आर्यशालिस्तम्बककारिका

आर्यशालिस्तम्बककारिका
[[लेखकः :|]]

नागार्जुन: आर्यशालिस्तम्बककारिका

आर्यमञ्जुश्रिये नमः

अनन्ताचिन्त्यगुण्यं हि सम्बुद्धं करुणात्मकम् ।
प्रणिपत्य प्रवक्ष्यामि शालिस्तम्बककारिकाम् । १ ॥
मुनी राजगृहस्यैव गृध्रनामकपर्वते ।
भिक्षूणां बोधिसत्त्वानां संघैः सार्धं व्यवस्थितः ॥ २ ॥
हेतुप्रत्ययसंभूतं शालिस्तम्बं विलोक्य च ।
हेतुप्रत्ययजं तद्वद्द्वादशाङ्कक्रमोद्गतम् ॥ ३ ॥
प्रतीत्यमिति यः प्रश्येत्धर्मं बुद्धं च पश्यति ।
इत्युक्त्वा नायका भिक्षून् तूष्णीभावमवस्थितः ॥ ४ ॥
भिक्षुः शारिसुत्रः श्रुत्वा गत्वा मैत्रेयसन्निधौ ।
तथागतोऽद्य मैत्रेय उक्त्यर्थं न विभज्य च ॥ ५ ॥
तूष्णीं भावे स्थितश्चात्र तदर्थो गम्यते कथम् ।
किं प्रतीत्यं च को धर्मो बुद्धोऽपि कतमस्तथा ॥ ६ ॥
प्रतीत्यं तु कथं दृष्ट्वा धर्म बुद्धं च पश्यति ।
सन्देहो मेऽत्र ब्रूहीति ऊचे शारिसुतोऽजितम् ॥ ७ ॥
भावात्मिका हि मैत्री स्यात्मैत्रेयोऽब्रूत्निर्णयम् ।
द्वादशाङ्गमविद्यादि मरणान्तं यथाक्रमम् ॥ ८ ॥
तस्मात्तर्हिभवन्त्येव दुःखस्कन्धा हि केवलम् ।
धर्मश्चाष्टाङ्गिको मार्गः फलं निर्वाणमुच्यते ॥ ९ ॥
सर्वस्याधिगमादेवं धर्मजं बुद्धमेव च ।
तथोक्तमार्यं दुष्टत्वात्यः पश्यति स पश्यति ॥ १० ॥
प्राणादिरहिताद्यश्च व्युपशान्त्यन्तसंयुतम् ।
प्रतीत्यं धर्मबुद्धौ च शुद्धबुद्धया वि पश्यति ॥ ११ ॥
प्रतीत्यलक्षणं तावत्सहेत्वादिपदान्वितम् ।
बुद्धोत्पादो भवेन्नो वा स्थितेयं धर्मता यतः ॥ १२ ॥
बाह्य आध्यात्मिकश्चापि द्विविधो हेतुप्रत्ययः ।
बाह्यो हेतुस्तु बीजादिः प्रत्ययः षड्विधो मतः ॥ १३ ॥
बीजाङ्कुरप्रकाण्डादिः फले यद्वत्प्रवर्तते ।
प्रत्ययस्तु पृथिव्यादिकालान्तो हि यथाक्रमम् ॥ १४ ॥
धारणं स्नेहनं पाको धान्यवृद्धिरनावृतिः ।
परिणामस्तथा तेषां कार्यं तद्वत्प्रवर्तते ॥ १५ ॥
नो चेत्प्रत्ययसामग्री बीजे भूतेऽपि नाङ्कुरः ।
बीजाभावे तु सत्येव प्रत्ययभावोऽपि तादृशः ॥ १६ ॥
हेतवः प्रत्ययास्तद्वदात्मग्राहादिवर्जिता ।
हेतुप्रत्ययसमग्र्या न नश्येत्कर्मणः फलम् ॥ १७ ॥
न स्वतो परतो नापि न द्वयोः कर्तृकालतः ।
ईश्वरादिकृतं नैवं स्वभावान्नाप्यहेतुतः ॥ १८ ॥
हेतुप्रत्यययोर्वृत्तिर्भासतेऽनादिकालतः ॥
पञ्चभिर्हेतुभिर्बाह्यः प्रतीत्योत्पाद इष्यते ॥ १९ ॥
शाश्वततो न चोच्चेदान्न संक्रन्तेः परीत्ततः ।
हेर्तोर्महाफलावाप्तिः सदृशानुप्रबोधतः ॥ २० ॥
अङ्कुरो बीजवनेष्टो निर्हेतुर्नोऽङ्कुरोद्भवः ।
समो निरोध उत्पादस्तुलोन्नामावनामवत् ॥ २१ ॥
तथैवाध्यात्मिकस्यापि हेतुश्च प्रत्ययो द्विधा ।
आदिहेतुरविद्यास्य मृत्युरन्त्यो यथाक्रमम् ॥ २२ ॥
समजन्मक्लेशकर्मात्मा द्वादशाङ्कस्त्रिकाण्डकः ।
हेतुप्रत्ययसम्भूतः कर्तेत्यादिविवर्जितः ॥ २३ ॥
