ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-१११-१२०

संन्यासोपनिषत् ॥१११॥ सम्पाद्यताम्

देही संन्यसनाद्याति परां सालोक्यतां पराम् ।

ॐ तत्सच्चिन्मयं ब्रह्म सर्वातीतं समाश्रये ॥१॥

ॐ पूर्णमद इति शान्तिः ॥हरिः ॐ ॥

अथाहिताग्निर्म्रियेत प्रेतस्य मन्त्रैः संस्कारोपतिष्ठते । स्वस्थो वाश्रमपारं गच्छेयमिति । एतान्पितृमेधिकानोषधिसंभारान्संभृत्यारण्येगत्वाऽमावास्यायां प्रातरेवाग्नीनुपसमाधाय पितृभ्यः श्राद्धतर्पणं कृत्वा ब्रह्मेष्टिंनिर्वपेत् । स सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्यैषाहुतिर्दिव्याऽमृतत्वायकल्पतामित्येवमत ऊर्ध्वं यद्ब्रह्माभ्युदयद्दिवं च लोकमिदममुं च सर्वं सर्वम-भिजन्युः । सर्वश्रियं दधतु सुमनस्यमाना ब्रह्मजज्ञानमिति ब्रह्मणेऽथर्वणेप्रजापतयेऽनुमतयेऽग्नये स्विष्टकृत इति हुत्वा यज्ञ यज्ञं गच्छेत्यग्नावरणीहुत्वोचित्सखायमिति चतुर्भिरनुवाकैराज्याहुतीर्जुहुयात्तैरेवोपतिष्टते ।मय्यग्नेऽग्निमिति चाथो अग्नीन्समारोपयेद्व्रतवान्स्यादतन्द्रित इति ॥१॥

तत्र श्लोकाः--ब्रह्मचर्याश्रमे खिन्नो गुरुशुश्रूषणे रतः । वेदानधीत्यानुज्ञातौच्यते गुरुणाश्रमी ॥ दारमाहृत्य सदृशमग्निमाधाय शक्तितः । ब्राह्मीमिष्टिंयजेत्तासामहोरात्रेण निर्वपेत् ॥ संविभज्य सुतानर्थैर्ग्राम्यकामान्विसृज्य च ।चरेत वनमार्गेण शुचौ देशे परिभ्रमः ॥ वायुभक्षोऽम्बुभक्षो वा विहिता-नोत्तरः फलैः । स्वशरीरे समारोपः पृथिव्यां नाक्षुपातकाः । सह तेनैव पुरुषःकथं संन्यस्त उच्यते ॥२॥

सनामधेयस्तु स किं यस्मिन्संन्यस्त उच्यते ।तस्मात्फलविशुद्धाङ्गी संन्यासं सहतेऽर्चिमान् ॥ अग्निवर्णं निष्क्रामति वानप्रस्थंप्रपद्यते । लोकाद्भार्यया सहितो वनं गच्छति संयतः ॥ त्यक्त्वा कामान्संन्य-सति भयं किमनुपश्यति । किंवा दुःखं समुद्दिश्य भोगांस्त्यजति सुस्थितान् ॥गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च । गुहां प्रवेष्टुमिच्छामि परंपदमनामयमिति ॥३॥

संन्यस्याग्निं न पुनरावर्तनं यन्मन्युर्जायामावहदि-त्यथाध्यात्ममन्त्राञ्जपेद्दीक्षामुपेयात् । काषायवासाः कक्षोपस्थलोमानि वर्जये-दूर्ध्वगोपायुर्विमुक्तमार्गो भवत्यनयैव चेद्भिक्षाशनं दध्यात्पवित्रं धारयेज्जन्तु-संरक्षणार्थम् । तत्र श्लोकाः--कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहम् ।शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ पवित्रं स्नानशाटीं चोत्तरा-सङ्गस्त्रिदण्डकम् । अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः ॥३॥

नदीपुलिनशायी स्याद्देवागारेषु वाऽप्युत । नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् ॥स्नानं दानं तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानो न तुष्येत निन्दितोन शपेत्परान् ॥ भिक्षादि वैदलं पात्रं स्नानद्रव्यमवारितम् । एतां वृत्ति-मुपासीना घातयन्तीन्द्रियाणि च ॥ विद्याया मनसि संयोगो मनसाकाशश्चा-काशाद्वायुर्वायोर्ज्योतिर्ज्योतिष आपोऽद्भयः पृथिवी पृथिव्या इत्येषा भूतानांब्रह्म प्रपद्यते ॥४॥

अजरममरमक्षरमव्ययं प्रपद्यते तदभ्यासेन प्राणापानौसंयम्य तत्र श्लोकाः--वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् । संदश्यदशनैर्जिह्वां यवमात्रे विनिर्गताम् ॥ माषमात्रां तथा दृष्टिं श्रोत्रे स्थाप्य तथाभ्रुवि । श्रवणे नासिके न गन्धाय न त्वचं न स्पर्शयेत् ॥ अथ शैवं पदं यत्रतद्ब्रह्म तत्परायणम् । तदभ्यासेन लभ्यते पूर्वजन्मार्चितात्मनः ॥ अथ तैःसंभूतैर्वायुः संस्थाप्य हृदयं तपः । ऊर्ध्वं प्रपद्यते देहाद्भित्त्वा मूर्धानम-व्ययम् ॥ अथाऽयं मूर्धानमस्य देहैषा गतिर्गतिमताम् । ये प्राप्य परमांगतिं भूयस्ते न निवर्तन्ते परात्परमवस्थात्परात्परमवस्थादिति ॥५॥

ॐ पूर्णमद इति शान्तिः ॥इत्याथर्वणीया संन्यासोपनिषत्समाप्ता ॥१११॥

गोपीचन्दनोपनिषत् ॥११२॥ सम्पाद्यताम्

गोपिकास्वान्तसंलीनं श्रीकृष्णाख्यं परं महः ।ब्रह्मानन्दस्वरूपं तत्स्वमात्रमिति चिन्तये ॥१॥

ओ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

गोपी का नाम । संरक्षणी । कुतः संरक्षणी । लोकस्य नरकान्मृत्योर्भ-याच्च संरक्षणी । चन्दनं तुष्टिकारणं च । किं तुष्टिकारणम् । ब्रह्मानन्दकार-णम् । य एवंविद्वानेतदाख्यापयेद्य एतच्च धारयेद्गोपीचन्दनमृत्तिकाया निरुक्त्याधारणमातरेण च ब्रह्मलोके महीयते ब्रह्मलोके महीयत इति ॥१॥

गोप्योनाम विष्णुपत्न्यः स्युस्तासां चन्दनमाह्लादनम् । कश्चाह्लादः । एष ब्रह्मानन्द-रूपः । काश्च विष्णुपत्न्यो गोप्यो नाम । या आत्मना ब्रह्मानन्दैकरूपंकृष्णाख्यं परं धामाजयंस्ता जगत्सृष्टिस्थित्यन्तकारिण्यः प्रकृतिमहदहमाद्यामहामायाः । कश्च विष्णुः । परं ब्रह्मैव विष्णुः । कश्चाह्लादः । गोपीचन्दन-संसक्तमानुषाणां पापसंहरणाच्छुद्धान्तःकरणानां ब्रह्मज्ञानप्राप्तिश्च । य एवं वेदेत्युपनिषत् ॥२॥

गोपीत्यग्र उच्यतां चन्दनं तु ततः पश्चात् । गोपी-त्यक्षरद्वयं चन्दनं तु त्रियक्षरं तस्मादक्षरपञ्चकम् । य एवविद्वान् गोपीचन्दनंधारयेदक्षयं पदमाप्नोति पञ्चत्वं न स पश्यति ततोऽमृतत्वमश्नुते ततोऽमृत-त्वमश्नुत इति ॥३॥

अथ मायाशबलितं ब्रह्मासीत्ततश्च महदाद्या ब्रह्मणोमहामायासम्मिलितात् । पञ्चभूतेषु गन्धवतीयं पृथिव्यासीत् । पृथिव्याश्चवैभवाद्वर्णभेदाः । पीतवर्णा मृदो जायन्ते लोकानुग्रहार्थम् । मायासहित-ब्रह्मसम्भोगवशादस्य चन्दनस्य वैभवम् । य एवंविद्वान्यतिहस्ते दद्या-दनुपप्लवः सर्वमायुरेति । ततः प्राजापत्यं रायस्पोषं गौष्पत्यं च । यएतद्रहस्यं सायंप्रातर्ध्यायेदहोरात्रकृतं पापं नाशयति मृतो मोक्षमश्नुतैति ॥४॥

