्तरत्रिंशतभागाः द्वाविंशतिः, शनैः चरस्य लिप्ताद्वयम् लिप्ताष्टादशसहस्रभागाः शशिकृतरसाः, बुधोच्चस्य लिप्ताः नव लिप्ताषट्त्रिंशच्छतभागाः
शशीषुवेदाः, भृगोः लिप्ताः सप्तत्रिंशत् लिप्ताषाट्सहस्रभागाः नवनवेन्दुरामाः । एवम् यथाविलिखितसूर्यदिवसग्रहभुक्तिभिः सूर्याहर्गणम् गुणयेत्, सूर्यभुक्तलिप्ताभिः च त्रैराशिकेन यत् अवाप्तम् फलम् प्रक्षिप्य खखषड्घनेन विभजेत्, शेषम् ग्रहभुक्तलिप्ताः । इयान् तत्र विशेषः चन्द्रमसि त्रयोदशगुणः सूर्यः क्षेपः, बुधोच्चे चतुर्गुणः, शुक्रोच्चे रूपगुणितः इति । एतत् अपि अशेषग्रहानयनम् कर्म लघुतरम् एव कर्मनिबन्धे प्रदर्शितम्
तत्र एव अवगन्तव्यम् इति ॥ १० ॥

[ युगादिकालानन्त्यनिर्देशः ]

कालप्रवृत्यानन्त्यप्रतिपादनाय आह --

युगवर्षमासदिवसाः समम् प्रवृत्ताः तु चैत्रशुक्लादेः ।
कालः अयम् अनाद्यन्तः ग्रहभैः अनुमीयते क्षेत्रे ॥ ११ ॥

युगम् च वर्षम् च मासः च दिवसः च युगवर्षमासदिवसाः, एते समम् प्रवृत्ताः युगपत् प्रवृत्ताः इति अर्थः । कस्मात् इति आह -- चैत्रशुक्लादेः । चैत्रः मासः, तस्य [यः] शुक्लः पक्षः, तस्य शुक्ल[पक्ष]स्य यः आदिः, [स] अर्धोदयः इति अर्थः, तस्मात् चैत्रशुक्लादेः युगादयः ये ते युगपत् प्रवृत्ताः । ननु च युगे चैत्रशुक्लादेः प्रवृत्ते सर्वे एव समम् प्रवृत्ताः स्युः । तस्मात् युगम् चैत्रशुक्लादेः प्रवृत्तम् इति एतत् एव अस्तु । न इति आह -- शास्त्रान्तरे
वर्षादीनाम् अन्यस्मात् प्रवृत्तिः अभिहिता --

प्रथमे वासवस्य अंशे द्वितीयांशे तु अजस्य तु ।
रेवतीनाम् तृतीयांशे चतुर्थांशे यमस्य च ॥

सौम्यस्य प्रथमांशे च द्वितीयांशे पुनर् वसोः ।
सार्पस्य अंशे तृतीये तु चतुर्थांशे भगस्य च ॥

त्वाष्ट्रस्य आद्यांशके च एव द्वितीयांशे विशाखयोः ।
ऐन्द्रस्य अंशे तृतीये च आप्यस्य अंशे चतुर्थके ॥

यदा समानाम् अधिपः बृहस्पतिः अतः उत्थितः ।
उदयति अंशकान्ते वा प्रथमः पर्ययः भवेत् ॥

इति।

एवम् वर्षाणाम् प्रवृत्तिः अतिदूरभिन्ना । तस्याम् च वर्षप्रवृत्तौ भिन्नायाम् मासदिवसप्रवृत्ती अपि भिन्ने एव भवतः । अथवा एवम् स्यात् -- इयम् वर्षाणाम् प्रवृत्तिः नानाप्रकारा फलार्थिभिः संहिताकारैः उपदिष्टा । न एषा प्रसिद्धा लोके, न परतन्त्रेषु । तस्मात् या परतन्त्रेषु लोके च प्रसिद्धा प्रवृत्तिः तस्याः ग्रहणम् भविष्यति इति । एतत् अपि न । तत् यथा -- सुराष्ट्रासु कार्तिकशुक्लप्रतिपदः प्रवृत्तिः वर्षमासदिवसानाम्, आश्वयुजः [कृष्ण]पञ्चदश्याम्
निवृत्तिः । तथा च मगधासु आषाढे कृष्णप्रतिपदः समामासदिवसानाम् प्रवृत्तिः, आषाढसितपञ्चदश्याम् निवृत्तिः । तथा च अर्थशास्त्रे अपि अभिहितम् -- "त्रिशतम् सचतुष्पञ्चाशतम् अहोरात्राणाम् कर्म सांवत्सरः, तम् आषाढीपर्यवसानम् ऊनम् पूर्णम् वा दद्यात्" इति । सिंहराजेन सहस्राक्षरे निबद्धम् --

रव्युदये लङ्कायाम् आषाढीपौर्णमास्याम् तु सोमदिने ।
कृतकृतवर्षैः यातैः शकेन्द्रकालात् युगस्य आदिः ॥

इति ।

युगादीनाम् चैत्रशुक्लादेः प्रवृत्त्यभिधानम् सिद्धम् एव एतत् ।

इदानाम् प्रष्टव्यम् -- सिंहराजेन न शुक्लान्तः मासः स्वतन्त्रे प्रतिपादितः, तथा च लोके शुक्लान्तः एव प्रसिद्धः, होरायाम् अपि --

चन्द्रयुतात् नवभागात् मासः शुक्लान्तनामसमः ।

इति ।

अत्र उच्यते -- यत् तु सिंहराजेन अभिहितम् तत् स्वाभिप्रायेण अधिकमासकावमानाम् युगपत् प्रवृत्तत्वात् आषाढपौर्णमासी [तः आरभ्य चतुर्दशी] पर्यन्तावसानम् संवत्सरः इति परिकल्पितः । यदि अपि उच्यते "शुक्लान्तः मासः लोके प्रसिद्धः" इति, तत् न । ननु सर्वेषु एव देशेषु मासाः । सन्ति च देशाः कृष्णान्तमासव्यवहाराः सुराष्ट्रप्रभृतयः । यत् अपि उच्यते --

चन्द्रयुतात् नवभागात् मासः शुक्लान्तनामसमः ।

इति, अस्य अपि अन्यः एव अर्थः । चन्द्रयुतात् नवभागात् प्रष्टुः मासः वाच्यः । [स शुक्लान्तेन] नाम्ना सदृशः । शुक्लान्ते [न] हि मासस्य नामपरिज्ञानम् । कृत्तिकासु युक्तः चन्द्रमा अस्मिन् सति कार्तिकः मासः इति आदि ।

अन्यत् च -- शुक्लान्तेन मासेन न कदाचित् अपि मीनमेषसन्धौ मासस्य वर्षस्य वा अन्ते ग्रहाः स्युः ।

अत्र आह यवनेश्वरः --

मासे तु शुक्लप्रतिपत्प्रवृत्ते पूर्वे शशी मन्दबलः दशाहे ।

इति शुक्लादिः मासः । यदा पुनर् शुक्लादिः मासः तदा पुनर् श्रुत्यर्थः अनुष्ठितः भवति । एवम् हि श्रुतौ पठ्यते --

एषा हि वै संवत्सरस्य प्रथमा रात्रिः यत् फाल्गुनी पौर्णमासी या उत्तरा ।

इति । [यदि] कृष्ण[प्रतिपद्]आदिः मासः स्यात्, तदा कथम् इयम् उत्तरा पौर्णमासी फाल्गुनी भवति, यत् उत तत् चैत्रमासः स्यात् ? कुतः? फाल्गुन्याम् पौर्णमास्याम् फाल्गुनः मासः पूर्णः, तदा उत्तरा पौर्णमासी चैत्र[मासस्य], प्रतिपत्कृष्णादित्वात् मासस्य । ततः मन्यामहे न अद्य अपि फाल्गुनः मासः समाप्यते इति । यस्मात् आह --

फाल्गुनी पौर्णमासी या उत्तरा ।

इति ।

अन्यत् च --

[ या असौ] वैशाखस्य अमावास्या तस्याम् अग्निम् आदधीत, सा रोहिण्या सम्पद्यते ।
[शतपथ-ब्राह्मणम्, ११.१.१.७]

इति ।

यदि शुक्लान्तः मासः परिकल्प्यते तदा न वैशाखस्य अमावास्यायाम् रोहिण्या चन्द्रमसः योगः विद्यते । यस्मात् चैत्रपौर्णमास्याम् चित्रायाम् सोमः युज्यते, तस्याम् चैत्र्याम् व्यतीतायाम् वैशाखप्रतिपत् । ततः च स्वात्यादिषु नक्षत्रेषु प्रतिपत् [प्रभृति] गण्यमाना अमावास्या भरण्या युज्यते, न रोहिण्या । अथ चन्द्रगतिविशेषात् इति [चेत्, न] । नक्षत्रार्धस्य सकलस्य वा ह्रासवृद्धी भवतः, न नक्षत्रद्वयस्य । शुक्लादौ पुनर् मासे वैशाखपौर्णमास्याम्
व्यतीतायाम् वैशाखस्य एव अमावास्या भविष्यति । ततः कृष्णपक्षप्रतिपत्प्रभृत्यनुराधादिषु गण्यमानासु रोहिण्या अमावास्यायाः च योगः संभवति ।

अन्यत् च --

सः अपरपक्षे अप ओषधीः प्रविशति ।

इति ।

शतपथ [११.१.५.३] एवम् पठ्यते । तत्र अपरपक्षः कृष्णः, [न] शुक्लः । अन्यत् च स्मार्तवचनम् --

अपरपक्षे श्राद्धम् कुर्वीत ऊर्ध्वम् वा चतुर्थ्याः ।

इति अत्र कृष्णादि[मासत्वात्] पूर्वपक्षः कृष्णः, अपरः शुक्लः । अपरत्वात् शुक्लपक्षस्य शुक्लपक्षे एव श्राद्धविधिः प्राप्नोति न कृष्णे, इष्यते च शुक्ले [तरे], तस्मात् शुक्लादिः मासः इति । ततः "युगवर्षमासदिवसाः समम् प्रवृत्ताः तु चैत्रशुक्लादेः" इति ।

अत्र उत्प्रेक्षितपूर्वपक्षः द्रष्टव्यः । युगादीनाम् चैत्र[शुक्लादितः प्रवृत्ति]त्वात् कालस्य आदिमत्ताप्रसङ्गः इति आह -- कालः अयम् अनाद्यन्तः । अयम् कालः अस्माभिः युगादिः अभिहितः, चैत्रशुक्लादेः प्रवृत्तः इति । न अस्य अन्तः न अस्य आदिः । व्यवहारार्थम् आदिः अन्तः च परिकल्पितः । यदि कालस्य आदिः स्यात् ततः किम् स्यात्? आह -- संसारस्य आदिमत्ता प्राप्नोति, इष्यते च अनादिः संसारः इति । तस्मात् युक्तम् "कालः अयम् अनाद्यन्तः" इति ।

कथम् पुनर् अस्य आदिः व्यवहारार्थम् परिकल्पितः इति आह -- ग्रहभैः अनुमीयते क्षेत्रे । ग्रहाः च भानि च ग्रहभानि । तैः ग्रहभैः अनुमीयते आदिः अन्तः च । "माङ् माने" [पाणिनीयधातुपाठः ११४३] इति अयम् धातुः धूमात् अग्न्यनुमानम् इति अत्र माने वर्तते । अत्र पुनर् ग्रहभैः अनुमीयते इति मानार्थः एव । व्रीह्यादिराशयः प्रस्थादिभिः अनुमीयन्ते, कुङ्कुमादयः वा पलादिभिः, एवम् ग्रहभैः इति । यदा सर्वे एव ग्रहाः युगपत्
मीनमेषसन्धौ क्षितिसंयुक्ताः तदा युगस्य आदिः इति । कः भुवः ग्रहस्य च योगः, द्वयोः अत्यन्तविप्रकृष्टयोः? न एषः दोषः । मुख्यस्य योगस्य असंभवात् गौणः योगः परिगृह्यते । यत्र भूलग्नः इव ग्रहः लक्ष्यते स भूग्रहयोः योगः । स च उदयास्तमययोः संभवति इति उदयास्तमययोः वा परिगृह्यते ।

अन्ये पुनर् अन्यथा व्यावर्णयन्ति -- ग्रहभैः अनुमीयते इति । ग्रहैः च नक्षत्रैः च कालस्य आदिः अन्तः च परिकल्प्यते । तत् यथा --

उदेति यस्मिन् नक्षत्रे प्रवासोपगतः अङ्गिराः ।
तस्मात् संवत्सरः मासात् बार्हस्पत्यः प्रगण्यताम् ॥ इति ।

बृहस्पतिचारवशात् कालस्य आदिः परिकल्पितः । लोके च एवम् वक्तारः भवन्ति -- "स्वातौ उदिते प्रस्थास्यामहे उदयः " इति, "शुक्रे अस्तम् गते प्रस्थितः" इति, "अद्य कृत्तिकासु मध्यस्थितासु दारुकः [गतः]" इति आदि । क्षेत्रे । क्षेत्रम् भगोलः, तस्मिन् भगोले, नक्षत्रग्रहचारवशात् आदिः अन्तः च परिकल्पितः ॥ ११ ॥

[ ग्रहाणाम् समगतित्वम् ]

ग्रहाणाम् समगतिप्रतिपादनाय आह --

षष्ट्या सूर्याब्दानाम् प्रपूरयन्ति ग्रहाः भपरिणाहम् ।
दिव्येन नभःपरिधिम् समम् भ्रमन्तः स्वकक्ष्यासु ॥ १२ ॥

षष्ट्या सूर्याब्दानाम् आदित्यवर्षाणाम् षष्ट्या ग्रहाः नक्षत्रकक्ष्याम् प्रपूरयन्ति, नक्षत्रकक्ष्यातुल्यानि योजनानि स्वासु स्वासु कक्ष्यासु गच्छन्ति इति अर्थः । [कियद्योजनानि] पुनर् नक्षत्रकक्ष्यायाम् ग्रहाः सूर्याब्दानाम् षष्ट्या पूरयन्ति? उच्यते -- वसुवियदम्बराकाशरसयमत्रिशैलचन्द्राः [१७३२६०००८] । न एतत् अस्माभिः नक्षत्रकक्ष्याप्रमाणम् दृष्टम् । किम् तर्हि? का एषा प्रतिपादिता इति? उच्यते -- "भवांशे अर्कः" [गीतिका॰, ६] इति । अत्र कथम्
पुनर् एतेन एव नक्षत्रकक्ष्यातुल्यानि योजनानि गच्छन्ति इति उच्यते? यदि ख्युघृ-तुल्यैः अर्कवर्षैः स्वान्-स्वान् भगणान् ग्रहाः भुञ्जन्ते [तदा] षष्ट्या सूर्याब्दैः कियन्तः इति । षष्टिभागेन अपि षष्ट्या एकः, पुनर् षष्टिभागेन एते[षाम्] ख्युघृ-तुल्यानाम् अर्कवर्षाणाम् द्वासप्ततिसहस्राणि । एवम् यथाभागेन अविनष्टराशयः स्थाप्याः । ततः पुनर् अपि -- यदि एकेन भगणेन प्रतिस्वकक्ष्या लभ्यते [तदा] षष्ट्यब्दभोगेन का इति सर्वग्रहेभ्यः नक्षत्रकक्ष्या
लभ्यते ।

दिव्येन नभःपरिधिम् । दिवि भवम् दिव्यम्, युगम् इति अर्थः । कथम् पुनर् दिव्यशब्देन युगम् अभिधीयते? यस्मात् दिवि सञ्चरताम् ग्रहाणाम् एकत्र योगः भवति, अतः [दिव्यम् युगम् उक्तम् तेन] दिव्येन नभःपरिधिम् । नभसः परिधिः नभःपरिधिः, आकाशकक्ष्या इति अर्थः । कथम् इदम् उच्यते? ननु च वियत् अपरिमितयोजनप्रमाणम् इति श्रूयते । तस्य परिमितयोजनप्रमाणम् कथम् कक्ष्या भवेत्? उच्यते -- वियत् अस्माकम् यावत्
दिवसकरमरीचिनिधानम् अवभासयति तावत् वियत् इति । अतः परम् आकाशम् अप्रमेयम् इति । अत्र खकक्ष्याभिधानेन एतत् प्रतिपादयति, इयत्प्रमाणम् वियदर्कमरीचयः प्राप्नुवन्ति इति ।

समम् भ्रमन्तः । तुल्यया [गत्या] भ्रमन्तः इति अर्थः । यावन्ति योजनानि स्वकक्ष्यायाम् शशी संचरति तावन्ति एव योजनानि आर्किः अपि स्वकक्ष्यायाम् सञ्चरति । तत् यथा -- यदि एकेन भगणेन स्वकक्ष्या लभ्यते [तदा] युगभगणैः किम् इति खकक्ष्या लभ्यते । अथवा -- षष्ट्यब्दभोगेन नक्षत्रकक्ष्या लभ्यते स्वैः युगभगणैः किम् इति खकक्ष्या लभ्यते । एवम् योजनगतेन ग्रहाः तुल्यगतयः । कक्ष्यातः ग्रहाणाम् मध्यमानयनम् -- यदि
[युग]भूदिनैः सर्वे एव स्वासु कक्ष्यासु समगत्या भ्रमन्तः [ख]कक्ष्यातुल्यानि योजनानि प्रयान्ति, एकेन अह्ना कियन्ति इति सर्वग्रहाणाम् योजनगता दिनभुक्तिः लभ्यते इति, खकक्ष्यायाम् भूदिनैः भागे हृते योजनगता ग्रहाणाम् दिनभुक्तिः लभ्यते । तया त्रैराशिकम् भङ्क्त्वा मध्यमग्रहाः आनीयन्ते -- यदि स्वकक्ष्यायोजनैः भगणः लभ्यते तदा गतियोजनैः किम् इति आह्निकी भुक्तिः लभ्यते, ततः पुनर् अपि -- यदि एकेन अह्ना भुक्तिः लभ्यते अहर्गणेन
किम् इति । अत्र एकः पूर्वत्रैराशिके गुणकारः, [अपरे भागहारः ।] अतः गुणकारभागहारयोः तुल्यत्वात् नष्टयोः अहर्गणस्य दिन[गति]योजनानि गुणकारः स्थितः, [स्वकक्ष्यायोजनानि भागहारः, लब्धिः] भगणादयः । [उक्तम् च] --

अम्बरकक्ष्या भूदिनहृता फलम् तत्र योजनानि तेषु ।
गताहसंगुणितेषु स्वग्रहकक्ष्याप्तभगणाद्यम् ॥

इति । अ[थवा खकक्ष्या]हर्गणसंवर्गे स्वकक्ष्याभूदिनसंवर्गहृते भगणादयः भवन्ति ॥ १२ ॥

[ग्रहाणाम् समगतित्वेन कक्ष्याव्यवस्था ]

समगत्या प्रवृत्तग्रहकक्ष्याव्यवस्थाप्रदर्शनार्थम् आह --

मण्डलम् अल्पम् अधस्तात् कालेन अल्पेन पूरयति चन्द्रः ।
उपरिष्टात् सर्वेषाम् महत् च महता शनैः चारी ॥ १३ ॥

मण्डलम् अल्पम् अधस्तात् । सर्वेषाम् अधः व्यवस्थितम् मण्डलम् अल्पम् अल्पे[न कालेन पूरय]ति चन्द्रमाः । अधस्तात् इति अनेन एव मण्डलस्य अल्पत्वसिद्धिः, अल्पम् इति एतत् न वक्तव्यम् । कथम् अधस्तात् इति एतावति उच्यमाने मण्डलस्य अल्पत्वम् गम्यते? उच्यते -- उपरि उपरि कक्ष्याः व्यवस्थिताः । तासाम् उपरि उपरि व्यवस्थितानाम् अधः या व्यवस्थिता सा सर्वतनीयसी । तस्मात् अधस्तात् [इन्दुः] स्यात् । न एतत् अस्ति । "भानाम् अधः शनैः चर" [कालक्रिया॰,
१५] इति अत्र कक्ष्याणाम् उपरि उपरि व्यवस्थितिम् वक्ष्यति । ननु च अन्ये ब्रुवते -- सर्वेषाम् उपरि चन्द्रमसः कक्ष्या इति । [तत् अयुक्तम् ।] सर्वेषाम् ग्रहाणाम् अधः चन्द्रकक्ष्या इति आह । यदि उपरि स्यात् तदा चन्द्रस्य ग्रहनक्षत्रभेदे स्फुटकलङ्कहरिणे ग्रहनक्षत्र[ताराः दृश्येरन्] । सूर्यवशात् यदि उपरि चन्द्रः स्यात् तदा सूर्येण आरात् व्यवस्थितेन सदा चन्द्रमसोः अपि स्वस्य आरात् भागम् अखण्डम् दृश्येत, उपरिस्थितः [न उपलक्ष्यते] । तस्मात् सर्वेषाम्
अधः चन्द्रमाः ।

अन्ये पुनर् सुगत[मता]वलम्बिनः सूर्याचन्द्रमसोः एकाम् कक्ष्याम् आचक्षते --

अर्धेन मेरोः चन्द्रार्कौ पञ्चाशत्सैक[योजनौ] ।
अर्धरात्रः अस्तगमनम् मध्याह्नः उदयः सकृत् ॥ इति ॥

न एवम् युज्यते । यदि पञ्चाशत् योजनानि चन्द्रः, एकपञ्चाशत् [योजनानि] सूर्यः तदा किम् इति सूर्यः [न] महान् उपलभ्यते, तुल्यौ एतौ [अर्धो]दितौ अर्धास्तमितौ पौर्णमास्याम् लक्ष्येते? अथ विदूरत्वात् अर्कः न महान् उपलक्ष्यते इति चेत् न । तर्हि मन्दरार्धे सूर्याचन्द्रमसोः दूरीभूतः अर्कः । अन्यत् च तुल्यकक्ष्याव्यवस्थितत्वात् सूर्याचन्द्रमसोः सूर्यग्रहणम् न एव स्यात् । न च चन्द्रमसम् मुक्त्वा अन्यः राहुः अस्ति येन सविता छाद्यते । यदि अपि अधः चन्द्रः
स्यात् तथा अपि महत्त्वात् सूर्यबिम्बस्य न एव अर्कः सकलः छाद्यते । न एव अर्कः चन्द्रेण छाद्यते इति चेत् तत् अपि उत्तरत्र व्याख्यास्यते ।

कालेन अल्पेन पूरयति चन्द्रः । अल्पेन स्तोकेन कालेन पूरयति । किम्? तत् अल्पम् मण्डलम् अधः व्यवस्थितम् । उपरिष्टात् सर्वेषाम् मण्डलानाम् महत् मण्डलम् महता कालेन शनैः चरः पूरयति । एतौ अल्पमहत्कक्ष्यामण्डलपरिमाणौ ग्रहौ उद्दिष्टौ, अन्येषाम् च [मण्डलानि स्वबुद्ध्या विज्ञेयानि] । तत् यथा -- चन्द्रमाः दिवससङ्ख्यया सप्तविंशत्या सार्धैकया मण्डलम् गच्छति, बुधशुक्ररवयः किञ्चित् ऊनेन वर्षेण, भौमः किञ्चित् ऊनेन
वर्षद्व[येन, गुरुः] तु वर्षैः द्वादशभिः किञ्चित् ऊनैः, शनैश्चरः तु त्रिंशता वर्षैः किञ्चित् ऊनैः इति । एवम् एते भिन्नकक्ष्यास्थाः योजनगतेन तुल्यगतयः ग्रहाः व्याख्याताः ।

अथ यदि तुल्यकक्ष्यास्थाः योजनगतेन तुल्यगतयः एव स्युः तदा एतेषाम् युगादेः संप्रवृत्तानाम् न कदाचित् वियोगः स्यात् । अथ [यदि] योजनगतेन एते भिन्नगतयः स्युः तदा एतेषाम् भुक्तिलिप्तानयने योजनैः यथास्वम् प्रसिद्धभुक्तिलिप्ताः न आगच्छेयुः । तस्मात् भिन्नकक्ष्यास्थाः अपि ग्रहाः योजनगतेन तुल्यगतयः एव इति ॥ १३ ॥

[ भिन्नकक्ष्यासु राश्यादीनाम् अल्पमहत्त्वम् ]

कक्ष्याणाम् अल्पमहत्त्वात् राशिभागलिप्ताः बह्व्यः अल्पाः इति सन्देहः तन्निवृत्त्यर्थम् आह --

अल्पे हि मण्डले अल्पाः महति महान्तः च राशयः ज्ञेयाः ।
अंशाः कलाः तथा एवम् विभागतुल्याः स्वकक्ष्यासु ॥ १४ ॥

अल्पे मण्डले अल्पाः राशयः महति मण्डले महान्तः, एवम् अंशाः कलाः च, केवलम् तु विभागेन सदृशाः । तत् यथा -- अल्पे महति च मण्डले मण्डलद्वादशभागः राशिः, षष्टिशतत्रयभागः भागः, खखषड्घनभागः लिप्ताः इति, स्वासु स्वासु कक्ष्यासु ज्योतिश्चक्रस्य तुल्यत्वात् ॥ १४ ॥

[ ग्रहकक्ष्यावस्थितिक्रमः ]

कक्ष्याणाम् उपरि अधः अव[स्थिति]क्रमपरिज्ञानाय आह --

भानाम् अधः शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः ।
एषाम् अधः च भूमिः मेधीभूता खमध्यस्था ॥ १५ ॥

भानि ज्योतींषि, अश्विन्यादीनि । तेषाम् अधः शनैश्चरः, तस्य अपि अधः बृहस्पतिः, ततः अङ्गारकः इति आदि । एषाम् अधः च भूमिः । एषाम् नक्षत्रादीनाम् भूः अधः । मेधीभूता । अत्र "भूत"-शब्दः बहुषु अर्थेषु वर्तमानः इव अर्थे प्रतिपत्तव्यः । मेधी इव स्थिता । खमध्यस्था । खम् आकाशम् तस्य मध्यम् खमध्यम्, तस्मिन् स्थिता खमध्यस्था । एषाम् अधः च भूमिः इति । अत्र उच्यते -- यदा दृश्ये
चक्रार्धे ग्रहनक्षत्राणि, तदा तेषाम् अधः भूमिः । यदा अतः अन्येषु ग्रहनक्षत्राणि स्मररिपुसुतहिबुकसहजधनेषु वर्तन्ते तदा कथम् अधः भूः, यत् उत उपरि स्यात् । न एवम् विज्ञायते । यस्मात् सर्वेषाम् अस्मदादीनाम् भूः अधः, उपरि च आकाशः, [तस्मात्] सर्वदा ग्रहाः उपरि, भूः अधः । वक्ष्यति च --

यद्वत् कदम्बपुष्पग्रन्थः प्रचितः समन्ततः कुसुमैः ।
तद्वत् हि सर्वसत्त्वैः जलजैः स्थलजैः च भूगोलः ॥ इति ।
[गोल॰, ७]

[अन्ये तु इमाम् कल्पनाम्] दूरविप्रतिपन्नाम्, भगणशनैःचरबृहस्पतिकुजरविसितबुधनिशाकरान् उपर्युपरिव्यवस्थितान् तुल्य[गतिकान् मन्यन्ते । तत् यथा -- या]वत् अल्पमण्डलम् भानि भ्रमन्ति, तावत् महान्ति मण्डलानि शनैश्चरादयः [न] शक्नुवन्ति पूरयितुम् इति पृष्ठतः लक्ष्यन्ते, यथाकक्ष्या[मण्डलक्रमेण] इति । अत्र परिहारः प्राक् प्रदर्शितः -- यदि उपरि स्यात् तदा चन्द्रस्य ग्रहनक्षत्रभेदे स्फुटकलङ्कहरिणे ग्रहनक्षत्रताराः
कृश्येरन् [पृ॰ २१२] इति आदिना ग्रन्थेन ।

अन्ये मन्यन्ते -- तुल्यकक्ष्यास्थाः एव भगणशनैश्चरबृहस्पतिकुजरविसितबुधनिशाकराः । किन्तु यथाक्रमेण शीघ्रगतयः । अतः द्रुतगतिभिः नक्षत्रैः ईषमन्दगतिः ईषत् जीयते, अतिमन्दगतिः तु दूरात् इति । ईषन्मन्दगतित्वात् शनैश्चरः इषत् जीयते, अतिमन्दगतित्वात् चन्द्रमाः [दू]रम् इति । अत्र अपि यदि प्राङ्मुखाः ग्रहादयः तदा प्राङ्मुखैः द्रुतगतिभिः नक्षत्रैः जीयमानः अश्विन्याम् दृष्टः रेवत्याम् उपलक्ष्येत, न भरण्याम् । वक्रकाले
अपि च, प्रतिलोमगतित्वात् अश्विन्याम् दृष्टः भरण्याम् एव उपलक्ष्येत । अथ एते ग्रहादयः अपराभिमुखाः कल्प्यन्ते, तथा अपि वक्रकाले अश्विन्याम् दृष्टः प्रतिलोमगतित्वात् भरण्याम् उपलक्ष्येत । तुल्यकक्ष्याव्यवस्थितानाम् च लम्बनविशेषः न स्यात् । अन्यत् च -- अन्योन्यबिम्बच्छादनम् न स्यात् । ग्रहोपरागः अपि च तुल्यकक्ष्याव्यवस्थितत्वात् न युज्यते । तस्मात् "भानाम् अधः शनैश्चरः" इति आदि सुष्ठु उक्तम् ॥ १५ ॥

[ कालहोरादिनाधिपतिज्ञानम् ]

कालहोरादिनाधिपतिज्ञापनाय आह --

सप्त एते होरेशाः शनैश्चराद्याः यथाक्रमम् शीघ्राः ।
शीघ्रक्रमात् चतुर्थाः भवन्ति सूर्योदयात् दिनपाः ॥ १६ ॥

एते ग्रहाः शनैश्चरादयः तुल्यगतयः अपि सन्तः यथाक्रमेण शीघ्राः लक्ष्यन्ते, मण्डलानाम् यथाक्रमेण अल्पत्वात् । ते एव होरेशाः यथाक्रमेण । तत् यथा -- शनैश्चरस्य कालहोरायाम् निवृत्तायाम् बृहस्पतेः कालहोरा, ततः अङ्गारकस्य, ततः रवेः इति आदि । एवम् सूर्योदयात् प्रभृति यावत् सूर्यस्य अर्धास्तमयः इति द्वादश कालहोराः । ततः च अर्धास्तमयात् अर्धोदयः इति पुनर् द्वादश । एवम् अहोरात्रे चतुर्विंशतिकालहोराः । कालहोरा हि नाम लग्नराशेः
अर्धोदयस्य कालः । सा च दिवसे दिवसे दिवसाधिपातः प्रभृति प्रतिपत्तव्या । उक्तम् च स्फुजिध्वजयवनेश्वरेण --

आदित्यशुक्रेन्दुजचन्द्रसौरजीवावनेयाः स्युः अहर्निशासु ।
होरेश्वराः तद्दिवसाधिपादिक्रमेण ताः तत्र चतुर्गुणाः षट् ॥

