इतिहासोपनिषत्
ॐ वृषादर्विकुलँ ह वै शिबिकुलं बभूव । तस्यायमितिहासः कुल- विद्या बभूव । तद्यो ह स्मेममधीते स ह स्मै राजा भवति । स किंचित्प्राप्यान्तर्हितः । सोऽब्रवीत । यो मामितिहासं ग्राहयेत् । वरमस्मै दद्यामिति । ततो ब्राह्मणः संयोगं संयुयुजे । तमादित्यात् पुरुषो भास्करवर्णो निष्क्रम्य स एनं ग्राहयाञ्चकार । तमपृच्छत् । कोऽसीति वा वृषादर्विरिति । तस्माद्य इममितिहासमधीते । आदित्यलोके स कामचारो भवति । तस्माद्य इममितिहासमुपनीतो माणवको गृह्णीयात् । गृहीत्वाऽथ ब्राह्मणाञ्छ्रावयेत् । मेधावी भवेत् । वर्षशतं च जीवेत् । षडङ्गं च वेदमवाप्नुयात् । तस्माद्य इममितिहासं पठन् पितृभ्य उदकाञ्जलिं दद्यात् । अपूपकूला नद्यः सर्पिष्पायसकर्दमा उपतिष्ठेरन् । तस्माद्य इममितिहासं पठन् पितृभ्यः श्राद्धं दद्यात् । तद्यथा स्थूलया गयाश्राद्धं कृतं भवेत् । स्वधा सह पितॄणाम् । एवमस्य पितॄणामनन्ता तृप्तिर्भवति । य एवं वेद । सोऽयमितिहासः धन्यः पुण्यः पुत्रीयः पशव्य आयुप्यः स्वर्ग्यः । सार्वकालिकसर्वभय- प्रमोक्षणः । नाधिभ्यो भयं भवति । न चोरेभ्यः । न रक्षोभ्यः । नाध्वनि प्रमीयते । नाप्सु प्रमीयते. । नाग्नौ प्रमीयते । नाप्सु न शस्त्रेण वध्यते । नानपत्यः प्रमीयते । सायं प्रयुञ्जानो दिवसकृतं पापं नाशयति । प्रातः प्रयुञ्जानो रात्रिकृतं पापं नाशयति । सायंप्रातः प्रयुञ्जानः पापोऽपापो भवति । पापभाजो हि श्रोतॄणामनसूयावतां पापाँश्चापक्रामन्ति । एकशतं चान्ये साधव आगमाः । एतावती परिभाषा । अत ऊर्ध्वं विद्यात् ।

जिह्वा रसं विजानाति हृदयं वेदयत् प्रियम् ।
चक्षुर्दिष्टः साक्षिभागो मनसा साधु पश्यति ।।
मनसा वाचं नयति चक्षुषा मीयते जगत् ।
भूतस्य कर्णौ श्रोतारावन्नं प्राणेन संमितम् ।।
अन्नं प्राणो वृषादर्विः पर्जन्यो दत्तवान्महत् ।
अग्निश्च हव्यवाहनस्तदिदं गाव इद्धविः ।।
वित्तं बन्धुः प्रजातन्तुः कर्मरूपं बृहत्सखा ।
प्रज्ञा प्रतिष्ठा तन्तूनामिष्टापूर्ते_ परायणन् ।।
सत्यं वदन्त्यनृतमुद्वहन्ति क्षीरं पिबन्ति मधु ते पिबन्ति ।
सोमं पिबन्त्यमृतेन सार्धं मृत्योः परस्तादमृता भवन्ति ।।
ये ब्राह्मणा ब्रह्मचर्यं चरन्त्यथो खल्वाहुर्वेदसंमितोऽयमितिहासः ।।
धर्मं चरति नाधर्मं सत्यं वदति नानृतम् ।
दीर्घं पश्यति मा ह्रस्वं परं पश्यति माऽपरम् ।।
ऋचो ह यो वेद स वेद देवान् यजूंषि यो वेद स वेद यज्ञम् ।
सामानि यो वेद स वेद सर्वं यो मानसं वेद स वेद ब्रह्म ।।
यः क्रौद्धव्येन क्रुद्धस्तिष्ठति सोऽतिवाचं च दीक्षयति ।
योऽतिवाचं नयति स वै सर्वं द्विजः खलु मानसं वेदेति नः श्रुतम् ।।
तपोऽवधिः परमा ब्राह्मणस्य श्रद्धा माता पितरं सत्यमाहुः ।
योग आत्मा चरणमस्य बन्धुर्दमः प्रतिष्ठा विदुषो न भूमिम् ।।
दुःखं जन्म जरा दुःखं दुःखं मृत्युः पुनः पुनः ।
संसारमण्डलं दुःखं पच्यन्ते यत्र जन्तवः ।।
