← अध्यायः १० आर्षेयकल्पः
अध्यायः ११
मशकः
(श्रीवरदराजकृत - विवृत्याख्य- व्याख्या - समन्वितः)।

पुरस्तात्पृष्ठ्यस्य कॢप्तोऽतिरात्रः कॢप्तं चतुर्विँशमहः कॢप्तः पृष्ठ्यः कॢप्तं प्रथममहरभिप्लवस्य यथा मध्येपृष्ठ्ये द्वितीयस्याह्न स्तोत्रीयानुरूपौ पर्यासः परीतो षिञ्चता सुतमिति बृहती समानमितरं त्रिवृत्कॢप्तं तृतीयमहर्यथा मध्येपृष्ठ्ये चतुर्थस्याह्न स्तोत्रीयानुरूपौ पर्यासः परीतो षिञ्चता सुतमिति बृहती समानमितरं त्रिवृत्कॢप्तं पञ्चममहर्यथा मध्येपृष्ठ्ये षष्ठस्याह्न पर्यू ष्विति गौरीवितमेकस्यामौष्णिहमोकोनिधनमेकस्याँ श्यावाश्वमेकस्यामान्धीगवं तिसृषु समानमितरं महाव्रतं चातिरात्रश्च महाव्रतं चातिरात्रश्च ११-१

पुरस्तात्पृष्ठ्यस्य कॢप्तोऽतिरात्रः कॢप्तं चतुर्वि शँमहः कॢप्तः पृष्ठ्यः कॢप्तं प्रथममहरभिप्लवस्य यथा मध्येपृष्ठ्ये द्वितीयस्याह्न स्तोत्रीयानुरूपौ पर्यासः परीतो षिञ्चता सुतमिति बृहती समानमितरं त्रिवृत्कॢप्तं तृतीयमहर्यथा मध्येपृष्ठ्ये चतुर्थस्याह्न स्तोत्रीयानुरूपौ पर्यासः परीतो षिञ्चता सुतमिति बृहती समानमितरं त्रिवृत्कॢप्तं पञ्चममहर्यथा मध्येपृष्ठ्ये षष्ठस्याह्न सोमसाम चाशु च भार्गवं प्र सोम देववीतय इति पज्रं गौङ्गवं यौधाजयमौशनमन्त्यँ रथंतरं च वामदेव्यं च नौधसं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्र सँहिते पवस्वेन्द्रमच्छेति सफाक्षारे प्र सुन्वानायान्धस इति गौरीवितं गौतमं पदनिधनं शुद्धाशुद्धीयं कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ११-२

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनैष उ स्य वृषा रथ उत्ते शुष्मासो अस्थुरया पवस्व धारया पवमानस्य ते वयमग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं च सुरूपं चर्षभश्च पावमानः पुनानः सोम धारयेति पृष्ठं च यशश्च कौल्मलबर्हिषायास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रँ हाविष्मतमासितमेष स्य धारया सुतः पवस्व देववीतय इति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इति गौरीवितं च भर्गश्चासितक्रौञ्चे वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि ११-३

दविद्युतत्या रुचैते असृग्रमिन्दवो राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतमेष धिया यात्यण्व्यापघ्नन्पवते मृध इषे पवस्व धारया ग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं च क्षुल्लकवैष्टम्भं च सौमित्रं चैटतं चाभि सोमास आयव इति पौरुमद्गं च गौतमं चान्तरिक्षं च मैधातिथं चाष्कारणिधनं च काण्वं तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च महावैष्टम्भं च रौरवं च तिस्रो वाच उदीरत इति गायत्रं पाष्ठौहमैडँ सैन्धुक्षितँ स्वे उष्णिक्ककुभौ सुतासो मधुमत्तमा इति गौरीवितं च त्रीणि च त्वाष्ट्रीसामान्यैडं स्वारं त्रिणिधनं पवित्रं त इत्यरिष्टमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि ११-४

बभ्रवे नु स्वतवस इति षडृचँ सत्रासाहीयं माण्डवं मार्गीयवँ शुद्धाशुद्धीयं तान्युद्धरत्यथ यद् एव पूर्वस्य छन्दोमदशाहस्य चतुर्थमहस्तदेतत्तृचकॢप्तं त्रिँशं कॢप्तं पञ्चममहर्यथा मध्येपृष्ठ्ये षष्ठस्याह्नो ऽया वीती परि स्रवेति पुरस्तात्पर्यासस्य तृचमौक्ष्णोरन्ध्रे अन्तरार्कपुष्पं यच्छन्दस्यं पयश्चतुर्थानि वैदन्वतानि गौरीवितमनुष्टुभ्यथ यदेव पृष्ठ्यस्तोमस्य षष्ठमहस्तदेतत्तृचकॢप्तँ षट्त्रिँशम् ११-५

ये सोमासः परावति प्र स्वानासो रथा इवासृग्रमिन्दवः पथा प्र यद्गावो न भूर्णय आशुरर्ष बृहन्मते यवंयवं नो अन्धसा ते दक्षं मयोभुवमृतावानं वैश्वानरमिति होतुराज्यँ स्वान्युत्तराणि स्वा गायत्री तस्यां गौषुक्तशाकले पुनानः सोम धारयेति सोमसाम च कण्वरथंतरं च पौरुमद्गं च गौतमं च वाशं च गौङ्गवं च द्विनिधनं चायास्यं प्र काव्यमुशनेव ब्रुवाण इति वाराहमन्त्यँ स्वानि पृष्ठानि यस्ते मदो वरेण्य इति गायत्रं चाग्नेश्चार्को जराबोधीयं च दक्षणिधनं च स्वे उष्णिक्ककुभौ पुरोजिती वो अन्धस इति गौरीवितं च कार्तयशं च त्वाष्ट्रीसामनी स्वारं चाकारणिधनं चात्रेयं च गौतमं च द्विपदासु सौहविषं प्रो अयासीदित्यैडं यज्ञसारथ्यन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थान्यथ ये एव छन्दोमवतो दशरात्रस्य चतुश्चत्वारिँशाष्टाचत्वारिँशे अहनी ते एते उभयोर्गौरीवित-मनुष्टुभ्यथ यदेव पूर्वस्य छन्दोमदशाहस्य दशममहस्तदत्र दशमम्महाव्रतं चातिरात्रश्च ११-६

विधृतिभिः कॢप्तं दृतिवातवतोरायनमा त्रिणवेभ्यस्त्रिवृद्भ्य आ उद्धरत्युक्थानि पञ्चदशेभ्यः षोडशिनँ सप्तदशेभ्यो वार्कजंभोद्वँशीये एकविँशेभ्योऽर्का-नुत्सेधनिषेधावुद्वँशीयं तान्युद्धरति चतुर्थं तृचं प्र स्वानासो रथा इवेति पुरस्तात्पर्यासस्य नवर्चमामहीयवादुत्तरं जराबोधीयँ रौरवयौधाजयाभ्यां पूर्वे द्विहिंकारमैधातिथे गौरीवितादुत्तरे शुद्धाशुद्धीयश्यावाश्वे समानमितरमेतस्यैव राथंतरेणैकविँशेनाशुरर्ष बृहन्मत इति पुरस्तात्पर्यासस्य षडृचँ हाविष्मता-दुत्तरमाजिगआयास्याभ्यां पूर्वे समन्तदैर्घश्रवसे गौरीवितादुत्तरे मधुश्चुन्निध-नासिते समानमितरमेतस्यैव बार्हतेनैकविँशेनैताभ्यामेव विपर्यासं मासमा-हरति चतुर्थं तृचमुभौ पर्यासावाशुभार्गवादुत्तरं मार्गीयवं द्वैगतं मध्ये बार्हतानाँ सँहितादुत्तरे काक्षीवतभासे समानमितरमेतस्यैव राथंतरेण त्रिणवेनापघ्नन्पवते मृधो ऽया पवस्व धारयेति पुरस्तात्पर्यासस्य तृचे स्वारात्सौपर्णादुत्तरँ हरीश्रिनिधनमर्कपुष्पं मध्ये बार्हतानां मौक्षादुत्तरे शांमदं च दावसुनिधनं च समानमितरमेतस्यैव बार्हतेन त्रिणवेनैताभ्यामेव विपर्यासमेकोनत्रिँशतमहानि महाव्रतं विशुवानथैत एव मासा आवृत्तास्तैरेवावृत्तैरुत्तरान्षण्मासाँ-स्तेषामेकान्नत्रिँशि प्रथमो ११-७-१

दृतिवातवतोरयनेन कॢप्तं कुण्डपायिनामयनमा दशरात्रात्प्रज्ञातो दशरात्रः प्रज्ञातं व्रतं प्रज्ञातोऽतिरात्रो ११-७-२


विवृति

एकादशोऽध्यायः
 
पुरस्तात्पृष्ठ्यम्
अङ्गिरसामयनापराख्यम्
प्रथमः खण्डः
अतिरात्रश्चतुर्विंशं प्रायणीयमहः पृष्ठ्यः षडहश्चत्वारस्त्रिवृतोऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीय: स चतुर्थः स पञ्चमस्त्रयस्त्रिवृतोऽभिप्लवा: षडहाः पृष्ठ्यः षडहस्त्रिवृद् बृहस्पतिस्तोमस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भण एकस्त्रिवृदभिप्लवः षडहो द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृत उद्भिच्च बलमिच्च द्वे अहनी चत्वारस्त्रिवृतोऽभिप्लवाः षडहाः पृष्ठ्यः षडह: स मासः स द्वितीयः स तृतीयः स चतुर्थो द्वौ त्रिवृताभिप्लवौ षडहौ पृष्ठ्यः षडहः आयुश्च गौश्च द्वे अहनी छन्दोमदशाहश्चतुर्विंशं प्रथममहर्द्वे अष्टाविंशे त्रिंशं द्वात्रिंशं षट्त्रिंशं चत्वारिंशं चतुश्चत्वारिंशमष्टाचत्वारिंशं चतुर्विंशं महाव्रतं चातिरात्रश्चाङ्गिरसां पुरस्तात् पृष्ठ्यम् (तां० ब्रा० २५. २.१) इत्यनुवाकेनाङ्गिरसामयनमुक्तम् । तदेव पुरस्तात् पृष्ठ्यमित्युच्यते ॥
पुरस्तात्पृष्ठ्यस्य क्लृप्तोऽतिरात्रः । क्लृप्तं चतुर्विंशमहः । क्लृप्तः
पृष्ठ्यः क्लृप्तं प्रथममहरभिप्लवस्य यथा मध्येपृष्ठ्ये ॥ १॥
अतिरात्रः प्रकृतिवत् । चतुर्विंशं पृष्ठ्यश्च संवत्सरवत् । अभिप्लवस्य प्रथममहर्मध्येद्विपृष्ठवत् ॥१॥

