प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३ आर्षेयकल्पः
अध्यायः ४
मशकः
अध्यायः ५ →

अग्न आयूँषि पवस उपास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते वयं पवमानस्य ते कवे शग्ध्यु षु शचीपत इत्यभीवर्तो ब्रह्मसाम समानमितरं बृहस्पतिसवेन सस्तोमम् ४-१-१

इमं मे वरुण श्रुधी हवमुपास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते वयं पवमानस्य ते कवे सँहितस्य लोके हाविष्कृतं जनुषैकर्चयोः सफपौष्कले श्यावाश्वस्यौदलँ समानमितरं ज्योतिष्टोमेन त्रिवृद्बहिष्पवमानं पञ्चदशमितरँ सर्वं ४-१-२

कया त्वं न ऊत्या पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना अग्निं दूतं वृणीमह इत्याज्यान्यस्य प्रत्नामनु द्युतमिति गायत्रं च हाविष्मतं च परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं चायास्ये अयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च वैखानसं च यस्ते मदो वरेण्य इति गायत्रसँहिते पवस्वेन्द्र्दमच्छेति सत्रासाहीय श्रुध्ये अयं पूषा रयिर्भग इति श्यावाश्व क्रौञ्चे धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरमाष्टादँष्ट्रं त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशमितरँ सर्वम् ४-२

उप त्वा जामयो गिर उपास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते वयं पवमानस्य ते कवे अग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रमाश्वमाशु भार्गवं प्र सोम देववीतय इति पज्रं गौङ्गवं यौधाजयम् औशनमन्त्यँ रथंतरं च वामदेव्यं चेन्द्रमिद्देवतातय इति यौक्तस्रुचँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रं च स्वाशिरां चार्कः पवस्वेन्द्रमच्छेति सफपौष्कले । साध्रे प्र सुन्वानायान्धस इत्यौदलसाध्रे औदलगौतमे वा कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशं मैत्रावरुणस्यैकविँशमितरं सर्वम् ४-३

इन्द्रायेन्दो मरुत्वते पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँं! असि वृषा ह्यसि भानुना ग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं चा जिगं च स्वारं च सौपर्णं पुनानः सोम धारयेति समन्तं च दैर्घश्रवसं चा यास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रम् अग्नेरर्कः सुरूपं त्वं ह्यङ्ग पवस्व देववीतय इति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इति आसितं क्रौञ्चं भर्गो वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरम् उद्वँशीयं त्रिवृद्बहिष्क्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशं मैत्रावरुणस्यैकविँशं ब्राह्मणाच्छँसिनस्त्रिणवमितरँ सर्वम् ४-४

विश्वकर्मन्हविषा वावृधानो दविद्युतत्या रुचै ते असृग्रमिन्दवो राजा मेधाभिरीयत इषे पवस्व धारया होता देवो अमर्त्यः पुरूरुणा चिद्ध्यस्ति तमिन्द्रं वाजयामसीयं वामस्य मन्मन उच्चा ते जातमन्धस इति गायत्रं चामहीयवं च जराबोधीयं चर्षभश्च पवमानो गौषूक्तमभिसोमास आयव इति पौरुमद्गं च गौतमं चान्तरिक्षं च मैधातिथं चोत्सेधस्तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च श्रायन्तीयं च रौरवं च परि स्वनो गिरीस्था इति गायत्रँ सँहितं वारवन्तीयँ स सुन्वे यो वसूनाम् प्राणा शिशुर्महीनामिति दीर्घ श्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वा न्धीगवे निषेधः परि प्र धन्वेति वाजदावर्यो या रुचेति नित्यवत्सा धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्नि-ष्टोमसाम प्रमँहिष्ठीयँ हारिवर्णं नार्मेधं गौरीवितँ षोडशिसाम रात्रिः संधिस्त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशं मैत्रावरुणस्यैकविँशं ब्राह्मणाच्छँसिनस्त्रिणवमच्छावाकस्य त्रयस्त्रिँशमितरँ साग्निष्टोमसामैक-विँशान्युक्थानि सषोडशिकानि पञ्चदशि रात्रिस्त्रिवृत्संधिः ४-५-१

कॢप्तोऽग्निष्टोमः शुनासीर्यस्य लोके ४-५-२

पवस्वेन्दो वृषा सुत एते असृग्रमिन्दव उत नो गोषणिं धियं शशमानस्य वा नर उप नः सूनवो गिर उत्ते शुष्मास ईरते पवमानस्य ते कवे होता देवो अमर्त्यः प्र वां महि द्यवी अयमु ते समतसि गाव उप वदावते पवमानस्य जिघ्नत इति गायत्रं चामहीयवं च परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं च बार्हदुक्थं च यौधाजयं च साकमुक्ष इति पार्थमन्त्यं मा भेम म श्रमष्मेति बृहत्स्वासु वामदेव्यमिमा उ त्वा पुरूवसो यस्यायं विश्व आर्य इति श्यैतं च कालेयं च पवमानो अजीजनदिति गायत्र सँहिते आ सोता परि षिञ्चत गोमन्न इन्द्रो अश्ववदिति सफ श्रुध्ये अभि नो वाजसातममिति श्यावाश्वा न्धीगवे अञ्जत इति कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ४-६

द्वितीयस्य स्वरसाम्न आज्यबहिष्पवमानं बार्हदुक्थस्य लोक आष्टादँष्ट्रं मौक्षस्य हाविष्मतँ श्रुध्यस्य सुज्ञानम् उद्धरत्युक्थानि समानमितरं गवैकाहिकेन ४-७-१

एते असृग्रमिन्दव उत्ते शुष्मास ईरत इति पुरस्तत्पर्यासस्य तृचपञ्चर्चे स्वासु श्यैतँ समानमितरं प्रथमेन साहस्रेण ४-७-२

पवमानस्य विश्वविद्दविद्युतत्या रुचै ते असृग्रमिन्दवस्तं त्वा नृम्णानि बिभ्रतं पवमानस्य ते कवे विश्वेभिरग्ने अग्निभिर्मित्रं वयँ हवामह इन्द्रं वो विश्वतस्परि ता हुवे ययोरिदमभि त्वा शूर नोनुम इति कण्वरथंतरं पृष्ठम् आ नो विश्वासु हव्यमिति सदोविशीयं ब्रह्मसाम जनुषैकर्चयोः सफ पौष्कले परि त्यँ हर्यतँ हरिमित्यनुष्टुप्पवित्रं त इति कावमन्त्यमुद्धरत्युक्थानि समानमितरमायु-षैकाहिकेन ४-७-३

एते असृग्रमिन्दवस्तं त्वा नृम्णानि बिभ्रतमिति पुरस्तात्पर्यासस्य तृचपञ्चर्चे श्रायन्तीयं ब्रह्मसाम संहितस्य लोके मौक्षं पौष्कलस्य श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं यज्ञायज्ञीयस्यर्क्षु विशोविशीयमग्निष्टोमसाम समानमितरं आयुषैकाहिकेन ४-७-४

पूर्वस्य बहिष्पवमानं व्रात्यानि त्रीण्याज्यानि वैश्वजितमुत्तमं बार्हदुक्थस्य लोके देवस्थानँ रथंतरं पृष्ठमभीवर्तो ब्रह्मसाम मौक्षस्य लोके स्वाशिरामर्कः श्यावाश्वस्य यज्ञायज्ञीयं त्वं नश्चित्र ऊत्येति वारवन्तीयमग्निष्टोमसाम समानमितरं गवैकाहिकेन गौरीवितँ षोडशिसाम विष्णोः शिपिविष्टवतिषु बृहत् सर्वे सप्तदशाः कॢप्तो ज्योतिष्टोमः प्रत्यवरोहणीयः ४-७-५

कॢप्तोऽभ्यारोहणीयः ४-७-६

वायो शुक्रो अयामि त इति तृचः षट् संभार्या वैश्वजित्यः पवस्व वाचो अग्रियो दविद्युतत्या रुचैतमु त्यं दश क्षिपः पवस्वेन्दो वृषा सुत उत्ते शुष्मास ईरते पवमानस्य ते कवेधा क्षपा परिष्कृतो वैश्वजितान्याज्यान्युच्चा ते जातमन्धस इति गायत्रं चा महीयवं च जराबोधीयं च स्वारं च सैन्धुक्षितं परीतो षिञ्चता सुतमिति समन्तं च रथंतरं च दैर्घश्रवसं च देवस्थानं च वरुणसाम च रौरव यौधाजये वृषा शोण इति पार्थमन्त्यं बृहच्च वमदेव्यं च श्यैतं च कालेयं च यस्ते मदो वरेण्य इति गायत्र मौक्षे काक्षीवतं च स्वाशिरां चार्कः पवस्वेन्दरमच्छेति सफ दैवोदासे पुरोजिती वो अन्धस इति वाध्र्यश्वं च वैतहव्यं च सोमसाम च त्रासदस्यवं चा न्धीगवं च कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसामा ग्ने त्वं नो अन्तम इति सत्रासाहीयँ सौभरम् उद्वँशीयं द्वात्रिँसाः पवमानाः पञ्चदशान्याज्यानि सप्तदशानि पृष्ठान्येकविंशोऽग्निष्टोमः सोक्थः ४-८

राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतमिति पुरस्तात्पर्यासस्य तृचपञ्चर्चे मैधातिथस्य लोके सदोविशीयँ रौरवस्य मैधातिथँ श्रायन्तीयं ब्रह्मसाम पौष्कलस्य लोके श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं वारवन्तीयमग्निष्टोमसाम स्वासूद्धरत्युक्थानि समानमितरमायुषैकाहिकेन सर्वः सप्तदशः ४-९-१

