प्रमुखा विकल्पसूचिः उद्घाट्यताम्

मैत्रेय्युपनिषत् ॥३१॥सम्पाद्यताम्

श्रुत्याचार्योपदेशेन मुनयो यत्पदं ययुः ।तत्स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ॥ॐ आप्यायन्त्विति शान्तिः ॥ॐ बृहद्रथो वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदमशाश्वतं मन्य-मानः शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम । स तत्र परमं तप आस्थायादि-त्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामाग्निरिवाधूम-कस्तेजसा निर्दहन्निवात्मविद्भगवाञ्छाकायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति-----Page-----------------२३८--राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमोवयं स त्वं नो ब्रूहीत्येतद्वृत्तं पुरस्तादशक्यं मा पृच्छ प्रश्नमैक्ष्वाकान्यान्कामा-न्वृणीष्वेति शाकायन्यस्य चरणावभिमृश्यमानो राजेमां गाथां जगाद ॥१॥

अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनंस्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां सोऽहमित्येत-द्विधेऽस्मिन्संसारे किं कामोपभोगैर्यैरवाश्रितस्यासकृदुपावर्तनं दृश्यत इत्युद्ध-र्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिरिति ॥२॥

भगवञ्शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं निरय एव मूत्रद्वारेण निष्क्रान्त-मस्थिभिश्चितं मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रवातपित्तकफमज्जामेदोव-साभिरन्यैश्च मलैर्बहुभिः परिपूर्णमेतादृशे शरीरे वर्तमानस्य भगवंस्त्वं नोगतिरिति ॥३॥

अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज बृहद्रथेक्ष्वाकुवंश-ध्वजशीर्षात्मज्ञः कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं खल्वात्मा ते कतमोभगवान्वर्ण्य इति तं होवाच ॥ शब्दस्पर्शमया येऽर्था अनर्था इव ते स्थिताः ।येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥१॥

तपसा प्राप्यते सत्त्वंसत्त्वात्संप्राप्यते मनः । मनसा प्राप्यते ह्यात्मा ह्यात्मापत्त्या निवर्तते ॥२॥

यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति । तथा वृत्तिक्षयाच्चित्तं स्वयोना-वुपशाम्यति ॥३॥

स्वयोनावुपशान्तस्य मनसः सत्यगामिनः । इन्द्रियार्थ-विमूढस्यानृताः कर्मवशानुगाः ॥४॥

चित्तमेव हि संसारस्तत्प्रयत्नेन शोध-येत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥५॥

चित्तस्य हि प्रसादेनहन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥६॥

समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् ॥ यद्येवं ब्रह्मणि स्यात्तत्को नमुच्येत बन्धनात् ॥७॥

हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् । साक्षिणंबुद्धिवृत्तस्य परमप्रेमगोचरम् ॥८॥

अगोचरं मनोवाचामवधूतादिसंप्लवम् ।सत्तामात्रप्रकाशैकप्रकाशं भावनातिगम् ॥९॥

अहेयमनुपादेयमसामान्य-विशेषणम् । ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् । निर्विकल्पं निरा-भासं निर्वाणमयसंविदम् ॥१०॥

नित्यः शुद्धौ बुद्धमुक्तस्वभावः सत्यःसूक्ष्मः संविभुश्चाद्वितीयः । आनन्दाब्धिर्यः परः सोऽहमस्मि प्रत्यग्धातुर्नात्रसंशीतिरस्ति ॥११॥

आनन्दमन्तर्निजमाश्रयं तमाशापिशाचीमवमानय-न्तम् । आलोकयन्तं जगदिन्द्रजालमापत्कथं मां प्रविशेदसङ्गम् ॥१२॥


Page-----------------२३९--वर्णाश्रमाचारयुता विमूढाः कर्मानुसारेण फलं लभन्ते । वर्णादिधर्मं हि परि-त्यजन्तः स्वानन्दतृप्ताः पुरुषा भवन्ति ॥१३॥

वर्णाश्रमं सावयवं स्वरूप-माद्यन्तयुक्तं ह्यतिकृच्छ्रमात्रम् । पुत्रादिदेहेष्वभिमानशून्यं भूत्वा वसेत्सौख्य-तमे ह्यनन्त इति ॥१४॥

इति मैत्रेय्युपनिषत्सु प्रथमोऽध्यायः ॥१॥

द्वितीयोऽध्यायः ॥२॥

अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच भो भगवन्परमतत्त्वरह-स्यमनुब्रूहीति ॥ स होवाच महादेवः । देहो देवालयः प्रोक्तः स जीवःकेवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥१॥

अभेददर्शनंज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥२॥

ब्रह्मामृतं पिबेद्भैक्षमाचरेद्वेहरक्षणे । वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥३॥