547
सत्राणि--पुरस्तात्पृष्ठ्यम् [अ. ११, ख. १]

द्वितीयस्याह्नः स्तोत्रीयानुरूपौ पर्यासः । परीतो षिञ्चता सुतम्
(सा० १३१३-५) इति बृहती। समानमितरम् । त्रिवृत् ॥ २ ॥
इति । परीतो षिञ्चता सुत-( सा० १३१३-५ )मिति माधुच्छन्दसं (ऊ० ७. १. ३) भर्गः (र० १.३.५) ऐडमायास्य-(ऊ. ७.१.४)मिति सामतृचः । त्रिणिधन-(ऊ० ७.१.५)मध्यास्यायाम् । बृहती । अन्यत्समं सांवत्सरिकस्याभिप्लवस्य द्वितीयेनाह्ना । सर्वं त्रिवृत् ॥ २॥
क्लृप्तं तृतीयमहर्यथा मध्येपृष्ठ्ये । चतुर्थस्याह्नः स्तोत्रीयानुरूपौ पर्यासः । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति बृहती । समानमितरम् । त्रिवृत् ॥३॥
इति । पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ।
उत्तरयोः पवमानयोरन्त्यवर्जमेकर्चाः । परीतो षिञ्चता सुत-(सा० १३१३-५)मिति पृश्न्या-(ऊ० १५. १.६)थर्वण-(र० २. १. ३)माभीशव-(ऊ० ५.२.६ मिति सामतृचः । यौधाजय-(ऊ० १.१.३)मध्यास्यायामिति बृहत्याः क्लृप्तिः। इतरत् सर्वं सांवत्सरिकस्याभिप्लवस्य चतुर्थेनाह्ना समम् । सर्वं त्रिवृत् ॥ ३ ॥
क्लृप्तं पञ्चममहर्यथा मध्येपृष्ठ्ये । षष्ठस्याह्नः स्तोत्रीयानुरूपौ पर्यासः । इन्द्रायेन्दो मरुत्वत (सा० १०७६-८) इति गायत्रमेकस्याम् । आश्वसूक्तमेकस्याम् (ऊ० १८. १. ४) वाजदावर्य एकस्याम् (ऊ० ३. १. २१)। मृज्यमानः सुहस्त्ये-(सा० १०७९-८०)त्यैडमौक्ष्णोरन्ध्रमेकस्याम् (ऊ० ३. २. २)। वरुणसामैकस्याम् ( ऊ० ३. २. ४)। त्रिणिधनमायास्यमेकस्याम् (ऊ० ८. १. ६)। समानमितरम् । त्रिवृत् ॥ ४॥
इति। असृक्षत प्र वाजिनः (सा० १०३४-६) एतमु त्यं दश क्षिपः ( सा० १०८१-३ ) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । माध्यंदिने गायत्रीबृहत्योः यथोक्तौ सामतृचौ । उत्तरयोः पवमानयोरन्त्यमेव तृचे। समानमन्यत् सांवत्सरिकस्याभिप्लवस्य षष्ठेनाह्ना ॥४॥
 
क्लृप्तमावृत्तेभ्योऽभिप्लवेभ्यः । आवृत्तानामभिप्लवानां प्रथमस्याभिप्लवस्य प्रथमस्याह्नः इन्द्रायेन्दो मरुत्वत (सा० १०७६-८) इति गायत्रमेकस्याम् । तस्यामेवाश्वसूक्तम् (ऊ० ८.१.४)। मृज्यमानः सुहस्त्ये-(सा० १०७९-८०)त्यैडमौक्ष्णोरन्ध्रमेकस्याम् (ऊ० २.३) । तस्यामेव कण्वरथन्तरम् (ऊ० २०.२.७)। वरुणसामैकस्याम् (ऊ० ३. २. ४)। त्रिणिधनमायास्यमेकस्याम् (ऊ. ८. १.६)॥
समानमितरम् ॥ ५ ॥
इति । मध्येपृष्ठवदजामित्वार्थमत्र बृहत्यां कण्वरथन्तरं (ऊ० २०. २. ७) कल्पितम् । तद्वशाच्च स्तोमोपपत्त्यर्थं गायत्र्यां वाजदावर्य उद्धृताः ॥ ५ ॥
उद्धरत्युत्तरेभ्यः कण्वरथन्तरम् (ऊ० २०. २. ७)। पुनर्वाजदावर्यः
(ऊ० ३. २. १) स्वं लोकमायन्ति ॥ ६॥
उक्तमभिप्लवेषु जाम्यभावत्तेभ्यः कण्वरथन्तर-( ऊ० २०. २.७)मुद्धार्यम् । ततश्च पूर्वस्मिन् पक्षसि वाजदावर्यः (ऊ० ३.२.१) स्वस्थानमेवागच्छन्ति । गायत्रमेकस्याम् । आश्वसूक्त-(उ० ८.१.४)मेकस्याम् । वाजदावर्य (ऊ० ३.२ १) एकस्यामिति ॥ ६ ॥
सांवत्सरिके गोआयुषी अविक्लृप्ते ॥ ७ ॥
इति । अत्र हि संवत्सरवदायुर्गौरिति क्रमः । ततश्चाजाम्यर्थं

549
सत्राणि--पुरस्तात्पृष्ठ्यम् [अ. ११, ख. २]

सांवत्सरिके एव गोआयुषी । न तु मध्येपृष्ठ्यवदनयोरैकाहिके बृहत्यावित्यर्थः ॥ ७॥
इति प्रथमः खण्डः ॥ २ ॥
 
द्वितीयः खण्डः
छन्दोमदशाहस्य प्रथममहराह--
अस्य प्रत्नामनुद्युतम् (सा० ७५५-६३) एते सोमा अभि प्रियम् (सा० ११७८-८६) अग्न आयूंषि पवसे (सा० १५१८-२०) पवमानस्य ते कवे (सा० ६५७-९) ॥ १ ॥
इति बहिष्पवमानम् ॥
अग्न आयाहि वीतये (सा० ६६०-७१) इत्याज्यानि ॥ २ ॥
प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं चाश्वं (ऊ० ६. २. १२) च सोमसाम (ऊ० १४. १. १३) चाशुभार्गवम् (ऊ० ११. २. ११)। प्र सोम देववीतय (सा० ७६७-८) इति पज्रं (ऊ० ६. २. १३) गौङ्गवं (ऊ० ९. २. १९) यौधाजयम् (ऊ० १. २. १३) औशनम् (ऊ० १. १. ४) अन्त्यम् ॥३॥
  [इति माध्यंदिनः पवमानः ॥]
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १.१.७) च ॥४॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१)ति गायत्र-संहिते (ऊ. १.१.९)। पवस्वेन्द्रमच्छे-( सा० ६९२-६)ति सफा-(ऊ०१. १.९)क्षारे (ऊ० १४. १. १७)। प्र सुन्वानायान्धस (सा० १३८६-८) इति गौरीवितं (ऊ० ६. २. १७) गौतमं (ऊ. ११. २. १३) पदनिधनं शुद्धाशुद्धीयं (ऊ० १८. १. १७) कावम् (ऊ० १. १. १३) अन्त्यम् ॥ ५ ॥
- [इत्यार्भवः पवमानः ॥]
यज्ञायज्ञीय-(ऊ० १.१.१४)मग्निष्टोमसाम ॥ ६ ॥
सर्वं चतुर्विंशम् ॥६॥
इति द्वितीयः खण्डः ॥ २॥

तृतीयः खण्डः
द्वितीयमहराह--
पवस्व वाचो अग्रियः ( सा० ७७५-७) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुनै-(सा० ७८४-६)ष उ स्य वृषा रथ (सा० १२७४-९) उत्ते शुष्मासो अस्थुर् (सा० १७१४-७) अस्या पवस्व धारया (सा० १२१६-८) पवमानस्य ते वयम् (सा० ७८७-९) ॥१॥
 इति बहिष्पवमानम् ॥
अग्निं दूतं वृणीमहे (सा० ७९०-८०२) इत्याज्यानि ॥२॥ वृषा पवस्व धारये-( सा० ८०३-५ )ति गायत्रं च यौक्ताश्वं (ऊ० १. २. १९) च सुरूपं (ऊ० १८. १.८) चर्षभश्च पवमानः (ऊ० १८. १.९)। पुनानः सोम धारये-(सा० ६७५-६)ति पृष्ठं ( ऊ० १८. १. २०) च यशश्च (र० ५. १. १०) कौल्मलबर्हिषा-( ऊ० ८. १. २१) यास्ये (ऊ. १. २. २०)ति । वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७.१.६) अन्त्यम् ॥३॥
[इति माध्यंदिनः पवमानः ॥]

551
सत्राणि--पुरस्तात्पृष्ठ्यम् [अ. ११, ख.३]

पृष्ठमाद्यायाम् ॥३॥
बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१.५) च श्यैतं (ऊ० २. १. ३) च माधुच्छन्दसं ( ऊ० २.१.४) च ॥४॥
इति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं हाविष्मतम् (ऊ० २. १. ५) आसितम् (ऊ० ११. २.१०)। एष स्य धारया सुतः (सा० १२३४-५ ) पवस्व देववीतये (सा० १३२६-८) इति शङ्कु-(ऊ० १८. २. १)सुज्ञाने (ऊ० ११. २. १८)। अयं पूषा रयिर्भगः ( सा० ८१८-२०) इति गौरीवितं (ऊ० २.१.८) च भर्गश् (र० ३. २. १) चासित-( ऊ० ११. २. २० )क्रौञ्चे (ऊ० २. १.९)। वृषा मतीनां पवत (सा० ८२१-३) इति यामम् ( ऊ० २.१.१०) अन्त्यम् ॥ ५ ॥
[ इत्यार्भवः पवमानः॥]
गौरीवित-(ऊ० २. १. ८)मेकस्याम् । क्रौञ्चं (ऊ० २. १.९) च त्रयाणामुत्तमम् ॥ ५ ॥
यज्ञायज्ञीय-(ऊ० १.१.१४)मग्निष्टोमसाम ॥६॥
स्वान्युक्थानि ॥७॥
द्वैतीयकानि । सर्वमष्टाविंशम् ॥ ७ ॥
इति तृतीयः खण्डः ॥३॥