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो दविद्युतत्या रुचै ते असृग्रमिन्दवो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना पवमानस्य ते कवे ऽग्निं दूतं वृणीमह इत्याज्यानि परीतो षिञ्चता सुतमिति समन्तं च यशश्चाभीशवं च यौधाजयं च वृषा शोण इति पार्थमन्त्यं बृहत्पृष्ठं त्वमिन्द्र प्रतूर्तिष्वित्यत्राभीवर्तो ब्रह्मसाम समानमितरमायुषातिरात्रेणै कविँशं प्रातःसवनँ सप्तदशं माध्यंदिनँ सवनं पञ्चदशं तृतीयसवनँ सोक्थँ सरात्रिकं त्रिवृत्संधिर् ४-९-२

ज्योतिष्टोममाज्यबहिष्पवमानँ स्तोमाश्चा थ यदेव द्विदिवसस्य पूर्वमहस्तदेतत् ४-९-३

पवस्व वाचो अग्रिय एष देवो अमर्त्य एष धिया यात्यण्व्या ते दक्षं मयोभुवमग्निं दूतं वृणीमह इत्याज्यान्यस्य प्रत्नामनु द्युतमिति गायत्रं च हाविष्मतं च जराबोधीयं च र्षभश्च पवमानः परीतो षिञ्चता सुतमिति समन्तं दैर्घश्रवसमुत्सेधो ऽयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च वैखानसं च परि स्वानो गिरिष्ठा इति गायत्र सँहिते पवस्वेन्द्रमच्छेति सत्रासाहीय विशोविशीये अयं पूषा रयिर्भग इति निषेधः श्यावाश्वं क्रौञ्चं धर्ता दिव इति दीग्र्हतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम ज्योतिष्टोमोऽति-रात्रः षोडशिमाँश्चतुर्विँशाः पवमानाः पञ्चदशानित्रीण्याज्यानि सप्तदशमच्छा-वाकस्यैकविंशानि त्रीणि पृष्ठानि त्रिणवमच्छावाकस्य त्रयस्त्रिँशोऽग्निष्टोम एकविँशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत्संधिः ४-१०-१

कॢप्तो ज्योतिष्टोमः क्षत्रस्य धृतिः ४-१०-२

विवृति

208

चतुर्थोऽध्यायः

एकाहः

सौमिकचातुर्मास्यानि-वैश्वदेवम्

त्रिवृदग्निष्टोमो वैश्वदेवस्य लोकः (तां० ब्रा० १७.१३) इत्यनु-वाकेन सौमिकचातुर्मास्यानि सप्तसुत्याविहितानि । तत्र वैश्वदेवस्य फाल्गुन्यां पौर्णमास्यां दक्षिणम् । तस्य यजनीयेऽहनि सुत्या विहिता । वरुणप्रघासस्य द्विदिवसस्योत्तरमहराषाढ्यां यजनीयेऽहनि यथा स्यात्तयोपक्रमः । साकमेधत्रिरात्रस्योत्तरमहः कार्तिक्यां पौर्णमास्यां यथा स्यात्तथोपक्रमः । पुनः फाल्गुन्यां पौर्णमास्यां शुनासीर्यस्य दीक्षा । तस्य यजनीयेऽहनि सुत्या । तस्यापि द्वयहीनत्वात् । तथा च सूत्रम्- फाल्गुन्यां पौर्णमास्यां चातुर्मास्यान्यारभेत (ला० श्रौ० सू० ८.८.४३) इत्यादि । तत्र वैश्वदेवस्थानीयं त्रिवृदग्निष्टोममाह- अग्न आयूंषि पवसे (सा० १५१८) उपास्मै गायता नरः (सा० ७६३) उपोषु जातमप्तुरम् (सा० ७६२) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६ ५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

209

एकाहः-वैश्वदेवम् [ अ. ४. ख. १]

उत्तमौ तृचौ । एकर्चा इतरे । उत्तमौ तृचौ बहिष्पवमाने साहस्रोत्तमे चातुर्मास्येषु (ला०श्रौ०सू० ६. ३.७) इति वचनात् ।। १ ।। शग्ध्यूषु शचीपते ( सा० १५७९-८०) इत्यभीवर्तो ब्रह्मसाम (ऊ० ११.२.६) ।। २ ।।
समानमितरं बृहस्पतिसवेन सस्तोमम् ।। ३ ।।
इति । अग्न -आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि । उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रमामहीयवं (ऊ० १. १. १) जराबोधीय-( ऊ० ११. १. १४)मिति सामतृचः । पुनानः सोम धारये-(सा० ६७५-६)ति यौधाजयं (ऊ ० १. १.३) तिसृषु । औशनम् (ऊ० १. १. ४) अन्त्यम् ।। रथन्तरं (र० १. १.१) च वामदेव्यं (ऊ० १. १. ५) च । शग्ध्यूष्वि-(सा० १५७९-८० )ति अभीवर्तः । स्वासु कालेय(ऊ० १. १. ७)मिति पृष्ठानि । स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१ ति गायत्रसंहिते (ऊ० १. १.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-पौष्कले (ऊ० १ .१ .९-१ ०) । पुरोजिती-(सा० ६९७ -९)ति श्यावाश्वान्धीगवे (ऊ० १. १. १ १-२) । काव-(ऊ० १. १. १३ )मन्त्यम् । काव-वर्जमेकर्चाः ।। यज्ञायज्ञीय(ऊ० १.१.१ ४)मग्निष्टोमसाम । सर्वं त्रिवृत् ।। ३ ।। इति वैश्वदेवम् ।। १ ।।

210

वारुणप्रघासिकम्-प्रथममहः
वरुणप्रघासानां लोके द्विदिवः (तां० ब्रा० १७. १३ .७) इत्युक्तस्य प्रथममहराह --
इमं मे वरुण श्रुधी हवम् (सा० १५८५) । उपास्मै गायता नरः (सा० ७६३) उपोषु जातमप्तुरम् (सा० ७६२) पवमानस्य ते वयं (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५ ७-८) ।। १ ।।

इति बहिष्पवमानम् ।।
अत्रापि पूर्ववदुत्तमौ तृचौ । शिष्टा एकर्चाः । आद्याया वरुणो देवता । । १ ।।
संहितस्य लोके हाविष्कृतम् (ऊ० ११. २.७) । जनुषैकर्चयोः (सा० ७७२-७३) सफ-(ऊ० १. २.१५) पौष्कले (ऊ० ९. २.२) । श्यावाश्वस्यौदलम् (ऊ० १०. १. ३) ।। २ ।।
समानमितरं ज्योतिष्टोमेन ।। ३ ।
इति । अग्न-आ नो-मित्रायाहीन्द्रग्नी -(सा० ६ ६०-७१ त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सोम धारये(सा० ६७५-६ ति रौरवयौधाजये (ऊ ० १. १. २-३) । औशन-( ऊ ० १. १. ४)मन्त्यम् ।।
रथन्तरं ( र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च नौधस (ऊ० १. १. ६) च कालेयं (ऊ० १. १. ७ )चेति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठये (सा० ६८९ -९१)ति गायत्र-हाविष्कृते ( ऊ० ११. २.७) । अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इत्येकर्चयोः सफ-(ऊ० १. २. १५)

211

एकाहः-वारुणप्रघासिकम् [ अ. ४. ख. ३

पौष्कले ( ऊ० ९. २.२) । पुरोजिती-(सा० ६९७-९)त्यौदलं (ऊ० १०.१. ३) प्रथमायाम् । आन्धीगवं ( ऊ० १.१. १२) तिसृषु । काव-(ऊ० १. १. १३ )मन्त्यम् ।। यज्ञायज्ञीय-(ऊ० १. १. १ ४)मग्निष्टोमसाम ।। ३ ।।
स्तोमक्लृप्तिमाह-
त्रिवृद्बहिष्पवमानम् । पञ्चदशमितरं सर्वम् ।। ४ ।।
इति ।। ४ ।।
इति वारुणप्रघासिक प्रथममहः ।। २ ।।
वारुणप्रघासिकम-द्वितीयमहः
अथ द्वितीयमहराह-
कया त्वं न ऊत्या ( सा० १५८६) पवस्व वाचो अग्रियः (सा० ७७५) पवस्वेन्दो वृषा सुतो ( सा० ७७८) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना सा० ७८४-६) ।। १ ।।
इति बहिष्पवमानम् ।।
पूर्ववदन्त्यौ तृचौ । एकर्चा इतरे । आद्याया अग्निर्देवता ।। १ ।। अग्निं दूतं वृणीमहे (सा० ७९०-८; ८००-२) इत्याज्यानि ।।२।। अग्निं दूतम् (सा० ७९०-२) मित्रं वयम् ( सा० ७९३-५)

212

इन्द्रमिद्गा (सा० ७९६ -७९९) चतुर्ऋचम् । इन्द्रे अग्ने-(सा० ८०० - २ )त्याज्यानीत्यर्थः । चतुर्ऋचेऽन्त्यामुद्धरेत् ।। २ ।।
अस्य प्रत्नामनु द्युतम् ( सा० ७५५ -७) इति गायत्रं च हाविष्मतं (ऊ० ११. २.८) च । परीतो षिञ्चता सुतम् (सा० १३१३ -५) इति समन्तं (ऊ० ९. १. ३) च दैर्घश्रवसं (ऊ० ५. २. ४) चायास्ये (ऊ० ६. १. ४-५) । अयं सोम (सा० १४७१ -३) इति पार्थम् ( ऊ० ९. २. ५) अन्त्यम् । । ३ ।।
[ इति माध्यंदिनः पवमानः । ।
समन्तमाद्यायाम् । त्रिणधनमध्यास्यायाम् ।। ३ ।।
बृहच्च (र० १. १. ५) वामदेव्यं च ( ऊ० १. १. ५) त्रैशोकं (पद ० २. २. १३) च वैखानसं (ऊ० ६. १ .९) च ।। ४ ।। इति पृष्ठानि ।।
त्रैशोकस्यातिजगती छन्दः ।। ४ ।।
यस्ते मदो वरेण्य (सा ० ८१५ -७) इति गायत्र-संहिते (ऊ० ११. २. ९) । पवस्वेन्द्रमच्छे (सा० ६९२-६ ति सत्रासाहीय- ( ऊ० ९. २. ७) श्रुध्ये ( ऊ० ९. १. २०) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति श्यावाश्व-(ऊ ० ११. २. १०) क्रौञ्चे (ऊ० २. १. ९) । धर्ता दिव ( सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः ।। ५ ।।
[ इत्यार्भवः पवमानः । ।]
सत्रासाहीयश्रुध्ये एकर्चे ।। ५ ।।
यज्ञायज्ञीयमग्निटोमसाम (ऊ० १. १. १४) ।। ६ ।।