जातं मृतमिदं देहं माता-पितृमलात्मकम् । सुखदुःखालयामेध्यं स्पृष्ट्वा स्नानं विधीयते ॥४॥

धातुबद्धंमहारोगं पापमन्दिरमध्रुवम् । विकाराकारविस्तीर्णं स्पृष्ट्वा स्नानं विधीयते॥५॥

नवद्वारमलस्रावं सदा काले स्वभावजम् । दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वास्नानं विधीयते ॥६॥

मातृसूतकसंबन्धं सूतके सह जायते । मृतसूतकजंदेहं स्पृष्ट्वा स्नानं विधीयते ॥७॥

अहंममेति विण्मूत्रलेपगन्धादिमोचनम् ।शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥८॥

चित्तशुद्धिकरं शौचंवासनात्रयनाशनम् । ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ॥९॥

अद्वैत-भावनाभैक्षमभक्ष्यं द्वैतभावनम् । गुरुशास्त्रोक्तभावेन भिक्षोर्भैक्षं विधीयते॥१०॥

विद्वान्स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः । कारागारविनिर्मुक्त-चोरवद्दूरतो वसेत् ॥११॥

अहंकारसुतं वित्तभ्रातरं मोहमन्दिरम् । आशापत्नींत्यजेद्यावत्तावन्मुक्तो न संशयः ॥१२॥

मृता मोहमयी माता जातोबोधमयः सुतः । सूतकद्वयसंप्राप्तौ कथं संध्यामुपास्महे ॥१३॥

हृदाकाशेचिदादित्यः सदा भासति भासति । नास्तमेति न चोदेति कथं संध्यामुपास्महे॥१४॥

एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम् । एतदेकान्तमित्युक्तं नमठो न वनान्तरम् ॥१५॥

असंशयवतां मुक्तिः संशयाविष्टचेतसाम् । नमुक्तिर्जन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात् ॥१६॥

कर्मत्यागान्न संन्यासो न-----Page-----------------२४०--प्रेषोच्चारणेन तु । संधौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ॥१७॥

वमनाहारवद्यस्य भाति सर्वेषणादिषु । तस्याधिकारः संन्यासे त्यक्तदेहाभिमा-निनः ॥१८॥

यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु । तदैव संन्यसेद्विद्वा-नन्यथा पतितो भवेत् ॥१९॥

द्रव्यार्थमन्नवस्त्रार्थं यः प्रतिष्ठार्थमेव वा ।संन्यसेदुभयभ्रष्टः स मुक्तिं नाप्तुमर्हति ॥२०॥

उत्तमा तत्त्वचिन्तैव मध्यमंशास्त्रचिन्तनम् । अधमा मन्त्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥२१॥

अनुभूतिंविना मूढो वृथा ब्रह्मणि मोदते । प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत्॥२२॥

न त्यजेच्चेद्यतिर्मुक्तो यो माधुकरमातरम् । वैराग्यजनकं श्रद्धाकलत्रंज्ञानन्दनम् ॥२३॥

धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च । ते सर्वेज्ञानवृद्धस्य किंकराः शिष्यकिंकराः ॥२४॥

यन्मायया मोहितचेतसोमामात्मानमापूर्णमलब्धवन्तः । परं विदग्धोदरपूरणाय भ्रमन्ति काका इवसूरयोऽपि ॥२५॥

पाषाणलोहमणिमृण्मयविग्रहेषु पूजा पुनर्जननभोगकरीमुमुक्षोः । तस्माद्यतिः स्वहृदयार्चनमेव कुर्याद्बाह्यार्चनं परिहरेदपुनर्भवाय॥२६॥

अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे । अन्तःशून्यो बहिःशून्यःशून्यकुम्भ इवाम्बरे ॥२७॥

मा भव ग्राह्यभावात्मा ग्राहकात्मा च माभव । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥२८॥

द्रष्टृदर्शन-दृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासमात्मानं केवलं भज॥२९॥

संशान्तसर्वसंकल्पा या शिलावदवस्थितिः । जाग्रन्निद्राविनिर्मुक्ता सास्वरूपस्थितिः परा ॥३०॥

इति मैत्रेय्युपनिषत्सु द्वितीयोऽध्यायः ॥२॥

तृतीयोऽध्यायः ॥३॥

अहमस्मि परश्चास्मि ब्रह्मास्मि प्रभवोऽस्म्यहम् । सर्वलोकगुरुश्चास्मि सर्व-लोकेऽस्मि सोऽस्म्यहम् ॥१॥

अहमेवास्मि सिद्धोऽस्मि शुद्धोऽस्मि परमो-ऽस्म्यहम् । अहमस्मि सदा सोऽस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥२॥