चतुर्थः खण्डः
तृतीयमहराह--
दविद्युतत्या रुचा ( सा० ६५४-६ ) एते असृग्रमिन्दवो (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) एष धिया यात्यण्व्या (सा० १२६६-७३) अपघ्नन् पवते मृधे ( सा० १२१३-५) इषे पवस्व धारया (सा० ८४१-३) ॥ १ ॥
इति बहिष्पवमानम् ॥
अग्निनाग्निः समिध्यते (सा० ८४४-५५) इत्याज्यानि ॥ २ ॥ उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २.१.३ ) च सौमित्रं (ऊ० २०. १.६) चैटतं (ऊ० २०. १. ७) चाभि सोमास आयव (सा० ८५६-८) इति पौरुमद्गं (ऊ० २. १. १४) च गौतमं (ऊ० २.१.१५) चान्तरिक्षं (र० १.१.६) च मैधातिथं (ऊ० ९. ३.६) चाष्कारणिधनं च काण्वम् (ऊ० १८, २. २) तिस्रो वाच ( सा० ८५९-६१) इत्यङ्गिरसां संक्रोशो(ऊ० २.१.१७)न्त्यः । ३ ॥
इति माध्यंदिनः पवमानः ॥
आष्कारणिधन-(ऊ० १८. २. २)मध्यास्यायाम् ॥ ३॥
रयन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५ ) च महावैष्टम्भं (ऊ० २. १. १८) च रौरवं (ऊ० २. १. १७) च ॥ ४ ॥
हति पृष्ठानि ॥
तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं पाष्ठौहम् (ऊ० २. १. २०) ऐडं सैन्धुक्षितम् (ऊ० १५. १. १९) । स्वे उष्णिक्ककुभौ ॥

553
सत्राणि--पुरस्तात्पृष्ठ्यम् [अ. ११, ख. ५]

तार्तिक्यौ ॥
सुतासो मधुमत्तमा (सा० ८७२-४) इति गौरीवितं (ऊ० २. २. ३) च त्रीणि च त्वाष्ट्रीसामान्यैडं स्वारं त्रिणिधनं (ऊ० १६. १. २, ९.१.१८, २. २. ४)। पवित्रं त (सा. ८७५-७) इत्यरिष्टम् (र० १.१.८) अन्त्यम् ॥
[ इत्यार्भवः पवमानः ॥]
गौरीवितमेकस्याम् ॥ ५ ॥
यज्ञायज्ञीय-(ऊ० १. १. १४)मग्निष्टोमसाम ।।
स्वान्युक्यानि ॥
तार्तिकानि । सर्वमष्टाविंशम् ॥
इति चतुर्थः खण्डः ॥ ४ ॥

पञ्चमः खण्डः
चतुर्थमहराह---
बभ्रवे नु स्वतवसे (सा० १४४४-९) इति षडृचम् । सत्रासाहीयं (ऊ० १५. २. ९) माण्डवं (ऊ० २०. १. १६) मार्गीयवं (ऊ० २०. १. १७) शुद्धाशुद्वीयम् (ऊ० २०.१.१८)। तान्युद्वरति ॥१॥
अथ यदेव पूर्वस्य छन्दोमदशाहस्य चतुर्थमहस्तदेतत् त्रिचक्लृप्तं त्रिंशम् ॥ २॥
इति । पूर्वस्य हि चतुर्थं षट्त्रिंशम् । तत्रास्य त्रिंशत्वसिद्ध्यर्थं बहिष्पवमानात् बभ्रवे नु स्वतवसे (सा० १४४४-९) इति षडृचम् मध्यंदिनात् सत्रासाहीय-(ऊ० १५. २.९)माण्डवे (ऊ० २०. १. १६) आर्भवान्मार्गीयव-(ऊ० २०. १. १७) शुद्धाशुद्धीये ( ऊ० २०. १.१८) एवोद्धरेत् । त्रीण्यावर्तीनि । शेषं समानम् ॥ २॥
क्लृप्तं पञ्चममहर्यथा मध्येपृष्ठ्ये ॥ ३ ॥
षष्ठस्याह्नोऽयावीती परि स्रवे-( सा० १२१०-२ )ति पुरस्तात् पर्यासस्य तृचम् । औक्ष्णोरन्ध्रे (ऊ. ३. २. २-३) अन्तरार्कपुप्पं यच्छन्दस्यम् (ऊ० २०. २.८)। पयश्चतुर्थानि वैदन्वतानि ( ऊ० ३. २. ९-११, र० ४. ३. ११) । गौरीवित-(ऊ० ३. २. १४)मनुष्टुभि ॥ ४ ॥
अथ यदेव पृष्ठ्यस्तोमस्य षष्ठमहस्तदेतत् तृचक्लृप्तम् । षट्त्रिंशम् ॥ ५ ॥
इति । असृक्षत प्र वाजिनः ( सा० १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) पवस्व देववीरति (सा० १०३७-४६) सना च सोम जेषि च (सा० १०४७-५६) तरत्सन्मदी धावति (सा० १०५७-६०) अयावीति परिस्रव ( सा० १२१०-१२) एते सोमा असृक्षते-(सा० १०६१-३)ति बहिष्पवमानम् ॥
 यमग्ने पृत्सु मर्त्य ( सा० १४१५-७) प्रति वां सूर उदिते (सा० १०६७-९) भिन्धि विश्वा अप द्विषो (सा० १०७०-२) यज्ञस्य हि स्थ ऋत्विजे-(सा० १०७३-५)त्याज्यानि ॥
इन्द्रायेन्दो मरुत्वत ( सा० १०७६-८) इति गायत्रं चेषोवृधीयं (ऊ० ३. १. १९) च गायत्री क्रौञ्चं (ऊ० ३.१. २०) च वाजदावर्यश्च (ऊ० ३. २. १) दार्ढच्युतं (१६. १. १३) च । मृज्यमानः सुहस्त्ये-(सा० १०७९-८०)त्यैडं चौक्ष्णोरध्र-(ऊ० ३.२.३)

555
सत्राणि--पुरस्तात्पृष्ठ्यम् [अ. ११, ख. ६]
 
मुत्तरं वार्कपुष्पं (ऊ० २०. २. ८) स्वारमौक्ष्णोरन्ध्रं (ऊ० ३. २. २) वाजजिच्च (ऊ० २. २. ४) वरुणसाम (ऊ० ३.२.५) चाङ्गिरसां गोष्ठो-(ऊ० ३. २. ६)ऽया पवा पवस्वैना वसूनि (सा० ११०४-६) इतीहवद्वासिष्ठ-(ऊ० ८. २. १०)मन्त्यम् ॥
बृहच्च (र० १.१.५) वामदेव्यं (ऊ० १.१. ५) चर्षभश्च रैवत-(र० १.२.८)श्येनश्च (ऊ० २३. १. १८) पृष्ठानि ॥
परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च त्रीणि च वैदन्वतानि (ऊ० ३. २.९-११) पयश्च (र० ४. ३. १) । ससुन्वे यो वसूनां (सा० १०९६-७) तं वस्सखायो मदाये-(सा० १०९८-११००)ति दीर्घ (ऊ० ३. २. १२) कार्णश्रवसं (ऊ० ३. २. १३) च । सोमाः पवन्त इन्दव (सा० ११०१-३) इति गौरीवितं (ऊ० ३. २. १४) च मधुश्चुन्निधनं (ऊ० ३. २. १५) च क्रौञ्चे (ऊ० ३. २. १६-७) वाङ्निधनैडे । ज्योतिर्यज्ञस्ये-(सा. १०३१-३)ति मरुतां धेनु (ऊ० ८. २. ११) अन्त्यम् ॥
यज्ञायज्ञीय-(ऊ १.१.१४)मग्निष्टोमसाम । गूर्दं (ऊ० ३. १. १९) भद्र-(र० १. २. १०)मुद्वंशपुत्र (ऊ० ३.२.२०) इत्युक्थानि । सर्वं षट्त्रिंशम् ॥ ५ ॥
इति पञ्चमः खण्डः ॥५॥

षष्ठः खण्डः
सप्तममहराह---
ये सोमासः परावति (सा० ११६३-५) प्र स्वानासो रथा इवा-(सा० १११९-२७)सृग्रमिन्दवः पथा (सा० ११२८-३०) प्रयद्गावो न भूर्णयः (सा० ८९२-७) आशुरर्ष बृहन्मते (सा० ८९८-९०) यवं यवं नो अन्धसा ( सा० ९७५.८) आ तं दक्षं मयोभुवम् (सा० ११३७-९) ॥१॥
इति बहिष्पवमानम् ॥
ऋतावनं वैश्वानरम् (सा० १२०८-१०) होतुराज्यम् । स्वान्युत्तराणि ॥२॥ साप्तमिकानि ॥२॥
स्वा गायत्री । तस्यां (सा० ८०३-५) गौषूक्तशाकले (ऊ० २०.२.९-१०)॥
वृषा पवस्व धारये-( सा० ८०३-५)ति गायत्रं च संतनि (ऊ० ४. १. १) चैडं सौपर्णं (ऊ० ४.१.२) रोहितकूलीयं (ऊ. ४. १.३) च गोषूक्तं (ऊ० २०. २. ९) च शाकलं (ऊ० २०. २. १०) च ॥
पुनानः सोम धारये-( सा० ६७५-६ )ति सोमसाम (ऊ० १६. २. १६) च कण्वरथन्तरं (ऊ० ४.१.४) च पौरुमद्गं (ऊ. १७.१.१०) च गौतमं (ऊ० २०. २.११) च वाशं (ऊ० १८. २. ३) च गौङ्गवं (ऊ० ४.१. ५) च द्विनिधनं चायास्यं (ऊ० ४. १.६) प्र काव्यमुशनेव ब्रुवाण (सा० १११-८) इति वाराहम् (ऊ० १६.२.१९) अन्त्यम् ॥ ३ ॥
[इति माध्यंदिनः पवमानः ॥]
सोमसामै-(ऊ० १६. २. १६)कस्याम् ॥३॥
स्वानि पृष्ठानि । ४॥