213

एकाहः -साकमेधः [अ. ४. ख. ४]

साकम (ऊ० १. १. १५) सौभरम् (ऊ० १. १. १६) आष्टादंष्ट्रम् (ऊ० १. १. १२) ।। ७ ।।
इत्युक्थानि ।।
पूर्वं सकृदुक्थ (उप०ग्र० ४.४) इत्युपग्रन्थवचनात् ।। ७ ।।
स्तोमक्लृप्तिमाह-
त्रिवृद्बहिष्पवमानम् । पञ्चदश होतुराज्यम । सप्तदशमितरं सर्वम् ।। ८ ।।
इति ।। ८ ।।
इति वारुणप्रघासिकं द्वितीयमहः ।। ३ ।
साकमेधस्य प्रथममहः
साकमेधानां लोके त्रिरात्रम् (तां० ब्रा० १७. १३. १२) इत्युक्तस्य त्रिरात्रस्य प्रथममहराह-
उप त्वा जामयो गिरः ( सा० १५७०) उपास्मै गायता नर ( सा० ७६३) उपोषु जातमप्तुरम् ( सा० ७६२) पवमानस्य ते वयम् ( सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अन्त्यौ तृचौ । शिष्टा एकर्चाः । आद्याया अग्निर्देवता ।। १ ।।
अग्न आयाहि वीतये (सा० ६६०-७१) इत्याज्यानि ।। २ ।। प्र सोमासो विपश्चितः ( सा० ७६४-६) इति गायत्रम् आश्वम् (ऊ० ६.२.१२) आशुभार्गवम् (ऊ० ११.२.११) प्र सोम देववीतये ( सा० ७६७-८) इति पज्रं ( ऊ० ६.२.१३) गौङ्गवं (ऊ०

214

११. १. १७) यौधाजयम् (ऊ० १. २. १३) औशनम् (ऊ० १. १. ४) अन्त्यम । ३ ।।
[ इति माध्यंदिनः पवमानः
रथन्तरं च (र १ .१ .१) वामदेव्यं च (ऊ० १. १.५) । इन्द्रमिद्देवतातये (सा० १५८७-८ ) इति यौक्तस्रुचं (ऊ० ११. २. १२) स्वासु कालेयम् (ऊ० १. १.७) ।। ४ ।। इति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१ )ति गायत्रं च स्वाशिरं चार्कः (र० ३. १.२) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ( ऊ० १. १.९ )पौष्कले ( ऊ० १. १. १०) । प्र-सुन्वानायान्धस (सा० १३८६-८) इत्यौदल-( ऊ० ११. २. ३) साध्रे( ऊ० ६. २.२०) । औदल-( ऊ ० ११.२.३) गौतमे वा ( ऊ ० ११. २. ३) । कावम् ( ऊ० १. १. ३) अन्त्यम् ।। ५ ।।
[ इत्यार्भवः पवमानः ।।
यज्ञायज्ञीयमग्निष्टोमसाम (फ० १. १ . १४) । ६ ।।
त्रिवृद् बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशम् इतरं सर्वम ।। ७ ।।
इति साकमेधस्य प्रथममहः ।। ४ ।।
साकमेधस्य द्वितीयमहः
इन्द्रायेन्दो मरुत्वते (सा० १०७६) पवस्व वाचो अग्रियः (सा० ७७५) पवस्वेन्दो वृषा सुतो ( सा० ७७८) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) । १ ।।
इति बहिष्पवमानम् ।।

215

एकाहः-साकमेधः [ अ. ४. ख. ५]

उत्तमौ तृचौ । एकर्चा इतरे ।। १ । ।
अग्निं दूतं वृणीमहे (सा० ७९०-८; ८००-२) इत्याज्यानि ।।२ ।। वृषा पवस्व धारये( सा० ८०३ -५) ति गायत्रं च यौक्ताश्वं चा- (ऊ० ७. १. २ )जिगं च ( ऊ० ११. १. १४) स्वारं च सौपर्णं (ऊ० ११. २. १५) । पुनानः सोम धारये-(सा ० ६७५ -६) ति समन्तं च ( ऊ० ६. २. २) दैर्घश्रवसं चा- (ऊ० ११. २. १६)यास्ये (ऊ० १. २. २०) । वृषा शोण (सा० ८०६ -८) इति पार्थम् (ऊ० ७. १. ४) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमान । ।]
बृहच्च (र० १. १. ५) वामदेव्यं च (ऊ ० १. १. ५) श्यैतं च (ऊ० २. १. ३) माधुच्छन्दसं च (ऊ० २. १. ४) ।। ४ ।। इति पृष्ठानि
यस्ते मदो वरेण्य ( सा० ८१५ -७) इति गायत्रम् अग्नेरर्कः (र० १. २. १) सुरूपं (ऊ० ११. २. १७) । त्वं ह्यङ्ग (सा० ९३८-९) पवस्व देववीतये ( सा० १३२६ -८) इति शङ्कु-(ऊ० ११. २. १८) सुज्ञाने (ऊ ० ११. २. १९) । अयं पूषा रयिर्भगः (सा० ८१८-२०) इत्यासितं (ऊ० ११.२. २०) क्रौञ्चं (ऊ० २. १. ९) भर्गः (र० ३. १. २) । वृषा मतीनां पवते (सा ० ८२१ -३) इति यामम् (ऊ० २. १. १०) अन्त्यम् ।। ५ ।।
[ इत्यार्भवः पवमानः । ।]
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) ।। ६ ।। साकमश्वं ( ऊ ० १. १. ५) सौभरम् ( ऊ ० १. १. १६) उद्वंशीयम् (ऊ० ६. १. ८) ।। ७ ।।
इत्युक्थानि ।।

216

त्रिवृद् बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः । त्रिणवमितरं सर्वम् ।। ८ ।। हति ।।
इति साकमेधस्य द्वितीयमहः ।। ५ । ।
साकमेधस्य तृतीयमहः
तृतीयमहराह-
विश्वकर्मन् हविषा वावृधानो ( सा० १५८९) दविद्युतत्या रुचै- ( सा० ६५४ )ते असृग्रमिन्दवो ( सा ८३०) राजा मेधाभिरीयते ( सा० ८३३-५) इषे पवस्व धारया (सा० ८४१-३) ।। १ ।।
इति बहिष्पवमानम् ।।
उत्तमौ तृचौ । शिष्टा एकर्चाः । आद्यायास्त्रिष्टुप् छन्दो विश्वकर्मा देवता । अत्र निदानम्-त्रिष्टुभं वैश्वकर्मणिकं करोति न हि गायत्री विद्यते ( नि० सू० ७.३) इति ।। १ ।।
होता देवो अमर्त्य (सा० १४७७-९) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसी-(सा० १२२२-४)यं वामस्य मन्मन (सा० ९१६-८) ।। २ ।।
इत्याज्यानि ।।
उच्चा ते जातमन्धसः ( सा. ६७२-४) इति गायत्रं चामहीयवं च (ऊ० १. १. १) जराबोधीयं (ऊ० ११ .१. १४)चर्षभश्च पवमानो (ऊ० १२. १. १) गौषूक्तम् (ऊ० १२. १. २) । अभिसोमास आयव (सा० ८५६-८) इति पौरुमद्ग ( ऊ० २. १. १४) च गौतमं (ऊ० २. १. १५) चान्तरिक्षं च (र० १. १६) मैधातिथं (ऊ. ९.३.६)

217

एकाहः-साकमेधः [ अ. ४. ख. ६]

चोत्सेधः ( ऊ० १२. १.३) । तिस्रो वाच (सा०८५९-६१) इत्यङ्गिरसां संक्रोशोऽ-(ऊ० २. १.१७)न्त्यः ।। ३।। [ इति माध्यंदिनः पवमानः ।।]
रथन्तरं च (र० १. १.१) वामदेव्यं च ( ऊ० १. १.५) श्रायन्तीयं च (ऊ० ५. २.९) रौरवं च (ऊ० १.१.२) ।। ४ ।। इति पृष्ठानि ।।
परि स्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं संहितं (ऊ० ९. २.६) वारवन्तीयम् (ऊ० १२. १.४) । स सुन्वे यो वसूनां (सा० १०९ ६-७) प्राणा शिशुर्भहीनाम् ( सा० १०१३-५) इति दीर्घ (ऊ० ३.२.११ )श्रुध्ये ( ऊ० १२.१.५) । पुरोजिती वो अन्धसः (सा० ६९७-९) इति श्यावाश्वा-(ऊ० १. १.२ )न्धीगवे ( ऊ० १. १.१२) निषेधः (ऊ० १२. १.६) च । परि प्र धन्वे-(सा० १३६७- ९) ति वाजदावर्योऽ-(ऊ० १२.१ .७)या रुचे-(सा० १५९० -२)ति नित्यवत्साः (र० ३.१. १२) धर्ता दिवः (सा० १३२८-३०) इति दीर्घतमसोऽर्कोऽ-( र० ३.१. १०)न्त्यः ।। ५ ।।
[ इत्यार्भवः पवमानः । ।]
परि प्र धन्वेति द्विपदा छन्दः । अया रुचेत्यष्टिः ।। ५ ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।
प्र मंहिष्ठीयं ( ऊ० २.२.५) हारिवर्णं ( ऊ० २.२.६) नार्मेधम् (ऊ० १. १. १७) ।। ७ ।।
इत्युक्थानि ।।