विज्ञानोऽस्मि विशेषोऽस्मि सोमोऽस्मि सकलोऽस्म्यहम् । शुभोऽस्मि शोक-हीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ॥३॥

मानावमानहीनोऽस्मि निर्गु-णोऽस्मि शिवोऽस्म्यहम् । द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम्॥४॥

भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भास्म्यहम् । शून्याशून्य-प्रभावोऽस्मि शोभनाशोभनोऽम्यहम् ॥५॥

तुल्यातुल्यविहीनोऽस्मि नित्यः-----Page-----------------२४१--शुद्धः सदाशिवः । सर्वासर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम् ॥६॥

एकसंख्याविहीनोऽस्मि द्विसंख्यावानहं न च । सदसद्भेदहीनोऽस्मि संकल्प-रहितोऽस्म्यहम् ॥७॥

नानात्मभेदहीनोऽस्मि ह्यखण्डानन्दविग्रहः । नाह-मस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ॥८॥

आश्रयाश्रयहीनोऽस्मिआधाररहितोऽस्म्यहम् । बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि सोऽस्म्यहम्॥९॥

चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः । सदा विचाररूपोऽस्मिनिर्विचारोऽस्मि सोऽस्म्यहम् ॥१०॥

अकारोकाररूपोऽस्मि मकारोऽस्मिसनातनः । ध्यातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ॥११॥

सर्वपूर्णस्वरूपोऽस्मि सच्चिदानन्दलक्षणः । सर्वतीर्थस्वरूपोऽस्मि परमात्मा-स्म्यहं शिवः ॥१२॥

लक्ष्यालक्ष्यविहीनोऽस्मि लयहीनरसोऽस्म्यहम् । मातृ-मानविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥१३॥

न जगत्सर्वद्रष्टास्मिनेत्रादिरहितोऽस्म्यहम् । प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम्॥१४॥

सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मकृदप्यहम् । सर्ववेदान्ततृप्तोऽस्मिसर्वदा सुलभोऽस्म्यहम् ॥१५॥

मुदितामुदिताख्योऽस्मि सर्वमौनफलोऽस्म्य-हम् । नित्यचिन्मात्ररूपोऽस्मि सदा सच्चिन्मयोऽस्म्यहम् ॥१६॥

यत्किंचि-दपि हीनोऽस्मि स्वल्पमप्यति नास्म्यहम् । हृदयग्रन्थिहीनोऽस्मि हृदयाम्भोज-मध्यगः ॥१७॥

षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् । अरिषड्वर्ग-मुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ॥१८॥

देशकालविमुक्तोऽस्मि दिग-म्बरसुखोऽस्म्यहम् । नास्ति नास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् ॥१९॥

अखण्डाकाशरूपोऽस्मि ह्यखण्डाकारमस्म्यहम् । प्रपञ्चमुक्तचित्तोऽस्मि प्रपञ्च-रहितोऽस्म्यहम् ॥२०॥

सर्वप्रकाशरूपोऽस्मि चिन्मात्रज्योतिरस्म्यहम् । काल-त्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् ॥२१॥

कायिकादिविमुक्तोऽस्मिनिर्गुणः केवलोऽस्म्यहम् । मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहंसदा ॥२२॥

सत्यासत्यादिहीनोऽस्मि सन्मात्रान्नास्म्यहं सदा । गन्तव्य-देशहीनोऽस्मि गमनादिविवर्जितः ॥२३॥

सर्वदा समरूपोऽस्मि शान्तोऽस्मिपुरुषोत्तमः । एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः ॥२४॥

यःशृणोति सकृद्वापि ब्रह्मैव भवति स्वयमित्युपनिषत् ॥ इति मैत्रेय्युपनिषत्सु तृतीयोऽध्यायः ॥३॥

ॐ आप्यायन्त्विति शान्तिः ॥

इति मैत्रेय्युपनिषत्समाप्ता ॥३१॥


Page-----------------२४२--

सुबालोपनिषत् ॥३२॥सम्पाद्यताम्

बीजाज्ञानमहामोहापह्नवाद्यद्विशिष्यते ।निर्बीजं त्रैपदं तत्त्वं तदस्मीति विचिन्तये ॥ॐ पूर्णमद इति शान्तिः ॥ॐ तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्न सदसदिति तस्मात्त-मः संजायते तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यःपृथिवी तदण्डं समभवत्तत्संवत्सरमात्रमुषित्वा द्विधाऽकरोदधस्ताद्भूमिमुपरि-ष्टादाकाशं मध्ये पुरुषो दिव्यः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।सहस्रबाहुरिति सोऽग्रे भूतानां मृत्युमसृजत्त्रयक्षरं त्रिशिरस्कं त्रिपादं खण्डपरशुंतस्य ब्रह्माभिधेति स ब्रह्माणमेव विवेश स मानसान्सप्त पुत्रानसृजत्ते ह विराजःसत्यमानसानसृजन्ते ह प्रजापतयः ॥ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ चन्द्रमा मनसो जातश्चक्षोःसूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च हृदयात्सर्वमिदं जायते ॥इति सुबालोपनिषत्सु प्रथमः खण्डः ॥१॥