अविद्या यदि नादौ स्यादन्ते मृत्युर्न संभवेद् ।
तेभ्यो भिन्नो न कुत्रापि ह्यात्मात्मीयश्च विद्यते ॥ २४ ॥
अविद्यासंभवादादावन्ते मृत्युश्च भासते ।
हेतोराध्यात्मिकस्यैवं प्रत्ययाः षड्प्रकारकः ॥ २५ ॥
प्रत्ययोऽध्यात्मिकस्त्वन्ते विज्ञानं चादिके धरा ।
काठिन्यं संग्रहः पाकः श्वासवृद्धिरनावृतिः ॥ २६ ॥
ज्ञानरूपानुवृत्तिश्च पञ्चविज्ञानसंयुतम् ।
तस्मात्क्लिष्टं मनश्चापि हीमेऽध्यात्मिकप्रत्ययाः ॥ २७ ॥
धातूनां सन्निपाताद्वै शरीरोत्पाद इष्यते ।
आत्मात्मीयविकल्पानामुत्पादस्तैर्न मन्यते ॥ २८ ॥
तेषु सत्सु समुत्पादस्तेष्वसत्सु न संभवः ।
नैवात्मादिमयास्ते हि नाप्यन्यच्चापि किञ्चन ॥ २९ ॥
यैकपिण्डादिसंज्ञा साविद्यात्रिभवछादिका ।
रागो द्वेषश्च मोहादिः प्रवृत्ताः सन्त्यविद्यया ॥ ३० ॥
ततः संस्कृतभावानां ज्ञप्तिर्विज्ञानसंभवा ।
विज्ञानेन सहोद्भूताश्चतुस्कन्धा अरूपिणः ॥ ३१ ॥
नामरूपमुपादाय चेन्द्रियायतनोद्भवः ।
विषयेन्रियविज्ञानसंघातात्स्पर्शसम्भवः ॥ ३२ ॥
वेदना स्पर्शजा ज्ञेया तृष्णा च वेदनोद्गता ।
तृष्णावृद्धिरुपादानमुपादानोद्गतो भवः ॥ ३३ ॥
स्कन्धोत्पादो भवाज्जातिर्जातेरेवं जरापि च ।
स्कन्धाभावो जराया यः स मृत्युश्चेत्युदीर्यते ॥ ३४ ॥
मूढे तु मरणाच्छोकः सतृष्णे दाह आन्तरः ।
शोकतश्चापलापो यो दौर्मनस्यं स उच्यते ॥ ३५ ॥
दौर्मनस्यसमुद्भूतं पञ्चविज्ञानकायिकम् ।
आसातदुःखमित्युक्तं कायसौख्यविघातकम् ॥ ३६ ॥
दुःखं मनसिकाराख्यं मनसस्तूपधातकम् ।
दौर्मनस्यं च तज्ज्ञेयमन्योपक्लेशहेतुक्रम् ॥ ३७ ॥
तमोऽभिज्ञानामरूपायतस्पर्शवित्तर्षतः ।
तृष्णादानभवोत्पाद पाकनाशविशोकतः ॥ ३८ ॥
वचनादिकायसंपीडाचित्तदुर्मानसास्तथा ।
क्लेशादन्वर्थकं नाम यथाक्रममुदीरितम् ॥ ३९ ॥
पुनस्तत्त्वपरिज्ञानादविद्यादेश्च यथाक्रमम् ।
पूर्वपूर्वेभ्य उत्पादोऽप्याख्यातश्चोत्तरोत्तरः ॥ ४० ॥
द्वादशाङ्गौत्रिप्रवृत्ती नित्योच्छेदौ ह्यनादिजौ ।
प्रवृत्तेर्जलधारावद्वर्ततेऽनादिकालतः ॥ ४१ ॥
तथाप्येते तु चत्वारः संघातकरहेतवः ।
अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः ॥ ४२ ॥
हेतोर्विज्ञानबीजं हि कर्मक्षेत्रमुदीरितम् ।
प्रथमः च तृषा प्रोक्ते हेतुः क्लेशस्वभावतः ॥ ४३ ॥
कर्मक्लेशास्तुविज्ञानबीजत्वेन व्यवस्थिताः ।
कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च ॥ ४४ ॥
विज्ञाननामकं बीजं तृष्णया स्निह्यते परम् ।
विज्ञानबीजं चाविद्या किरति स्नेहनेन वै ॥ ४५ ॥
कर्म तृष्णा तथाविद्या क्षेत्रंस्नेहोऽवकीर्णनम् ।
विज्ञाने न करोमीदं न विज्ञानमितो मतम् ॥ ४६ ॥
तथापि बीजविज्ञानें कर्मक्लेशप्रतिष्ठिते ।
विज्ञानं बीजमित्युक्तं कीर्णेऽविद्यास्ववस्करे ॥ ४७ ॥
तृष्णाजलेन संसिक्ते हेतुतो नामरूपयोः ।