557
सत्राणि--पुरस्तात्पृष्ठ्यम् [अ. ११, ख.६]

साप्तमिकानि ॥
यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं चाग्नेश्चार्को(र० १.३.१) जराबोधीयं (ऊ० ६. २. ७) च दक्षणिधनं (ऊ. ४. १. १०) च । स्वे उष्णिक्ककुभौ ॥ साप्तमिक्यौ ॥
पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितं (ऊ. ४. १. १३) च कार्तयशं (ऊ० ४. १. १४) च त्वाष्ट्री सामनी स्वारं चाकारणिधनं (ऊ० २०. २. १२-१३) चात्रेयं (ऊ० १७. १. १७) च गौतमं (ऊ० १७. १.४) च द्विपदासु सौहविषम् (ऊ० ४.१.१५)। प्रो अयासीद् (सा० ११५२-४) इत्यैडं यज्ञसारथि (ऊ० १७.१. ५) अन्त्यम् ॥ ५ ॥
[ इत्यार्भवः पवमानः ॥]
गौरीवित-(ऊ० ४. १. १३)मेकस्याम् । स्वारं त्वाष्ट्रीसाम (ऊo १५. २. १२) द्वयोरुत्तरम् । पञ्चमे सप्तमे वाह्नि छन्दोमदशाहस्ये-(उ० ग्र० सू० )त्युपग्रन्थवचनात् ॥ ५ ॥
यज्ञायज्ञोय-(ऊ० १.१.१४)मग्निष्टोमसाम ।
स्वान्युक्थानि ॥६॥
साप्तमिकानि । सर्वं चत्वारिंशम् ॥ ६॥
अष्टमनवमे हि कल्पयति--
अथ य एव छन्दोमवतो दशरात्रस्य चतुश्चत्वारिंशाष्टचत्वारिंशे अहनी ते एते । उभयोर्गौरीवित-( ऊ० ३.१.१४ )मनुष्टुभि ॥७॥
इति दशममहराह --
अथ यदेव पूर्वस्य छन्दोमदशाहस्य दशममहस्तदत्र दशमम् ॥
इति ॥७॥
महाव्रतं चातिरात्रश्च ८॥
इति । अङ्गिरसामयनं समाप्तम् ८ ॥
इति षष्ठः खण्डः ॥६॥

सप्तमः खण्डः
दृतिवातवतोरयनम्
अतिरात्रस्त्रिबृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासं महाव्रतं त्रयस्त्रिंशेन मासं त्रिणवेन मासमेकविँशेन मासँसप्तदशेन मासं पञ्चदशेन मासं त्रिवृता मासमतिरात्रः (तां. ब्रा० २५. ३.१) इति दृतिवातवतोरयनमुक्तम् ।
विधृतिभिः क्लृप्तं दृतिवातवतोरयनमा त्रिणवेभ्यः ॥१॥
तत्र विशेषमाह
त्रिवृद्भ्य उद्धरत्युक्थानि। पञ्चदशेभ्यः षोडशिनम् । सप्तदशेभ्यो वार्कजम्भोद्वँशीये । एकविँशेभ्योऽर्कानुत्सेधनिषेधौ उद्वँशीयन्तानि । उद्धरति चतुर्थं तृचम् ॥२॥

559
सत्राणि--पुरस्तात्पृष्ठ्यम् [अ. ११, ख. ७]

इति । त्रिवृतः सर्वेऽग्निष्टोमाः । पञ्चदश उक्थ्याः । नात्र दशमे षोडशी। सप्तदशानां प्रथमेऽहनि वार्कजम्भम् । द्वादशेऽहन्याष्टादंष्ट्रमेवोकथ्यान्तम् । नोद्वंशीयम् । एकविंशानां नवमेऽहनि संहितमेव । दशमेऽहनि मौक्षमेव । न स्वाशिरामर्कः । एकादशेऽहनि कावमेव । न दीर्घतमसोऽर्कः । द्वादशेऽहनि आयास्ययोर्मध्ये दैर्घश्रवसम् । नोत्सेधनिषेधयोः । तस्यैवाह्न आष्टादंष्ट्रमित्युक्थानि । नोद्वंशीयान्तानि । तत्र सर्वे मासा राथन्तरबार्हताभ्यां व्यत्यासाः कार्याः ॥ २॥ त्रिणवे मासे प्रथममहराह--
प्र स्वानासो रथा इवे-(सा० १११९-२७)ति पुरस्तात् पर्यासत्य नवर्चमामहीयवादुत्तरं जराबोधीयम् ( ऊ० ११. १. १४ ) । रौरवयोधाजयाभ्यां पूर्वे । द्विहिंकारमैधातिथे गौरीवितादुत्तरे । शुद्धाशुद्धीयश्यावाश्वे । समानमितरम् एतेस्यैव राथन्तरेणैकविंशेन ॥३॥
इति । बहिप्पवमाने यश्चतुर्थतृचो राजा भेधाभिरीयते (सा० ८३३-) इति तस्योद्धारः । रौरवयौधाजयाभ्यामिति द्वयोरुपादानं तयोर्नैरन्तर्यप्रतिपादानार्थम् । एकविंशे हि तयोर्मध्ये मैधातिथं विहितम् । इह तु द्वे अपि ते निरन्तरे कृत्वा ताभ्यां द्विहिंकारमैधातिथे कार्ये इत्यर्थः। तयोः क्लृप्तिः--उपास्मै गायता नरो-दविद्युतत्या रुचा (सा० ६५१-६) एते असृग्रमिन्दवो (सा० ८३०-२) बभ्रवे नु स्वतवसे (सा० १४४४-९) प्र स्वानासो रथा इव (सा० १११९) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥ ३॥
अग्न आ याहि वीतय (सा० ६६०-७१) इत्याज्यानि ॥ ४ ॥
उच्चा ते जातमन्धस (सा० ६७२-४ ) इति गायत्रं चामहीयवं (ऊ० १.१.१) च जराबोधीयं (ऊ. ११. १. १४) चाशुभार्गवम् (ऊ. १९. १. ११)। पुनानः सोम धारये-(सा. ६७५-६)ति द्विहिंकारं (ऊ. २०.२.१५) च मैधातिथं च (ऊ० १३. १. ७) रौरवं (ऊ० १.१.२) च यौधाजयं (ऊ० १. १. ३) चौशन-(ऊ० १. १. ४)मन्त्यम् ॥
रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १.१.५) च नौधसं (ऊ० १.१.६) च कालेय-( ऊ० १. १. ७)मिति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१)ति गायत्रसंहिते (ऊ. १. १.८)। पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सफपौष्कले (ऊ० १.१.१-१०)। पुरोजिती वो अन्धस (सा० ६९७-९)
इति गौरीवितं (ऊ० ४.१.१३) च शुद्धाशुद्धीयं (ऊ० २०.१.१८) च श्यावाश्वा-(ऊ० १.१.११)न्धीगवे (ऊ० १.१.१२) काव-(ऊ० १.१.१३)मन्त्यम् ॥
यज्ञायज्ञीय-( ऊ० १.१.१४ ) मग्निष्टोमसाम । प्रमंहिष्ठीयं (ऊ० २. २. ५) हारिवर्णं (ऊ० २.२.६) तैरश्च्य (ऊ० २.२.७)मित्युक्थानि । सर्वं त्रिणवम् ॥४॥
द्वितीयमहराह--
आशुरर्ष बृहन्मते (सा० ८९८-९०३) इति पुरस्तात् पर्यासस्य षडृचम् । हाविष्मतादुत्तरमाजिगम् । आयास्याभ्यां पूर्वे समन्तदैर्घश्रवसे । गौरीवितादुत्तरे मधुश्चुन्निधनासिते । समानमितरम् एतस्यैव बार्हतेनैकविंशेन ॥५॥
इति। अत्राजिगमायस्याभ्यामिति नैरन्तर्येण निर्देशात् तयोर्मध्ये दैर्घश्रवसमुद्धृत्य ताभ्यां पूर्वे समन्तदैर्घश्रवसे कार्ये । तत्रैवं

561
सत्राणि--दृतिवातवतोरयनम् [अ. ११, ख. ७]

क्लृप्तिः-- पवस्व वाचः-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि -(सा० ७७५-८६) प्रयद्गावो न भूर्णयः ( सा० ८९२-७) अशुरर्ष बृहन्मते (सा० ८९८-९०३) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्निं दूतं वृणीमहे (सा० ७९०-३) इत्याज्यानि ॥
वृषा पवस्त्र धारये-(सा० ८०३-५)ति गायत्रं च हाविष्मतं (ऊ० ७.१.१) चाजिगं (ऊ० ११. २. १४) च सौपर्णं (ऊ. ११. २.१५ ) च । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६.२.२) च दैर्घश्रवसं (ऊ० ११. २. १६) चायास्ये (ऊ० १. २. २०, २.१.१)। वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७. १. ५)मन्त्यम् ।
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं (ऊ० १.१.६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ॥
 यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रमौक्षे (ऊ. ४.१.१०)। त्वं ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देववीतये (सा० १३२६-८) इति सत्रासाहीयश्रुध्ये (ऊ० १९. १. १३-४) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितं (ऊ० २.१.८) च मधुश्चुन्निधनं (ऊ० २०. २. १८) चासितं (ऊ० १२.२.२०) च क्रौञ्चं (ऊ० २. १.९) च । वृषा मतीनां पवत (सा० ८२१.३) इति याम-(ऊ० २. १. १०)मन्त्यम् ॥ . यज्ञायज्ञीय-(ऊ० १. १. १४)मग्निष्टोमसाम । साकमश्वं (ऊ. १.१.१५) सौभर-(ऊ० १.१.६)माष्टादंष्ट्र-( ऊ० २.१.१२) मित्युक्थानि । सर्वं त्रिणवम् ॥
एताभ्यामेव विपर्यासं मासम् ॥ ५ ॥
इति । उक्ताभ्यां राथन्तरबार्हताभ्यां त्रिणवाभ्यां व्यत्यस्ताभ्यां मासं पूरयेदित्यर्थः ॥ त्रयस्त्रिंशं मासमाह--
आहरति चतुर्थं तृचम् । उभौ पर्यासौ । आशुभार्गवा-(ऊ० १९. १. ११)दुत्तरं मार्गीयवम् (ऊ. २०. २. १४) द्वैगतं (ऊ० २०. २. १६) मध्ये बार्हतानाम् । संहिता-(ऊ० १.१.८)दुत्तरे काक्षीवतभासे (ऊ० १८. १. १५-६) ।
समानमितरमेतस्यैव राथन्तरेण त्रिणवेन ॥६॥
इति । उपास्मै गायता नरो-दविद्युतत्या रुचा: -(सा० ६५१-६) एते
असृग्रमिन्दवो (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-४) बभ्रवे न स्वतवसे (सा० १४४४-९) प्र स्वानासो रथा इव (सा० १११९-२७) पवमानस्य ते कवे (सा०६५७-९) इति बहिष्पवमानम् ॥
अग्न आयाहि वीतय (सा०६६०-७१) इत्याज्यानि ॥
उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं ( ऊ० १.१.१) च जराबोधीयं (ऊ० ११.१.१४) चाशुभार्गवं (ऊ० १९. १. ११) मार्गीयवं (ऊ० २०. २. १४) च। पुनानः सोम धारये-(सा० ६७५-६)ति द्विहिंकारं (ऊ० २०. २. १५) च
मैधातिथं (ऊ० १३. १. ७) च द्वैगतं (ऊ० २०. २. १६) च रौरवं (ऊ० १. १. २) च यौधाजयं (ऊ० १.१.३) चौशन-(ऊ० १. १. ४)मन्त्यम् इति माध्यंदिनः ॥
स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१)ति गायत्रसंहिते (ऊ० १. १.८). काक्षीवतं (ऊ० १८. १. १५) च भासं (ऊ० १८.