अपानान्निषादा यक्षराक्षसगन्धर्वाश्चास्थिभ्यः पर्वता लोमभ्य ओषधिवन-स्पतयो ललाटात्क्रोधजो रुद्रो जायते तस्यैतस्य महतो भूतस्य निःश्वसितमे-वैतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तंछन्दो ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि व्यास्र्यानान्युपव्याख्या-नानि च सर्वाणि च भूतानि हिरण्यज्योतिर्यस्मिन्नयमात्माधिक्षियन्ति भुव-नानि विश्वा ॥ आत्मानं द्विधाऽकरोदर्धेन स्त्री अर्धेन पुरुषो देवो भूत्वा देवा-नसृजदृषिर्भूत्वा ऋषीन्यक्षराक्षसगन्धर्वान्ग्राम्यानारण्यांश्च पशूनसृजदितरागौरितरोऽनड्वानितरो वडवेतरोऽश्व इतरो गर्दभीतरो गर्दभ इतरा विश्वंभरी-तरो विश्वंभरः सोऽन्ते वैश्वानरो भूत्वा संदग्ध्वा सर्वाणि भूतानि पृथिव्यप्सुप्रलीयत आपस्तेजसि प्रलीयन्ते तेजो वायौ विलीयते वायुराकाशे विलीयतआकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ विलीयन्तेभूतादिर्महति विलीयते महानव्यक्ते विलीयतेऽव्यक्तमक्षरे विलीयते अक्षरंतमसि विलीयते तमः परे देव एकीभवति परस्तान्न सन्नासन्नासदसदित्ये-तन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥इति सुबालोपनिषत्सु द्वितीयः खण्डः ॥२॥


Page-----------------२४३--असद्वा इदमग्र आसीदजातमभूतमप्रतिष्ठितमशब्दमस्पर्शमरूपमरसमग-न्धमव्ययममहान्तमबृहन्तमजमात्मानं मत्वा धीरो न शोचति ॥ अप्राण-ममुखमश्रोत्रमवागमनोऽतेजस्कमचक्षुष्कमनामगोत्रमशिरस्कमपाणिपादमस्नि-ग्धमलोहितमप्रमेयमह्रस्वमदीर्घमस्थूलमनण्वनल्पमपारमनिर्देश्यमनपावृतमप्र-तर्क्यमप्रकाश्यमसंवृतमनन्तरमबाह्यं न तदश्नाति किंचन न तदश्नातिकश्चनैतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण निर्वेदनेनानाशकेन षडङ्गे-नैव साधयेदेतन्त्रयं वीक्षेत दमं दानं दयामिति न तस्य प्राणा उत्क्रामन्त्य-त्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ॥इति सुबालोपनिषत्सु तृतीयः खण्डः ॥३॥

हृदयस्य मध्ये लोहितं मांसपिण्डं यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवाने-कधा विकसितं हृदयस्य दश छिद्व्राणि भवन्ति येषु प्राणाः प्रतिष्ठिताः सयदा प्राणेन सह संयुज्यते तदा पश्यति नद्यो नगराणि बहूनि विविधानिच यदा व्यानेन सह संयुज्यते तदा पश्यति देवांश्च ऋषींश्च यदाऽपानेन सहसंयुज्यते तदा पश्यति यक्षराक्षसगन्धर्वान्यदा दानेन सह संयुज्यते तदापश्यति देवलोकान्देवान्स्कन्दं जयन्तं चेति यदा समानेन सह संयुज्यतेतदा पश्यति देवलोकान्धनानि च यदा वैरम्भेण सह संयुज्यते तदा पश्यतिदृष्टं च श्रुतं च भुक्तं चाभुक्तं च सच्चासच्च सर्वं पश्यति अथेमा दश दशनाड्यो भवन्ति । तासामेकैकस्य द्वासप्ततिर्द्वासप्तनिः शाखा नाडीसहस्राणिभवन्ति यस्मिन्नयमात्मा स्वपिति शब्दानां च करोत्यथ यद्द्वितीये स कोशेस्वपिति तदेमं च लोकं परं च लोकं पश्यति सर्वाञ्छब्दान्विजानाति ससंप्रसाद इत्याचक्षते प्राणः शरीरं परिरक्षति हरितस्य नीलस्य पीतस्य लोहि-तस्य श्वेतस्य नाड्यो रुधिरस्य पूर्णा अथात्रैतद्दहरं पुण्डरीकं कुमुदमिवानेकधाविकसितं यथा केशः सहस्रधा भिन्नस्तथा हिता नाम नाड्यो भवन्ति हृद्या-काशे परे कोशे दिव्योऽयमात्मा स्वपिति यत्र सुप्तो न कंचन कामं कामयतेन कंचन स्वप्नं पश्यति न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न मातान पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा तेजस्कायममृतं सलिलएवेदं सलिलं वनं भूयस्तेनैव मार्गेण जाग्राय धावति सम्राडिति होवाच ॥इति सुबालोपनिषत्सु चतुर्थः खण्डः ॥४॥