गोपीचन्दनपङ्केन ललाटं यस्तु लेपयेत् । एकदण्डी त्रिदण्डीवा स वै मोक्षं समश्नुते ॥१॥

गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा ।तं तं पूतं विजानीयाद्राजभिः सत्कृतो भवेत् ॥२॥

ब्रह्महन्ता कृतघ्नश्चगोघ्नश्च गुरुतल्पगः । तेषां पापानि नश्यन्ति गोपीचन्दनधारणात् ॥३॥

गोपीचन्दनलिप्ताङ्गो म्रियते यत्र कुत्रचित् । अभिव्याप्यायतो भूत्वा देवेन्द्र-पदमश्नुते ॥४॥

गोपीचन्दनलिप्ताङ्गं पुरुषं य उपासते । एवं ब्रह्मादियोदेवास्तन्मुखास्तानुपासते ॥५॥

गोपीचन्दनलिप्ताङ्गः पुरुषो येन पूज्यते ।विष्णुपूजितभूतित्वाद्विष्णुलोके महीयते ॥६॥

सदाचारः शुभाकल्पोमिताहारो जितेन्द्रियः । गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् ॥७॥

गोपीचन्दनलिप्ताङ्गो व्रतं यस्तु समाचरेत् । ततः कोटिगुणं पुण्यमित्येवंमुनिरब्रवीत् ॥८॥

गोपीचन्दनलिप्ताङ्गैर्जपदानादि यत्कृतम् । न्यूनं संपूर्णतांयाति विधानेन विशेषतः ॥९॥

गोपीचन्दनमायुष्यं बलारोग्यविवर्धनम् ।कामदं मोक्षदं चैव इत्येवं मुनयोऽब्रुवन् ॥१०॥

अग्निष्टोमसहस्राणिवाजपेयशतानि च । तेषां पुण्यमवाप्नोति गोपीचन्दनधारणात् ॥११॥

गोपीचन्दनदानस्य नाश्वमेधकृतः फलम् । न गङ्गया समं तीर्थं न शुद्धिर्गोपि-चन्दनात् ॥१२॥

बहुनाऽत्र किमुक्तेन गोपीचन्दनमण्डनम् । न तत्तुल्यंभवेल्लोके नात्र कार्या विचारणा ॥१३॥

चन्दनं चापि गोपीनां केलिकुङ्कुम-सम्भवम् । मण्डनात्पावनं नॄणां भुक्तिमुक्तिफलप्रदम् ॥१४॥

कृष्णगोपी-रतोद्भूतं पापघ्नं गोपिचन्दनम् । तत्प्रसादात्सर्वदैव चतुर्वर्गफलप्रदम् ।तिलमात्रप्रदानेन काञ्चनाद्रिसमं फलम् ॥१५॥

कुङ्कुमं कृष्णगोपीनां जलक्रीडासु सम्भृतम् । गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ॥१६॥

कृष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् । तिलमात्रं प्रदायेदं पुनात्या दशमंकुलम् ॥१७॥

गोपीचन्दनखण्डं तु चक्राकारं सुलक्षणम् । विष्णुरूपमिदंपुण्यं पावनं पीतवर्णकम् ॥१८॥

आपो वा अग्र आसन् । तत्र प्रजापतिर्वा-युर्भूत्वाऽश्राम्यतेदं सृजेयमिति । स तपोऽतप्यत । तत ओङ्कारमपश्यत् ।ततो व्याहृतीस्ततो गायत्रीम् । गायत्र्या वेदास्तैरिदमसृजत । धूममार्गविस्तृतंहि वेदार्थमभिसन्धाय चतुर्दश लोकानसृजत । तत उपनिषदः श्रुतयआविर्बभूवुः । अर्चिर्मार्गविस्तृतं वेदार्थमभिसन्धाय सर्वान्वेदान्स-रहस्योपनिषदङ्गान्ब्रह्मलोके स्थापयामास । ताश्चोपादिशद्वैवस्वतेऽन्तरेसगुणं ब्रह्म चिद्घनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां वसुदेवसद्मन्याबि-र्भविष्यति । तत्र भवत्यः सर्वलोकोत्कृष्टसौन्दर्यक्रीडाभोगा गोपिकास्वरूपैःपरब्रह्मानन्दैकरूपं कृष्णं भजिष्यथ । तत्र श्लोकाः--इति ब्रह्मवरं लब्ध्वा श्रुतयोब्रह्मश्लोकगाः । कृष्णमाराधयामासुर्गोकुले धर्मसङ्कुले ॥१९॥

श्रीकृष्णाख्यंपरं ब्रह्म गोपिकाः श्रुतयोऽभवन् । एतत्सम्भोगसम्भूतं चन्दनं गोपीचन्दनंचन्दनं गोपीचन्दनमित्युपनिषत् ॥२०॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥इत्याथर्वणीया गोपीचन्दनोपनिषत्समाप्ता ॥११२॥

सरस्वतीरहस्योपनिषत् ॥११३॥ सम्पाद्यताम्

प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥१॥

ॐ वाङ्मे मनसीति शान्तिः ॥हरिः ॐ ॥

ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य पप्रच्छुः केनोपायेनतज्ज्ञानं तत्पदार्थावभासकम् । यदुपासनया तत्त्वं जानासि भगवन्वद ॥१॥

सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया । स्तुत्वा जप्त्वा परां सिद्धिमलभंमुनिपुङ्गवाः ॥२॥

ऋषय ऊचुः ॥ कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।महासरस्वती येन तुष्टा भगवती वद ॥३॥

स होवाचाश्वलायनः । अस्यश्रीसरस्वतीदशश्लोकीमहामन्त्रस्य । अहमाश्वलायन ऋषिः । अनुष्टुप् छन्दः ।श्रीवागीश्वरी देवता । यद्वागिति बीजम् । देवीं वाचमिति शक्तिः । प्रणो देवीति कीलकम् । विनियोगस्तत्प्रीत्यर्थे । श्रद्धा मेधा प्रज्ञा धारणा वाग्देवतामहासरस्वतीत्येतैरङ्गन्यासः ॥ नीहारहारघनसारसुधाकराभां कल्याणदांकनकचम्पकदामभूषाम् । उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं वाणीं नमामि मनसावचसा विभूत्यै ॥१॥

ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः । गायत्रीछन्दः । श्रीसरस्वती देवता । प्रणवेन बीजशक्तिः कीलकम् । इष्टार्थे विनि-योगः । मन्त्रेण न्यासः ॥ या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः । नामरूपा-त्मना व्यक्ता सा मां पातु सरस्वती ॥ ॐ प्रणो देवी सरस्वती वाजेभिर्वा-जिनीवती । धीनामवित्र्यवतु ॥१॥

आ नो दिव इति मन्त्रस्य अत्रिरृषिः ।त्रिष्टुप् छन्दः । सस्रस्वती देवता । ह्रीमिति बीजशक्तिः कीलकम् । इष्टार्थेविनियोगः । मन्त्रेण न्यासः ॥ या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते । अद्वैताब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ह्रीं आ नो दिवो बृहतः पर्वतादासरस्वती यजतागंतु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचामुशती शृणोतु ॥२॥

पावका न इति मन्त्रस्य । मधुच्छन्द ऋषिः । गायत्रीछन्दः । सरस्वती देवता । श्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनि-योगः । मन्त्रेण न्यासः ॥ या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते । अनादिनिध-नानन्ता सा मां पातु सरस्वती ॥ श्रीं पावका नः सरस्वती वाजेभिर्वाजि-नीवती । यज्ञं वष्टु धिया वसुः ॥३॥

चोदयित्रीति मन्त्रस्य मधुच्छन्दऋषिः । गायत्री छन्दः । सरस्वती देवता । ब्लूमिति बीजशक्तिः कीलकम् ।मन्त्रेण न्यासः ॥ अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी । प्रत्यगास्ते वदन्तीया सा मां पातु सरस्वती ॥ ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।यज्ञं दधे सरस्वती ॥४॥

महो अर्ण इति मन्त्रस्य मधुच्छन्द ऋषिः । गायत्रीछन्दः । सरस्वती देवता । सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति । रुद्रादित्यादिरूपस्था यस्या-मावेश्य तां पुनः । ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती । सौः महोअर्णः सरस्वती प्रचेतयति केतुना । धियो विश्वा विराजति ॥५॥

