आर्यशालिस्तम्बकमहायानसूत्रटीका

आर्यशालिस्तम्बकमहायानसूत्रटीका
[[लेखकः :|]]


आर्यशालिस्तम्बकमहायानसूत्रटीका

(संस्कृत - पुनरुद्धारः)

भारतीयभाषायाम् - आर्यशालिस्तम्बकमहायानसूत्रटीका ।

भोटभाषायाम् - ह्फगस्पा - सलु - जङपा - शेस्व्यवा - थेग्पा - छेनपोई - दोई - ग्याछेर्ब्शद्पा

अथ शालिस्तम्बविभाषायाः प्रथमं पटलम्

नम आर्यमञ्जुश्रीकुमारभूताय ।

तत्रऽअनन्ताचिन्त्यगुण्यं हिऽ इत्यादिषु अनन्तगुण्यमिति गुणं हि बलाभयासंसृष्टादिगुणार्थे देवमनुष्यैः परिचेयत्वात्, सेव्यत्वात्, अभ्यसनीयत्वाद्, भावनीयत्वात्, साक्षात्करणीयत्वात्प्राप्तकरणीयत्वाच्च गुणाः । ते गुणास्तु बहवः । अनन्ताचिन्त्येति समस्तं पदम् । अचिन्त्यगुणत्वं तु श्रावक-प्रत्येकबुद्ध-सर्व-पृथग्जन-सर्वतार्किकगण-चित्तगोचरं समतिक्रमणात् । ततः सोऽनन्ताचिन्त्यगुण समन्वितः । कतम इति चेत्, उच्यते - सम्बुद्धं करुणात्मकम् । इत्युक्तम् । सम्यगविपर्यस्तञ्च बुद्धत्वात्सम्बुद्धः । सर्वधर्मानित्यत्वस्य दुःख-शून्य-नैरात्म्यादि-धर्मान्-पुद्गलनैरात्म्यस्वभावतया यथावदवबोधत्वाद्बुद्धः ।

प्रफुल्लकमलवद्बुद्धेर्विकासाद्बुद्धो, बोधत्वाद्वा बुद्धः । अज्ञाननिद्रा सुप्तजगन्मध्ये जाग्रतपुरुषवत्, यथावदविपर्यस्तसम्यग्ज्ञानोदयाद्बुद्ध इति । अथवाज्ञजनावबोधनाद्बुद्धः । यथा - पराधीनस्य स्वयमेव प्रतिसंवेदन-धर्मतत्त्वाव-बोधवदुन्मार्गभ्रान्तचित्तस्य संसाराटवीकान्तारे जन्म-जरा-व्याधि-मरणादि-पीडितस्य विविधदर्शनगहनवने क्लेशाशीविषभयाप्लुतान इतस्ततः परिभ्रमतोऽन्यांश्चापि सन्मार्गे सन्निवेश्य मोक्षानुत्तरमहानगरे प्रवेशकारित्वाद्बुद्ध इति ।

करुणात्मकमिति तु करुणस्वभावम् । क्लेशकर्मदुःखनिवारकत्वात्करुणः । यस्मिन् करुणात्मकत्वं स्वभावतः स करुणात्मकः । स सम्बुद्धः ; करुणात्मकताया अपि भूतत्वात्संबुद्धः करुणात्मकः । तस्मात्तं बुद्धं करुणात्मकं प्रणिपत्य शालिस्तम्बमिति इत्युक्तम् । प्रणिपत्येति सम्यक्पूजयित्वा वन्दना-गौरव-प्रवणतया प्रणिपत्य । प्रणिपत्य किं करोमीति चेत्- शालिस्तम्बमिति सूत्रस्य उपनिबद्धशास्त्रकारिकां प्रवक्ष्यामि । इत्युक्तम् । तत्र अनन्ताचिन्त्यगुण्यो हि इत्यनेन स्वार्थसम्पत्तिर्दर्शिता । करुणात्मक इत्यनेन परार्थसम्पत्तिरुक्ता । सम्बुद्धमिति बुद्धो हि (अधिगतार्थत्वात्) सर्वज्ञ एव ।ऽअनन्ताचिन्त्यगुण्यं हिऽ इत्यनेन रागादिरहितत्वम्, क्लेशोपक्लेशानामगुणानां गुणविरोधत्वात् । तस्मात्तादृशं सर्वज्ञं विरक्तं सम्बुद्धं करुणात्मक इति यः सर्वंजानन् वीतरागः, स आचार्यमुष्टेरभावादपरान् यथावगतं धर्मं दिशति । अनेन तु परहितकारित्वात्परार्थोपसम्पदा दिष्टा । एवं स्वपरार्थोपसम्पन्नं तं सम्बुद्धं प्रणमामि । तथापि, विवक्षितपदस्य विद्यमानत्वाद्विवक्षुणा किमिष्यते? इति प्रश्नः । उत्तरं - प्रवक्ष्यामि । किं वक्ष्यामि? उच्यते - शालिस्तम्बसूत्रोपनिबद्ध-शास्त्र-कारिकाम् । शास्त्रं रचयितुमादौ सम्बन्ध-प्रयोजनाभिधानाभिधेयचतुष्टयं किं न निर्वचनीयम्?

अत्र तदभावात्तदारम्भणमनुचितम् । असम्बद्धादित्वात्प्रमत्तप्रलापवदित्यनारम्भणीयमिति धर्मः । शास्त्रमिति धर्मी । धर्मधर्मिसामान्यं हि पक्षः । असम्बद्धादित्वादिति हेतुः । अवबोधकत्वाथेतुः, हेत्वर्थस्य तु अवबोधकत्वात् । तस्मातसम्बन्धादित्वादनारम्भणीयमिति । प्रमत्तप्रलापवदिति उपमा । एवं वादिने उच्यते - असम्बन्धादित्वादिति यदुक्तमित्युक्तहेतोरसिद्धमुक्तायामत्रोक्तौ सम्बन्धादयश्चत्वारः सन्त्येव । ते च कतमे? उच्यते - शालिस्तम्बसूत्रोपनिबद्ध-शास्त्रकारिकायाः वक्ष्यमाणत्वादत्र सम्बन्धः स्यादेव । शालिस्तम्बसूत्रमिति तीर्थिकाद्यन्येषु ग्रन्थविशेषणतया अनुपलब्धत्वात्शास्त्रमिदं बुद्धसम्बद्धम् । तस्माथेत्वएर्थोऽसिद्ध एव । सम्बन्धभावश्च प्रयोजनस्याप्यभावे नास्ति । तस्मादुक्तमत्र प्रयोजनम् - हेतुप्रत्ययार्थावगमार्थं पुद्गल-नैरात्म्य-धर्मनैरात्म्य-ग्राह्य-ग्राहकाभावाव गमात्क्लेशज्ञेयावरणं विभज्य अनुत्तर-सम्यक्संबुद्धोपलब्धिः अत्र प्रयोजनमस्त्येव ।

तस्मात्सप्रयोजनत्वात्चिकित्सादिशास्त्रवद्विरचनीयमेव । यद्यद्सार्थकं तत्तत्तु विरचनीयम् । यथा चिकित्सादिशास्त्रवद्भूतत्वादुपमासिद्धिं वक्ष्यामि । अस्याभिधानेन शालिस्तम्बोपमया आध्यात्मिक-बाह्य-प्रतीत्यसमुत्पाद-समुपयोगादनेनाभिधानेन शालिस्तम्बमिति चापि भवति । तस्मादपि अर्थोऽसिद्ध एव । अभिधेयमिति प्रतीत्यसमुत्पादस्य द्वादशाङ्गस्य सप्रत्ययस्य पृथक्तः यथाक्रमं लक्षणव्यवस्थापनात्कर्त्रादीनहेतून् प्रतिकूलहेतून् च विहाय क्लेशोपक्लेश प्रहाणात्सम्यग्ज्ञानमुत्पाद्य अनुत्तरधर्मकायोपलम्भादिदमभिधेयमप्यस्त्येव । तस्माच्च हेत्वर्थोऽसिद्ध एव । तस्मात्चिकित्सादिशास्त्रवदिदं शास्त्रं सम्बन्धादिसमन्वितत्वाद्, आरम्भणीयमेव। आरम्भणीयमिति धर्मः । शास्त्रमिति च धर्मी । धर्मधर्मिसाधारणो हि पक्षः । अत्र धर्मभावाद्धर्मी छत्रीवत् । तथा सत्यपि शास्त्रमारब्धुं प्रणामकरणं निरर्थकम्, प्रयोजनाभावात्, काकदन्तपरीक्षादिशास्त्रवतित्यस्य हेत्वर्थस्य सिद्धत्वं दर्शयितुमुच्यते -

शास्त्रारम्भणाय शास्तृपूजा कृता । किमर्थमिति चेत्, शास्त्रे तत्र च गौरवोत्पादहेतुभूतत्वाद्, धर्मश्रवणे जातगौरवाणां श्रवण-चिन्तन-भावनासु गौरवं भवति । अजातगौरवाणां तु अभूतत्वाधेत्वर्थे च सिद्ध एव । अपि शिष्टाचार-नयप्रदर्शनार्थं शास्त्रारम्भे शास्तुः पूजा कृता । अयं तु सज्जनविदुषामाचारोऽस्ति । यदा कश्चित्प्रयोजनारम्भणमवतरति प्रथममिष्टदेवं प्रणम्य विशिष्टप्रयोजनं प्रविशति, अभीष्टार्थोऽचिरं सिध्यति, तस्मादनेनापि शास्त्रकारेण तामेव सदाचारनीतिमनुसरता शास्त्रारम्भणे स्वशास्तुर्गुणाभिधानपूर्वकं प्रणामं कृत्वा शास्त्रव्याख्यानावतारादत्र प्रयोजनमस्त्येव । उच्यते - शास्त्रारम्भे शास्त्रे प्रणामकरणं न निष्फलं शास्तरि शास्त्रेषु च गौरवोत्पादहेत्वर्थम्, नान्यथा । ततः शास्त्रारम्भे शास्तुः पूजनं व्यवस्थितमेव । तस्माच्च परैः शास्त्रादौ प्रणामकरणं निष्प्रयोजनमिति किमुच्यते? तद्धेतोरसिद्धतां दर्शयितुं कथितम् । शास्त्रमारब्धुं प्रणामकरणं तु चिकित्सादिशास्त्रवत्सप्रयोजनमेव, न च काकदन्तपरीक्षावत् । स्वशास्तारं प्रणम्य शालिस्तम्बसूत्रोपनिबद्धां शास्त्रकारिकां प्रवक्ष्यामीति उक्ते । कतमा च सा इति चेत्- मुनी राजगृहस्यैव इत्यादि कथितं राजगृहं तु राज्ञो गृहं राजप्रसाद इत्यर्थः ।

गृध्रनामकपर्वते इति तु गृध्रकूटपर्वते । तस्मादेव संगीतिसूत्रेऽएवं मया श्रुतमित्युक्तम् । कस्माच्छ्रुतमिति । तस्मादुक्तम् । भगवतः एकस्मिन् समये इति एकस्मिन् समये । भगवान् तु भग्नवानिति भगवान् । किं भग्नवानिति चेत् । तस्मादुक्तं मारचतुष्टयम् । क्लेश-स्कन्ध-देवपुत्र-मृत्यवो मारा इत्याख्याताः । कथं भग्ना इति? उच्यते - प्रतिपक्षज्ञानोपलब्धेः । दर्शन-भावना-मार्गावतारनयेन चतुः स्मृत्युपस्थानादिसप्तत्रिंशद्बोधिपाक्षिकधर्मभावनाक्रमेण चतुरार्यसत्यभावनाविभावनतया स्कन्धतथतापरिज्ञानेन अनित्य-दुःख-शून्य-नैरात्म्यादीनामविपरीत-ज्ञानान्वितत्वात्पुद्गलधर्मयोर्नैरात्म्य-ग्राह्यग्राहकाभाव-कल्पनाद्ऽइदं धातुत्रयमपि चित्तमात्रम्ऽ इति अवगमात्क्लेशज्ञेयावरण-रहितद्वारेण क्लेशा भग्नाः । नित्य-सुख-शुचि-सात्म्याविपर्यासचतुष्टयादिरहितः अनुत्तरधर्मकाय संयुक्तोऽप्रतिष्ठित निर्वाणोपलब्धेः स्कन्धं मृत्युमारञ्च जयति ।

सर्वधर्मान्माया-मरीचि-गन्धर्वनगर-निर्माण-प्रतिबिम्ब-प्रतिश्रुत्कालातचक्र-स्वप्नवत्स्ववबोधात्संक्लेशालयविज्ञान-वासना-मलापगतत्वाच्च अभूतसंकल्पान् समुच्छिद्य महामैत्र्यादि-बाणाक्षेपेण ससैन्यं मकरध्वजं प्रहृत्य देवपुत्रमारं पराजयत । एवं चतुर्मारभञ्जनाद्भगवानिति । पुनश्चोक्तम् -

चतुर्मारारिभग्नत्वाद्भवत्रयसमुद्गत-
भाव्यतीतपरिज्ञानाद्भवस्थो भगवानिति ।

तादृशो भगवान् राजगृहे गृध्रकूटपर्वते विहरतिस्म । किमर्थ तन्नगरं राजगृहमिति चेत् । उच्यते - तन्नगरं पूर्वं कुशीनगरमित्याख्यातम् । यदा तन्नगरे कुपितैरमानुषैः पुनः पुनरग्निः क्षिप्तस्तदा राजावगत्य आदिशत्, ज्ञानिनो नागरिकाः । अद्य प्रभृति यस्य गृहं प्रथममग्निना दह्यते, स शीतवनं महाश्मशानं गत्वा गृहं निर्माय वसेदित्याज्ञातवान् । ततश्च कर्मप्रत्ययवशेन आदौ राजप्रासादोऽग्निं प्राप्तः । ततो राजा अमात्यानाहूयादिशत्- ज्ञानिन अमात्याः जानन्तु एवं, मयैव तन्नयप्रज्ञापात्मयैव तदतिक्रमो मयि न शोभते, अनयत्वात् । ज्ञानिनो मन्त्रिणः । शीतवने महाश्मशानमध्ये राजप्रासादो निर्मीयताम् (अहं) तत्र गत्वा वत्स्यामि । ततो राज्ञो वचनमात्रेण सर्वैस्तथा कृतम् ।

तदा प्रथमं राजा तत्र गत्वा उवास । ततः परैरुषितत्वाद्राजगृहमिति नामोपचरितम् । तत्र राजगृह-महानगरस्य पूर्वोत्तरसीमायां गृध्रकूटनामक पर्वतेऽस्ति । यस्य पर्वतस्य शिखरो गृध्रशिरोवत्स गृध्रकूटपर्वत इत्युच्यते । अथवा पापेन मारेण गृध्राकारमभिनिर्माय भगवच्चीवरहरणारम्भे भगवतोऽधिष्ठानेना - सामर्थ्यात्तत्रैव निक्षिप्तं, तच्चीवरमद्यापि पाषाणीभूय चतुष्पुटितचीवरमिव अवतिष्ठते । तदुपलक्षितः पर्वतो गृध्रकूट इत्युच्यते । मुनिः तद्गृध्रकूटपर्वते विहरतिस्म । किमेकाकी एव? उच्यते । न, भिक्षूणां बोधिसत्त्वानां संघैः सार्धं व्यवस्थितः । भिक्षूणामर्थात्भिक्षुसार्धमर्धत्रयोदशभिः महता भिक्षुसङ्घेन बोधिसत्त्वानां च इति तु संबहुलैश्च बोधिसत्त्व-महासत्त्वैः सार्धम् । व्यवस्थितस्तु उत्थान-संचक्रमण-व्यवस्थिति-शयनादि-चतुर्विध-चर्यया व्यवस्थितः । कोऽसा विति? मुनिः । मुनिस्तु काय-वाक्-चित्तैर्मौनित्वात् । काय-वाक्-चित्ताप्रवृत्तेर्मुनिः । कुत्र न प्रवर्तते? तस्मादुक्तम् । काय-वाक्चित्तदुश्चरिते न प्रवर्तत इत्यर्थो दर्शितः । अत्र मौनित्वान्मुनिः । युक्तार्थार्थाय दण्डिवदिति । अपि च - किमर्थं स्थान-काल-परिवार-निर्देशः? उच्यते - चक्रवर्तिराजसाधर्म्यात् । चक्रवर्तिराजानामाचारस्त्वेवमाख्यातः -

यदा ब्राह्मणेषु गृहस्थेषु च अनुग्रहादि कृतं तदा निवास-स्थानं ग्राम-नगरादि, यत्र स्थित्वा तत्कार्यं, स्थानं निरुच्यते । कस्मिन् स्थाने? अमुके । आधिपत्यं प्रदर्शयितुममात्यादिभिः सार्धमिति। कालस्तु पूर्वापराह्णकालः । कानिति? ब्राह्मण-गृहस्थादीन् । तस्मात्भगवतोऽपि अनुत्तरधर्मचक्रवर्तिराजत्वात्स्थान-काल-पारिवारादय उक्ताः । कुत्रेति? राजगृहे । एकस्मिन् समये तु प्रातः काले । कैश्चित्सार्धमिति?