स्थानानि स्थानिभ्यो यच्छति नाडी तेषां निबन्धनं चक्षुरध्यात्मं द्रष्टव्यम-धिभूतमादित्यस्तत्राधिदैवतं नाडी तेषां निबन्धनं यश्चक्षुषि यो द्रष्टव्ये य-----Page-----------------२४४--आदित्ये यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एत-स्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभय-मशोकमनन्तम् । श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतं नाडीतेषां निबन्धनं यः श्रोत्रे यः श्रोतव्ये यो दिक्षु यो नाड्यां यः प्राणे योशिज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽय-मात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ नासाध्यात्मंघ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतं नाडी तेषां निबन्धनं यो नासायां योघ्रातव्ये यः पृथिव्यां यो नाड्यां०

नन्तम् ॥ जिह्वाध्यात्मं यो रसयितव्यमधि-भूतं वरुणस्तत्राधिदैवतं नाडी तेषां निबन्धनं यो जिह्वायां यो रसयितव्येयो वरुणे यो नाड्यां० नन्तम् ॥ त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्त-त्राधिदैवतं नाडी तेषां निबन्धनं यस्त्वचि यः स्पर्शयितव्ये यो वायौ योनाड्यां० नन्तम् ॥ मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतं नाडीतेषां निबन्धनं यो मनसि यो मन्तव्ये यश्चन्द्रे यो नाड्यां० नन्तम् ॥ बुद्धि-रध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतं नाडी तेषां निबन्धनं यो बुद्धौयो बोद्धव्ये यो ब्रह्मणि यो नाड्यां० नन्तम् ॥ अहंकारोऽध्यात्ममहंकर्तव्य-मधिभूतं रुद्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं योऽहंकारे योऽहंकर्तव्येयो रुद्रे यो नाड्यां० नन्तम् ॥ चित्तमध्यात्मं चेतयितव्यमधिभूतं क्षेत्रज्ञस्त-त्राधिदैवतं नाडी तेषां निबन्धनं यश्चित्ते यश्चेतयितव्ये यः क्षेत्रज्ञे योनाड्यां० नन्तम् ॥ वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदैवतं नाडी तेषांनिबन्धनं यो वाचि यो वक्तव्ये योऽग्नौ यो नाड्यां० नन्तम् ॥ हस्तावध्या-त्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं यो हस्ते यआदातव्ये य इन्द्रे यो नाड्यां० नन्तम् ॥ पादावध्यात्मं गन्तव्यमधिभूतंविष्णुस्तत्राधिदैवतं नाडी तेषां निबन्धनं यः पादे यो गन्तव्ये यो विष्णौ योनाड्यां० नन्तम् ॥ पायुरध्यात्मं विसर्जयितव्यमधिभूतं मृत्युस्तत्राधिदैवतंनाडी तेषां निबन्धनं यः पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां०

नन्तम् ॥ उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतं नाडीतेषां निबन्धनं य उपस्थे य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां यःप्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरतिसोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ एष सर्वज्ञ-----Page-----------------२४५--एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तर्याम्येष योनिः सर्वस्य सर्वसौख्यैरुपास्य-मानो न च सर्वसौख्यान्युपास्यति वेदशास्त्रैरुपास्यमानो न च वेदशास्त्राण्यु-पास्यति यस्यान्नमिदं सर्वे न च योऽन्नं भवत्यतः परं सर्वनयनः प्रशास्तान्न-मयो भूतात्मा प्राणमय इन्द्रियात्मा मनोमयः संकल्पात्मा विज्ञानमयःकालात्मानन्दमयो लयात्मैकत्वं नास्ति द्वैतं कुतो मर्त्यं नास्त्यमृतं कुतोनान्तःप्रज्ञो न बहिःप्रज्ञो नोभयतःप्रज्ञो न प्रज्ञानघनो न प्रज्ञो नाप्रज्ञोऽपिनो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदा-नुशासनम् ॥इति सुबालोपनिषत्सु पञ्चमः खण्डः ॥५॥