अङ्कुरोत्पादभासो हि न स्वपरोभयादितः ॥ ४८ ॥
नामरूपमिदंजातं पितुर्मातुःसमागमात् ।
अविरोधादृतोश्चापि किञ्चिदास्वादवेधितम् ॥ ४९ ॥
बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः ।
नामरूपाङ्कुरोत्पादस्त्ववैकल्याच्च प्रत्ययैः ॥ ५० ॥
अविरोधत्वाच्चहेतूनां मायानैरात्म्यनिग्रहे ।
उत्पादोऽपि न संभाव्यः चक्षुर्विज्ञानमप्यतः ॥ ५१ ॥
पञ्चभिर्हेतुभिर्जातं चक्षूरूपावभासनैः ।
नभस्तज्जमनस्कारैः पञ्चवैकल्यतस्तथा ॥ ५२ ॥
चक्षुर्विज्ञानमुद्भूतं मया ते जनिता इति ।
विकल्पो न यथोदेति श्रोत्रज्ञानादिकाखिलम् ॥ ५३ ॥
उत्पादस्य क्रमश्चैवं हेतुप्रत्ययसङ्ग्रहात् ।
कर्त्रादीनां च वैकल्यादहङ्कारवियोगतः ॥ ५४ ॥
उत्पादोऽपि यथापूर्व तथ चापि प्रतीत्यजम् ।
हेतुमत्संविजानीयादस्माल्लोकात्परं नहि ॥ ५५ ॥
कश्चिद्धमः क्वचिद्गन्ता हेतुप्रत्ययतस्तथा ।
कर्मणः फलमभ्येति, यथा दर्शे विशोधिते ॥ ५६ ॥
दृश्यन्ते मुखबिम्बानि दर्पणेऽपि च बिम्बकम् ।
संक्रामितं भवेत्रैव तदन्योन्याविकल्पनम् ॥ ५७ ॥
कर्तृक्रियाविहीनं तत्तथोत्पादावभासनम् ।
पूर्ववृद्धिक्रमाच्च स्याद्दूरस्थश्चन्द्रमा यथा ॥ ५८ ॥
परीत्तोदकपात्रान्ते दृश्यते न च क्रामति ।
अस्ति क्रिया च कर्मापि तथा चास्माच्च्युतिर्न हि ॥ ५९ ॥
जन्माभासोऽप्यसंल्लोके नोपादानं विनानलः ।
ज्वलेत्सकल उज्ज्वालो हीनोपादानहानितः ॥ ६० ॥
स्कन्धत्वप्रतिसन्धिःस्यात्, सन्ति ते कल्पनात्मकाः ।
बाह्यं कर्म क्रिया हेतुरध्यात्मपरतन्त्रतः ॥ ६१ ॥
पञ्चविज्ञानसंभवाःपरमार्थोऽविचार्यतः ।
परिनिष्पन्न आख्यातःसहेतुप्रत्ययोद्भवः ॥ ६२ ॥
सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा ।
तुच्छशून्यादितिःसारःप्रज्ञयैवं य ईक्षितः ॥ ६३ ॥
किं कथं वा कुतो केन कल्पवादादिहानितः ।
उदचन्द्रस्य यथा बिम्बं ततः कश्चिच्च न च्युतः ॥ ६४ ॥
लोके जन्मापि चाभाति यथा पादपसङ्गतः ।
वह्निस्त्रोतः प्रवृतिःस्याधेतुवैकल्पतस्तथा ॥ ६५ ॥
नानुप्रवर्तते ह्यग्नितद्वत्संक्लेशबीजके ।
दग्धे ज्ञानाग्निना हेतोरभावान्नफलं तथा ॥ ६६ ॥
क्रिया कर्मापि नैवास्तिअनन्ताचिन्त्यगुण्यकम् ।
शान्तधर्मात्मकं कायमादिमध्यान्तवर्जितम् ॥ ६७ ॥
ज्ञात्वा प्राप्नोति बुद्धत्वं य एवं तथताक्षमः ।
तस्मै व्याक्रियते नूनं मैत्रेयस्तु स्वयं तथा ॥ ६८ ॥
उवाच शारिपुत्राय शालिस्तम्बोपमा कृता ।
शारिपुत्रस्तु तच्छ्रुत्त्वा देवसंघानुमोदितः ॥ ६९ ॥
संस्तुतो धृतसारश्च गत्वोत्थाय प्रहर्षितः ।
आख्यातवांश्च भिक्सुभ्यः ॥ ७० ॥

आर्यानागार्जुनविरचिता आर्यशालिस्तम्बकसूत्रकारिका समाप्ता ।

भावतीयोपाध्यायेन धर्मश्रीभद्रेण महासंशोधकलोकचक्षुस्साधुमतिज्ञानकुमाराभ्यां चानूदितः ।
पश्चात्श्रीकुटीरक्षितेन संशोध्य निर्णीतः ॥ �