चत्वारिवागिति मन्त्रस्य उचथ्यपुत्र ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । ऐमितिबीजशक्तिः कीलकम् । मन्त्रेण न्यासः । या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानाऽनुभूयते ।व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ ऐं चत्वारि वाक् परिमिता पदानि-----Page-----------------६४६--तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचोमनुष्या वदन्ति ॥६॥

यद्वाग्वदन्तीति मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप्छन्दः । सरस्वती देवता । क्लीमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता । निर्विकल्पात्मना व्यक्ता सा मांपातु सरस्वती ॥ क्लीं यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥७॥

देवीं वाचमितिमन्त्रस्य भार्गव ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । सौरिति बीजशक्तिःकीलकम् । मन्त्रेण न्यासः ॥ व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥ सौः देवीं वाचमजनयन्त देवास्तांविश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥८॥

उत त्व इति मन्त्रस्य बृहस्पतिरृषिः त्रिष्टुप् छन्दः । सरस्वतीदेवता । समिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । यां विदित्वाऽखिलंबन्धं निर्मथ्याखिलवर्त्मना । योगी याति परं स्थानं सा मां पातु सर-स्वती ॥ सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । उतोत्वस्मै तन्वं १ विसस्रे जायेव पत्य उशती सुवासाः ॥९॥

अम्बितम इतिमन्त्रस्य गृत्समद ऋषिः । अनुष्टुप् छन्दः । सरस्वती देवता । ऐमितिबीजशक्तिः कीलकम् । मन्त्रेण न्यासः । नामरूपात्मकं सर्वं यस्यामावेश्य तांपुनः । ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ ऐं अम्बितमे नदी-तमे देवितमे सरस्वति । अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥१०॥

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती॥१॥

नमस्ते शारदे देवि काश्मीरपुरवासिनि । त्वामहं प्रार्थये नित्यंविद्यादानं च देहि मे ॥२॥

अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी । मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥३॥

कम्बुकण्ठी सुताम्रोष्ठी सर्वा-भरणभूषिता । महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥४॥

या श्रद्धाधारणा मेधा वाग्देवी विधिवल्लभा । भक्तिजिह्वाग्रसदना शमादिगुणदायिनी॥५॥

नमामि यामिनीनाथलेखालंकृतकुन्तलाम् । भवानीं भवसंताप-निर्वापणसुधानदीम् ॥६॥

यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति ।सोऽभ्यर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥७॥

तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् । भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत्॥८॥

ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा । गद्यपद्यात्मकैः शब्दै-रप्रमेयैर्विवक्षितैः ॥९॥

अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥१०॥

आत्मविद्या मया लब्धाब्रह्मणैव सनातनी । ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥११॥

प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः । सत्यमाभाति चिच्छाया दर्पणेप्रतिबिम्बवत् ॥१२॥

तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः ।प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते ॥१३॥

शुद्धसत्त्वप्रधानायां मायायांबिम्बितो ह्यजः । सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥१४॥

सा मायास्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि । वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु॥१५॥

सात्त्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि । जगत्कर्तुमकर्तुं वाचान्यथा कर्तुमीशते ॥१६॥

यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ।शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् ॥१७॥

विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् । अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥१८॥

आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् । साक्षिणः पुरतो भातं लिङ्ग-देहेन संयुतम् ॥१९॥

चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः । अस्यजीवत्वमारोपात्साक्षिण्यप्यवभासते ॥२०॥

आवृतौ तु विनष्टायां भेदेभातेऽपयाति तत् । तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥२१॥

याशक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते । अत्राप्यावृतिनाशेन विभाति ब्रह्म-सर्गयोः ॥२२॥

भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् । अस्ति भातिप्रियं रूपं नाम चेत्यंशपञ्चकम् ॥२३॥

आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततोद्वयम् । अपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः ॥२४॥

समाधिं सर्वदाकुर्याद्धृदये वाथ वा बहिः । सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि॥२५॥

दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा । कामाद्याश्चित्तगा दृश्या-स्तत्साक्षित्वेन चेतनम् ॥२६॥

ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सवि-कल्पकः ॥ असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ॥२७॥

अस्मीतिशब्द-विद्धोऽयं समाधिः सविकल्पकः । स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः॥२८॥

निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् । हृदीव बाह्य-देशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥२९॥

समाधिराद्यसन्मात्रान्नामरूपपृथ-----Page------------------६४८--क्कृतिः । स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥३०॥

एतैः समा-धिभिः षड्भिर्नयेत्कालं निरन्तरम् । देहाभिमाने गलिते विज्ञाते परमात्मनि ।यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥३१॥

भिद्यते हृदयग्रन्थिश्छि-द्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥३२॥

मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि । इति यस्तु विजानाति स मुक्तोनात्र संशयः ॥३३॥

इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ वाङ्मे मनसीति शान्तिः ॥इति सरस्वतीरहस्योपनिषत्समाप्ता ॥११३॥

पिण्डोपनिषत् ॥११४॥ सम्पाद्यताम्

पितॄणां हंसरूपाणां यन्ता श्रीमज्जनार्दनः ।भवतापप्रणुत्त्यर्थं सततं तमहं श्रये ॥१॥

ॐ पूर्णमदः पूर्णमदमिति शान्तिः ॥ॐ ॥ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् । मृतस्य दीयते पिण्डः कथंगृह्णन्त्यचेतसः ॥१॥

भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । हंसस्त्यक्त्वागतो देहं कस्मिँस्थाने व्यवस्थितः ॥२॥

त्र्यहं वसति तोयेषु त्र्यहं वसतिचाग्निषु ॥ त्र्यहमाकाशगो भूत्वा दिनमेकं तु वायुगः ॥३॥

प्रथमेन तुपिण्डेन कलानां तस्य संभवः । द्वितीयेन तु पिण्डेन मांसत्वक्शोणितोद्भवः॥४॥

तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते । चतुर्थेन तु पिण्डेनअस्थि मज्जा प्रजायते ॥५॥

पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् ।षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते ॥६॥

सप्तमेन तु पिण्डेन दीर्घमायुःप्रजायते । अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ॥७॥

नवमेन तुपिण्डेन सर्वेन्द्रियसमाहृतिः । दशमेन तु पिण्डेन भावानां प्लवनं तथा ।पिण्डे पिण्डशरीरस्य पिण्डदानेन संभवः ॥८॥

हरिः ॐ तत्सदित्युपनिषत् ॥ॐ पूर्णमद इति शान्तिः ॥इत्याथर्वणीया पिण्डोपनिषत्समाप्ता ॥११४॥

महोपनिषत् ॥११५॥ सम्पाद्यताम्

नारायणः परंब्रह्म सर्वेषां महसां महः ।अभ्यासाद्यद्विपश्यन्ति सन्तः संसारभेषजम् ॥१॥

अथातो महोपनिषदमेव । तदाहुरेको ह वै नारायण आसीन्न ब्रह्मा नईशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यः स एकाकीनर एव । तस्य ध्यानान्तःस्थस्य यन्नःस्तोममुच्यते । तस्मिन् पुरुषाश्चतुर्दशा-जायन्त एका कन्या । दशेन्द्रियाणि मन एकादशम् । तेजो द्वादशम् । अह-ङ्कारस्त्रयोदशः । प्राणाश्चतुर्दश आत्मा । पञ्चदशी बुद्धिः । पञ्चतन्मात्राणिपञ्चमहाभूतानि । स एष पञ्चविंशकः पुरुषः । तं पुरुषं पुरुषो निवेश्य । नास्यप्रजा नसंवत्सरा जायन्ते संवत्सरादधि जायन्ते ॥१॥

इत्यथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायेत तस्य ध्यानान्तः-स्थस्य ललाटात्त्र्यक्षः शूलपाणिः पुरुषोऽजायत बिभ्रच्छ्रियं सत्यं ब्रह्मचर्यंतपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणिछन्दांसि तान्यङ्गेष्वाश्रितानि ॥२॥

अथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायेत । तस्य ध्यानान्तः-स्थस्य ललाटात्स्वेदोऽपतत् । ता इमाः प्रतता आपस्तासु तेजो हिरण्मय-मण्डं तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्यायत पूर्वामुखो भूत्वा भूरितिव्याहृतिर्गायत्रं छन्द ऋग्वेदः । पश्चिमामुखो भूत्वा भुव इति व्याहृतिस्त्रैष्टुभंछन्दो यजुर्वेदः । उत्तरामुखो भूत्वा स्वरिति व्याहृतिर्जागतं छन्दः सामवेदः ।दक्षिणामुखो भूत्वॐ जनदिति व्याहृत्यानुष्टुभं छन्दोऽथर्ववेदः । ॐ सहस्रशीर्षंदेवं सहस्राक्षं विश्वशम्भुवम् । विश्वतःपरमं नित्यं विश्वं नारायणं हरिम् ।विश्वमेवेदं पुरुषं तं विश्वमुपजीवति । ऋषिं विश्वेश्वरं देवं समुद्रेतं विश्वरूपि-णम् । पद्मकोशप्रतीकाशं लम्बत्याकोशसन्निभम् । हृदये चाप्यधोमुखं सन्ततेशीकराभिश्च । तस्य मध्ये महानर्चिर्विश्वार्चिविश्वतोमुखम् । तस्य मध्येवह्निशिखा अणीयोर्ध्वा व्यवस्थिता । तस्यै शिखायै मध्ये पुरुषः परमात्माव्यवस्थितः । स ब्रह्मा स ईशानः सोऽक्षरः परमः स्वराट् ॥३॥

य इदं महोपनिषदं ब्राह्मणोऽधीतेऽश्रोत्रियः श्रोत्रियो भवत्यनुपनीत उप-नीतो भवति । सोऽग्निपूतो भवति । स वायुपूतो भवति । स सूर्यपूतो भवति ।-----Page-----------------६५०--स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वैर्देवै-र्ज्ञातो भवति । स सर्वैर्वेदैरनुध्यातो भवति । स सर्वेषु तीर्थेषु स्नातो भवति ।तेन सर्वैः क्रतुभिरिष्टं भवति । गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति ।इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति । प्रणवानामयुतंजप्तं भवति । आ चक्षुषः पङ्क्तिं पुनात्यासप्तमात्पुरुषयुगात्पुनातीत्याह भगवानुहिरण्यगर्भः । जाप्येनामृतत्वं गच्छत्यमृतत्वं गच्छतीति ॥४॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥इत्याथर्वणीया महोपनिषत्समाप्ता ॥११५॥

बह्वृचोपनिषत् ॥११६॥ सम्पाद्यताम्

बह्वृचाख्यब्रह्मविद्यामहाखण्डार्थवैभवम् ।अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥१॥

ॐ वाङ्मे मनसीति शान्तिः ॥ हरिः ॐ ॥ देवी ह्येकाग्र आसीत् सैव जगदण्डमसृजत् । कामकलेतिविज्ञायते । शृङ्गारकलेति विज्ञायते तस्या एव ब्रह्मा अजीजनत् । विष्णुर-जीजनत् । रुद्रोऽजीजनत् । सर्वे मरुद्गणा अजीजनन् । गन्धर्वाप्सरसःकिंनरा वादित्रवादिनः समन्तादजीजनन् । भोग्यमजीजनत् । सर्वमजीजनत् ।सर्वं शाक्तिमजीजनत् । अण्डजं स्वेदजमुद्भिज्जं शरायुजं यत्किंचैतत्प्राणि स्थावर-जङ्गमं मनुष्यमजीजनत् ॥ सैषाऽपरा शक्तिः । सैषा शांभवी विद्या कादि-विद्येति वा हादिविद्येति वा सादिविद्येति वा रहस्यम् । ओमॐ वाचि प्रतिष्ठासैव पुरुत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती देशकालवस्त्वन्त-रसङ्गान्महात्रिपुरसुन्दरी वै प्रत्यक् चितिः । सैवात्मा ततोऽन्यदसत्यमनात्माअत एष ब्रह्मसंवित्तिर्भावाभावकलाविनिर्मुक्ता चिदाद्याद्वितीयब्रह्मसंवित्तिःसच्चिदानन्दलहरी महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य स्वयमेकैव विभाति ।यदस्ति सन्मात्रम् । यद्विभाति चिन्मात्रम् । यत्प्रयमानन्दं तदेतत्सर्वाकारामहात्रिपुरसुन्दरी । त्वं चाहं च सर्वं विश्वं सर्वदेवता । इतरत्सर्वं महात्रिपुर सुन्दरी । सत्यमेकं ललिताख्यं वस्तु तदद्वितीयमखण्डार्थं परं ब्रह्म । पञ्चरूप-परित्यागादस्वरूपप्रहाणतः । अधिष्ठानं परं तत्त्वमेकं सच्छिष्यते महत् ॥इति । प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा भाष्यते । तत्त्वमसीत्येव संभा-ष्यते । अयमात्मा ब्रह्मेति वा ब्रह्मैवाहमस्मीति वा योऽहमस्मि वा सोऽह-मस्मीति वा योऽसौ सोऽहमस्मीति वा या भाष्यते सैषा षोडशी श्रीविद्यापञ्चदशाक्षरी श्रीमहात्रिपुरसुन्दरी बालाम्बिकेति बगलेति वा मातङ्गीतिस्वयंवरकल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति वाराहीति तिरस्करि-णीति राजमातङ्गीति वा शुकश्यामलेति वा लघुश्यामलेति वा अश्वारूढेतिवा प्रत्यङ्गिरा धूमावती सावित्री सारस्वती ब्रह्मानन्दकलेति । ऋचो अक्षरेपरमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करि-ष्यति । य इत्तद्विदुस्त इमे समासते ॥ इत्युपनिषात् ॥ हरिः ॐ तत्सत् ॥ॐ वाङ्मे मनसीति शान्तिः ॥इति बह्वृचोपनिषत्समाप्ता ॥११६॥

आश्रमोपनिषात् ॥११७॥ सम्पाद्यताम्

सर्वाश्रमाः समभवन् यस्मात्सोऽयं जनार्दनः ।कैवल्यावाप्तये भूयात्सदाचाररतान्हि तान् ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥ अथातश्चत्वार आश्रमाः षोडशभेदा भवन्ति । तत्र ब्रह्मचारिण-श्चतुर्विधा भवन्ति गायत्रो ब्राह्मणः प्राजापत्यो बृहन्निति । य उपनयनादूर्ध्वंत्रिरात्रमक्षारलवणाशी गायत्रीमन्त्रे स गायत्रः । योऽष्टाचत्वारिंशद्वर्षाणिवेदब्रह्मचर्यं चरेत्प्रतिवेदं द्वादश वा यावद्ग्रहणान्तं वा वेदस्य स ब्राह्मणः ।स्वदारनिरत ऋतुकालाभिगामी सदा परदारवर्जी प्राजापत्यः । अथवाचतुर्विंशतिवर्षाणि गुरुकुलवासी ब्राह्मणोऽष्टाचत्वारिंशद्वर्षवासी च प्राजा-पत्यः । आ प्रायणाद्गुरोरपरित्यागी नैष्टिको बृहन्निति ॥१॥

गृहस्था अपिचतुर्विधा भवन्ति--वार्ताकवृत्तयः शालीनवृत्तयो यायावरा घोरसंन्यासिका-श्चेति । तत्र वार्ताकवृत्तयः कृषिगोरक्षवाणिज्यमगर्हितमुपयुञ्जानाः शत-संवत्सराभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । शालीनवृत्तयो यजन्तो न याजयन्तोऽधीयाना नाध्यापयन्तो ददतो न प्रतिगृह्णन्तः शतसंवत्सराभिःक्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । यायावरा यजन्तो याजयन्तोऽधीयानाअध्यापयन्तो ददतः प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानंप्रार्थयन्ते । घोरसंन्यासिका उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्तः प्रतिदिव-समाहृतोञ्छवृत्तिमुपयुञ्जानाः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानंप्रार्थयन्ते ॥२॥

वानप्रस्था अपि चतुर्विधा भवन्ति वैखानसा उदुम्बराबालखिल्याः फेनपाश्चेति । तत्र वैखानसा अकृष्टपच्यौषधिवनस्पतिभिर्ग्राम-बहिष्कृताभिरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानंप्रार्थयन्ते । उदुम्बराः प्रातरुत्थाय यां दिशमभिप्रेक्षन्ते तदाहृतोदुम्बरबदर-नीवारश्यामाकैरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानंप्रार्थयन्ते । बालखिल्या जटाधराश्चीरचर्मवल्कलपरिवृताः कार्तिक्यां पौर्णमास्यांपुष्पफलमुत्सृजन्तः शेषानष्टौ मासान् वृत्त्युपार्जनं कृत्वाऽग्निपरिचरणं कृत्वापञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानं प्रार्थयन्ते । फेनपा उन्मत्तकाःशीर्णपर्णफलभोजिनो यत्र यत्र वसन्तोऽग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियांनिर्वर्तयन्त आत्मानं प्रार्थयन्ते ॥३॥