218

गौरीवितं षोडशिसाम (ऊ० ३. १. २) ।
रात्रिः संधिः ।। ८ ।।
स्तोमक्लृप्तिमाह--
त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः । त्रिणवमच्छावाकस्य त्रयस्त्रिंश-मितरम् । साग्निष्टोमसामैकविंशान्युक्थानि षोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत् संधिः ।। ९ ।।
इति ।। ९ ।।
इति साकमेधस्य तृतीयमहः । । ६ ।।

शुनासीर्यम्
शुनसीर्यस्य लोके ज्योतिष्टोमोऽग्निष्टोमः ( तां०ब्रा० १७.१३.१५) इत्युक्तं शुनासीर्यमाह-
क्लृप्तो ज्योतिष्टोम शुनासीर्यस्य लोके ।। १ ।।
इति । ज्योतिष्टोमोऽग्निष्टोमः । धूर्ज्योतिर्विश्वारूपा न सन्ति । शेषं प्रकृतिवत् । यदाग्निहोत्रं जुहोती-( तां० ब्रा ० १७. १४) त्यनुवाकश्चातुर्मास्यानां स्तुत्यर्थम् ।।

इति शुनासीर्यम् ।। ७ ।।
समाप्तानि चातुर्मास्यानि । । ७ ।।

219

एकाहः-उपहव्यः [ अ. ४ ख. ८]

उपहव्यः
अथ सप्तदशाः षट् । तेषां प्रथम उपहव्यः सप्तदशोऽग्निष्टोमो देवाश्चासुराश्च (तां० ब्रा० १८. १.) इत्यनुवाकेनोक्तः । तत्र श्रूयते सोऽनिरुक्तमाहरत् ( तां० ब्रा० १८.१.३) इति । तदनिरुक्तत्वं सूत्रकारेण प्रदर्शितम् । उपहव्ये देवतानामधेयानि परोक्षं ब्रूयुः स्वस्थानासु । प्रत्यक्षम् अस्वस्थानासु । देवशब्दं सर्वत्र वर्जयेयु (ला० श्रौ० सू० ८.९. १३। इति । अत्रोपहव्यग्रहणमनिरुक्तविधेरुप- लक्षणम् । तस्मिन् स्वस्थानानां देवतानां नामधेयानि परोक्षं ब्रूयुः । अस्वस्थानानां प्रत्यक्षम् । देवशब्दं सर्वत्र स्वस्थानासु अस्वस्थानासु च वर्जयेयुरिति । प्राकृतेन प्रकारेण या प्राप्ता यत्र देवता । स्वस्थानं(ना? )सोच्यते तत्र ह्यस्वस्थाना ततोऽपरा ।।
तत्र कस्य देवतानामधेयस्य केन शब्देन परोक्षं कर्तव्यमित्यपेक्षायामुक्तम्-होता देवो मही मित्रस्येत्येते होता यज्ञे मही यज्ञस्येति ब्रूयुरिति इन्दुरित्यत्र सोमम् (ला०श्रौ०सू० ८.९. ४) इति । होतुराज्ये अग्नेः स्वस्थानत्वात् होता देवो अमर्त्य (सा०

220

१४७७) इत्यग्निवाचिनो देवशब्दस्य स्थाने यज्ञ इति ब्रूयुः । मैत्रावरुणाज्ये मित्रस्य स्वस्थानत्वात् महां मित्रस्य साधय इत्यत्र मित्रस्येत्यपोह्य यज्ञस्येति वक्तव्यम् । पवमाने स्वस्थानत्वात् सोमो य उत्तमं हविर् (सा० १३१३) इत्यत्र सुषाव सोममद्रिभिर (सा० १३१३) इत्यत्र च सोमशब्दस्थाने इन्दु-शब्दः प्रयोक्तव्यः । एवमृधक् सोम स्वस्तये (सा० ६५६) इत्यादिषु च । परिस्वानश्चक्षसे देवमादनः (सा० १३१५) इत्यत्र देवनामस्वस्थानेऽपि देवशब्दस्य विश्वशब्देन पारोक्ष्यं कार्यम् । विश्व इति देवान् (ला० श्रौ. सू० १. ४. ५) इति वचनात् । देवतान्तराणां तु कल्पकारविहितास्वृक्षु परोक्षाण्येव नामधेयानि । यज्ञायज्ञीये पुनरग्निशब्दस्य पारोक्ष्यं न कर्तव्यम् । स उत्तमे स्तोत्रे देवो वो द्रविणोदा (सा० १५१३) इति देवानभिपर्यावर्तत (तां० ब्रा० १८.१.४) इति ब्राह्मणेनोक्तस्तोत्रे देवशब्दप्रयोगाभ्यनु-ज्ञानात् लिङ्गात् संसदामयने त्वनिरुक्तस्य त्रयस्त्रिंशस्य बहिष्पवमाने स वायुमिन्द्रमश्विन (सा० ११३४) इत्यत्रेन्द्र-वाय्वादीनामस्वस्थानत्वात् पारोक्ष्यं न कार्यम् । वाजपेये तमीडिष्व यो अर्चिष (सा० ११४९) इति यदैन्द्राग्नमाज्यं तत्रेन्द्राग्नी-शब्दयोरनिरुक्तगाने नैव पारोक्ष्यं सिद्धम् । ऋग्जपे तु स्तोत्राङ्ग- भूतं पारोक्ष्यं कार्यमेव । स्तोत्रं सामविषयं हीदम् । अत एव

221

एकाहः-उपहव्यः [ अ. ४. ख. ८]

परिसामसु न भवति । तस्मात् पारोक्ष्यविषये न किञ्चिद्वक्तव्यम-
वशिष्यते इति सूत्रकारस्याभिप्रायः । सुब्रह्मण्यायास्तु देवताह्वानार्थ- त्वेन स्तोत्रवत्प्राधान्यात् तत्र पारोक्ष्यं स्यादेव । तथा चोक्तम्- इन्द्रं शक्रेति ब्रूयात् । विश्व इति देवाननिरुक्तेषु (ला.श्रौ. १ ४.५) इति ।।
स्तोमक्लृप्तिमाह-
पवस्वेन्दो वृषा सुत (सा० ७७८-८० ) एते असृग्रमिन्दवः (सा. ८३०-२) उत नो गोषणिं धियम् (सा० १५९३) शशमानस्य वा नरः (सा. १५९४) उप नः सूनवो गिरः (सा० १५९५) उत्ते शुष्मास ईरते (सा. १२०५- ९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
उत नो गोषणिं धियमित्यादयस्त्रय एकर्चाः । तेषां क्रमेण मरुतः पूषा विश्वेदेवा इति देवताः । तथा च निदानम्- अथ खल्वाह मारुती भवति पौषी भवति वैश्वदेवी भवतीति । तेनो विद्यादेतद्देवत्या इमा भवन्तीत्येतद्देवेषु सूक्तेषु समाम्नाता (नि. सू. ७. ४) इति ।। १ ।। होता देवो अमर्त्यः (सा० १४७७-९) प्र वां महि द्यवि (सा० १५९६-८) अयमु ते समतसि (सा० १५९९- १६०१) गाव उप वदावटे (सा० १६०२-४) ।। २ ।।
इत्याज्यानि ।।

222

पवमानस्य जिघ्नतः ( सा० १३१०-२) इति गायत्रं चामहीयवं च (ऊ. १२. १. ८) परीतो षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं च (ऊ० ९. १. ३) दैर्घश्रवसं च (ऊ० ५. २.४) बार्हदुक्थं च ( ऊ० ९. ३. ७) यौधाजयं च (ऊ. ७.२.५) । साकमुक्ष (सा० १४१८-२०) इति पार्थम् (ऊ० १२ १. ९) अन्त्यम् ।। ३ ।।
[ इति माध्यंदिनः पवमानः ।।]
समन्तं प्रथमायाम् । यौधाजयमध्यास्यायाम् ।। ३ ।।
मा भेम मा श्रमिष्मे-( सा० १६०५-१० )ति बृहत् (र० ३. १. १३) स्वासु वामदेव्यम् (ऊ ० १. १. ५) । इमा उ त्वा पुरूवसो (सा० १६०७-८) यस्यायं विश्व आर्य (सा० १६०९- १०) इति श्यैतं च (ऊ० १२. १. १०) कालेयं च (ऊ० १२. १. ११) ।। ४ ।।
इति पृष्ठानि ।।
पवमानो अजीजनद् ( सा० ८८९ -९ १) इति गायत्र- संहिते (त्र. १२. १. १२) । आ सोता परिषिञ्चत (सा. १३९४-५) गोमन्न इन्द्रो अश्ववद् (सा० १६११-३) इति सफ(ऊ० १२.१. १३ )श्रुध्ये (ऊ० १२.१. १४) । अभी नो वाजसातमम् ( सा० १२३८-४०) इति श्यावाश्वा(ऊ० १२.१. १५ )न्धीगवे (ऊ. १२. १. १६) । अञ्जत ( सा० १६१४-६) इति कावम् (ऊ. १२.१. १७) अन्त्यम् ।। ५ ।।
[ इत्यार्भवः पवमानः ।।]
 
सफश्रुध्ये एकर्चे ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ. १. १. १४) ।। ६ ।।
सर्वोऽयमुपहव्यः सप्तदशः । सर्वे सप्तदशा इति वक्ष्यति ।। ६ ।। इति उपहव्यः ।। ८ ।।

223

एकाहः-ऋतपेयः [ अ. ४. ख. ९]