यो ब्राह्मणः पापकृत् मन्त्रकृच्च स जीवति ।
ब्रह्मण्यो ब्रह्मकृच्छश्वत् ब्रह्मलोके महीयते ।।
तृणानि हीच्छन्ति कुशत्वमेव वृक्षा यूपत्वं पशवश्च गोत्वम् ।
सर्वाः प्रजा ब्राह्मणत्वं नरेन्द्र न ब्राह्मणत्वात् परमस्ति किञ्चित् ।।
शताहावशतशरः शतशक्रऋजीषिणाम् ।
शतं ब्रह्म तपस्विनां कूपोऽरण्यस्य तिष्ठति ।।
ऋतेनापिहिता गुहा श्रुतेनापिहिता गुहा ।
स्मृतेनापिहिता गुहा शमेनापिहिता गुहा ।।
दमेनापिहिता गुहा सत्येनापिहिता गुहा ।
आत्मनापिहिता गुहा ब्रह्मणापिहिता गुहा ।।
ब्रह्मन्निधिं मनसा वेदयन्तः पश्यन्तो गुह्यमपरं परं च ।
अनध्वगा अध्वसु पारयिष्णवः ब्राह्मणास्तु सदृशाः सूर्येण ।।
यः च्छ्राद्धानि कुरुतेऽसंगतानि न देवयानेन पथा स याति ।
परिमुक्तं पिप्पलं बन्धनादिव स्वर्गाल्लोकाच्च्यवतेऽश्राद्धमित्रः ।।
यो यज्ञस्य प्रसाधनः तन्तुर्देवेष्वाहुतः ।
तमाहुतमशीमहि ।
नावेदविन्मनुतेदं बृहन्तम् ।
सर्वानुभुमात्मानँ संपराये ।
एष नित्यो महिमा ब्राह्मणस्य ।
न कर्मणा वर्धते नो कनीयान् ।
तस्यैवात्मा पदवित्तं विदित्वा ।
न कर्मणा लिप्यते पापकेन ।।
अग्निहोत्रं बलीवृद्धाः काले चातिथिरागतः ।
बालाश्च कुलवृद्धाश्च निर्दहन्त्यवमानिताः ।।
संभोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति नोत देवान् ।
इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ।।
शूद्रायां सृजते रेतः श्राद्धं भुक्त्वाऽथ यो द्विजः ।
स शूद्रयोनिसञ्छिन्नं रेतसा सिञ्चते पितॄन् ।।
यः काममोहितः शूद्र्यां पुत्रमुत्पाद्यते द्विजः ।
यावदुत्पाद्यते भूमौ तावत्तिष्ठेत् सुदारुणे ।।
अश्रोत्रियं ब्राह्मणं भोजयानस्य षोडश श्राद्धानि पितरो न भुञ्जते ।
ततो निराशाः पितरो भवन्ति सेन्द्राः स्म देवाः प्रहरन्ति वज्रम् ।।
यावतः खलु पिण्डान् स प्राश्नन्ति हविषो नृचः ।
तावतः शूलान् ग्रसति प्राप्य वैवस्वतं यमम् । ।
छिन्दन्ति दातृहस्तं च जिह्वाग्रमितरस्य च ।
मन्त्रपूतं तु यच्छ्राद्धममन्त्राय प्रयच्छति । ।
नियुक्तस्तु यतिः श्राद्धं देवे वा मांसमुत्सृजेत् ।
यावन्ति पशुरोमाणि तावन्नरकमृच्छति । ।
यथेरिणे बीजमुप्तं नरेन्द्र नास्य वप्ता लभते बीजभागम् ।
एवं श्राद्धमप्रतिष्ठितं विनश्यति । ।
श्राद्धं दत्त्वा च भुक्त्वा च सङ्गमं न समाचरेत् ।
पितरस्तस्य तन्मासं भवन्ते रेतभोजनाः । ।
श्राद्धं दत्त्वा च भुक्त्वा च सपङ्क्तिः सहभोजनम् ।
षण्मासान् पितरोऽश्नन्ति कर्तुरुच्छिष्टभोजनम् । ।
श्राद्धं भुक्त्वा पुनः श्राद्धं भुञ्जीयाल्लोभमोहितः ।
नष्टं भवति तच्छ्राद्धं रौरवं नरकं व्रजेत् । ।
श्राद्धं दत्त्वा च भुक्त्वा च भारमुद्वहते द्विजः ।
पितरस्तस्य तन्मासं भवन्ते भारपीडिताः । ।
श्राद्धं दत्त्वा च भुक्त्वा च अध्वानं योऽधिगच्छति ।
पितरस्तस्य तन्मासं भवन्ते पांसुभोजनाः । ।