सार्धत्रयोदशशतैः भिक्षुभिः बोधिसत्त्वैश्च ।

कानिति भिक्षून् । किमुक्तमिति? शालिस्तम्बकसूत्रम् । पुनश्चोक्तम् -

कुत्र कैश्चित्समं क्वापि कस्मात्कस्मै च देशितम् ।
उपदिश्य च तान्यन्ते आनन्दपदमीरितम् ।

शालिस्तम्बं विलोक्य च इत्यादि । शालिस्तम्बं विलोक्य दृष्ट्वा इत्यर्थः । हेतुप्रत्ययसंभूतमिति हेतुप्रत्ययजनितम् । तदुत्पादक ईश्वरादिः कोऽपि अन्यो नास्तीत्यभिप्रायः । अपि चोक्तम् -

बीजादेरतिरिक्तं हि नान्यधेतुरितीर्यते ।

प्रत्यक्षादिविरुद्धत्वाद् । बीजादङ्कुरादि जन्यते, ईश्वर-प्रधान-स्वभाव-कालादिर्न हेतुः । प्रत्यक्षानुमानाभ्यामनुपलभ्यमानत्वादाकाशोत्पलवत् ।

हेतुप्रत्ययजं तद्वद्द्वादशाङ्गक्रमोद्गतम् ।
प्रतीत्यमिति यः पश्येत् । इत्युक्तम् ।

हेतुप्रत्ययाभ्यां जनितो धर्मः प्रतीत्यसमुत्पादः, द्वादशाङ्गः भिक्षुर्भिक्षुणी अन्यो वा यः कश्चित्कृतादिकमहेतु-प्रतिकूलहेतु-विरहितं पश्यति, स

धर्मं बुद्धं च पश्यति ।
इत्युक्त्वा नायको भिक्षून् तूष्णीं भावमवस्थितः ।

अष्टाङ्गमार्यधर्मं फलधर्माधिगमस्वभावतां सस्कन्धनिर्वाणमशेष स्कन्धाभिधानमपि च यथावत्पश्यति इत्युक्त्वा भगवांस्तूष्णीं भावमवस्थितः । तदा इत्यादि तु भिक्षुशारिपुत्रो बोधिसत्त्वं मैत्रेयमुपसंक्रम्येदं पर्यपृच्छत् । इत्युक्त्वा इति भगवतः शारिपुत्रेण यत्सूत्रं श्रुतं तद्भिक्षूनुक्त्वा उपदिश्य । नायक इति विविधोपायनयेन सत्त्वानां नयनत्वान्नायकः । तूष्णींभावमवस्थितः समाधिं समापद्य विहरति स्मित्यधिवचनम् । भिक्षुः शारिपुत्रः श्रुत्वा इत्युवाच भिक्षुः इति - क्लेशभञ्जनाद्भिक्षुः । शारिपुत्रः श्रुत्वा इति तु भगवतः श्रुत्वा । सूत्रे तदायुष्मान् शारिपुत्रो मैत्रेयो बोधिसत्त्वो महासत्त्वो यत्रेत्यादिना देशितवान् । गत्वा मैत्रेयसन्निधौ तु यत्र बोधिसत्त्वो मैत्रेयो दिने सदावस्थितः, तत्र गत्वा, उभौ शिलातले उपविशताम् । अथायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वमेतदवोचत्-

तथागतेऽद्य मैत्रेय उक्त्यर्थं न विभज्य च ।
तृष्णींभावे स्थिते चात्र तदर्थो गम्यते कथम् । इत्युक्तम् ।

अद्य मैत्रेय इत्युक्त्वा भिक्षून् भगवान् शालिस्तम्बोपमादेशनया यदुक्तम् - मैत्रेय! सुगतोक्तसूत्रान्तार्थः कतमः? भगवताप्यर्थो न विभक्तः । सर्वज्ञगोचर-विषयाणामपि सर्वश्रावक-प्रत्येकबुद्ध-विषयातिक्रान्तत्वात्प्रतीत्यसमुत्पादः कतमः? धर्मः कतमः? बुद्धः कतमः? इत्यादि अपृच्छत् । अयमेव सूत्रकारेण सूत्रसम्बन्ध उक्तम् -

किं प्रतीत्यं च धर्मः कः बुद्धोऽपि कतमस्तथा । इत्युक्तम् ।

कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यति । धर्मं पश्यन् बुद्धं पश्यति? इति तु

प्रतीत्यं तु कथं दृष्ट्वा धर्मं बुद्धं च पश्यति ।
सन्देहो मेऽत्र ब्रूहीति ऊचे शारिसुतोऽजितम् ।

स्थविरशारिपुत्रः तत्सन्देहोत्पादादजितमाह । अजितस्तु मैत्रेयः । किं विशेषणको मैत्रेयः?

भावात्मिका हि मैत्री स्यान्मैत्रेयोऽब्रूत निर्णयम् ।

मैत्री समाध्यन्वितत्वात्सुप्रतिष्ठत्वात्मैत्री भावात्मिका । निर्णयमिति तु निश्चयः । अब्रूतेति उदीरितवान् । कमिति चेत्? शारिपुत्रम् । किमुक्तमिति चेतन्न भगवता इत्यादि उक्तम् । यो भिक्षवः प्रतीत्यसमुत्पादमित्यादि । कतम प्रतीत्यसमुत्पादो नाम । यदिदम् - अविद्याप्रत्ययाः संस्काराः । संस्कारप्रत्ययं विज्ञानम् । विज्ञानप्रत्ययं नामरूपम् । नामरूपप्रत्ययं षडायतनम् । षडायतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानम् ।

उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणम् । जरामरणप्रत्ययाः शोक-परिदेव-दुःख-दौर्मनस्योपायासाः सम्भवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अयमुच्यते प्रतीत्यसमुत्पादो भगवता । तत्र प्रतीत्यसमुत्पादो नाम सहेतुकः सप्रत्ययो नाहेतुको नाप्रत्ययः ।

तस्मात्प्रतीत्यसमुत्पाद इत्युच्यते । अपि च - अविद्यादिभवाङ्गादीनामयं सम्भवक्रमः कथमवगन्तव्यः? लक्षणं कतमत्? कर्म च कतमदिति चेत्? उच्यते । तत्र प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पन्नोऽवगन्तव्यः । कतमाभ्यां द्वाभ्याम्? उच्यते? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । स च प्रतीत्यसमुत्पादो बाह्य आध्यात्मिकश्च पृथक्त्वाद्द्विविधो व्यवस्थापितः । कथमिति? उच्यते । " बीजादङ्कुरोत्पादात्फलोत्पादपर्यन्तम् । बीजे सति अङ्कुरः प्रादुर्भवति फलप्रादुर्भावश्च । असति च बीजे अङ्कुरानुत्पादात्, न हि फलोत्पाद इति । बीजस्य नैवं भवति अहमङ्कुरमभिनिर्वर्तयामीति । अङ्कुरस्यापि नैवं भवति अहं बीजेनाभिनिर्वर्तित इति । एवं यावत्पुष्पस्यापि नैवं भवति फलमभिनिर्वर्तयामीति । फलस्यापि नैवं भवति अहमङ्कुर-पुष्पाभ्यामभिनिर्वर्तित इति । अथ पुनर्बीजे सति अङ्कुरात्फलपर्यन्तं प्रादुर्भवति । एवं बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धो द्रष्टव्यः ।

बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धः कथं द्रष्टव्यः? उच्यते । षण्णां धातूनां समवायात् । कतमेषां षण्णां धातूनामिति । यदिदं पृथिव्यादि च कालश्च । एवं बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धो द्रष्टव्यः । बीजं पृथिव्यादौ किं हितं कृत्वा हेतोः प्रत्ययं मतमिति । पृथिव्यादि तु संधारणमित्यादि, स्नेहनं, पाचनं, निर्हरणम्, अनावरणं परिणामनां च क्रमशः करोति । असत्स्वेषु न भवति । यदाविकलो भवति, ततः सर्वेषां समवायाद्तद्भवति । पृथिव्यादौ र्नैवं भवति वयं बीजसंधारणादि करोमीति । बीजस्यापि नैवं भवति अहमेतेषां प्रत्ययेन संधारणादि कार्येण हितं करोमि । अथ पुनः पृथिव्यादिषु सत्सु बीजादङ्कुरादि प्रादुर्भवति, असत्सु च न भवति । तस्मादेव सूत्रकारेण उक्तम् ।

द्वादशाङ्गमविद्यादिमरणान्तं यथाक्रमम् ।

इत्यादि । भवाङ्गो येषामविद्यादिमरणान्तमस्ति, ते अविद्यादि मरणपर्यन्ताः ।

तस्मात्तर्हि भवन्त्येव दुःखस्कन्धा हि केवलम् । तस्मादिति तु अविद्यादि क्रमशः प्रादुर्भवति ।

दुःखस्कन्धस्तु दुःख-समूहः । केवलमिति आत्मात्मीयवियुक्तः । भवति इति तु उत्पद्यते ।

धर्मश्चाष्टाङ्गिको मार्गः फलं निर्वाणमुच्यते । इत्युक्तम् ।

धर्मस्तु स्वलक्षणधारणाद्धर्मः । अष्टाङ्गमार्ग इति तु मिथ्यादृष्टि-मिथ्यासंकल्प-मिथ्यावाक्-मिथ्याकर्मान्त-मिथ्याजीव-मिथ्याव्यायाम-मिथ्या-स्मृति-मिथ्यासमाधयः । तत्र मिथ्यादृष्टिरिति मिथ्यादर्शनम् । पञ्चदृष्टयस्तु सत्कायान्त-दृष्टि-शील-मिथ्याश्चेति । एताः सर्वा अपि मिथ्याश्रवणचिन्तनादिषु प्रविष्टाः । तस्मात्कुदृष्टित्वात्मिथ्या मार्गाचरणेन अनिष्टविपाकाभिनिर्वर्तितत्वाथेतु-कर्म-फलानि अपवादारोपाकारेण प्रविष्टत्वान्मिथ्यादृष्टिरिति । तत्प्रतिकूलत्वात्सम्यक्दृष्टिः मार्गाङ्ग एव व्यवस्थापिता । योनिशः स्थित-सम्यक्श्रवण-चिन्तनादयः श्रद्धापूर्वगत्वाथेतु-फल-सत्य-रत्न-कर्मफलदि-भावदर्शनं हि सम्यक्दृष्टिः । सम्यक्मार्गोपयोगादभीष्टफलाभिनिर्हारत्वादनित्य-दुःख-शून्य-नैरात्म्या-द्याकारेण प्रविष्ट त्वात्सम्यक्दृष्टिरिति ।

तत्र मिथ्यासंकल्पः-सङ्कल्प-विपर्ययः । सङ्कल्पो गोचर-विषयालम्बनानामधिवचनम् । गोचरमिति षड्विषया रूपादयः । मिथ्येति विपर्यासः । नित्य-सुख-शुच्यात्माद्याकारालम्बनाद्राग-द्वेष-मोहवृद्धेः मिथ्यासंकल्पः । तद्विपरीतः सम्यक्संकल्पः । सम्यङ्नाम अविपर्यासः । संकल्पस्तु क्रिया, चिन्तनं च इदमिदं करिष्य इति आदौ चित्ते निधाय काय-वाक्-चित्त-चर्याकुशलः, राग-द्वेष-मोह-रहित-स्वभावः, अनित्य-दुःख-शून्य-नैरात्म्यादिसु नियोजितो यो योनिशोमन सिकारयोगः (स) सम्यङ्मार्गाङ्गमित्युच्यते । मिथ्यावागिति दुर्वचनम् । स्वपरविसंवादाकारप्रवृत्ता या वाक्सा मिथ्यावाक् । राग-द्वेष-मोहाद्याकारसम्बद्धत्वादात्मस्तुति-परपंसन-स्वभावेन प्रवृत्ता, चतुर्विध-वाग्दोषमिश्रिता सम्यक्-सत्य-तथता-सर्वधर्मप्रहीणा, राज-चौर-स्त्री-गृहस्थ-जनकथास्वरूपा तुच्छ-व्यर्थता-बहुला सर्वार्यजन-निन्दितत्वान्मिथ्यावागित्युच्यते । तत्प्रतिकूलत्वात्स्वपराविसंवादाकारा राग-द्वेष-मोहादि-रहित-स्वभावा, चतुर्विधवाग्दोषरहित-त्वात्सत्य-सम्यक्-तथतानुसारिणी, चतुःसत्यानुकूलकरणा, सर्वकुशलधर्मसंग्रहा हित-परिच्छिन्न-स्वरूपत्वादात्मस्तुति-परपंसनविहीना अनित्य-दुःख-शून्य(ता)-नैरात्म्यादि-रूपेण प्रवृत्तेः सर्वार्य जनाविसंवादिनी सम्यङ्मार्गानुसारित्वात्सम्यग्वागित्युच्यते ।

मिथ्या-कर्मान्तो विपरीतकर्मकरणम् । कर्मेति काय-वाक्-चित्त-दुष्कृत-बीजवपनादक्षयविपाकफलाभिनिर्वर्तित-स्वभावाकुशल-कर्मान्त-कारित्वात्क्षारादिदोषसंसृष्टकुक्षेत्रे कुबीजवपनवदनभीष्टविपाकाभि-निर्वर्तितत्वात्पंसनीयः कर्मान्तस्तु मिथ्याकर्मान्त इत्युच्यते । कर्मरति-निद्रारति-वादरत्यादि-स्वभावं मिथ्याकर्म इत्युच्यते । स्वपरास्पृष्ट दुःखप्रतिष्ठाधारस्वभावम्, तद्विरुद्धत्वात्सम्यक्कर्मान्तः । अविपरीतकर्मकृत्त्वात्काय-वाक्-चित्त-सुकृतबीजवपनात्सत्क्षेत्रसदृशसुकृतकर्मक्षेत्रेऽभीष्टविपाकाभिनिर्वर्तित-विधि-प्रवृत्तेः, अनित्य-दुःख-शून्य(ता)-नैरात्म्यादि-स्वरूपेण प्रवृत्तेः, सम्यक्कर्मान्त-कारित्वात्, सम्यक्कर्मान्तः, सन्मार्गानुसरणत्वात्सम्यक्मार्ग इत्युच्यते ।

मिथ्याजीवस्तु विपरीताजीवः । कपट-लपन-नैष्पेशिकत्व-नैमित्तिकत्वेन प्रवृत्य अविपन्न-काय-वागाद्युपजीविकया पुरुष-स्त्र्यादि-निमित्तदेशनेन अस्त्राश्व-काव्य-चिकित्सापरीक्षा-संख्या-गृहस्थपरीक्षा-कुमारपरीक्षा-सामुद्रिक-लक्षणपरीक्षा-निमित्तज्ञानादौ स्वपरविसंवादरूपेण प्रवृत्तेः तन्नयेन चीवर-पिण्डादि-साधनानुवृत्त्या विहारस्तु मिथ्याजीव इत्युच्यते । तत्प्रतिकूलत्वात्सम्यगाजीवस्तु मार्गाङ्गमित्युच्यते । सम्यक्तु विद्यावियुक्त-काय-वाक्-चित्तप्रवृत्या चीवरादि-साधनम्, तन्नयेन आजीवः सम्यगाजीवानुसरणत्वात्स्वपरावि-संवादस्वरूपाकारत्वादार्यमार्गानुवर्तित्वात्, सम्यगाजीवस्तु मार्गस्याङ्गमेव व्यवस्थापितः । मिथ्याव्यायामः-व्यायामस्तु प्रयत्नः । मिथ्या इति विपर्यासः । असत्काय-वाक्-चित्त-प्रचारैः स्वपरापकारो, युद्धादिप्रज्ञप्तिः, दूतादिगमनं, चारः, उत्पातः, निक्षेपोत्क्षेपापोहानपोह-सन्धि-विधिनोत्पादः, क्षेत्र-विद्या-व्यापार-राज्यादि-स्वपरापकारि-काय-वाक्-चित्त-प्रवृत्त-विविधाकारारब्धाः क्रियाः प्रयत्नाश्च मिथ्याव्यायाम इत्युच्यन्ते । तद्विरुद्धभूतत्वात्सम्यक्व्यायामः ।

सम्यक्-व्यायामस्तु मार्गाङ्गएव व्यवस्थापितः । या कायवाक्चित्तचर्यास्वपरोपकार-मात्रकुशलप्रवृत्या आर्यमार्गमनुसरति सा सम्यग्व्यायामत्वात्सम्यक्व्यायामः । स मार्गाङ्गमेव उच्यते । मिथ्या स्मृतिरिति कुत्सनीया स्मृतिः मिथ्यास्मृतिः । स्मृतिस्तु स्मरणम् । इयं मिथ्या स्मृतिश्चापि भूतत्वान्मिथ्यास्मृतिः । कालत्रयविषयेषु पूर्वहासानन्दानुभूत-रूप-शब्द-गन्ध-रस-स्पर्शादीननुस्मरननुकथनम् । तत्रापि अध्यवसानानुराग-प्रतिघतादि-परिद्वेषत्वात्स्वपरापकारकारित्वाद्, अभीष्टविपाकसम्बद्धत्वाच्च मिथ्या-निमित्त-मनसिकारस्तु मिथ्यास्मृतिः । तद्विरुद्धत्वात्सम्यक्-स्मृतिस्तु मार्गाङ्गमेव कथिता । गुणानुस्मरणं पूर्वीकृत्य बुद्ध-धर्म-संघ-शील-त्याग-देवाद्यनुस्मरणं सम्यक्स्मृतिः मार्गाङ्गमेव उच्यते । समाधिकार्यं-समाधिस्तु ध्यानम् । सर्वथा समाधाय धारणत्वात्समाधिः । स तु मिथ्यापि सन्, समाधिरपि भूतत्वान्मिथ्यासमाधिः मिथ्येति तु विपर्ययः । ईश्वर-स्वभाव-काल-प्रधानाध्यात्मात्माद्यसत्सु तत्रालम्बनपूर्वकं यच्चित्त-स्फरणं स्यात्, अपि तु-रूपादि-बाह्यवस्तूनि अनित्य-दुःख-शून्य-नैरात्म्याकारीणि नित्य-सुख-शुच्यात्म दृष्टयादितया अध्यवसीय तेषु आलम्बनपूर्वकं यच्चित्तस्फरणम्, साध्यवसाय पूर्वकं यच्चित्ताधिष्ठानं तत्तु मिथ्यासमाधिरित्युच्यते । तद्विरुद्धं चित्ताधिष्ठानं सम्यक्समाधिरित्युच्यते । स्कन्ध धात्वायतनात्मात्मीयताशून्यादिषु अनित्य-दुःख-शून्य(ता)-नैरात्म्याद्याकारपूर्वकं चित्तप्रतिष्ठानम् । चित्तैकाग्रता तु सम्यक्समाधिरित्युच्यते । सर्वधर्मसमताप्रतिपत्तेः समाधिः । चित्तैकाग्रता एकालम्बनत्वञ्चेति । अधिवचनम् । स सम्यक्-समाधिर्मार्गाङ्गमेव उच्यते । एवं यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति ।

दर्शनाद्यष्टसेत्वङ्गं हेतुद्वादशपूर्वगम् ।
विशुद्धात्मा हि यः पश्येद्धर्मतथ्यं स पश्यति ।

फलं तुं श्रामण्यफलम् । तत्प्राप्तिस्तु साक्षात्करणम् । सर्वसंक्लेशालय-विज्ञानबीजवासनामलापगतत्वादाश्रयपरावृत्तिमयं मनोगोचराचिन्त्या-प्रमेयगुणमण्यलङ्कृतायाः स्वपराधीनात्मक प्रत्यात्मवेद्यसर्वसत्त्वार्थनिरन्तरानाभोग कृतात्म-सर्वप्रपञ्चरहितायाः शमथविपश्यना-युगनद्ध-सर्वधर्म-तथतायाः अधिगमत्वात्क्लेश-ज्ञेयावरणगिरिगह्वरवनमूल-विदहनस्वभावतानुत्तरसम्यक्-संफलं शैक्षज्ञानं तु फल धर्म इत्युच्यते ।


अथ शालिस्तम्ब-विभाषाया द्वितीयं पटलम् ।

निर्वाणं नाम सोपधिशेष-निरुपधिशेष-स्वभावताप्रतिष्ठितनिर्वाणमित्युक्तम् । अजरम्, अमरम्, अतापं, स्थिरं, शान्तं, नित्यम्, असंहार्यम्, अक्षयात्मकम्, आदिमध्यान्तरहितमद्वयं धातुत्रयविरहितं काय-वाक्-चित्तकर्मसमतिक्रान्तं मणिरत्नराजविविधरूपसदृशं गुणमणिविविधप्रभाभिः निरन्तरं जगदर्थकारि शान्तं, धर्मात्मक-काय-भूतं निर्वाणं मन्यते ।

सर्वस्याधिगमादेवं धर्मजं बुद्धमेव च ।

एवं तद्वत्-संक्लेश-व्यवदानात्मक-सर्वधर्माणां धर्म-तथतायाः यथास्थितिवदवगतत्वाद्बुद्ध इत्युच्यते । धर्मजं नाम धर्मेभ्यो जनितत्वाद्धर्मजम् । धर्मेण जनितमित्यधिवचनम् ।

तथोक्तमार्यं दृष्टत्वाद्यः पश्यति स पश्यति ।

तथेति बुद्धमिति तथोक्तत्वात्, तादृशो भगवान् । आर्यं दृष्टत्वादिति ज्ञानचक्षुषा । आर्यस्तु लोकोत्तरः । पश्यतीति चक्षुषा । यः पश्यतीति यः प्रतीत्यसमुत्पादं धर्मञ्चैवं पश्यति स धर्मजः, धर्मजत्वाद्बुद्धं पश्यतीति भाष्यते ।