ऋतपेयः

द्वितीयः ऋतपेयः ।
सप्तदशोऽग्निष्टोमस्तस्य द्वादश दीक्षोपसद ( तां० ब्रा० १८.२) - इत्यनुवाकोक्तः । तत्र सूत्रम् - ऋतपेये तस्य द्वादश दीक्षोपसद ( ला० श्रौ० ८.९. ७) इत्यादि ।
अथ कल्पः - द्वितीयस्य स्वरसाम्न आज्यबहिष्पवमानम् ।। १ ।।
बार्हदुक्थस्य लोक आष्टादंष्ट्रम् (ऊ० १२.१ .८) । मौक्षस्य
हाविष्मतम् ( ऊ० २. १.५) । श्रुध्यस्य सुज्ञानम् ऊ० २. १. ७) ।। २ ।।
ऊद्धरत्युक्थानि । ३ ।। ० समानमितरं गवैकाहिकेन ।। ४ ।।
इति । पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतो
(सा० ७७८-८०) वृषा सोम द्युमाँ असि (सा० ७८१ -३) उत्ते शुष्मास ईरते
(सा० १२०५-९) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।। अग्निं दूतम् (सा० ७९०-२) मित्रं वयम् ( सा० ७९३-५) इन्द्रमिद्गा ( सा० ७९६-९) चतुर्ऋचम् । इन्द्रे अग्ने( सा० ८०० -२) त्याज्यानि । चतुर्ऋचस्य तृतीयामुद्धरेत् । तृतीयां सर्वस्वारस्वरसाम्नो-(ला० श्रौ० ६. ४. ११)रिति। वचनात् । अत्र च स्वरसाम्नो निर्देशात् । धिष्ण्योपस्थानं कृत्वा सदःप्रसर्पणकाले ऋतमुक्त्वा प्रसर्पेयुः । इयं भूमिरसावादित्य उदेता प्रातरादित्य इति सोमभक्षणकाले चैतदुक्त्वा प्रकृतमन्त्रेण भक्षणम् ।।

224

अस्य प्रत्नामनु द्युतम् (सा० ७५ ५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम्( सा० १०१३-५) मिति समन्तं च (ऊ० ९. १.३) दैर्घश्रवसं ( ऊ० ५. २.४) च आष्टादंष्ट्रं (ऊ० १२. १. १८) च यौधाजयम् (ऊ० ७.२.५) । अयं सोम (सा० १४७१-३) इति पार्थम् (ऊ० ९. २.५ अन्त्यम् । समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।।
बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १.१. ५) च श्यैतं (ऊ० ९. १. १९) च कालेयं ( ऊ० १. १. ७) चेति पृष्ठानि ।।
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २.१.५) च । पवस्वेन्द्रमच्छे (सा० ६९२-६) ति सफ- ( ऊ० १.१. ९ )सुज्ञाने ( ऊ० २.१.७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा-(ऊ० १.१.११ )न्धीगवे (ऊ० १.१. १२) । सूर्यवतीषु काव-(सा० १३७०-२; ऊ० ९. २. १ १)मन्त्यम् । सफसुज्ञाने एकर्चे ।।
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) । सर्वः सप्तदशः ।।
इति ऋतपेयः ।। ९ ।।

दूणाशः
तृतीयो दूणाशः । सप्तदशोऽग्निष्टोमस्तस्य दीक्षणीयायामिष्टौ- (तां- ब्रा० १८.३) इत्यनुवाकेनोक्तः । तस्य कल्पः-
एते असृग्रमिन्दवः (सा० ८३०-१) उत्ते शुष्मास ईरते (सा० १२०५-९) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे ।। १ ।।

225

एकाहः-दूणाशः [ अ. ४. ख. १७]

स्वासु श्यैतम् (सा० ८११-२; ऊ० २.१. ३) ।। २ ।।
समानमितरं प्रथमेन साहस्रेण ।। ३ ।।
इति । पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः (सा० ८३०-१) उत्ते शुष्मास ईरते ( सा० १२०५-९) पवमानस्य ते कवे (सा० ६५७-९ ) इति बहिष्पवमानम् ।।
अग्न आयाहि वीतये ( सा० ६६०-२) मित्रं वयं हवामहे (सा० ७९३-५) इन्द्रमिद्गाथिनो बृहद् (सा० ७९६-९) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) इत्याज्यानि ।।
अस्य प्रत्ना ( सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-५) समन्तं ( ऊ० ९. १. ३) च रथन्तरं ( र० २.२.६) च
दैर्घश्रवसं ( ऊ० ५.२.४) च यौधाजयं ( उ० ७.२.५) च । अयं सोम (सा० १४७१-३) हति पार्थम् (ऊ. ९, २.५) अन्त्यम् ।। समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् । बृहच्च (र० १.१ . ५) वामदेव्यं ( ऊ० १.१.५) च श्यैतं (ऊ० १०.१. ४) च कालेयं ( ऊ० १. १.७) चेति पृष्ठानि ।।
स्वादिष्ठये ( सा० ६८९-९१ ति गायत्र-संहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ(ऊ० १. १.९) श्रुध्ये (ऊ० ९.१.२०) । पुरोजिती-(सा० ६९७-९ )ति श्यावाश्वा-( ऊ० १.१.११ )न्धीगवे ( ऊ० १.१. १२) । सूर्यवतीषु कावमन्त्यम् (ऊ० ९.२. ११) । सफश्रुध्ये एकर्चे ।।

226

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।।
सर्वाणि स्तोत्राणि सप्तदशानि ।। ३ ।।
इति दूणाशः ।। १० ।।

वैश्यस्तोमः
चतुर्थो वैश्यस्तोमः सप्तदशोऽग्निष्टोमस्तस्य प्रातःसवनीयानी- ( तां० ब्रा० १८. ४ )त्यनुवाकेनोक्तः । तत्र वैश्यस्यैवाधिकारः । न ब्राह्मणक्षत्रिययोः । तस्य कल्पः-
पवमानस्य विश्वविद् ( सा० ९५८-६०) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवस्- (सा. ८३०-२) तं त्वा नृम्णानि बिभ्रतं ( सा० ८३६-४०) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।
विश्वेभिरग्ने अग्निभिः (सा० १६१७-९) मित्रं वयं हवामहे (सा० ७९३-५) इन्द्रं वो विश्वतस्परि (सा० १६२०-२) ता हुवे ययोरिदम् (सा० ८५३-५) ।। २ ।।
इत्याज्यानि ।।
अभि त्वा शूर नोनुमः (सा ० ६८०-१) इति कण्वरथन्तं पृष्ठम् ( ऊ० १२. १. १९) । आ नो विश्वासु हव्यम् (सा० १४९२-३) इति सदोविशीयं ब्रह्मसाम (ऊ. १२.१. २०) । जनुषैकर्चयोः ( सा० ७२३-७७२) सफ( ऊ० १.२. १५)

227

एकाहः-वैश्यस्तोमः [ अ. ४. ख. ११]

पौष्कले (ऊ० ९. २.२) । परि त्यं हर्यतं हरिम् (सा०१३२९-३१; ऊ० १२.२.१-२) इत्यनुष्टुप् । पवित्रम् ( सा०८७५-७) इति काव- (ऊ० १२.२.३ )मन्त्यम् ।। ३ ।।
उद्धरत्युक्थानि ।। ४ ।।
समानमितरमायुषैकाहिकेन ।। ५ ।।
इति । उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं चामहीयवं ( ऊ० १. १. १) च । अभि सोमास आयवः (सा०८५६-८) इति द्विहिंकारं वामदेव्यं (ऊ० ४.२.७) च मैधातिथं (ऊ० ९.३. ६) च रौरवं ( ऊ० ७.१.१३) च यौधाजयं ( ऊ० ८.२.१९) चौशनमन्त्यम् ( ऊ. १. १.४) इति माध्यंदिनः । द्विहिंकारं वामदेव्यं प्रथमायाम् । यौधाजयमध्यास्यायाम् ।
अभि त्वा शूर (सा० ६८०- १) इति कण्वरथन्तरं पृष्ठम् (ऊ० १२.१. १९) । स्वासु वामदेव्यम् ( ऊ० १. १. ५) । आ नो विश्वासु हव्यम् ( सा० १४९२-३) इति सदोविशीयं ब्रह्मसाम (ऊ० १२.१. २०) । स्वासु कालेयम् (ऊ० १ . १. ७) इति पृष्ठानि । कण्वरथन्तरं सर्वबृहतीषु । तथा च निदानम्--सर्वबृहतीषु
नान्यद् वृहद्रथन्तराभ्यामर्हति यत् ककुबुत्तरासु स्यात् (नि. सू० ७.४)
इति ।।
स्वादिष्ठये(सा० ६८९-९१) ति गायत्र-संहिते (ऊ० १. १ .१ ८) ।
अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति एकर्चयोः सफ(ऊ० १.२.१५) पौष्कले ( ऊ० ९.२.२)

228

परि त्यं हर्यतं हरिम् (सा १४२९-३१) हति श्यावाश्वा-(ऊ० १२. २. १ )न्धीगवे (ऊ. १२. २.२) । पवित्रं त ( सा० ८७५-७) इति कावम् अन्त्यम् (ऊ० १२.२.३) ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। सर्वः सप्तदशः ।। ५ ।।
इति वैश्यस्तोमः ।। ११ ।

तीव्रसुत्
पञ्चमस्तीव्रसुत् सप्तदश उक्थ्य इन्द्रो वृत्रमहन् (तां- ब्रा० १८.५) इत्यनुवाकेनोक्तः । तस्य सूत्रम - स पञ्चमेन तीव्रसुति सोमातिपवितं याजयेद ( ला० श्रौ. ८. १०.७- १४) इत्यादि । अथ कल्पः-
एते असृग्रमिन्दवस् ( सा० ८३०-२) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-९०) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे ।। श्रायन्तीयं ब्रह्मसाम (सा० १३१९-२०; ऊ० ५. २.९) । संहितस्य लोके मौक्षम् (ऊ० १२.२.४) पौष्कलस्य लोके श्रुध्यम् (ऊ० ९. १. २०) । श्यावाश्वस्य यज्ञायज्ञीयम् (ऊ० ८. २. १६) ।। यज्ञायज्ञीयस्यर्क्षु विशोविशीयमग्निष्टोमसाम (ऊ० १२.२.५) ।। १ ।।
समानमितरमायुषैकाहिकेन ।। २ ।।