एवम् दिवसाधिपात् सूर्योदयात् गण्यमानात् उत्तरदिवसस्य अधिपात् एव अर्धोदयात् शीघ्रक्रमात् चतुर्थः, यः शीघ्रक्रमः अभिहितः "भानाम् अधः शनैश्चरः" इति आदि तस्मात् चतुर्थः दिवसाधिपतिः । तत् यथा -- शनैश्चरात् चतुर्थः सूर्यः दिवसाधिपतिः, सूर्यात् सोमः चतुर्थः, सोमात् अङ्गारकः इति आदि । एवम् अनेन क्रमेण मासाधिपाः अब्दाधिपाः च अवगन्तव्याः । कथम्? [मासस्य वर्षस्य च यः] प्रथमदिवसे अधिपः स मासाधिपः वर्षाधिपः च
। सूर्योदयात् दिनपाः । सूर्यस्य उदयः सूर्योदयः । यदि अपि शेषेण उक्तः सूर्योदयशेषेण अर्धोदयः प्रतिपत्तव्यः । कुतः? इदम् बिम्बावयवाभिधाने अपि तदवयवप्रमाणस्य मानकालावधारणाशक्यत्वात् अर्धोदयस्य च व्यक्तलक्षणत्वात् सुपरिच्छेदनया अर्धोदयः आश्रियते । अथवा अनिर्दिष्टेषु वस्तुषु मध्यमप्रतिपत्तेः अर्धोदयात् आरभ्य पुनर् अर्धोदयः इति ।

अत्र केचित् अर्धास्तमयात् वारप्रवृत्तिम् मन्यन्ते । तत् च अयुक्तम् । यस्मात् उक्तम् --

आसीत् इदम् तमोभूतम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयम् प्रसुप्तम् इव सर्वतः ॥
[मनुस्मृतिः, १.५]

अत्र जनपदज्योतिश्चक्राभावात् न वारादिव्यवहारः सञ्जातः । यदा प्रोत्पन्नः सहस्रकिरणः तदा प्रभृति वारादिव्यवहारः सञ्जातः इति । अतः सुष्ठु उक्तम् सूर्योदयात् दिनपाः इति ॥ १६ ॥

[ प्रतिमण्डलविधिना ग्रहगतिनिरूपणम् ]

एते ग्रहाः कस्मिन् मण्डले भ्रमन्ति इति [न ज्ञायते] अतः तन्निरूपणाय आह --

कक्ष्याप्रतिमण्डलगाः भ्रमन्ति सर्वे ग्रहाः स्वचारेण ।
मन्दोच्चात् अनुलोमम् प्रतिलोमम् च एव शीघ्ह्रोच्चात् ॥ १७ ॥

कक्ष्यायाः प्रतिमण्डलम् कक्ष्याप्रतिमण्डलम्, तत् गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अथवा कक्ष्या च प्रतिमण्डलम् च कक्ष्याप्रतिमण्डले, ते गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अत्र कक्ष्यागाः मध्यमाः ग्रहाः, स्फुटाः [प्रति]मण्डलगाः । अथवा कक्ष्याप्रतिमण्डलयोः यत्र सम्पातः स कक्ष्याप्रतिमण्डलशब्देन उच्यते । तम् गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अत्र अनेकत्वात् विग्रहयोगस्य, कतमः विग्रहः परिगृह्यते इति सन्देहे
उच्यते -- कक्ष्या च प्रतिमण्डलम् च कक्ष्याप्रतिमण्डले । ते गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः, इति अयम् परिगृह्यते । कथम्? इष्टत्वात् शेषविग्रहार्थवाचकत्वात् च अत्र इष्यते । कक्ष्यागाः मध्यमाः ग्रहाः यस्मात् तुल्यभुक्तयः, प्रतिमण्डलगाः स्फुटग्रहाः यतः ससदृशभुक्तयः ।

अथ के ते मध्यमाः, के वा स्फुटाः ग्रहाः? ननु च एकः एव सूर्यः, एकः एव चन्द्रमाः, एकः एव अङ्गारकः इति आदि । मध्यमस्फुटतायाम् परिगृह्यमाणायाम् ग्रहद्वयम् प्राप्नोति । न एवम् विज्ञायते मध्यमः ग्रहः स्फुटः ग्रहः इति । कथम् तर्हि? मध्यमग्रहशब्देन मध्यमग्रहस्य ग्रहगतिः अभिधीयते, स्फुटग्रहशब्देन च स्फुटग्रहगतिः इति? तत् यथा -- कश्चित् सांवत्सरम् पृच्छति -- "कः सविता" इति, स तस्मा आह -- राशिः
एकः पञ्चदश भागाः त्रिंशत् लिप्ताः इति । तत्र यः परिपृच्छति यः च आचष्टे तयोः उभयोः अभि[प्राय]द्वयप्रसङ्गः । न एष दोषः । या मध्यमा गतिः सा स्फुटगतिसाधनस्य उपायः । अन्यथा अनियतत्वात् स्फुटगतिः अशक्या स्यात् विज्ञातुम् । एवम् एव च [मध्यमग्रहः] प्रतिमण्डलपरिज्ञानार्थम् परिकल्पितः । यत् अस्य ग्रहस्य व्यासार्धतुल्यम् भूताराग्रहविवरम् स तस्मात् प्रदेशात् प्रभृति कक्ष्यामण्डलस्य उपरि अधः वा अवतिष्ठते ।

अथ कः असौ अयम् प्रदेशः? उच्यते -- यदा तृतीये कर्मणि द्वितीये पदे मन्दोच्चकेन्द्रम् राशित्रयम् द्वौ भागौ पञ्चाशत् लिप्ताः, तदा बृहस्पतेः मन्दोच्चकर्णः व्यासार्धतुल्यः । चतुर्थे कर्मणि यदा शीघ्रोच्चकेन्द्रम् राशित्रयम् पञ्चभागाः विंशतिः च कला, तदा व्यासार्धतुल्यः शीघ्रोच्चकर्णः । अत्र व्यासार्धतुल्यम् भूताराग्रहविवरम् । अस्मात् प्रदेशात् प्रभृति भूताराग्रहविवरम् प्रतिदिनम् अपचीयते । अनया युक्त्या शेषाणाम् अपि ग्रहाणाम्
व्यासार्धतुल्यम् भूताराग्रहविवरम् ऊह्यम् ।

भ्रमन्ति सर्वे ग्रहाः स्वचारेण इति एतत् निगदव्याख्यानम् एव । मन्दोच्चात् अनुलोमम् । "मन्दोच्चात्" इति हेतौ पञ्चमी । तेन मन्दोच्चात् हेतोः अनुलोमम् इति व्याख्यायते, यस्मात् न मन्दोच्चे वक्रपरिज्ञानम् । प्रतिलोमम् च एव शीघ्रोच्चात् । शीघ्रोच्चात् हेतोः प्रतिलोमम्, यस्मात् शीघ्रोच्चे वक्रपरिज्ञानम् । कथम् पुनर् शीघ्रोच्चे वक्रपरिज्ञानम्? उच्यते -- यदा शीघ्रोच्चकेन्द्रम् द्वितीयपदे तदा सर्वे ग्रहाः वक्रिणः भवन्ति, यदा च तृतीयपदे शीघ्रोच्चकेन्द्रम्
तदा अनुवक्रगतयः । उक्तम् च --

ग्रहोनशीघ्रग्रहेषु कृतषड्वसुषु क्रमात् ।
भवेत् वक्रातिवक्रा च तथा अनुकुटिला गतिः ॥

इति । सूक्ष्मतरः [च अयम्] विधिः इति । उच्यते -- यदा अद्यतनात् ग्रहात् श्वस्तनः ग्रहः तुल्यः भवति तदा वक्रप्रारम्भः । अथवा ह्यस्तनात् ग्रहात् अद्यतनः ग्रहः तुल्यः तदा अपि वक्रप्रारम्भः । यदा अद्यतनात् तृतीयपदे श्वस्तनः ग्रहः अधिकः तदा वक्रस्य निवृत्तिः । अथवा ह्यस्तनात् ग्रहात् अद्यतनः ग्रहः अधिकः तृतीयपदे तदा अपि वक्रस्य निवृत्तिः । यदा ग्रहः बह्वीः लिप्ताः निवर्तते तदा अतिवक्रगतिः ।

कथम् पुनर् इदम् विधानम् शीघ्रोच्चात् एव गणकः प्रजानते, न पुनर् मन्दोच्चात् इति? उच्यते -- यस्मात् सूर्यवशात् ग्रहाणाम् उदयास्तमयवक्रानुवक्राः गतयः । यदि एवम् अत्र कथम् बुधशुक्रयोः अन्यत् शीघ्रोच्चम्, [मध्यः] सूर्यः । अत्र अपि सूर्यवशात् एव तयोः उदयास्तमयपरिज्ञानम् । वक्रगतिः तु एकत्वात् उपायान्तरेण विज्ञायते । अथवा उच्चनीचमध्यमपरिधिः इति एवमादिस्फुटगतिसाधनोपाय[भूतानाम् च] उपायानाम् न [एव नियमो]क्तिः
वा विद्यते । केवलम् तु उपेयसाधकाः उपायाः । तस्मात् इयम् सर्वा प्रक्रिया असत्या, यया ग्रहाणाम् स्फुटगतिः साध्यते । [एवम् च परमार्थजिज्ञासुभिः असत्योपाये]न सत्यम् प्रतिपद्यते । तथा हि भिषजः हि उत्पलनालादिषु वधादीनि अभ्यस्यन्ते । नापिताः पिठरादिषु मुण्डनादीनि, यज्ञशास्त्रविदः शु[ष्केष्ट्या] यज्ञादीनि, शाब्दिकाः प्रकृतिप्रत्ययविकारागमवर्णलोपव्यत्ययादिभिः शब्दान् प्रतिजानते । एवम् अत्र अपि
मध्यममन्दोच्चशीघ्रोच्चतत्परिधिज्याकाष्ठभुजाकोटिकर्णादि-व्यवहारेण सांवत्सराः ग्रहाणाम् स्फुटगतिम् प्रतिजानते । तस्मात् उपायेषु असत्येषु सत्यप्रतिपादनपरेषु न चोद्यम् अस्ति ।

अथ किम् अर्थम् इमे ग्रहाः प्रतिदिनम् भ्राम्यन्ति । अथ च लोके कश्चित् भ्रमन् कारणेन भ्रमति । अन्यत् च -- न एवंविधः कश्चित् दृश्यते अनवरतगतिः यथा इमे ताराग्रहाः भ्रमन्ति इति दृष्टान्तत्वेन उदाहरणभूतः इति । उच्यते -- सर्वादौ किल भगवान् प्रजापतिः ग्रहान् उक्तवान् यत् "भवन्तः मेषादिगणेषु प्रजानाम् शुभाशुभफलाय भ्राम्यत" इति । उक्तम् च स्फुजिध्वजयवनेश्वरेण --
प्रजाः सिसृक्षुः किल विश्वधाता
प्रजापतिः प्राग्व्रतम् आचचार ।
स द्वादशाङ्गप्रभवम् स्वदेहम्
सृष्ट्वा आदितः वै भगणम् ससर्ज ॥
तेभ्यः स मेषादिगणान् प्रजज्ञे
तेभ्यः च तद्भेदविकल्पतः अन्यान् ।
अतः भवर्गस्य विभुः प्रणेता
प्रजाभवाभावविधीश्वरत्वम् ॥ इति आदि ।

अथवा शब्देन अर्थानुमानम् क्रियते । श्रूयन्ते च शब्दाः ये च अपरे अत्र गतिवाचकाः । तत् यथा -- "पथः ष्कन्" [अष्टाध्यायी, ५.१.७५] इति वर्तमाने "पन्थः ण नित्यम्" [अष्टाध्यायी, ५.१.७६] इति अनेन नित्यम् पन्थानम् गच्छति इति अस्मिन् अर्थे पान्थः इति अयम् शब्दः । अत्र लोके न कश्चित् अध्वानम् अनवरतम् गच्छन् दृश्यते, तस्मात् अमी एव ग्रहाः पान्थाः । न च अयम् शब्दः असत्स्वार्थेषु शशविषाणकूर्मरोमवन्ध्यापुत्रशब्दवत् प्रवृत्तः । तस्मात्
सुष्ठु उच्यते शब्देन अर्थानुमानम् पान्थाः ग्रहाः इति ।

अथवा अयम् अपरः प्रकारः । मन्दोच्चात् अनुलोमम् प्रतिलोमम् च एव शीघ्रोच्चात् । मन्दोच्चात् यतः मन्दोच्चकेन्द्रात् प्रतिमण्डलविधानेन आनीतम् फलम् प्रत्यहम् उपचीयते । क्व? अन्यस्य अश्रुतत्वात् मन्दोच्चे एव । तस्मात् मन्दोच्चात् अनुलोमम् । प्रतिलोमम् च एव शीघ्रोच्चात् । यस्मात् प्रतिमण्डलविधानेन आनीतम् फलम् सर्वदा अपचीयते । कुतः? अन्यस्य अशृउतत्वात् शीघ्रोच्चात् एव । तस्मात् "प्रतिलोमम् च एव शीघ्रोच्चात्" इति ॥ १७ ॥

[ प्रतिमण्डलविधानम् ]

स्फुटाः प्रतिमण्डले भ्रमन्ति इति उक्तम्, अतः तज्ज्ञापनाय आह --

कक्ष्यामण्डलतुल्यम् स्वम् स्वम् प्रतिमण्डलम् भवति एषाम् ।
प्रतिमण्डलस्य मध्यम् घनभूमध्यात् अतिक्रान्तम् ॥ १८ ॥

कक्ष्यामण्डलतुल्यम् । कक्ष्यामण्डलेन तुल्यम् कक्ष्यामण्डलतुल्यम् । कक्ष्यामण्डलप्रमाणम् "शशिराशयष्ठ चक्रम्" [गीतिका॰, ६] इति एतस्मिन् सूत्रे व्याख्यातम् । स्वम् स्वम् प्रतिमण्डलम् आत्मीयम् आत्मीयम् प्रतिमण्डलम्, भवति । एषाम् ग्रहाणाम् । प्रतिमण्डलस्य मध्यम् । यत् मध्यम् केन्द्रम् तत् घनभूमध्यात् अतिक्रान्तम् । घनाः च असौ भूः च घनभूः, तस्याः घनभुवः मध्यम् घनभूमध्यम्, तस्मात् घनभूमध्यात्,
अतिक्रान्तम् निर्गतम् उपरिस्थितम् इति अर्थः । तत् यथा -- यावत् प्रमाणपरिकल्पितम् षष्टिशतत्रयांशावच्छिन्नम् कक्ष्यामण्डलम् पूर्वापरम् ऊर्ध्वम् विन्यस्य, तादृश् एव अन्यत् मण्डलम् उपरि अधः कक्ष्यामण्डलात् वक्ष्यमाणेन अन्तरेण पूर्वापरयोः दिशोः यत्र सम्पातः तत्र यत् बध्यते गोले तत्प्रतिमण्डलम् नाम । एवम् एते कक्ष्याप्रतिमण्डले व्याख्याते ॥ १८ ॥

[ नीचोच्चवृत्तिविधिना ग्रहगतिप्रतिपादनम् ]

कक्ष्याप्रतिमण्डलान्तरप्रतिपादनार्थम् आह --

प्रतिमण्डलभूविवरम् व्यासार्धम् स्वोच्चनीचवृत्तस्य ।
वृत्तपरिधौ ग्रहाः ते मध्यमचारात् भ्रमन्ति एवम् ॥ १९ ॥

प्रतिमण्डलस्य भूमण्डलस्य च विवरम् प्रतिमण्डलभूविवरम् । व्यासार्धम् स्वोच्चनीचवृत्तस्य । उच्चवृत्तम् नीचवृत्तम् च उच्चनीचवृत्तम्, स्वस्य उच्चनीचवृत्तम् स्वोच्चनीचवृत्तम्, तस्य स्वोच्चनीचवृत्तस्य व्यासार्धम् प्रतिमण्डलभूविवरम् । तत् यथा -- "झार्धानि मन्दवृत्तम्" इति अधिकृत्य "शशिनः छ" [गीतिका॰, १०] इति सप्त शशिनः झार्धानि उच्चनीच्चवृत्तम्, सार्धैकत्रिंशद्भागप्रमाणम् इति अर्थः । यस्य यत् व्यासार्धम् तत् त्रैराशिकगणितेन
सिद्धम् । यदि "चतुरधिकम् शतम् अष्टगुणम्" [गणित॰, १०] इति एवमादेः परिधेः अयुततुल्यम् व्यासार्धम् लभ्यते तदा सार्धैकत्रिंशद्भागप्रमाणस्य परिधेः किम् इति लब्धम् भागाः पञ्च, लिप्ता च अर्धाधिकेन एका । सूर्यस्य अपि त्रीणि झार्धानि मन्दवृत्तम्, सार्धत्रयोदशभागप्रमाणम्, तस्य च त्रैराशिकेन स्ववृत्तविष्कम्भार्धम् लब्धम् भागद्वयम्, अर्धाधिकेन नव लिप्ताः । अथवा -- यदि षष्टिशतत्रय[भागमित]परिधेः [वसुत्रिकृतवह्निलिप्तामितम्]
व्यासार्धम् लभ्यते तदा उच्चनीचपरिधेः किम् इति लब्धम् चन्द्रस्य उच्चनीचव्यासार्धम् लिप्तात्रिशती सार्धाधिकरूपा । एवम् सूर्यस्य अपि शतम् एकोनत्रिंशदुत्तरम् [सार्धम्] । तत्र भागप्रमाणेन लिप्ताप्रमाणेन वा कक्ष्याप्रतिमण्डलमध्यान्तरम् परिकल्प्यम् । एवम् सूर्याचन्द्रमसोः । अन्यथा अन्येषाम् समविषमवृत्तमन्दोच्चशीघ्रोच्चभेदेन अनेकप्रतिमण्डलप्रसङ्गभयात् उत्तरत्र वक्ष्यति -- "भूताराग्रहविवरम्" [कालक्रिया॰, २५] इति । वृत्तपरिधिः
कक्ष्यामण्डलम्, तस्मिन् वृत्तपरिधौ मध्यमचारम् ग्रहाः भ्रमन्ति । प्रतिमण्डलेषु स्फुटचारम् भ्रमन्ति इति अर्थात् अवसीयते ॥ १९ ॥

[ नीचोच्चवृत्तपरिधौ ग्रहगतिः ]

ग्रहभुक्त्यानयनवक्रानुवक्रपरिज्ञानाय आह --

यः शीघ्रगतिः स्वोच्चात् प्रतिलोमगतिः स्ववृत्तकक्ष्यायाम् ।
अनुलोमगतिः वृत्ते मन्दगतिः यः ग्रहः भवति ॥ २० ॥

शीघ्रा गतिः यस्य तत् शीग्रह्गतिः, शीघ्रगतिः च तत् स्वोच्चम् च शीघ्रगतिः स्वोच्चम्, शीघ्रततिःस्वोच्चात् यः प्रतिलोमगतिः शीघ्रगतिः । स्वोच्चशब्देन स्वशीघ्रोच्चभुक्तिः परिगृह्यते । सा यदि शीघ्रोच्चभुक्तिः स्वकेन्द्रान्तज्या[साधितस्फुटमध्य]मभुक्तेः [न पतति] तदा सा एव स्फुटमध्यमा भुक्तिः स्वकेन्द्रान्तज्यासाधिता स्वशीघ्रोच्चभुक्तेः प्रतिलोमे[न] पात्यते । तदा शीघ्रगतिः स्वोच्चगतिः इति उच्यते । प्रतिलोमशब्देन च विपरीतपातितशेषलिप्ताः
परिगृह्यन्ते । एवम् अयम् विग्रहार्थः निष्पन्नः भवति । प्रतिलोमा गतिः यस्य सः प्रतिलोमगतिः इति ।

आदितः एव एतत् भुक्त्यानयनम् प्रति वक्ष्यते । तत् यथा -- मन्दोच्चकेन्द्रान्तज्याम् क्रमेण उत्क्रमेण वा निष्पन्नाम् स्वमध्यमभुक्तिलिप्ताभिः गुणयेत् । पुनर् च तत् कालप्रतिधिना गुणितस्य अष्टादशभिः सहस्रैः भागलब्धम् केन्द्रपदवशात् अर्धीकृत्य ग्रहमध्यमभुक्तिलिप्तासु प्रक्षिप्य विशोध्य वा स्वशीघ्रोच्चभुक्तिलिप्ताभिः शोधयेत् । शेषम् स्वशीघ्रोच्चकेन्द्रान्तज्याक्रमोत्क्रमज्यागुणम् तत् कालशीघ्रोच्चपरिधिना गुणयेत् । भागः अष्टादशभिः
सहस्रैः । लब्धम् व्यासार्धगतम् स्वकर्णेन विभजेत् । लभ्दस्य अर्धम् केन्द्रपदवशात् ग्रहमध्यमभुक्तिलिप्तासु क्षिपेत्, विशोधयेत् वा । ततः तम् क्षिप्तविशोधितशेषम् गृहीत्वा तृतीयकर्म -- मन्दोच्चकेन्द्रान्तज्याक्रमोत्क्रमज्याम् तत् कालपरिधिगुणम् अष्टादशभिः सहस्रैः विभजेत् । लब्धम् समस्तम् एव ग्रहमध्यमभुक्तिलिप्तासु मन्दकेन्द्रपदवशात् क्षिपेत्, विशोधयेत् वा । क्षिप्तम् विशोधितशिष्टम् वा स्फुटमध्यमभुक्तिलिप्ताः अविनष्टाः
ताः स्वशीघ्रोच्चभुक्तिलिप्ताभ्यः विशोधयेत् । शेषम् [गृहीत्वा] चतुर्थकर्म -- शीघ्रोच्चकेन्द्रान्त[ज्याक्रमोत्क्रम]ज्याम् तत् कालपरिधिगुणम् अष्टादशभिः सहस्रैः विभजेत् । लब्धम् व्यासार्धगुणम् कर्णेन विभजेत् । तत्र यद् अवाप्तम् तत् यदि क्षेप्यम् स्फुटमध्यमभुक्तिलिप्तासु क्षिपेत्, निष्पन्ना ग्रहस्य स्फुटभुक्तिः । अथ विशोध्यम् सद् यदि स्फुटमध्यमभुक्तितः न पतति तदा प्रतिलोमगतिः ग्रहः स्फुटमध्यमभुक्तिलिप्ताः एव विपरीतम्
शोध्याः । शेषम् वक्रभोगः । अस्मिन् अर्थे इयम् कारिका --

यः शीघ्रगतिः स्वोच्चात् प्रतिलोमगतिः स्ववृत्तकक्ष्यायाम् ।

प्रतिलोमगतिः वक्रगतिः इति अर्थः ।

अनुलोमगतिः वृत्ते । असौ अनुलोमगतिः भवति । यदा शीघ्रोच्चात् शीघ्रोच्चकेन्द्रान्तज्यानिष्पन्ना लिप्ताः स्फुटमध्यमभुक्तिलिप्ताभ्यः विशुद्धाः, तदा असौ ग्रहः अनुवक्री । तत्र च विशेषलिप्ताः अनुलोमशब्दवाच्याः । ततः अर्थात् अयम् विग्रहः अवसितः -- अनुलोमा गतिः यस्य स अनुलोमगतिः इति । स च अल्पम् गच्चहति इति मन्दगतिः अभिधीयते ॥ २० ॥

[ नीचोच्चवृत्तभ्रमणप्रकारान्तरम् ]

ग्रहाणाम् स्फुटीकरणप्रकारान्तरम् आह --

अनुलोमगानि मन्दात् शीघ्रात् प्रतिलोमगानि वृत्तानि ।
कक्ष्यामण्डललग्नस्ववृत्तमध्ये ग्रहः मध्यः ॥ २१ ॥

अनुलोमम् गच्छति इति अनुलोमगतिः । तत् उक्तम् -- मन्दात्, उक्तमन्दोच्चावधेः मध्यमात् इति । तत् अत्र अपि शीघ्रोच्चावधेः मध्यमात् इति एतत् एकप्रक्रमेण भवितव्यम् । न इति आह -- शीघ्रा[त् प्रतिलोमग]तिः प्रतिलोमावधेः । शीघ्रोच्चस्य प्रतिलोमगतीनि विपरीतगतीनि यानि वृत्तानि परिधयः । अत्र वृत्तस्य एकदेशे वृत्तशब्दोप[चारात् परिधयः च] इति, यथा मन्दशीघ्रकेन्द्रयोः तज्ज्याकाष्ठे धनूंषि । अतः तानि धनूंषि मन्दकेन्द्रात् जातानि क्रमेण
उप[चीयन्ते, शीघ्रकेन्द्रात्] जातानि उत्क्रमेण उपचीयन्ते । अतः "अनुलोमगानि मन्दात् शीघ्रात् प्रतिलोमगानि वृत्तानि" । कथम् पुनर् वृत्तानि मन्दशीघ्रकेन्द्रयोः तज्ज्याधनूंषि क्रमोत्क्रम[गतीनि? गते]ः अवस्थावाचकत्वात् । यथा --

गतिः अस्ति इति भूतानाम् सुकुमारायते मनः ।
[अनस्त्वनिशम् एव ऊढम् धुरम्] वहति गौः इव ॥

तथा --

दानम् भोगः नाशः तिस्रः गतयः भवन्ति वित्तस्य ।
यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति ॥
[भर्तृहरिः, नीतिशतकम्, ३४]

तस्मात् यानि एव ज्याधनूंषि तानि एव प्रतिलोमानुलोमगतीनि ।

अथ अत्र इदम् प्रष्टव्यम् -- मन्दोच्चज्याधनूंषि मन्दोच्चात् उपचीयन्ते, शीघ्रोच्चज्याधनूंषि शीघ्रोच्चात् अपचीयन्ते । कुतः एतत्? सम्प्रदायाविच्छेदात् । अथ "व्याख्यानतः विशेषप्रतिपत्तिः, न हि सन्देहात् अलक्षणम्" [अष्टाध्यायी, शिवसूत्रम् ६, पातञ्जलमहाभाष्यम्] इति । अथवा मन्दोच्चशीघ्रोच्चश्रवणात् मन्दोच्चशीघ्रोच्चयोः एव प्रतिपत्तिः, अन्यस्य अश्रुतत्वात् च ।

[ प्रतिमण्डलविधिना ग्रहस्फुटीकरणप्रक्रिया ]

अयम् आर्यासूत्रार्थः यथा घटते तथा कर्मणा प्रतिपादयिष्यामः । इष्टात् ग्रहात् तत् मन्दोच्चम् विशोधयेत् । शेषम् राश्यादिकम् मन्दोच्चात् प्रवृत्तम् तत् कक्ष्यामण्डलोत्पन्नम् इति प्रतिमण्डले क्रियते, यस्मात् प्रतिमण्डले स्फुटग्रहः भ्रमति । तेन तस्मात् मन्दोच्चात् आरभ्य यत् काष्ठम् तत् महति मण्डले अल्पम् भवति । "महति महान्तः च राशयः ज्ञेयाः । अंशाः कलाः तथा एवम् [कालक्रिया॰, १४] इति । अल्पे प्रतिमण्डले तत् एव काष्ठम् बहुतरम्
भवति, मानाल्पत्वात् । व्रीह्यादयः महता मानविशेषेण प्रमीयमानाः प्रस्थादिसङ्ख्यया अल्पाः भवन्ति, [ते] एव अल्पेन मानविशेषेण मीयमानाः प्रस्थादिशङ्ख्यया बहवः भवन्ति एवम् अत्र अपि । कथम् पुनर् तत् काष्ठम् कक्ष्यामण्डलोत्पन्नम् प्रतिमण्डले प्रमीयते? उच्यते -- तत् काष्ठस्य पदानि व्यतीतानि प्रत्याकलय्य वर्तमानपदस्य भुजाकोटिज्यया कर्म इदम् क्रियते -- "प्रतिमण्डलस्य मध्यम् घनभूमध्यात् अतिक्रान्तम्" [कालक्रिया॰,
१८] इति प्रतिमण्डलभूविवरम् कोट्याम् प्रथमचतुर्थयोः पदयोः प्रक्षिप्यते, द्वितीयतृतीययोः अपनीयते ।

एतत् प्रतिपादनार्थम् समायामवनौ वृत्तकेन्द्रम् निधाय यावत् तावत् प्रमाणपरिकल्पितव्यासार्धप्रमाणेन कर्कटकेन वृत्तम् आलिखेत् । तस्य वृत्तस्य पूर्वापर[दक्षिणोत्तर]लेखे कृत्वा [तद्वृत्तकेन्द्रात् अन्त्य]फल[ज्या]प्रमाणम् [सूत्रम् मन्दोच्चाभिमुखम्] दक्षिणेन निधाय तत्र कक्ष्यामण्डलव्यासार्धतुल्यकर्कटकेन वृत्तम् आलिखेत् । तत् प्रतिमण्डलम् इति उच्यते । [तत् प्रथमचतुर्थपदयोः] कक्ष्यामण्डलात् उपरि अवतिष्ठते, द्वितीयतृतीययोः
अधः । तत्र या कोटिज्या सा कक्ष्यामण्डलोत्पन्ना कक्ष्यामण्डलभूम्यन्तरालप्रमाणा । तेन प्रतिमण्डलभूविवरान्तरालमात्रेण प्रतिमण्डलम् प्रथमचतुर्थयोः पदयोः कोटिः न प्राप्नोति इति प्रक्षिप्यते, द्वितीयतृतीयपदयोः तावता अतीतात् प्रतिमण्डलात् कोटिः इति अपनीयते । एवम् प्रतिमण्डलोत्पन्ना कोटिः भवति । अथ यदि कोटि[ज्यातः] प्रतिमण्डलभूविवरम् न शुध्यति, तदा प्रतिमण्डलभूविवरात् कोटिज्या शोध्यते । तावती प्रतिमण्डलकोटिः भवति
। तत्र एवम् निष्पन्नायाः कोटेः भुजज्यायाः च वर्गसमासमूलम् कर्णः । तत् सूक्ष्मार्थिभिः अविशिष्यते, प्रतिमण्डलकर्णस्य वृद्धिह्रासवशात् दृष्टिः भिद्यते इति । तत् यदि व्यासार्धतुल्येन प्रतिमण्डलकर्णेन यथा उक्तम् प्रतिमण्डलभूविवरम् लभ्यते तदा तेन प्रतिमण्डलकर्णेन किम् इति । लब्धम् पूर्वकोटिज्यायाम् प्रक्षिप्यते अपनीयते वा । ततः तद्भुजज्यावर्ग[समास]मूलम् कर्णः । तेन पुनर् प्रतिमण्डलभूविवरानयनम् इति यावत् अविशेषः । ततः
अविशिष्टकर्णेन व्यस्तत्रैराशिकम् क्रियते -- यदि व्यासार्धविष्कम्भस्य कक्ष्यामण्डलस्य इयम् भुजज्या लभ्यते, तदा तेन कर्णेन प्रतिमण्डलजेन का इति । व्यस्तत्रैराशिकत्वात् व्यासार्धम् गुणकारः, कर्णः भागहारः, लब्धम् प्रतिमण्डलभुजज्या । तत् काष्ठम् मन्दोच्चे प्रक्षिप्य स्फुटः ग्रहः भवति, यस्य मन्दोच्चकेन्द्रम् प्रथमपदे । द्वितीयपदे षड्भ्यः राशिभ्यः विशोध्य भुजा गृहीता इति षङ्भ्यः अपनीयते, शेषम् मन्दोच्चे प्रक्षिप्यते ।
तृतीयपदे चक्रार्धाधिकभुजा इति तत् चापम् चक्रार्धसहितम् मन्दोच्चे प्रक्षिप्यते । चतुर्थपदे द्वादशेभ्यः विशुद्धशेषम् भुजा इति चक्रात् तत् काष्ठम् विशोध्य शेषम् मन्दोच्चे प्रक्षिप्यते । एवम् स्फुटग्रहः भवति, यस्य शीघ्रोच्चम् न विद्यते ।