अनग्निकस्य वेदोऽग्निर्वेदहीनोऽप्यनग्निकः ।
साग्निकोऽप्यनधीतः स्यात् स एषोऽनग्निकः स्मृतः ।।
स्त्रीशूद्रबालिशादिभ्य उच्छिष्टं न प्रदापयेत् ।
यदि दद्यात् प्रमादेन न तद्गच्छति तान् पितॄन् ।।
आहिताग्निः सदा पात्रं सदा पात्रं तु वेदवित् ।
पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ।।
पुनर्भोजनमध्वानं भाराध्ययनसङ्गमम् ।
दानं प्रतिग्रहं होमं श्राद्धभुक्चाष्ट वर्जयेत् ।।
दन्तधावनताम्बूलं नखकेशनिकृन्तनम् ।
कर्ता चैव तु पूर्वेद्युर्भोक्ता चैव परेऽहनि ।।
दन्तधावनताम्बूलं क्षौराभ्यङ्गनभोजनम् ।
रत्यौषधपरान्नं च श्राद्धकर्ता विवर्जयेत् ।।
श्राद्धकर्ता परश्राद्धं यस्तु भुञ्जीत लोलुपः ।
नष्टं भवति तच्छ्राद्धं रौरवं नरकं व्रजेत् ।।
निमन्त्रितेऽध्वानगते पुनर्भुक्त्वा तु वायसम् ।
करोति कर्म यत् गृध्रः ग्रामसूकरसङ्गमात् ।।
प्रतिग्रहेषु दारिद्र्यं दानं निष्फलमेव च ।
होमे तु कुष्ठरोगी स्यात् स्वाध्यायैर्मृत्युमाप्नुयात् ।।
यस्यानृचस्तु भुङ्क्ते तस्य विद्धि ब्रह्मैव वित्तं पुरुषस्य केवलम् ।
धर्मः स्वधायां चरते ददाति च सत्यं रसः स्वादुतमो रसानाम् ।
सत्यं श्रैष्ठ्यं व्याहृतीनां तथैव प्रज्ञानं सप्तमं जीवनानाम् ।।
ब्राह्मणातिक्रमो नास्ति मूर्खो मन्त्रं विवर्जयेत् ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ।।
यः शतं च सहस्राणां सहस्रं श्राद्ध आचरेत् ।
एकस्मान्मन्त्रवित् पूतः सर्वमर्हति ब्राह्मणः ।।
ब्राह्मणानां सहस्रेषु भुक्त्वा तु नव सप्त च ।
भवन्ति ज्ञायिके भूत्वा ध्यायिके च न संशयेत् । ।
कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते ।
कुलं तारयते तेषां दशपूर्वां दशापराम् ।।
ब्राह्मणो द्विपदां वरः । चतुष्पदां गौरुत्तमा । लोहानां काञ्चनं वरम् । तिलेषु तैलं दधिनीव सर्पिः । दापस्स्रोतस्सरण्योरिवाग्निः । एवमात्मात्मनि जायते । ।
सत्येनैनं मनसा साधु पश्यति सत्येनैनं मनसा वाचं नयति । ।
प्राङ्मुखाश्च सुरा हव्यं पितरश्चाप्युदङ्मुखाः ।
प्रतिगृह्णन्ति संबाधमग्निना ब्राह्मणेन च ।।
वेदाध्यायीति यो विप्रः सततं ब्राह्मणः स्थितः ।
साचारः साग्निहोत्री च सोऽग्निर्वै कव्यवाहनः । ।
विकिरं प्रकिरं दद्याद्विकिरं ह वै प्रकिरं भुञ्जीत । तृप्तिरूपाणि दर्शयन् । ।
परिश्रिते त्वेव दद्याद्ध्लीका हि पितरः स्मृताः ।
क्रव्यादाः पितरस्सर्वे तिलज्योतिर्घृतप्रियाः ।।
देशकालपात्रमन्त्राष्टशौचेप्साः कृष्णपक्षक्षयोत्सवाः । ।
उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् ।
श्राद्धे सप्त पवित्राणि दौहित्रः कुतपस्तिलाः । ।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्सराः । ।
दिवसस्याष्टमे भागे यदा मन्दायते रविः ।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् । ।
आरभ्य कुतपे श्राद्धं कुर्यादारोहणं बुधः ।