229

एकाहः-तीव्रसुत् [ अ. ४. ख. १२]

इति । उपास्मै गायता ( सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः ( सा ८३०- २) तं त्वा तृम्णानि बिभ्रतम् ( सा० ८३६-९०) पवमानस्य ते कव ( सा० ६ ६७-९) इति बहिष्पवमानम् ।।
अग्न (सा० ६६०-२) आ नो मित्रा(६६३-५) याहीन्द्राग्नी- (सा. ६६६-८) त्याज्यानि ।।
अत्र सोमभक्षणकाले भक्षावृता चमसानवजिघ्रेयुः । यानवजिघ्रेयुस्तेष्वेवाभ्युन्नयेयुः । तानच्छावाकस्य स्तोत्रे भक्षयेयुः । एवं सर्वसवनेषु कर्तव्यम् ।।
उच्चा ते जातम् (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ. १. १. ७) च । अभि सोमास आयव (सा० ८५६-८) इति द्विहिंकारं (ऊ० ४.२.७) च मैधातिथं (ऊ० ९.३.६) च रौरवं (ऊ० ७.१. १३) च यौधाजयं (ऊ० ८.२. १९) चौशनमन्त्यम् ( ऊ० १. १. ४) । द्विहिंकारमाद्यायाम् । यौधाजयमध्यास्यायाम् ।।
रथन्तरं (र० १. १.१) च वामदेव्यं ( ऊ० १. १. ५) च श्रायन्तीयं (ऊ० ४.२.९) च कालेयं ( ऊ० १. १.७) चेति पृष्ठानि ।।
स्वादिष्ठये-( सा० ६८९-९१) ति गायत्रमौक्षे (ऊ० १२ २.४) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ ति सफ(ऊ० १.१. ९) श्रुध्ये ( ऊ० ९.१.२०) । पुरोजिती- ( सा० ६९७-९ )ति यज्ञायज्ञीया-( ऊ० ८.२.१६) न्धीगवे ( ऊ० १.१. १२) । कावम् (ऊ० १, १ १३) अन्त्यम् । यज्ञायज्ञीयस्यर्क्षु विशोविशीय-

230

मग्निष्टोमसाम (सा० ७०३-४; ऊ० १२.२.५) । प्रमंहिष्ठीयं (ऊ ० २.२.५) हारिवर्णम् (ऊ ० २.२.६) ठद्वंशीयम् (ऊ० ६. १. ८) इत्युक्थानि ।।

सर्वः सप्तदशः ।। २ ।।
इति तीव्रसुत् ।। १२ । ।
वाजपेयः
षष्ठो वाजपेयः सप्तदश उक्थ्यः षोडशिमान् सप्तदशी ( तां० ब्रा० १८.६) इत्यनुवाकद्वयेनोक्तः । तस्य सूत्रम्- यं ब्राह्मणा स राजानः पुरस्कुर्वीरन् स वाजपेयेन यजेते-(ला० श्रौ० ८. ११. १२ )त्यादि खण्डद्वयम् । सुब्रह्मण्यायां शक्रागच्छ विश्वे ब्रह्माण इति विशेषः । अनिरुक्तप्रातःसवनत्वात् । स्तोत्रक्लृप्तिमाह- पूर्वस्य बहिष्पवमानम् । व्रात्यानि त्रीण्याज्यानि । वैश्वजितमुत्तमम् । बार्हदुक्थस्य लोके देवस्थानम् (र० १. २. ३) । रथन्तरं पृष्ठम् (र० १. १. १) । अभीवर्तो ब्रह्मसाम (ऊ० ६. १. १६) । मौक्षस्य लोके स्वाशिरामर्कः (र० ३. १. १४) । श्यावाश्वस्य यज्ञायज्ञीयम् ( ऊ० ८.२. १६) त्वं नश्चित्र ऊत्ये-( सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम (ऊ० १२.२.६) ।। १ । समानमितरं गवैकाहिकेन ।। २ ।।
गौरीवितं षोडशिसाम (ऊ० ३. १. २) विष्णो शिपिविष्टवतीषु बृहत् (सा० १६२५-७; र० ३. १. १५) ।। ३ ।।
सर्वे सप्तदशाः ।। ४ ।।
इति । उपास्मै (सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवस् (सा० ८३०-२) तं त्वा नृम्णानि

231

एकाहः-वाजपेयः अ. ४. ख. १३]

बिभ्रतम् (सा० ८३६-४०) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । ऋधगिन्दो सुवस्तयोमिति विशेषः । इन्दुरिति सोम-(ला०श्रौ० ८.९ .४)मिति वचनात् । होता देवो अमर्त्यस्(सा० १४७७-९) ता नः शक्तं पार्थिवस्य ( सा० १४६५-७) सुरूपकृत्नुमूतये (सा० १०८७-९) तमीडिश्व यो अर्चिषे-(सा० ११४९ -५१) त्याज्यानि । होता यज्ञो अमर्त्योमिति प्रस्तावः । होता यज्ञो मही यज्ञस्येति ब्रूया-(ला० श्रौ० ८.९ .४ )दिति वचनात् । उत्तमेत्याज्यऋग्जपे पारोक्ष्यमिन्द्राग्नीशब्दयोर्न कार्यमिति उपहव्य एवोक्तम् ।।
अथ माध्यंदिनः । अस्य प्रत्ने-( सा० ७५५-७) ति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं ( ऊ० ९. १. ३) प्रथमायाम् । दैर्घश्रवसं (ऊ० ५. २.४) तिसृषु । देवस्थानं (र० १. २.३) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० ७.२.५) । अयं सोम (सा० १४७१-३) इति पार्थम् ( ऊ० ९.२.५) अन्त्यम् । दक्षिणासु यथालिङ्गं मन्त्रप्रयोगः सूत्रोक्तप्रकारेण कार्यः ।।
रथन्तरं ( र० १. १. १) च वामदेव्यं ( ऊ० १. १.५) चाभीवर्त्तश्च (ऊ० ६.१.१६) कालेयं (ऊ. १. १. ७)चेति पृष्ठानि ।।
यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं च स्वाशिरामर्कः (र० ३.१. १४) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ-( ऊ० १.१.९) श्रुध्ये ( ऊ० ९. १.२०) एकर्चयोः ।

232

पुरोजिती व ( सा० ६९२-६) हति यज्ञायज्ञीया-(ऊ० ८.२.१६)न्धीगवे (ऊ० १. १. १२) । सूर्यवतीषु कावम् (ऊ० ९.२.११) अन्त्यमित्यार्भवः ।।
त्वं नश्चित्र ऊत्ये-(सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम ( ऊ० १२. २.६) । तस्य सर्वबृहतीकारः ककुबुत्तराकारो वेति पक्षद्वयं वारवन्तीयप्रसङ्गे प्रतिहारव्याख्यायामस्माभिर्दर्शितम् । अत्र च पवमानस्थयज्ञायज्ञीये यज्ञायज्ञीयधर्मा न कार्याः । वारवन्तीये तु कार्याः । प्रतिहारवेलायां पत्न्यवेक्षणम् ।। साकमश्वं ( ऊ० १.१.१५) सौभरम् (ऊ० १. १.१६) ठद्वंशीयम् (ऊ० ६.१. ८) इत्युक्थानि । इन्द्र जुषस्वे(सा० ६५२-४) ति गौरीवितं (ऊ० ३. १. २) षोडशिसाम । षोडशिग्रहावेक्षणादि चमसभक्षणान्तमतिरात्रवत् । निप्क्रमणादि यजमानोपहवान्तं कृत्वा

वाजपेय साम Vajapeya sama

किमित्ते विष्णो (सा० १६२५-७) इति बृहता (र० ३.१. ५) वाजपेयसाम्ना स्तुवीरन् । तस्य भरद्वाज-स्त्रिष्टुप् विप्णुरित्यादयः । षोडशस्तोत्रीयासु भाइः सादा इति पाठः । सप्तदश्यां भाइः सदा इति । उत्तमं न रुह्यादिति आचार्या (नि०सू० २.९) इति निदानवचनात् । भक्ष आहृते श्येन इत्यवेक्ष्येन्दविन्द्र-पीतस्येन्द्रियावतस्त्रिष्टुप्छन्दसस्सर्वगणस्येति भक्षणम् । त्रिष्टुप्-छन्दसा वाजपेयसाम्नि भक्षयेदिति वचनात् । अथ स्तोमविमोचना-

233

एकाहः-राजसूयः [ अ. ४. ख. १४-१

द्युदवसनीयान्तं प्रकृतिवत् । संस्थावाजपेयस्तु सूत्रकारेणोक्तः । अनतिरात्रो वा षोडशिमान् ।। तस्य बृहत्सप्तदशं स्तोत्रं स्यात् । पञ्चदशं स्वास्वि-( ला० श्रौ० सू० ८.१२.९-१०)ति । तत्र षोडशिचमसभक्षणान्तं ज्योतिष्टोमवदविकारेण कृत्वा निष्क्रमणादि- यजमानापहवान्ते कृते स्वासु बृहत्या पञ्चदशस्तोमेन स्तवनम् । केचित्तु किमित्ते इति बृहत्या सप्तदशेन स्तोमेन स्तवनमिच्छन्ति । तत्र मूलं मृग्यम् । अन्यत्तु सर्वं सूत्रत एवावधार्यम् । प्रत्यवरोहणीयेनैवान्ततो यजेतेत्युक्तम् । प्रत्यवरोहणीयमाह-
क्लृप्तो ज्योतिष्टोमः प्रत्यवरोहणीयः ।। ५ ।। इति । विश्वरूपाज्योतिर्गानयोर्धूर्गानानां च निवृत्तिः । शेषं प्रकृतिवत् ।। ५ ।।
इति वाजपेयः ।। १३ ।।