563
सत्राणि--दृतिवातवतोरयनम् [अ. ११, ख.७]

१.१६) चेत्यार्भवी गायत्री । इतरत् सर्वमस्यैव राथन्तरेण त्रिणवेन समम् । सर्वं त्रयस्त्रिंशम् । इत्येकमहः ॥ ६॥
अथापरम्--
अपघ्नन् पवते मृधो-(सा० १२१३-५)ऽया पवस्व धारये-(सा० १२१६-८)ति पुरस्तात् पर्यासस्य तृचे । स्वारात् सौपर्णा (ऊ. ११.२.१५)दुत्तरं हरिश्रीनिधन-(ऊ० २०. १.१)मर्कपुष्पं (ऊ. २०. २. १७) मध्ये बार्हतानाम् । मौक्षा-( ऊ० ५.१. १७ )दुत्तरे शाम्मदं (ऊ० २०.१.२) च दावसुनिधनं (ऊ० २०.१.३) च ॥ समानमितरमेतस्यैव बार्हतेन त्रिणवेन ॥७॥
इति । पवस्व वाचः-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि (सा० ७७५-८६) प्रयद्गावो न भूर्णयः ( सा० ८९२-९६) आशुरर्ष बृहन्मते (सा० ८९७-९०३) अपघ्नन् पवते मृधो-(सा० १२१३-५)ऽया पवस्व धारया-(सा० १२१६-८) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्नि दूतं वृणीमहे (सा० ७९०-२) इत्याज्यानि ॥
वृषा पवस्व धारये-( सा० ८०३-५ )ति गायत्रं च हाविष्मतं (ऊ० ७.१.१) चाजिगं (ऊ० ११. २. १४) च स्वारं च सौपर्णं (ऊ० ११. २. १५) हरिश्रीनिधनं (ऊ० २०. १. १) च । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६.२.२) च दैर्घश्रवसं (ऊ० ११. २. १६) चार्कपुष्पं (र० २०. २. १७) चायास्ये (ऊ० १. २. २० । २.१. १) वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७. १.६)मन्त्यमिति माध्यंदिनः ॥
यस्ते मदो वरेण्य (ऊ० ८१५-७) इति गायत्रमौक्षे (ऊ० ४. १.१०) शाम्मदं (ऊ० २०. १. २) च दावसुनिधनं (ऊ० २०. १.३) चेति आर्भवीया गायत्री । समानमितरमेतस्यैव बार्हतेन त्रिणवेन। सर्वं त्रयस्त्रिंशम् ॥७॥
एताभ्यामेव विपर्यासम् एकोनत्रिंशतमहानि ॥ ८ ॥
इति षण्मासा उक्ताः ॥८॥
महाव्रतं विषुवान् ॥ ९॥
विषुवत्स्थाने महाव्रतमित्यर्थः ॥९॥
अथैत एव मासा आवृत्ताः। तैरावृत्तैरुत्तरान् षण्मासांस्तेषामेकान्नत्रिंशी प्रथमः ॥ १०॥
इति । एकान्नत्रिंशदहानि परिमाणमस्येत्येकान्नत्रिंशी मासः । शच्शनोर्डिनिः (पा० वा० ५. २. ३७ ) इति डिनिः प्रत्ययः। अत्र षष्ठसप्तमयोर्मासयोरेकान्नत्रिंशत्कथनमतिरात्र्याभ्यां सह सांवत्सरिक्यं मा भूदिति । सूत्रे तु तयोरपि त्रिंशत्वं विकल्पेनोक्तम् । दृतिवातवतोरयने द्वावेकोनौ मासौ सुनुयुः त्रिवृताविति गौतमस्त्रयस्त्रिंशाविति धानंजय्यः उभौ वा त्रिंशिनौ स्यातां यथैतत् ब्राह्मणम् (ला०श्रौ०सू० १०.१०. ७-९) इति ॥ १० ॥
इति दृतिवातवतोरयनं समाप्तम् ।।

 
कुण्डपायिनामयनम्
मासं दीक्षिता भवन्ति । ते मासि सोमं क्रीणन्ति । तेषां _द्वादशोपसदः उपसद्भिश्चरित्वा सोममुपनह्य मासमग्निहोत्रं जुह्वति । मासं दर्शपूर्णाभ्यां यजन्ते । मासं वैश्वदेवेन । मासं वरुणप्रघासैः ।

565
सत्राणि--कुण्डपायिनामयनम् [अ. ११, ख. ७]

मासं साकमेधैः । मासं शुनासीर्येण त्रिवृता। मासं पञ्चदशेन । मासं सप्तदशेन । मासमेकविंशेन। मासं त्रिणवेन । मासमष्टादशत्रयस्त्रिंशान्यहानि द्वादशाहस्य दशाहानि । महाव्रतं चातिरात्रश्च-(तां० ब्रा० २५. ४. १) इति कुण्डपायिनामयनम् । अग्निहोत्रादिमासाः षट् । सुत्यामासाः षडिति संवत्सरसत्रमिदम् । पौर्णमासीप्रभृतयो दीक्षाः ।। कौण्डपायिनस्येत्यादि सूत्रम् । तस्योपसद्भ्योऽनन्तरमुपवसथं कर्म कृत्वातिरात्रमुपेयुः। सत्रान्तरेषु तथा दर्शनादिति शाण्डिल्यमतम् । तत्र च द्वादशाहवत् सुब्रह्मण्या कर्तव्या । अग्निहोत्रमासादिष्वपि प्रत्यहमहराद्यन्तयोः सुब्रह्मण्याह्वानं कर्तव्यम् । कौण्डपायिनसारस्वतयोरिष्ट्ययनेषु सुत्यावच्छाण्डिल्यस्तथाग्निहोत्रमास (ला०श्रौ० १. ४. २६-२७) 10 इति वचनात् । तत्र च द्वादशाहपर्यन्तेषु अहस्सु सुत्यामागच्छेत्येव सुत्यादेशः। न त्वेतावदहे सुत्यामिति । तत ऊर्ध्वं द्वादशाहवत् । तदुक्तं--कौण्डपायिनतापश्चितयोर्द्वादशाहे सुत्येति विदित्वा परिमाणाह्वानं धानंजय्यः सुत्यामागच्छेतांतराः (ला० श्रौ० सू० १.४.२३-४) इति । सुत्यानां तु पुरस्तादुपवसथं कर्म कृत्वा स्यादतिरात्रश्चैवं चान्यदर्शनादिति गौतममतम् । तत्र शौनासीर्याष्टादशपर्यन्ताः सर्वा एव सुब्रह्मण्याः सुत्यामागच्छेति वै कर्तव्याः। ब्राह्मणेऽनुक्तत्वादतिरात्रो न स्यादिति धानंजय्यमतम् । अन्यत्तु सूत्रे एवावधार्यताम् ॥१॥
स्तोत्रक्लृप्तिमाह --
दृतिवातवतोरयनेन क्लृप्तम् । कुण्डपायिनामयनमा दशरात्रात् ॥१॥
इति। त्रिवृता मासं पञ्चदशेन । मासं सप्तदशेन । मासमेकविंशेन । मासं त्रिणवेन । मासमष्टादशत्रयस्त्रिंशान्यहानीत्यन्तं क्लृप्तम् ॥ १ ॥
प्रज्ञातो दशरात्रः ॥२॥
द्वादशाहीयः ॥ २॥
प्रज्ञातं व्रतम् ॥३॥
सांवत्सरिकम् ॥३॥
प्रज्ञातोऽतिरात्रः ॥४॥
ज्योतिष्टोमेन ॥४॥
इति कुण्डपायिनामयनं समाप्तम् ।।
-
तपश्चितामयनम्
सवत्सरं दीक्षिता भवन्ति । संवत्सरमुपसद्भिश्चरन्ति । संवत्सरं प्रसूतो भवति (तां० ब्रा० २५. ५. १) इत्यनुवाकेन तपश्चितामयनमुक्तम् । अत्रापि व्यूढवत् संवत्सरस्यान्त्येषु द्वादशसूपसद्दिवसेषु सुब्रह्मण्यायाः परिमाणाह्वानं सुत्यामागच्छेतीतराः । अतिरात्रः स्याद्वा न वेति पूर्ववद्विकल्पः ॥
गवामयनेन क्लृप्तं तपश्चितामयनं ज्योतिष्टोमेन वाविक्लृप्तेन । १ ॥
इति । अत्राविक्लृप्तेनेति गौरीवितस्वरनिवृत्त्यर्थम् । तथा च सूत्रोक्तान् तापश्चितामयनविचारानधिकृत्य निदानम्-- तेषां
यान्येकाहैर्वर्तन्तेऽगौरीवितानि तानि । यानि नानाहोभिः सगौरीवितानि तानि । नानाहःसंतानार्थं गौरीवित-(नि० सू० १०. ८)मिति । संवत्सरसत्राणि षडुक्तानि ॥१॥
इति तपश्चितामयनं समाप्तम् ।।