येषाम् पुनर् शीघ्रोच्चम् विद्यते तेषाम् कर्मविशेषः उच्यते । तत् यथा -- परिधिचालनाप्रयोगेण स्फुटीकृतपरिधिना व्यासार्धम् सम्गुणय्य अशीत्या भागलब्धम् प्रतिमण्डलभूविवरम् मन्दशीघ्रोच्चयोः । तेन अनन्तराभिहितमन्दोच्चकर्मणा मन्दोच्च[फलम्] साधयेत् । [तत्] सकलसंस्कृतः ग्रहः भवति । तत् एवम् निष्पन्नस्य, मध्यमस्य ग्रहस्य [च] यत् अन्तरार्धम् तत् मध्यमात् मन्दोच्चसिद्धे अधिके मध्यमग्रहे धनम्, ऊने ऋणम्
। एवम् मन्दोच्चसं[स्करणम्] । एतत् एव कर्म "शनिगुरुकुजेषु मन्दे अर्धम् ऋणधनम् भवति पूर्वम्" [कालक्रिया॰, २२] इति अनेन ग्रन्थेन अभिधीयते । कथम्? सनिगुरुकुजेषु, मन्दारगुरुषु मध्यमेषु मध्यमकर्मणा सिद्धेषु मन्दारगुरुषु इति अर्थः । "अर्धम् ऋणधनम् भवति पूर्वम्" [कालक्रिया॰, २२] इति कस्य अर्धम् ऋणम् धनम् वा भवति इति अत्र सम्प्रदायाविच्छेदात् मन्दसिद्धमध्यमान्तरम् परिगृह्यते । किम् तस्य अर्धम् मध्ये ग्रहे
धनम् ऋणम् वा पूर्वसिद्धे मन्दोच्चकर्मणि भवति? इदम् च कर्म मन्दोच्चशीघ्रोच्चयोः सामान्येन प्रसिद्धम् । कुतः? विशेषानुवादना[भावा]त् । तत् यथा -- एवम् अर्धेन फलेन संस्कृतम् मध्यमम् ग्रहम् शीघ्रोच्चात् ग्रहात् विशोधयेत् । तत्र केन्द्रपदविभागेन भुजाकोटिज्ये गृहीत्वा स्फुटीकृतस्वशीघ्रोच्चपरिधिना व्यासार्धम् संगुणय्य अशीत्या भागलब्धप्रतिमण्डलभूविवरेण पूर्वकर्मणा एव संस्कृतात् कर्णम् आनयेत् । अत्र अविशेषाभावात्
अविशेषकर्म न प्रवर्तते । ततः भुजज्यया व्यासार्धम् संगुणय्य कर्णेन भागलब्धस्य काष्ठम् शीघ्रोच्चकेन्द्रे प्रथमपदे शीघ्रोच्चात् अपनीयते, द्वितीये पदे षड्भ्यः विशोध्य शेषम् शीघ्रोच्चात् अपनीयते । तृतीये पदे चक्रार्धयुक्तम्, चतुर्थे पदे द्वादशभ्यः विशुद्धशेषम्, "शीघ्रात् प्रतिलोमगानि वृत्तानि" इति वचनात् । एवम् सीघ्रोच्चसकलफलसंस्कृतः ग्रहः भवति । तस्य मन्दोच्चसिद्धस्य च पूर्ववत् एव अन्तरार्धम् मन्दोच्चसिद्धे पूर्वकल्पनया
एव धनम् ऋणम् वा कुर्यात् । तत् मन्दशीघ्र[सिद्ध]म् अविनष्टम् विधाय तस्मात् मन्दोच्चम् विशोध्य पूर्ववत् एव मन्दोच्चम् साधयेत् । तस्य मन्दोच्चसिद्धस्य द्विसंस्कृतस्य अविनष्टस्थापितस्य च यः विशेषः तम् सकलम् एव द्विसंस्कृतहीनमध्यमात् विशोधयेत्, अधिकमध्यमे प्रक्षिपेत् । [अर्थात् द्विसंस्कृतमन्दसिद्धे ऊने सति विशोधयेत् अन्यथा प्रक्षिपेत्] । तम् एवंकृतम् शीघ्रोच्चात् विशोध्य शीघ्रोच्चप्रसिद्धकर्मणा संसिद्धः स्फुटः ग्रहः भविष्यति
इति । एतत् एव कर्म संक्षेपेण अस्माभिः कर्मनिबन्धे उक्तम् --

प्रतिमण्डलकर्म अपि योज्यम् अत्र विपशिचिता ।
मन्दोच्चे पूर्ववत् कुर्यात् शीघ्रोच्चात् तत् विशोध्यते ॥
तत् एव केवलम् शोध्यम् [चक्रार्धात् शोध्य तत् चलात्] ।
चक्रार्धसंयुतम् चापम् चक्रात् शुद्धम् च शेषयोः ॥
स्फुटवृत्तगुणाम् त्रिज्याम् भक्त्वा अशीत्या स्वकोटितः ।
त्यक्त्वा पदेषु युक्त्वा वा कर्णः प्राग्वत् प्रसाध्यते ।
मन्दोच्चसिद्धतन्मध्यविश्लेषार्धसमन्वितः ।
मन्दसिद्धे अधिके हीने रहितः मध्यमः ग्रहः ॥
स शीघ्रोच्चात् पुनर् साध्यः सिद्धयोः अन्तरालजम् ।
अर्धीकृत्य सकृत् सिद्धे पूर्ववत् परिकल्पयेत् ॥
एवंकृतस्य भूयः अपि मन्दसिद्धिम् समाचरेत् ।
मन्दसिद्धस्य तस्य अयम् विशेषः यः अभिधास्यते ॥
द्विसिद्धमन्दसिद्धस्य द्विसिद्धस्य यत् अन्तरम् ।
प्राग्वत् तत् मध्यमे कृत्वा शीघ्रसिद्धः स्फुटः ग्रहः ॥
[महाभास्करीयम्, ४.४५-५१]

अत्र शनिगुरुकुजग्रहणम् शीघ्रोच्चवत् ग्रहप्रतिपादनार्थम् । तेन बुधशुक्रयोः अपि इदम् कर्म क्रियते ।

कक्ष्यामण्डललग्नस्ववृत्तमध्ये । कक्ष्यामण्डले लग्नम् कक्ष्यामण्डललग्नम् । किम् तत्? स्ववृत्तमध्यम्, स्ववृत्तमण्डलमध्यम् । कक्ष्यामण्डललग्नम् च तत् स्ववृत्तमध्यम् च कक्ष्यामण्डललग्नस्ववृत्तमध्यम् । तस्मिन् कक्ष्यामण्डललग्नस्ववृत्तमध्ये । ग्रहः मध्यः । यः असौ मध्यः ग्रहः स कक्ष्यामण्डललग्नस्ववृत्तमध्ये भवति । एतत् उक्तम् भवति -- कक्ष्याप्रतिमण्डलयोः यत्र सम्पातः तत्र यः असौ मध्यमग्रहः,
स एव स्फुटः इति ।

[ ग्रहस्फुटीकरणे अन्येषाम् मतप्रदर्शनम् ]

अथ अन्ये अन्यथा व्याख्यानम् कुर्वन्ति । अनुलोमम् गच्छन्ति इति अनुलोमगानि । कानि? वृत्तानि, परिधयः इति अर्थः । मन्दात् । मन्दोच्चात् प्रभृति यानि मन्दोच्चवृत्तानि मन्दोच्चात् आरभ्य अनुलोमम् गच्छन्ति, यस्मात् मन्दोच्चकेन्द्रम् अहर् अहर् उपचीयते । शीघ्रात् प्रतिलोमगानि । शीघ्रात् शीघ्रोच्चात् आरभ्य यानि शीघ्रोच्चवृत्तानि तानि प्रतिलोमम् गच्छन्ति, यस्मात् शीघ्रोच्चकेन्द्रम् अहर् अहर् अपचीयते । अत्र इदम् प्रष्टव्यम् -- कथम् वा मन्दोच्चकेन्द्रम्
अहर् अहर् उपचीयते, कथम् वा शीघ्रोच्चकेन्द्रम् अहर् अहर् अपचीयते इति? उच्यते -- ग्रहात् पतिते मन्दोच्चे [मन्दकेन्द्र]भुक्तयः उपचीयन्ते, ग्रहात् पतिते शीघ्रोच्चे शीघ्रकेन्द्रभुक्तयः अपचीयन्ते । यदि एवम् ग्रहात् शीघ्रोच्चम् न पतति महत्त्वात् तर्हि मण्डलम् प्रक्षिप्य पात्यते इति । तत्र भगणाः भगणेभ्यः विशोध्याः, राशयः राशिभ्यः, भागाः भागेभ्यः, लिप्ताः लिप्ताभ्यः इति एषः क्रमः । तत्र ग्रहभगणेभ्यः शीघ्रोच्चभगणाः एव तावत् न
शुद्ध्यन्ति । कुतः असौ भगणः यम् प्रक्षिप्य शीघ्रोच्चम् विशोध्यते? तस्मात् गणितयुक्त्या यानि अपि शीघ्रवृत्तानि तानि अपि अनुलोमगानि एव । आचार्येण तु करणलाघवार्थम् "प्रतिलोमगानि वृत्तानि" इति उक्तम् । किम् पुनर् अत्र करणलाघवम्? कामचारः । यदि ग्रहः शीघ्रोच्चात् पतति तदा ग्रहः शीघ्रोच्चात् विशोध्यते । यदा च शीघ्रोच्चम् ग्रहात् पतति तदा ग्रहात् शीघ्रोच्चम् विशोध्यते इति । सत्यम् एव एतत्, किन्तु ज्यापरिधिकल्पना व्यभिचरति । यदा ग्रहात् शीघ्रोच्चम्
विशोधितम् भवति तदा अन्यथा ज्या अन्यथा परिधिः, तदानीम् एव शीघ्रोच्चात् विशुद्धे ग्रहे अन्यथा ज्या अन्यथा एव परिधिः । अथ मन्यते शीघ्रोच्चविशुद्धे ग्रहे यत् प्रथमपदम् तत् चतुर्थपदम्, यत् द्वितीयपदम् तत् तृतीयपदम्, यत् तृतीयपदम् तत् द्वितीयपदम्, यत् चतुर्थपदम् तत् प्रथमपदम् इति । एवम् तर्हि यत् ज्यायसी कल्पना, तस्मात् मन्दोच्चम् ग्रहात् विशोध्यम् । ग्रहः च शीघ्रोच्चात् । मन्दशीघ्रवृत्तानि क्रमोत्क्रमेण एव गच्छन्ति ।
कक्ष्यामण्डललग्नः । कक्ष्यायाः मण्डलम् कक्ष्यामण्डलम् । अथवा कक्ष्या च सा मण्डलम् च तत् कक्ष्यामण्डलम् । तेन कक्ष्यामण्डलेन लग्नः कक्ष्यामण्डललग्नः । कः? ग्रहः मध्यः । स्ववृत्तमध्ये । स्वस्य वृत्तम् स्ववृत्तम् । तत् च सामान्येन मन्दवृत्तम् शीघ्रवृत्तम् च परिगृह्यते । तस्य स्वमन्दवृत्तस्य [स्वशीघ्र]वृत्तस्य च मध्यम् स्ववृत्तमध्यम् । तत्र ग्रहस्य मध्यः, स च कक्ष्यामण्डलासक्तः । स्ववृत्तस्य कक्ष्यामण्डले
यथा मध्यम् भवति तथा बध्नीयात् । तस्मिन् स्ववृत्ते यथा कक्ष्यामण्डले यथा मध्यम् भवति तथा बध्नीयात् । तस्मिन् स्ववृत्ते यथा कक्ष्यामण्डले ज्या अवितिष्ठते तथा एव अवतिष्ठमाना द्रष्टव्या । कथम्? यथा कक्ष्यामण्डलस्य षण्णवत्यंशका काष्ठज्या । एवम् अत्र अपि षण्णवत्यंशका काष्ठज्या परिकल्पनीया । तत् यथा -- उच्चात् आरभ्य भुजज्याकोटिज्याभ्याम् त्रैराशिकम् -- यदि षष्टिशतत्रयपरिधौ इमे भुजज्याकोटिज्ये, [तदा] उच्चनीचपरिधौ
के इति । अथवा -- व्यासार्धेन इमे भुजज्याकोटिज्ये, ततः अन्त्यफलतुल्येन उच्चनीचवृत्तव्यासार्धेन के इति । लब्धे उच्चनीचवृत्तस्य भुजज्याकोटिज्ये । तत्र प्रथमचतुर्थयोः पदयोः व्यासार्धात् उपरि कोटिसाधनम् स्थितम् इति व्यासार्धे प्रक्षिप्यते । द्वितीयतृतीययोः पदयोः व्यासार्धोनम् प्रवृत्तम् इति व्यासार्धात् अपनीयते । एवम् कोटिका निष्पन्ना भवति, भुजाकोटिवर्गसमासमूलम् कर्णः । एवम् मन्दशीघ्रयोः कर्णोत्पत्तिः ॥ २१ ॥

[ नीचोच्चवृत्तविधिना शनिगुरुकुजस्फुटीकरणम् ]

ग्रहाणाम् ऋणधनप्रतिपादनाय आह --

क्षयधनधनक्षयाः स्युः मन्दोच्चात् व्यत्ययेन शीघ्रोच्चात् ।
शनिगुरुकुजेषु मन्दात् अर्धम् ऋणम् धनम् भवति पूर्वे ॥ २२ ॥

क्षयधनधनक्षयाः । क्षयः च धनः च धनः च क्षयः च क्षयधनधनक्षयाः । एते क्षयधनधनक्षयाः यथासङ्ख्येन पदेषु प्रत्येतव्याः । तत् यथा -- प्रथमे पदे क्षयः, द्वितीये पदे धनम्, तृतीये पदे धनम् एव, चतुर्थे पदे क्षयः इति । अयम् क्षयादिक्रमः ।

पदक्रमः च कस्मात् परिगृह्यते इति आह -- मन्दोच्चात् प्रवृत्तात् ग्रहात् । कुतः? उच्यते -- "मन्दोच्चात्" इयम् पञ्चमी मर्यादाभिधायिनी । ततः मन्दोच्चात् इति अनेन मन्दोच्चात् प्रवृत्तः ग्रहः परिगृह्यते । स कथम् मन्दोच्चात् प्रवृत्तः ग्रहः ज्ञेयः? उच्यते -- न अत्र किञ्चित् अपि ज्ञेयम् । यावद्भिः मन्दोच्चात् अधिकः ग्रहः तवता असौ मन्दोच्चात् प्रवृत्तः ग्रहः ज्ञेयः । तेन तत्परिज्ञानार्थम् मन्दोच्चम् ग्रहात् पात्यते, तत्र शेषेण राश्यादिना मन्दोच्चात्
प्रवृत्तः असौ ग्रहः भवति । तस्मात् प्रथमपदे या क्रमज्या तस्याः फलम् त्रैराशिकेन आनीयते । यदि षष्टिशतत्रयपरिधेः इयम् ज्या, तदा इष्टग्रहपरिधेः का इति फलम् लभ्यते । एतत् एव त्रैराशिकम् । झार्धापवर्तमानषष्टिशतत्रयपरिधेः अशीतिः, स्वपरिधिभागानाम् यथा उक्ताक्षरसङ्ख्या । तेन परिधिना गुणितज्यायाः अशीतिः भागहारः । स्वपरिध्यक्षरसङ्ख्या गुणकारः । लब्धम् फलम् ऋणम् एव । द्वितीयपदे उत्क्रमेण ज्या व्यवस्थिता इति,
उत्क्रमज्याफलम् धनम् । पुनर् तृतीयपदे क्रमेण ज्या व्यवस्थिता इति क्रमज्याफलम् धनम् । चतुर्थे पदे उत्क्रमेण ज्या व्यवस्थिता इति उत्क्रमज्याफलम् क्षयः । तत्र प्रथमपदे एव मन्दकेन्द्रम्, तत् उत्पन्नम् एव फलम् ग्रहमध्ये क्षयः । यदा द्वितीयपदे केन्द्रम् तदा प्रथमपदव्यासार्धज्योत्पन्नम् अशेषफलम् क्षयः, द्वितीयपदोत्क्रमज्याफलम् धनम् । प्रथमद्वितीयपदाभ्याम् तृतीयचतुर्थपदे व्याख्याते ।

अथवा करणलाघवार्थम् एवम् क्रियते -- प्रथमपदे यत् उत्पन्नम् क्रमेण ज्याफलम् क्षयः । द्वितीयपदे यत् उत्पन्नम् पुनर् यत् गतम् राश्यादिकम् अतीतम् प्रथमपदसंज्ञितराशित्रयात् क्षयात्मकात् धनात्मकम् तत् द्वितीयपदस्य यत् गतम् तत् विशोध्य शेषम् तत्र क्षयः एव अवतिष्ठते, तेन तत् उत्पन्नम् फलम् मध्यमग्रहे क्षयः । एवम् द्वितीयपदान्ते क्षयधनयोः तुल्यत्वात् न किञ्चित् अवतिष्ठते । तस्मात् सामर्थ्यतः अयम् अर्थः
संजातः -- प्रथमपदे गतज्याफलम् क्षयः, द्वितीयपदे अपि आगतज्याफलम् क्षयः । एतेन मन्दकेन्द्रफलम् मेषादिके क्षयः । तत् एतत् प्रथमपदे गतम् भुजासंज्ञितम् द्वितीयपदे अनागतम् । कोटिसंज्ञितम् [प्रथमपदे अनागतम्] द्वितीयपदे गतम् । तृतीयचतुर्थयोः च । तृतीयपदे क्रमज्याफलम् धनम् । चतुर्थपदे तृतीयपदराशित्रयात् धनात् धनसंज्ञितात् चतुर्थपदराश्यादिगतक्षयसंज्ञितम् विशोध्यते, शेषम् धनम् एव अवतिष्ठते । एवम्
चतुर्थपदान्ते धनक्षययोः तुल्यत्वात् न किंचित् अवशिष्यते । तस्मात् अत्र अपि स एव अर्थः तुलादिकेन्द्रे भुजाफलम् धनम् इति ।

सुष्ठु खलु एतत् अवगम्यते । यदि पदेषु सर्वेषु तुल्याः परिधयः तदा एवम् स्यात् । न च तुल्याः परिधयः पठ्यन्ते । अतुल्येषु च परिधिषु प्रतिमण्डलस्य च अपि अवस्था विरुध्यते । कुतः? प्रथमपदे शुक्रस्य चतुष्कः परिधिः । तत्र द्वितीयपदप्राप्तौ एव द्विकः परिधिः । तत्र अर्धपहलम् परिहीयते । ग्रहः तु गच्छन् क्रमेण गच्छति, न हरिणप्लुतेन । न एष दोषः । तुल्याः परिधयः । ननु च उक्तम् -- न च तुल्याः परिधयः पठ्यन्ते
इति । न एतत् अस्ति । एवम् विज्ञायते -- एते परिधयः उपचया[पचया]त्मकाः, यतः तेन तुल्योपचयापचयात्मकत्वात् क्रमोत्क्रमव्यवस्थायाः, यतः ते एव भवन्ति इति । तेन तुल्याः उच्यन्ते । तत् यथा -- प्रथमपदे क्रमज्याम् परिध्यन्तरेण हत्वा व्यासार्धेन लब्धम् ऊने विषमपदपरिधौ प्रक्षिप्यते, अधिके अपनीयते । प्रथमद्वितीयपदाभ्याम् तृतीयचतुर्थपदे व्याख्याते ।

व्यत्ययेन शीघ्रोच्चात् । शीघ्रोच्चकेन्द्रात् पदवशात् क्रमोत्क्रमज्याफलम् विपरीतम् । प्रथमचतुर्थयोः पदयोः धनम्, द्वितीयतृतीययोः क्षयः इति विपर्ययः । अथवा भुजाफलम् शीघ्रक्रमेण आनीतम् मेषादौ धनम्, तुलादावृणम् । परिधिचालनाद्यशेषम् पूर्ववत् एव । अत्र शीघ्रफलम् व्यासार्धेन संगुणय्य तत् उत्पन्नक्रर्णेन भागलब्धम् फलम् धनम् ऋणम् वा । एतत् च कर्म त्रैराशिकम् -- यदि व्यासार्धमण्डले इदम् फलम्
लभ्यते, तदा शीघ्रोच्चकर्णमण्डले कियत् इति व्यस्तत्रैराशिकेन व्यासार्धम् गुणकारः, कर्णः भागहारः । अत्र किम् इति व्यस्तत्रैराशिकम्? उच्यते -- "अल्पे हि मण्डले अल्पाः महति महान्तः च राशयः ज्ञेयाः" [कालक्रिया॰, १४] इति अनेन । अथ मन्दोच्चफलम् एवम् कस्मात् न क्रियते? उच्यते -- क्रियमाणे अपि तावत् एव तत् फलम् भवति इति न क्रियते । कुतः? मन्दोच्चकर्णः अविशिष्यते । तत्र च अविशेषितेन फलेन व्यासार्धम् संगुणय्य कर्णेन भागे हृते पूर्वम्
आनीतम् एव फलम् भवति इति । अथ किम् इति शीघ्रोच्चकर्णः न अविशिष्यते? अभावात् अविशेषकर्मणः ।

अथ अत्र इदम् प्रष्टव्यम् -- कक्ष्यामण्डलस्य यथा स्वयोजनकर्णः व्यासार्धः, तत् च स्वलिप्ताभिः मीयमानः वस्वग्निवेदरामाः [३४३८], प्रतिमण्डलस्य अपि एतत् एव व्यासार्धम् इति एतत् । कक्ष्यामण्डलोत्पन्नज्याफललिप्ताभिः त्रैराशिकाभावः, कक्ष्याप्रतिमण्डलयोः तुल्यव्यासार्धत्वात् । अथ मन्यते -- तत्कालोत्पन्नभुजाकोटिनिष्पन्नकर्णः व्यासार्धम् प्रतिमण्डलस्य । तेन त्रैराशिकोपपत्तिः । एवम् तर्हि न कक्ष्यामण्डलतुल्यम् प्रतिमण्डलम्
इति । अत्र उच्यते -- चतुर्थपदादौ कक्ष्याप्रतिमण्डले तुल्ये । तेन कक्ष्याप्रतिमण्डलयोः तुल्यम् व्यासार्धम् । ततः प्रभृति प्रतिमण्डलव्यासार्धम् [क्रमेण उपचीयते] । एवम् क्रमेण उपचीयमानम् उच्चतुल्यग्रहे स्वोच्चवृत्तविष्कम्भार्धम् उपचितम् भवति । तत् एव प्रथमपदादौ प्रभृति उत्क्रमेण अपचीयमानम् प्रथमपदान्ते व्यासार्धम् एव भवति । एवम् क्रमेण अपचीयमानम् द्वितीयपदान्ते उच्चवृत्तविष्कम्भार्धम् अपचितम् भवति । तृतीये
[पदान्ते] च उत्क्रमेण उपचीयमानम् इति एतत् कक्ष्यामण्डलव्यासार्धम् एव । ग्रहस्य उच्चनीचगतिक्रमात् उपचयापचयात्मकम् भवति इति अतः प्रतिमण्डलस्य उपदेशः । घनभूमध्यात् एव ग्रहस्य उच्चनीचपरिज्ञानम् इति अतः व्यासार्धम् एव कोटिफलेन उपचीयते अपचीयते वा । अथ यदि प्रतिमण्डलमध्यात् व्यासार्धस्य वृद्धिह्रासौ स्याताम् । तदा तृतीयम् मण्डलम् परिकल्पयितव्यम् स्यात् । घनभूमध्यात् कर्णस्य उपचयापचयौ, तेन तत्कर्णेन
व्यस्तत्रैराशिकोपपत्तिः इति । एतत् गणितन्यायसिद्धम् एव ।

शनिगुरुकुजेषु । शनिः च गुरुः च कुजः च शनिगुरुकुजाः । अतः तेषु शनिगुरुकुजेषु मन्दात् मन्दोच्चात् प्रभृति य[त् फलम् उपपद्यते] तत् अर्धम् ऋणम् धनम् वा भवति । पूर्वे पूर्वकर्मणि, मन्दात् प्रभृति इति । शीघ्रात् अपि च यत् फलम् तत् तेषु अर्धम् क्रियते प्रथमे शीघ्रकर्मणि । अन्यत्र द्वितीयकर्मणि मन्दशीघ्रयोः सकलफलम् इति अर्थात् अवसीयते । मन्दशीघ्रफलानि काष्ठानि ऋणम् धनम् वा परिकल्प्यते । यतः काष्ठेन ग्रहः
भ्रमति । तत् फलम् क्व ऋणम् क्व वा धनम् इति -- शनिगुरुकुजेषु । अत्र शनिगुरुकुजाः मध्यमाः एव परिगृह्यन्ते । कुतः? मध्यमस्य स्फुटीकरणोपायत्वात् । तदा हि एते स्फुटीभवन्ति ।

यदि एतत् कर्म शनिगुरुकुजेषु मध्यमेषु क्रियते, मन्दोच्चफलार्धेन मध्यमे ऋणधने कृते तस्य ऋणधनीकृतस्य मध्यमत्वम् हीयते । [अतः] शीघ्रोच्चफलचापार्धस्य अविकृतमध्यमे धनर्णे प्राप्नुतःञ्। न एतत् अस्ति । मन्दोच्चफलचापार्धधनर्णीकृतः एव भविष्यति । कुतः? "एकदेशविकृतम् अनन्यवत् भवति" इति [अष्टाध्यायी, ४.१.८३ पातञ्जलमहाभाष्यम्] एकदेशविकृतः अपि मध्यः एव । यथा देवकत्तः स्वलङ्कृतः अपि स्वम् आख्यानम्
न जहाति, न च कर्णनासावच्छेदेन अपि, एवम् अत्र अपि, द्वे कर्मणी तत्र तत्र एव मध्यमे क्रियेते । अथवा प्रथममध्यमात् मन्दोच्चायातम् फलार्धम् मध्यमोत्पन्नत्वात् मध्यमे क्रियते । यत् पुनर् शीघ्रोच्चायातम् सकृत्संस्कृतात् फलार्धम् तत् सकृत्संस्कृतायातम् एव इति कृत्वा सकृत्संस्कृतः एव क्रियते । तस्मात् द्विकर्मसंसिद्धात् मन्दोच्चफलम् तत् सकलम् एव मध्यमे ग्रहे क्रियते । स स्फुटमध्यमः भवति ।

अथ इदम् प्रष्टव्यम् -- यत् एतत् द्विकर्मसिद्धमन्दोच्चायातम् तत् द्विकर्मसंसिद्धे एव कस्मात् न क्रियते । उच्यते -- " मन्दोच्चात् स्फुटमध्याः" [कालक्रिया॰, २३] इति मध्यमे क्रियते । ननु च द्विकर्मसिद्धः अपि मध्यमः एव । कुतः? "एकदेशविकृतम् अनन्यवत् भवति" इति वचनात् । एवम् तर्हि सिद्धे, पुनर् स्फुटमध्यमग्रहणम् कुर्वन् आचार्यः ज्ञापयति अविकृतमध्यः इति । अन्यथा हि स्फुटमध्यमग्रहणम् अतिरिच्यते । तस्मात् द्वितीयफलम्
मन्दोच्चायातम् तत् सकलम् एव मध्यमे ग्रहे क्रियते ।

शीघ्रोच्चात् च स्फुटाः ज्ञेयाः इति । स एवंकृते स्फुटमध्यमः शीघ्रोच्चकर्मणा स्फुटः भवति इति स्फुटमध्यमे शीघ्रोच्चफलधनुः सकलम् क्रियते, स्फुटः भवति ।

ऋणधनयुक्तिप्रदर्शनार्थम् व्यासार्धतुल्येन कर्कटकेन समायामवनौ समवृत्तमण्डलम् आलिख्य मातृपितृरेखाम् कुर्यात् । तत् कक्ष्यामण्डलम् राशिज्यारेखाविरचितम् । तन्मण्डलकेन्द्रात् यावत्यः अभीष्टग्रहान्त्यफललिप्ताः तावति अन्तरे च दक्षिणेन केन्द्रम् कृत्वा व्यासार्धतुल्येन एव कर्कटकेन तथा एव समवृत्तमण्डलम् आलिखेत् । तत् प्रतिमण्डलम् । [कक्ष्या]मण्डलात् यावद्भिः प्रतिमण्डलम् निष्क्रान्तम् तावता व्यासार्धेन
कक्ष्यामण्डलदक्षिणोत्तररेखासंपाते केन्द्रम् कृत्वा उभयत्र वृत्तद्वयम् आलिख्य[ते । ते नीचोच्च]वृत्ते । तयोः यथा कक्ष्यामण्डले राशिज्याविकल्पः तथा करणीयम् । प्रथमचतुर्थयोः पदयोः कक्ष्यामण्डलात् उपरिस्थितत्वात् प्रतिमण्डलस्य व्यासार्धे कोटिसाधनम् प्रक्षिप्य कर्णः कृतः, तावत् प्रमाणम् सूत्रम् [प्रतिमण्डलपरिधिम्] यत्र स्पृशति तत्र स्थाने स्फुटः ग्रहः । कक्ष्यामण्डलज्या च तस्मात् पुरतः इति अर्थः । प्रथमचतुर्थयोः पदयोः
तत् उत्पन्नम् फलम् मध्यमग्रहात् अपचीयते । द्वितीयतृतीययोः पदयोः कक्ष्यामण्डलात् अधोव्यवस्थितत्वात् प्रतिमण्डलस्य, व्यासार्धात् कोटिसाधनम् अपनीय कृतः कर्णः, तावत्प्रमाणम् सूत्रम् कक्ष्यामण्डलमध्यात् प्रतिमण्डलपरिधिम् यत्र स्पृशति तत्र स्फुटः ग्रहः । स च कक्ष्यामण्डलज्याप्रदेशात् पुरतः अवतिष्ठते । तेन तत् उत्पन्नम् फलम् द्वितीयतृतीययोः पदयोः मध्यमग्रहात् उपचीयते ।