तत्रात्र प्रतीत्यसमुत्पादः कीदृश उक्त इति चेत् । यः प्रतीत्यसमुत्पादमिदमित्यादि । प्राणादिरहिताद्यश्च इति तु यः प्रतीत्यसमुत्पादं सततं प्राणादिरहितं प्राणरहितम्, अपश्यद्युक्त्यनुमानाभ्यां चर्यां, मापनम्, कल्पनाम्, उपपरीक्षणञ्च करोति, सततमजीवमिति तु निर्जीवम् । अजीवमार्हता एवं कल्पयन्ति । इमानि सर्वाणि बाह्याभ्यन्तराणि वस्तूनि सजीवानि इन्द्रियान्वितानि । तस्मात्सर्वाश्चैताः भूमयः सूक्ष्मप्राणिभिः पूर्णाः । तस्मात्सर्वे प्राणिनो जन्तून् भक्षन्ति । ये प्राणिनः प्राणिनो न भक्षन्ति ते प्राणिनस्तु मोक्षं प्राप्नुवन्तीति उच्यते । तस्मात्तन्निराकरणाय अजीव-निर्जीवेत्यादि उक्तम् । अजीव इति निर्जीवः, निष्प्राणस्याधिवचनम्, हेतुप्रत्ययोत्पादधर्मित्वात् । हेतुस्तु बीजादि । प्रत्ययश्च पृथिव्यादि । तेऽपि परस्परमन्योन्यकल्पना-परिकल्पना-विकल्प-रहित्वात्तृण-वृक्ष-भित्ति-धर्मसदृशा अचलाः निष्क्रियाश्च तस्मात्प्राणादिरहितत्वादजीवाः । परस्परं हेतुप्रत्ययोपनिबद्धजा अन्योन्ये चाचेतनाः । क्रिया कर्माप्यवभासते ।

हेतुप्रत्ययसन्ततिरियमनादितः प्रवृत्ता । यथाजीवकानामार्हतानां वृक्षा सचेतनाः सन्ति, चलत्वात्, सुप्तत्वात्, छिन्नेऽपि उत्पादत्वादिति, या व्यवहारप्रज्ञप्तिस्तादृशी नास्ति । बाह्यवस्तुषु सूर्यस्य चन्द्रस्य च स्पर्शवशेन लयो विस्तरश्च अनुमीयेते । क्व तेषां शयनोत्थानम्? वायुसञ्चारवशाद्वृक्ष-शाखादि-कम्पनानुमानात्तेषां गमनागमनं कुत उपलभ्यते । अर्थोऽसिद्ध एव । छिन्ने उत्पाद इति अयमर्थोऽसिद्ध एव इति दर्शयितुमुच्यते । यदि सोऽपि सचेतनः स्यत्, कस्मात्छेदनावस्थायां प्राणातिपत्तीत्यादि दुःखं नानुभवति । अनिच्छादिचर्यां प्रार्थनादिं वा ततोऽन्यत्रगमनं वाल्पमपि न कुर्वन्ति । छिन्ने उत्पादत्वात्सचेतनत्वाभ्युपगमश्चेत्, तर्हि यच्छेदेऽनुत्पादः, तन्निवर्तनादचेतनत्वमेव स्यात् । सचेतनानामङ्ग-प्रत्यङ्गादिच्छेदानुत्पाद-धर्मित्वादचेतनताया एव प्रसङ्गो जायते । तस्मात्तद्धेत्वर्थोऽसिद्ध एव । तस्मादजीवं, निर्जीवमितीदं व्यवस्थितम् । यथावदविपरीतमिति अहेतोः प्रतिकूलहेतोर्वियुक्तत्वात् । अजातमिति तु जन्यजनकरहितत्वात् । अभूतमिति शाश्वतोच्छेदरहितत्वात् । अकृतमिति तु कर्तृरहितत्वात् । आभ्यन्तरकर्तृपुरुषेश्वरादिप्रवृत्ति-संस्कार-रहितत्त्वाच्च । अप्रतिघमिति तु अनावरणस्वभावत्वात् । अनालम्बनमिति तु आलम्ब्यालम्बनरहितत्वात् । व्युपशमस्वभावमिति तु कर्मक्लेशरहितत्वात् । एकान्तशमस्वभावमिति सर्वप्रपञ्चरहितं सर्वकल्पनाजालरहितम् । सततस्थितम्, अभयमुत्पादविनाशरहितञ्च । य एतादृङ्नयेन धर्ममपि पश्यति । व्युपशान्त्यन्त-संयुतमित्युक्तम् । व्युपशान्त्यन्तमिति तु उपशममन्ते दर्शयितुं व्युपशमपर्यन्तम् । यस्तु एतादृशनयेन धर्मं सततमजीवादिस्वभावं पश्यति ।

प्रतीत्यं धर्मबुद्धौ च शुद्धिबुद्धया हि पश्यति ।

सोऽनुत्तरधर्मशरीरं बुद्धं पश्यति । इति भगवता उक्तम् । इत्यस्यार्थस्तु यः पश्यति । आर्यधर्ममभिसंबुध्य इति तु यो पापधर्माणां पारे अर्थात्दूरे स आर्यः । तेषां धर्म आर्यधर्मः, सम्यक्दृष्टिरित्यादिः । अभिसंबुध्येति अभिमुखे एकाग्रताकरणात्साक्षात्करणाच्च समाधिप्राप्तेरित्यधिवचनम् । सम्यग्ज्ञानोपनयेनैव इति सम्यगविपर्ययेण सर्वधर्मनैरात्म्यतथतावगमत्वात् । अनुत्तरमिति तत्पूर्वं विशिष्टधर्मस्य अभावः, तस्मात्तदेवानुत्तरमित्युक्तम् । धर्मकाय इति धर्मकाय एव धर्मकायः, निशादा-पुत्रवत् । बुद्ध इति धर्मावबोधात् । तथापि यः प्रतीत्यसमुत्पादं पश्यति स धर्मकृतानुत्तरबोध्यशैक्षस्वभावतां पश्यति । येन स आर्यज्ञानगोचरधर्मं तादृशं स्वयथावदभिसंबोधेः धर्मज्ञः, धर्मनिर्माणं धर्मदर्शनं बुद्धदर्शनमिति भगवता उक्तम् । प्रतीत्यसमुत्पादलक्षणं भेदव्यवस्थापनार्थं प्रतीत्यलक्षणं तावदित्युक्तम् । कस्मात्प्रतीत्यसमुत्पाद उच्यते इति चेत् । तस्मादुक्तम् -

सहेत्वादिपदान्वितम् ।

सहेतुकः सप्रत्यय (उच्यते) नाहेतुको नाप्रत्ययः । भगवता प्रतीत्यसमुत्पादलक्षणं संक्षेपेणोक्तम्, एतत्प्रत्ययस्यैव फलम् । तस्मादुक्तम् ।

बुद्धोत्पादो भवेन्नो वा स्थितेयं धर्मता यतः ।

हेतुप्रत्यय-प्रवाहोऽविच्छिन्नः । हेतुफलमविच्छिन्नमन्योन्यं प्रवर्तते । अत्राहेतुः प्रतिकूलहेतुः वा प्रवर्तको निवर्तको वा कोऽपि नास्ति । तस्मात्तथागतानामुत्पादाद्वा अनुत्पादाद्वा धर्मतो धर्मस्थितितो धर्मनियमतश्च एष प्रवाहः, इत्युक्तम् । यदि प्रत्ययरहितेन एकेनैव हेतुना भावा उत्पद्य तिष्ठन्ति, यदि प्रत्ययोऽपि हेतुमनपेक्ष्य किञ्चिदुत्पादयितुं समर्थः चेत्तदा ते स्थिता अस्थिता इति वक्तुं युज्येत, तेषामुत्पादः फलोद्भवोऽपि नाहेतोर्न चाप्रत्ययात्तथागतानामुत्पादो वानुत्पादो वा एषा धर्मता धर्मस्थितता च आदितः प्रवर्तेते ॥

तद्यथा - प्रतीत्यसमुत्पादस्य धर्म एतत्प्रत्ययताफलमिति भगवता प्रतीत्यसमुत्पादः संक्षेपेण उक्तः । अत्र धर्मता तु हेतुप्रत्ययर्योर्धर्मता । धर्मस्थिततेति अविप्रणाशधर्मता । धर्मनियामतेति इदंप्रत्ययताक्रमनियामता । हेतुप्रत्यय-क्रमवत्प्रतीत्यसमुत्पादसमतेति हेत्वभावे प्रत्ययाप्रवृत्तिः प्रत्ययाभावे च न हेतु-प्रवृत्तिः । परस्परसामग्र्यां च प्रवृत्तिः । अनन्यतथतेति अन्यताविरहितत्वात् । भूततेति अविसंवादत्वात् । सत्यता इति सत्यानुकूलत्वात् । तथतेति अर्थान्वितत्वात् । अविपरीततेति तु चतुर्विधविपर्ययरहितत्वात् । अविपर्ययतेति अनुकूलत्वात् । एवमपि प्रतीत्यसमुत्पादोऽयमित्यादि हेतुप्रत्ययद्विविधत्वाधेतुप्रत्ययोभयार्थ प्रतीत्यसमुत्पादस्य क्रमोऽभ्युपगन्तव्यः । कतमौ द्वाविति? उच्यते । हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च। तच्च बाह्याध्यात्मिक-भेदेन चतुर्विधोऽवगन्तव्यम् -

बाह्य आध्यात्मिकश्चापि द्विविधो हेतुप्रत्ययः । इत्युक्तम् ।

एवं बाह्याध्यात्मिकविशेषेण पृथघेतुप्रत्ययानां लक्षण-भेदः कीदृश इति चेत् ।

बाह्यो हेतुस्तु बीजादि इत्युक्तम् ।

तत्र कतमो बाह्यः सहेतुकः प्रतीत्यसमुत्पाद इति उक्त्वा तदिदम् - बीजादङ्कुरः । अङ्कुरात्पत्रम् । पत्रात्काण्डम् । काण्डान्नालम् । नालाद्गण्डः गण्डाद्गर्भम् [गर्भाच्छूकः] पुष्पात्फलमित्युक्तम् ।

प्रत्ययः षड्विधो मतः ।

इति त्ववस्थात्वाद्बाह्यप्रतीत्यसमुत्पाद इति योज्यम् । षड्विध इति तु पृथिव्यादयः षड्विधाः । तस्मात्तूक्तम् -

बीजाङ्कुरप्रकाण्डादिः फले यद्वत्प्रवर्तते ।

बीजे सति अङ्कुर-काण्डादि-फल-पर्यन्तानां प्रादुर्भावाद्, बीजेऽसति अङ्कुरकाण्डादिफलपर्यन्तं न प्रादुर्भवति । तत्र बीजस्य नैवं भवति अहमङ्कुरादि अभिनिर्वर्तयामि इति । अङ्कुरस्यापि नैवं भवति अहं बीजादिना अभिनिर्वर्तितः इति । एवं यावत्पुष्पस्य नैवं भवति अहं फलमभिनिर्वर्तयामीति । फलस्यापि नैवं भवति अहं पुष्पेणाभिनिर्वर्तित इति । अथ पुनर्बीजे सति अङ्कुरादितः फलादि पर्यन्तं प्रादुर्भावः । असति न भवति । एवं बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः ।

प्रत्ययस्तु पृथिव्यादि कालान्तं हि यथा क्रमम् ।

तस्मादेव कथं बाह्यप्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इत्यादि उक्तम् । बाह्यप्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धाः कतिधा द्रष्टव्या इत्युक्तं षण्णां धातूनां समवायात् । कतमेषां षण्णामिति । पृथिव्यप्तेजोवाय्वाकाशर्तुधातूनां यथाक्रमं समवायाद्बाह्यप्रतीत्यसमुत्पादस्येति प्रत्ययता यथाक्रमम् । क्रमो यथावद्ज्ञातव्यः । एषां हेतुप्रत्ययानां कतमस्य कर्म कतमदिति चेत्? तस्मादुक्तम् ।

धारणं स्नेहनं पाको धान्यवृद्धिरनावृतिः ।
परिणामस्तथा तेषां कार्यं तद्वत्प्रवर्तते ॥

तत्र पृथिवीधातुर्बीजस्य संधारणकृत्यं करोतीति बीजमङ्कुरोत्पादोन्मुखमाश्रयत्वात्कठिनत्वमेव उच्यते । अब्धातुः स्नेहयतीति अभिष्यन्दयतीति भाषितः । तेजो धातुः परिपाचयतीति परिपुष्टयवसरे उपपद्यमाने परस्पर-स्पर्शेणोष्णता एव परिपाक इति उच्यते ।

वायुधातुरभिनिर्हरतीति वर्धनत्वाद्, स्वावस्थायाः समुद्धृत्य बहिरा नयनाद्वायुधातुर्बीजमभिनिर्हरति वर्धयतीति उच्यते । आकाशधातुर्बीजाङ्कुरादीनामनावरणकृत्यं करोतीति । आकाशधातुर्विघ्नाकरणत्वादनुकूलप्रवृतेः बीजाङ्कुराद्यनावरणकृत्यं करोतीत्युच्यते । ऋतुरपि बीजस्य परिणामनकृत्यं करोतीति ऋतुरपि सर्वाकारमभिनिर्हरति । ऋतौ यथावत्परिवर्तमाने बीजपरिणामकृत्यं करोतीति । सर्वेषामप्यवैकल्ये प्रादुर्भावः । वैकल्ये तु न प्रादुर्भावः । तस्मादेव उक्तम् ।

नो चेत्प्रत्ययसामग्री बीजे भूतेऽपि नाङ्कुरः ।
बीजाभावे तु सत्येवं प्रत्ययभावोऽपि तादृशः ॥

तस्मादेव उक्तम् । सर्वसमवायाद्बीजे निरुद्धे ततोऽभिनिर्हारः स्यात् ।

हेतवः प्रत्ययास्तद्वदात्मग्राहादिवर्जिताः ।
हेतुप्रत्ययसामग्र्या न नश्येत्कर्मणः फलम् ॥

तत्र पृथिवीधातोर्नैवं भवति अहं संघातकृत्यं करोमीति । तद्वत्जले अग्नौ, वायौ, आकाशे, ऋतौ चापि नैवं भवति । आत्मात्मीयग्रहाभावान्न कर्मफल-प्रज्ञप्ति-प्रणाशः, सर्वत्र हेतुप्रत्ययवैकल्याभावादित्यवगन्तव्यम् । सोऽङ्कुरोऽपीति बीजहेतुकतदङ्कुरादीनामुत्पादो

न स्वतो परतो नापि न द्वयोः कर्तृकालतः ।
ईश्वरादिकृतं नैवं स्वभावान्नाप्यहेतुतः ॥ इत्युक्तम् ।

स्वत इति हेतुप्रत्ययाभावे स्वत उत्पादः । स्वभाववादिन एवं कल्पन्त इति श्रूयते ।

भावानां स्वभावत सततमत्र तिष्ठति ।
अत्र न कश्चिदुत्पद्यते न च कश्चिन्निरुध्यते ।

मायूरस्य पत्रवैचित्र्यं, कमलादिषु रक्तता,
काण्डादीनां तैक्ष्ण्यादिकं केन पूर्वनिर्मितमित्युच्यते ।

तस्मात्तन्मतनिराकरणायोक्तम् । भावानां स्वत उत्पादो न युज्यते । पूर्वाध्यवसितत्वात् । उत्पत्तिमत्त्वेन अभ्युपगम्यते, हेतुप्रत्ययताभ्युपगमः । तस्माद्वस्तूनां स्वभावत उत्पादो न युज्यते, उत्पत्तिमत्वाद्घटादिवत् । यस्यानुसारं भावाः सततं स्थिताः तदनुसारमुत्पाद-क्रिया-कर्म-स्थिति-विनाशा अपि न युज्यन्ते, उत्पाद-क्रिया-कर्म-स्थिति-विनाशा अपि साक्षादवभासन्ते ।

तस्मादत्र दोषस्य प्रसज्यमानत्वान्न स्वत इत्युक्तम् । भावानां स्वत उत्पादश्चेत्नित्यमुत्पादप्रसंगः स्यात्, आकाशवत् । कस्यचिदपि कुत्रापि कदापि उत्पादो निरोधो वा नास्तीति चेत्- उच्यते- प्रत्यक्षविरोधः । एवं भावानां हेतुप्रत्ययादुत्पादो भासते, तस्मात्तावद्भावानां न स्वभावत उत्पादः । परतः इति आत्मतः । परेषामुत्पादको विनाशकश्चात्मास्तीति श्रूयते । बाह्याभ्यन्तरसर्ववस्तूनि तु आत्मगुणाः । आत्मा अन्तः करणपुरुषोऽस्ति ।

तथा सति गमनागमन-चलन-कम्पन-निराकरण-मन्यना-क्रिया-कर्माणि तत्रैव अन्यत्रापि च प्रवर्तन्ते । चक्षुरादिः आत्मगुणः, परार्थत्वात्, शयनाद्यङ्गवदिति । परसंज्ञा तु आत्मनि सत्येवोच्यते । चक्षुरादिः तद्गुणत्वात्, तदर्थस्तु परार्थः । यथा शयनादि परैरुपयुक्तत्वात्परार्थमितिवत्परार्थत्वादिति । अयं हेतुः शयनोपमया न युज्यते संघातत्वात् । आत्मात्वसंघातस्वरूपः । कथमात्मा असंघातः सन् स्वशरीराभावे शयनादीनङ्गसंघान् स्वरूपेणोपकर्तुं युज्यते । तस्मात्स हेत्वर्थोऽसिद्धः, असंघातस्य परार्थनिष्पादकत्वात् । शयनभेदेन शयनोपमा संघातस्य परार्थत्वमेव साधयति । आत्मनः संघातत्वाधेतुप्रत्यययोरुत्पादोपलब्ध आत्मात्मीय इति मन्यनाकारप्रवृत्तेः चित्तमेवात्मा इत्युच्यते । अत्रान्तः करणपुरुषः कूर्मकेशस्वभाववद्युक्त्यनुमानरहितस्तु क्वचिन्नास्तीति दर्शयितुं भगवता बाह्याध्यात्मिकभावानां परत उत्पादो न युज्यत इत्युक्तम् । यदि भावानां स्वतोऽपि नोत्पादो न च परतोऽपि, तदा भावानां द्विविध उत्पाद इति चेत्, तस्मात्तन्मतनिषेधार्थमुक्तम् । न द्वयोः न च कालत इत्युक्तम् ।