567
सत्राणि--अग्नेः सहस्रसाव्यम् [अ. ११, ख. ७]

द्वादशसंवत्सरं, षट्त्रिंशत्संवत्सरं शतसंवत्सरम्
त्रयस्त्रिवृतः संवत्सरास्त्रयः सप्तदशास्त्रयः एकविंशाः (तां० ब्रा० २५. ६) इत्यनुवाकेन प्रजापतेर्वा्तशसंवत्सरमुक्तम् । नव त्रिवृतः संवत्सरा: नव पञ्चदशाः नवैकविंशा (तां० ब्रा० २५. ७) इति शाक्त्यानां षट्त्रिंशत्संवत्सरम् । पञ्चविंशतिस्त्रिवृतः संवत्तराः 5 पञ्चविंशतिः पञ्चदशाः पञ्चविंशतिः सप्तदशाः पञ्चविंशतेरेकविंशाः (तां० ब्रा० २५. ८) इति साध्यानां शतसंवत्सरम् ॥
दृतिवातवतोरयनेन क्लृप्तं प्रजापतेर्द्वादशसंवत्सरं षट्त्रिंशत्संवत्सरं शतसंवत्सरम् ॥ १॥
तत्राग्निष्टोमास्त्रिवृत उक्थ्याः । पञ्चदशादयः अतिरात्रविषूवतश्वावचनान्न स्युरिति शाण्डिल्यमतम् । इतरत्सत्रन्यायेनातिरात्रावभितः स्याताम् । मध्ये विषूवान् । बृहत्पृष्ठो रथन्तरमध्यंदिनः । तस्य च पौर्वपक्षिकः पञ्चदशस्तोमः औत्तरपक्षिकः सप्तदशश्च व्यत्यासं स्यातामिति धानंजय्यमतम् । विकल्पान्तराणि तु सूत्र एव द्रष्टव्यानि ॥ १॥
इति द्वादशसंवत्सर-षट्त्रिंशत्संवत्सर-शतसंवत्सराणि समाप्तानि ।।

अग्नेः सहस्रसाव्यम्
अतिरात्रः सहस्रमहान्यतिरात्रः (तां० ब्रा० २५.९) इत्यनुवाकेन सहस्रसाव्यमुक्तम् ॥
ज्योतिष्टोमेनाविक्लृप्तेन क्लृप्तमग्नेः सहस्रसाव्यम् गौरीवितस्वरेण वा ॥१॥
अत्र सूत्रम् -- सहस्रसाव्ये सहातिरात्राभ्यां सहस्रमहानीत्याचार्याः सहस्रसाव्यम् इति ह्याहान्तरेणेति शौचिवृक्षिः सहस्रमहानीत्यन्तरेणातिरात्रावाहे-(ला० श्रौ० सू० १०.१४. ११-१२)ति ॥ १॥
इत्यग्नेः सहस्रसाव्यं समाप्तम् ।।
इति सप्तमः खण्डः ॥

अष्टमः खण्डः
प्रथमं (मित्रावरुणयोः) सारस्वतमयनम्
सरस्वत्या विनशने दीक्षन्ते (तां० ब्रा० २५.१०.१) इत्यनुवाकेन प्रथमं सारस्वतमुक्तम् । तस्य सूत्रम्--दक्षिणे तीरे सरस्वत्या विनशनस्य दीक्षेरन् सारस्वताये-(ला० श्रौ० सू० १०, १५.१)ति ।।
प्रथमस्य सारस्वतस्य षोडशिमन्तावतिरात्रौ ॥ १ ॥
इति । द्विवचनं वक्ष्यमाणोदयनीयातिरात्राभिप्रायम् ॥
अनुब्राह्मणं क्लृप्तमिष्ट्ययनम् ॥
इति । संस्थितेऽतिरात्रे सान्नाय्येन यजन्ते (तां० बा० २५. १०.३) इत्युक्तत्वात् ते तमापूर्यमाणममावास्येन यन्ति । तेषां पौर्णमास्यां गोष्टोमस्तोमो भवति । उक्थ्यो बृहत्सामा । संस्थिते गोष्टोमे पौर्णमासं निर्वपन्ते । ते तम् अपक्षीयमाणं पौर्णमासेन यान्ति । तेषाममावास्यायाम्

569
सत्राणि--प्रथमं सारस्वतमयनम् [अ. ११, ख.८]

आयुष्टोमस्तोमो भवति । उक्थ्यो रथन्तरसामा (तां० ब्रा० २५.१०. ६-८) इति ब्राह्मणेन पूर्वपक्षापरपक्षयोर्यथाक्रमं दर्शपूर्णमासाभ्यामयनं क्लृप्तम् । ततः पूर्णमासामावास्याभ्यां यथाक्रमं गोआयुषी विहिते ॥२॥
तयोः क्लृप्तिमाह--
ऐकाहिके गोआयुषी अविक्लृप्ते ॥३॥
इति । अथ सत्रस्योत्थाने चत्वारि पर्वाणि श्रूयन्ते । शतं गावः सहस्रं संपेदुः । शते गोषु ऋषभमप्यृजन्ति । ता यदा सहस्रं संपद्यन्तेऽथोत्थानम् । यदा सर्वज्यानिं जीयन्तेऽथोत्थानं यदा गृहपतिर्म्रियतेऽथोत्थानम् । यदा प्लक्षं प्रस्रवणमागच्छन्त्यथोत्थानम् (तां० ब्रा० २५. १०. १८-२१) इति ॥
तत्र श्रुतोऽप्युदयनीयातिरात्रः सत्रन्यायेन कर्तव्य इत्यभिप्रायात् आह--
अतिरात्रादुत्थानम् ॥ ४ ॥ इति । अतिरात्रश्चायं चतुप्पदमपि सर्वासु विशेषाश्रवणात् प्रायणीयातिरात्र एव । सूत्रे तु प्रतिपर्वमन्येऽतिरात्र इत्ययमपि पक्ष उक्तः। स तु तत्रैव द्रष्टव्यः ॥
अपृष्ठशमनीयमेतत् सत्रम् । अग्नये कामायेष्टिः पृष्ठशमनार्थे नैव भवतीति अत्र प्रायणीया सुत्यामागच्छेतीतराः। ऊर्ध्वं चातिरात्रात् यावत् सुब्रह्मण्याह्वानं द्वादशाहवत् तत ऊर्ध्वमिष्टित्या(? त्वा)दहराद्यन्तयोः सुब्रह्मण्याह्वानम् । तत्र सुत्यायाः प्राक् सुत्यामागच्छेत्येव सुत्यादेशः । तदुक्तम्--कौण्डपायिनसारस्वतयोरिष्ट्ययनेषु सुत्यावच्छाण्डिल्य इति । सुत्यामागच्छेतीतराः। ऊर्ध्वं चातिरात्रात् प्रथमस्य सारस्वतस्य प्राक् श्वःसुत्याया इति च ॥ ४ ॥
इति (मित्रावरुणयोः) प्रथमं सारस्वतमयनं समाप्तम् ।।

द्वितीयं (इन्द्राग्न्योः) सारस्वतमयनम्
अतिरात्रस्त्रिवृत्पञ्चदशमिन्द्राग्न्योरयनं गोआयुषी इन्द्रकुक्षी अतिरात्रः (तां० ब्रा० २५. ११. १) इति द्वितीयं सारस्वतमुक्तम् । तस्य सूत्रम्-एतेनैवोत्तरे व्याख्याताः (ला० श्री० ७. ४. १) इत्यादि । अत्र कल्पः --
द्वितीयस्य सारस्वतस्य षोडशिमन्तावतिरात्रौ । दृतिवातवतोरयनेन क्लृप्ते त्रिवृत्पच्चदशे । अग्निष्टोमस्त्रिवृदुक्थ्यं पञ्चदशं रथन्तरं त्रिवृद् बार्हतं पञ्चदशम् । ऐकाहिके गोआयुषी गौरीवितस्वरे ॥ १॥
इति । पूर्वत्र दर्शपूर्णमासाभ्यामिवात्र यथोक्ताभ्यां त्रिवृत्पञ्चदशाभ्यामहोभ्यां पक्षद्वयमपि व्यत्यासम् । न तु पूर्वपक्षे। त्रिवृतापरपक्षे पञ्चदशेनेति । तदुक्तम्--सर्वत्र त्वेव त्रिवृत्पञ्चदशे व्यत्यासं स्याता-(ला० श्रौ० सू० १०.१८. ७)मिति । पर्वणोस्तु गोआयुषी

571
सत्राणि--द्वितीयं सारस्वतमयनम् [अ. ११, ख.८]