परिव्राजका अपि चतुर्विधा भवन्ति--कुटीचरा बहूदका हंसाः परमहंसाश्चेति । तत्र कुटीचराः स्वपुत्रगृहेषुभिक्षाचर्यं चरन्त आत्मानं प्रार्थयन्ते । बहूदकास्त्रिदण्डकमण्डलुशिक्यपक्ष-जलपवित्रपात्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारिणः साधुवृत्तेषुब्राह्मणकुलेषु भैक्षाचर्यं चरन्त आत्मानं प्रार्थयन्ते । हंसा एकदण्डधराःशिखावर्जिता यज्ञोपवीतधारिणः शिक्यकमण्डलुहस्ता ग्रामैकरात्रवासिनोनगरे तीर्थेषु पञ्चरात्रं वसन्त एकरात्रद्विरात्रकृच्छ्रचान्द्रायणादि चरन्तआत्मानं प्रार्थयन्ते । परमहंसा नदण्डधरा मुण्डाः कन्थाकौपीनवाससो-ऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रिदण्डकमण्डलु-शिक्यपक्षजलपवित्रपात्रपादुकासनशिखायज्ञोपवीतानां त्यागिनः शून्यागार-देवगृहवासिनो न तेषां धर्मो नाधर्मो न चानृतं सर्वंसहाः सर्वसमाः सम-लोष्टाश्मकाञ्चना यथोपपन्नचातुर्वर्ण्यभैक्षाचर्यं चरन्त आत्मानं मोक्षयन्तआत्मानं मोक्षयन्त इति ॥४॥

ॐ तत्सदित्युपनिषत् ॥ॐ पूर्णमद इति शान्तिः ॥इत्याथर्वणीयाश्रमोपनिषत्समाप्ता ॥११७॥


Page-----------------६५३--


सौभाग्यलक्ष्म्युपनिषत् ॥११८॥ सम्पाद्यताम्

सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति ।त्रिपान्नारायणानन्दरामचन्द्रपदं भजे ॥१॥

ॐ वाङ्मे मनसीति शान्तिः ॥हरिः ॐ ॥

अथ भगवन्तं देवा ऊचुर्हे भगवन्नः कथय सौभाग्यलक्ष्मी-विद्याम् । तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा यूयं सावधानमनसो भूत्वाशृणुत तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठ-देवतापरिवृतां चतुर्भुजां श्रियं हिरण्यवर्णामिति पञ्चदशर्ग्भिर्ध्यायेत् । अथपञ्चदश ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्लीतेन्दिरासुता ऋषयः । श्री-रिष्याद्या ऋचः चतुर्दशानामृचामानन्दाऋषयः । हिरण्यवर्णाद्याद्यत्रयस्यानुष्टुप्छन्दः । कांसोऽस्मीत्यस्य बृहती छन्दः । तदन्ययोर्द्वयोस्त्रिष्टुप् । पुनरष्टकस्यानु-ष्टुप् । शेषस्य प्रस्तारपङ्क्तिः । श्र्यग्निर्देवता । हिरण्यवर्णामिति बीजम् । कांसोऽ-स्मीति शक्तिः । हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति प्रणवादि-नमोऽन्तैश्चतुर्थ्यन्तैरङ्गन्यासः । अथ वक्त्रत्रयैरङ्गन्यासः । मस्तकलोचनाश्रुघ्राण-वदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्घेषु श्रीसूक्तैरेव क्रमशो न्यसेत् ।अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाऽभीतियुग्माम्बुजा च । मणि-कटकविचित्रालंकृताकल्पजालैः सकलभुवनमाता संततं श्रीः श्रियै नः॥१॥

तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् । वस्वादित्यकलापद्मेषु श्रीसू-क्तगतार्धार्धर्चा तद्बहिर्यः शुचिरिति मातृकया च श्रियं यन्त्राङ्गदशकं चविलिख्य श्रियमावाहयेत् । अङ्गैः प्रथमा वृतिः । पद्मादिभिर्द्वितीया । लोके-शैस्तृतीया । तदायुधैस्तुरीया वृतिर्भवति । श्रीसूक्तैराहनादि । षोडशस-हस्रजपः । सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री । श्रिय ऋष्यादयः । शमितिबीजशक्तिः । श्रीमित्यादि षडङ्गम् । भूयाद्भूयो द्विपद्माभयवरदकरा तप्त-कार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरघृतकुम्भाद्भिरासिच्यमाना । रक्तौघा-बद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिःपद्मगा श्रीः श्रियै नः ॥१॥

तत्पीठम् । अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डंचतुरस्रं रमापीठं भवति । कर्णिकायां ससाध्यं श्रीबीजम् । विभूतिरुन्नतिःकान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः सत्कृष्टिरृद्धिरिति प्रणवादिनमोन्तै-श्चतुर्थ्यन्तैर्नवशक्तिं यजेत् । अङ्गे प्रथमा वृतिः । वासुदेवादिभिर्द्वितीया । बालाक्यादिभिस्तृतीया । इन्द्रादिभिश्चतुर्थी भवति । द्वादशलक्षजपः ।श्रीलक्ष्मीर्वरदा विष्णुपत्नी वसुप्रदा हिरण्यरूपा स्वर्णमालिनी रजतस्रजास्वर्णप्रभा स्वर्णप्राकारा पद्मवासिनी पद्महस्ता पद्मप्रिया मुक्तालंकाराचन्द्रसूर्या बिल्वप्रिया ईश्वरी भुक्तिर्भुक्तिर्विभूतिरृद्धिः समृद्धिः कृष्टिःपुष्टिर्धनदा धनेश्वरी श्रद्धा भोगिनी भोगदा सावित्री धात्री विधा-त्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता मन्त्राः । एकाक्षरवदङ्गादिपीठम् ।लक्षजपः । दशांशं तर्पणम् । दशांशं हवनम् । द्विजतृप्तिः । निष्का-मानामेव श्रीविद्यासिद्धिः । न कदापि सकामानामिति ॥१॥

अथ हैनंदेवा ऊचुस्तुरीयया मायया निर्दिष्टं तत्त्वं ब्रूहीति । तथेति स होवाच ।योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते । योऽप्रमत्तस्तु योगेन स योगीरमते चिरम् ॥१॥

समापय्य निद्रां सुजीर्णेऽल्पभोजी श्रमत्याज्यबाधेविविक्ते प्रदेशे । सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ वा प्रणरोधो निजाभ्या-समार्गात् ॥२॥

वक्त्रेणापूर्य वायुं हुतवहनिलयेऽपानमाकृष्य धृत्वा स्वाङ्गुष्ठा-द्यङ्गुलीभिर्वरकरतलयोः षड्भिरेवं निरुध्य । श्रोत्रे नेत्रे च नासापुटयुग-लमथोऽनेन मार्गेण सम्यक्पश्यन्ति प्रत्ययांशं प्रणवबहुविधध्यानसंलीन-चित्ताः ॥३॥

श्रवणमुखनयननासानिरोधनेनैव कर्तव्यम् । शुद्धसुषुम्ना-सरणौ स्फुटममलं श्रूयते नादः ॥४॥

विचित्रघोषसंयुक्तानाहते श्रूयतेध्वनिः । दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥५॥

संपूर्णहृदयःशून्ये त्वारम्भे योगवान्भवेत् । द्वितीया विघटीकृत्य वायुर्भवति मध्यगः॥६॥

दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः । विष्णुग्रन्थेस्ततो भेदात्परमा-नन्दसंभवः ॥७॥

अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् । तृतीयांयत्नतो भित्त्वा निनादो मर्दनध्वनिः ॥८॥

महाशून्यं ततो याति सर्वसिद्धि-समाश्रयम् । चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥९॥

निष्पत्तौवैष्णवः शब्दः क्वणतीति क्वणो भवेत् । एकीभूतं तदा चित्तं सनकादिमुनी-डितम् ॥१०॥

अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् । भूमानंप्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत् ॥११॥

योगेन योगं संरोध्य भावंभावेन चाञ्जसा । निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत् ॥१२॥

अहं-भावं परित्यज्य जगद्भावमनीदृशम् । निर्विकल्पे स्थितो विद्वान्भूयो नाप्य-नुशोचति ॥१३॥