न स्वतः परतश्च न । अन्ये तु स्वपरयोः सम्बन्धाद्भावोत्पादं मन्यन्ते । तस्मादुभयत एव वदन्ति । तथापि स्वतोऽनुपलब्धत्वात्परतश्चाभावात्न द्वयोः इत्युक्तम् । हेतु-प्रत्ययातिरिक्तं न स्वतो न परत इति भगवता उक्तम् । यदि उभयसंयोगेऽपि उत्पादविनाशौ नेष्टौ, तदा परतन्त्रेण कर्त्रा उत्पादविनाशौ भविष्यत इति कैश्चिदुच्यते । अन्ये तीर्थिकास्तु कर्त्ता नाम कश्चिदाद्यःकर्ता, नित्योऽनवच्छिन्नो व्यापकश्चात्मेति कश्चिदस्ति, स एव बाह्यमाभ्यन्तरञ्चेदं सर्वमुत्पादयति विनाशयतीति मन्यन्ते । तस्मात्तन्मतखण्डनार्थमुक्तम् । भावानामुत्पादः स्थितिर्विनाशश्चैव न कर्त्रधीनाः । अथ कस्येति चेत्- हेतुप्रत्ययसम्बन्धाद्भावानां प्रवृत्तिर्भासते । कर्तुस्तु आकाशवन्निर्विकारत्वात्तदधीना उत्पाद-स्थितिविनाशाश्च नैव युज्यन्ते ।

कस्मादिति चेत्, कर्त्तरि निर्विकार-निष्क्रियाकाशात्मनि क्रिया कर्म च किञ्चिदपि नास्ति । उत्पद्यमाना भावा हेतुप्रत्ययापेक्षाः प्रवृत्ति-क्रमोद्भूता एव भासन्ते । यदनुसारं कर्त्तारमपेक्षते प्रवृत्तिस्तदनुसारं भावानामुत्पाद-स्थिति-विनाशाश्च सदा आसन्ना भवन्ति । कर्तुर्नित्यत्वाद्भावानामुत्पादओ-स्थिति-विनाशा युगपद्भविष्यन्ति अथवा उत्पाद-स्थिति-विनाशा न भविष्यन्ति । नित्यत्वात्क्वचिदपि किञ्चिदपि उत्पादो वा विनाशो वा न स्यात् । हेतुं प्रत्ययञ्च अपेक्ष्य प्रवर्तमानानां भावानामेव कर्तृ-क्रिया-हेतुफलोत्पादसमः क्रमोद्भव उपलभ्यते । अनुत्पन्ना-काशोत्पलादीनान्तु उत्पाद-स्थिति-विनाशा न युज्यन्ते । अविकारहेतुभिः परस्परमाश्रित्य प्रवर्तमानैः उत्पादनियमो न युज्यते ।

नित्यभावादनित्यो हि समुत्पादो न युज्यते ।
हेतुतस्त्वविकारत्वात्समस्यैवोद्भवे सति ।
हेतौ फले च संभिन्नेऽविकारस्तु कथं भवेत् ।

हेतौ विकारस्यापि भूतत्वात्तदसादृश्यपक्षो नष्टः । क्रियानन्वितवन्ध्यापुत्रात्मनि कस्याश्चित्क्रियायाः कर्मणो वा नियतेन अयुक्तत्वाद्भगवद्धर्मेषु अविसंवादित्वाद्भावोत्पादक्रिया कर्त्तारं नापेक्षते, किन्तु सति हेतुप्रत्ययसङ्ग्रहे भावानामुत्पादविनाशौ युज्येत इत्युक्तम् । यद्येवमत्र भावोत्पाद-स्थित्यन्यथा-भावतादिरभ्युपगन्तव्यः ।

भावोत्पादस्थितीनां तु ज्ञातव्यो हेतुरीश्वरः ।
अन्येषां विप्रतिपत्तिर्यथावत्तैर्हि भाष्यते ॥

अन्यैः सत्त्वभाजनलोकयोरुत्पाद-स्थिति-विनाशास्तु ईश्वरकृतप्रणाशा अवगम्यन्ते, तदीश्वरेच्छावशात्काय-भूमित्रय-कर्त्रादिसंभवः स्यादिति श्रूयते । अन्ये तस्यैव चित्तोत्पादमात्रेण नरक-प्रेत-तिर्यक्-देव-मनुष्यदयाश्च सत्त्वाः ज्वर-विष-व्याधि-स्त्री-पुरुष-नपुंसक-सुकृतरूप-विकृतरूप-दस्यु-जिह्म-चौराः काममिथ्याचार-प्राणातिपात-मृषावाद-मद्यपान-द्यूतप्रवेश-प्रत्यन्त-शबर-डोम्बी-निर्दय-क्रूर-पारुष्यवाद-ब्रह्मघात-मातृपितृघातक-व्याधादयः, यक्ष-राक्षस-डाकिन्यादयः सर्वे परघातकाः, सुख-दुःखादयः स्वर्गो विमोक्षश्च तानि सर्वाणि चित्तोत्पादमात्रेणोद्धृतानीति वदन्ति । ईश्वरकर्तृत्ववादिनोऽतिसुकुमारप्रज्ञा एव, अतिमन्दप्रज्ञा एव, गतानुगतिकाश्चैव युक्तिविशेषरहिते तस्मिन् गौरवप्रवणत्वात्पूर्वोत्तरविरुद्धं बालयुवकचाण्डालवदयथार्थ प्रत्यक्षादिविरुद्धं, दान-विनय-संयमेष्टानिष्टफलं, सुकृतदुष्कृतकर्म, गम्यागम्यं, भक्ष्याभक्ष्यं, स्वर्गापवर्गादिफलविरुद्धं, युक्त्यागमादिविरुद्धं च वाङ्मात्रेण पक्षीकृत्य निजाज्ञानपटलेन नेत्राच्छादनत्वादसमर्थत्वात्पशुभूतास्तु पशुभ्योऽप्यतिछुद्रतराः पशवः । निगूढवन्ध्यापुत्रस्वभावं पशुपतिमाश्रित्य, जन्मस्थितिविनाशानां हेतुतांस्यअपि तूच्चताम् । उत्पादे स्थितौ च सहेतुक एवाभ्युपगम्यमाने सति नित्यवादभङ्गत्वाद्वादोत्सर्गः, विपरीतसिद्धत्वादीश्वरस्य अहेतुत्वमेव सिध्यति । इच्छामात्रेण उत्पादे सति युगपदेव सम्पूर्णजगत उत्पादस्थिति-विनाशाः स्युः ।

तस्मादपि असिद्धार्थतैव स्यात्, सर्वेषां नित्योत्पादप्रसङ्गत्वात् । दुःख-कुहना-जिह्माशुच्यकृतज्ञताद्युद्धरणानां तु प्रयोजनविशेषाभावाच्च असिद्धार्थता । तदुद्धरणायासो निष्फलः । प्रयोजनाभावे हि कल्पनापूर्वङ्गमानां प्रवृत्तिर्नास्ति, प्रयोजनाव्याप्तेः । तत्प्रयोजनवद्व्यावृत्तौ कल्पनापूर्वङ्गमानां प्रवृत्तेरपि निवृत्तेः असिद्धार्थतास्ति ।

हेतुप्रत्ययवैकल्ये क्रमोत्पादविनाशौ
प्रत्यक्षतया भासेते, अवैकल्ये चानुत्पादः ।

सत्त्वभाजनलोकयोरुत्पद्यमानसुखदुःखादीनां स्थितिविनाशौ क्रमश उपलभ्येते, तस्मान्न ईश्वरो हेतुः । कस्यचिदपि भावस्य उत्पाद-स्थिति-विनाशा न युज्यन्ते। तस्मादपि प्रत्यक्षविरोधोऽसिद्धार्थ एव । नान्यत्प्रत्यक्षतो गरीयः प्रमाणमिति सर्ववादिप्रसिद्धम् ।

नैकान्तेऽर्थक्रिया । दयाप्रतापाभावे
गम्भीर्यगुण-दर्शन-चर्या-चिन्तनादि न युज्यते ।

एकान्तक्रियायुक्ता युक्तयोर्गाम्भीर्यगुणस्य रूपादेर्वा आलम्बन चिन्तनस्यैव अयुक्तत्वात्, तत्तु प्रतिकूलम् ।

हेतावसति सर्वत्र प्रत्यय एव कथं भवेत् ।
अहेतौ कारकाभावात्कथमीष्टे महेश्वरः ।
भावकर्ता महेशश्चेत्सोऽपि कर्ता न मन्यते ।
पित्रभावे सुतोत्पत्तिः सा नेष्टा दृश्यते न च ।
हेतुनिष्यन्दसादृश्यं मन्यन्ते युक्तिवादिनः ।
नित्यान्नित्यफलं युक्तमनित्याच्चाप्यनित्यकम् ।
शालिबीजात्फलं तस्मादङ्कुरोत्पाद ईक्ष्यते ।
तथा महेश्वरे नित्ये भावानां स्यात्सदोद्भवः ।
यथाग्निर्दाहयेत्सर्वं तथाचेदीश्वरो मतः ।
अग्निहेतुस्तथान्योऽग्निः ईश्वरे नास्ति हेतुकम् ।
क्रमप्रवृत्तज्वालाभिः सर्वदाहोऽपि मन्यते ।
ईश्वरस्याविकारित्वादग्निवत्त्वं न युज्यते ।

तस्मादीश्वरकर्तृत्वाभ्युपगमे बहुदोषसंभवाद्भगवता भावानामुत्पादः ईश्वरकृतो न युज्यते इत्युक्तम् । परे तु सर्वं कालेन विवर्तितं मन्यन्ते । तैरेवमुच्यते ।

स्थितिर्भावान् समुत्पाद्य कालेनैव विवर्त्यते ।
भावोत्पादस्थिती चापि कालेनैव विवर्तिते ।

तदेवमुच्यते । अत्र काल इति किं नाम? नित्यो वा अनित्यो वा, पुरुषः स्त्री नपुंसकस्वभावो वा, देवो पिशाचो वा, मूर्तोऽमूर्तो वा, सक्रियो निष्क्रियो वा ।

स नित्यश्चेत्तदा तत्र क्रियापेक्षा न युज्यते ।
उत्पादश्चेत्सकृत्सोऽपि विरुद्धत्वान्न मन्यते ।
अनित्यत्वेऽकालस्य हेतुप्रत्यययोगतः ।
यदि पुंस्त्रीनपुंसादि यत्किञ्चित्स्याद्विरुध्यते ।
देह्यदेहिक्रियादौ च पारस्परविरुद्धता ।
नित्यत्वे निर्विकारत्वात्क्रियाकर्म विरुध्यते ।

एवं कालवादिनां कालवशेन भावानामुत्पाद-स्थिति-विनाशाभ्यु-पगमस्यापि अयुक्तत्वात्तदप्यसमञ्जसमेव । सूर्यचन्द्र-नक्षत्र-पर्व-वत्सरादि-बाह्याभ्यन्तरभावानां गतगम्यस्वभावत्वात्कालाख्यया भावानामुत्पाद-स्थिति-विनाशास्तु कालपरिणामत्वेन न युज्यन्ते।

अन्यच्च, स्वभाववादिन आन्तरबाह्यान् सर्वभावान् स्वभावोद्भवान्मन्यन्ते । भावानां स्वभाव एव, कस्यचिद्भावस्य उत्पादस्य विनाशस्य वा कश्चिदपि हेतुर्नास्ति । खर-स्निग्धोष्ण-लघुत्व-श्लक्ष्ण-तीक्ष्णानि स्वभाव एव । मधुराम्ल-लवण-कटुकानि असत्त्वभेदा एव ।

देव-मानुष-तिर्यञ्चो राजब्रह्म-कुजातयः ।
सुकृतं दुष्कृतं चापि सुखं दुःखं सदा स्थितम् ।
स्वभाववैमत्या तेभ्यो भ्रान्तचित्तेभ्य एवं वक्तव्यम् ।
स्वभावे विकृते दृष्टे प्रत्यक्षादिविरुद्धता ।
विकारो वर्तते यत्र निर्विकारः कथं भवेत् ।
व्यक्त्यनेकप्रभेदाच्च जन्म नाशश्च भासते ।
जातेर्विनाशसम्बन्धान्निर्विकारः कथं भवेत् ।
स्वभावे निर्विकारत्वात्पुरुषादौ निरर्थके ।
कुले राजनि क्षेत्रादौ तत्फलं चापि भासते ।
स्वभावे विकृते जाते नित्यवादी तु भ्रंसते ।
मार्गोऽयं युज्यते तस्माधेतुप्रत्ययवादिनाम् ।

एवं स्वभाववादिष्वपि परस्परविरोधत्वादुत्पाद-स्थिति-विनाशानां स्वभावादुद्भवो न युज्यत इत्युक्तम् । अथ भावानामुत्पाद-स्थिति-विनाशा अहेतुतो भवन्ति इत्यपरेऽहेतुवादिनो हेतुं विनैव केवलं भावानामुत्पाद-निरोधौ कल्पयन्ति । अहेतुवादोऽभ्यपगम्येत चेत्, हेतोः अनिश्चितत्वात्कृतप्रणाशाकृताभ्यागमानवस्थाश्च भविष्यन्ति । सुकृत-दुष्कृतादि-पितृ-पुत्र-ब्राह्मण-राजन्य-वैश्य-शूद्र-श्वपचादि-शुच्यशुचि-गम्यागम्य-भक्ष्याभक्ष्य-देवपिशाचादि-दान-विनय-संयम-जप-तपस्योपवास-निश्चय-यागज्ञानाज्ञान-हेत्वनिश्चयात्परस्परभेदनिर्णय-व्यवस्थापि न संभवति । तस्मात्तस्यैव दोषस्य प्रसज्यमानत्वादहेतुवादोऽपि लोकादि-विरुद्धत्वादसिद्ध एव ।

ये चान्ये प्रधान-परमाण्वाद्यहेतु-प्रतिकूलहेतुवादादयस्तेऽपि तेनैव निषेधितव्याः । तस्मान् ।

न स्वतः परतो नापि न द्वयोः कर्तृकालतः ।
ईश्वरादिकृतं नैव स्वभावान्नाप्यहेतुतः ॥ इत्युक्तम् ।

हेतुप्रत्यययोर्वृत्तिर्भासतेऽनादिकालतः ॥

इति तु अनादि-कालतः प्रपञ्च-वासनाबीजस्य अविच्छिन्न-नदीस्त्रोतः-प्रवाहवदनुप्रवृत्तेः

हेतुप्रत्यययोर्वृत्तिर्भासतेऽनादिकालतः । इत्युक्तम् ।

तस्मादेव सूत्रे अथ पुनः पृथिव्यप्तेजोवाय्वाकाशर्तुधातुसमवायाद्बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति इत्युक्तम् ।ऽअथ पुनःऽ इति तु अभावादुद्भव-स्व-पर-द्वयेश्वरादि-रहित-बीज-पृथिव्यादि-सामग्र्या एव अङ्कुरादि उत्पद्यत इति उक्तम् ।

पञ्चभिर्हेतुभिर्बाह्यः प्रतीत्योत्पाद इष्यते । इति ।

पञ्चभिर्हेतुभिरिति तु हेतुपञ्चकैरिति, बाह्यस्येति बीजादेः ।ऽप्रतीत्योत्पादऽ इति प्रतीत्यम् ।

शाश्वततो न चोच्छेदान्न सङ्क्रान्तेः परीत्ततः ।
हेर्तोर्महाफलावाप्तिः सदृशानुप्रबोधतः । इत्युक्तम् ।

ऽशाश्वततो नऽ इति यस्मादन्यद्बीजम्, अन्योऽङ्कुरः, न च य एवाङ्कुरास्तदेव बीजम्, बीजमेवापि नाङ्कुरः । अनिरुद्धाद्बीजादपि अङ्कुरो नोत्पद्यते । न च निरुद्धाद्, तथापि बीजनिरोधे अङ्कुर उत्पद्यते । तस्मान्न शाश्वततो, न चोच्छेदादिति न च पूर्वनिरुद्धाद्बीजादङ्कुरो निष्पद्यते नाचाप्यनिरुद्धाद् । अपि तु बीजाद्निरुद्धात्तस्मिन्नेव समयेऽङ्कुरो उत्पद्यते । अतो नोच्छेदतः । न संक्रान्तितः इति तु बीजाङ्कुरौ तु असदृशौ एव । तस्मात्ऽन संक्रान्तितः । परीत्ततः हेतोरिति- परीत्तबीजवपनान्महाफलावाप्तिरिति तत्परीत्त-हेतोर्बहुफलाभिनिर्वृत्तिः, परीत्तान्महाफलाभि-निर्वृत्तित्वात्, तस्मात्परीत्तहेतोर्महाफलाभिनिर्वृतिः । सदृशानुप्रबोधादिति तु यादृशं बीजमुप्यते तादृशमेव फलाभिनिर्वृतिरिति । अतस्तत्सदृशानुप्रबन्धः । सदृशाफलाभिनिर्वृत्तिः ।

बीजाङ्कुरयोर्भिन्नत्वाद्बीजं नित्यं न वर्तते ।
यतश्चोच्छेदतो नास्ति बीजे सति तथाङ्कुरः ।
बीजसादृश्यसिद्धत्वात्तद्भिन्नं न चेष्यते ।
अङ्कुरस्य फलादीनां सङ्क्रान्तिश्चाङ्कुरस्य न ।
एकबीजं परीत्ताणोः बीजत्वेनैव सम्भवेत् ।
तस्मात्परीत्ततो हेतोर्जायते हि महत्फलम् ।
उप्ते शाल्यादि बीजे हि श्यामाकादिफलं न हि ।

तस्मादेव -
अङ्कुरो बीजवन्नेष्टो निर्हेतुर्नोऽङ्कुरोद्भवः ।
समो निरोध उत्पादस्तुलोन्नामावनामवत् । इत्युक्तम् ।

एवं बाह्यप्रतीत्यसमुत्पादः परिकल्पनात्मकेन अनुपचयत्वेन द्रष्टव्यः ।

तथैवाध्यात्मिकस्यापि हेतुश्च प्रत्ययो द्विधा ।

तथैवाध्यात्मिकस्यापि बाह्य-प्रतीत्यसमुत्पादवधेतुप्रत्ययाकारद्वयोप-निबन्धनत्वात्पृथक्द्विविधोऽवगन्तव्यः । द्विधा हेतुश्चप्रत्यय इति तु आध्यात्मिकः प्रतीत्यसमुत्पादो हेतूपनिबन्धनः प्रत्ययोपनिबन्धनश्च द्वयाकारोऽवगन्तव्यः । इष्ट इति अभीष्टस्य च अभिप्रेतस्य अभिमतस्य चेत्यधिवचनम् । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कथमवगन्तव्यः? उच्यते -

आदिहेतुरविद्यास्य मृत्युरन्त्यो यथाक्रमम् ।

तत्रादावविद्यादेशनादादौ अविद्या, अन्ते मरणाङ्गदेशनत्वान्मृत्युरन्ते । यत्तयोर्मध्ये स्यात्तत्तु मध्य इष्यते । तस्मात्सूत्रे अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्यय मुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरण-शोक-परिदेव-दुःख-दौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । इत्युक्तम् ।

सजन्मक्लेशकर्मात्मा द्वादशाङ्गस्त्रिकाण्डकः ।
हेतुप्रत्ययसम्भूतः कर्त्तेत्यादिविवर्जितः ।

क्लेश-कर्म-जाति-परतन्त्रोऽयमात्मापि अंशत्रयेण व्यवस्थाप्यते । क्लेश-परतन्त्रस्वभावतया, कर्मपरतन्त्रस्वभावतया जन्मपरतन्त्रस्वभावतया च । तत्र क्लेश परतन्त्र-स्वभावताया अङ्गानि त्रीण्यविद्यातृष्णोपादानानि । कर्म-परतन्त्र-स्वभावतायाः द्वे अङ्गे-भवसंस्कारौ । जाति-परतन्त्र लक्षणमपि शेषसप्ताङ्गम्-विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शो, वेदना, जातिः, जरामरणञ्चेति । अपीतिपदं संग्राह्यतां दर्शयति । शोक-परिदेवना-दौर्मनस्योपायासादीनां प्रियवियोगा-प्रियसंप्रयोग-कामविपत्त्यादीनां च संग्रहः । एवमयं प्रतीत्यसमुत्पादो द्वादशाङ्गः त्रिस्वभावतया वेदितव्यः । सोऽपि कर्त्रादि-स्वभावता-रहितो ज्ञातव्यः ।