पूर्ववत् । उक्तं च पर्वणोरिन्द्रकुक्षी (ला० श्रौ० सू० १०.१८.४ ) इति । अत्र च त्रिवृत्पञ्चदशाभ्यामुक्तेन प्रकारेणायने क्रियमाणे तिथिवृद्धिक्षयाभावे चतुर्दश्यां पञ्चदशमहरुपेतं भवतीत्यनुपेतेन त्रिवृतैवोत्तरः पक्षः उपक्रम्यते । वृद्धिक्षयसद्भावे चतुर्दश्यां त्रिवृदहरुपेतमित्यनुपेतेन पञ्चदशेन उत्तरः पक्षः उपक्रम्यते । तदुक्तम्-य एतयोर्यस्मिन्ननुपते पर्वागच्छेत्तेनोत्तरं पक्षमुपक्रमतेति ॥१॥ अत्र चोदयति ---
अतिरात्राद्रथन्तराद् राथन्तरं त्रिवृदहरुपयन्ति ॥२॥
इति। ततश्च जामिप्रसङ्ग इति शेषः ॥ २ ॥
परिहरति--
राथन्तरस्याह्नः प्रत्नवती बृहती तेनाजामि ॥ ३ ॥
इति । त्रिवृतो हि राथन्तरस्याह्नः पुनान: सोम धारयति बृहती । तत्र च प्रत्नं सधस्थमासद् इति प्रत्नशब्दो विद्यत इत्यजामित्वं सिद्धमित्यर्थः ॥३॥
अथ तिथेर्वृद्धिक्षयभावेन पूर्वपक्षे चतुर्दश्यां पञ्चदशं बार्हतमहरुपेयते पौर्णमास्यां च बार्हतो गोष्टोमः । तदा तयोः संनिपातो जामीत्यत आह --
यत्र बार्हतादह्नो गामुपयन्ति गोर्यथा यमातिरात्रास्वेवं बृहती ॥४॥
इति । यमातिरात्रासु गोष्टोमस्य दैर्घश्रवसस्य लोके कण्वरथन्तरं बार्हदुक्थस्य दैर्घश्रवसमिति ह्युक्तम् । यदा तु वृद्धिक्षयसद्भावेन चतुर्दश्यां त्रिवृदहरुपयन्ति तदा पौर्णमास्यामुपेतात् बार्हतात् गोष्टोमात् परमपरपक्षप्रतिपदिति बार्हतं पञ्चदशमुपयन्तीति जामित्वं स्यात्तत् परिहरति--
यत्र गौर्बार्हतमहरुपयन्ति बार्हतस्याह्नः पुनानः सोमधारये-(सा० ६७५-६)ति ऐडमायास्यमेकस्याम् (ऊ० १. २. २०) कण्वरथन्तरमेकस्याम् (ऊ० ६.२.४) दैर्घश्रवसमेककस्याम् (ऊ० ६. २. ४) त्रिणिधनमायास्यं तिसृषु (ऊ० २.१.२)॥ ५ ॥
इति ॥
अय यदापरपक्षे मते(तिथे?)र्वृद्धिक्षयाभ्यां चतुर्दश्यां रथन्तरं त्रिवृदुपयन्ति अमावास्यायां च राथन्तरमायुष्टोमं तदा जामि स्यात् इत्यत्यत आह--
यत्र राथन्तरादह्न आयुरुपयन्ति आयुषो यथा यमातिरात्रास्वेवं
बृद्धती ॥ ६॥
इति । यमातिरात्रास्विति ह्युक्तम् । आयुष्टोमस्य मैधातिथस्य लोके बृहन्निधनं वार्कजम्भं रौरवस्य मेधातिथमिति ॥ ६ ॥
यदा तु वृद्धिक्षयाभवाच्चतुर्दश्यां पञ्चदशमेवोपेयतेऽस्यामावास्यायामुपेताद्रथन्तरादायुषः परं पूर्वपक्षप्रतिपदि रायन्तरं त्रिवृदेवोपेयते इति जामि स्यात्तत्राह--
यत्रायुषो राथन्तरमहरुपयन्ति रथन्तरस्याह्नः प्रत्नवती बृहती तेनाजामि ॥७॥
इति । गतार्थमेतत् ॥ ७ ॥

573
सत्राणि--तृतीयं सारस्वतमयनम् [अ. ११, ख. ८]

अत्रापि पूर्ववदुत्थानमतिरात्रादनन्तरं कार्यमित्याह--
अतिरात्रादुत्थानम् ॥ ८॥
इति ॥८॥
इति द्वितीयम् (इन्द्राग्न्योः ) सारस्वतमयनं समाप्तम् ।।

तृतीयं (अर्यम्णः) सारस्वतमयनम्
अतिरात्रो ज्योतिरायुस्त्र्यहो विश्वजिदभिताविन्द्रकुक्षी अतिरात्रः (तां० ब्रा० २५. १२.१) इति तृतीयं सारस्वतमुक्तम् ।।
तृतीयस्य सारस्वतस्य षोडशिमन्तावतिरात्रौ । ऐकाहिकास्त्रिकद्रुका
विश्वजिदभिजितौ च गौरीवितस्वराः ॥ १ ॥
इति । विश्वजिदभिजितौ च ऐकाहिकौ गौरीवितस्वरा ज्योतिरादयः । अत्र त्रिकद्रुका दर्शपूर्णमासस्थानीयाः। पौर्णमास्यामभिजिदमावास्यायां विश्वजित् । उक्तं हि--पर्वणोरिन्द्रकुक्षी (ला० श्रौ० १०.१८.४) इति । पौर्णमास्यामभिजिदतिरात्रविकाराणामभ्यासेनायने क्रियमाणे तेषां मध्ये यस्मिन्ननुपेते पर्वागच्छेत्तेनोत्तरं पक्षमुपक्रमेत । तदुक्तम्--एतेनोक्तमुत्तरस्य त्रिकद्रुकेष्वि-(ला० श्रौ० १०.१८.६)ति ॥१।
तत्र सह वसतो जामिप्रसङ्गात् क्रमेण परिहरति--
अतिरात्राद्राथन्तराद्राथन्तरं ज्योतिरुपयन्ति ज्योतिषः प्रत्नवती बृहती तेनाजामि ॥२॥ इति । पष्ठमेतत् यत्र त्वायुषो राथन्तराद्राथन्तरं ज्योतिरुपयन्ति तदा जामित्वं पूर्वमेव परिहृतम् । यत्रायुषो राथन्तर उपयन्ति ज्योतिषः प्रत्नवती बृहती तेनाजामीति ॥ २ ॥
अथ यदा तिथेः साम्यं तदा चतुर्दश्यां गौर्भवति पौर्णमास्यामभिजित् । उभावपि बृहत्पृष्ठाविति जामिप्रसङ्गादाह--
यत्र गोरभिजितमुपयन्ति अभिजितो यथा यमातिरात्रास्वेवं बृहती ॥ ३॥
इति । पुनानः सोम धारये-( सा० ६७५-६ )ति अभीवर्त (ऊ० ८.२. १३)स्तिसृषु । रौरव-(ऊ० १.१.२)मेकस्याम् । रथन्तर-(र० १.१.१)मेकस्याम् । मैधातिथ-(ऊ० १३.१.७)मेकस्याम् । यौधाजयं (ऊ० १. १.३) तिसृषु इति पूर्दशरात्रेऽभिजितो बृहत्युक्ता। सैव यमातिरात्रास्वतिदिश्यते । अत्र च यथा पूर्दशरात्रे एवं बृहतीति कर्तव्यौ सत्रत्वेन प्रत्यासत्त्या । यथा यमातिरात्रास्वित्युक्तम् ।। ३॥
यत्राभिजितो ज्योतिरुपयन्ति ज्योतिषः प्रत्नवती बृहती तेनाजामि ॥ ४॥
इति । तिथिवृद्धौ वाभिजिच्चतुर्दश्यां गोष्टोमे कृते पौर्णमास्याम् अभिजित् । तत्र राथन्तराग्निष्टोमसाम । तस्माच्च परमपरपक्षप्रतिपदि राथन्तरं ज्योतिर्भवतीति जामि प्रथमायाम् ॥ ५ ॥
यत्र वायुरायुषो यथा यमातिरात्रास्वेवं बृहती ॥५॥
इति । यत्र वायुरित्यत्राभिजित उपयन्तीत्यनुषङ्गः । यत्र यथाभिजित ऊर्ध्वमायुरुपयन्ति तत्रेत्यर्थः । तिथिसाम्ये हि चतुर्दश्यां

575
सत्राणि—दार्षद्वततुरायणे [अ. ११, ख. ८]

गोष्टोमे कृते पौर्णमास्यामभिजिद्राथन्तराग्निष्टोमो भवति जामिं प्रत्यपरपक्षप्रतिपदि च राथन्तर आयुरिति जामिता स्यात् ॥ ५ ॥
यत्र ज्योतिषो वायुररायुषो वा विश्वजितमुपयन्ति विश्वजितोऽस्य प्रत्ना
गायत्री ॥ ६॥
इति । यदैकस्मिन् पक्षे वृद्धिरित्यनयोः पूर्वस्मिन् विषये विश्वजितो । बृहदग्निष्टोमसाम परं बार्हते गोष्टोमे प्रक्रियमाणे प्रसक्तां जामितां परिहरति--
यत्र विश्वजितो गामुपयन्ति गोर्यथा यमातिरात्रास्वेवं बृहती तेनाजामि ॥ ७॥
अतिरात्रादुत्थानम् ॥ ८॥
इति। अतिरात्रागतानामत्रापि पूर्ववच्चत्वार्युत्थानपर्वाणि ॥ ८ ॥
इति तृतीयं (अर्यम्णः) सारस्वतमयनं समाप्तम् ॥

दार्षद्वतमयनं, तुरायणं च
संवत्सरं ब्राह्मणस्य गा रक्षेत् (तां० ब्रा० २५. १३) इत्यनुवाकेन दार्षद्वतमुक्तम् । आग्नेयोऽष्टाकपालः (तां० ब्रा० २५.१४) इत्यनुवाकेन तौरमुक्तम् ।
उपायक्लृप्ते दार्षद्वततौरै ॥१॥
उपायो ब्राह्मणोक्तानुष्ठानप्रकारः । तेनैव क्लृप्ते नैवान्यतरयोः कल्पे नियमोऽस्तीत्यर्थः । ते च सूत्रे दार्षद्वतौरयोर्व्रातानी-(ला० श्रौ० १०. १८.९)ति स्पष्टमेवं व्याख्याते ॥ १ ॥
इति दार्षद्वतमयनं तुरायणं च समाप्तम् ।।
इति अष्टमः खण्डः ।।

नवमः खण्डः
सर्पसत्रम्
अतिरात्रावभितोऽग्निष्टोमा मध्ये सर्वो द्वादशी संवत्सरो द्वादशो विषुवान् (तां० ब्रा० २५. १५) इत्यनुवाकेन सर्पसत्रमुक्तम् ।।
सर्पसत्रस्य षोडशिमन्तावतिरात्रौ ॥ १ ॥
अग्निष्टोमेषु प्रथममाह--
जनुषैकर्च्चयोः सफ-(ऊ० १. २. १५)पौष्कले (ऊ० ९.२.२) श्यावाश्वस्य (ऊ० १.१.११) लोक गौरीवितम् (ऊ० ४.१.१३)। समाननितरं विराजद्वन्द्वेन । सर्वो दशी ॥ २ ॥ इति । अथैष विराडित्युक्तो विराड्द्वन्द्वेन सर्वो दशीति सर्वोऽयमग्निष्टोमो दशिस्तोम इत्यर्थः ॥ २।
द्वितीयमग्निष्टोममाह--
पवस्व वाचो अग्रियः (सा० ७७५-७) उत्ते शुष्मासो अस्थुः (सा. १७१४-७) पवमानस्य ते कवे (सा० ६५७-९)। ३ ॥
इति बहिष्पवमानम् ।।
अग्निं दूतं वृणीमहे (सा० ७९०-८०२) इत्याज्यानि ॥४॥