शीघ्रोच्चे पुनर् येषाम् क्षयधनधनक्षयाः स्युः मन्दोच्चात् एवम् एव शीघ्रोच्चात् इति अयम् पाठः तेषाम् इयम् ऋणधनोपपत्तिः । येषाम् पुनर् व्यत्ययेन शीघ्रोच्चात् इति अयम् पाठः तेषाम् इयम् एव उपपत्तिः विपरीता । कथम्? प्रतिमण्डले स्फुटः च ग्रहः, मध्यमः च शीघ्रोच्चपरिकल्पनाय कक्ष्यामण्डले । पुनर् केन्द्रज्या तेन प्रथमचतुर्थयोः पदयोः पृष्ठतः स्थितत्वात् मध्यमस्य केन्द्रज्याग्रहस्य आनीयमानस्य केन्द्रज्योत्पन्नम्
फलम् धनम् भवति पुरःस्थितत्वात् केन्द्रज्याग्रहस्य, द्वितीयतृतीययोः पदयोः पृष्ठतः स्थितत्वात् केन्द्रज्याग्रहस्य तत् फलम् अपनीयते । अतः एवम् मन्दशीघ्रयोः परस्परविरुद्धत्वात् उपपत्तेः, आचार्येण परमार्थस्फुटग्रहप्रदेशः भूताराग्रहविवरप्रमाणप्रदेशः दर्शितः । तेन यावत् भूताराग्रहविवरप्रमाणम् सूत्रम् कक्ष्यामण्डलमध्यात् प्रतिमण्डलपरिधिम् पदविभागेन प्रसारितम् यत्र स्पृशति, तत्र स्फुटः ग्रहः ।

अन्ये पुनर् अन्यथा पठन्ति -- शनिगुरुकुजेषु मन्दे अर्धम् ऋणम् धनम् भवति पूर्वम् इति । मन्दे मन्दोच्चे अर्धम् फलस्य ऋणम् धनम्, यदि तत् ग्रहे ऋणम् धनम् तदा तत् मन्दोच्चे धनम् ऋणम् इति अर्थात् अवसीयते । तत्र कियत् तत् फलम् मन्दोच्चे ऋणम् सत् धनम् भवति, धनम् सत् ऋणम् भवति इति उच्यते -- शीघ्रोच्चफलम् यस्मात् मन्दोच्चफलम् च फलद्वयम् एतत् । तयोः मन्दोच्चम् आधारः । फलद्वयम् आधेयः । अतः शीघ्रोच्चफलम्
क्रियते । कर्मचतुष्टयग्रहणात् तत् उत्पन्नम् च फलम् तत्र एव । तत् यथा -- प्राग् एव शीघ्रफलम् आनीय तत् अर्धम् ऋणम् धनम् वा मन्दोच्चे कृत्वा तत् मन्दायातम् च तेन फलद्वयसंस्कृतेन मन्दोच्चेन संस्कृतः स स्फुटमध्यः ग्रहः भवति । स शीघ्रकर्मणा स्फुटः इति प्रक्रियान्तरम् एतत् ॥ २२ ॥

[ प्रकारान्तरेण शनिगुरुकुजस्फुटीकरणम् ]

ग्रहाणाम् स्फुटीकरणप्रकारान्तरम् आह --

मन्दोच्चात् शीघ्रोच्चात् अर्धम् ऋणम् धनम् ग्रहेषु मन्देषु ।
मन्दोच्चात् स्फुटमध्याः शीघ्रोच्चात् च स्फुटाः ज्ञेयाः ॥ २३ ॥

मन्दोच्चात् यत् फलम् आयातम् तस्य चापार्धम् ऋणम् धनम् वा ग्रहेषु ऋणम् धनम् [मन्देषु वा कर्तव्यम्] । एवम् तर्हि चकारः कर्तव्यः । चकारेण विना ग्रहेषु मन्देषु च इति चार्थः न लभ्यते । न चकारः कर्तव्यः । अन्तरेण अपि चकारम् चार्थः अवगम्यते । [कथम्?] एवम् --

बाले वृद्धे क्षते क्षीणे क्षीरम् युक्त्या प्रयोजयेत् ।

इति अत्र चकारेण विना चार्थस्य अवगमनात् । एवम् अयम् अपि । "स्व"मन्देषु अपि वक्तव्यम्, येन स्वेषु मध्यमेषु स्वेषु च मन्देषु क्रियते । "स्व"शब्दः अपि न कर्तव्यः । स्वस्य ग्रहस्य यः मध्यमः स्वस्य च यत् मन्दम् तत्र एव कर्मसिद्धेः । यथा "मातरि वक्तव्यम् पितरि शुश्रूषितव्यम्" इति । न च तत्र उच्यते -- "स्वस्याम् मातरि स्वस्मिन् वा पितरि" इति । एवम् अत्र अपि इति ।

अथ यत् एतत् मन्दोच्चायातम् फलार्धम् तत् क्षयधनक्रमेण मध्ये ग्रहे धनम् ऋणम् वा क्रियते । मन्दे पुनर् कथम् क्रियते, मन्दस्य ऋणधनक्रमस्य अनभिधानात्? उच्यते -- मन्दोच्चम् सर्वदा एव ग्रहस्य ऋणभूतम् । तत्र यत् ग्रहस्य ऋणम् तत् मन्दोच्चे प्रक्षिप्यते, ऋणभूतत्वात् । यत् ग्रहे धनभूतम् तत् मन्दोच्चात् अपनीयते, मन्दोच्चस्य ऋणभूतत्वात् एव । अयम् च गणितन्यायः --

ऋण[ऋणयोः धन]धनयोः संक्षेपः ऋणधनयोः च विशेषः ।

इति । तस्मात् अनेन क्रमेण मन्दोच्चे फलार्धस्य उपचयापचयौ भवतः । शीघ्रोच्चात् च यत् फलार्धम् तत् अपि एवम् एव ग्रहवैपरीत्येन मन्दे धनम् ऋणम् वा क्रियते । ग्रहेषु पुनर् प्रयोजनाभावात् न क्रियते ।

मन्दोच्चात् । मन्दोच्चशीघ्रोच्चफलार्धेन संस्कृतम् मन्दोच्चम् परिगृह्यते । कुतः? कर्मद्वयवृत्तौ मन्दनिर्देशात् । तेन तादृग्विधेन मन्देन मध्यमात् विशोधितेन यत् फलम् आयातम् तत् सकलम् मध्येषु ऋणम् धनम् वा क्रियते । स्फुटमध्याः । [मध्यमस्य] स्फुटस्य अन्तर्वर्तित्वात् [स्फुटाः ये न, न अविकृतेषु] मध्यमेषु फलस्य करणात् मध्यमाःञ्। अथवा स्फुटस्य मध्यमाः स्फुटमध्यमाः । एकेन कर्मणा निष्पन्ना येन
द्वितीयम् कर्मान्तरम् अपेक्षन्ते । शीघ्रोच्चात् च स्फुटाः ज्ञेयाः । शीघ्रोच्चात् आयातम् फलम् तेन संस्कृताः स्फुटाः । चकारः फलयोः समुच्चयम् अभिधत्ते । ज्ञेयाः अवगन्तव्याः बोद्धव्याः इति यावत् ॥ २३ ॥

[ भृगुबुधयोः स्फुटीकरणम् ]

भृगुबुधयोः कर्म आह --

शीघ्रोच्चात् अर्धोनम् कर्तव्यम् ऋणम् धनम् स्वमन्दोच्चे ।
स्फुटमध्यौ तु भृगुबुधौ सिद्धात् मन्दात् स्फुटौ भवतः ॥ २४ ॥

शीघ्रोच्चात् इति प्राक् शीघ्रोच्चनिष्पन्नम् फलम् गृह्यते । तत् एव शीघ्रोच्चफलम् अग्रे । तत्र तत् अर्धोनम् अर्धम् इति अर्थः । ऋणधनम् कर्तव्यम् । यदि ग्रहे ऋणम् तदा धनम् कर्तव्यम् । धनस्य ऋणम् कर्तव्यम् इति अर्थात् अवसीयते । क्व इति आह -- स्वमन्दोच्चे । स्वकीयम् मन्दोच्चम् स्वमन्दोच्चम्, तस्मिन् स्वमन्दोच्चे । स्फुटमध्यौ भृगुबुधौ भवतः । कथम्? सिद्धात् मन्दात् । यत् एव शीघ्रोच्चफलार्धेन संस्कृतम् मन्दोच्चम् तत् सिद्धम्
इति अभिधीयते । तस्मात् सिद्धात् मन्दात् स्फुटमध्यौ भवतः । एतत् उक्तम् भवति -- यत् एत[त् सिद्धमन्दम् तत् मध्यम]ग्रहात् विशोध्य शेषफलस्य च ऋणधनेन तयोः भृगुबुधयोः मध्यौ स्फुटमध्यौ भवतः । "तु"-शब्दात् "शीघ्रोच्चात् च स्फुटाः ज्ञेयाः" [कालक्रिया॰, २३] इति एतत् क्रियते ॥ २४ ॥

[ भूताराग्रहान्तरालम् ]

[भूताराग्रहा]न्तरालप्रमाणानयनाय आह --

भूताराग्रहविवरम् व्यासार्धहृतः स्वकर्णसंवर्गः ।
कक्ष्यायाम् ग्रहवेगः यः भवति स मन्दनीचोच्चे ॥ २५ ॥

ताराग्रहाणाम् भुवः च यत् अन्तरम् तस्य आनयनोपायः उच्यते । भूताराग्रहविवरम् भुवः ताराग्रहस्य च यत् अन्तरम् तत् भूताराग्रहविवरम् भवति इति वक्ष्यति । व्यासार्धहृतः स्वकर्णसंवर्गः । व्यासार्धम् त्रिज्या । त्रिज्यया हृतः व्यासार्धहृतः । स्वकर्णयोः संवर्गः स्वकर्णसंवर्गः । एतत् उक्तम् भवति -- मन्दोच्चकर्णस्य शीघ्रोच्चकर्णस्य च यः घातः सः स्वकर्णसंवर्गः व्यासार्धहृतः । कक्ष्यायाम् ग्रहवेगः । तावत् उच्छ्रितायाम्
[कक्ष्यायाम्] ग्रहस्य यः मन्दशीघ्रोच्चफलजनितः वेगः स तस्य भूताराग्रहविवरस्य अग्रे भवति इति । अतः एव भूताराग्रहविवरम् विक्षेपानयने भागहारः ।

अपरे आहुः -- न भूताराग्रहविवरम् भागहारः । कः तर्हि? व्यासार्धम् । यस्मात् एतत् अत्र त्रैराशिकम् -- यदि त्रिज्यया स्वग्रहाभिहितविक्षेपः लभ्यते, अनया अभीष्टग्रहस्वपातविवरान्तरालांशज्यया भुजज्यया किम् इति । न एतत् सम्यक् अवसीयते । यदि इदम् एव त्रैराशिकम् स्यात्, तदा नक्षत्रताराग्रहशशियोगाः सर्वदा तस्याम् एव दिशि तुल्यविक्षेपविवराः स्युः, नक्षत्रताराणाम् उच्चनीचगत्यसम्भवात् । दृश्यन्ते च अमी ग्रहनक्षत्राणाम् दूरासन्न[वशात्]
भेदांशुमर्दनसव्यापसव्ययोगगत[यः । यदि व्यासार्ध]म् एव भागहारः स्यात् तदा सर्वे एव तुल्यगतयः स्युः । भूताराग्रहविवरम् । भूताराग्रहविवरवशात् विक्षेपः अल्पः महान् च नक्षत्रताराग्रहयोगेषु लभ्यते । [अल्पे वा] महद्विक्षेपे दक्षिणोत्तरदिग्वशात् नियतविक्षेपान्तरदिशः योगाः उपपद्यन्ते । तस्मात् भूताराग्रहविवरम् एव भागहारः । एतत् अपि कर्म त्रैराशिकद्वयम् । कथम्? यदि व्यासार्धतुल्यया पातान्तरभुजज्यया यथास्वम् विक्षेपः
अल्पः महान् च लभ्यते, तदा अन[या भुज]ज्यया पातान्तरोत्पन्नया कः इति विक्षेपः लभ्यते । [अतः] पुनर् अपि व्यस्तत्रैराशिकम् -- यदि अयम् विक्षेपः कक्ष्यामण्डले व्यासार्धविष्कम्भे लभ्यते, तदा परमार्थप्रतिमण्डले भूताराग्रहविवरविष्कम्भार्धे कियान् इति । पूर्वत्रैराशिके व्यासार्धम् भागहारः आसीत्, तत् एव द्वितीयत्रैराशिके व्यस्तत्वात् गुणकारः । अतः गुणकारभागहारयोः नष्टयोः, पातान्तरभुजज्यायाः विक्षेपः गुणकारः, भूताराग्रहविवरम्
भागहारः, फलम् इष्टग्रहस्य विक्षेपः । एवम् इष्टग्रहयोः विक्षेपावभिन्नदिक्कौ विशिष्यते, यस्मात् अपक्रममण्डलात् तौ प्रवृत्तौ । ततः तद्विशेषतुल्यम् तयोः अन्तरम् भवति, तत्र अपि तयोः ऊनाधिकविक्षेपवशात् परस्परापेक्षया [तयोः याम्योत्तरदिक्त्वम्] । भिन्नदिक्कौ विक्षेपौ योज्यते । यस्मात् एकः अपक्रममण्डलात् दक्षिणेन अपरः उत्तरेण, तस्मात् तदन्तरम् [विक्षेपयोग]प्रमाणम् भवति । विक्षेपलिप्तान्तरचतुर्भागः अङ्गुलप्रमाणम् वाच्यम्
। यदा पुनर् अन्तरलिप्ताः न स्युः, अल्पाः वा [स्युः] तदा तयोः अन्योन्याशेषात् छादनम् एकदेशात् छादनम् वा [भवति] । तत्र ग्रहणवत् इष्टग्रहसंपर्कार्धतद्विक्षेप[विश्लेषेण योगेन वा] स्थित्यर्धनाडिकानयनम् ।

[ ताराग्रहाणाम् स्फुटयोजनकर्णानयनम् ]

अथ नक्षत्रताराग्रहयोगेषु नतिलम्बनपरिज्ञानार्थम् इदम् कर्म क्रियते । "शशिङञणनमांशकाः" [गीतिका॰, ७] इति अत्र शशियोजनकर्णः ङादिभिः गुणितः शुक्रादीनाम् भागहाराः भवन्ति इति व्याख्यातम् । तेन शशियोजनकर्णः पञ्चभिः गुणितः शुक्रस्य योजनकर्णः भवति दशभिः गुरोः, पञ्चदशभिः बुधस्य, विंशत्या शनेः, पञ्चविंशत्या अङ्गारकस्य । यदि एवम् तर्हि ग्रहाणाम् कक्ष्याभिधानम् विरुध्यते । न एषः दोषः । तावत् कक्ष्यास्थाः
एव ग्रहाः, अत्र पुनर् ङादिगुणकारैः दृष्टिपरिकर्म क्रियते इति । अयम् योजनकर्णः भूताराग्रहविवरगुणितः व्यासार्धहृतः स्फुटः भवति । एतत् अपि त्रैराशिकम् -- यदि व्यासार्धलिप्ताभिः एतावन्ति योजनानि लभ्यन्ते भूताराग्रहविवरलिप्ताभिः कियन्ति इति, अथवा त्रैराशिकद्वयैकीकरणेन अभीष्टग्रहस्फुटयोजनकर्णः आनीयते । कथम्? भूताराग्रहविवरानयने व्यासार्धम् भागहारः आसीत्, इह च भूताराग्रहविवरस्वमध्यमयोजनकर्णाभ्यासस्य
व्यासार्धम् एव भागहारः । अतः भागहारयोः संवर्गः मन्दोच्चशीघ्रोच्चकर्णस्वमध्यमयोजनकर्णाभ्यासस्य भागहारः । फलम् स्फुटयोजनकर्णः । तयोः अयम् अर्थः सञ्जातः -- मन्दशीघ्र[कर्ण]गुणितः मध्यमयोजनकर्णः व्यासार्धकृतिविभक्तः स्फुटयोजनकर्णः भवति । मन्दनीचोच्चे मन्दस्य मन्दोच्चस्य उच्चे नीचे च आनीतः मन्दकर्णः एव अनेन विधिना स्फुटीकृतः इति ।

[ ग्रहस्फुटीकरणे विशेषः ]

अथ विवस्वद्धनर्णोदयास्तमयवशात् सामान्यसर्वग्रहाणाम् स्फुटगणितविधिविशेषः अभिधास्यते । तत् यथा -- सवितुः भुजाफलेन रव्यादिभुक्तयः गुणिताः खखषड्घनेन विभज्य आप्तकला ग्रहेषु भुजाफलधनर्णवशात् क्रियते । तत् विचार्यते -- इदम् कर्म अनुपदिष्टम् कथम् अवगम्यते? न एषः दोषः । उपदिष्टम् एव एतत् -- "बुधाह्न्यजार्कोदयात् च लङ्कायाम्" [गीतिका॰, ४] इति । अर्कोदयावधेः गतेः एतेषाम् प्रतिपच्छेदौ इति उपदेशात्
अर्कः हि स्फुटगणितावगतगतेः एव उदयशिखरमध्यास्ते इति स्फुटस्य अर्कस्य उदयः परिगृह्यते । स्फुटगतिः च मध्यमा एव स्वभुजाफलादिलिप्ताभिः उपचितापचिता वा इति अतः भुजाफललिप्ताभिः प्राणतुल्याभिः त्रैराशिकम् क्रियते -- यदि अहोरात्रप्राणैः खखषड्घनतुल्यैः विवस्वदादिस्फुटभुक्तयः लभ्यन्ते, भुजाफललिप्ताभिः प्राणतुल्याभिः किम् इति । आसाम् भुजाफललिप्तानाम् प्राणतुल्यत्वम् इति । अत्र उच्यते -- रव्युदयात् एव ज्योतिश्चक्रादेः अपि
उदयादिः इति व्याख्यातम् । तेन प्रवहाक्षेपात् मध्यमः सर्वदा स्वभुजाफलेन अधिकः ऊनः वा भवति । यदा अधिकः तदा ज्योतिश्चक्रम् भुजाफललिप्तातुल्यम् रविगत्या जीयते, [ऊनः चेत् भुजाफललिप्तातुल्यम् रविगत्या अपचीयते] इति । अनया परिकल्पनया ज्योतिश्चक्रसम्बन्धिन्यः तदा भुजाफललिप्ताः भवन्ति, ज्योतिश्चक्रलिप्ताः प्राणाः च तुल्याः इति । अतः तासाम् प्रा[णतुल्यभुजाफललिप्तानाम् अभावः, अहर्गणात् आग]तः [सकलः सूर्यः] यदा स्वोच्चतुल्यः तदा
एव उदये भवति इति । अन्यथा तत्र अपि भुजान्तरफलम् क्रियते एव । अर्कः हि स्फुटगणि[तावगतेः एव उदय]शिखरमध्यास्ते इति ।

एवम् एतेषाम् विवस्वदादीनाम् ग्रहाणाम् स्फुटगतयः सूर्योदयावधेः भवन्ति इति अतः रवि[वशात् एव उपचयापच]यात्मकम् फलम् क्रियते । देशान्तरचरदलकर्मणी च अनया एव उपपत्त्या । अर्धरात्रास्तमयदिनमध्यसंस्थितसूर्या[त् त्रैराशिकम्] -- यदि षष्ट्या नाडीभिः यथास्वम् मध्यमा भुक्तिः लभ्यते तदा पञ्चदशभिः घटिकाभिः त्रिंशता पञ्चचत्वारिंशद्भिः च किम् इति [फललि]प्ताः औदयिकेभ्यः ग्रहेभ्यः विशोध्यन्ते, ततः तेन
रव्यादयः तात्कालिकाः भवन्ति । तेषाम् च स्फुटप्रक्रिया पूर्वाभिहिता एव । [दिनमध्यार्धरात्रयोः चर]दलकर्म न प्रवर्तते । क्षितिजमण्डलप्राप्त्यतिक्रान्ती रव्युदयास्तमययोः एव इति । एवम् आदित्यगत्यवधयः ग्रहाः ।

यदा पुनर् पर[स्य ग्रहस्य रवेः इव] कल्प्यन्ते तदा चन्द्रोद[यज्ञा]नेन उदयकालम् एव अवगत्य तदुदयकालावधयः क्रियन्ते ।

[तिथिप्रतिपच्छेदपरिज्ञानम् ]

एवम् यथोपदिष्टगणितप्रक्रिय[या तिथि]प्रतिपच्छेदपरिज्ञानाय उच्यते । तत् यथा -- स्फुटशशिनः स्फुटः रविः अपनीयते, यस्मात् तिथिः शशिमासवशात् भवति तेन "रविशशियोगाः भवन्ति [शशिमासाः" [कालक्रिया॰, ५] इति स्फुटविधो]रिनः अपनीयते । यथासम्भवम् अत्र भगणः न सम्भवति इति राश्यादयः एव राश्यादिभ्यः अपनीयन्ते । अथवा क[ल्पादितः ये रविघगणाः] भुक्ताः ते शशिभगणेभ्यः विशोध्यन्ते, राश्यादिभ्यः राश्यादयः इति । तत्र
अवशिष्टाः शशिमासादयः भवन्ति । [मासानाम् प्रयोजनाभावः इ]ति मासाः त्यज्यन्ते ।

तत्र ये अवशिष्टाः राश्यादयः वर्तमानशशिमासस्य अवयवभूताः तैः लिप्तीकृतैः त्रैराशि[कम् -- यदि खखषड्घन]तुल्येन सूर्याचन्द्रमसोः विशेषेण शशिमासः लभ्यते तदा आभिः चन्द्रादित्यविशेषलिप्ताभिः कियच्छशिमास्[आः इति सम्पूर्ण]मासम् न प्रयच्छति इति दिवसाः क्रियन्ते । "त्रिंशद्दिवसः भवेत् स मासः" [कालक्रिया॰, १] इति त्रिंशत्कः गुणकारः । तत्र गुणकारभागहारयोः अपवर्तने [त्रिंशतः त्रिंशद्भागेन एकम्] खखषड्घनस्य
तावद्भागेन सप्तशतानि विंशत्यधिकानि । सप्तशत्या विंशत्युत्तरया रविचन्द्रविवरलिप्ताः विभज्यन्ते । [फलम् गततिथयः व]र्तमानशशिमासस्य शुक्लप्रतिपत्प्रवृत्ताः, तत्र शेषलिप्ताः वर्तमानतिथेः भुक्ताः, तद्विशुद्धाः भागहारलिप्ताः भोज्याः इति । अतः ताभिः भुक्तभोज्यलिप्ताभिः त्रैराशिकम् -- यदि तत् अहः सूर्याचन्द्रमसोः स्फुटभुक्त्यन्तरलिप्ताभिः एकः शशिदिवसः लभ्यते ततः आभिः भुक्तभोज्यलिप्ताभिः कियान् शशिदिवसस्य लभ्यते इति, तत्र
दिवसेषु भागम् न प्रयच्छन्ति इति नाड्यः क्रियन्ते । "षष्टिः नाड्यः दिवसः" [कालक्रिया॰, १] इति षष्ट्या सङ्गुणय्य स्फुटभुक्त्यन्तरलिप्ताभिः भागलब्धाः भुक्तभोज्याः तिथेः नाड्यः सूर्योदयावधेः गताः गन्तव्याः वा भवन्ति इति ।

[ सूर्याचन्द्रमसोः समलिप्तीकरणम् ]

इष्टकालावधेः वा पर्वणि समलिप्ताविधानम् । गतगन्तव्यताम् पर्वणः विधाय गतगन्तव्यलिप्ताभिः त्रैराशिकम् । तत् यथा -- यदि सूर्याचन्द्रमसोः तद्दिनस्फुटभुक्त्यन्तरलिप्ताभिः सूर्याचन्द्रमसोः स्फुटभुक्तिः यथास्वम् लभ्यते ततः आभिः गतगन्तव्यतिथिलिप्ताभिः कियत्यः स्फुटभुक्तिलिप्ताः इति लब्धाः लिप्ताः रवौ गन्तव्यपर्वणि प्रक्षिप्यन्ते, शशिनि च । अथ गतपर्वणि तयोः एव यथास्वम् त्रैराशिकायातलिप्ताः विशोध्यन्ते । एवम्
गन्तव्यगतपर्वणः पर्यवसानकालिकौ समलिप्तौ भवतः इति गणितपादे अपि अस्माभिः "भुक्तेः विलोमविवरे" [गणित॰, ३१] इति अस्याम् आर्यायाम् संक्षेपतः अभिहितम् इति कृत्वा इह तु विस्तरेण प्रदर्शितम् ।

[ चन्द्रनक्षत्रप्रतिपच्छेदपरिज्ञानम् ]

चन्द्रयुक्तेन नक्षत्रेण व्यवहारः इति प्रत्यहम् चन्द्रयुक्तनक्षत्रप्रतिपच्छेद [परिज्ञानम्] क्रियते । तत् यथा -- शशिलिप्ताभिः त्रैराशिकम् -- यदि मण्डललिप्ताभिः खखषड्घनतुल्याभिः सप्तविंशतिः नक्षत्राणि लभ्यन्ते ततः [आभिः चन्द्रगतलिप्ताभिः किम् इति । अत्र गुणकारभागहारयोः अप]वर्तनम् क्रियते । सप्तविंशतेः सप्तविंशतिभागेन एकम् खखषड्घनस्य अपि तावत्भागेन अष्टौ [शतानि, अतः शशिलिप्ता]नाम् अष्टाभिः शतैः भागे
नक्षत्राणाम् अश्विन्यादीनाम् [यानि गतानि तेषाम् संख्या] लभ्यते । शेषे गतगन्तव्यम् कृत्वा वर्तमानस्य नक्षत्रस्य गतगन्तव्याः नाड्यः साध्यन्ते । कथम्? यदि स्फुटभुक्त्या षष्टिः नाड्यः लभ्यन्ते, आभिः गतगन्तव्यलिप्ताभिः कियत्यः इति गतगन्तव्यनाड्यः लभ्यन्ते । शशिभुक्तेः अहोरात्रकालावधिनिष्पन्नत्वात्, अहोरात्रस्य च प्रमाणम् षष्टिः नाड्यः इति षष्ट्या त्रैराशिकम् क्रियते ॥ २५ ॥

इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्ये कालक्रियापादः समाप्तः ॥

गोलपादःसम्पाद्यताम्

[मङ्गलाचरणम् ]
नमः सन्मङ्गलज्ञानपूर्णकुम्भाय राजते ।
सुरासुरशिरोघृष्टपादपीठाय वेधसे ॥

[ गोलबन्धः ]

कालक्रियानन्तरम् गोलम्, "त्रीणि गदति गणितम् कालक्रियाम् गोलम्" इति उक्तत्वात् । गम्यते ज्ञायते अस्मात् इति गोलम् । किम् पुनर् अस्मात् गम्यते? ग्रहभ्रमणधरित्रीसंस्थानादीनि सर्वम् । एवम् परमार्थजिज्ञासवः हि असत्यपूर्वकम् सत्यम् प्रतिपद्यन्ते । तत् यथा भिषजः हि उत्पलनालादिषु सिरावेधनादीनि प्रतिपद्यन्ते, यज्ञशस्त्रविदः शुष्केष्ट्या यज्ञादीनि [प्रतिपद्यन्ते], वैयाकरणाः प्रकृतिप्रत्ययलोपागमवर्णविकारादिभिः साधुशब्दम् प्रतिपद्यन्ते,
एवम् अत्र अपि सांवत्सराः वृत्तशलाकासूत्रावलम्बकादिभिः क्षेत्रगणितविशेषैः पारमार्थिकम् गोलम् प्रतिपद्यन्ते । तस्मात् दिङ्मात्रप्रदर्शनम् एव एतत् आरभ्यते, अशक्यत्वात् अशेषप्रदर्शनस्य । कः हि चित्रयन् निमेषोन्मेषादि अपि चित्रयति । तस्मात् श्रीपर्णिवञ्चुलकाष्ठयोः अन्यतमम् अर्धवृत्तचक्रस्वरूपम् क्राकचिकैः वृत्तम् एकम् निष्पादयेत् । ततः सुघटितार्धवृत्तद्वयेन त्रिभिः वा सुघटितवृत्तशकलैः वृत्तम् एकम् निर्मापयेत् । तत्र वृत्तशकलसन्धिच्छेदाः
त्रयः शुरपुङ्खपार्श्वच्छेदावयवार्धच्छेदः इति । तत्र एतेषाम् अन्यतमेन वृत्तशकलानि अन्योन्यम् घटयेत् । ताम्रकीलकैः तत्र एवम् निष्पन्नम् एकम् वृत्तम् पूर्वापरम् निधाय द्वितीयम् दक्षिणोत्तरम् उपरि अधः च जनितस्वस्तिकम् स्वस्तिकसम्पाते च मण्डलद्वयम् अर्धच्चेदेन छित्वा तथा संयोज्यम् यथा एकम् एव वृत्तम् लक्ष्यते । तौ विहितार्धच्छेदेन स्वस्तिकचतुष्टयम् प्रवेश्य निश्चलम् निदध्य ताम्रकीलकैः निश्चलीक्रियते ।

ततः तयोः मण्डलयोः बहिः परिकरवत् दिक्चतुष्टयजनितस्वस्तिकम् अन्यम् तथा एव अर्धच्छेदेन स्वस्तिकचतुष्टयम् प्रवेश्य निश्चलम् निदध्यात् । पूर्वापरमण्डलम् षष्ट्यङ्काङ्कितम् कारयेत्, यथा एकैकस्मिन् चतुर्भागे पञ्चदश पञ्चदशाङ्काः स्युः । ते च अहोरात्रघटिकाः । एवम् परिशेषम् मण्डलद्वयम् अपि, एकैकम् षष्टिशतत्रयाङ्कितम् [कारयेत्] । तानि विषुवत् [याम्य उत्तरक्षितिज]मण्डलानि । तत् तुल्यम् एव अपरम् मण्डलम् षष्टिशतत्रयाङ्कितम्
पूर्वस्वस्तिके अपरस्वस्तिके च तिर्यक् त्रिभागच्छेदम् कृत्वा द्वौ त्रिभागौ मण्डलप्रदेशस्य स्वस्तिकम् घटयेत् । यथा वा मण्डलत्रयसम्पातम् एकम् एव लक्ष्यते तथा अवछेदः कल्पनीयः । पूर्वापरदक्षिणोत्तरमण्डलयोः यः अधः स्वस्तिकः तस्मात् उत्तरेण उत्तरशलाकायाम् चतुर्विंशतिभागे तथा एव अर्धच्छेदेन स्वस्तिकम् कारयेत् । उपरि अपि तथा एव उपरिस्वस्तिकात् दक्षिणेन [दक्षिण]शलाकायाम् चतुर्विंशतितमे भागे स्वस्तिकम् कारयेत् । सर्वत्र निश्चलीकरणम्
ताम्रकीलकैः । एवम् तिर्यक् राशिपदः व्यवस्थितः । स एव अपमण्डलम् इति उच्यते । तावत्प्रमाणम् एव अन्यत् मण्डलम् सञ्चारि यत्र चन्द्रमसः सम्पातः वर्तते तस्मिन् बध्वा ततः उत्तरेण परतः निवतितमे भागे यथा च अर्धपञ्चमभागाः तस्य च अपक्रममण्डलस्य च अन्तरे भवन्ति तथा विधाय पातभागे चक्रार्धान्तरे बधीयात् । एवम् ततः दक्षिणेन नवतितमे भागे अर्धपञ्चमा भागाः तस्य अपक्रममण्डलस्य च यथा अन्तरे भवन्ति तथा
निदध्यात् । एवम् तत् विमण्डलम्, तत् एव विक्षेपमण्डलम् इति उच्यते ।