सलिले सैन्धवं यद्वत्साम्यं भवति योगतः । तथात्ममन-सोरैक्यं समाधिरभिधीयते ॥१४॥

यदा संक्षीयते प्राणो मानसं च प्रली-यते । तदा समरसत्वं यत्समाधिरभिधीयते ॥१५॥

यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः । समस्तनष्टसंकल्पः समाधिरभिधीयते ॥१६॥

प्रभा-शून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । सर्वशून्यं निराभासं समाधिरभि-धीयते ॥१७॥

स्वयमुच्चलिते देहे देही नित्यसमाधिना । निश्चलं तं विजा-नीयात्समाधिरभिधीयते ॥१८॥

यत्र यत्र मनो याति तत्र तत्र परं पदम् ।तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥१९॥

इति ॥२॥

अथ हैनं देवाऊचुर्नवचक्रविवेकमनुब्रूहीति । तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृतंभगमण्डलाकारम् । तत्र मूलकन्दे शक्तिः पावकाकारं ध्यायेत् । तत्रैव काम-रूपपीठं सर्वकामप्रदं भवति । इत्याधारचक्रम् । द्वितीयं स्वाधिष्ठानचक्रं षड्-दलम् । तन्मध्ये पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसदृशं ध्यायेत् । तत्रैवो-ड्याणपीठं जगदाकर्षणसिद्धिदं भवति । तृतीयं नाभिचक्रं पञ्चावर्तं सर्पकुटि-लाकारम् । तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां तडित्प्रभां तनुमध्यांध्यायेत् । सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति । मणिपूरकचक्रं हृदयचक्रम् ।अष्टदलमधोमुखम् । तन्मध्ये ज्योतिर्मयलिङ्गाकारं ध्यायेत् । सैव हंसकलासर्वप्रिया सर्वलोकवश्यकरी भवति । कण्ठचक्रं चतुरङ्गुलम् । तत्र वामे इडाचन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां श्वेतवर्णां ध्यायेत् । यएवं वेदानाहता सिद्धिदा भवति । तालुचक्रम् । तत्रामृतधाराप्रवाहः । घण्टि-कालिङ्गमूलचक्ररन्ध्रे राजदन्तावलम्बिनीविवरं दशद्वादशारम् । तत्र शून्यंध्यायेत् । चित्तलयो भवति । सप्तमं भ्रूचक्रमङ्गुष्टमात्रम् । तत्र ज्ञाननेत्रंदीपशिखाकारं ध्यायेत् । तदेव कपालकन्दवाक्सिद्धिदं भवति । आज्ञाचक्र-मष्टमम् । ब्रह्मरन्ध्रं निर्वाणचक्रम् । तत्र सूचिकागृहेतरं धूम्रशिखाकारंध्यायेत् । तत्र जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रम् । नवममाकाश-चक्रम् । तत्र षोडशदलपद्ममूर्ध्वमुखं तन्मध्यकर्णिकात्रिकूटाकारम् ।तन्मध्ये ऊर्ध्वशक्तिः । तां पश्यन्ध्यायेत् । तत्रैव पूर्णगिरिपीठं सर्वेच्छालिद्धि-साधनं भवति । सौभाग्यलक्ष्म्युपनिषदं नित्यमधीते सोऽग्निपूतो भवति । सवायुपूतो भवति । स सकलधनधान्यसत्पुत्रकलत्रहयभूगजपशुमहिषीदासी-दासयोगज्ञानवान्भवति । न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् ॥ॐ वाङ्मे मनसीति शान्तिः ॥ हरिः ॐ तत्सत् ॥इति श्रीसौभाग्यलक्ष्म्युपनिषत्समाप्ता ॥११८॥


योगशिखोपनिषत् ॥११९॥ सम्पाद्यताम्

योगीश्वरं रमानाथं सच्चिदानन्दविग्रहम् ।योगशास्त्रप्रवक्तारं नौमि कैवल्यप्राप्तये ॥१॥

ॐ पूर्णमद इति शान्तिः ॥ॐ योगशिखां प्रवक्ष्यामि सर्वज्ञानेषु चोत्तमाम् । यदा तु ध्यायते मन्त्रंगात्रकम्पोऽभिजायते ॥१॥

आसनं पद्मकं बद्ध्वा यच्चान्यद्वापि रोचते ।कुर्यान्नासाग्रदृष्टिं च हस्तौ पादौ च संयतौ ॥२॥

मनः सर्वत्र संयम्य ॐकारंतत्र चिन्तयेत् । ध्यायेत सततं प्राज्ञो हृत्कृत्वा परमेष्ठिनम् ॥३॥

एक-स्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते । ईदृशे तु शरीरे वा मतिमानुपलक्षयेत्॥४॥

आदित्यमण्डलं दिव्यं रश्मिज्वालासमाकुलम् । तस्य मध्यगतो वह्निःप्रज्वलेद्दीपवर्तिवत् ॥५॥

इति योगशिखोपनिषत्सु प्रथमः खण्डः ॥१॥

दीपशिखायां या मात्रा सा मात्रा परमेष्ठिनः ॥१॥

भिन्दन्ति योगिनःसूर्यं योगाभ्यासेन वै पुनः ॥२॥

द्वितीयं सुषुम्नाद्वारं परिशुद्धं विसर्पति ।कपालसंपुटं भित्त्वा ततः पश्यन्ति तत्परम् ॥३॥

इति योगशिखोपनिषत्सु द्वितीयः खण्डः ॥२॥

अथ न ध्यायेज्जन्तुरालस्याच्च प्रमादतः । यदि त्रिकालमावर्तेत्स गच्छे-त्परमं पदम् ॥१॥

पुण्यमेतत्समासाद्य संक्षेपात्कथितं मया । लब्धयोगेनबोद्धव्यं प्रसन्नं परमेष्ठिनम् ॥२॥

जन्मान्तरसहस्रेषु यदा नाश्नाति किल्बि-षम् । तदा पश्यन्ति योगेन संसारच्छेदनं परं संसारच्छेदनं परमिति ॥३॥

इति योगशिखोपनिषत्सु तृतीयः खण्डः ॥३॥

ॐ पूर्णमद इति शान्तिः ॥ इत्याथर्वणीया योगशिखोपनिषत्समाप्ता ॥११९॥


Page-----------------६५७--

मुक्तिकोपनिषत् ॥१२०॥ सम्पाद्यताम्

ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् ।मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥१॥

हरिः ॐ पूर्णमद इति शान्तिः ॥हरिः ॐ ॥

अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे । सीताभरतसौमित्रिशत्रु-घ्नाद्यैः समन्वितम् ॥१॥

सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः । अन्यै-र्भागवतैश्चापि स्तूयमानमहर्निशम् ॥२॥

धीविक्रियासहस्राणां साक्षिणं निर्वि-कारिणम् । स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥३॥

भक्त्या शुश्रूषयारामं स्तुवन्पप्रच्छ मारुतिः । राम त्वं परमात्मासि सच्चिदानन्दविग्रहः ॥४॥

इदाणीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः । त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राममुक्तये ॥५॥

अनायासेन येनाहं मुच्येयं भवबन्धनात् । कृपया वद मेराम येन मुक्तो भवाम्यहम् ॥६॥

साधु पृष्टं महाबाहो वदामि शृणुतत्त्वतः । वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥७॥

वेदान्ताः के रघुश्रेष्ठवर्तन्ते कुत्र ते वद । हनूमञ्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥८॥

निःश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः । तिलेषु तैलवद्वेदे वेदान्तःसुप्रतिष्ठितः ॥९॥

राम वेदाः कतिविधास्तेषां शाखाश्च राघव । तासूपनि-षदः काः स्युः कृपया वद तत्त्वतः ॥१०॥

श्रीराम उवाच । ऋग्वेदादि-विभागेन वेदाश्चत्वार ईरिताः । तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा॥११॥

ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसंख्यकाः । नवाधिकशतं शाखायजुषो मारुतात्मज ॥१२॥

सहस्रसंख्यया जाताः शाखाः साम्नः परन्तप ।अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥१३॥

एकैकस्यास्तु शाखायाएकैकोपनिषन्मता । तासामेकामृचं यश्च पठते भक्तितो मयि ॥१४॥

समत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । राम केचिन्मुनिश्रेष्ठ मुक्तिरेकेतिचक्षिरे ॥१५॥

केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः । अन्ये तु सांख्ययोगेनभक्तियोगेन चापरे ॥१६॥

अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः । सालो-क्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥१७॥