राजसूयः
अथ राजसूयः । अग्निष्टोमं प्रथममाहरती-(तां० ब्रा० १८..८.११ )त्यादिभिश्चतुर्भिरनुवाकैरुक्तः । राजा राजसूयेन यजेत । तस्य सप्त सुत्याः । अभ्यारोहणीयः अभिषेचनीयः दशपेयः केशवपनीयः व्युष्टिद्विरात्रः क्षत्रस्य धृतिरिति । फाल्गुनीपक्षस्य प्रथमायां दीक्षेत अभ्यारोहणीयाय ज्योतिष्टोमाय । तस्य क्लृप्तिमाह-
क्लृप्तोऽभ्यारोहणीयः ।। १ ।।

234

इति । ज्योतिष्टोम इत्यनुवर्तते । स चाग्निष्टोमसंस्थः । अग्निष्टोमं प्रथममाहरती-( तां० ब्रा० १८.८. १ )ति श्रुतेः ।। १ ।।
इति अभ्यारोहणीयः ।। १४-१ ।।
राजसूयः-अभिषेचनीयः
प्रत्यवरोहणीयेनेष्ट्वा संवत्सरादूर्ध्वमभिषेचनीयेन यजेत । तस्य ब्राह्मणम्-अथैषोऽभिषेचनीय (तां० ब्रा० १८.८.२-१८) इत्यादि । स्तोत्रक्लृप्तिमाह-
वायो शुक्रो अयामि त इति तृचः ( सा० १६२८-३०) षट् संभार्या वैश्वजित्यः (सा० १५७०ः १४६०-४) ।। १ ।। इति । उप त्वा जा (सा० १५७०) जनीयन्तो (सा० १४६०) उत नः प्रिया प्रियासु (सा० १४६१) तत्सवितुर्वरेण्यम् (सा० १४६२) सोमानां स्वरणम् (सा० १ ४६३) अग्न आयूंषि (सा० १४६४) षडृचं संभार्याः । दशतयेभ्यो नानादेशेभ्य आहृत्यात्र संभ्रियन्त इति कृत्वा ।। १ ।।
पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) एतमुत्यं दश क्षिपः ( सा० १०८१-३) पवस्वेन्दो वृषा सुत (सा० ७७८-८०) उत्ते शुष्मास ईरते (सा० १२०५-९) पवमानस्य ते कवे (सा० ६५७-९) अध क्षपा परिष्कृतः (सा० १६३१-३) ।। २ ।। इति बहिष्पवमानम् ।।
वायो शुक्र (सा० १६२८-८०) इत्यनुष्टुप् । अध क्षपा परिष्कृत (सा० १६३१-३) इति च । तमस्य मर्जयामसि (सा०

235

एकाहः-राजसूयः [ अ. ख. १४-२]

१६३२) इत्युत्तमा कार्या । तासां मध्यमामुत्तमां कुर्म (नि०सू० ७.५) इति निदानवचनात् । संभार्याणाम् ऋचां क्रमेण अग्निः सरस्वान् सरस्वती सविता ब्रह्मणस्पतिरग्निपवमानाविति देवताः । शिष्टानां सोम एव । रथन्तरवर्णायां द्वादशाक्षराण्यभिष्टोभेत् । चत्वार्येव वा । द्वादशाक्षराण्यभिष्टोभेदनुष्टुभि । सर्वत्र चत्वारीति शाण्डिल्य (ला० श्रौ० सू० ७.११. ८-९) इति वचनात् ।। २ ।। वैश्वजित्याज्यानि ।। ३ ।। इति । सुषमिद्धो न आवह ( सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४६५ -७) युञ्जन्ति ब्रध्नमरुषं चरन्तम् (सा० १४६८-७०) तमीडिष्व यो अर्चिषा ( सा० ११४९-५१) इत्याज्यानि ।। ३ ।।
उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं च (ऊ० १. १. १) जराबोधीयं च ( ऊ० ११. १. १४) स्वारं च सैन्धुक्षितम् (ऊ० १२.२.७) । परीतो षिञ्चता सुतम् (सा० १३ १ ३-५) इति समन्तं (ऊ० ९. १. ३) च रथन्तरं ( र० २.१. ६) च दैर्घश्रवसं ( ऊ० ५. २.४) च देवस्थानं (र० १. २.३) च वरुणसाम (ऊ० १२.२.८) च रौरव- ( ऊ ० ९. ३. ११) यौधाजये (ऊ० ७.२.५) । वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७.१. ६) अन्त्यम् ।। ४ ।।
[ इति माध्यदिनः पवमानः ।।]
समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।। ४ ।।
बृहच्च (र० १. १. ६) वामदेव्यं (ऊ० १.१. ५) च श्यैतं च (ऊ० २. १.३) कालेयं (ऊ. १ . १. ७) च ।। ५ ।। इति पृष्ठानि ।।

236

यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रमौक्षे (ऊ० ४.१.१०) । काक्षीवतं (ऊ० १२.२.९) च स्वाशिरामर्कः (र० ३. १.४) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-( ऊ० १. १.९) दैवोदासे ऊ० १२.२. १०) । पुरोजिती वो अन्धस (सा० ६९७-९) इति वाध्र्यश्वं (ऊ० १२.२. ११) च । वैतहव्यं (ऊ० १२.२. १२) च सोमसाम (ऊ० १२.२. १३) च त्रासदस्यवं (ऊ० १२.२. १४) चान्धीगवं (ऊ० १. १. १२) च कावमन्त्यम् (ऊ० १. १. १३) ।। ६ ।। इत्यार्भवः पवमानः ।।
सफदैवोदासे एकर्चे ।। ६ ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ७ ।।
अग्ने त्वं नो अन्तम (सा० ११०७-९) इति सत्रासाहीयं(ऊ० १२.२.१५) सौभरम् (ऊ० १. १. १६) उद्वंशीयम् (ऊ० ६.१.८ ।। ८ ।। इत्युक्थानि ।।
द्वात्रिंशाः पवमानाः । पञ्चदशान्याज्यानि । सप्तदशानि पृष्ठानि । एकविंशोऽग्निष्टोमः सोक्थः ।। ८ ।।
इष्टाहोत्रीयमवभृथसाम । समस्य मन्यवे विश इति वा । इष्टाहोत्रीयमभिषेचनीये । समस्येति वे-(ला० श्रौ० सू० २. १२.४-५) ति वचनात् । अभिषेचनीयेनेष्ट्वा तस्य साक्षादवभृथमकृत्वा तद्दीक्षित एव दशाहे ततो दशपेयेन यजेत । अभिषेचनीयदशपेययोर्मध्ये संसृपेष्टयः सन्ति । तासामन्तेषु सनामग्रहां सुब्रह्मण्यामाह्वयेत् । अभिषेचनीयदशपेयावन्तरेण सदा नामग्रहः ( ला० श्रौ० १.४.७) इति वचनात् ।। ९ ।।
इति अभिषेचनीयः ।।

237

एकाहः--राजसूयः [ अ. ४. ख. १४-३]

राजसूयः-दशपेयः
वरुणस्य सुषुवाणस्ये-(तां० ब्रा० १८.९. १-२)त्यादि दशपेयस्य ब्राह्मणम् । सूत्रं तु-तस्य ब्राह्मणं दश दश चमसमभियन्तीति । सुब्रह्मण्यचतुर्था उद्गातृचमसं भक्षयेयुः षड् त्त्वान्ये (ला० श्रौ० सू० ९. २.२९) इत्यादि ।।
स्तोत्रक्लृप्तिमाह-
राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् ( सा० ८३६-४०) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे । मैधातिथस्य लोके सदोविशीयम् (ऊ० १२.२. १६) । रौरवस्य मैधातिथम् (ऊ० ९. ३.६) । श्रायन्तीयं ब्रह्मसाम (ऊ० ५. २.९) । पौष्कलस्य लोके श्रुध्यम् ( ऊ० ९. १ . १०) । श्यावाश्वस्य यज्ञायज्ञीयम् (ऊ० ८.२.१६) । वारवन्तीयमग्निष्टोमसाम स्वासु (सा० १६३४-६; ऊ३ १२.२. १७) ।। १ ।।
उद्धरत्युक्थानि ।। २ ।।
समानमितरमायुषैकाहिकेन ।। ३ ।।
सर्वः सप्तदशः ।। ४ ।।
इति । उपास्मै गायता (सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) राजा मेधाभिरीयते ( सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् ( सा० ८३६-४०) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।।
अग्न ( सा० ६६०-२) आ नो मित्रा ( सा० ६६३-५) आयाहीन्द्राग्नी (सा० ६६६-७१) इत्याज्यानि ।।

238

उच्चा ते (सा० ६७२) गायत्रं चामहीयवं (ऊ० १.१.१) च । अभि सोमास आयव (सा० ८५ ६-८) इति द्विहिंकारं (ऊ० ४.२.७) च सदोविशीयं (ऊ० १२.२.१६) च मैधातिथं (ऊ० ९. ३.६) च यौधाजयं (ऊ० ८.२.१९) चौशनमन्त्यम् (ऊ० १.१.४) । द्विहिंकारमाद्यायाम् । यौधाजयमध्यास्यायाम् ।। रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१.५) च श्रायन्तीयं ( ऊ० ५.२.९) च कालेयं ( ऊ० १. १.७) चेति पृष्ठानि ।। स्वादिष्ठया (६८९-४१) इति गायत्र-संहिते (ऊ० १.१.८) पवस्वेन्द्रमच्छे-( सा० ६९२-६)ति सफ-( ऊ० १.१.९) श्रुध्ये (ऊ० ९. १.१०) एकर्चयोः । पुरोजिती वो अन्धस (सा० ६९७-९) इति यज्ञायज्ञीयं (ऊ० ८.२.१६) चान्धीगवं (ऊ० १.१.१२) च कावमन्त्यम् (ऊ० १.१.१३) ।। स्वासु वारवन्तीय(सा० १६३४-६; ऊ० १ २.२.१७)मग्निष्टोमसाम । सर्वोऽयं दशपेयः सप्तदशः ।। ४ ।।
इति दशपेयः ।। १४-३ ।।
राजसूयः -- केशवपनीयः प्रतीचीनस्तोमापरनामा
अथ केशवपनीयः । तस्य ब्राह्मणम्-यदेषोऽर्वाचीनः स्तोमः केशवपनीयो भवति ( तां० ब्रा० १८.१०.१०) इत्यादि । संवत्सरादूर्ध्वं केशवपनीयाय दीक्षेत । तस्य पौर्णमास्यामतिरात्र (ला० श्रौ० सू० ९. ३.१-१६) इत्यादि सूत्रम् । प्रतीचीनः स्तोमः उत्तरः नि० सू० ७.६.) इति निदानम् । अथ कल्पः-