एवम् अन्येषाम् अपि स्वेभ्यः स्वेभ्यः पातभागेभ्यः अपि मण्डलानि । बुधशुक्रयोः शीघ्रोच्चाभ्याम् । स्वाहोरात्रमण्डलानि अपि सञ्चारीणि -- विषुवतः उत्तरेण मेषापक्रमकाष्ठतुल्यान्तरे पूर्वापरायतम् मण्डलम् मेषस्य अहोरात्रमण्डलम्, वृषान्तापक्रमतुल्यकाष्ठान्तरे वृषस्य, मिथुनान्तापक्रमतुल्यकाष्ठान्तरे मिथुनस्य, तानि एव उत्क्रमेण कर्कटकसिंहकन्यानाम्॑ एवम् [विषुवतः] दक्षिणेन तुलावृश्चिकधनुषाम् स्वाहोरात्रमण्डलानि,
तानि एव उत्क्रमेण मकरकुम्भमीनानाम् । स्वाहोरात्रमण्डलेषु दक्षिणोत्तरायतानि सूत्राणि बध्नीयात् । तेषाम् अर्धानि अपक्रमज्याः । मेषस्य अहोरात्रमण्डलेन उन्मण्डलस्य यत्र सम्पातः तत्र सूत्रस्य एकम् अग्रम् बध्वा मीनस्य अहोरात्रोन्मण्डलसम्पाते द्वितीयम् अग्रम् बध्नीयात् । भूमध्यावभेदिसूत्रम् विषुवता सह बध्नीयात्, तस्य प्रथमसूत्रस्य च यत्र सम्पातः तत्र प्रथमसूत्रार्धम् भवति । एवम् अन्येषाम् सूत्राणाम् अर्धानि । तानि
सर्वाणि अहोरात्रापक्रमज्याः सन्ति । अशक्यत्वात् क्वचित् तु प्रदर्श्यन्ते । यानि विक्षेपापक्रमस्वाहोरात्रमण्डलानि व्याख्यातानि [तानि न] प्रदर्श्यन्ते । अन्यथा कालसमः गोलः भ्रमयितुम् न शक्यते, मण्डलबहुत्वात् ।

अथ सुश्लक्ष्णाम् ऋज्वीम् अयःशलाकाम् गोपुच्छायतवृत्ताम् दक्षिणोत्तरस्वस्तिकावभेदिनीम् निर्गतोभयाग्राम् पञ्जरभारसहाम् निदध्यात् । तन्मध्ये भुवम् समवृत्ताम् मृदा अन्येन वा रचयेत् । एवम् अयम् एकः एव पञ्जरः सर्वेषाम् ग्रहाणाम् । यस्मात् भिन्नकक्ष्यास्थाः अपि ग्रहाः एककक्ष्यागताः एव उपलक्ष्यन्ते, तस्मात् अयम् एव एकः पञ्जरः । अथवा सर्वेषाम् एव पृथक् पृथक् पञ्जराः यावत् तावत् परिच्छिन्नस्वकक्ष्याप्रमाणाः एव प्रदर्शयितव्याः
।

अथवा पञ्जरस्य बहिः [दक्षिणोत्तर]स्वस्तिकयोः अयःशलाकायाम् त्र्यङ्गुलाम् चतुरङ्गुलाम् वा श्लक्ष्णाम् शरदण्डिकाम् निश्चलाम् निदध्यात् । ततः यावत्तावत्प्रमाणपरिच्छिन्नखकक्ष्यापरिकल्पितम् उभयतः चक्रार्धान्तरकृतवेधम् [मण्डलम्] दक्षिणोत्तरावगाहि निधाय तस्य मध्ये पञ्जरम् प्रवेश्य ताम् अयःशलाकाम् उभयत्र पार्श्ववेधौ प्रवेशयेत्, यथा सा शरदण्डिका पञ्जरद्वयसीमावगाहिनी भवति । तावत्प्रमाणम् एव अन्यद्वृत्तम्
पूर्वापरावगाहि उपरि अधः च जनितस्वस्तिकम् पूर्ववत् निदध्यात् । तत् सममण्डलम् । पुनर् अपि तावत् एव अन्यत् मण्डलम् परिकरवत् दिक्चतुष्टयजनितस्वस्तिकम् दक्षिणोत्तरस्वस्तिकसम्पातकृतवेधम् उभयत्र लोहशलाकाम् प्रवेश्य निश्चलम् निदध्यात् । तत् क्षितिजमण्डलम् । एवम् अयम् गोलः विषुवति समः एव अवतिष्ठते । विषुवतः उत्तरेण यावान् अक्षः तावत्सु भागेषु खगोलोत्तरस्वस्तिकात् उपरि वेधम् कारयेत्, दक्षिणतः च तावति एव अन्तरे [अधः] वेधः
। पूर्ववेधाभ्याम् अयःशलाकाम् निष्कास्य स्वदेशाक्षभागप्रमाणपरिकल्पितवेधयोः प्रवेशयेत् । एवम् स्वविषयाक्षप्रमाणेन अवस्थितः गोलः, तत्र सर्वम् एव प्रदर्शयेत् । अथ खगोलप्रमाणम् एव अन्यद्वृत्तम् उभयतः चक्रार्धान्तरकृतवेधम् उत्तरः निर्गतायःशलाकाग्रम् प्रवेशयेत् । द्वितीयवेधम् दक्षिणतः निर्गतायःशलाकाग्रम् प्रवेशयेत् । तत्र तत् निश्चलम् निधाय, तस्य पूर्वापरस्वस्तिकसम्पाते पूर्ववत् तिर्यग्भेदेन पूर्वापरस्वस्तिकयोः
निश्चलम् तत् मण्डलम् निदध्यात् । तत् उन्मण्डलम् इति आचक्षते । सर्वाणि एव वृत्तानि षष्टिशतत्रयभागाङ्कितानि कारयेत् ।

अन्ये पुनर् समायामवनौ खगोलार्धप्रमाणम् अवटम् खात्वा तत्र यथा क्षितिजमण्डलम् उपरि भवति तथा अर्धनिमग्नम् खगोलम् निधाय दर्शयन्ति । एवम् अयम् काष्ठमयः गोलः क्रियते । काष्ठासम्भवे परिपक्वाल्पसुषिरश्लक्ष्णवंशशलाकावृत्तैः वा गोलः क्रियते । एवम् गोलम् बध्वा सर्वम् एव अवशेषम् शास्त्रे व्याख्यायते ।

[ भगोले अपक्रममण्डलम् ]

अत्र आदितः एव तावत् अपक्रममण्डलम् आह --

मेषादेः कन्यान्तम् समम् उदक् अपमण्डलार्धम् अपयातम् ।
तौल्यादेः मीनान्तम् शेषार्धम् दक्षिणेन एव ॥ १ ॥

मेषादेः मेषस्य आदिः मेषादिः, तस्मात् मेषादेः, कन्यान्तम् अन्तम् पर्यवसानम्, कन्यायाः अन्तम् कन्यान्तम्॑ मेषादेः आरभ्य यावत् कन्यान्तम् । समम् तुल्यम् । उदक् उत्तरेण । अपमण्डलार्धम् । अपमण्डलस्य अपक्रममण्डलस्य अर्धम्, अपक्रममण्डलार्धम् । अपयातम् तिर्यक् व्यवस्थितम् । तौल्यादेः तौलिनः आदिः तौल्यादिः, तस्मात् तौल्यादेः, मीनस्य अन्तम् मीनान्तम्॑ तौल्यादेः आरभ्य यावत् मीनान्तम् । शेषार्धम् शेषम् च तदर्धम्
च शेषार्धम्, अथवा शेषस्य ज्योतिश्चक्रस्य अपमण्डलसंज्ञितस्य अर्धम् शेषार्धम् । तत् दक्षिणेन, दक्षिणदिग्भागेन तदर्धम् । "एव"शब्दः आर्यापूरणार्तह्म् प्रतिपादितः । अथवा एवम् अर्धमात्रम् अपि पश्चार्धे प्रदर्शयति, यथा उत्तरेण समम् अपक्रममण्डलम् तिर्यक् व्यवस्थितम्, एवम् अत्र अपि दक्षिणेन तस्य एव अपक्रममण्डलस्य अर्धम् तिर्यक् एव अवतिष्ठते इति ।
अत्र विना अपि "सम"शब्देन षड्राशिप्रमाणाभिधानात् उदग्दक्षिणापक्रममण्डलार्धसमत्वम् गम्यते, समग्रहणम् अतिरिच्यते । न अतिरिच्यते -- प्रतिदेशम् अक्षविशेषात् राशीनाम् उदयकालाः विषमाः उपलक्ष्यन्ते, तेन समशब्दात् ऋते विषमप्रमाणानाम् राशीनाम् ग्रहणम् स्यात्, ततः च अक्षविशेषात् मेषादीनाम् अपक्रमज्याः प्रतिदेशम् भिन्नप्रमाणाः स्युः । "सम"शब्दे पुनर् क्रियमाणे तुल्यप्रमाणराशिग्रहणम् सिद्धम्, यस्मात् सर्वः एव
राशिः ज्योतिश्चक्रद्वादशभागः, स च त्रिंशत्त्रिंशद्भागप्रमाणः इति ।ेवम् अपक्रममण्डलम् विषुवतः उत्तरेण मेषादेः कन्यान्तम् तिर्यक् अवतिष्ठते । तत् एव तुल्यादेः मीनान्तम् दक्षिणेन विषुवतः तथा एव अवतिष्ठते । कथम् इदम् अनुक्तम् गम्यते विषुवतः इति । न एषः दोषः । उदग्दक्षिणेन इति ब्(र्)उवन् आचार्यः सिद्धम् एव विषुवन्मण्डलम् प्रदर्शयति । अन्यथा हि उदग्दक्षिणेन इति, एतत् अनर्थकम् स्यात् । उदग्दक्षिणशब्दौ च दिग्वाचिनौ, दिक् व्यवस्था
अपेक्षया भवति । अतः पूर्वम् विषुवन्मण्डलम् बध्वा ततः अपक्रममण्डलम् बध्यते । सर्वाणि एव मण्डलानि षष्टिशतत्रयाङ्कितानि क्रियन्ते, यस्मात् षष्टिशतत्रयांशम् ज्योतिश्चक्रम् ॥ १ ॥

[ अपक्रममण्डलचारिणः ]

तस्मिन् च अपक्रममण्डले के भ्रमन्ति इति आह --

ताराग्रहेन्दुपाताः भ्रमन्ति अजस्रम् अपमण्डले अर्कः च ।
अर्कात् च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया ॥ २ ॥

ताराग्रहाः भौमबुधबृहस्पतिशुक्रशनैश्चराः, ताराग्रहेन्दुपाताः भ्रमन्ति अजस्रम् अव्यवच्छेदेन, अपमण्डले अपक्रममण्डले, अर्कः च न केवलम् एते ताराग्रहेन्दुपाताः अपमण्डले भ्रमन्ति, अर्कः च । तत्र अपमण्डले अजस्रम् अर्कः च भ्रमति । अर्कात् च मण्डलार्धे अर्कात् पुनर् मण्डलार्धे षड्राश्यन्तरे, भ्रमति हि तस्मिन् तत्र मण्डलार्धे, भूच्छाया । यथा स्तम्भादीनाम् प्रदीपवशात् छाया भ्रमति, एवम् भुवः अपि अर्कवशात्,
न केवलम् ताराग्रहेन्दुपाताः इति ।

पातानाम् अपक्रममण्डले गतिः उक्ता । तत् किम् इदानीम् अर्कात् मण्डलार्धे भूच्छाया भ्रमति इति उच्यते । न च भूच्छायाव्यतिरिक्तः पातः अस्ति चन्द्रमसः । न एषः दोषः । सर्वेषाम् एव ताराग्रहाणाम् ये पाताः ते अपक्रममण्डले भ्रमन्ति । चन्द्रमसः पुनर् पातः अर्कात् मण्डलार्धे अपक्रममण्डले भ्रमति इति एतत् एव अर्थम् । "अर्कात् च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया" इति कथयति । ननु च बुधादीनाम् ये पाताः ते निश्चलाः तेषाम्
निश्चलानाम् कथम् अपक्रममण्डलगतिः उच्यते ? न ते निश्चलाः, "नवराषह गत्वा अंशकान् प्रथमपाताः" [गीतिका॰, ९] इति अत्र "गत्वा"-शब्देन तेषाम् गत्युपदेशात् ।

"ताराग्रहेन्दुपाताः" इति इयम् आर्या किम् अर्थम् आरभ्यते? ताराग्रहादीनाम् गतिः अपक्रममण्डले विज्ञायते । उक्तम् च "भापक्रमः ग्रहांशाः" [गीतिका॰, ८] इति सर्वे[षाम् गतिमता]म् एते अपक्रमभागाः इति । यदि च गीतिकोक्तम् अपि अत्र पुनर् उच्यते, तदा तर्हि बहु अत्र अभिधेयम् इति । अथवा रवेः चक्रार्धे भूच्छाया भ्रमति इति एतत् प्रदर्शयितव्यम् स्यात्, तत् च न प्रदेशान्तरप्रदर्शितत्वात् । "भूरविविवरम् विभजेत्" [गोल॰, ३९] इति अत्र प्रदीपच्छायोपपत्या
भूच्छायानयनम् उपदिशेत् । रवेः चक्रार्धे भूच्छाया भ्रमति इति एतत् प्रदर्शयति, यतः हि शङ्कः ऋजुस्थितस्य प्रदीपस्य तत् ऋजुप्रवृत्तच्छाया । तस्मात् इयम् आर्या आरब्धव्या इति ॥ २ ॥

[ विक्षेपमण्डलचारिणः ]

ग्रहाणाम् विक्षेपमण्डलप्रदर्शनाय आह --

अपमण्डलस्य चन्द्रः पातात् याति उत्तरेण दक्षिणतः ।
कुजगुरुकोणाः च एवम् शीघ्रोच्चेन अपि बुधशुक्रौ ॥ ३ ॥

अपमण्डलस्य । अपमण्डलम् अपक्रममण्डलम् । अपक्रममण्डलस्य चन्द्रः । अपमण्डलसंबन्धी चन्द्रः "अपमण्डलस्य चन्द्रः" इति उच्यते । अपमण्डलसंस्थितः वा चन्द्रः अपमण्डलस्य चन्द्रः, यथा -- कुसूलस्य व्रीहयः । अथवा अधिकरणार्था इयम् षष्ठी, यतः हि एकशतम् षष्ठ्यर्थाः, अपमण्डले चन्द्रः इति एतस्मिन् अर्थे । स अपमण्डलव्यवस्थितः चन्द्रः पातात् याति गच्छति । पातशब्देन चन्द्रमसः विक्षेपापक्रममण्डलयोः संयोगः
अभिधीयते । तस्य च संयोगस्य प्रतिक्षणम् गतिमत्त्वात्, सा गतिः पातशब्देन अभिधीयते, उपचारात् । अतः स गतिसंज्ञितः पातः यस्मिन् राशौ यावतिथे भागे वर्तते तस्मिन् राशौ तावतिथे भागे अपक्रममण्डलप्रमाणम् एव अन्यत् मण्डलम् तस्मिन् बध्वा द्वितीयम् अर्धम् चक्रार्धान्तरे तथा एव बध्नीयात् यथा तत् अपक्रममण्डलात् उत्तरेण अवतिष्ठते तस्य [प्रथमम् अर्धम्], यथा द्वितीयम् अर्धम् वा दक्षिणेन उपलक्ष्यते । एवम् च प्रथमपातात्
अपक्रममण्डलस्य उत्तरेण विक्षेपमण्डलम्, द्वितीयपातात् च दक्षिणेन, उभयत्र चक्रचतुर्भागान्तरे यथा अर्धपञ्चमाः भागाः तस्य च अपक्रममण्डलस्य अन्तरे भवन्ति तथा बध्नीयात् विक्षेपमण्डलम् । तस्मिन् चन्द्रमाः भ्रमति । विषुवतः उत्तरेण दक्षिणेन वा तत् अपक्रममण्डलम् । तस्मात् अपक्रममण्डलात् उत्तरेण दक्षिणेन वा विक्षेपमण्डलम् प्रदर्शयेत् ।

चन्द्रस्य च विक्षेपमण्डलव्यवस्थितस्य विषुवतः च अन्तरानयने इयम् युक्तिः -- स्फुटचन्द्रमसः भुजज्यया त्रैराशिकम् -- यदि व्यासार्धतुल्यया भुजज्यया चतुर्विंशत्यपक्रमभागज्या लभ्यते ततः चन्द्रभुजज्यया का इति, अपक्रमभागज्या लभ्यते । ततः पातात् अपक्रममण्डलव्यवस्थितः चन्द्रः दक्षिणेन उत्तरेण वा याति इति उक्तवान् । पातावधि परिज्ञानाय स्फुटचन्द्रमसः पातः विशोध्यते, तत्र विशेषस्य या ज्या तया त्रैराशिकम् -- यदि
व्यासार्धज्यया चन्द्रविक्षेपभागज्या लभ्यते अनया इष्टज्यया का इति, इष्टविक्षेपज्या लभ्यते । तयोः विक्षेपापक्रमज्ययोः काष्ठीकृतयोः तुल्यदिक्कयोः योगः, यस्मात् अपक्रममण्डलात् परतः चन्द्रः वर्तते । भिन्नदिक्कयोः विशेषः, यस्मात् आरात् अपक्रममण्डला[त् विक्षेपमण्डलम्] चन्द्रः च । गोले यथार्थम् प्रदर्शयेत् । योगविश्लेषभागानाम् या ज्या तावत् अन्तरम् विषुवतः चन्द्रमसः च । ज्याप्रमाणेन काष्ठप्रमाणम् उक्तम् ।

कुजगुरुकोणाः च एवम् भौमबृहस्पतिशनैश्चराः च । यथा चन्द्रः स्वस्मात् पातात् उत्तरेण दक्षिणेन वा अपक्रममण्डलस्थितः याति, एवम् एव कुजगुरुकोणाः । एतेषाम् विक्षेपमण्डलानि विक्षेपापक्रमयोगविशेषयुक्तयः चन्द्रवत् प्रतिपत्तव्याः । चकारः एतत् एव अर्थम् समुच्चिनोति ।

शीघ्रोच्चेन अपि बुधशुक्रौ । शीघ्रोद्भूतेन बुधशुक्रौ पातात् विक्षेपमण्डलयोः भ्रमतः । एतयोः शीघ्रोच्चौ अपक्रममण्डले पातभागप्रमाणगती भवतः । पातभा[गात् तत्तत्प्रदेशे] विक्षेपमण्डले बध्नीयात् । [एवम् तर्हि] एतयोः अपक्रमपरिज्ञानम् अपि शीघ्रोच्चात् एव । कुतः? अपक्रममण्डलात् पातात् विक्षेपम् ब्रुवता तदुच्चयोः अपक्रममण्डलस्थितिः प्रदर्शिता भवति, यतः अपक्रममण्डलस्थितः विक्षेपमण्डले प्रवर्तते । [ते]न
सम्यक् इदम् अवगम्यते -- एतयोः अपक्रमम् अपि शीघ्रोच्चात् इति । कुतः विक्षेपस्य एव केवलस्य? "शीघ्रोच्चेन अपि बुधशुक्रौ" इति शीघ्रोच्चात् पातप्रवृत्तात् एतयोः विक्षेपपरिज्ञानम् उच्यते, नापमपरिज्ञानम् । अतः स्वतः ए[व ए]तयोः अपक्रमानयनम् शीघ्रोच्चात् । एवम् अपि अपक्रममण्डलस्थितौ एतौ विक्षेपमण्डले प्रतर्तते इति एत[त् उपप]न्नम् एव । एतत् कुतः विक्षेपपरिज्ञानमात्रम् एव एतयोः? उपायान्तरेण विक्षिप्तम् पुनर् स्वतः एव अपमण्डलात् प्रतियक्षेण
उपदिष्टम्, चन्द्रविक्षेपप्रदर्शितम् एव अर्थविशेषम् सम्भावयति । सर्वेषाम् एव विक्षेपः अपक्रममण्डलात् उत्तरेण दक्षिणेन च । [पातात्] चक्रचतुर्भागान्तरे यथा उक्ताः [विक्षे]पभागाः विक्षेपापक्रममण्डलयोः अन्तरे यथा अवतिष्ठन्ते तथा प्रदर्श्यन्ते । "अपमण्डलस्य चन्द्रः पातात् याति" इति एतत् अपि गीतिकासु उपपदिष्ट[पातानुसारेण अव]धेयम् । शशी विक्षेपमण्डलस्थितपातात् प्रभृति विक्षेपमण्डले प्रवर्तते, इति एतत् अनुक्तम् न गम्यते । "शीघ्रोच्चेन
अपि बुधशुक्रौ" इति ए[तत् अपि] वक्तव्यम् । अतः अवश्यम् एतत् आर्यासूत्रम् वक्तव्यम् ॥ ३ ॥

[ ग्रहाणाम् कालांशाः ]

ग्रहाणाम् उदयास्तमयपरिज्ञानाय आदित्यग्रहान्तरभागान् आह --

चन्द्रः अंशैः द्वादशभिः अविक्षिप्तः अर्कान्तरस्थितः दृश्यः ।
नवभिः भृगुः भृगोः तैः द्व्यधिकैः द्व्यधिकैः यथा श्लक्ष्णाः ॥४॥

चन्द्रः अंशैः द्वादशभिः । अयम् अंशशब्दः सामान्येन विभागमात्रवाची । तेन "सामान्यचोदनाः च विशेषे अवतिष्ठन्ते" इति अंशविशेषेषु अवस्थाप्यन्ते । विशेषः च कालांशता । एते कालविभागाः । ते कालभागाः उच्यन्ते । "प्राणेन एति कलाम् भम्" [गीतिका॰, ६] इति उक्तम् । तेन उच्छ्वासप्राणस्य लिप्तासंज्ञात्वम् । ततः प्राणानाम् सप्तशतस्य विंशत्यधिकस्य [७२०] द्वादश भागाः, घटिकाद्वयम् इति अर्थः । यतः घटिकाद्वयस्य प्राणाः सप्तशतानि विंशत्यधिकानि
[७२०] । अथवा सूर्यात् पश्चात् प्राक् वा कालेन अन्तरितः ग्रहः यस्मात् [दृश्यः तस्मात्] कालांशत्वम् । एवम् कालभागैः द्वादशभिः अन्तरितः चन्द्रः । अविक्षिप्तः, न विक्षिप्तः अविक्षिप्तः । अर्कान्तरस्थितः । अर्कात् अन्तरम् अर्कान्तरम्, तस्मिन् अर्कांतरे द्वादशकालांश-प्रमाणेन अविक्षिप्तः व्यवस्थितः, नभसि व्यपेताभ्रतमसि लक्ष्यते ।

यदा पुनर् असौ विक्षिप्तः घटिकाद्वयात् ऊनाधिके काले दृश्यते, यस्मात् अर्कात् उत्तरेण विक्षिप्तः चन्द्रः गोलस्य उत्तरोन्नतत्वात् ऊने अपि घटिकाद्वये काले दृश्यते, दक्षिणविक्षिप्तः च उन्नतत्वात् गोलस्य दक्षिणेन घटिकाद्वयाधिककाले दृश्यते । तस्मात् उक्तम् अविक्षिप्तः इति । तस्मात् विक्षेपकर्मकृत्वा एतत् अन्तरम् आलोच्यते ।

नवभिः भृगुः । तथा एव कालभागैः नवभिः अर्कान्तरस्थितः अविक्षिप्तः भृगुः दृश्यते । नवभिः कालभागैः विक्षिप्तस्य विक्षेपकर्म चन्द्रवत् एव । भृगोः तैः । भृगोः शुक्रस्य ये भागाः । नवभिः भृगुः तैः द्व्यधिकैः द्व्यधिकैः इति एतावता सिद्धे पुनर् भृगुग्रहणम् कुर्वन् आचार्यः ज्ञापयति -- भृगोः इयम् काष्ठभागाः नव इति, तेभ्यः एव नवभ्यः गुर्वाद्यन्तरभागप्रतिपत्तिः । अन्यथा हि अयम् भृगुः अतः न्यूनेषु अपि त्रिषु
चतुर्षु वा अन्तरितः वक्रकाले उदयास्तमयौ कुर्वन् लक्ष्यते इति एतत् पुनर् भृगुग्रहणम् । तैः द्व्यधिकैः द्व्यधिकैः इति वीप्साग्रहणम् च भागद्वयान्तरग्रहणार्थम् । अन्यथा हि सर्वेषाम् एव नव एव भागाः स्युः ।

यथा श्लक्ष्णाः । एते ग्रहाः श्लक्ष्णाः परिहीयमानशरीराः प्रतिपादिताः तथा द्व्यधिकैः द्व्यधिकैः अर्कान्तरस्थिताः अविक्षिप्ताः सन्तः दृश्यन्ते । उक्तः च एषाम् यथाश्लक्ष्णक्रमः --

भृगुगुरुबुधशनिभौमाः शशि-ङ-ञ-ण-न-मांशाकाः । [गीतिका॰, ७]

इति । भृगोः भागैः द्व्यधिकैः बृहस्पतिः दृश्यते षड्भागोनघटिकाद्वयेन, तैः द्व्यधिकैः बृहस्पतेः त्रयोदशभिः षड्भागोत्तरघटिकाद्वयेन बुधः, बुधभागैः द्व्यधिकैः शनैश्चरः सार्धेन घातिकाद्वयेन, शनैश्चरभागैः द्व्यधिकैः भौमः षड्भागोनघटिकात्रयेण, एतावद्भिः कालभागैः अन्तरिताः दृश्यन्ते इति उक्तम् । अदर्शनम् पुनर् एषाम् कथम् अवगम्यते? केचित् तावत् आहुः -- एतावद्भिः एव भागैः । कुतः? तुल्यता संहितायाम्
। अर्कान्तरस्थितः दृश्यः अदृश्यः च । कथम् एतावद्भिः एव बागैः दृश्यः अदृश्यः च? यदा अर्कात् निष्क्रामति ग्रहः तदा तावद्भिः एव दृश्यते, यदा स एव अर्कम् प्रविशति तदा [तावद्भि]ः एव अन्तरितः न दृश्यते । एतत् च [न] -- यावता निष्क्रामतः प्रविशतः वा ग्रहस्य तुल्यम् इदम् अन्तरम्, तेन दृश्येन वा ग्रहेण भवितव्यम् अदृश्येन वा । स तावत् इष्टकालांशकैः दृश्यः एव उपलभ्यते । तस्मात् तुल्यसंहिताव्याख्यानम् असत् इति । कथम् तर्हि? उच्यते -- एतावद्भिः
एव भागैः अर्कान्तरस्थितः निष्क्रामत् प्रविशत् वा दृश्यते । ऊनैः अतः दृश्यते इति अर्थात् अवगम्यते, अधिकैः पुनर् नितराम् दृश्यते इति एतत् अशास्त्रज्ञः अपि जानाति ।

कालानयनम् पुनर् अत्र देशान्तराक्षविशेषराश्युदयप्रमाणैः परिकल्प्यते । तत् यथा -- यदि त्रिंशता स्वदेशराश्युदयकालः लभ्यते तदा इदानीम् निष्पन्नार्कग्रहान्तरभागैः कः इति, कालः लभ्यते । स यदि अभीष्टग्रहान्तरकालेन तुल्यः तदा असौ ग्रहः दृश्यते, ऊने अस्तम् गतः, अधिके नितराम् दृश्यते । अथवा स्वदेशराश्युदयेन त्रिंशता च त्रैराशिकम् कृत्वा सर्वराशिषु अन्तरभागानयनम् -- यदि राश्युदयकालेन त्रिंशद्भागाः लभ्यन्ते
तदा इष्टग्रहान्तराभिहितकालेन कियन्तः इति सर्वराशिषु अन्तरभागाः लभ्यन्ते । तैः वा सकृत्सिद्धैः एव अन्तरभागैः इष्टदेशे ग्रहस्य दर्शनम् वक्तव्यम् । ग्रहाणाम् पूर्वोदयास्तमययोः इदम् कर्म । अपरोदयास्तमययोः तत्सप्तमराश्युदयकालेन एतत् परिकल्पनम्, यस्मात् उदयराशिवशात् एव अस्तम् राशयः गच्छन्ति ॥ ४ ॥

[ भूग्रहादीनाम् प्रकाशहेतुः ]

धरित्रीग्रहनक्षत्रताराणाम् प्रकाशहेतुप्रदर्शनाय आह --

भूग्रहभानाम् गोलार्धानि स्वच्छायया विवर्णानि ।
अर्धानि यथासारम् सूर्याभिमुखानि दीप्यन्ते ॥ ५ ॥

भूः पृथिवी । ग्रहाः सूर्यादयः । भानि ज्योतींषि नक्षत्राणि । भूः च ग्रहाः च भानि च भूग्रहभानि, तेषाम् भूग्रहभानाम् । गोलार्धानि । धरित्र्यादीनाम् शरीराणि गोलशब्देन उच्यन्ते । अतः तेषाम् गोलानाम् अर्धानि गोलाकारशरीरार्धानि इति यावत् ।

कथम् एते ग्रहादयः गोलाकारशरीराणि प्रतिपद्यन्ते? भुवम् तावत् अन्ये शकटाकाराम् दर्पणवृत्ताकाराम् च मन्यन्ते । न एतत् एवम् । यथा गोलाकारा भूः प्रतिपद्यते तथा उत्तरतः वक्ष्यामि । कथम् पुनर् अत्र अमी ग्रहाः गोलाकाराः प्रतिपद्यन्ते? अथ च दर्पणवृत्ताकारौ सूर्याचन्द्रमसौ लक्ष्येते, एवम् अन्ये अपि । अन्यत् च -- स्थित्यर्धादिपरिलेखनप्रक्रिया च गोलाकारशरीरेषु न घटते । न एतत् अस्ति । एते ग्रहादयः गोलशरीराः अपि सन्तः
दूरदेशवर्तित्वात् दर्पणवृत्ताकाराः उपलक्ष्यन्ते । या स्थित्यर्धादिपरिलेखनप्रक्रिया सा दृग्विषया, तस्याः दृग्विषयत्वात् यथादर्शनगतानि एव बिम्बसंस्थानानि अङ्गीकृत्य आचार्येण उक्तम् । अथवा गोलाकारेषु अपि स्थित्यर्धाद्युपपत्तिः शक्यते वक्तुम् । यस्मात् विक्षेपादयः बिम्बमध्यात् प्रवृत्ताः तावत् ज्ञात्वा गोलकानाम् बिम्बार्धम् दर्पणवृत्ताकारः इव यथा भ्रमन् निष्पादितः समुद्गतः तस्याः उदरम् दर्पणवृत्ताकारम् एव उपलक्ष्यते, तस्मात् गोलाकारात्
अपि स्थित्यर्धाद्युपपत्तिसिद्धिः च । अतः परमार्थतः एव गोलाकाराः, अन्यथा हि चन्द्रमसः सितक्षयवृद्धी दर्पणवृत्ताकारे बिम्बे न संवदेते । तस्मात् गोलाकारशरीराः एते । उक्तम् च --