विधिज्ञा विधिमास्थाय रौहिणीं नैव लङ्घयेत् ।।
रौहिणीं लङ्घयेद्यस्तु ज्ञानादज्ञानतोऽपि वा ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ।।
यातुधानाश्च रक्षांसि पिशाचा असुरास्तथा ।
एते हरन्ति वै श्राद्धं दैवं यत्र निवर्तयेत् ।।
राक्षसं भवति श्राद्धं दैवं यत्र निवर्तयेत् ।
तत्र रक्षांसि पैशाचा न च विद्वेष्टि यो जनः ।।
पुरो देवाः प्रपद्यन्ते पश्चाद्देवं विसर्जयेत् ।
पक्षैस्तु कुक्कुटो हन्ति निकर्षेण तु सूकरः ।
आगतं गतया श्वानं चक्षुषा वृषलीपतिः ।।
यस्य देशं न जानाति नामगोत्रे त्रिपूरुषम् ।
कन्यादानं पितृश्राद्धं नमस्कारं च वर्जयेत् ।।
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः ।।
अष्टवर्षा भवेत् कन्या नववर्षा तु रोहिणी ।
दशवर्षा भवेत् गौरी ह्यत ऊर्ध्वं रजस्वला ।।
पितृगेहेषु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली नाम तत्पतिर्वृषलीपतिः ।।
वृषलीपतिभुक्तानि श्राद्धानि च हवींषि च ।
पितरो न प्रतिगृह्णन्ति दाता स्वर्गं न गच्छति ।।
महिषीत्युच्यते भार्या भगेनोपार्जितं धनम् ।
तद्द्रव्यमुपजीवन् यः स वै माहिषिकः स्मृतः ।।
समर्घं धनमुद्धृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ।।.
अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीपतिम् ।
अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ।।
श्वित्री कुष्ठी तथा चैव कुनखी श्यावदन्तकः ।
रोगी हीनातिरिक्ताङ्गः काणः पंगुः पुनर्भवः ।।
अवकीर्णी कुण्डगोलावायुधी परदारगः । -
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।।
मित्रध्रुक् पिशुनश्चैव विक्रयी वेदनिन्दकः ।
मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।।
परपूर्वापरस्तेन शूद्रजः श्राद्धकर्मणि ।
रजस्स्त्रीसंगमी चैव परोपद्रवकारिणः ।।
देवब्राह्मणघाती च तेषां द्रव्यापहारिणः ।
एते गुणा न वक्तव्याः श्राद्धकर्मबहिष्कृताः ।।
भ्रातॄन्वा भोजयेच्छ्राद्धं पुत्रं वाऽपि गुणान्वितम् ।
आत्मा च वाऽपि भुञ्जीत न विप्रं वेदवर्जितम् ।।
तेभ्यः श्राद्धं तु दत्तं चेत्तच्छ्राद्धं निष्फलं भवेत् ।
निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ।।
मदमोहेन यः शूद्र्यां पुत्रमुत्पाद्यते द्विजः ।
यावत्तिष्ठेत् स वै भूमौ तावत्तिष्ठेत् सुदारुणे ।।
क्षीरं वा दधि वा तैलं तक्रमाज्यं मधूनि च ।
एतेषां विक्रयी विप्रो रौरवं नरकं व्रजेत् ।।
यावदुष्णं भवत्यन्नं तावद्भुञ्जीत वाग्यतः ।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ।।
हविर्गुणा न वक्तव्याः पितरो यावदर्पिताः ।
तृप्तैस्तु पितृभिः पश्चाद्वक्तव्यं शोभनं हविः ।।
य इमां देवीमिह वेद सर्वं
सर्वेषु भूतेषु प्रतिष्ठितानाम् ।
सती नैनं पश्यन्ति हृदयं न शोकाः
न पुत्रदाराः पशुचोदमाहितम् ।।
अपां रसो मधुनस्सर्पिषश्च क्षीरस्य चान्नस्य च संस्थितस्य ।