239

एकाहः-राजसूयः अ. ४. ख. १४-४]

पवस्व वाचो अग्रिय ( सा० ७७५-७) पवस्वेन्दो वृषा सुतो ( सा० ७७८-८०) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो ( सा० ८३०-२) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) पवमानस्य ते कवे (सा० ६ ५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अग्निं दूतं वृणीमह (सा० ७९०-८; ८८०-२) ।। २ ।।
इत्याज्यानि ।।
परीतो षिञ्चता सुतम् (सा० १०१३-५) इति समन्तं च (ऊ० ९. १ . ३) यशश्चा-(र० १.२.६ )भीशवं च (ऊ० ५.२.६) यौधाजयं च (ऊ० ८.२.५) । वृषा शोण (सा० ८० ६-८) इति पार्थम् (ऊ० ७. १. ६) अन्त्यम् ।। ३ ।।
बृहच्च (र० १. १. ५) पृष्ठम् । त्वमिन्द्र प्रतूर्तिषु (सा० १६३७-८) इति अभीवर्तो ब्रह्मसाम (ऊ० १२.२.१८) ।।४।। समानमितरमायुषोऽतिरात्रेण ।। ५ ।।
इति । तत्र माध्यंदिनः । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । परीतो-षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं ( ऊ० ९.१ .३) च यशश्चा-(र० १. २.६ )भीशवं (ऊ० ५.२.६) च । यौधाजयं ( ऊ० ५.२.६) च । वृषा शोण ( सा० ८० ६-८) इति पार्थमन्त्यम् ( ऊ० ७. १.६) । समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।।

240

वृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च । त्वमिन्द्र प्रतूर्तिषु (सा० १६ ३७-८) अभीवर्तः (ऊ० १२.२.१८) । स्वासु कालेयम् (ऊ० १.१.७) इति पृष्ठानि ।। स्वादिष्ठये-(सा० ६८९-९१ )ति गायत्रसंहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६) ति सफ-पौष्कले(ऊ० १.१.९-१०) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १. १.११-२) । काव(ऊ० १.१.१३)मन्त्यम् । सफपौष्कल-श्यावाश्वान्येकर्चानि ।। यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १.१.१४) ।। प्रमंहिष्ठीयं (ऊ० २.२.५) हारिवर्णं ( ऊ० २.२.६) नार्मेधम् (ऊ० १.८) इत्युक्थानि ।। षोडशी नास्ति । आयुरतिरात्रे तस्याभावात् । रात्रिः संधिश्च प्रकृतिवत् । आयुरतिरात्रस्य यद्यप्यहीनिकीं रात्रिं वक्ष्यति तथापि एकाहप्रकरण तस्याप्यकृतत्वात् नात्रातिदेशः ।। ५ ।।
स्तोमक्लृप्तिमाह-
एकविंशं प्रातःसवनम्, सप्तदशं माध्यंदिनं सवनम्, पञ्चदशं तृतीयसवनम् सोक्थं सरात्रिकम् । त्रिवृत् संधिः ।। ६ ।।
इति ।। ६ ।।
इति केशवपनीयः ।। १४-४ ।।
राजसूयः-व्युष्टिद्विरात्रः
प्रथममहः
उक्तः केशवपनीयः । तस्योदवसानीययेष्ट्वानिष्ट्वा( वा)पौर्णमासेन व्युष्टिद्विरात्राय दीक्षेत । तस्य ब्राह्मणम्-अप्रतिष्ठितो वा एष यो

241

एकाहः-राजसूयः । अ. ४. ख. १४-६]

राजसूयेनाभिषिच्यते (तां० ब्रा० १८.११.५-११) इत्यादि ।।
प्रथमस्याह्नः कल्पः-
ज्योतिष्टोममाज्यबहिष्पवमानम् । स्तोमाश्च । अथ यदेव द्विदिवसस्य पूर्वमहस्तदेतत् ।। १ ।।
इति । उप-दवि-पवे-(सा० ६५१-९ )ति बहिष्पवमानम् । अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१ त्याज्यानि । उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च । पुनानः सोम ( सा० ६७५-६) इति रौरवयौधाजये ( ऊ० १. १.२-३) । औशनमन्त्यम् (ऊ० १ . १. ४) । रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १.१. ५) च नौधसं ( ऊ० १.१.७) च कालेयं ( ऊ० १. १.६) चेति पृष्ठानि । स्वादिष्ठये( सा० ६८९-९१ )ति गायत्र-हाविष्कृते ( ऊ० ११.२.७) । अया पवस्व देवयुः - पवते हर्यतो हरिर् ( सा० ६७२-३) इत्येकर्चयोः सफ(ऊ० १. २.१५ )पौष्कले (ऊ० ९. २.२) । पुरोजिती व (सा० ६९७-९) इत्यौदला-(ऊ० १०.१.३ )न्धीगवे (ऊ० १.१.१२) । कावमन्त्यम् (ऊ० १.१.१३) । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) । ज्योतिष्टोमस्तोमः । इदमहर्दधिभक्षान्तम् । रात्रौ वसतीवरीपरिहरणकाले सनामग्रहणं सुब्रह्मण्याह्वानम् ।। १ ।।
इति व्युष्टिद्विरात्रस्य प्रथममहः ।। १४-५ ।।
द्वितीयमहः
द्वितीयस्याह्नः-
पवस्व वाचो अग्रियः (सा० ७७५-७) एष देवो अमर्त्यः( सा०

242

१२५६-६५) एष धियो यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयो भुवम् (सा० ११३७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
तृचसूक्तानामादिग्रहणेन विधिः ।। १ ।।
अग्निं दूतं वृणीमहे (सा० ७९०-८; ८० ०-२) इत्याज्यानि ।।२।। अस्य प्रत्नामनुद्युतम् ( सा० ७५५-७) इति गायत्रं च हाविष्कृतं (ऊ० ११.२.८) च जराबोधीयं (ऊ० ९. १.९) चर्षभश्च पवमानः (ऊ० १२.२. १९) परीतो षिञ्चता सुतम् (सा० १०१३-५) इति समन्तं (ऊ० ९. १.३) दैर्घश्रवसम् (ऊ० ५. २.४) उत्सेधोऽ-(ऊ० १२.२.२०) यं सोम ( सा० १४७१-३) इति पार्थम् (ऊ० ९. २.५) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमानः ।।]
बृहच्च (र० १. १.५) वामदेव्यं (ऊ० १.१.५) च त्रैशोकं च (ऊ० २.२.३) वैखानसं च (ऊ० ४.१.९) ।। ४ ।। इति पृष्ठानि ।।
परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्र-संहिते (ऊ० ९. २.६) । पवस्वेन्द्रमच्छे-(सा० ६९ २-६)ति सत्रासाहीय-(ऊ० ९. २. ७)विशोविशीये ( ऊ० १३. १. १) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति निषेधः ( ऊ० १३. १.२) ३यावाश्वं (ऊ० ११.२. १०) क्रौञ्चम् (ऊ० २. १.९) । धर्ता दिव ( सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः (र० ३. १. १०) ।। ५ ।।
इत्यार्भवः पवमानः ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।
ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ।। ७ ।।

243

एकाहः-राजसूयः [ अ. ४. ख. १४-७

साकमश्वं सौभरं नार्मेधमित्युक्थानि । गौरीवितं षोडशिसाम । रात्रिः संधिश्च ।। ७ ।।
अथ स्तोमविधिः-
चतुर्विशाः पवमानाः । पञ्चदशानि त्रीण्याज्यानि । सप्तदशमच्छा-वाकस्य । एकविंशानि त्रीणि पृष्ठानि । त्रिणवमच्छावाकस्य । त्रयस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत्संधिः ।। ८ ।।
इति उदवसानीयान्तमहः ।। ८ ।।
इति व्युष्टिद्विरात्रः ।। १४-६ ।।
राजसूयः- क्षत्रस्य धृतिः व्युष्टिद्विरात्रेणेष्ट्वा अवकाशसद्भावे तस्मिन्नेव पूर्वपक्षे क्षत्रस्य धृतिना यजेत । अवकाशाभावे उत्तरः पूर्वपक्षः तस्मिन्यजेत ।
तस्य कल्पः--.
उक्तो ज्योतिष्टोमः क्षत्रस्य धृतिः ।। १ ।।
इति । नैकाहौ नाहीनौ । चातुर्मास्यानि राजसूयश्च । अन्ये च । तृतीयेयं जातिः कात्यायनेनोक्ता ।। १ ।।
इति क्षत्रस्य धृतिः । १४-७।।
समाप्तो राजसूयः ।। १४ ।।
इति आर्षेयकल्पव्याख्यायां श्रीवामनार्यसुतवरदराजविरचितायां विवृत्याम् एकाहेषु द्वितीयोऽध्यायः आदितश्चतुर्थः ।। ४ ।।