सूर्यः अग्निमयः गोलः चन्द्रः अम्बुमयः स्वभावतः स्वच्छः । इति ।

स्वच्छायया विवर्णानि । स्वा च्छाया स्वच्छाया, तया स्वच्छायया अर्धानि एषाम् [विवर्णानि अप्रकाशात्मकानि कृष्णानि इति अर्थः, न ततः अन्यत्काराण]म् अस्ति वैवर्ण्यस्य । यथा घटस्य आतपस्थस्य एकम् पार्श्वम् स्वच्छायया एव विवर्णम्, एवम् अत्र अपि । या[नि अर्धानि] प्रकाशन्ते तानि सूर्याभिमुखानि । अर्धानि । तेषाम् गोलानाम् अर्धानि, यावन्ति अवशिष्टानि स्वच्छायावैवर्ण्यानि व्यतिरिक्तानि । यथासारम् । अल्पानाम् अल्पानि, महताम् महान्ति । सूर्याभिमुखानि,
आदित्याभिमुखानि । दीप्यन्ते चकासन्ति ।

[ चन्द्रस्य सितभागः ]

यदि अर्धानि ग्रहाणाम् सूर्याभिमुखानि चकासन्ति तदा किम् इति चन्द्रमसः अर्धबिम्बम् सर्वदा न चकास्ति? चकास्ति एव । किम् इति न उपलभ्यते? उच्यते -- अमावास्यायाम् चन्द्रमसः उपरि आदित्यः तदा तस्य चन्द्रमसः उपरि यत् बिम्बार्धम् तत् अशेषम् अवभासयति । चन्द्रस्य अमावास्योपलक्षितोपरिबिम्बकेन्द्रात् यथा यथा पश्चात् आदित्यः अवलम्बते तथा तथा बिम्बकेन्द्रम् अपि अपरतः अवलम्बते । तत् केन्द्रवशात् चन्द्रमसः बिम्बार्धम् यावत्
एव अमावास्योपलक्षितम् बिम्बपरिध्यर्धावधेः अवलम्बते तावत् चन्द्रमसः बिम्बम् अस्माभिः उपलक्ष्यते । शेषम् उपरिस्थितत्वात् न उपलक्ष्यते । सूर्याभिमुखम् अपि सवितृकरा[त् छादितम् अपि न दृश्यते] । तस्मात् यावत् यावत् चन्द्रमसः बिम्बम् सवितृबिम्बात् श्लक्ष्णम् अवलम्बते तावान् स्वच्छः चन्द्रमसः शुक्लः उपलक्ष्यते । तेन च अमी ज्योत्स्नावितानावभासिनः चन्द्रकराः । तेन तर्हि सवितृमरीचयः तु स[लिल]मये स्वभावात् एव [स्वच्छ]चन्द्रबिम्बे
सम्मूर्च्छिताः नैशम् ध्वान्तम् अवध्वांसयन्ति, यथा दर्पणे जले वा दिवसकराः सम्मूर्च्छिताः सन्तः गृहान्तर्गतम् तमः क्षपयन्ति ।

[ चन्द्रशृङ्गोन्नतिः ]

अन्यत् च -- यः यः चन्द्रबिम्बप्रदेशाः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शृङ्गोन्नतौ उपलभ्यते, न इतरः । तथा च तत् जिज्ञासवः कर्म कुर्वन्ति । तत् यथा -- शुक्लप्रतिपदादिषु सूर्यार्धास्तमयकालिकौ सूर्याचन्द्रमसौ कृत्वा सूर्योनचन्द्रोत्क्रमज्या गृह्यते । सा यस्मात् प्रतिदिवसम् उपचीयमाना, चन्द्रमसः शुक्लम् उपचीयते । उत्क्रमज्या च उपचीयमानप्रमाणा । तेन तया उत्क्रमज्यया त्रैराशिकम् -- यदि व्यासार्धतुल्यया उत्क्रमज्यया
स्फुटचन्द्रबिम्बार्धम् उपलभ्यते, तदा अनया उत्क्रमज्यया कियत् इति, तत् कालसितमानम् लभ्यते । शुक्लाष्टम्याः परतः या सितवृद्धिः सा क्रमज्यावशात् उपचीयमाना लक्ष्यते इति क्रमज्या गृह्यते । ताः क्रमज्याः पूर्वोपचितव्यासार्धज्यासु प्रक्षिप्य त्रैराशिकम् क्रियते । अथवा -- ताभिः एव क्रमज्याभिः चन्द्रबिम्बार्धेन त्रैराशिकम् कृत्वा यत् लब्धम् चन्द्रबिम्बार्धे प्रक्षिप्तम् सितमानम् भवति । शुक्लप्रतिपदादिषु यथा चन्द्रमसः सितमानम् वर्धते
तथा कृष्णप्रतिपत्प्रभृतिभ्यः सितमानम् उत्क्रमेण अपचीयते । तेन सूर्याचन्द्रमसोः विशेषात् राशिषट्कम् अपनीय तथा एव कर्म क्रियते ।

[ चन्द्रस्य दर्शनकालः ]

दर्शनकालः हि यावन्तम् कालम् चन्द्रः दृश्यते । यवता कालेन उदेति तत् आनयनोपायः -- शुक्लपक्षे तावत् उदयराशिवशात् एव ज्योतिश्चक्रगतिः इति अतः यावन्तः सूर्यात् चन्द्रराशिभागाः तावन्तः एव उदयावधेः स्वदेशराश्युदयप्राणाः परिगृह्यन्ते । तत् यथा -- आस्तमयिके सवितरि षड्राशयः परिक्षिप्यन्ते स सूर्यात् सप्तमः राशिः भवति । तथा च चन्द्रमसि षड्राशयः परिक्षिप्य सूर्यगतराशिभागान् त्रिंशता विशोधयेत् शेषम् सूर्यस्य आगतराशिभागः
। तत् षड्राशियुतसूर्यवर्तमानराश्युदयेन सङ्गुणय्य त्रिंशता विभजेत्, लब्धम् प्राणाः । तान् एकतः विन्यसेत् । सूर्यागतराशिभागान् च षड्राशियुतसूर्ये प्रक्षिप्य तावत् स्वदेशराश्युदयप्राणाः संकलनीयाः यावत् षड्राशियुतचन्द्रगताः भागाः । ततः षड्राशियुतचन्द्रगताः भागाः तत् राश्युदयप्राणैः सङ्गुण्य त्रिंशता विभजेत्, लब्धम् प्राणाः । तान् पूर्वसङ्कलितप्राणान् च सर्वान् एकत्र न्यस्तप्राणेषु प्रक्षिप्य षड्भिः भागः, लब्धम् विघटिकाः, षष्ट्या
घटिकाः । एवम् घटिकादिलक्षणः दर्शनकालः । तावता कालेन सूर्याचन्द्रमसोः गतिविशेषः अस्ति इति अविशेषकर्म प्रवर्तते । तत् यथा -- यदि षष्ट्या घटिकाभिः सूर्यभुक्तिः चन्द्रभुक्तिः वा लभ्यते ततः अनेन दर्शनकालेन ते कियत्यौ तयोः भुक्ती इति । सूर्यभुक्तिलब्धम् षड्राशियुक्तसूर्ये प्रक्षिपेत्, चन्द्रभुक्तिलब्धम् अपि षड्राशियुतचन्द्रमसि प्रक्षिप्य तावत् इदम् कुर्यात् यावत् अविशेषः । तत्र यः अविशिष्टः कालः स दर्शनकालः । तावन्तम् कालम् शर्वर्याम्
शशी दृश्यते । यः च षड्राशियुक्तः चन्द्रः अविशिष्टः तस्मात् चक्रार्धम् अपनयेत् तावान् चन्द्रः दर्शनकालपरिसमाप्तौ अस्तम् एति ।

अथ कश्चित् यदि कियता कालेन अ[न]स्तमिते सवितरि चन्द्रोदयः भविष्यति इति एतत् जिज्ञासुः, इदम् कर्म कुर्यात् । तत् यथा -- अविकृतास्तमयकालादित्यभागेभ्यः प्रभृति तावत् प्राणाः संकलनीयाः यावत् अविकृतशीतांशोः गतभागप्राणाः । तान् पूर्ववत् घटिकाः कृत्वा [दिन]प्रमाणघटिकाभ्यः विशोधयेत् । तत्र यः शेषः स दिवसशेषः । तावता दिवसशेषेण तदा चन्द्रोदयः भविष्यति । अत्र अपि सूर्याचन्द्रमसोः अविशेषकर्म प्रवर्तते । तत् यथा -- आसाम्
नाडीनाम् यः यः भोगः तेन अधिकौ सूर्याचन्द्रमसौ इति अतः ताभ्याम् अपनीय अपनीय अविशेषः क्रियते । अविशेषितः दर्शनकालः तावता कालेन दिवसशेषः एव चन्द्रोदयः । यः असौ अविशिष्टः चन्द्रः तावान् तत्र दिवसशेषोदयकाले चन्द्रः ।

अथवा प्रथमानीतदिवसशेषचन्द्रोदयकालेन चन्द्रमसः भुक्तिम् सङ्गुणय्य षष्ट्या विभजेत् । लब्धम् चन्द्रात् विशोधयेत् । स तावत् दिवसशेषकालिकः चन्द्रः भवति । ततः प्रथमानीतदिवसकालेन उदयलग्नम् कुर्यात् । तत् उदयलग्नम् तेन दिवसशेषोदितचन्द्रेण तुल्यम् यदा, तदा दिवसशेषम् चन्द्रोदयकालः । अथ यदि तस्मात् लग्नात् ऊनः चन्द्रः तदा प्रथमतरम् उदितः इति । तयोः लग्नचन्द्रयोः अन्तरालप्राणान् प्रथमानीतदिवसशेषकालात्
विशोधयेत् । तेषाम् च प्राणानाम् यावती चन्द्रभुक्तिः त्रैराशिकेन लभ्यते तावती प्रथमदिवसशेषोदितकालचन्द्रात् विशोध्यते तावान् चन्द्रः दिवसशेषोदितः, तावान् च दिवसशेषकालः । चन्द्रः च यदा अधिकः तदा पूर्ववत् तदन्तरप्राणान् दिवसशेषकाले प्रक्षिपेत् तावताम् प्राणानाम् चन्द्रभोगम् चन्द्रमसि प्रक्षिपेत्, तावत् कर्म यावत् अविशेषः । अथवा प्रथमास्तमयिकचन्द्रात् एव अन्तरोत्पन्नदिवसशेषकालभोगः चन्द्रमसः विशोध्य तत् काललग्नक्रमेण
अविशेषकर्म क्रियते ।

अथ यदि उदयलग्नात् चन्द्रः अधिकः तदा [कियन्]नाड्या अभ्युदेति चन्द्रः इति तदन्तरप्राणान् प्रथमानीतदिवसशेषे प्रक्षिपेत् । तत् भुक्तिम् चन्द्रमसि प्रक्षिपेत् तावत् यावत् अविशेषः । एवम् उदयलग्नम् चन्द्रः च कृतः भवति, दिवसशेषचन्द्रोदयकालः च । एवम् यावत् पौर्णमासी तावत् दर्शनकालानयनम् । पौर्णमास्याम् पुनर् तावत् एव अन्तरघटिकाः यदि दिनप्रमाणघटिकाभ्यः ऊनाः भवेयुः तदा अनस्तमिते आदित्ये चन्द्रोदयः, यदि अतिरिक्ताः
तदा अस्तंगते । उभयत्र अपि अन्तरकालप्रमाणेन अविशेषकर्म अनन्तरकर्मवत् एव । कृष्णपक्षप्रतिपदादिषु च चन्द्रादित्यान्तरघटिकाभ्यः दिनप्रमाणघटिकाः विशोध्य शेष[घटिका]भिः भुकिः त्रैराशिकेन सूर्याचन्द्रमसौ सञ्चार्य पुनर् तयोः अन्तरघटिकाभ्यः दिनप्रमाणघटिकाः विशोधयेत् । शेषघटिकाभिः चन्द्रादित्यौ तदन्तरालघटिकाः इति आद्यविशेषान्तम् कर्म क्रियते, तत्र अविशिष्टेन कालेन [सूर्यास्तमयात् पश्चात् चन्द्रोदयः । एवम्
एव अविशिष्टेन कालेन] सूर्योदयात् प्राक् चन्द्रोदयः ।

अथ अनस्तमिते सवितरि कियता कालेन चन्द्रः अस्तम् यास्यति इति एतत् जिज्ञासुः इदम् कर्म कुर्यात् । तत् यथा -- सूर्योदयकालोत्पन्नम् चन्द्रमसम् कृत्वा तत्र राशिषट्कम् प्रक्षिपेत् । [ततः] प्राक् चन्द्रोदयः [ज्ञातव्यः] । अथ औदयिकात् आदित्यात् षड्राशियुक्तनिशाकरावधेः स्वदेशराश्युदयविधानेन यावत्यः घटिकाः ताः अविशेष्यन्ते । कथम्? तासाम् त्रैराशिकेन यावत् चन्द्रमसः भुक्तिः ताम् चन्द्रमसि प्रक्षिपेत् इति अतः पुनर् अपि तस्मात् आदित्यात्
षड्राशियुक्तचन्द्रावधेः पूर्ववत् घटिकाः तावत् यावत् अविशेषः । तत्र याः अविशेषिताः घटिकाः तावतीभिः दिवसे व्यतीताभिः चन्द्रः अस्तम् एति । दिवसप्रमाणात् विशोध्य शेषम् दिनशेषघटिकाः च । अत्र यः अविशिष्टः चन्द्रः स तस्मिन् काले तावान्, यः च षड्राशियुक्तः चन्द्रः स तस्मिन् काले उदयलग्नम् इति ।

[ चन्द्रस्य याम्योत्तरप्रदेशः ]

अथ कश्चित् कियता कालेन शुक्लाष्टम्या परतः चन्द्रः गगनमध्यम् अवगाहते, कियान् वा तत्र चन्द्रः इति जिज्ञासुः, इदम् कर्म कुर्यात् । अथ तत्कालात् परतः स्वधिया आसन्नौ मध्यलग्ननिशाकरौ अभ्यूह्य, तत्र यदि मध्यलग्ननिशाकरौ तुल्यौ स्याताम् तदा तावान् चन्द्रः तावता एव कालेन गगनमध्यम् आरोक्ष्यति । अथ यदि अधिकः चन्द्रः तदा न अद्य अपि प्राप्नोति गगनमध्यम् । तत्र मध्यलग्नचन्द्रान्तरकालम् स्वधिया अभ्यूहितकाले
प्रक्षिप्य मध्यलग्नचन्द्रौ कुर्यात् यावत् तुल्यौ इति । अथ मध्यलग्नात् ऊनः चन्द्रः तदा तदन्तरालकालम् स्वधिया अभ्यूहित[कालात् विशोध्य] मध्यलग्नचन्द्रौ तावत् कुर्यात् यावत् मध्यलग्नचन्द्रौ तुल्यौ स्याताम् । एवम् प्रसाधितगगनमध्याधिरूढामृतदीधितेः अपक्रमविक्षेपाक्षैः मध्यच्छाया प्रसाध्यते ।

[ चन्द्रशृङ्गोन्नतिपरिलेखनविधिःञ्]

अथ चन्द्राग्राचन्द्रशङ्क्वग्रयोः तुल्यदिक्कयोः योगः, भिन्नदिक्कयोः विशेषः, तत् योगविशेषतुल्यम् इष्टकाले [बाहु]ः चन्द्रमसः । स च अन्तरालतः सूर्याग्रया सह एकदिक्कम् विशेष्यते, यतः अर्कात् एव उत्तरेण दक्षिणेन वा चन्द्रः साध्यते, न विषुवतः । विदिक्कयोः योज्यते यस्मात् योगः अर्कचन्द्रान्तरम् । एतत् छेद्यके गोले वा प्रदर्श्यम् । एवम् परिनिष्ठितप्रमाणम् भुजा सूर्यात् याम्य उत्तरायता प्रसार्यते । चन्द्रशङ्कुः कोटिः । स यदि सूर्यात्
उत्तरेण चन्द्रः तदा भुजोत्तराग्रतः पूर्वापरायता प्रसार्यते । यदा दक्षिणेन चन्द्रः सूर्यात् तदा तस्याः भुजायाः दक्षिणाग्रतः पूर्वापरायता । एवम् भुजकोटी यथागतप्रमाणेन विन्यस्य भुजाकोटिमस्तकावगाही कर्णः दूरनिर्गताग्रः प्रसार्य कोट्यग्रकर्णसम्पाते केन्द्रम् विरच्य चन्द्रबिम्बम् आलिखेत् । तस्य चन्द्रबिम्बपरिधेः अपरतः कर्णानुसारेण सितमानम् नीत्वा बिन्दुम् कुर्यात् । चन्द्रबिम्बकेन्द्रपूर्वापरे कर्णः, तत् मत्स्यविधानात् दक्षिणोत्तरे
साध्ये । दक्षिणोत्तररेखाचन्द्रपरिधिसम्पाते बिन्दू क्रियेते । ततः ताभ्याम् पूर्वविहितबिन्दुना च तथा छेद्यकविधानेन तत् बिन्दुत्रयशिरःस्पृग्वृत्तम् आलिखेत् । तस्य वृत्तस्य चन्द्रबिम्बपरिधेः च यत् अन्तरम् तत् चन्द्रमसः शुक्लः । अथ एव श्र्ङ्गोन्नतिः नभसि उपलक्ष्यते ।

शुक्लाष्टम्याः परतः अस्तकालोदयलग्नाग्रज्यया अर्काग्रावत् कर्म [क्रियते] । चन्द्रोदयलग्नान्तरप्राणोत्पन्नः शङ्कुः, कोटिः अपराभिमुखी तथा एव प्रसार्यते । तत्र यथागतम् सितमानम् चन्द्रबिम्बप्रमाणात् विशोध्यम् शेषम् असितम् भवति । तत्कर्णानुसारेण चन्द्रपरिधिपूर्वभागात् बिम्बान्तरे असितमानम् नीत्वा बिन्दुम् कुर्यात् । तेन दक्षिणोत्तरबिन्दुभ्याम् च पूर्ववत् बिन्दुत्रयशिरःस्पृग्वृत्तम् आलिखेत् । तस्य चन्द्रबिम्बपरिधेः च यत्
अन्तरम् तत् असितम् । कृष्णप्रतिपदादिषु च अपराभिमुखप्रसारितकोटिकर्णाग्रलिखितचन्द्रपरिध्यपरभागात् कर्णानुसारेण असितम् अन्तः पूर्ववत् वृत्तम् आलिखेत् । इष्टकाले तु यथा प्रत्यासन्नास्तोदयलग्नज्याम् अर्काग्राम् परिकल्प्य तत्कालचन्द्रशङ्क्वग्रम् आपाद्य इष्टलग्नचन्द्रान्तरप्राणोत्पन्नशङ्कुकोट्या चन्द्रः परिलेखनीयः । एवम् सर्वत्र क्षितिजात् उपरि व्यवस्थितस्य चन्द्रस्य परिलेखनप्रक्रिया ।

[ गृहपटलम् विदार्य शृङ्गोन्नतिदर्शनम् ]

अथ शङ्कुभुजाकोटिकर्णप्रमाणपरिकल्पितयन्त्राग्रे गृहपटलबिम्बान्तरे शिशिरदीधितिगणितसितप्रमाणशृङ्गोन्नतिः प्रदृश्यते । तत् यथा -- सम्यक् प्रसिद्धगृहोदरे पूर्वापररेखातः उत्तरेण दक्षिणेन वा परिकल्पिताङ्गुलप्रमाणम् अर्काग्रासूत्रम् पूर्ववत् प्रसार्य बिन्दुम् कुर्यात् । सः अर्कबिन्दुः । पूर्वापररेखायाः एव दक्षिणोत्तरतः चन्द्राग्रतः शङ्क्वग्रयोः योगविशेषज्याङ्गुलतुल्यम् सूत्रम् यथा आगतदिशम् प्रसार्य बिन्दुम् कुर्यात्
। स शशिबिन्दुः । अर्केन्दुबिन्द्वोः अन्तराङ्गुलतुल्या भुजा । तत्काल[चन्द्र]शङ्कुतुल्या कोटिः अवलम्बकः । तदनुसारेण अवलम्बकस्थित्या चन्द्रबिम्बानुसारिण्या गृहपटलम् विदारयेत् । तत्र शङ्क्वग्रायतदण्डशिरसि यथालिखितम् तत् छेद्यकसितशृङ्गोन्नतिम् अर्कबिन्दुन्यस्तदृष्टिः कर्णानुसारेण उत्क्षिप्तावलम्बकाङ्गुलप्रमाणमस्तकासक्तम् शशलक्ष्माणम् पश्यति । एवम् एव ग्रहाः अपि गृहोदरव्यवस्थितैः दर्शनीयाः इति ।

[ अर्धोदिते चन्द्रे शृङ्गोन्नतिकल्पना ]

क्षितिजमण्डलाक्रान्तार्धबिम्बस्य चन्द्रमसः कोटेः अभावात् न परिलिख्यते । तत्र उदयास्तज्याचन्द्राग्रे शृङ्गस्य उन्नतिः परिकल्प्यते । तत् यथा -- यदि चन्द्राग्रा दक्षिणेन उदयज्या उत्तरेण तदा चन्द्रमसः उत्तरशृङ्गम् प्राक् प्रदृश्यते, यतः भवृत्तचन्द्रः दक्षिणेन व्यवस्थितः । भवृत्तचन्द्रानुसारेण च सूर्यमरीचयः चन्द्रबिम्बम् कर्णगत्या अवगाहन्ते । यदा पुनर् चन्द्राग्रा उत्तरेण उदयज्या दक्षिणेन तदा चन्द्रमसः दक्षिणशृङ्गम्
प्राक् प्रदृश्यते । यस्मात् चन्द्रमसः दक्षिणेन भवृत्तः स्थितः । भवृत्तानुसारेण च सूर्यमरीचयः चन्द्रबिम्बम् अवगाहन्ते । दक्षिणेन तुल्यदिक्कयोः विशेषः, चन्द्राग्रा यदा अतिरिच्यते तदा चन्द्रमसः उत्तरशृङ्गम् प्राक् प्रदृश्यते, अन्यथा दक्षिणम् । उत्तरेण यदा चन्द्राग्रा अतिरिच्यते तदा दक्षिणशृङ्गम् प्राक् प्रदृश्यते, अन्यथा उत्तरम् । यदा पुनर् विशेषेण न किञ्चित् अन्तरम् तदा युगपत् उभयशृङ्गदर्शनम् । यदा च उदयज्या चन्द्राग्रे न भवतः
तदा च अस्तमये चन्द्रमसः अस्तलग्नज्यया चन्द्राग्रया च शृङ्गस्य प्राक् पश्चात् वा अस्तमयम् परिकल्पनीयम् ।

[ चन्द्रस्य सितासितहेतुः ]

एवम् चन्द्रमसः सितासितशृङ्गोन्नतिदर्शनकालादयः सवितृवशात् एव । एवम् च निरुक्ते पठ्यते --

तस्य एकौ रश्मिः चन्द्रमसम् प्रति दीप्यते ।

न हि तेन उपेक्षितव्यम् । आदित्यतः अस्य दीप्तिः भवति ।

सुषुम्णः सूर्यरश्मिचन्द्रमाः गन्धर्वः ।

[वाजसनेयसंहिता, अ॰ १८, मं॰ ४०॑ तैत्तिरीयसंहिता, ३.४.७.१ ]

इति अपि च निगमः भवति इति । तस्मात् एतेन एव लिङ्गेन चन्द्रमार्गात् उपरि सूर्यमार्गः इति, अन्यथा अनुपपत्या । परिशिष्टाः च ताराग्रहाः सूर्यमार्गात् उपरि दूरेण व्यवस्थिताः । तेन तेषाम् आरात्स्थितानि गोलार्धानि सर्वदा सकलानि एव चकासते । ऊर्ध्वमुखाः सूर्यमरीचयः सदा आराद्भागम् प्रकाशयन्ति इति । बुधशुक्रयोः च प्रत्यासन्नवर्तित्वात् सर्वतः बिम्बम् अवगाहन्ते अर्कमरीचयः प्रदीपप्रत्यासन्नगोलवत् तेन तयोः अपि असकलबिम्बताभावः । यदि
एवम् अस्तमिते सवितरि कथम् एते ग्रहादयः चकासते सवितृकराभावात् ? न एषः दोषः । भूमेः दूरेण सूर्यमार्गः । तेन उपरिमुखानाम् सूर्यमरीचीनाम् न व्यवधानाय भूः वर्तते । यथा घटस्य उपरि अधः दूरेण अवस्थितस्य प्रदीपस्य घटः न व्यवधानकारणम् । कृष्णपक्षप्रतिपदादिषु चन्द्रमसः बिम्बपूर्वभागः प्रत्यासन्नः सवितुः इति तेन तत् शुक्लम् उपलभ्यते । रत्नानाम् च आदित्यकराः एव दीप्तिकारणत्वम् प्रपद्यते । तेन तानि
अपि रात्रौ न प्रकाशात्मकानि । उक्तम् च रत्नपरीक्षायाम् --

भानोः च भासाम् अनुवेधयोगम् आसाद्य रश्मिप्रकरेण दूरम् ।
पार्श्वाणि सर्वाणि अनुरञ्जयन्ति गुणैः उपेताः स्फटिक्[आदयः हि] ॥

[यत्] उपाख्यानादिषु रत्नानि एव ध्वान्तम् ध्वंसयन्ति इति श्रूयते तत् उपाख्यान[म् अर्थवादमात्र]म् एव ।

अन्ये पुनर् अन्यथा मन्यन्ते --

स्वच्छायया अर्कसामीप्यात् विकलेन्दुसमीक्षणम् ।

इति । स्वच्छायया चन्द्रः शुक्लः उपलभ्यते, तस्य शुक्लस्य चन्द्रमसः सवितृसन्निकर्षात् वैवर्ण्यम् भवति इति । कुतः एतत्? यदि स्वभावतः शुक्लस्य चन्द्रमसः सूर्यसन्निकर्षात् वैवर्ण्यम् स्यात् तदा शुक्लप्रतिपदादिषु चन्द्रस्य अपरभागः विवर्णः स्यात् सूर्यसन्निकर्षात्, न पूर्वभागः । तथा च अवाङ्मुखम् चन्द्रबिम्बम् उपलक्ष्यते । तस्मात् मिथ्याज्ञानम् एव एतत् यत् सौगतैः उच्यते ॥ ५ ॥

[ भूगोलसंस्थानम् ]

भादिकक्ष्याभूसंस्थानप्रदर्शनाय आह --

वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः ।
मृज्जलशिखिवायुमयः भूगोलः सर्वतः वृत्तः ॥ ५ ॥

भानि ज्योतींषि नक्षत्राणि । तेषाम् भानाम् पञ्जरः भपञ्जरः । यस्मात् [भानि] समन्ततः वियति पञ्जरस्थानि इव लक्ष्यन्ते ततः अनेन दर्शनेन एतत् उक्तम् । वृत्तः च असौ भपञ्जरः च वृत्तभपञ्जरः । वृत्तभपञ्जरमध्यम्, मध्यम् अन्तः, तस्य वृत्तभपञ्जरस्य । तत्र वृत्तभपञ्जरमध्ये । कक्ष्यापरिवेष्टितः कक्ष्याभिः ग्रहाणाम् परिवेष्टितः कक्ष्यापरिवेष्टितः । खमध्यगतः, खम् आकाशम्, तस्य मध्यम् खमध्यम्, खमध्यंगतः
खमध्यगतः, आकाशमध्यस्थः इति यावत् । कथम् आकाशमध्ये निरालम्बना भूः अवतिष्ठते? [उच्यते -- स्वभाव]प्राधान्यात्॑ यथा सलिलाग्निवायवः क्लेददहनप्रेरणात्मकाः, न तेषाम् अन्यः अस्ति कश्चित् क्लेददहनप्रेरणप्रयोजकः, एवम् इयम् अपि भूः धारणात्मिका, न च धार्यमाणात्मिका । अथवा पतन्ती भूः, "पततु अधः" इति आह । अथ किम् इदम् अधः नाम । यथा अस्मदीयानाम् पृथिवी अधः, एवम् पृथिव्याः किम् अधः? "अधः"-शब्दः च दिग्वाची,
दिशः च व्यवस्थापेक्षया भवन्ति । यथा यत्र विवस्वान् उदेति सा प्राची, यत्र अस्तम् एति सा परा, यस्याम् अदृश्यः गच्छति सा उत्तरा, शेषा दक्षिणा । आसाम् अन्तरालेषु एव विदिशः । एवम् उपरि अधः च पृथिवी अपेक्षया भवतः । तेन तस्याः पृथिव्याः न किञ्चित् उपरि, न अधः, तस्मात् पतनाभावः भुवः । एवम् च पृथिव्याः अर्धम् परिवेष्ट्या अवस्थितः समुद्रः न पतिति । पतन्त्याम् च भुवि लोष्टशिलीमुखादयः वियति क्षिप्ता न भुवम् आसादयेयुः । भूः मन्दम्
पतति इति चेत्, साध्यते च एतत् मायाविद्भिः च, वियति खातकीलकः अनाश्रयः भवेत् । अथ अन्ये मन्यन्ते -- शेषेण अन्येन [वा] भूः ध्रियते इति । तत् उक्तम् । शेषादीनाम् अपि अवश्यम् आधारविशेषः कश्चित् कल्पनीयः, [तय अन्यः आ]धारः स्या[त् तस्य अपि अन्यः] इति अनवस्था । अथ ते स्वशक्त्या एव अवतिष्ठन्ते इति चेत्, भुवः एव कस्मात् सा शक्तिः न परिकल्प्यते । तस्मात् जगतः धर्माधर्मापेक्षया सर्वभूतधात्री भूः निश्चला आकाशे तिष्ठति । मृज्जलशिखिवायुमयः
भूगोलः, प्रत्यक्षम् यतः उपलभ्यते । सर्वतः वृत्तः । मृदादिना काष्ठादिना वा अयःशलाकायाम् मध्ये समवृत्तवत् अवगन्तव्यः । अस्य बहिः चन्द्रादीनाम् कक्ष्याः दर्शयितव्याः ॥ ६ ॥
[ भूगोलपृष्ठे प्राणिनाम् स्थितिः ]