एते रसानां सरसेन श्राद्धं प्राप्नुवन्ति वाग्यतानां संयुतानाम् ।
उदेहि सूर्यं वरं वृणीष्वेति राजोवाच पञ्चेमानि रत्नानि गौर्मेऽजस्रं दुह्यति । हविर्मेऽजस्रं विलूहति । त्विषिर्मेऽजस्रं पिनष्टि । रथो मे सर्वान् समुद्रान् संयाति । आदित्यवर्णे इमे मणिकुण्डले इति । अथो ह्येवमेवैषामेकं वृणीष्वेति । ब्राह्मण उवाच । यावत्संपृच्छसीति भार्यां समपृच्छत् । हविर्गृहाणेति भार्योवाच । पुत्रं समपृच्छत् । रथं गृहाणेति पुत्र उवाच । कन्यां समपृच्छत् । मणिकुण्डले इति कन्योवाच । दासीं समपृच्छत । दृषदं गृहाणेति दास्युवाच । अनुपेत्योवाच हविर्भार्या रथं पुत्रः कन्या मणिकुण्डले दासी दृषदमिच्छति । गामहं शिबिसप्तमे इति । सर्वाण्येवमेवैनं ददामीति होवाच वृषादर्विस्तदिदमितिहासो ब्रह्मादित्यः पुरोगाय । पुरोगः काश्यपाय । काश्यपो भरद्वाजाय । भरद्वाजः बहुभिः अनेकमहाराजाय । ततः प्रच्य.. धनपतेर्द्विजः ब्राह्मणकुले जातस्म.. . भवति ।।
सप्तजन्मकृतात्पापान्मुच्यते यस्तु पर्वभिः ।
कन्यागते यदा सूर्ये तिष्ठन्ति पितरो गृहे ।।
दिने दिने गयातुल्यं भरण्यां गयपञ्चके ।
दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः ।।
द्वादश्यां शतमित्याहुरमावास्यां सहस्रकम् ।
आश्वयुक्छु्क्लपक्षस्य द्वितीयामयुतं फलम् ।।
अन्नेन वाऽथवा येन शाकमूलफलेन वा ।
तस्मात् सर्वप्रयत्नेन कुर्याच्छ्राद्धं महालयम् ।।
शून्या प्रेतपुरी तत्र यावद्वृश्चिकदर्शनात् ।
वृश्चिका दर्शनं यान्ति निराशाः पितरो गताः ।।
ततः स्वभवनं यान्ति शापं दत्वा सुदारुणम् ।
अहोवन्नवाच्यमिति केचित् पितरो वदन्ति ।।
अपुत्राश्चैवापशवो लोके सन्ति च निन्दिताः ।
रौरवे नरके घोरे यावदाभूतसंप्लवात् ।।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत बाऽश्वमेधं वा लीलं वा वृषमुत्सृजेत् ।।
श्वेतः सुरविषाणाभ्यां मुखे पुच्छे च पाण्डुरम् ।
रोहितो यस्तु वर्णेन स लीलो वृष उच्यते ।।
गौरीं वा वरयेत् कन्यां चरेद्वा श्रवणे.... न्ति जपति ।।
अथ संहितायां फलमवाप्नोतीत्याह भगवान् ब्रह्मा । अष्टौ ब्राह्मणान् सम्यक् ग्राहयेन्मेधावी भवेत् । वर्षशतं च जीवेत । षडङ्गं च वेदमवाप्नुयात् ।।
वृद्धो वसूनि पुरोवाच पुत्रेभ्यः परमं निधिम् ।
एतद्वो धनमार्याणां मन्त्राश्चैव व्रतानि च ।।
नमो नमश्च मन्त्राश्च व्रतानि च नमो नमः ।
एतत् सकलं ब्रह्मप्रणवस्तुतिः काण्वशाखे पारयेति ।।
इति इतिहासोपनिषत् संपूर्णा
श्राद्धकाले विशेषेण पितॄणां दत्तमक्षयम् ।
मनोजव आयमानो आया.... तरत्परम् ।।
दिवं सुपर्णं गत्वा या सोमं व.... महत् ।
सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पत ।।
यस्तिलज्योतिस्त्रिंशत् वृषादर्विसुवः पत ।।
-



"https://sa.wikisource.org/w/index.php?title=इतिहासोपनिषत्&oldid=201308" इत्यस्माद् प्रतिप्राप्तम्