अथ शालिस्तम्बसूत्रटीकायां तृतीयं पटलम् ।

अविद्या यदि नादौ स्यादन्ते मृत्युर्न संभवेद् ।

ऽअविद्या यदि नादौ स्याद्ऽ इति तु यदि अविद्या चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते । तद्वद्जरामरणपर्यन्तं चेन्नाभविष्यन्नैव शोकादि प्रज्ञास्यते ।

तेभ्यो भिन्नो न कुत्रापि ह्यात्मात्मीयश्च विद्यते ।

तत्राविद्याया नैवं भवति अहं संस्कारादि अभिनिर्वर्तयामीत्यतो जरामरणपर्यन्तं नैवं भवति अहं शोकादि अभिनिर्वर्तयामीति । संस्कारादीनामपि नैवं भवति वयमविद्यादिभ्योऽभिनिर्वर्तिताः । एवं यावज्जरामरणस्यापि नैवं भवति वयं जात्यादिभिरभिनिर्वर्तिता इति ।

अविद्यासंभवादादावन्ते मृत्युश्च भासते ।

अथ च सत्यामविद्यायां संस्काराद्यभिनिर्वृत्तिर्भवति, प्रादुर्भावः । एवं यावज्जरामरणं, शोकपरिदेवाद्यभिनिर्वृत्तिर्भवति ।

हेतुराध्यात्मिकस्यास्य ।

एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः । कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः? उच्यते -

प्रत्ययाः षट्प्रकारकाः ।

अस्येति तु आध्यात्मिकस्य। प्रत्ययस्तु सामग्री षट्प्रकारका इति षड्विधाः ।

प्रत्ययोऽध्यात्मिकस्त्वन्ते विज्ञानं चादिके धरा ।

विज्ञानस्यान्ते परिदेशनत्वाद्ऽअन्ते विज्ञानम्ऽ । आदिके धरा इत्युच्यते ।

तस्मात्सूत्रे -षण्णां धातूनां समवायात्पृथिव्यप्तेजोवाय्वाकाश-विज्ञानादिस्त्वाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः । इत्युक्तम् ।

काठिन्यानुग्रहौ पाकः श्वासवृद्धिरनावृतिः ।

तत्र अध्यात्म-पृथिवीधातुः कतमः? यत्कायसम्बद्ध-कठिन-कर्कश-रूक्ष-खरगत-केश-रोम-नख-दन्त-स्वेद-मल-चर्म-मांस-स्नाय्वस्थयादि-सदृशम्, अन्यच्च अस्मिन् काये यत्किञ्चिदस्ति तत्सर्वं संगृह्य पृथिवीधातुरुच्यते । अनुग्रह तु संग्रहः, सम्बन्धो-मृदुः, आलिङ्गनं, पिण्डीकरणं स्निग्धता च । तद्यथाश्रु-स्वेद-कफ-सिंघाणक-मज्जा-शुक्र-मूत्रोच्चार-रक्त-लसीका-मस्तक-ग्रहणी-पक्वाशयादिः अन्यच्चास्मिन् काये तादृशं स्निग्ध-स्वभावं स्याज्जलधातुरुच्यते ।

पाको नाम पाचनम्-पाक-पाचन-पाचकोष्णाग्निस्ताप-तापन-वृतिर्यश्चैतत्कायमध्ये अशित-पीत-खादितानां सम्यक्सुपाचकः । अन्यच्च यत्किञ्चित्कं तादृशं तत्सर्वं तु तेजोधातुरुच्यते । श्वास इति वायुधातुः । श्वासस्तु उच्छ्वासः, आश्वासो, भाषणं, प्रलापो, गमनागमनं क्षयो वृद्धिरिति । कायस्य विस्तारः, सङ्कोचः, कम्पनं, चलनं, उत्क्षेपः, पोषणं, वृद्धिः, पीनसः, कासः, छिक्का, ऊर्ध्ववायुरधोवायुरन्यच्चापि एतत्कायमध्ये यत्किञ्चित्तादृशमस्ति तत्सर्वमेकतः पिण्डीकृत्य वायुधातुरित्युच्यते । आकाशमिति अनावृतत्वादाकाशम् । आवरणं सप्रतिघं संवृतञ्च । राजी-कोषान्तारन्ध्र-मुखरन्ध्र-कर्णपुट-नासापुट-नेत्रछिद्रादयः कायान्तः कोषश्चायमाकाशधातुरित्युच्यते ।

नामरूपानुवृत्तिश्च पञ्चविज्ञानसंयुतः ।
तस्मात्क्लिष्टं मनश्चैवाध्यात्मिक प्रत्यया इमे ॥

तत्र नामानुवृत्तिः रूपानुवृत्तिश्च आध्यात्मिकविज्ञानधातुरित्युच्यते । पञ्चविज्ञानसंयुतः इति तानि पञ्चविज्ञानकायानि, ततः क्लिष्टं मनश्चापि इति क्लेशमयं मनः, तानि च चतुर्महाभूतानि एकतः पिण्डीकृत्य नडकलापयोगेन नामरूपमित्युच्यते । तत्र नामेति चत्वारोऽरूपस्कन्धाः-वेदना, संज्ञा, संस्कारो विज्ञानं चेति । रूपं नाम पित्रोः शुक्रशोणितोद्भूतमन्तराभवमाश्रित्य यत्प्रथमं नामरूपाभिनिर्वर्तनं तन्निश्रित्य पूर्वंनामरूपाभिनिर्वर्तनं-मनोविज्ञानं सास्रवं निवृत-व्याकृत स्वभावमात्ममोहादिचतुःक्लेशात्मकम् । आत्ममोहः, आत्ममानम्, आत्मदृष्टिः, आत्मोत्कर्षश्चेत्येतत्क्लेशसंयुतं क्लिष्टं मन इति एकतः पिण्डीकृतं नामरूपमित्युच्यते ।

धातूनां सन्निपाताद्वै शरीरोत्पाद इष्यते ।

अनन्तरोदिताः षड्धातवः । सन्निपाताद्वै इति तु वैकल्याभावात् । शरीरमिति तु भूत-भौतिक-संनिपात-पिण्डम् । उत्पादो नाम प्रादुर्भावः । इष्यते इति तु अनुमतम् । अस्य कर्त्रादि न वर्तते इति भावः ।

आत्मात्मीयविकल्पानामुत्पादस्तैर्न मन्यते ।

इति तु अस्माभिरेते उत्पादिता इति च तैर्वयमुत्पादिता इति तेऽन्योन्य विकल्पं नोत्पादयन्ति ।

तेषु सत्सु समुत्पादः तेष्वसत्सु न संभवः ।

प्रत्ययेषु असत्सु शरीरोत्पादो न युज्यते । यदा आध्यात्मिकप्रत्ययादि-वैकल्याभावस्तदा संनिपातात्शरीरमुत्पद्यते । वैकल्ये शरीरं न उत्पाद्यते ।

नैवात्मादिमयास्ते हि नाप्यन्यच्चापि किञ्चन ।

तत्र पृथिवीधातुस्तु नात्मा अहंममेति मन्यना-वियुक्तत्वात् ।ऽन सत्त्वास्तुऽ चित्त-मनो-विज्ञान-वियुक्तत्वात् । न जीवः चलत्वाभावात् । न जन्तुस्तु जन्यजनक विरहितत्वात् ।ऽन मनुजोऽ मनुवियुक्तत्वात् ।ऽन मानवऽ स्तु अन्तः स्थितमानवासदृशत्वात् ।ऽन स्त्रीऽ, न पुमान् - न नपुंसकस्तु आध्यात्मिकस्त्री पुरुष-नपुंसकात्मकः । न चाहं ममिति तु आत्मात्मीय-मन्यना-वियुक्तत्वात् ।

नाप्यन्यच्चापि किञ्चन इति तु ईश्वरादि-कर्तृ-क्रिया-कर्म-विरहितत्वात् । तद्वत्जलम्, अग्निर्वायुराकाशो विज्ञानधातुश्चापि नात्मा, न सत्त्वो, न जीवो, न जन्तुः, न मनुजो, न मानवो, न स्त्री, न पुमान्, न नपुंसकं न चाहं न मम स्यात् । न चेश्वरादि अन्यत्किञ्चिदिति ज्ञातव्यम् ।

यैकपिण्डादिसंज्ञा साविद्या त्रिभवछादिका ।

तत्र कतमाविद्या? उच्यते । त्रिभवछादिकेत्युच्यते । त्रिभवस्तु भवत्रयं कामभवः, रूपभवः, अरूपभवश्च । तेऽपि सत्त्वभाजनलोके व्यवहारेण द्विविधाः व्यवस्थापिताः ।

अथ च धातु-गति-योनि-भेदेन क्रम-त्रयेण स्थापितः । कथमिति चेत् । उच्यते - तत्र कामधातुः षट्त्रिंशदाश्रयनिकायविज्ञप्त्यवभासं साधारणासाधारण-स्वभावेन एकपिण्डत्वेन कल्पयन् संज्ञया ग्रहणत्वादविद्येति उच्यते । तत्र षट्त्रिंशदाश्रयनिकायास्तु अष्टौ उष्णस्वभावा महानरकाः, शीतस्वभावाः अष्टौ महानरकाः । संजीव-कालसूत्र-संघात-रौरव-महारौरव-तपन-प्रतापनावीचयो-ऽष्टोष्णनरकाः । हाहाधरापपाटट-हाहावत्-अर्बुद-निरर्बुद-पद्म-महापद्मोत्पलानि शीतस्वभावत्वादष्टौ शीतनरकाश्च । प्रत्येकः प्रादेशिकश्च नरकः, प्रेताश्रयः, तिर्यगाश्रयः, असुराआश्रयः । चतुर्द्वीपाः, अष्टौ अन्तर्द्वीपाश्च ।

तत्र प्रेताश्रयस्तु मरौ अटवीकान्तारे च । तद्भिन्नस्तु विभागः - ग्राम-नगर-निगम-श्मशान-पर्वताटवी-कर्वट-द्वीप-नदी-वायु-सागर-पल्वल-तडाग-कूपोद्यानस्थान-देवालय-मातृगृह-नागलोक-मरु-सरस्-वृक्ष-शून्यालय-महापथ-नदीतटारण्यवास-प्रपात-सेतु-कौलस्थान-मुख-महापथापण-चत्वर-श्रृङ्गाटक-पावनतीर्थस्थान-जलाशयादिषु स्थित्वा स्वकर्मवशेन विज्ञप्त्यवभास-विकल्पोद्भवानां यदज्ञानं सेयमविद्या इत्युच्यते । तिर्यक्स्थानं मध्ये-सागरम् । योनिस्थानानि चत्वार्यण्डजो, जरायुजः, संस्वेदजः, उपपादुकश्च । योन्याश्रयभेदेन विविधा तिर्यग्जगद्विज्ञप्त्यवभासित-विकल्पवासनालिप्तसन्तानाः ।

तदन्यथाविभक्ताः - गर्दभ-सूकर-वानर-गजोष्ट्राश्व-मृग-महिष-गौ-गवय-चमरी-श्व-श्रृगाल-नकुल-मूषक-सिंह-व्याघ्र-तरक्ष्वृक्ष-वृक-मार्जार-मीन-कच्छप-मकर-शिशुमार-सर्प-पिपीलिका-लूता-पतंग-तित्तिरि-पिपीलक-कृमि-वल्मीक-गोधा-कीट-जलवासि-शुक-शारिका-कोकिला-मयूर-हंस-क्रौञ्च-वक-काक-गृध्रोल्लूक-जीवञ्जीव-सुपर्णादयोऽनिश्चित-गतित्वात्स्वकर्मवासना-पारतन्त्र्येण अवभासाकारं स्थितं तु यदज्ञानं तदपि अविद्या इत्युच्यते । असुराणां चतुराश्रयस्तु सुमेरोश्चतुः परिषण्डमध्येऽस्ति ।

तद्भिन्नविभागेन स्थितं पर्वताटवी-वनोद्यान-नदी-ग्रामादिषु स्वकर्म-वशात्प्रज्ञप्तावभास-विकल्पनोद्भूतमन्यस्थानानां यदज्ञानं तदपि अविद्येत्युच्यते । नरक-सत्त्वानां स्वकर्मवशितानुकूलविकल्पनोद्भवानां तु अनवतप्तमहासागराद्विंशतिसाहस्र-योजनाधोभाजनस्य विज्ञप्ति-स्वभावमूलभूतेषु अन्यस्थानेष्वभि-निर्वृत्तिः । ततोऽन्यत्र प्रत्येकसत्त्वस्य नरकादि-भाजनस्य विज्ञप्ति-विकल्पनोद्भूतस्य पर्वताटवी-मरु-दरी-प्रपात-नदी-तीरादिस्थानाभिनिर्वृत्तं यदज्ञानमिदमप्य-विद्येत्युच्यते । चत्वारो द्वीपास्तु पूर्वस्यां विदेहः, दक्षिणस्यां जम्बूद्वीपः, पश्चिमायामपरगोदानीयः, उत्तरस्यां, च कुरुरिति । अष्टावन्तर्द्वीपास्तु पूर्वयां विदेहपर्षदो देहो विदेहश्च । दक्षिणस्यां-जम्बूद्वीप-पर्षदः चपलक उत्तरमन्त्री च । पश्चिमस्याम-परगोदानीय-पर्षदः चामरश्चापरचामरश्च ।

उत्तरस्यां कुरु-पर्षदः कुरुः कौरवश्च । तेद्वीपोपद्वीपानां प्रभेदेन विविधा-कारेण भिन्नाः । स्वविज्ञानावभासविकल्पनावशेनोद्भूतं विभिन्नप्रपंच-वासनालिप्तं तादृशं यदज्ञानमिदमपि अविद्येत्युच्यते । षड्देवानां सत्त्व-भाजनावभास-विज्ञप्त्यवभासविशेष-साधारणासाधारणाशेषस्वभावेषु पिण्डग्रहण-कल्पना-वशेनोद्भूतं यदज्ञानमिदमपि अविद्येत्युच्यते । तत्र षड्देवनिकाया इति । चतुर्महाराजकायिकाः - त्रायस्त्रिंशो, यामः, तुषितो, निर्माणरतयः परनिर्मितवशवर्तिनश्च । अन्ये च विद्याधर-सिद्धः, ऋषिर्गरुड-गन्धर्वः-किन्नर-महोरग, यक्षादयः, नक्षत्र-ग्रह-तारा-चन्द्र-सूर्या सपरिवाराः सप्रासादाः, उत्पाद-विनाश-स्वकर्मवशेन विज्ञप्त्याकारावभास-विकल्पना-वासनानुगामिनोऽण्डज-जरायुज-संस्वेदजोपपादुकाश्च । योन्याश्रय भेदेन विविध-तिर्यग्जगद्-विज्ञप्त्यवभासित-विकल्प-वासनालिप्तसन्तानाः गदर्भ-सूकर-वानर-गजोष्ट्राश्व-मृग-महिष-गौ-गवय-चमरी-श्व-श्रृगाल-नकुल-मूषक-सिंह-व्याघ्र-तरक्ष्वृक्ष-वृक-मार्जार-मीन-कच्छप-मकर-शिशुमार-सर्प-पिपीलिका-लूता-पतंग-तित्तिरि-पिपीलक-कृमि-वाल्मीकि-गोधा-यूका-कीट-जलवासि-शुक-शारिका-कोकिल-मयूर-हंस-क्रौञ्च-वक-काक-गृध्रोलूक-जीवञ्जीव-सुपर्णादयो-ऽनिश्चितगतित्वात्स्वकर्म-वासनापारतन्त्र्येण प्रज्ञप्त्यवभासाकार-स्थिताः । एवं पृथग्गति-योनि-बहुत्व-भेदेन विभिन्न-सत्त्वभाजनलोका इत्याख्याताः साधारणा-साधारणविशेषादिपिण्डग्रहोद्भूत एकतः संक्षिप्य कामधातुरित्युच्यते । परञ्चोक्तम् -

धातुगतियोनिभेदैः कामभवस्तु षट्त्रिंशत् ।
नरा द्वादश, षड्देवाः षोडश नरकास्तथा ।

सासुरप्रेततिर्यञ्चः ।

तादृश-विभिन्न-विकल्पवासनोद्भूतं यदज्ञानम्, अपरिच्छिन्नम्, अव्यक्ता-वरणम्, अनवबोधम्, अपरिज्ञातामिस्रं पूर्वान्तापरान्त-मध्य-हेतु-कर्म-फल-सत्य-रत्न-दुःख-समुदय-निरोध-मार्गकं यदज्ञानं साविद्या। त्रिधात्ववच्छादि केत्युच्यते । तस्मात्सूत्रे- येषामेव षण्णां धातूनामेक-संज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, ध्रुवसंज्ञा, शाश्वतसंज्ञा, सुखसंज्ञा, आत्मसंज्ञा, सत्व(संज्ञा), जीव(संज्ञा), पुरुषसंज्ञा, पुद्गल(संज्ञा), मनुज(संज्ञा), मानव(संज्ञा), अहंकार-ममकारसंज्ञा । एवमादि विविधमज्ञानमियमुच्यतेऽविद्येति देशितम् । तत्र पृथिवीधातोरष्टद्रव्यत्वादेकसंज्ञा न युज्यते । परमाणूनां परस्परं संचयात्मकत्वात्पिण्डग्राहो न युज्यते । हेतुप्रत्यययोः सम्बद्धप्रवृतेः नित्यसंज्ञा न युज्यते । चिरकालमस्थितत्वाद्ध्रुवसंज्ञा न युज्यते । सहोत्पाद-विनाशत्वान्न शाश्वतसंज्ञा । संस्कार-विपरिणाम-दुःखान्वितत्वान्न सुखसंज्ञा । षट्त्रिंशद्-विधाशुचिद्रव्यसमवायान्न शुचि संज्ञा । भूत-भौतिक-द्रव्य-वैपुल्यान्न आत्मसंज्ञा । चित्तचैतसिकाधिष्ठानत्वान्न सत्त्वसंज्ञा । क्रियाभावान्न जीवसंज्ञा । अपि च । गमनागमनरहितत्वान्न पुद्गलसंज्ञा अस्ति । अहंमममन्यनाविरहित्वान्न मनुज-मानवसंज्ञा । अहंममेत्यादि-रहितत्वान्मनुजादिसंज्ञा न युज्यते । एवं षण्णां धातूनां तदनित्यादिस्वभावस्य यदज्ञानमियमविद्येत्युच्यते ।