भूगोलप्रदर्शनाय आह --

यद्वत् कदम्बपुष्पग्रन्थिः प्रचितः समन्ततः कुसुमैः ।
तद्वत् हि सर्वसत्त्वैः जलजैः स्थलजैः च भूगोलः ॥ ७ ॥

यद्वत् कदम्बपुष्पग्रन्थिः [समन्तात् केसरैः] प्रचितः, व्याप्तः इति अर्थः, तथा अयम् भूगोलः समन्तात् जलजैः स्थलजैः च प्राणिभिः आवृत्तः । अथ ये भुवि व्यवस्थिताः प्राणिनः पर्वतादयः तेषाम् कथम् अवस्थानम् तत् उच्यते -- यत्र यत्र प्राणिनः गच्छन्ति तत्र तत्र तेषाम् भूः एव अधः, वियत् उपरि प्रतिभाति यथा अस्माकम् ॥ ७ ॥

[ भुवः वृद्ध्यपचयौ ]

भूवृद्ध्यपचयज्ञानाय आह --

ब्रह्मदिवसेन भूमेरुपरिष्टात् योजनम् भवति वृद्धिः ।
दिनतुल्यया एकरात्र्या मृदुपचितायाः भवति हानिः ॥ ८ ॥

तृणकाष्ठभस्मादिरूपेण विद्यमानायाः [भुवः] योजनवृद्धिः भवति । अतः एव गृहपादपतडागादिखातेषु घटपिटकादि उपरि उपरि अवयवाः लभ्यन्ते ।

दिनतुल्यया एकरात्र्या ब्रह्मदिवसतुल्यया रात्र्या । मृदुपचितायाः भवति हानिः । मृदा उपचिता मृदुपचिता, तस्याः मृदुपचितायाः हानिः भवति । केन पुनर् कारणेन यत् उपचितम् बुवः तत् परिक्षीयते? ब्रह्मदिवसावसाने किल संवर्तकाभिधानैः जलधरैः विच्छिन्नधाराभिमुक्तेन पयसा यत् उपचितम् भुवः तत् परिक्षीयते ॥ ८ ॥

[ भूप्रमाणम् ]

भूभ्रमणवाचकपूर्वोत्तरपक्षप्रतिपादनाय आह --

अनुलोमगतिः नौस्थः पश्यति अचलम् विलोमगम् यद्वत् ।
अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् ॥ ९ ॥

अनुलोमगतिः नौस्थः, कश्चित् अनुलोमगतिः नौस्थः, पश्यति अचलम्, न चलम् वस्तुगत्या अपि स्थिरम्, विलोमगम् यथा पश्यति सरित्सागरोभयतटस्थितम् वृक्षदिकम्, [तथा एव] च भूमौ प्राङ्मुखम् भ्रमत्याम् उपरि[स्थिताः जनाः] नभस्थितानि अचलानि भानि प्रतिलोमगानि अपरगानि पश्यन्ति । तथा हि लङ्कास्थाः भानि समपश्चिमगानि पश्यन्ति । लङ्का उपलक्षणमात्रम् । एवम् अन्ये अपि पश्यन्ति । तस्मात् इयम् भूः एव प्राङ्मुखम् भ्रमति
। निश्चलम् ज्योतिश्चक्रम् । भूगत्या तदुपरिस्थितः यः भचक्रप्रदेशः पुरस्तात् स उदयन् इव च लक्ष्यते, यः तु मध्ये स गगनमध्यस्थितः इव, यः हि दूरेण सः अस्तम् गच्छन् इव लक्ष्यते । अन्यथा हि निश्चलस्य भचक्रस्य उदयास्तासम्भवः स्यात् ।

इदम् अस्य आदर्शनम् । भूमण्डले भ्रमति [सति] जगत् जलधिना आप्लावेत्, भूगोलवेगजनितप्रभञ्जनेन आक्षिप्ताः तरुशिखरप्रासादादयः विशीर्येरन् । पक्षिणः अपि वियति उत्पतन् न स्वनीडम् आसादयेयुः । तस्मात् धरित्रीभ्रमणे न किञ्चित् लिङ्गम् अस्ति । तस्मात् अन्यथा व्याख्येयम् सूत्रम् । यथा अनुलोमगतिः नौस्थः पुरुषः चलवस्तूनि विलोमगम् पश्यति, एवम् भानि चलानि प्रवहानिलाक्षिप्तानि वेगवशात् लङ्कायाम् यानि वस्तूनि तानि प्रतिलोमगानि
पश्यन्ति॑ अधोव्यवस्थिताम् भुवम् निश्चलाम् भ्रमन्तीम् इव पश्यन्ति । प्रत्यक्षे अपि नक्षत्राणि प्रागुदितानि अपराम् दिशम् आसादयन्ति ॥ ९ ॥

[ भूभ्रमणकारणम् ]

भ्रमणकारणम् आह --

उदयास्तमयनिमित्तम् नित्यम् प्रवहेण वायुना क्षिप्तः ।
लङ्कासमपश्चिमगः भपञ्जरः सग्रहः भ्रमति ॥ १० ॥

उदयः च अस्तमयः च [उदयास्तमयौ । तयोः ] उदयास्तमययोः निमित्तम् नित्यम् प्रवहेण प्रवहसंज्ञितेन वायुना क्षिप्तः भपञ्जरः, भपञ्जरः अपि नित्यगतिः एव, लङ्कायाम् समपश्चिमः यः दिक्प्रदेशः स लङ्कासमपश्चिमः, तम् गच्छति इति लङ्कासमपश्चिमगः, सह ग्रहैः वर्तते इति सग्रहः, भ्रमति क्षणम् अपि न अवतिष्ठते ।

यदि अपि ग्रहाः प्राङ्मुखम् व्रजन्ति तथा अपि भपञ्जरापेक्षया अपरदिक्सङ्क्रमणम् कुर्वन्ति, महता भपञ्जरगत्या नीयमानाः लक्ष्यन्ते, कुलालचक्रस्थाः कीटाः इव ॥ १० ॥

[ मेरुवर्णनम् ]

मेरुप्रमाणम् आह --
मेरुः योजनमात्रः प्रभाकरः हिमवता परिक्षिप्तः ।
नन्दनवनस्य मध्ये रत्नमयः सर्वतः वृत्तः ॥ ११ ॥

योजनम् मात्रा यस्य स योजनमात्रः, प्रमाणे मात्रन्प्रत्ययः । प्रभाकरः, प्रभाम् करोति इति प्रभाकरः । [हिमवता परिक्षिप्तः], हिमवता पर्वतेन समन्तात् वेष्टितः । [नन्दनवनस्य मध्ये], नन्दनम् वनम् [देवानाम् अप्सरोगणपरिवृतानाम्] क्रीडास्थानम्, तस्य मध्ये । रत्नमयः । रत्नानि [सुवर्णरजत]मुक्ताप्रवालपद्मरागमरकतप्रभृतीनि, तैः निर्मितः रत्नमयः । [सर्वतः] समन्तात् । वृत्तः गोलकाकारः इति अर्थः ।

अथ पौराणिकैः लक्षयोजनप्रमाणः मेरुः पठ्यते तत् युक्तिरहितम् । [लङ्कातः यावत् मेरुमध्यम् तावत् योजनसहस्रम् अपि न अस्ति, कुतः तत् एकदेशे भविष्यति । अथ भूः एव महाप्रमाणा परिकल्प्यते, तत् अयुक्तम् ।] यत् सपञ्चाशत्सहस्रम् योजनानाम् भूव्यासामनम् अक्षोन्नतिप्रसाधितम् तत् सोपपत्तिकम् । ग्रहोदयास्तमयमध्याह्निच्छायावनतिलम्बनादिभिः सिद्धम् उत्सृज्य किम् अन्यत् उपलभ्यते ।

किम् च पुराणेषु पुष्करद्वीपस्य उपरिगतः विवस्वान् मध्याह्नम् करोति इति पठ्यते । लक्षयोजनानाम् किल जम्बूद्वीपः, [ततः द्विगुणोत्तराः] समुद्राः [द्वीपाः च] सप्त, सप्तमः च पुष्करद्वीपः । तत् अनेकैः योजनसहस्रैः अन्तरैः व्यवस्थितम् । तत्र यदि मध्याह्नः विवस्वतः स्यात् अस्माकम् उत्तरगोलभूतत्वात् शङ्कोः छायानाशः [न] स्यात् । दृश्यते तच्छायानाशः । तस्मात् विषुवति लङ्कामध्ये सविता गच्छति इति सिद्धम् । [विषुवति लङ्कामध्ये
न सविता गच्छति इति तैः एव उक्तम् । तत् च अतिदूरत्वात् न घटते । यदि पतङ्गवत् उत्प्लुत्य गच्छति ततः युज्यते । तत् च अशक्यम् परिकल्पयितुम्, प्रत्यक्षविरुद्धत्वात् ।] तस्मात् ध्रुवोन्नत्या [आनीतम् एव] भुवः प्रमाणम् सिद्धम् । तत्र महाप्रमाणस्य मेरोः अवस्थानम् एव न अस्ति ।

[यदि कथञ्चित् महाप्रमाणः एव मेरुः अवतिष्ठते तदा स किम् अस्माभिः न दृश्यते । ] दूरत्वात् मेरुः अस्माभिः न दृश्यते, अथवा निष्प्रभत्वात् तत् न दृश्यते, न तर्हि रत्नमयः । किम् च यदि महाप्रमाणः मेरुः स्यात् मेरुशिखरान्तरितत्वात् भावात् उत्तरेण तारकाः न दृश्येरन् । तस्मात् तस्य कनकगिरेः उपरिशिखरप्रदेशे एव सर्वरत्नमयः मेरुशब्देन उच्यते ॥ ११ ॥

[ मेरुबडवामुखयोः स्थिती ]

क्व भूप्रदेशे मेरुः, क्व वा बडवामुखम् इति आह --

स्वः मेरू स्थलमध्ये नरकः बडवामुखम् च जलमध्ये ।
अमरमराः मन्यन्ते परस्परम् अधःस्थिताः नियतम् ॥ १२ ॥

स्वः स्वर्गोपलक्षितः, मेरुः च, स्थलमध्ये । नरकः बडवामुखम् च जलमध्ये । अमरमराः अमराः देवाः, मराः नरकस्थाः, ते परस्परम् अधःस्थाः मन्यन्ते । यतः सर्वेषाम् भूः अधः, अतः अन्योन्यम् अधःस्थिताः मन्यन्ते । यत्र उत्तरेण अयःशलाका भुवम् भित्वा निर्गता तत्र प्रदेशे स्वर्गः मेरुः, यत्र दक्षिणेन निर्गता तत्र नरकः बडवामुखम् च ॥ १२ ॥

[ उदयादिव्यवस्था ]

प्रकृष्टदेशान्तरव्यवस्थितान् देशान् आह --

उदयः यः लङ्कायाम् सः अस्तमयः सवितुः एव सिद्धपुरे ।
मध्याह्नः यमकोट्याम् रोमकविषये अर्धरात्रः स्यात् ॥ १३ ॥

लङ्कानिवासिनाम् यः उदयः स एव सिद्धपुरनिवासिनाम् अस्तमयः, [यतः लङ्काप्रदेशात् अधः व्यवस्थितम् सिद्धपुरम्] । मध्याह्नः यमकोट्याम्, यः एव लङ्कापुरनिवासिनाम् उदयः स एव यमकोटिनिवासिनाम् मध्याह्नः, यतः लङ्काप्रदेशात् पूर्वस्याम् भूपरिधिचतुर्भागे यमकोटिः । यः लङ्कानिवासिनाम् उदयः स रोमकनिवासिनाम् अर्धरात्रः, यतः लङ्कातः अपरभागे भूपरिधिचतुर्भागे रोमकम् । एवम् एते भूचतुर्थभाग्[आन्तराल]व्यवस्थिताः
स्थलजलसन्धिवर्तिनः देशाः परस्परम् अहोरात्रचतुर्भागकालदेशान्तरप्रमाणाः प्रदर्शयितव्याः ॥ १३ ॥

[ समरेखास्थनगर्यौ ]

देशान्तरप्रदर्शनार्थम् आह --

स्थलजलमध्यात् लङ्का भूकक्ष्यायाः भवेत् चतुर्भागे ।
उज्जयिनी लङ्कायाः तच्चतुरंशे समोत्तरतः ॥ १४ ॥

स्थलमध्यात् मेरोः आरभ्य जलमध्यात् च बडवामुखात् लङ्का भूकक्ष्यायाः चतुर्थभागे व्यवस्थिता । भूपरिधिः
३२९८
१७
२५, चतुर्भागः
८२४
६७
१०० । एतावति अन्तरे व्यवस्थिता । उज्जयिनी स्थलजलसन्धिवर्तिलङ्कायाः समोत्तरे दिग्भागे व्यवस्थिता । तच्चतुरंशे, तस्य भूचतुर्थभागस्य चतुर्थभागे । भूपरिधेः षोडशभागः
२०६
६७
४०० । एतावति अन्तरे लङ्कातः उज्जयिनी ।

लङ्कोज्जयिनीसमदक्षिणोत्तररेखायाम् वात्स्यगुल्मचकोरपुरप्रभृतीनि स्थानानि व्यवस्थितानि । उज्जयिन्याः उत्तरेण दशपुरमालवनगरचट्टशिवस्थानेश्वरप्रभृतीनि यावत् मेरुः इति ।

सर्वे ग्रहाः करणागताः भूमध्यसमदक्षिणोत्तररेखायाम् भवन्ति । पूर्वभागव्यवस्थिताः प्रथमतरम् एव रविम् पश्यन्ति, अतः देशान्तरफलम् अपनीयते । पश्चिमभागे [व्यवस्थिताः] चिरेण पश्यन्ति, अतः तत्र देशान्तरफलम् क्षिप्यते । स्वदेशाक्षसमरेखाक्षविवरभागैः त्रैराशिकम् -- यदि चक्रांशकैः भूपरिधियोजनानि लभ्यन्ते
३२९८
१७
२५,
तदा अक्षांशाविवरभागैः किम् इति, समदक्षिणोत्तररेखान्तरालयोजनानि भवन्ति कोट्यात्मकानि । स्वदेशस्थानतः तिर्यग्व्यवस्थितोज्जयिन्यादिस्थानम् । तस्य अन्तरालयोजनानि लोकात् अवगतानि कर्णः । कर्णकोटिवर्गविशेषमूलम् भुजयोजनानि । ततः यदि व्यासार्धतुल्यावलंबके[न भूपरिधिः तदा इष्टावलंबकेन का इति, स्पष्टभूपरिधिः । पुनर् यदि] स्पष्टभूपरिधिना ग्रहभुक्तिः लभ्यते देशान्तरयोजनैः का भुक्तिः इति देशान्तर्फलम् लभ्यते । पूर्ववत्
धनम् ऋणम् इति ॥ १४ ॥

[ भगोलस्य दृश्यादृश्यभागौ ]

भगोलदृश्यादृश्यज्ञापनाय आह --

भूव्यासार्धेन ऊनम् दृश्यम् देशात् समात् भगोलार्धम् ।
अर्धम् भूमिच्छन्नम् भूव्यासार्धाधिकम् च एव ॥ १५ ॥

भुवः व्यासः भूव्यासः तस्य अर्धम् भूव्यासार्धम्, ५२५ । तेन ऊनम् भगोलार्धम् दृश्यम् उपलभ्यते । कस्मात्? समात् देशात् । अनन्तरितः समः, महाद्रिद्रुमाद्युन्नतपदार्थरहितः देशः समः इति । अर्धम् भूमिच्छन्नम् न दृश्यते भूव्यासार्धेन अधिकम् अदृश्यम् ।

एतत् जिज्ञासुः भूगोलपृष्ठावगाहि सूत्रम् प्रसार्य पूर्वक्षितिजे अपरक्षितिजे [च] बध्नीयात् । भूपृष्ठस्थितस्य द्रष्टुः प्रसारितसूत्रानुसारिणी दृष्टिः याति । तत्र [पूर्व]प्रदेशे ज्योतींषि अर्धोदितानि पश्यति, पश्चात् अर्धास्तमितानि [पश्चति] । एवम् भूव्यासार्धेन ऊनम् [गोलार्धम्] गोलसूत्रान्तरालस्थितम् दृश्यम् । यत् एतत् अदृश्यम् गोलार्धम् गोलसूत्रान्तरालम् तत् भूव्यासार्धाधिकम् । एतत् समायाम् भुवि । यः पुनर् द्रष्टा तुंगशैलमस्तके भवति तत्
शैलप्रमाणाधिकम् तस्य अदृश्यम् भवति । विद्याधरादयः वियति दूरे स्थिताः प्रभूतम् ज्योतिश्चक्रम् पश्यन्ति, [यस्मात्] उपरि दूरस्थितस्य निर्विरोधप्रसारणा दृष्टिः भवति । अतिदूरे स्थितः ब्रह्मा सर्वदा विवस्वन्तम् पश्यति ।

[भूपृष्ठव्यवस्थितानाम् भूव्यासार्धोनभपञ्जरार्धदर्शिनाम् स्वात् प्रमाणात् सततम् दिवसः हीयते, निशा वर्धते । तदर्थम्] त्रैराशिकम् -- यदि रविकक्ष्यायाम् षष्टिः नाड्यः लभ्यन्ते तदा भूव्यासार्धयोजनैः ५२५ कियत्यः । लब्धेन द्विगुणेन सर्वदा हीनः दिवसः अधिका रात्रिः ॥ १५ ॥

[ मेरुवडवामुखस्थानाम् भगोलभ्रमणदर्शनम् ]

मेरुबडवामुखनिवासिनाम् दर्शनार्थम् आह --

देवाः पश्यन्ति भगोलार्धम् उदङ् मेरुसंस्थिताः सव्यम् ।
अर्धम् तु अपसव्यगतम् दक्षिणबडवामुखे प्रेताः ॥ १६ ॥

[ उदङ् मेरुस्थिताः देवाः भगोलस्य उत्तरम्] अर्धम् सव्यम् प्रदक्षिणगतिम् पश्यन्ति । द्वितीयम् अर्धम् दक्षिणम् ज्योतिश्चक्रस्य अपसव्यम् अप्रदक्षिणगतिम् बडवामुख[स्थिताः] प्रेताः पश्यन्ति । [स्थलजलसन्धौ स्थित्वा एतत् आचार्यः प्रतिपादयति । तत् अपेक्षया हि मेरुबडवामुखयोः उत्तरदक्षिणत्वम् । न मेरुबडवामुखस्थानाम् दिङ्नियमः अस्ति ।] सूर्यगत्यपेक्षया प्राच्यादिव्यवहारः । यत्र विवस्वान् उदेति सा प्राची, [यत्र अस्तमेति सा प्रतीची]
। [न तथा मेरुबडवामुखस्थानाम् अपि, परितः सर्वत्र रवेः उदयास्तमयसम्भवात् ।]

देशान्तरव्यवधानात् अन्यथा भचक्रार्धदर्शनम् भवति । कश्चित् पुरुषः उत्तरेण गतः देशान्तरम् एति तथात्वे ध्रुवम् उपरि आरोहितम् पश्यति, क्रमेण मेरुम् प्राप्तस्य उपरि ध्रुवः भवति । मेरोः उत्तरेण दक्षिणेन ध्रुवः अवलम्बते । एतत् उत्तरायःशलाकाग्रस्वस्तिकम् उपरि निधाय दक्षिणायःशलाकाग्रस्वस्तिकम् च अधोमुखम् निधाय दर्शयेत् । तथा लङ्कास्थस्य यः विषुवत् मार्गप्रदेशः पूर्वापरः प्रतिभासते स मेरुस्थानाम् क्षितिजासक्तः
। एवम् बडवामुखस्थानाम् अपि चक्रवत् भास्करः प्रतिभासते ॥ १६ ॥

[ देवासुरपितृनराणाम् दिनप्रमाणम् ]

मेरुबडवामुखस्थाः कियन्तम् कालम् रविम् पश्यन्ति इति आह --

रविवर्षार्धम् देवाः पश्यन्ति उदितम् रविम् तथा प्रेताः ।
शशिमासार्धम् पितरः शशिगाः, कुदिनार्धम् इह मनुजाः ॥ १७ ॥

देवाः मेरुनिवासिनः मेषादिषु षट्सु राशिषु समुद्गतम् सूर्यम् रविवर्षार्धम् पश्यन्ति षण्मासान् यावत् इति अर्थः, प्रदक्षिणम् चक्रवत् भ्रमन्तम् क्षितिजासक्तम् क्रमेण चतुर्विंशतिक्रान्तिभागान् यावत् परित्यक्तक्षितिजम् पश्यन्ति । एवम् प्रेताः अपि रविवर्षार्धम् एव सकृत् उद्गतम् सूर्यम् पश्यन्ति दक्षिणगोले षट्सु राशिषु ।

शशिमासार्धम् पितरः शशिगाः, शशिनम् गच्छन्ति इति शशिगाः, चन्द्रलोकनिवासिनः पितरः शशिनः मासार्धम् पञ्चदशतिथयः एतावन्तम् कालम् पश्यन्ति । पितॄणाम् अमावास्यायाम् उपरि सविता भवति । [तत्] तेषाम् अहर्मध्यम् । ततः यथा यथा सविता प्रतिपदादिषु परतः अवलम्बते तथा तथा पितॄणाम् मध्याह्नोत्तरभागः, राशित्रयान्तरितः अस्तम् एति, अस्तमितः पक्षेण राशिषडन्तरितः प्राच्याम् उदेति । अतः तेषाम् पक्षः अहः, पक्षः रात्रिः इति
। कुदिनार्धम् इह मनुजाः । कुदिनम् भूदिनम् रव्युदयात् रव्युदयम् यावत्, तदर्धम् इह मनुजाः पश्यन्ति । सर्वम् यथावत् स्थितम् गोले प्रदर्शयेत् इति ॥ १७ ॥

[ खगोले क्षितिजमण्डलम् ]

खगोले क्षितिजमण्डलप्रदर्शनाय आह --

पूर्वापरम् अधऊर्ध्वम् मण्डलम् अथ दक्षिणोत्तरम् च एव ।
क्षितिजम् समपार्श्वस्थम् भानाम् यत्र उदयास्तमयौ ॥ १८ ॥

पूर्वापरमण्डलम् तत् इह खगोलप्रमाणम् । स एव ऊर्ध्वम् उपर्यधोवगाहि सर्वभपञ्जराणाम् । तथा दक्षिणोत्तरम् अन्यत् मण्डलम् तावत्प्रमाणम्, दक्षिणोत्तरावगाहि याम्य उत्तरमण्डलम् उपरि अधः च जनितस्वस्तिकम् । क्षितिजम् समपार्श्वस्थम् तथा अन्यत् मण्डलम् तावत् एव । समपार्श्वावगाहि परिकरवत् दिक्चतुष्टयजनितस्वस्तिकम् क्षितिज इति उच्यते । भानाम् यत्र उदयास्तमयौ । यत्र मण्डले भानाम् उदयास्तमयौ लक्ष्येते । हरिजम्
इति कैश्चित् उच्यते । अयम् खगोलः सर्वभपञ्जराणाम् बहिः अवतिष्ठते ॥ १८ ॥

[ उन्मण्डलम् ]

उन्मण्डलप्रदर्शनाय आह --

पूर्वापरदिग्लग्नम् क्षितिजात् अक्षाग्रयोः च लग्नम् यत् ।
उन्मण्डलम् भवेत् तत् क्षयवृद्धी यत्र दिवसनिशोः ॥ १९ ॥

दक्षिणोत्तरक्षितिजस्वस्तिकात् याम्य उत्तरमण्डले स्वदेशाक्षभागतुल्ये अन्तरे वेधे कृत्वा लोहशलाकाग्रे प्रवेश्य गोलम् निदध्यात् । ततः उन्मण्डलम् दर्शयेत् । पूर्वापरदिग्लग्नम् पूर्वापरयोः दिशोः लग्नम् । क्षितिजात् अक्षाग्रयोः च लग्नम् यत् । दक्षिणोत्तरक्षितिजस्वस्तिकयोः उपरि अधः स्वदेशाक्षभागतुल्ये अन्तरे लग्नम् कारयेत् । तत् उन्मण्डलम् । उदयमण्डलम् उन्मण्डलम् । यत्र मण्डले दिवसस्य रात्रेः च क्षयवृद्धी लक्ष्येते ।

विषुवति उन्मण्डलक्षितिजयोः एकत्वात् दिवसनिशोः क्षयवृद्धी न स्तः । विषुवतः उत्तरेण उन्मण्डलम् उपरि क्षितिजम् अधः अवतिष्ठते । तस्मात् उत्तरगोले अप्राप्ते एव उन्मण्डलम् [सविता] चरदलघटिकाप्रमाणेन उदेति । पश्चात् उन्मण्डलम् अतिक्रान्तः अस्तम् एति । अतः दिवसः उत्तरगोले वर्धते । दक्षिणगोले उन्मण्डलम् अतिक्रान्तः क्षितिजात् उदेति । अप्राप्तः एव अस्तमेति । अतः दक्षिणगोले रात्रिः उपचीयते । अतः तत्तुल्या दिवसनिशोः क्षयवृद्धी । तदर्थम्
त्रैराशिकम् -- यदि षष्ट्या ग्रहभुक्तिः लभ्यते, तदा चरदलघटिकाभिः कियती इति । लब्धम् उत्तरगोले रवौ उदये विशोधयेत् । याम्ये विपरीतम् । एवम् उत्तरदिशि व्यवस्थितानाम् क्रमेण दिवसनिशोः महत्यौ क्षयवृद्धी भवतः । यत्र देशे रविः मिथुनान्तस्थः न अस्तम् एति, षष्टिः नाड्यः दिवसः, तत्र त्रिंशद्घटिकाः चरम्, पञ्चदशघटिकाः चरार्धम् । तस्य काष्ठस्य ज्या चरज्या । तया विपरीतकर्मणा क्षितिज्या आनीयते -- यदि व्यासार्धस्य इयम् [व्यासार्धतुल्या]
चरज्या तदा मिथुनान्तस्वाहोरात्रार्धस्य का इति मिथुनान्तस्वाहोरात्रार्धतुल्या क्षितिज्या लभ्यते । तस्याः क्षितिज्यायाः मिथुनान्तापक्रमज्यायाः च वर्गयुतेः मूलम् अर्काग्रा त्रिज्यातुल्या । तेन तत्र देशे याम्य उत्तरे क्षितिजात् उपरि क्रमेण [सम]मण्डलम् अवगाह्य खमध्यात् दक्षिणेन द्विचत्वारिंशद्भागे [याम्य उत्तरम् अतिक्रम्य] ततः प्रथमोदये पुनर् क्षितिजम् आप्नोति च एव । तत्र षष्तिः नाड्यः दिवसः उपलक्ष्यते । स्वार्काग्रतः [क्षितिज्या । तदर्थम् त्रैराशिकम्]
-- अर्काग्रया इष्टतुल्यया क्षितिज्या लभ्यते व्यासार्धेन किम् इति । गुणकभाजकयोः तुल्यत्वात् नष्टयोः क्षितिज्याप्रमाणा अक्षज्या भवति । तत् कथम्? अक्षः षट्षष्टिभागाः । तत्र देशे व्यभिचारात् ग्रहगतिः । उत्तरेण तस्मात् इयम् व्यवस्था न अस्ति इति ॥ १९ ॥

[ खगोलापेक्षया द्रष्टुः स्थितिः ]

प्राच्यादिव्यवस्थाप्रतिपादनाय आह --

पूर्वापरदिग्रेखा अधः च ऊर्ध्वा दक्षिणोत्तरस्था च ।
एतासाम् सम्पातः द्रष्टा यस्मिन् भवेत् देशे ॥ २० ॥

पूर्वापररेखा, अधः च ऊर्ध्वा च या रेखा, दक्षिणोत्तरस्था च । च[कारः] समुच्चये । एतासाम् रेखाणाम् सम्पातः एकत्र योगः, यस्मिन् देशे द्रष्टा तत्र तत्र तासाम् सम्पातः ।

तस्मात् द्रष्टृवशात् दिग्व्यवस्था । यत्र द्रष्टा रविम् उद्गच्छन् पश्यति सा प्राची, यत्र [रविः] मध्याह्नम् करोति सा दक्षिणा, यत्र अस्तम् एति सा परा, यत्र अर्धरात्रम् करोति सा उत्तरा । सर्वेषाम् उत्तरः मेरुः । लङ्कानिवासिनाम् यदा मध्याह्ने रविः भवति रोमकनिवासिनाम् उदेति । तत्र लङ्काप्रदेशे तेषाम् प्राची । तदपेक्षया स्वस्थानात् उत्तरः मेरुः प्रतिभासते । यदा रोमके मध्याह्नः तदा सिद्धपुरनिवासिनाम् उदयः [तत्र रोमकप्रदेशे
तेषाम् प्राची] । तदपेक्षया तेषाम् स्वस्थानात् उत्तरः मेरुः । एवम् यमकोट्याम् अपि ।

भूमौ यावत्तावत्प्रमाणम् वृत्तम् आलिख्य पूर्वाह्णे [अपराह्णे च] छायाम् लक्षयेत् । यत्र प्रदेशे शङ्कुच्छाया वृत्तम् प्रविशति सा पश्चिमा । यत्र निर्याति सा प्राची । तदग्रयोः मत्स्यम् उत्पाद्य तन्मुखपुच्छस्पृक्सूत्रम् प्रसारयेत् । सा दक्षिणोत्तरा दिग् भवति । अथवा त्रिच्छायाग्रमत्स्यद्वयमुखपुच्छस्पृक्सूत्रद्वयसम्पातः उत्तरा दक्षिणा च । [अथवा दिक्] प्रसाधनीया चित्रास्वात्योः ॥ २० ॥

[ दृङ्मण्डलम् दृक्क्षेपमण्डलम् च ]

[ दृङ्मण्डलदृक्क्षेपमण्डलस्वरूपम् आह --]

ऊर्ध्वम् अधस्तात् द्रष्टुः ज्ञेयम् दृङ्मण्डलम् ग्रहाभिमुखम् ।
दृक्क्षेपमण्डलम् अपि प्राग्लग्नम् स्यात् त्रिराश्यूनम् ॥ २१ ॥