577
सत्राणि--सर्पसत्रं [अ. ११, ख. ९)

वृषा पवस्व धारये-( सा० ८०३-५ )ति गायत्रमेकस्याम् । यौक्ताश्वमेकस्याम् (ऊ० १. २. १९)। ऋषभः पवमान एकस्याम् (ऊ. १८. १. १९)। स्वारं वा सौपर्णम् (ऊ० ११.२.१५)। पुनानः सोम धारये-(सा० ६७५-६)त्यैडमायास्यमेकस्याम् (ऊ० १. २. २०) त्रिणिधनमायास्यं तिसृषु (ऊ. २.१.१) वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७. १.६) अन्त्यम् ॥
[इति माध्यंदिनः पवमानः ।।]
बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१.५) च श्यैतं (उ० ९.२.७) च कालेयं (ऊ. ९. १. २०) च ॥
 इति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २. १. ५) च पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सत्रासाहीय-(९. २. ७)श्रुध्ये (ऊ० ९. १. २०)। अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितम् (ऊ० २.१.८) एकस्याम् । क्रौञ्चमेकस्याम् (ऊ० २. १. ९)। अर्कपुष्पमेकस्यां यच्छन्दस्यम् (ऊ० २०.१. १९) । वृषा मतीनां पवते (सा० ८२१-३) इति यामम् (ऊ० २.१.१०) अन्त्यम् ॥
[ इत्यार्भवः पवमानः ॥]
अन्त्यवर्जमेकर्च्चाः ॥
यज्ञायज्ञीय-(ऊ० १. १. १४)मग्निष्टोमसाम ॥ सर्वो दशदशी ॥९॥
एताभ्यामेव विपर्यासँ षण्मासान् ॥१०॥
उपयन्तीति शेषः ॥१०॥
तेषामेकान्नत्रिँश्श्युत्तमः ॥ ११ ॥
अन्ये मासास्त्रिंशत एव ॥ ११ ॥
इति नवमः खण्डः ॥ ६॥
-
 
दशमः खण्डः
द्वादशो विषुवानित्युक्तम् । विषुवन्तमाह--
पवस्व वाचो अग्रियः (सा० ७७५-७) उपास्मै गायता नरो (सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) ॥१॥
इति बहिष्पवमानम् ॥
अग्न आ याहि वीतये ( सा० ९६०-२) इति राथन्तरं त्रीणि बार्हतानि । अग्निं दूतं वृणीमहे (सा० ७९०-८०२) इत्युभयान्याज्यानीति वा ॥२॥
पृष्ठस्थानगतत्वेन बृहतः प्राधान्यात् त्रीणि बार्हतानीति पक्षः । पवमानगतत्वेऽपि प्राधान्यात् राथन्तरस्यापि प्राधान्यमित्यभिप्रायेणोभयान्याज्यानीति पक्षः ॥२॥

579
सत्राणि-विषुवान् [अ. ११, ख. १०]

उच्चा ते जातमन्धसः (सा० ६७२-४) गायत्रम् एकस्याम् । गौषूक्तमेकस्याम् (ऊ० १२. १. २)। सत्रासाहीयमेकस्याम् (ऊ. ८. २. १२) । पुनान: सोम धारये-( सा० ६७५-६ )ति समन्तमेकस्याम् (ऊ० ६. २. २, १३. १.१८) संसर्पमेकस्यां यत्तृतीयम् (र० ४. २. ६)। दैर्घश्रवसमेकस्याम् (ऊ० ६.२.४) रथन्तरं तिसृषु (र० १. २. १०)। वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७.१.६) अन्त्यम् ॥३॥
बृहच्च ( र० १.१.५) वामदेव्यं (ऊ० १.१.५) च श्यैतस्यर्क्षु संसर्पं यत्प्रथमम् (र० ४. २.३) स्वासु कालेयम् (ऊ० १. १. ७) ॥ ४॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१)ति गायत्रं चाश्वसूक्तं (ऊ० २०. २. २०) च । पवस्वेन्द्रच्छे-( सा० ६९२-६)ति सफ-(ऊ० १.१.९)श्रुध्ये (ऊ० ९.१. २०)। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितमेकस्याम् (ऊ० ४.१.१३) तस्यामेवान्धीगवम् (ऊ० १.१.१२) संसर्पं तिसृषु यद् द्वितीयम् (र० ५. २. ४)। सूर्यवतीषु कावम् (ऊ० ९.२.११) अन्त्यम् ॥५॥
 [इत्यार्भवः पवमानः ॥]
कावसंसर्पे तृचयोः। अन्ये एकर्चाः ॥
यज्ञायज्ञीय-(ऊ० १.१.१४)मग्निष्टोमसाम ॥६॥
सर्वो द्वादशः ॥ ७॥
उत्तरं पक्षमाह--
अथैते एव पूर्वे अहनी आवृत्ते । ताभ्यामुत्तराभ्यामुत्तरान् षण्मासान् । तेषामेकान्नत्रिंशी प्रथमः ॥८॥
इति । एते एवेति अनन्तरोक्ते अग्निष्टोमसंस्थे अहनीत्यर्थः । अत्रापि मासद्वयस्य एकान्नत्रिंशत्वमतिरात्राभ्यां सह संवत्सरपूरणार्थमुक्तम् । अस्मिन् सत्रे ब्राह्मणोक्ताः अभिगरावुपोत्तमे अहनी महाव्रतस्थानीये। न तन्मात्रश्रवणात् गवामयनमेषा स्तोमसंस्था च विकृतं सर्पसत्रमिति वाच्यम् । कल्पकारवचनप्रामाण्यात् । यदाह--सर्पसत्रं गवामयनं स्तोमसंस्थाविकृतमित्येक इति ॥ ८॥
इति सर्पसत्रं समाप्तम् ॥

त्रिसंवत्सरं सत्रम्
गवामयनं प्रथमः संवत्सरोऽथादित्यानामथाङ्गिरसाम् (तां० ब्रा० २५. १६) इति त्रिसंवत्सरमुक्तम् ॥
त्रिसंवत्सरस्य गवामयनेन क्लृप्तः प्रथमः संवत्सरः आदित्यानामयनेन
द्वितीयोऽङ्गिरसामयनेन तृतीयः ॥ १ ॥
अस्य सूत्रम्-- पौर्णमासी प्रसवं त्रिसंवत्सरम् (ला०श्रौ० १०.२०.१३) इत्यादि। प्रसवः प्रथमसुत्या ॥ १ ॥
इति त्रिसंवत्सरं सत्रं समाप्तम् ।।
-
प्रजापतेः सहस्रसंवत्सरं सत्रम्
अतिरात्रः सहस्रं त्रिवृतः संवत्सरातिरात्रः (तां० ब्रा० २५.१७.१) इति प्रजापतेः सहस्रं संवत्सरम् ।।

581

सत्राणि--विश्वसृजामयनम् [अ. ११, ख. १०]

बृहस्पतिसवेनाविक्लृप्तेन क्लृप्तं प्रजापतेः सहस्रसंवत्सरं गौरीवितस्वरेण वा ॥१॥
इति प्रजापतेः सहस्रसंवत्सरं सत्रं समाप्तम् ।।

विश्वसृजामयनम्
पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशाः। पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशतः एकविंशाः (तां० ब्रा० २५. १८. १) इति विश्वसृजां सहस्रसंवत्सरमुक्तम् ।
दृतिवातवतोरयनेन क्लृप्तं विश्वसृजामयनम् ॥ १ ॥
पक्षान्तरमाह--
ज्योतिष्टोमेनवाविक्लृप्तेन । ज्योतिष्टोमेन वा यथास्तोमक्लृप्तेनेति
यथास्तोमक्लृप्तेन ॥ २॥
इति । अविक्लृप्तेनेति गौरीवितस्वरनिषेधः । यथास्तोमक्लृप्तेनेति आदितः पञ्चपञ्चाशति संवत्सरेषु ज्योतिष्टोमस्य सर्वाणि स्तोत्राणि त्रिवृन्ति । ततः पञ्च पञ्चाशन्ति पञ्चदशानि ततः पञ्च पञ्चाशन्ति पञ्चदशानि, ततः सप्तदशानि ततः एकविंशानि । एवं संवत्सरान् ब्राह्मणोक्तान् स्तोमान्नातिक्रम्य क्लृप्तेनेत्यर्थः । तत्र ज्योतिष्टोमेनेष्ट्येव द्रव्येष्वावापोद्धाराभ्यां पवमानानां यथास्तोमक्लृप्तिरुपपाद्या । यथा त्रिवृतो ज्योतिष्टोमस्य उच्चा ते जातमन्धस (सा० ६५१-३) इति गायत्रम् । यथा दशरात्रे दशमम् । तस्यैवैषा प्रतिपत् कार्या । दीक्षितेऽप्युदयनीयातिरात्रे प्रतिपद्विकारो न कार्य इत्याह--अन्यत्रोदयनीयातिरात्रात् प्रायणीयोदनीयातिरात्रयोरिति । प्रायणीयोदनीयातिरात्रयोः समाधेरवश्यकर्तव्यत्वादिति भावः । तथा च द्वादशाहस्य सत्रत्वोपपादने निदानम् -- समानाहीनप्रायणीयोदनीयोर्भवतीति । समानमितरं यस्याह्नः उदयप्रतिपत् कृता तेन समानमित्यर्थः ॥ २॥
इति विश्वसृजामयनं समाप्तम् ।।
इति दशमः खण्डः ॥ १०॥


इति श्रीवामानार्यसुतवरदराजेन विरचितायामार्षेयकल्पव्याख्यायां सत्रेषु तृतीयोऽध्यायः आदित एकादशः ॥ ११ ॥
आर्षेयकल्पः समाप्तः॥


 

  



 


}}