तत्र अविद्येति तु विद्या न भूतत्वादविद्या । न तु विद्याभावः, अभावस्तु न किञ्चिदपि । अविद्या विद्याभिन्ना विद्यान्तरमेवस्ति । तस्मादभावो निषेधोऽपि नास्ति, परत्वमपि नास्ति । अथ किमिति चेत्? विरोधः । अविद्या तु न विद्याभावः विद्याधर्मतो विरुद्धा अविद्येति उच्यते । परनिर्मितवशवर्ति तद्देवो - परिप्रभृति सप्तदशाश्रयाकारविज्ञप्त्यवभासो रूपधातुः । तदुद्भवः सत्त्व भाजनलोक-स्वभावः साधारणः, असाधारणश्च विशेषविकल्पवशसम्भवः । आश्रयास्तु चतुर्ध्यानानां त्रिविधभावनान्वितत्वाद्ब्रह्मकायिकादयो द्वादश, चतुर्थध्यानस्य मिश्रभावनान्वितत्वात्पञ्चावासाः पञ्चशुद्धावासाः । तत्र प्रथमे तु ब्रह्मकायिक-ब्रह्मपुरोहित-महाब्रह्माणः । द्वितीये तु परीत्ताभाप्रमाणाभाभास्वराः । तृतीयेस्तु परीत्तशुभाप्रमाणशुभ-शुभकृत्स्नाः । चतुर्थे -अनभ्रक-पुण्यप्रसव-बृहत्फलाः । शुद्धावासास्तु अवृहातप-सुदर्शन-सुदृग-कनिष्ठाः ।

चतुर्ध्यानभूमयः-सवितर्कावितर्क-सुखोपेक्षासंप्रयुक्ताः-ध्यानान्तरानागम्यभूमय इमा या अज्ञानम्, अदर्शनम्, अनभिसमिता इमा अप्यविद्येत्युच्यन्ते । याश्च नाममात्रं संज्ञावभास-विज्ञप्ति-विकल्पोद्भवाः चतस्र आरूप्यसमापत्तय आकाश-विज्ञानाकिञ्चन-नैवसंज्ञानासंज्ञायतनं यच्चाज्ञानानभिसमित्यदर्शन-मिदमप्यविद्येत्युच्यते । तस्मादेव भगवता-

चतुर्ध्यानान्यानागम्यमान्तरा भूमयस्तथा ।
आरूप्यायाः समापत्तेः पृथक्संज्ञाचतुष्टयम् ।
चतुर्भुवो विशुद्धीनां दशभूदेशनात्मिकम् ।
महेशप्राप्तिसंस्थानं तत्तु नान्यत्त्रिधातुतः ।
स्वचित्तयोगयोगेशो विशुद्धयुद्भवभूस्तथा ।
ज्ञानं समाधिः रूपं च वशिताप्रतिवेदिनः । इत्युक्तम् ।

तत्रापि यदक्लिष्टमज्ञानम्, अदर्शनम्, अनभिसंमतम्, अनवबोधभावनामार्ग-ज्ञानोत्पाद-बाधकं तदप्यविद्या इत्युच्यते । तस्मादविद्यातमस्तिमिरपटलेन नयनावृतत्वाद्विषयेषु रूप-शब्द-गन्ध-रस-स्पर्श-धर्माकारविज्ञप्तिविपर्यय-विकल्पवासनावभासत्वेन नित्यात्म-सुख-शुच्यादि-विपर्यासत्वाद्राग-द्वेष-मोह-विस्ताराद्रागजं कर्मापि अभिसंस्करोति । इष्टविघातकत्वाद्द्वेषोत्पन्नं कर्मापि अभिसंस्करोति । अमार्गे मार्गसंज्ञत्वाद्, अशुचिषु शुचिसंज्ञत्वाद्, अमुक्तौ मुक्ति संज्ञत्वाच्च मोहजमपि अभिसंस्करोति । तद्द्वयव्यावृत्त्या अनिञ्ज्यमपि अभिसंस्करोति ।

तत्प्रत्ययात्तन्निदानाच्च विद्यायां राग-द्वेष-मोहाहंकार-दृष्टि-संशयेर्ष्या-मात्सर्यानुगामनादकुशल-कायकर्मत आत्मनो ज्ञानस्य च परित्राणार्थ प्राणातिपातः अदत्तादानं, काममिथ्याचारः, उन्मादहेतुकं मद्यपानमन्यथा-नीप्सित-विपाकाभिनिर्वर्तनमपि अभिसंस्करोति । वाचो मृषावाद-पैशुन्य-पारुष्य-प्रलापैरनिष्टविपाकाभिनिर्वर्तनमपि अभिसंस्करोति । मानस-कर्मणोऽभिध्या-व्यापाद-मिथ्यादृष्टि-सम्प्रयोगोऽपि अभिसंस्करोति । काय-वाक्-चित्त-दुश्चरित-धर्म-समादान-हेतुभिः सत्त्वाः नरक-प्रेत-तिर्यग्-देव-मनुष्यासुरेषु उत्पत्स्यन्ते । तस्माद-ज्ञान-विषये राग-द्वेष मोहादिः प्रत्यक्षः, इत्युक्तम् । तत्र अविद्यया इति अविद्या-प्रत्ययेन संस्कारभावाभिसंस्कारित्वाद्विभावितं संस्कारभाव-प्रतिविज्ञप्तिस्वभावं विज्ञानमभिनिर्वर्तते । तस्मादेव

ततः संस्कृतभावानां ज्ञप्तिर्विज्ञानसंभवा ।

इति उक्तम् । ततः इति तु संस्कारमाश्रित्य भावानां विज्ञप्तिरिति तु विज्ञापकत्वाद्विज्ञप्तिः । विज्ञाने कर्मवासना-स्थापनमित्यधिवचनम् ।

विज्ञानेन सहोद्भूताश्चतुस्स्कन्धा अरूपिणः ।

इति विज्ञानेन सहोद्गता इति तु विज्ञानस्य हेतुत उद्भूताः । चतुःस्कन्धा अरूपिणः । इति तु चत्वारो विज्ञान-स्कन्धाः वेदना-संज्ञा-संस्कार-विज्ञानमित्यादयः । अरूपिणस्तु-भूत-भौतिक-संचयाकार-रहितत्वात्सन्ति, न तु नित्यम् ।

अथ किमिति चेत्? चित्तचैतसिकस्वभावोऽस्ति । स्कन्धत्वं तु विपुल-द्रव्यात्मकत्वात् । रूपं तु धातुचतुष्टयम् । पितृमातृ-शुक्रशोणितोद्भूताः पृथिव्याप्ते-जोवायुधातवः । तान् संगृह्य विज्ञानप्रत्ययं नामरूपमित्युच्यते ।

नामरूपमुपादाय चेन्द्रियायतनोद्भवः ।

इति यत्पूर्वमिन्द्रिये सतृष्णवासनानामरूपं स्थापितं तन्नामरूपं संनिश्रित्य चक्षुरादि-षडिन्द्रियाभिनिर्वर्तनेन इन्द्रियस्य षडायतनानि प्रादुर्भवन्तीति । इन्द्रिय-षडायतनानि षड्विज्ञानाश्रितानि । रूपादि-विषयालम्बन-विज्ञप्त्यवभासग्रहण-स्वभावानामभिनिर्वर्तनाद्भगवता

नामरूपसंनिश्रितानीन्द्रियाणि षडायतनमित्युक्तम् ।
विषयेन्द्रियविज्ञान-संघातात्स्पर्श सम्भवः ।

षडिन्द्रियायतनमपेक्ष्य विषयेषु इन्द्रियविज्ञानसंनिपातात्स्पर्शः । इन्द्रियविज्ञानं रूपादिविषयेषु स्पर्श इव निरान्तरमेव प्रवर्तते । अत्र स्पर्शस्तु किञ्चिदपि नास्ति । असंचित-पञ्चविज्ञानानि संचित विषयेन्द्रियैः सह युगपदेकत्र भूतत्वात्स्पर्शवन्ति सन्ति, न तु स्पर्श इत्युच्यते । तस्मादेव भगवतापि त्रयाणां धर्माणां संनिपातः स्पर्श इत्युक्तम् । आलम्बनावभासाकारेण स्पर्शो जातः । तद्वत्स्पर्शरसास्वादनियन्त्रणे षट्स्पर्शा कायानाश्रित्य षड्वेदनाकाया उत्पद्यन्ते । तस्माद्वेदना स्पर्शजा ज्ञेया । इत्युक्तम् । वेदना तु स्पर्शेण जनिता स्पर्शहेतूद्भवा इत्यधिवचनम् ।

तत्र वेदनेति तद्वेदयितृत्वाद्वेदना । वेदनानुभवः । सुख-दुःखादुःखासुखा-सौमनस्य-दौर्मनस्य-विशिष्टाः । वेदनावभासाकारविज्ञप्ति विकल्पनावशोद्भूतानां त्रिवर्गभेदेन षड्वेदनाकायोत्पादाद्भगवता स्पर्शसहभवा वेदनेत्युक्तम् । तद्वत्किञ्चिद्वेदनास्वादसक्ता अभिनिवेशात्मिका हि वेदनाहेतुकी तृष्णेति तृष्णोद्भवः । तस्मादेव तृष्ण च वेदनोद्गता इत्युक्तम् ।

तृष्णेति त्रिधातुरागः । रागोऽध्यवसानम्, अभिलाषः, आसक्तिरवियोगाकांक्षा, नन्दनं, प्रेम इत्यधिवचनम् । सा च इन्द्रियविषयविज्ञानभेदेन तृष्णाकायः षड्धा व्यवस्थापिता । तृष्णावभासाकार-विज्ञप्ति-वशोद्भूत षट्तृष्णा-कायोत्पादात्सुगतेन वेदनाध्यवसाना तृष्णेत्युक्तम् । एवमध्यवसित-तृष्णावृद्धिरुपादानम् । तस्मात्तृष्णावृद्धिरुपादानमित्युक्तम् ।

तृष्णा रागालिङ्गितस्य इष्टावियोगस्य हेतुः । कुशलमकुशलम-व्याकृतादि तूपादानम् । उपादानार्थेन उपादानम् । उपपञ्चमादानमुपादानम् । यथागृहीत-स्वकर्म-पथ्यदनस्य परवशादुपादानादुत्पादः पुनर्भव इत्युच्यते । तस्मादेव उपादानोद्गतो भव इत्युक्तम् ।

स्वकर्मवासनाया यथावदवभासाकार-विज्ञप्ति-विकल्पना-वशेनोद्भूतस्य पुनर्भवस्याभिनिर्वर्तनाद्भव इति, पुर्नर्भूतत्वात् । यथावत्स्वकर्म-वासनावशेन इति कुशलाकुशलानेञ्ज्य-कर्मवासनावशेनेत्यधिवचनम् । एवं कर्मभवस्तु हेतुः स्यात् । स्कन्धोत्पादो भवाज्जातः । कर्मभवस्य तद्धेतोः स्कन्धोत्पादो जातिरित्युच्यते । तत्र स्कन्धोत्पादस्तु स्कन्धानामुत्पादः।

धात्वायतनप्राप्तिरपि संक्षेपेण जातिरित्युच्यते । तत्र स्कन्धस्तु अनेकद्रव्यसंराश्यर्थस्तु स्कन्धार्थः । अथवा अनित्यतयैव ध्वंसत्वात्, उत्पादानन्तरमेव अनित्यताराक्षसेन भक्षणं, प्रतिहननं, विनाशनमित्यधिवचनम् । एवमभिनिर्वृत्तौ उत्पादहेतुना जातिप्रत्ययेन जरैव अभिनिर्वर्तते, तस्मादेव जातेरेवं जरापि च इत्युक्तम् ।

जातिप्रत्ययाभिनिर्वर्तितस्कन्धानां जीर्णता तु जरा । दौर्बल्य-खालित्य-पालित्य-बलिकापूर्णता-विभुग्नता-कुब्जत्व-दौर्बल्य-खरखरत्व-दण्डावष्टम्भ चर्याव्यक्तीन्द्रियभ्रंश-स्मृतिभ्रंशाः इति तादृशी तु जाति-प्रत्ययेन भिनिर्वर्तित-स्कन्धानां स्वकर्माकारिणी विज्ञप्त्यवभास-विकल्पनावासना-वशेनोत्पन्ना जीर्णता जरेत्युच्यते । एवं जराजीर्ण-स्कन्धान्यथात्वं मरणमित्युच्यते । तस्मादेवोक्तम् -

स्कन्धाभावो जराया यः स मृत्युश्चेत्युदीर्यते ।

तत्र जरेति श्लथीभूत-जराप्रत्ययेन मरणसंभवः । तत्र मरणमिति स्कन्धान्यथात्वम् । मरण-मृत-कालकृत-परलोकगमन-संक्रान्ति-गति-स्कन्ध-विध्वंसन-स्कन्धनाशायुःक्षय-जीवेन्द्रियनिरोधेत्येतादृशादि-संग्रहो जरामरणम् । मरणावभासाकार-विज्ञप्तिविकल्पनावशेन उद्भूतः स्कन्धनाशो मरणम् । अन्तावस्था, अन्तशयनं, विज्ञानसंक्रमणं, ऊष्महानिः, आयुर्वियोगः, कायिकानुकौल्यत्यागः, भवसंक्रान्तिः, यश्च विज्ञानान्तिमावस्थाश्रयोच्छेदाद्युत्पन्नो बहुधाप्रलापः, ग्रहणम्, दौर्बल्यं, परिजीर्णता, दैन्यं, निरोधानिरोधकः, मुखदौर्वर्ण्यं, अनाथता, स्वकर्मविकल्पनोद्भूत-यमपुरुषैः परस्पर-समादानावभासविज्ञप्तिः, स्वल्पमात्रओ-प्राणावशेषे श्वासप्रश्वासोद्भवा अरतिः, प्रकम्पः, कण्ठपरिशोषणम्, नासिकाच्छेदः, स्वेदः, क्लेदो मलं, स्वमूत्रोच्चार-लालाशरीरलेपः, निःसहायो, महान्धकार-प्रपात-पर्वत-परिषण्ड-गहनाटवी-शून्यालय-गृह-प्रासादोर्ध्व-मण्डप-कूटागाराग्नि-कुण्ड-महाह्रद-पलालस्कन्धगमनमिव चित्तविपर्यस्तस्य स्कन्धान्तरग्रहणं मरणमित्युच्यते ।

मूढे तु मरणाच्छोकः । इति सतृष्णस्य अन्तर्दाहः शोकः । अन्तर्दाहश्च चित्तपरितापः । शोचनार्थेन शोकः । अथ मम प्रियवस्त्विष्टवस्तु-वियोगो भविष्यति इति खिद्यमानस्य सन्तापाच्छोक इत्युच्यते । यथाकर्मोद्गताकारावभास-विज्ञप्त्याभिभूतस्य आनन्द-भयानिष्टाकारोत्पन्नो मर्मोच्छेद-दुःख-चित्त-खेदोद्भूत-शोकान्तरोत्थः-अहो, हाहा, किं, केन, कथम्, कुत्र शरणं गत्वा पश्यामि, इह गच्छामि, गतोऽहम्, गृहीतः, हतः, मृतः, भक्षितः, विनष्टः, प्रनष्टः, अहो मातः, अहो पितः, भ्रातः, भगिनि, पुत्र, पुत्रि, हे भार्य इति अनेकधा प्रलापो मिथ्यापदनिर्नादोत्पन्नः पैलोत्तकसंतापो दौर्मनस्यम् । तस्मात्शोकतश्चापलापो यो दौर्मनस्यं स उच्यते । इत्युक्तम् ।

दौर्मनस्यसमुद्भूतं पञ्चविज्ञानकायिकम् ।
आसातं दुःखमित्युक्तं कायसौख्यविधातकम् ।

दौर्मनस्य-समुद्भूतमिति तु दौर्मनस्यादेव । पंचविज्ञानकायिकमिति तु मनोज्ञ-रूप-शब्द-गन्ध-रस-स्पर्शानुस्मरणोपपन्नं पञ्चविज्ञानकायदुःखमुपघातकम् । आसातमनुभव-कायसौख्य-विघातात्मकं दुःखाकारावभास-विज्ञप्ति-वशेनोद्भूतं दुःखमित्युच्यते ।

दुःखं मनसिकारारव्यं मनसस्तूपघातकम् ।
दौर्मनस्यं च तज्ज्ञेयमन्योपक्लेशहेतु यत् ।

मानसं सुखं दुःखञ्चानुस्मृत्य पूर्वहसन-नन्दन-क्रीडन-विस्तार-चित्तविक्षेपाद्ययोनिशोमनसिकारसंप्रयुक्तं मानसदुःखम् । दौर्मनस्यादि उप-संक्लेशजनित्वादन्योपक्लेश हेतु यत् । इत्युक्तम् । यदन्यदेतादृशादि उपक्लेशः, स तु क्लेशोऽप्युच्यते, उपायास इत्युच्यते । तत्र एषां द्वादशभवाङ्गानामन्वर्थ नामानि दर्शयितुं - तमोऽभिज्ञानामरूपायतस्पर्शवित्तर्षतः । इत्युक्तम् ।

तत्र अन्धकारार्थेनाविद्या । अभीति अभिसंस्कारार्थेन संस्काराः । प्रवणत्वान्नाम । रोपणार्थेन रूपम् । आयतस्पर्शवित्तर्षतः । इति आयद्वारार्थे नायतनम् । स्पर्शनार्थेन स्पर्शः । अनुभवनार्थेन वेदना । परितर्षणार्थेन तृष्णा ।

तृष्णादानभवोत्पादः पाकनाश विशोकतः ।
उपादानार्थेन उपादानम् । पुनर्भवजननार्थेन भवः ।

भावार्थेन जातिः, पाकार्थेन जरा । विनाशार्थेन मरणम् । शोचनार्थेन शोकः ।

वचनादि कायसंपीडा चित्तदौर्मानसं तथा ।
क्लेशादन्वर्थकं नाम यथाक्रममुदीरितम् ।

वचनपरिदेवनार्थेन परिदेवः । कायसंपीडनार्थेन दुःखम् । चित्तसंपीडनार्थेन दौर्मनस्यम् । उपक्लेशार्थेन उपायासाः । पुनस्तत्त्वापरिज्ञेत्यादि तु परीक्षार्थं प्रदर्शनार्थमुक्तम् ।

पुनस्तत्त्वापरिज्ञानाद विद्यादेर्यथाक्रमम् ।
पूर्वपूर्वेभ्य उत्पादोऽप्याख्यातश्चोत्तरोत्तरः ।

तत्त्वापरिज्ञानं तु अप्रतिपत्तिर्विप्रतिपत्तिश्च । अयोनिशोमनसिकारहेतुत्वादज्ञानममविद्या । अविद्यायां सत्यां विभिन्नाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगाः, अपुण्योपगाः, आनेञ्ज्योपगाः। तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति । अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति । आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति ।

इदमुच्यते विज्ञानप्रत्ययं नामरूपम् । नामरूपविवृद्धया षड्भिरायतनद्वारै कृत्यक्रियाः प्रवर्तन्ते । तन्नामरूपप्रत्ययं षडायतनमित्युच्यते । षड्भ्यश्चायतनेभ्यः षट्स्पर्शकायाः प्रवर्तन्ते । अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते । यज्जातीयः स्पर्शो भवति, तज्जातीया वेदना प्रवर्तते । इयमुच्यते स्पर्शप्रत्यया वेदनेति । यस्तां वेदनां विशेषेणास्वादयति, अभिनन्दति, अध्यवसायं तिष्ठति सा वेदनाप्रत्यया तृष्णेत्युच्यते । आस्वादनाध्यवसानाध्यवसायस्थानादात्मप्रियरूप-सातरूप-वियोगो माभूदिति यस्य भूयः प्रणिधानमियं तृष्णा प्रत्ययोपादानेत्युच्यते । एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च स उपादान-प्रत्ययो भव इत्युच्यते । तत्कर्मनिर्जातानां पञ्चस्कन्धानामभिनिर्वृत्तिर्या सा भवप्रत्ययो जातिरित्युच्यते । जात्याभिनिर्वृत्तानां स्कन्धानामुपचयन-परिपाकाद्विनाशो भवति ।