दृङ्मण्डलम् [द्रष्टुः ऊर्ध्वम् अधस्तात्] ग्रहाभिमुखम् [भवति] । यत्र द्रष्टा भवति तत्र अस्य मध्यम्, यत्र ग्रहः तत्र अस्य परिधिः, यावान् दृग्ग्रहयोः अन्तरम् तावता विष्कम्भार्धेन दृङ्मण्डलम् प्रदृश्यम् । तत् एव मध्याह्नस्थिते ग्रहे दृक्क्षेपमण्डलम् भवति । दृक्क्षेपमण्डलम् अपि । सममण्डलमध्यात् दक्षिणेन उत्तरेण वा यत्र ग्रहाभिमुखम् दृष्टेः क्षेपः तत्र यः महाप्रमाणकक्ष्यः ग्रहः स स्तोकतरम् क्षिप्यते,
अल्पप्रमाणकक्ष्यः बहुतरम् क्षिप्यते इति । एतत् मध्याह्ने दृग्ज्याप्रमाणव्यासार्धेन सममण्डलमध्यात् बध्नीयात् । अस्य आनयनोपायः -- प्राग्लग्नम् स्यात् त्रिराश्यूनम् । पर्वकालघटिकाः पूर्वाह्णे दिनार्धात् शोधयेत् । शेषप्राणान् त्रैराशिकानीतरविभुक्तलङ्कोदयप्राणैः ऊनीकुर्यात् । शेषेभ्यः यावत् लङ्कोदयप्राणाः शुध्यन्ति तावत् शोध्याः । तान्वन्तः एव राशयः विशोध्यन्ते । शेषप्राणान् त्रिंशता गुणयेत्, अशुद्धलङ्कोदयेन विभजेत्, लब्धम् भागादि
पूर्वविशोधितैः एव शोधयेत् । पूर्वाह्णे मध्यलग्नम् भवति । अपराह्णे अधिकत्वात् रवेः यावन्तः लङ्कोदयाः विशुध्यन्ति तावन्तः प्रक्षिप्य लग्नम् क्रियते । आचार्येण स्थूलप्रकृत्या इष्टघटिकाभिः पूर्वलग्नम् लग्नविधिना कृत्वा त्रिराश्यूनम् क्रियते, मध्यलग्नम् भवति इति । राशयः लङ्कोदयैः मध्यम् अवगाहन्ते इति लङ्कोदयैः यत् मध्यलग्नम् तत् सूक्ष्मम् इति । तस्य अपक्रमकाष्ठम् स्वदेशाक्षभागयुतम् समदिशोः भिन्नदिशोः विशुद्धम्
खमध्यरविकक्ष्यान्तरालम् भवति । तस्य जीवा मध्यज्या इति उच्यते । चन्द्रस्य अपक्रमकाष्ठम् विक्षेपयुतम् वियुतम् क्रियते । यतः विमण्डले चन्द्रः ततः अक्षभागयुतवियुतस्य ज्या चन्द्रमध्यज्या भवति । अनया अत्र मध्यज्या व्याख्याता ॥ २१ ॥

[ स्वयंवहगोलयन्त्रम् ]

स्वयंवहगोलयन्त्रप्रतिपादनाय आह --

काष्ठमयम् समवृत्तम् समन्ततः समगुरुम् लघुम् गोलम् ।
पारततैलजलैः तम् भ्रमयेत् स्वधिया च कालसमम् ॥ २२ ॥

काष्ठैः निर्मितम् काष्ठमयम् श्रीपर्ण्यादिभिः पूर्ववत् । समवृत्तम् । सर्वेषु प्रदेशेषु [समम्], न हीनाधिकम् इति । समगुरुम् । समन्ततः समा गुरुता कार्या । यदि अतिमात्रगुरुः भवति पाषाणवत् निश्चलः स्यात्, [महता कालेन भ्रमति इति अतः] समवृत्तम् समगुरुम् । लघुम् अत्र अपि समशब्दः प्रयोक्तव्यः । एतत् गुणविशिष्टम् गोलम् कथम् भ्रमयेत्? पारततैलजलैः इति । स्वधिया च स्वकीयप्रज्ञया च तम् भ्रमयेत् । कालसमम् कालेन
समम् कालसमम् । कालसमम् अहोरात्रसमम् यथा भ्रमति तथा भ्रमयेत् । तत् यथा -- षष्टिघटिकाङ्कितस्वाहोरात्रमण्डले कन्यातुलासन्धिप्रदेशे कीलकम् ईषत् उन्नतम् एकम् कारयेत् । सिद्धपूर्वापरदक्षिणोत्तरस्थाने जलपात्रम् एकम् स्थापयेत् । पात्रम् च समम् वत्तम् दीर्घम् [तल]मध्यनिहितसूक्ष्मच्छिद्रम् घटिकाषष्ट्या जलपूर्णम् यथा रिक्तम् भवति तथा स्वधिया प्रसाध्य ततः कर्म क्रियते । यावत् पात्रात् उदकम् स्रवति तावत् गुरुत्वात्
अलाबुः जलवशात् अधोगच्छन् गोलम् आकर्षति । एवम् सकृत् युक्तः गोलः परमार्थभगोलवत् अहोरात्रे भ्रमति । प्रथमम् ताम्रकीलके पाशकसूत्रस्य एकम् अग्रम् बध्वा गोलयन्त्रम् अधस्तात् प्रभृति परिवेष्ट्य तत्र एव प्रदेशे सूत्रम् प्रापयेत् इति क्रमः ॥ २२ ॥

[ अक्षक्षेत्रम् ]

विषुवत् ज्याप्रदेशप्रतिपादनाय आह --

दृग्गोलार्धकपाले ज्यार्धेन विकल्पयेत् भगोलार्धम् ।
विषुज्जीवाक्षभुजा तस्याः तु अवलम्बकः कोटिः ॥ २३ ॥

दृग्गोलार्धम् घटकपालवत् अवस्थितत्वात् दृग्गोलार्धकपालम् । भगोलार्धम् एव केवलम् दृश्यते । येन व्यवहारः दृश्यः । भगोलार्धम् जातौ एकवचनम् । ज्यार्धेन विकल्पयेत् । भूमौ वृत्तम् आलिख्य पूर्वापरदक्षिणोत्तरदिक्चिह्नितम् कृत्वा एकैकस्मिन् चतुर्थभागे राशित्रयम् अङ्कयेत् । पुनर् एकैकः राशिः अष्टधा विभजेत् । तत्र सूत्राणि प्रसारयितव्यानि । तानि ज्यासूत्राणि । तदर्धानि ज्यार्धानि । अथवा अन्यः विकल्पक्रमः । विषुवज्जीवाक्षभुजा
। सममण्डलस्य विषुवतः उत्तरेण अक्षतुल्यान्तरे अवस्थितत्वात् अक्षः इति उच्यते । तस्य अक्षकाष्ठस्य भुजा, अक्षज्या विषुवज्ज्या इति पर्यायाः । व्यासार्धम् कर्णः । भुजाकर्णकृतिविशेषमूलम् अवलम्बकः । सा कोटिः इति । एतत् गोले प्रदर्शयेत् । सममण्डलमध्यात् दक्षिणेन आक्षज्यातुल्ये अन्तरे सूत्रस्य एकम् अग्रम् बध्वा ग्रहम् प्रापयेत् । सः अवलम्बकः । भुजाकोटिवर्गयोगस्य मूलम् कर्णः व्यासार्धम् इति । एवम् अन्यत्र अपि दृग्गोलार्धे कल्पितज्यार्धेषु
भुजाकोटिकर्णव्यवस्था कल्पनीया ॥ २३ ॥

[ स्वाहोरात्रार्धविष्कम्भः ]

अपक्रमादिभिः भुजादिकल्पनाम् आह --

इष्टापक्रमवर्गम् व्यासार्धकृतेः विशोध्य यत् मूलम् ।
विषुवदुदग्दक्षिणतः तत् अहोरात्रार्धविष्कम्भः ॥ २४ ॥

सूर्यस्य इष्टापक्रमज्यायाः चन्द्रस्य इष्टापक्रमज्यायाः च यः वर्गः स इष्टापक्रमवर्गः । तम् व्यासार्धकृतेः विशोध्य [शेषस्य] यत् मूलम् तत् विषुवतः उत्तरेण दक्षिणेन वा अहोरात्रस्य विष्कम्भः भवति । क्रान्तिज्या भुजा । व्यासार्धम् कर्णः । तयोः यत् वर्गविशेषमूलम् तत् स्वाहोरात्रार्धविष्कम्भः । पूर्वविधिना तत् उत्तरगोले उत्तरेण, दक्षिणगोले दक्षिणेन प्रदर्शयेत् ॥ २४ ॥

[ मेषादीनाम् लङ्कोदयाः ]

लङ्कोदयप्राणानयनम् आह --

इष्टज्यागुणितम् अहोरात्रव्यासार्धम् एव काष्ठान्त्यम् ।
स्वाहोरात्रार्धहृतम् फलम् अजात् लङ्कोदयप्राग्ज्याः ॥ २५ ॥

इष्टज्या इति मेषवृषमिथुनान्तज्याः गृह्यन्ते । एताभिः गुणितम् अहोरात्रव्यासार्धम् स्वाहोरात्रार्धविष्कम्भः इति अर्थः । काष्ठस्य अन्तः काष्ठान्तः, तत्र भवम् काष्ठान्त्यम् । नवतिः भागाः यस्मिन् [काष्ठे तस्य अन्ते भवम्] यत् स्वहोरात्रार्धम् तत् एव [इष्ट]ज्याभिः गुणितम् स्वहोरात्रार्धहृतम् स्वकीयस्वकीयाहोरात्रार्धहृतम् फलम् इष्टलङ्कोदयप्राग्ज्याः । अजात् मेषात् प्रभृति काष्ठम् भवति इति काष्ठीक्रियते । [मिथुनान्त]प्राग्ज्याकाष्ठात्
वृषान्तप्राग्ज्याकाष्ठम् विशोधयेत् । शेषम् मिथुनस्य लङ्कोदयप्राणाः । [एवम्] वृषान्तप्राग्ज्याकाष्ठात् [मेषान्तप्राग्ज्याकाष्ठम् विशोधयेत् । शेषम् वृषभस्य लङ्कोदयप्राणाः] । स्वरूपतः एव मेष[लङ्को]दयप्राणाः भवन्ति ॥ २५ ॥

[ क्षितिज्या ]

दिननिशोः क्षयवृद्धिप्रतिपादनाय आह --

इष्टापक्रमगुणिताम् अक्षज्याम् लम्बकेन हृत्वा या ।
स्वाहोरात्रे क्षितिजा क्षयवृद्धिज्या दिननिशोः सा ॥ २६ ॥

इष्टापक्रमेण गुणिताम् इष्टापक्रमगुणिताम् । [इष्टापक्रमगुणिताम्] अक्षज्याम् लम्बकेन हृत्वा फलम् स्वाहोरात्रमण्डले क्षितिज्या भवति । तत्र इष्टापक्रमज्या कोटिः, क्षितिज्या भुजा, तद्वर्गयुतिमूलम् कर्णः अर्काग्रा भवति इति । पूर्वापरस्वस्तिकयोः अर्काग्रयोः सूत्रम् बध्वा भुजकोटिवासना प्रदर्श्या । क्षितिजोन्मण्डलयोः अन्तरम् क्षितिजा इति । तया दिननिशोः क्षयवृद्धी । पूर्वक्षितिजात् उपर्यधोव्यवस्थितोन्मण्डल[क्षितिजयोः मध्ये ज्या]वत् सा
प्रदर्श्यते ॥ २६ ॥

[ स्वदेशोदयाः ]

राश्युदयकालप्रतिपादनाय आह --

उदयति हि चक्रपादः चरदलहीनेन दिवसपादेन ।
प्रथमः अन्त्यः च अथ अन्यौ तत्सहितेन क्रमोत्क्रमशः ॥ २७ ॥

उदयति दर्शनम् याति, अर्धम् उपरि चक्रपादः, त्रयः राशयः । चरदलहीनेन दिवसपादेन इति अनेन लङ्कोदयाः त्रयः परिगृह्यन्ते । यतः त्रिभिः मेषादिलङ्कोदयैः पञ्चदशघटिकाः ताः स्वाहोरात्रचतुर्थः अंशः, ततः क्रमेण व्यवस्थितलङ्कोदयप्राणेभ्यः मेषादिचरदलप्राणान् स्वदेशाक्षोत्पन्नान् स्वकीयान् विशोधयेत् । मेषादीनाम् स्वदेशोदयाः भवन्ति । अन्त्यः चक्रपादः मीनकुम्भमकराः । एते अपि चरदलहीनेन चक्रपादेन उदयन्ति
। चरदलसहितेन दिवसपादेन । अत्र अपि दिवसपादग्रहणेन कर्कटसिंहकन्यायाः उत्क्रमेण लङ्कोदयाः गृह्यन्ते । तेन कर्कटसिंहकन्यायाः चरप्राणैः उत्क्रमेण सहिताः उदयन्ति । क्रमोत्क्रमशः इति । क्रमोत्क्रमगत्या क्रमेण चरदलहीनाः मेषवृषमिथुनाः, उत्क्रमेण सहिताः कर्कटसिंहकन्याः । एते एव उत्क्रमेण तुलावृश्चिकधनूंषि । ततः मकरकुम्भमीनाः उत्क्रमेण चरदलहीनाः । मेषवृषमिथुनाः क्रमेण अपमण्डले तिर्यग्व्यवस्थिताः,
तेन मेषः शीघ्रम् उदेति अतः चरदलासुभिः अपचीयते । एवम् वृषः मिथुनः च । एतैः मकरादयः व्याख्याताः । कर्कटसिंहकन्याः [तद्भिन्न]संस्थानत्वात् चिरेण उद्गच्छन्ति । अतः चरदलप्राणैः उपचीयन्ते । एतैः तुलादयः व्याख्याताः ।

क्षितिज्या व्यासार्धगुणा स्वाहोरात्रार्धहृता चरज्या, तत्काष्ठम् चरदलप्राणाः । पृथक् मेषादीनाम् लङ्कोदयवत् उत्पाद्याः । स्वदेशराश्युदयैः इष्टकाललग्नार्थम् सूर्योदयात् प्रभृति घटिकाः प्राणीकृत्य सूर्यभोग्यराश्युदयप्राणाः तेभ्यः विशोधयेत् । सूर्ये भोग्यांशम् क्षेप्यम् । पुनर् यावन्तः राश्युदयाः शुद्ध्यन्ति तावन्तः विशोध्य सूर्ये राशयः क्षिप्यन्ते । शेषम् त्रिंशता गुणितम् असुद्धोदयभक्तम् भागादि वर्धितरवौ क्षिपेत् । लग्नम्
भवति । एवम् रात्रौ अपि रात्रिगतघटिकाः दिनमानघटिकासु प्रक्षिप्य लग्नम् अनेन विधिना कर्तव्यम् । रात्रिशेषघटिकाभिः विपरीतकर्मणा रवेः गतभागादिना तदुत्क्रमेण यावन्तः उदयप्राणाः विशुद्धेयुः तावन्तः शोधनीयाः ] शेषम् त्रिंशता गुणितम् वर्तमानोदयभक्तम् भागादि शोधितम् उदयलग्नम् ।

अथ रवेः लग्नस्य च अन्तरकालसाधनम् । रवेः अभुक्तभागैः अभ्युदयम् संगुण्य त्रिंशता भजेत् । लब्धम् रवेः अभुक्तप्राणाः । एवम् लग्नभुक्तभागैः तदुदयम् संगुण्य त्रिंशता विभजेत् । लब्धम् लग्नभुक्तप्राणाः । अन्तरप्राणयुक्ताः षड्भिः भक्ताः विघटिकाः, षष्ट्या घटिकाः, सूर्योदयात् आरभ्य भवन्ति ॥ २७ ॥

[ इष्टकालशङ्कुः ]

[ इष्टकालशङ्क्वानयनार्थम् आह -- ]

स्वाहोरात्रेष्टज्या क्षितिजात् अवलम्बकाहताम् कृत्वा ।
विष्कम्भार्धविभक्ते दिनस्य गतशेषयोः शङ्कुः ॥ २८ ॥

[स्वाहोरात्रे]ष्टज्यानयनम् दिनगतशेषघटिकाभ्यः । उत्तरगोले क्षितिज[म् उन्मण्डला]त् अधः व्यवस्थितम् अतः चरदलघटिकाः [दिनगतशेषघटिकाभ्यः ] विशोध्य निष्पन्नाः उन्मण्डलावधेः भवन्ति । ताः प्राणीकृत्य जीवा ग्राह्या । चरदलज्यया सौम्येतरगोलयोः युतवियुता क्षितिजावधेः भवति । [अतः त्रैराशिकम्] -- यदि व्यासार्धमण्डले इयम् ज्या भवति स्वाहोरात्रार्धमण्डले कियती इति क्षितिजमण्डलावधेः स्वाहोरात्रेष्टज्या अभिधीयते ।
ताम् इष्टज्याम् अवलम्बकाहृताम् कृत्वा विष्कम्भार्धेन व्यासार्धेन विभजेत् । दिवसस्य पूर्वाह्णे गतस्य, अपराह्णे शेषस्य शङ्कुः भवति ।

चन्द्रशङ्क्वानयनम् । रात्रौ चन्द्रच्छाया उपलक्षयेत् । तत्र पूर्वकपाले चन्द्रमसः इष्टकालघटिकाः, अपरकपाले तु चन्द्रास्तलग्नान्तरालघटिकाः चन्द्रमसः शेषघटिकाः आनीय इष्टकर्म । चन्द्रस्वाहोरात्रार्धम् क्षितिज्याम् चरदलज्याम् च आनीय चरदलविपर्ययनिष्पन्नप्राणैः सूर्यवत् कर्म कर्तव्यम् । अथ स्वाहोरात्रेष्टज्या द्वादशगुणा विषुवत्कर्णेन भक्ता इष्टशङ्कुः भवति । अथवा चरदलेन अधिकोनघटिकाज्याम्
चरदलज्याविपर्ययनिष्पन्नाम्, लम्बकगुणिताम् स्वाहोरात्रेण संगुण्य त्रिज्यावर्गेण [विभज्य] शङ्कुलब्धिः । अथवा ताम् द्वादशगुणस्वाहोरात्रेण संगुण्य विषुवत्कर्णगुणव्यासार्धेन भजेत् । फलम् शङ्कुः ।

दिवसगतघटिकानयने च शङ्कुना गुणितम् व्यासार्धम् शङ्कुच्छायावर्गयुतिमूलेन भक्तम् बृहच्छङ्कुः भवति । त्रिज्यागुणितः लम्बकभक्तः स्वाहोरात्रेष्टज्या लभ्यते । तेन उत्तरगोले क्षितिज्या शोध्यते, दक्षिणे क्षिप्यते । ततः व्यासार्धेन हत्वा स्वाहोरात्रार्धेन भजेत् । लब्धस्य काष्ठम् उत्तरगोले चरदलयुतम् दक्षिणे हीनम् दिनगतशेषप्राणाः [ भवन्ति । तैः ] प्राग्वत् घटिकाः ॥ २८ ॥

[ शङ्क्वग्रम् ]

शङ्क्वग्रप्रदर्शनाय आह --

विषुवज्जीवागुणितः स्वेष्टः शङ्कुः स्वलम्बकेन हृतः ।
अस्तमयोदयसूत्रात् दक्षिणतः सूर्यशङ्क्वग्रम् ॥ २९ ॥

स्वेष्टशङ्कुः इष्टकालोत्पन्नशङ्कुः, विषुवज्ज्यया अक्षजीवया गुणितः लम्बकेन भक्तः अस्तोदयसूत्रात् दक्षिणतः सूर्यशङ्क्वग्रम् भवति । शङ्कोः अग्रम् अन्तरालम् शङ्कुमूलात् समोत्तरावगाहिसूत्रम् यावत् अस्तमयोदय[सूत्र]म् इति ।

क्षितिजमण्डले प्राक्स्वस्तिकात् दक्षिणम् उत्तरम् वा अर्काग्राकाष्ठतुल्यान्तरे सूत्रस्य एकम् अग्रम् बध्वा, द्वितीयम् अग्रम् तावत् [अर्काग्राकाष्ठतुल्यान्तरे] एव अपरभागे बध्नीयात् । तत् पूर्वापरायतम् उदयास्तसूत्रम् । तस्य सूत्रस्य शङ्कुतलस्य अन्तरे शङ्क्वग्रम् । शङ्कुमूलात् भूमध्यम् यावत् सूत्रम् दृग्ज्या । भूमध्यात् उपरि शङ्कुमस्तकप्रापि यत् सूत्रम् कर्णः व्यासार्धम् इति ॥ २९ ॥

[ अर्काग्रा ]

अर्काग्रानयनाय आह --

परमापक्रमजीवाम् इष्टज्यार्धाहताम् ततः विभजेत् ।
ज्या लम्बकेन लब्धार्काग्रा पूर्वापरे क्षितिजे ॥ ३० ॥

परमापक्रमज्या चतुर्विंशतिभागज्या १३९७ । ताम् इष्टस्य रवेः भुजज्यया गुणिताम् [कृत्वा] लम्बकेन विभजेत् , [लब्धा ज्या] अर्काग्रा भवति । इयति अध्वनि विषुवतः उत्तरेण दक्षिणेन वा रविः उदेति, पूर्वापरे च क्षितिजमण्डलप्रदेशे ॥ ३० ॥

[ समशङ्कुः ]

सममण्डलशङ्क्वानयनाय आह --

सा विषुवज्ज्योना चेत् विषुवदुदग्लम्बकेन सङ्गुणिता ।
विषुवज्ज्यया विभक्ता लब्धः पूर्वापरे शङ्कुः ॥ ३१ ॥

सा इति अनेन अपक्रमज्या गृह्यते । उत्तरगोले विषुवज्ज्यातुल्या क्रान्तिज्या [यदा] भवति, तदा मध्याह्ने एव सविता सममण्डलम् विशति । विषुवज्ज्या [यदा] क्रान्तिकाष्ठज्यया ऊना [तदा] सममण्डलात् उत्तरेण याति । [क्रान्तिकाष्ठज्या यदा] विषुवज्ज्यया ऊना तदा सममण्डलम् विशति । [क्रान्तिकाष्ठज्या] यदा ऊना विषुवज्ज्यया, तदा [पूर्वानीता अर्काग्रा] लम्बकेन गुणिता विषुवज्ज्यया भक्ता सममण्डलशङ्कुः भवति ।
पूर्वसममण्डलेन अपरसममण्डलेन [च] क्षितिजे अर्काग्रान्तरे अस्तमयोदयसूत्रम् बध्वा अर्काक्रान्तराशिभागप्रदेशः समपूर्वापरमण्डले यत्र लग्नम् प्राग्बिन्दुतः तत् सममण्डलचापम् तथा गोले भ्रमयेत् यथा क्षितिजाधोभागे सममण्डले तावति अन्तरे लग्नम् भवेत् । तयोः सममण्डलबिन्द्वोः अन्तरे सूत्रम् बध्वा तदर्धम् शङ्कुः पूर्ववत् एव पूर्वापररेखास्पृक् भवति । शङ्कोः उत्तरेण अस्तमयोदयसूत्रम् यावत् अन्तरम् शङ्क्वग्रम्
अर्काग्रातुल्यम् । सममण्डलशङ्कुः अक्षज्यया गुणितः परमक्रान्तिज्याभक्तः सूर्यभुजज्या भवति । [सूर्ये मेषादिगे] तत्काष्ठम् आदित्यः, कर्कटकादिगे षड्राशिविशुद्धम्, तुलादिगे षड्राशियुतम्, मकरादिगे चक्रविशुद्धम् रविः भवति ।

छेद्यके अपि -- समायाम् भूमौ वृत्तम् आलिख्य दिक्चिह्नितम् कृत्वा सूर्यबिम्बोदये अस्ते च पूर्वापरयोः बिन्दू कृत्वा पूर्वापररेखायाः दक्षिणे [मध्याह्ननतज्यातुल्ये अन्तरे] तृतीयम् बिन्दुम् प्रकल्प्य बिन्दुत्रयावगाहि मत्स्यद्वयेन वृत्तम् आलिखेत् । तत् अर्कभ्रमवृत्तम् । अर्काग्राग्रे सविता उदितः तद्वृत्तानुसारेण सममण्डलम् अवगाह्य दक्षिणेन नतज्यातुल्ये अन्तरे मध्याह्नम् कृत्वा क्रमेण अपरभागे सममण्डलात् निष्क्रान्तः अपराग्राग्रे
अस्तम् एति । अर्कभ्रमवृत्तस्य प्रागपररेखायाः यत्र सम्पातः तत्र सममण्डले प्रवेशः । सममण्डले तु मध्यम् यावत् अन्तरम् सममण्डलशङ्कुच्छाया भवति । दक्षिणगोले सममण्डलात् दक्षिणेन याति । [तदा] सममण्डलस्य प्रवेशाभावः ॥ ३१ ॥

[ मध्याह्नशङ्कुः ]

मध्याह्नशङ्कुच्छाययोः आनयनाय आह --

क्षितिजात् उन्नतभागानाम् या ज्या सा परः भवेत् शङ्कुः ।
मध्यात् नतभागज्या छाया शङ्कोः तु तस्य एव ॥ ३२ ॥

क्षितिजात् इति समदक्षिणोत्तरस्वस्तिकप्रदेशात् ये उन्नतभागाः गोलमध्यस्थिते रवौ लक्षिताः तेषाम् या ज्या सा परमः शङ्कुः भवति । या मध्यात् नतभागज्या सा परमशङ्कोः छाया स्यात् । इष्टमध्याह्ने रवेः अपक्रमभागाः अक्षभागेषु दक्षिणगोले प्रयोजयेत् । उत्तरे गोले वियोजयेत् । ते नतभागाः भवन्ति । चन्द्रस्य विक्षेपयुतवियुताः नतभागाः भवन्ति, यतः विमण्डले चन्द्रः । एते नवतेः विशोध्यन्ते । शेषम् उन्नतभागाः । तेषाम् [ज्या]
उन्नतभागज्या । अथवा तद्दिनस्वाहोरात्रार्धम् क्षितिज्यया स्वया उदग्याम्ये वियुतयुतं[व्यासार्धगुणम् स्वाहोरात्रार्धभक्तम्] द्वादशगुणम् विषुवत्कर्णहृतम् महाशङ्कुः तदुन्नतज्या भवति ॥ ३२ ॥

[ दृक्क्षेपज्या ]

दृक्क्षेपप्रतिपादनाय आह --

मध्यज्योदयजीवासंवर्गे व्यासदलहृते यत् स्यात् ।
तत् मध्यज्याकृत्योः विशेषमूलम् स्वदृक्क्षेपः ॥ ३३ ॥

मध्यज्या च उदयजीवा च मध्योदयजीवे । तयोः संवर्गः परस्परगुणनम् व्यासदलहृतम् यत् भवति तस्य मध्यज्यायाः च कृत्योः विशेषमूलम् स्वकीयः दृक्क्षेपः । स्वग्रहणेन तु रविचन्द्रकक्ष्ययोः भिन्नः दृक्क्षेपः ॥ ३३ ॥

[ दृग्गतिज्या ]

दृग्गतिज्यानयनाय आह --

दृग्दृक्क्षेपकृतिविशेषितस्य मूलम् स्वदृग्गतिः कुवशात् ।
क्षितिजे स्वा दृक्छाया भूव्यासार्धम् नभोमध्यात् ॥ ३४ ॥

दृग्ज्यादृक्क्षेपकृत्योः विवरस्य मूलम् स्वकीया दृग्गतिः भवति । कुवशात् भूवशात् इयम् भवति । मध्यज्योदयजीवयोः संवर्गे व्यासदलहृते यत् तत् मध्यज्याकृत्योः विशेषात् मूलम् दृक्क्षेपः हि भवति । एवम् भूवशात् उत्पन्नत्रिज्याशङ्कुवर्गविशेषात् मूलम् दृग्ज्या भवति । अतः भूवशात् उत्पन्न[दृग्ज्या]दृक्क्षेपनिष्पन्नत्वात् कुवशात् इति उच्यते । "क्षितिजे स्वा दृक्छाया" इति अत्र तु "स्वा" इति अनेन स्वकीयदृक्क्षेपदृग्गती अभिधीयेते । भूव्यासार्धम् ५२५
। क्षितिजमण्डले स्वा दृक्छाया कस्मात् उत्पन्ना? नभोमध्यात् । व्यासार्ध[तुल्य]म् एतत् भवति । तत् यतः कुदृष्टिवशात् सममण्डलमध्यात् पूर्वापरयोः दिशोः दृग्गतिः [लम्बनम्] ऋणम् धनम् वा इति, तथा एव भगोलमध्यात् दक्षिणोत्तरदिशोः दृक्क्षेपस्य ग्रहणेन नतिः वा स्यात् ।

ज्यानाम् विशेषोत्पत्तिम् दर्शयति । [भूमेः गोलाकारत्वात्] भूव्यासार्ध[तुल्य]म् अन्तरम् क्षितिजे सूर्यकक्ष्यायाम् चन्द्रकक्षायाम् च [भवति] । सूर्यकक्ष्योत्पन्नमध्यज्याम् सूर्यकक्ष्योदयज्यया संगुण्य त्रिज्यया भागलब्धस्य वर्गम् मध्यज्यावर्गात् विशोध्य मूलम् रविकक्ष्यायाम् दृक्क्षेपः, तथा चन्द्रकक्ष्योत्पन्नमध्यज्याम् स्वोदयज्यया संगुण्य त्रिज्यया भागलब्धस्य वर्गम् स्वमध्यज्यावर्गात् विशोध्य मूलम् चन्द्रकक्ष्यायाम् दृक्क्षेपः
। सूर्यस्वाहोरात्रादिभिः साधितदृग्ज्यावर्गात् सूर्यदृक्क्षेपवर्गम् विशोध्य मूलम् सूर्यकक्ष्यायाम् दृग्गतिज्या । चन्द्रस्वाहोरात्रादिभिः साधितदृग्ज्यावर्गात् चन्द्रदृक्क्षेपवर्गम् विशोध्य मूलम् चन्द्रकक्ष्यायाम् दृग्गतिज्या भवति । एवम् अन्येषाम् अपि ग्रहाणाम् सममण्डलमध्यात् दृग्गतेः भावः । उदये [सूर्य]ग्रहणे चन्द्रस्य तावदधःस्थितत्वात् चन्द्रकक्ष्यायाम् सूर्यबिम्बकेन्द्रसूत्रात् पूर्वेण चन्द्रबिम्बम् नतम् लक्ष्यते । अस्तमये तु तथा एव
अपरतः । समभूप्रदेशे स्थितस्य द्रष्टुः व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धतुल्यम् दृग्गत्यन्तरम् [= लम्बनम्] । एवम् एव दक्षिणोत्तरकपालयोः दृक्क्षेपान्तरम् [= नतिः] । [तत्र इदम् त्रैराशिकम्] -- यदि व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धयोजनतुल्यम् दृग्गत्यन्तरम् [=लम्बनम्] तदा इष्टकालोत्पन्नदृग्गतिज्यया कियत् इति । [पुनर् च त्रैराशिकम् -- यदि] स्फुटयोजनकर्णेन त्रिज्यातुल्याः कलाः लभ्यन्ते, तदा दृग्गति[= लम्बन]योजनैः कियत्यः
इति । अत्र प्रथमे त्रैराशिके त्रिज्या भागहारः द्वितीये गुणकारः तुल्यत्वात् [नाशे कृते] रविचन्द्रयोः दृग्गतेः भूव्यासार्धम् गुणकारः स्फुटयोजनकर्णः भागहारः, फलम् लिप्ताः । सूर्यलिप्ताः चन्द्रलिप्ताभ्यः विशोध्य त्रैराशिकम् -- यदि [दिनस्फुट]भुक्त्यन्तरेण षष्टिः नाड्यः [लभ्यन्ते, तदा] आभिः लिप्ताभिः कियत्यः इति । लब्धम् नाड्य