स होवाच श्रीरामः । कैवल्य-मुक्तिरेकैव पारमार्थिकरूपिणी । दुराचाररतो वापि मन्नामभजनात्कपे ॥१८॥


Page-----------------६५८--सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् । काश्यां तु ब्रह्मनालेऽस्मि-न्मृतो मत्तारमाप्नुयात् ॥१९॥

पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः ।यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः ॥२०॥

जन्तोर्दक्षिणकर्णे तुमत्तारं समुपादिशेत् । निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् ॥२१॥

सैव सालोक्यसारूप्यमुक्तिरित्यभिधीयते । सदाचाररतो भूत्वा द्विजो नित्य-मनन्यधीः ॥२२॥

मयि सर्वात्मके भावो मत्सामीप्यं भजत्ययम् । सैवसालोक्यसारूप्यसामीप्या मुक्तिरिष्यते ॥२३॥

गुरूपदिष्टमार्गेण ध्यायन्म-द्गुणमव्ययम् । मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् ॥२४॥

सैवसायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा । चतुर्विधा तु या मुक्तिर्मदुपासनयाभवेत् ॥२५॥

इयं कैवल्यमुक्तिस्तु केनोपायेन सिध्यति । मांण्डूक्यमेकमे-बालं मुमुक्षूणां विमुक्तये ॥२६॥

तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ ।ज्ञानं लब्ध्वाऽचिरादेव मामकं धाम यास्यसि ॥२७॥

तथापि दृढता नोचेद्विज्ञानस्याञ्जनासुत । द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥२८॥

विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ । तासां क्रमं सशान्तिं च शृणु वक्ष्यामितत्त्वतः ॥२९॥

ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः । ऐररेयं च छान्दोग्यंबृहदारण्यकं तथा ॥३०॥

ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । गर्भोनारायणो हंसो बिन्दुर्नादशिरःशिखा ॥३१॥

मैत्रायणी कौषीतकी बृहज्जाबा-लतापनी । कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥३२॥

सर्वसारं निरा-लम्बं रहस्यं वज्रसूचिकम् । तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥३३॥

परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् । दक्षिणा शरभं स्कन्दंमहानारायणाह्वयम् ॥३४॥

रहस्यं रामतपनं वासुदेवं च मुद्गलम् ।शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा ॥३५॥

तुरीयातीतसंन्यासपरि-व्राजाक्षमालिका । अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥३६॥

सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवीत्रिपुरा कठ-भावना । हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥३७॥

तारसारमहावा-क्यपञ्चब्रह्माग्निहोत्रकम् । गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥३८॥

शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् । कलिजाबालिसौभाग्यरहस्यऋच-मुक्तिका ॥३९॥

एवमष्टोत्तरशतं भावनात्रयनाशनम् । ज्ञानवैराग्यदं पुंसांवासनात्रयनाशनम् ॥४०॥

पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् । वेद-----Page------------------६५९--विद्याव्रतस्रातदेशिकस्य मुखात्स्वयम् ॥४१॥

गृहीत्वाऽष्टोत्तरशतं ये पठन्तिद्विजोत्तमाः । प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥४२॥

ततःकालवशादेव प्रारब्धे तु क्षयं गते । वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः ॥४३॥

सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम् । सकृच्छ्रवणमात्रेणसर्वाघौघनिकृन्तनम् ॥४४॥

मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन । इदंशास्त्रं मयादिष्टं गुह्युमष्टोत्तरं शतम् ॥४५॥

ज्ञानतोऽज्ञानतो वापि पठतांबन्धमोचकम् । राज्यं देयं धनं देयं याचतः कामपूरणम् ॥४६॥

इद-मष्टोत्तरशतं न देयं यस्य कस्यचित् । नास्तिकाय कृतघ्नाय दुराचाररताय वै॥४७॥

मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते । गुरुभक्तिविहीनाय दातव्यंन कदाचन ॥४८॥

सेवापराय शिष्याय हितपुत्राय मारुते । मद्भक्तायसुशीलाय कुलीनाय सुमेधसे ॥४९॥

सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरंशतम् । यः पठेच्छृणुयाद्वापि स मामेति न संशयः । तदेतदृचाभ्युक्तम्--विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि । असूयकायानृ-जवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् । यमेव विद्याश्रुतमप्रमत्तंमेधाविनं ब्रह्मचर्योपपन्नम् । तस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्ण-वीमात्मनिष्ठाम् ॥ इति ॥१॥

अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति । स होवाच श्रीरामः । ऐतरेय-कौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा-नामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥१॥

ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबालमन्त्रिकानिरालम्बत्रिशिखीब्राह्म-णमण्डलब्राह्मणाद्वयतारकपैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्यशा-ट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशतिसंख्याकानामुपनिषदांपूर्णमद इति शान्तिः ॥२॥

कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भना-रायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिकासर्वसारशुकरहस्यतेजोबिन्दुध्यान-बिन्दुब्रह्मविद्यायोगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षराक्ष्यवधूत-कठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्मप्राणाग्निहोत्रवराहकलिसंतरणसरस्वतीरह-स्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानामुपनिषदां स ह नाववत्वितिशान्तिः ॥३॥

केनच्छान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि-----Page------------------६६०--वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शनजाबालीनां सा-मवेदगतानां षोडशसंख्याकानामुपनिषदामाप्यायन्त्विति शान्तिः ॥४॥

प्रश्नमुण्डकमाण्डूक्याथर्वशिरोऽथर्वशिखाबृहज्जाबालनृसिंहतापनीनारदपरिव्रा-जकसीताशरभमहानारायणरामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राज-कान्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावनाब्रह्मजाबालगणपतिम-हावाक्यगोपालतपनकृष्णहयग्रीवदत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंश-त्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥५॥

मुमुक्षवः पुरुषाःसाधनचतुष्टयसंपन्नाः श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्यगुणवन्त-मकुटिलं सर्वभूतहिते रतं दयासमुद्रं सद्गुरुं विधिवदुपसंगम्योपहारपाणयोऽ-ष्टोत्तरशतोपनिषदं विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वाप्रारब्धक्षयाद्देहत्रयभङ्गं प्राप्योपाधिविनिर्मुक्तघटाकाशवत्परिपूर्णता विदेह-मुक्तिः । सैव कैवल्यमुक्तिरिति । अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदा-न्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञान-मात्रेणोक्ता । न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥इति मुक्तिकोपनिषत्सु प्रथमोऽध्यायः ॥१॥

तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ । केयं वा तत्सिद्धिः सिद्ध्या वाकिं प्रयोजनमिति । स होवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्वसुखदुःखादि-लक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो भवति । तन्निरोधनं जीवन्मुक्तिः । उपा-धिविनिर्मुक्तघटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः । जीवन्मुक्तिविदेहमुक्त्यो-रष्टोत्तरशतोपनिषादः प्रमाणम् । कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिःप्रयोजनं भवति । तत्पुरुषप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्टिना पुत्रंवाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणा-दिजनितसमाधिना जीवन्मुक्त्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः ।अत्र श्लोका भवन्ति--उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् ।तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥१॥

लोकवासनया जन्तोःशास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥२॥

द्विविधोवासनाव्यूहः शुभश्चैवाशुभश्च तौ । वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥३॥


Page-----------------६६१--तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि । अथ चेदशुभो भावस्त्वांयोजयति संकटे ॥४॥

प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे । शुभाशुभाभ्यांमार्गाभ्यां वहन्ती वासनासरित् ॥५॥

पौरुषेण प्रयत्नेन योजनीया शुभेपथि । अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ॥६॥

अशुभाच्चालितं यातिशुभं तस्मादपीतरत् । पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥७॥

द्राग-भ्यासवशाद्याति यदा ते वासनोदयम् । तदाभ्यासस्य साफल्यं विद्धि त्वमम-रिमर्दन ॥८॥

संदिग्धायामपि भृशं शुभामेव समाचर । शुभायांवासनावृद्धौ न दोषाय मरुत्सुत ॥९॥

वासनाक्षयविज्ञानमनोनाशा महा-मते । समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥१०॥

त्रय एवं समंयावन्नाभ्यस्ताश्च पुनः पुनः । तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः ॥११॥

एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् । तन्न सिद्धिं प्रयच्छन्ति मन्त्राःसंकीर्तिता इव ॥१२॥

त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः । निःश-ङ्कमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव ॥१३॥

जन्मान्तरशताभ्यस्ता मिथ्यासंसारवासना । सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥१४॥

तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना । भोगेच्छां दूरतस्त्यक्त्वा त्रयमेवसमाश्रय ॥१५॥

तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः । सम्यग्वास-नया त्यक्तं मुक्तमित्यभिधीयते । मनोनिर्वासनीभावमाचराशु महाकपे ॥१६॥

सम्यगालोचनात्सत्याद्वासना प्रविलीयते । वासनाविलये चेतः शममायातिदीपवत् ॥१७॥

वासनां संपरित्यज्य मयि चिन्मात्रविग्रहे । यस्तिष्ठति गत-व्यग्रः सोऽहं सच्चित्सुखात्मकः ॥१८॥

समाधिमथ कार्याणि मा करोतु करोतुवा । हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः ॥१९॥

नैष्कर्म्येण न तस्यार्थ-स्तस्यार्थोऽस्ति न कर्मभिः । न समाधनजाप्याभ्यां यस्य निर्वासनं मनः॥२०॥

संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥२१॥

वासनाहीनम-प्येतच्चक्षुरादीन्द्रियं स्वतः । प्रवर्तते बहिः स्वार्थे वासनामात्रकारणम्॥२२॥

अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः । नीरागमेव पततितद्वत्कार्येषु धीरधीः ॥२३॥

भावसंवित्प्रकटितामनुरूपा च मारुते । चित्त-स्योत्पत्त्युपरमा वासनां मुनयो विदुः ॥२४॥

दृढाभ्यस्तपदार्थैकभावना-दतिचञ्चलम् । चित्तं संजायते जन्मजराभरणकारणम् ॥२५॥

वासना-----Page------------------६६२--वशतः प्राणस्पन्दस्तेन च वासना । क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः॥२६॥

द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिंश्च तयोः क्षीणेक्षिप्रं द्वे अपि नश्यतः ॥२७॥

असङ्गव्यवहारत्वाद्भवभावनवर्जनात् । शरीर-नाशदर्शित्वाद्वासना न प्रवर्तते । वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम्॥२८॥

अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेतिपरमोपशमप्रदा ॥२९॥

अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । गुरुशास्त्र-प्रमाणैस्तु निर्णीतं तावदाचर ॥३०॥

ततः पक्वकषायेण नूनं विज्ञात-वस्तुना । शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥३१॥

द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तः सरूपः स्यादरूपोदेहमुक्तिगः ॥३२॥

अस्य नाशमिदानीं त्वं पावने शृणु सादरम् ॥३३॥

चित्तनाशाभिधानं हि यदा ते विद्यते पुनः । मैत्र्यादिभिर्गुणैर्युक्तं शान्ति-मेति न संशयः । भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥३४॥

सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । अरूपस्तु मनोनाशो वैदेही-मुक्तिगो भवेत् ॥३५॥

सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ॥३६॥

अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् । संकल्प एव तन्मन्ये संकल्पो-पशमेन तत् ॥३७॥

शोषयाशु यथा शोषमेति संसारपादपः । उपाय एकएवास्ति मनसः स्वस्य निग्रहे ॥३८॥

मनसोऽभ्युदयो नाशो मनोनाशोमहोदयः । ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला ॥३९॥

ताव-न्निशीव वेताला वल्गन्ति हृदि वासनाः । एकतत्त्वदृढाभ्यासाद्यावन्न विजितंमनः ॥४०॥

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । पद्मिन्य इव हेमन्तेक्षीयन्ते भोगवासनाः ॥४१॥

हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्यच । अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥४२॥

उपविश्योपवि-श्यैकां चिन्तकेन मुहुर्मुहुः । न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम्॥४३॥

अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः । अध्यात्मविद्याधिगमःसाधुसंगतिरेव च ॥४४॥

वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।एतास्ता युक्तयः पुष्टा सन्ति चित्तजये किल ॥४५॥

सतीषु युक्तिष्वेतासुहठान्नियमयन्ति ये । चेतसो दीपमुत्सृज्य विचिन्वन्ति तप्तोऽञ्जनैः ॥४६॥

विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् ॥ ते विबध्नन्ति नागेन्द्रसुन्मत्तं-----Page-----------------६६३--बिसतन्तुभिः ॥४७॥

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः । एकंप्राणपरिस्पन्दो द्वितीयं दृढभावना ॥४८॥

सा हि सर्वगता संवित्प्राण-स्पन्देन चाल्यते । चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते ॥४९॥

तत्सा-धनमथो ध्यानं यथावदुपदिश्यते । विनाप्यविकृतिं कृत्स्नां संभवत्यत्य-यक्रमात् । यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय ॥५०॥

अपा-नेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि । तावत्सा कुम्भकावस्था योगिभि-र्याऽनुभूयते ॥५१॥

बहिरस्तंगते प्राणे यावन्नापान उद्गतः । तावत्पूर्णांसमावस्थां बहिष्ठं कुम्भकं विदुः ॥५२॥

ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतिंविना । संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥५३॥

प्रशान्तवृत्तिकंचित्तं परमानन्ददायकम् । असंप्रज्ञातनामायं समाधिर्योगिनां प्रियः ॥५४॥

प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् । अतद्व्यावृत्तिरूपोऽसौ समाधिर्मु-निभावितः ॥५५॥

ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् । साक्षा-द्विधिमुखो ह्येष समाधिः परमर्धिकः ॥५६॥

दृढभावनयात्यक्तपूर्वापरविचारणम् । यदादानं पदार्थस्य वासना सा पकीर्तिता ॥५७॥

भावितं तीव्रसंवेगादात्मना यत्तदेव सः । भवत्याशु कपिश्रेष्ठ विगते-तरवासनः ॥५८॥

तादृग्रूपो हि पुरुषो वासनाविवशीकृतः । संपश्यतियदैवैतत्सद्वस्त्विति विमुह्यति ॥५९॥

वासनावेगवैचित्र्यात्स्वरूपं न जहातितत् । भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥६०॥

वासना द्विविधाप्रोक्ता शुद्धा च मलिना तथा । मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी॥६१॥

अज्ञानसुधनाकारा घनाहंकारशालिनी । पुनर्जन्मकरी प्रोक्तामलिना वासना बुधैः । पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् ॥६२॥

बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन मारुते ज्योति-रान्तरम् ॥६३॥

दर्शनादर्शने हित्वा स्वयं केवलरूपतः । य आस्ते कपि-शार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ॥६४॥

अधीत्य चतुरो वेदान्सर्वशास्त्राण्यने-कशः । ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥६५॥

स्वदेहाशुचिगान्धेनन विरज्येत यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते ॥६६॥

अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचंविधीयते ॥६७॥

बद्धो हि वासनाबद्वो मोक्षः स्याद्वासनाक्षयः । वासनां-----Page-----------------६६४--संपरित्यज्य मोक्षार्थित्वमपि त्यज ॥६८॥

मानसीर्वासनाः पूर्वं त्यक्त्वाविषयवासनाः । मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः ॥५९॥

ताअप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तःशान्तः समस्नेहो भव चिन्मात्र-वासनः ॥७०॥

तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् । शेषस्थिर-समाधानो मयि त्वं भव मारुते ॥७१॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसंनित्यमगन्धवच्च यत् । अनामगोत्रं मम रूपमीदृशं भजस्व नित्यं पवनात्मजा-र्तिहन् ॥७२॥

दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् ।अलेपकं सर्वगतं यदद्वयं तदेव चाहं सकलं विमुक्त ॐ ॥७३॥

दृशिस्तुशुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद्विषयः स्वभावतः । पुरस्तिरश्चोर्ध्व-मधश्च सर्वतः सुपूर्णभूमाहमितीह भावय ॥७४॥

अजोऽमरश्चैव तथाऽजरो-ऽमृतः स्वयंप्रभः सर्वगतोऽहमव्ययः । न कारणं कार्यमतीत्य निर्मलः सदैवतृप्तोऽहमितीह भावय ॥७५॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥७६॥

तदेतदृचाभ्युक्तम्--तद्विष्णोःपरमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवोजागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐसत्यमित्युपनिषत् ।ॐपूर्णमदः पूर्णमिदं पूर्णात्पूर्नमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

इति मुक्तिकोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

हरिः ॐ तत्सत् ॥ॐ शान्तिः शान्तिः शान्तिः ॥

इति शुक्लयजुर्वेदगता मुक्तिकोपनिषत्समाप्ता ॥१२०॥

संपूर्णोऽयमुपनिषत्समुच्चयः ।

ॐ तत्सद्ब्रह्मार्पणमस्तु ।


Page-----------------६६५----------------------