तदिदं जातिप्रत्ययं जरामरणमित्युच्यते। पूर्वपूर्वाङ्गानामुत्तरोत्तराणां हेतुत्वात्, तानि उत्तरोद्भवात्प्रत्यय एव । एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादो-ऽन्योन्यहेतुकोद्भूतः ।

द्वादशाङ्गस्त्रिप्रवृत्तिर्नित्योच्छेदो ह्यनादिजः।
प्रवृत्तेर्जलधारावद्वर्ततेऽनादिकालिकः ।

नानित्यः स तु सततं स्थितत्वात् । न संस्कृत इति तु संस्कारवियुक्तत्वात् । स न चेतनः चित्तवियुक्तत्वात् । न प्रत्ययसम्भव इति प्रत्ययवियुक्तत्वात् । न क्षयधर्मस्तूपचयवियुक्तत्वात् । न निरोधधर्मः उत्पाद-स्थिति-विनाश-वियुक्तत्वात् ।

अनादिकालप्रवृत्तस्तु सन्धिकाल-परिच्छेद-वियुक्तत्वात् । नदीस्त्रोतवत्स्त्रोतोद्भूत अनुच्छिन्नप्रवाहः ।


अथ आर्यशालिस्तम्बसूत्र-टीकायां चतुर्थोऽन्तिमः पटलः ।

प्रतीत्यसमुत्पादोऽयं नदीस्त्रोतवतविच्छिन्नोऽनुप्रवर्तते । अथ चेमान्यस्य चत्वार्यङ्गानि हेतुः संघातकारकाणि च, द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते । तस्मात्कतमानि चत्वारि? इत्युक्तम्।

अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः ।

अविद्या, तृष्णा, कर्म, विज्ञानञ्चेति यथाक्रमम् । हेतुर्विज्ञानबीजं हि । विज्ञानं बीज-स्वभावत्वेन हेतुः । कर्म क्षेत्रमुदीरितम् । कर्म क्षेत्र-स्वभावत्वेन हेतुरित्युक्तम् । अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः ।

कर्मक्लेशा विज्ञानबीजत्वेन व्यवस्थिताः ।

कर्मक्लेशा विज्ञानबीजं जनयन्ति । तत्र

कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च ।
विज्ञाननामकं बीजं तृष्णया स्निह्यते परम् ।
विज्ञानबीजं चाविद्या किरति स्नेहनेन वै ।
कर्म तृष्णा तथाविद्या क्षेत्रं स्नेहोऽवकीर्णनम् ।
विज्ञाने न करोमीदं न विज्ञानमितो मतम् ।

तत्र कर्मणोऽपि नैवं भवति इत्यादि तु कर्मणोऽपि नैवं भवति अहं विज्ञान-बीजस्य क्षेत्रकार्यं करोमि। तृष्णाया अपि इत्यादि तु एवं तृष्णाया अपि नैवं भवति अहं विज्ञानबीजं स्नेहयामीति । अविद्याया अपि इत्यादि तु अविद्याया अपि नैवं भवति अहं विज्ञानबीजमवकिरोमीति । विज्ञानस्यापि इत्यादि तु नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति ।

तथापि बीजविज्ञाने कर्मक्लेशप्रतिष्ठिते ।
विज्ञानबीजमित्युक्तं कीर्णेऽविद्यास्ववस्करे ।

तृष्णाजलेन संसिक्ते

अविद्या-स्ववस्कर इति स्ववस्करेण च सदृशेन स्ववस्करं सर्वेष्वनुगत-त्वात् । कीर्णे स्ववस्करे इति स्ववस्करेण प्रच्छादनम् । तृष्णाजलेन संसिक्ते तृष्णैव जलम् । संसिक्ते इति तु स्नेहने ।

हेतुतो नामरूपयोः । अङ्कुरोत्पादभासो हि ।

इति तु हेतु प्रत्ययसामग्या उत्पादस्तु नामरूपाङ्कुरमभिनिर्वर्तयति । नामरूपाङ्कुरमित्यादेस्तु ।

न स्वपरोभयादिताः । नामरूपमिदं जातम् ।

नामरूपाङ्कुरमिदं तु स्वयं परत उभयादितो नोत्पन्नम् । अथ कीदृशमिति चेत् ।

पितुर्मातुः समागमात् । अविरोधादृतोश्चापि ।

पितुर्मातुः समागमादित्यादि तु पितृमातृसंयोगो वा सक्तिः, समागमः, युक्तत्वम्, पुत्रप्रसूतिसामर्थ्यम्, ऋतुमत्वञ्च ।ऽत्रिदिवसात्यये रजोनिवृत्तिस्तुऽ स हि स्त्रीणामृतुरुच्यते । तदा पुरुषसमागमे शुक्रशोणितसंयोगे, स्वयं गन्धर्वस्यापि चित्त-विपर्ययेऽपि मातापितृक्रियाधिमुक्तौ गर्भोत्पादक्रमेण कललार्बुद-पेशी-घन-प्रशाखावस्थामतिक्रम्य प्रसूतस्य, शैशव-कौमार्य-मध्यता-यौवन-वृद्धत्त्वादि-दशावस्था भवन्ति । तस्मादप्युक्तम्-

किञ्चिदास्वादवे धितम् ।
बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः ।
नामरूपाङ्कुरोत्पादः ।

अथ च मातापितृसंयोगाद्-ऋतुसमवायादन्येषां च प्रत्ययानां समवायात्तत्रास्वादविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति ।

न वैकल्याच्च प्रत्ययैः ।
विरोधत्वाच्च हेतूनां मायानैरात्म्यनिग्रहे ।
उत्पादोऽपि न संभवः ।

तस्मादस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यादित्युक्तम् ।

अस्वामिकेषु इति तु अन्तः करणं पुरुषादि अनुपलम्भनस्वभावमस्ति । तत्राभिनिवेशेनोत्पन्नो य आग्रहः । धर्मस्तु स्कन्धधात्वायतन-स्वभावः । अमम इति आत्मात्मीयरहितः । अपरिग्रह इति तु ईश्वरादि-परिग्रहानुपलम्भात् । मायालक्षण-स्वभाव इति यथा माया तु अभूतापि विविधव्यवहारं प्रतिपादयति, तद्वत्मायास्वभावस्य सर्वधर्मेषु क्रियादिर्विविधोपलभ्यते । हेतुप्रत्यय-संनिपात-व्यतिरिक्तं हेतुप्रत्ययादिधर्मः किञ्चिदपि न उत्पद्यते, विनश्यति वा । यथापि हेतुप्रत्ययवैकल्यत्वाद्भावानामनुत्पादस्तदवबोधयितुअमुपमा ।

चक्षुर्विज्ञानमप्यतः । पञ्चभिर्हेतुभिर्जातम् । इत्युक्तम् ।

तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते । कतमैः पञ्चभिरित्यादिस्तु -
चक्षूरूपावभासनैः । नभस्तज्ज मनस्कारैः । इति ।

तस्मात्चक्षुः प्रतीत्य रूपञ्चालोकञ्चाकाशञ्च तज्जमनसिकारञ्च इत्यादि उक्तम् । तत्र चक्षुरिति रूपं द्रष्टुं चक्षुरिन्द्रियं विकलं भवति ।

तस्मादेव चक्षुर्विज्ञानस्याश्रयकृत्यं करोति इत्युक्तम् । आलोक इति चन्द्र-नक्षत्राग्न्यौषधि-मणि-प्रभानामभिव्यक्त्यै आलोकोऽपि उपस्थितः । आकाशोऽपि नानावृत्ति-विकलो भवति । तज्जमनसिकारोऽपि समन्वाहार-कार्येऽविकलो भवति ।

पञ्चावैकल्यतस्तथा । चक्षुर्विज्ञानमुद्भूतम् ।

चक्षुर्विज्ञानस्य प्रत्ययेषु कस्यचिदप्यभावे न चक्षुर्विज्ञानस्योत्पादः, सति चोत्पादो भवति ।

मया ते जनिता इति । विकल्पो न यथोदेति

इति तत्र चक्षुषो नैवं भवतिऽअहं चक्षुर्विज्ञानस्याश्रय-कृत्यं करोमीति । रूपस्यापि नैवं भवति, अहं चक्षुर्विज्ञानस्यालम्बनकृत्यं करोमीति । आलोकस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति । आकाशस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावरणकृत्यं करोमीति । तज्जमनसिकारस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्य समन्वाहार-कृत्यं करोमीति । चक्षुर्विज्ञानस्यापि नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति ।

अथ च पुनः सत्स्वेषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर्भवति । असत्स्वेषु न भवति । एवं

श्रोत्रज्ञानादिका खिलम् । उत्पादस्य क्रमश्चैवं

तद्वत्श्रोत्रेन्द्रियादीनां पञ्चभिर्हेतुभिरुत्पादक्रमोऽवगन्तव्यः ।

हेतुप्रत्ययसङ्ग्रहात् ।
कर्त्रादीनां च वैकल्यादहंकारवियोगतः ।
उत्पादोऽपि यथापूर्वं तथा चापि प्रतीत्यजम् ।
हेतुमत्संविजानीयात्

तथा चापि हेतुप्रत्ययक्रमोऽनन्तरोक्त-क्रमः । एवं सर्वधर्माणामुत्पाद-स्थिति-विनाशा अवगन्तव्याः ।

अस्माल्लोकात्परंनहि ।

कश्चिद्धर्मो क्वचिद्गन्ता हेतुप्रत्ययतस्तथा ।
कर्मणःफलमभ्येति

तत्र धर्मस्तु चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनादयो धर्माः । रूप-शब्द-गन्ध-रस-स्पर्शादयो धर्माः, स्कन्ध-धात्वायतन-प्रतीत्यसमुत्पादादयो धर्माः । अस्मादिति तु अस्माल्लोकात्परं लोकमथवा परलोकादमुं लोकं कश्चिद्धर्मो न संक्रामति । यद्येवं नित्यवादो वा अहेतु-प्रतिकूल-हेतुवादो वा भविष्यतीति चेत् । उच्यते । हेतुप्रत्ययवैकल्याभावात्कर्मणः फलमभ्येति इति ।

तत्र सङ्क्रान्त्यभावेऽपि कर्मफलाविनाशित्वं प्रत्यक्षानुमान-विश्वस्तागम-प्रख्यातेन अनेनोदाहरणेन ज्ञातव्यम् ।

यथादर्शे विशोधिते ।
दृश्यन्ते मुखबिम्बानि दर्पणेऽपि च बिम्बकम् ।
संक्रामितं भवेन्नैव

तस्मादुक्तम् । तद्यथा- सुपरिशुद्ध आदर्शमण्डले मुख-प्रतिबिम्बकं दृश्यते । न च तत्रादर्शमण्डले मुखं संक्रामति । अस्ति च मुख प्रतिविज्ञप्ति र्हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्यवते नाप्यन्यत्रोत्पद्यते । अस्ति च कर्मफलविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् ।

तदन्योन्याविकल्पनम् ।
कर्तृक्रियाविहीनं तत्तथोत्पादावभासनम् ।
पूर्ववृद्धिक्रमाच्च स्यात्

तदिति तु मुखमादर्शश्च । अन्योन्यमिति परस्परमन्योन्यम् । अविकल्पनमिति विकल्पनाभावः । कर्तृक्रियाविहीनं तदिति तत्र कर्ता क्रिया च न स्तः । किं तन्नोच्छिद्यत इति चेत्- तथोत्पादावभासनमित्युक्तम् । कथं कर्तृविहीनं क्रिया कर्म च भविष्यतीति उच्यते- पूर्ववृद्धिक्रमाच्च स्यात् ।

दूरस्थश्चन्द्रमा यथा ।
परीत्तो दकपात्रान्ते दृश्यते न च क्रामति ।
अस्ति क्रिया च कर्मापि ।

तद्यथा - चन्द्रमण्डलं [द्वि] चत्वारिंशद्योजन-शतमूर्ध्वं स्थितम् । अथ च पुनः परीत्तेऽभ्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते । न च चन्द्रमण्डलं तस्मात्स्थानाच्च्युतम् । अथ च पुनः परीत्तेऽभ्युदकस्थभाजने दृश्यते । अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिद्च्यवते नाप्युत्पद्यते । अस्ति च कर्मफल-प्रतिविज्ञप्तिः हेतुप्रत्ययानामवैकल्यात् ।

अपि च, तद्यथाग्निरुपादाने प्रत्यये सति ज्वलति उपादान-वैकल्यान्न ज्वलति । एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्रोपपत्त्यायतन-प्रतिसन्धौ मातुःकुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति । अस्वामिकेषु धर्मेषु अपरिग्रहेषु परस्पर-प्रत्ययमन्मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् ।

सन्ति ते कल्पनात्मकाः । बाह्यकर्मक्रिया हेतुः

तत्र बाह्यप्रतीत्यसमुत्पादस्य क्रियाकर्म-व्यवस्था तु कल्पनात्मिका ज्ञेया ।

अध्यात्मपरतन्त्रतः । पञ्चविज्ञानसंभूतः

तत्र परतन्त्र-प्रतीत्यसमुत्पादस्य लक्षणमध्यात्म-पञ्चेन्द्रिय-विषय-विज्ञप्त्यवभासाकारत्वेन वेदितव्यम् ।

परमार्थोऽविचार्यतः । परिनिष्पन्न आख्यातः

यो विकल्प-परतन्त्रात्माकारो विज्ञप्त्यवभासाकाररहितो निर्विकल्पः सुपरिशुद्धश्च, अब्धातु-सुवर्णाकाशवत्परिशुद्धः । क्लेश-ज्ञेयावरण-स्वरूप-परिशुद्धः चन्द्रोदयवद्, अचिन्त्यगुणः, अप्रमेय-प्रभाव-भासात्मकः, असंक्रान्तः सर्वसत्त्वार्थमनाभोगाविच्छेदकः, आदिमध्यान्तरहितः, त्रिधातु-समतीतो निर्मलो-ऽमलो मलप्रहाण-स्वरूपः । प्रतिस्वसंविद्-गोचरात्मक-काय-वाक्-चित्तकर्म-समतीतः, स्वसंवेदनः, अपराधीनो विश्वरूपमणिरत्नराज इव अनुत्तरो धर्मकाय इत्युच्यते ।

सहेतुप्रत्ययोद्भवः ।
सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा ।
तुच्छशून्यादिनिः सारः

तस्मात्तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः । इत्युक्तम् । कतमैः पञ्चभिः? उक्तम् । न शाश्वततो । यस्मादन्ये मरणान्तिकाः स्कन्धा अन्य औपपत्त्यंशिकाः स्कन्धाः । न तु य एव मरणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । य एवोपपत्ति-हेतवस्त एव विनाशकाः । य एव विनाश-हेतुस्स एवापि औपपत्तिको भविष्यति । अतो मरणान्तिकाः स्कन्धा निरुध्यन्ते औपपत्त्यंशिका स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । न च पूर्वनिरुद्धेषु मरणान्तिकेषु स्कन्धेषु इति निरुद्धय न चिरं गतत्वादौपपत्त्यंशिका इति औपपत्त्यंशे निश्रितत्वादौपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । मरणान्तिका अनिरुद्धा एव । औपपत्त्यंशिकः स्कन्धः प्रादुर्भवेत्, तद-युक्तत्वादुक्तम्- अपि तु मरणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिका स्कन्धा प्रार्दुभवन्ति, तुलादण्डोन्नामावनामवत् । अतो नोच्छेदतः, विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तितः परीत्तकर्म क्रियते, विपुलः फलविपाकोऽनुभूयते ।

अतः परीत्त-हेतुतो विपुलफलमभिनिर्वर्तितम् । यथावेदनीयं कर्म क्रियते तदावेदनीयो विपाकोऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । यः कश्चिदिमं प्रतीत्यसमुत्पादं सम्यक्प्रणीतमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बं शिवमभयमव्युपशमस्वभावं पश्यति । असतः तुच्छतः, रिक्ततः, असारतः रोगतः, गण्डतः, अघतः, अनित्यतः, दुःखतः, शून्यतः, अनात्मतः । इति ।

य इमं प्रतीत्यसमुत्पादमिति आध्यात्मिकप्रतीत्यसमुत्पादम् । यदिमं सम्यगिति अविपरीतम् । प्रज्ञया इति लोकोत्तरप्रज्ञया । यथाभूतमिति तु तथतायथावत् । सततसमितमिति सर्वकालमविच्छिन्नम् । अजीवमिति प्राण-कर्त्रादि-वियुक्त-त्वादजीवम् । अजातमिति जातिरहितत्वात् । अभूतमिति स्थिति-रहितत्वात् । अकृतमिति कर्तुरभावात् । असंस्कृतमिति संस्कृत-लक्षण-रहितत्वात् । अप्रतिघमिति आवरण-रहितत्वात् । अनालम्बनमिति आलम्ब्यालम्बक-रहितत्वात् । शिवमिति शान्तत्वात् । अभयमिति तु उत्पादादि-भयरहितत्वात् । अनाहार्यमिति क्लेश-पारतन्त्र्य-रहितत्वात् । अव्ययमिति सततं व्यवस्थितत्वात् । अव्युपशममिति एकान्तशमगतिरहितत्वात् ।ऽअसतःऽ स्कन्धात्पृथगन्याभावात् । तुच्छत इति मुक्तात्मनो ह्रस्वलोहवदेकान्तस्य अभावात् । रिक्तत इति अन्तस्थित-स्वरूपात्मद्रव्याभावात् । असारत इति स्फरणात्मकताभावात् । रोगत इति रोगात्मक-स्कन्धात्पृथक्त्वाभावत् । गण्डत इति स्कन्धानतिरिक्तबाधकान्तरा-भावात् । अप्रतिघत इति कर्मक्लेशातिरिक्त-बाधकस्वरूपान्तराभावात् । अनित्यत इति सहोपपादविनाशः स्कन्धात्पृथगन्यन स्वभावात् । दुःखत इति संस्कारविपरिणामदुःखाभ्यां पार्थक्याभावात् । शून्यत इति कल्पना स्वभावतया अभूत-परिकल्पनायाः पृथकत्वाभावात् । अनात्मत इति स्कन्धानतिरिक्तमात्मद्रव्याभावात् ।

कर्त्रादिरहितस्तथा ।
तुच्छशून्यादिनिःसारः प्रज्ञयैवं य ईक्षितः ।
किं कथं वा कुतः केन कल्पवादादि हानितः।
अनन्ताचिन्त्य गुण्यकम् । शान्तं धर्मात्मकं कायम् ।

तथतार्थं स एव पूर्वान्तं न प्रतिसरति इत्युक्तम् । किं न्वहमभूवमतीत इति नायं मोहोत्पादः । असंमोहे ज्ञानोत्पादत्वादहमतीत एतन्नर-सदृशोऽभूवमित्यादि च । अहं देवो वा गन्धर्वो वा किं सुखविहारो दुःखविहारोऽभूवमित्ययं मोहोऽभाव एव । अहं सुगतौ दुर्गतौ वा, चिरम्, अचिरं वा कथमभूवमिति मोहोऽप्यभाव एव । अनागतान्ते न प्रतिसरति । किं न्वहं भविष्याम्यनागतेऽध्वनि इति च आहोस्विन्न भविष्यामि इति मोहोऽप्यत्र नास्त्येव । किं न्वहं भविष्याम्यनागतेऽध्वनि इति अनागतेऽध्वनि देवो वा पिशाचो वा नरो वा किं वा भविष्यामीति अत्र मोहस्याप्यनुद्भव एव । सुखी वा दुःखी वा सुरूपो वा कुरूपो वा कथं भविष्यामि इति मोहोऽप्यत्र नास्ति । अन्तरपि न प्रतिसरति इति अन्तर्न मुह्यति । किं न्विदमिति आत्मा निरात्मा वा इति । कथं न्विदमिति किं सरूपोऽथवा विरूपो वेति मोहोऽत्र नोद्भवति । के सन्त इति सुकृत-कर्मकारिणः दुष्कृत-कर्मकारिणो वेति न मोहोत्पादः । अयं सत्त्वो देवगतेर्नरगतेर्वा कुत आगत इतश्च्युतो देवेषु मनुष्येषु नरके प्रेते तिर्यञ्चि वा कुत्र गमिष्यतीति मोहोऽत्र न सम्भवति । श्रमण-ब्राह्मणानां पृथग्लोके दृष्टिगतानि भविष्यन्ति इत्यादि । दृष्टिगतानि इति दृष्टिस्थानि । पृथगिति भिन्नमेव । तद्यथेति तु निदर्शनार्थम् । आत्मवाद-प्रतिसंयुक्तानीति स्कन्ध-व्यतिरिक्तात्मभावः । अविचारत आत्मात्मीयेति स्वभावात्मग्रह-संयुक्तत्वादात्मवादप्रति-संयुक्तानीत्युक्तम् । विपरीतधारणा-समुत्थानार्थं पुद्गलवाद-प्रतिसंयुक्तानीत्यादि तु पुनर्गमनत्वात्पुद्गल इति स्कन्ध-व्यतिरिक्तः । यस्यामुं लोकं त्यक्त्वा परलोक-गमनस्य परलोकं विहाय अमुमेतल्लोकगमनस्य चाभावात्ग्रहण-दुर्विपरीतग्रहणमित्युक्तम् । कौतुक-मङ्गलवाद-प्रतिसंयुक्तानीति । कौतुकस्तु लोकशिल्पस्थानं, यच्च विविधविद्यास्थाने
उत्सवावाह-विवाह-कलह-युद्धैः, उद्यान-नदी-सागर-पर्वत-वनेषु तत्तद्-भिन्नेषु च आर्यस्य गमन-दर्शन-संक्रमण-प्रवृत्त्यावासानुरमणक्रीडा-सुखा-स्वाद-नृत्य-गीत-पदालाप-धावन-लंघनैः, अद्भुत-पुरुष-स्त्री-दारक-दारिका-विग्रहकथा-वाद-प्रहेलिकोक्तिभिः, गजाश्वादि-योधनैः, दूर्वा-दधि-गोरोचना-क्षेत्रहल-मुद्गर-पुष्प-फल-कलश-शङ्ख-मत्स्या-दिभिः, ब्राह्मणर्षभ-चन्द्र-सूर्य-ग्रह-नक्षत्र-तारा-क्षण-योग-करणादिनैमित्तिका-दिभिः आत्मशुद्धयन्वेषणम् । विपरीतानेकाकार-प्रलम्ब-रज्जुलम्ब्येऽमार्गे मार्गसंज्ञा, अशुचौ शुचिसंज्ञा, अमुनौ मुनिसंज्ञया षड्जगच्चक्र-प्रविष्ट-बुद्धिमतो गमनं गम्यं च संसारमेवानुसरन्ति न तु निर्वाणमिति । तेषां सम्यक्प्रज्ञया दर्शने चतुर्विधविपर्यय-रहितत्वात्समुच्छिन्नमूलानि तालवृक्षमस्तकवदनाभासगतानि आयत्यामनुत्पाद-निरोधधर्माणि इति । तस्मादेवोक्तम् ।

तथा कश्चिच्च न च्युतः । जन्माभासोऽप्यसंल्लोके

तस्मादुदाहरणम्-

यथापादपसङ्गतः ।
वह्निस्त्रोतप्रवृत्तिः स्याथेतुवैकल्यतस्तथा ।
नानुप्रवर्तते ह्यग्निः

तथा इति यथा चन्द्रस्य रूपे दूरस्थितेऽपि परीत्तजलभाजनेषु जले विपुलतैलपात्रेषु वा अवभासते । चन्द्ररूपसंक्रान्तिरनेकत्वं वापि नास्ति, तथापि अनेकजलपात्रेषु दृश्यते । एवमस्मान्न कश्चिच्च्युतो न गतो नागतो, हेतुप्रत्ययवैकल्यात्च्युति-गमनागमनावभासाः । तद्वज्जलभाजनवत्सत्त्वसन्तानस्य जगतः स्थानान्तरेषु बहुरूपेण चित्तचन्द्रबिम्बोत्पादः, हेतुप्रत्ययावैकल्यात् । कुशलाकुशलानेञ्ज्यादि-हेतोर्यथाक्षेपा तत्रावभासाकारा विज्ञप्तिरुद्भवति । आत्मात्मीयवियुक्तः सर्वभावेषु प्रतीत्यसमुत्पादक्रमोऽवगन्तव्यः । अविच्छेदो - दाहरणम्- यथापादपसङ्गतः । वह्निस्त्रोतः प्रवृत्तिः स्यात् । कर्मक्लेश-लिप्त-चित्तसन्तानं वह्निस्त्रोतोनिबद्धमिन्धनं तु कर्मक्लेशत एव स्यादिति परीक्ष्यते । यथा - अग्नीन्धनहेतुकं ज्वलनमविच्छिन्नम् । इन्धनाभावे विच्छिन्नम्, तद्वदत्रापि कर्मक्लेशेन्धनमुच्छिद्य संक्लेशालय-विज्ञानबीजओ-सन्ताने ज्ञानाग्नि-संयोगाद्दग्धे सति हेतु-निरोधान्न फलोद्भवः । तस्मादेवोक्तम् - यान्येकेषां श्रमण-ब्राह्माणानां तद्यथा इति इतो बाह्यानां लोकस्तु लोकः ।

नश्यन्-नश्यन् गत्यर्थः, लुज्यतत्वाल्लोकः । विशीर्यमाण इत्यधिवचनम् । दृष्टिगतानीति दृग्दर्शनं विपरीत-शास्त्रश्रवणचिन्तनादिमिथ्या-ज्ञानोद्भवं मिथ्या-ज्ञानं तु दृष्टिरित्युच्यते । पृथक्तु भिन्नम् । तद्यथा - आत्मवाद-प्रतिसंयुक्तानीत्यादि तु पञ्चोपादान-स्कन्धेषु रूप-वेदना-संज्ञा-संस्कार-विज्ञार्नोष्वति आत्मात्मीय-रहितेषु, आत्मत्वेन सम्यग्दृष्टिर्या क्लिष्टप्रज्ञा सा दृष्टिः । सत्कायान्तदृष्टि-शील-व्रत-मिथ्यादृष्टिपूर्वकं कुप्रज्ञाविद्यासंप्रयुक्तत्वाद्दृष्टिरिति । तदविद्यापूर्वकं रागप्रतिघाकाराविद्यादृष्टि-विचिकित्सोपक्लेश-संप्रयुक्तो दृष्टि-लक्षण-धात्वाकारभेदमनधिगम्य संक्लिष्टालय-विज्ञान-वासनावस्थित-तदाकार-विज्ञानावभासपोषणात्प्रागेव लोकोत्तर-मार्गाश्रितचतुरार्यसत्यभावना-भ्यासक्रमेण दुःख-समुदय-निरोध-मार्ग-दर्शन-भावना-विमुक्ति-विशेषानन्तरेण प्रहाण-साक्षात्कारः । यश्चापि सप्तत्रिंशद्बोधिपक्षधर्मस्मृत्युपस्थान-सम्यक्प्रहाणर्द्धिपादेन्द्रिय-बल-बोध्यङ्ग-मार्ग-प्रतीत्यसमुत्पाद-ध्यानारूप्यप्रमाण-षडनुस्मृत्यादियधर्मपुद्गलनैरात्म्य-बोधिचित्तभावना-समाधि-धारणा-श्रद्धा-वीर्य-समाधि-प्रज्ञा-भूमि-वशीकारा-भिज्ञान-ज्ञान-पारमिता-विमुक्तिद्वार-क्षान्ति-भावनादि-क्रमेण लोकोत्तरमार्गानुगत-त्वादधिमुक्तिचर्यायां प्रतिस्थाप्य निर्याण-प्रयोग-साक्षात्कारादिन्द्रिय-बलाभयओ-असंसृष्ट-प्रतिसंविद्-व्यञ्जन-महापुरुष-लक्षणर्द्धिपादादि भावनां परिपूर्य अनुत्तरसम्यक्-समवबोधावबोधात्शमथ-विपश्यनानुकूल-समभावो भावनेऽनन्ता-चिन्त्यगुण्यं शान्तस्वभावकायं, आदिमध्यान्तवर्जितं, ज्ञात्वा प्राप्नोति बुद्धत्वमित्युक्तम् । तत्र रूपस्कन्धस्तु रूपावभासाकार-विज्ञप्त्यवभास-विकल्पोद्भूतोऽनेक-द्रव्यात्मको भूतभौतिक-रूप-लक्षण एकादशओ-सामान्यात्मक-पञ्चद्रव्याकारारोप-संघट्टितः
चक्षुः-श्रोत्रादिरूप-शब्दादिकाम-रूपारूप-प्रतिसंयुक्ताभूतपरिकल्पना-लक्षणः स्कन्धो धात्वायतनेन्द्रिय-विज्ञान-विषयात्मकोऽथ च तादृगन्यतादृग्रूप-लक्षणो धर्मस्तु रूपस्कन्ध इति ।

तत्र वेदनास्कन्ध इति सुख-दुःखोभयाकारेण आस्वादाकार-विज्ञप्त्यवभासः । विषयेन्द्रियविज्ञानभेदेन वेदना षट्काया । धात्वाकारविशेषभेदेन क्लेशोप-क्लेशसंप्रयुक्तत्वादनन्ताः प्रभेदाः स्युः । सुख-दुःख-सौमनस्य-दौर्मनस्यो-पेक्षान्वितत्वात्षडाकारमात्मद्रव्यमेव अभूतसंकल्प-विकल्पालय-विज्ञानवासनोप-निबद्धत्वाद्राग-द्वेष-मोहादित्रिधातु-विकल्पवशोद्भूत-द्रव्य-संगृहीतत्वाद्वेदना-स्कन्ध इति । संज्ञा सूक्ष्म-स्थूल-महाङ्गतादि-चित्रीकाराव-भासाकार-विज्ञप्ति-र्विकल्पनावशोद्भूत-पूर्वहसन-नन्दन-क्रीडनादि-काननुस्मृत्य स्त्री-पुरुषादि-निमित्तविशेषग्रहणात्मिका विषयेन्द्रिय-विज्ञानभेदेन षट्काया संज्ञा । राग-द्वेष-मोह-निबन्धनत्वाद्धात्वाकार-विशेषभेदेन तु अनन्तप्रसरा । संक्लिष्टस्यालयविज्ञान-वासना-सम्बन्धत्वादात्ममोहादि-संयुक्तात्मता तु संज्ञेति । संस्कारस्तु संप्रयुक्ता-प्रयुक्त-प्रज्ञप्ति-संस्कृता-संस्कृतावभासांकार-विज्ञप्तिः-विकल्पनावशेनोद्भूतः । पूर्वाक्षिप्तालय-विज्ञानादस्तित्व-वासना-भेदेन तु धातोः आकार-विशेषानन्त-प्रसरान्वितस्य संस्कार-स्कन्ध-संगृहीतत्वात्संस्कारस्कन्ध इति । तत्र विज्ञान-स्कन्धस्त्वष्टविधः । विषयेन्द्रिय-विज्ञानानां विशिष्टावभासाकार-विज्ञप्तिः । विकल्पनावशोद्भूतालय-विज्ञानस्य वासनोपनिबद्धत्वाद्धातोराकार-विशेष-भेदेनानन्तप्रसरो हि विज्ञानस्कन्ध इति ।

तेषामप्येवं धात्वायतन-सास्रव-संस्कृत-संक्लेशादि-पर्यायभेदेन स्व-लक्षणसम्बन्धेन संक्षिप्य स्कन्धो धातुरायतनमिति । एवं संक्लिष्टालयविज्ञान-बीजान्विता अभूतसंकल्पसमुत्त्थत्रैधातुकोद्गतास्ते चित्तचैतसिकादयस्तु संसार इति । तथापि तत्र आदावेव कर्त्रादिरहितो रिक्तस्तुच्छोऽसार इति विदित्वा चतुरार्यसत्य-भावनानुलोमप्रवृत्त्या निर्णीतो लोकोत्तर-ज्ञानाग्नि-समुद्भूतो-ऽविद्यान्धकारादि-रहितो हेतुप्रत्ययार्थतथतापरिज्ञानात्शान्तो धर्मकायोऽवगम्यते ।

तस्माद्दुःख-समुदय-निरोध-मार्ग-दर्शन-भावनामार्गक्रमः। तत्र दुःख-सत्यम्-अनित्यता-दुःखता-शून्यता-नैरात्म्य-सम्यगनुदर्शनज्ञानेन क्षान्ति-मुक्ति-प्रहाण-विशेषानान्तर्यज्ञानेन च तद्-दुःखमवगम्य क्लेशालयविज्ञानवासनां संनिहत्य पुद्गलधर्मनैरात्म्यमवबुध्य, त्रैधातुकावभासिताभूतसंकल्पोद्भूतमस्मिन् चित्तमात्रे माया-मरीचि-गन्धर्वनगरालातचक्र-प्रतिश्रुत्कोदकचन्द्र-प्रतिबिम्बवद्विभावने, स्कन्धादौ धातौ आयतने च ग्राह्य-ग्राहकतां विहाय धर्मनैरात्म्यसमतायां प्रविशे, स्वचित्तमेव आद्यमनुत्पन्नमिति शून्यज्ञानप्रवेशे, सर्वधर्मनिःस्वभावताज्ञानस्य करुणामूलक-बोधिचित्तस्य हेतूभूत-विविधोपाय-पुण्यज्ञानसम्भारसंचये दशपारमिताहेतुभिः दशभूम्याधार दशज्ञानालम्बन-दशवशिताफलान्वितेऽनन्ताचिन्त्य-गुणाकारः शान्तधर्मकायोऽवबुध्यते । एवं समुदय-सत्य-समुदय-हेतु-प्रभव-प्रत्ययानन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शनानुलोम-प्रतिलोम-भावनाकारेण संक्लिष्टालयविज्ञान-वासना-मल-रहितत्वे शान्तधर्मकाये प्रवेशः । निरोध-सत्येऽपि निरोध-शान्त-प्रणीत-निःसरणतानन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शन-भावनामार्गक्रमेण संक्लिष्टा-लयविज्ञानवासनासमुद्घातेन आनन्तर्य-प्रहाण-विमुक्ति-विशेष-भावनया पुद्गल-धर्मनैरात्म्याधिगमे शान्तधर्मकायप्राप्तिः । हेतुप्रत्ययओ-रहितत्वात्मार्गसत्येऽपि मार्ग-न्याय-प्रतिपत्ति-नैर्याणिक-सन्दर्शने एवं दर्शन-भावनानन्तर्य-प्रहाण-विमुक्ति-विशेषमार्गानुकूलतायै आलयविज्ञाने विद्यमानां वासनां संनिहत्य पुद्गलधर्म-नैरात्म्य-समतावबोधात्त्रिकायाधिष्ठान-शान्त-धर्मकायस्याचिन्त्या-प्रमेयगुण-गणस्य आदिमध्यान्तरहितस्य अविच्छिन्न-नाभोगकरणात्मक-सर्वार्थानामनुत्तरं सर्वज्ञत्वं प्राप्नोति । अपि चोक्तम् -

य एवं तथताक्षमः । तस्मै व्याक्रियते नूनं

य एवमनन्तरोक्त-प्रतीत्यसमुत्पाद-पुद्गलधर्मनैरात्म्य-तत्त्व-क्षम इच्छति, स एव पुद्गलधर्मनैरात्म्यक्षमतान्वितत्वादनुत्तरसम्यक्सम्बोधिं व्याकृतवत्पश्येत्, जानीयाच्चेत्यर्थः । तस्मात्सूत्रे- यो भदन्त शारिपुत्र कुलपुत्रो कुलदुहिता वा एवंविध-धर्मक्षान्ति-समन्वितः, तस्य तथागतोऽर्हत्सम्यक्सम्बुद्धोऽनुत्तरः सम्यक्सम्बोधिं व्याकरोति इत्युक्तम् ।

मैत्रेयस्तु स्वयं तथा । उवाच शारिपुत्राय

एवं शारिपुत्रो बोधिसत्त्वो मैत्रेयमपृच्छत् । बोधिसत्त्वो मैत्रेयोऽपि शालिस्तम्बोपमा कृता इदं सूत्रं विस्तरेण विभज्य भाषितवान् । बोधिसत्त्वमैत्रेयेण भाषितां शालिस्तम्बोपमां कृत्वा शारिपुत्रस्तु तच्छ्रुत्वा इति शालिस्तम्बोपमा कृता । संस्तुतो धृत सारश्च देवसंघानिति । धृतसार इति धर्मार्थतथतावबोधत्वात्सारग्रहणम् । देवसंघानिति देव-नाग-यक्ष-गन्धर्वादि-सहितान् । अनुमोदितेति अनुमोद्य । सःस्तुत इति त्वया यथोक्तः तथैव अस्ति नान्यथेति, अवधारयन्निर्जातत्वात् ।

गत्वोत्त्थाय प्रहर्षितः । आख्यातवांश्च भिक्षुभ्यः

तस्मादेव सूत्रे- अथ आयुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य भाषितमभिनन्द्य उत्थायासनात्प्रक्रान्त इत्युक्तम् । मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन एवमुक्तं मैत्रेयेण बोधिसत्त्वेन, एवमिति शारिपुत्रेण कथितम् । अनुमोदितम् । शारिपुत्रः तच्छुत्वा प्रहर्षितः सन्तुष्ट इत्यर्थः । गत्वा भिक्षुभ्यो गम्भीरोदाराद्भुतं सूत्रं यथाश्रुतवत्सर्वसत्त्वहिताय भाषितम् ।

शालिस्तम्बस्य सूत्रस्य विस्तराख्या सुभद्रिका ।
हीनबुद्धि प्रबोधार्थं शतैर्द्वादशभिः कृता ।

आचार्यनागार्जुनेन विरचिता शालिस्तम्बकविस्तराख्याटीका समाप्ता ।

भारतीयोपाध्यायेन धर्मश्रीभद्रेण लोकचक्षुषा भदन्तसाधुमतिना ज्ञान कुमारेण चानूदिता । महासंशोधक-लोकचक्षुषा भदन्त-श्रीकुटीरेण संशोध्य निर्णीता ।