नैवेह किंचनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते । दिव्यो देव एकोनारायणश्चक्षुश्च द्रष्टव्यं च नारायणः श्रोत्रं च श्रोतव्यं च नारायणो घ्राणं चघ्रातव्यं च नारायणो जिह्वा च रसयितव्यं च नारायणस्त्वक् च स्पर्शयितव्यंच नारायणो मतश्च मन्तव्यं च नारायणो बुद्धिश्च बोद्धव्यं च नारायणोऽहं-कारश्चाहंकर्तव्यं च नारायणश्चित्तं च चेतयितव्यं च नारायणो वाक् चवक्तव्यं च नारायणो हस्तौ चादातव्यं च नारायणः पादौ च गन्तव्यं चनारायणः पायुश्च विसर्जयितव्यं च नारायण उपस्थश्चानन्दयितव्यं च नारा-यणो धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायण आदित्या रुद्रामरुतो वसवोऽश्विनावृचो यजूंषि सामानि मन्त्रोऽग्निराज्याहुतिर्नारायण उद्भवःसंभवो दिव्यो देव एको नारायणो माता पिता भ्राता निवासः शरणं सुहृ-द्गतिर्नारायणो विराजा सुदर्शनाजितासोम्यामोघाकुमारामृतासत्यामध्यमाना-सीराशिशुरासूरासूर्यास्वराविज्ञेयानि नाडीनामानि दिव्यानि गर्जति गायतिवाति वर्षति वरुणोऽर्यमा चन्द्रमाः कला कलिर्धाता ब्रह्मा प्रजापतिर्मघवादिवसाश्चार्धदिवसाश्च कलाः कल्पाश्चोर्ध्वं च दिशश्च सर्वं नारायणः ॥ पुरुषएवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्वि-प्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ तदेतन्निर्वा-णानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥इति सुबालोपनिषत्सु षष्ठः खण्डः ॥६॥

अन्तःशरीरे निहितो गुहायामज एको नित्यो यस्य पृथिवी शरीरं यःपृथिवीमन्तरे संचरन् यं पृथिवी न वेद ॥ यस्यापः शरीरं योऽपोन्तरे संच-----Page------------------२४६--रन्यमापो न विदुः ॥ यस्य तेजः शरीरं यस्तेजोन्तरे संचरन् यं तेजो न वेद ।यस्य वायुः शरीरं यो वायुमन्तरे संचरन् यं वायुर्न वेद ॥ यस्याकाशः शरीरंय आकाशमन्तरे संचरन् यमाकाशो न वेद ॥ यस्य मनः शरीरं यो मनोन्तरेसंचरन् यं मनो न वेद ॥ यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन् यंबुद्धिर्न वेद ॥ यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन् यमहंकारो नवेद ॥ यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन् यं चित्तं न वेद ॥ यस्याव्यक्तंशरीरं योऽव्यक्तमन्तरे संचरन् यमव्यक्तं न वेद ॥ यस्याक्षरं शरीरं योऽक्षरमन्तरेसंचरन् यमक्षरं न वेद ॥ यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन् यं मृत्युर्नवेद ॥ स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः ॥ एतांविद्यामपान्तरतमाय ददावपान्तरतमो ब्रह्मणे ददौ ब्रह्मा घोराङ्गिरसे ददौघोराङ्गिरा रैक्वाथ ददौ रैक्वो रामाय ददौ रामः सर्वेभ्यो भूतेभ्यो ददावित्येवंनिर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति सुबालोपनिषत्सु सप्तमः खण्डः ॥७॥

अन्तः शरीरे निहितो गुहायां शुद्धः सोऽयमात्मा सर्वस्य मेदोमांसक्लेदा-वकीर्णे शरीरमध्येऽत्यन्तोऽपहते चित्रभित्तिप्रतीकाशे गान्धर्वनगरोपमे कदली-गर्भवन्निःसारे जलबुद्बुदवच्चञ्चले निःसृतमात्मानमचिन्त्यरूपं दिव्यं देवमसङ्गंशुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं बिभ्राज-मानमानन्दं तं पश्यन्ति विद्वांसस्तेन लये न पश्यन्ति ॥इति सुबालोपनिषत्स्वष्टमः खण्डः ॥८॥

अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वेऽस्तं गच्छन्तीति ॥ तस्मै स होवाचचक्षुरेवाप्येति यच्चक्षुरेवास्तमेति द्रष्टव्यमेवाप्येति यो द्रष्टव्यमेवास्तमेत्यादि-त्यमेवाप्येति य आदित्यमेवास्तमेति विराजमेवाप्येति यो विराजमेवास्तमेतिप्राणमेवाप्येति यः प्राणमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमे-त्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्त-मेति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ श्रोत्रमेवा-प्येति यः श्रोत्रमेवास्तमेति श्रोतव्यमेवाप्येति यः श्रोतव्यमेवास्तमेति दिश-मेवाप्येति यो दिशमेवास्तमेति सुदर्शनामेवाप्येति यः सुदर्शनामेवास्तमेत्य-पानमेवाप्येति योऽपानमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमेतितदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ नासामेवाप्येति यो-----Page-----------------२४७--नासामेवास्तमेति घ्रातव्यमेवाप्येति यो घ्रातव्यमेवास्तमेति पृथिवीमेवाप्येतियः पृथिवीमेवास्तमेति जितामेवाप्येति यो जितामेवास्तमेति व्यानमेवाप्येतियो व्यानमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥ जिह्वामेवाप्येतियो जिह्वामेवास्तमेति रसयितव्यमेवाप्येति यो रसयितव्यमेवास्तमेति वरुण-मेवाप्येति यो वरुणमेवास्तमेति सौम्यामेवाप्येति यः सौम्यामेवास्तमेत्यु-दानमेवाप्येति य उदानमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥त्वचमेवाप्येति यस्त्वचमेवास्तमेति स्पर्शयितव्यमेवाप्येति यः स्पर्शयितव्यमे-वास्तमेति वायुमेवाप्येति यो वायुमेवास्तमेति मेधामेवाप्येति यो मेधा-मेवास्तमेति समानमेवाप्येति यः समानमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥ वाचमेवाप्येति यो वाचमेवास्तमेति वक्तव्यमेवाप्येति यो वक्तव्य-मेवास्तमेत्यग्निमेवाप्येति योऽग्निमेवास्तमेति कुमारामेवाप्येति यः कुमारा-मेवास्तमेति वैरम्भमेवाप्येति यो वैरम्भमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥ हस्तमेवाप्येति यो हस्तमेवास्तमेत्यादातव्यमेवाप्येति य आदातव्य-मेवास्तमेतीन्द्रमेवाप्येति य इन्द्रमेवास्तमेत्यमृतामेवाप्येति योऽमृतामेवास्त-मेति मुख्यमेवाप्येति यो मुख्यमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥पादमेवाप्येति यः पादमेवास्तमेति गन्तव्यमेवाप्येति यो गन्तव्यमेवास्तमेतिविष्णुमेवाप्येति यो विष्णुमेवास्तमेति सत्यामेवाप्येति यः सत्यामेवास्तमे-त्यन्तर्याममेवाप्येति योऽन्तर्याममेवास्तमेति विज्ञानमेवाप्येति तद० होवाच ॥पायुमेवाप्येति यः पायुमेवास्तमेति विसर्जयितव्यमेवाप्येति यो विसर्जयित-व्यमेवास्तमेति मृत्युमेवाप्येति यो मृत्युमेवास्तमेति मध्यमामेवाप्येति योमध्यमामेवास्तमेति प्रभञ्जनमेवाप्येति यः प्रभञ्जनमेवास्तमेति विज्ञानमे-वाप्येति तद० होवाच ॥ उपस्थमेवाप्येति य उपस्थमेवास्तमेत्यानन्दयितव्य-मेवाप्येति य आनन्दयितव्यमेवास्तमेति प्रजापतिमेवाप्येति यः प्रजापति-मेवास्तमेति नासीरामेवाप्येति यो नासीरामेवास्तमेति कुमारमेवाप्येति यःकुमारमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥ मन एवाप्येति योमन एवास्तमेति मन्तव्यमेवाप्येति यो मन्तव्यमेवास्तमेति चन्द्रमेवाप्येतियश्चन्द्रमेवास्तमेति शिशुमेवाप्येति यः शिशुमेवास्तमेति श्येनमेवाप्येति यःश्येनमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥ बुद्धिमेवाप्येति योबुद्धिमेवास्तमेति बोद्द्यव्यमेवाप्येति यो बोद्धव्यमेवास्तमेति ब्रह्माणमेवा-----Page------------------२४८--प्येति यो ब्रह्माणमेवास्तमेति सूर्यामेवास्तमेति यः सूर्यामेवास्तमेति कृष्णमेवाप्येति यः कृष्णमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥अहंकारमेवाप्येति योऽहंकारमेवास्तमेत्यहंकर्तव्यमेवाप्येति योऽहंकर्तव्यमेवा-स्तमेति रुद्रमेवाप्येति यो रुद्रमेवास्तमेत्यसुरामेवाप्येति योऽसुरामेवा-स्तमेति श्वेतमेवाप्येति यः श्वेतमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच चित्तमेवाप्येति यश्चित्तमेवास्तमेति चेतयितव्यमेवाप्येति यश्चेत-यितव्यमेवास्तमेति क्षेत्रज्ञमेवाप्येति यः क्षेत्रज्ञमेवास्तमेति भास्वतीमेवाप्येतियो भास्वतीमेवास्तमेति नागमेवाप्येति यो नागमेवास्तमेति विज्ञानमेवाप्येतियो विज्ञानमेवास्तमेत्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येतियस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति तदमृत० होवाच ॥ य एवं निर्बीजं वेद निर्बीज एव स भवति न जायते न म्रियते नमुह्यते न भिद्यते न दह्यते न छिद्यते न कम्पते न कुप्यते सर्वदहनोऽयमा-त्मेत्याचक्षते नैवमात्मा प्रवचनशतेनापि लभ्यते न बहुश्रुतेन बुद्धिज्ञाना-श्रितेन न मेधया न वेदैर्न यज्ञैर्न तपोभिरुग्रैर्न सांख्यैर्न योगैर्नाश्रमैर्नान्यैरा-त्मानमुपलभन्ते प्रवचनेन प्रशंसया ब्युत्थानेन तमेतं ब्राह्मणा शुश्रुवांसोऽ-नूचाना उपलभन्ते शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवा-त्मानं पश्यति सर्वस्यात्मा भवति य एवं वेद ॥इति सुबालोपनिषत्सु नवमः खण्डः ॥९॥

अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वे संप्रतिष्ठिता भवन्तीति रसातल-लोकेष्विति होवाच कस्मिन्रसातललोका ओताश्च प्रोताश्चेति भूर्लोकेष्वितिहोवाच । कस्मिन्भूर्लोका ओताश्च प्रोताश्चेति भुवर्लोकेष्विति होवाच । कस्मिन्भु-वर्लोका ओताश्च प्रोताश्चेति सुवर्लोकेष्विति होवाच । कस्मिन्सुवर्लोका ओताश्चप्रोताश्चेति महर्लोकेष्विति होवाच । कस्मिन्महर्लोका ओताश्च प्रोताश्चेतिजनोलोकेष्विति होवाच । कस्मिन् जनोलोका ओताश्च प्रोताश्चेति तपोलोके-ष्विति होवाच । कस्मिँस्तपोलोका ओताश्च प्रोताश्चेति सत्यलोकेष्विति होवाचकस्मिन्सत्यलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेष्विति होवाच । कस्मिन्प्र-जापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेष्विति होवाच । कस्मिन्ब्रह्मलोकाओताश्च प्रोताश्चेति सर्वलोका आत्मनि ब्रह्मणि मणय इवौताश्च प्रोताश्चेतिस होवाच । एवमेतान् लोकानात्मनि प्रतिष्ठितान्वेदात्मैव स भवतीत्येत-न्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥इति सुबालोपनिषत्सु दशमः खण्डः ॥१०॥


Page-----------------२४९--अथ हैनं रैक्वः पप्रच्छ भगवन्योऽयं विज्ञानघन उत्क्रामन्स केन कतरद्वावस्थानमुत्सृज्यापाक्रामतीति तस्मै स होवाच । हृदयस्य मध्ये लोहितं मांसपिण्डंयस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं तस्य मध्ये समुद्रः समु-द्रस्य मध्ये कोशस्तस्मिन्नाड्यश्चतस्रो भवन्ति रमारमेच्छाऽपुनर्भवेति तत्र रमापुण्येन पुण्यं लोकं नयत्यरमा पापेन पापमिच्छया यत्स्मरति तदभिसंपद्यतेअपुनर्भवया कोशं भिनत्ति कोशं भित्त्वा शीर्षकपालं भिनत्ति शीर्षकपालंभित्त्वा पृथिवीं भिनत्ति पृथिवीं भित्त्वाऽपो भिनत्त्यापो भित्त्वा तेजो भिनत्तितेजो भित्त्वा वायुं भिनत्ति वायुं भित्त्वाकाशं भिनत्त्याकाशं भित्त्वा मनो भिनत्तिमनो भित्त्वा भूतादिं भिनत्ति भूतादिं भित्त्वा महान्तं भिनत्ति महान्तंभित्त्वाव्यक्तं भिनत्त्यव्यक्तं भित्त्वाक्षरं भिनत्त्यक्षरं भित्त्वा मृत्युं भिनत्ति मृत्युर्वैपरे देव एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणानुशासनमितिवेदानुशासनमिति वेदानुशासनम् ॥इति सुबालोपनिषत्स्वेकादशः खण्डः ॥११॥

ॐ नारायणाद्वा अन्नमागतं पक्वं ब्रह्मलोके महासंवर्तके पुनः पक्वमादित्येपुनः पक्वं क्रव्यादि पुनः पक्वं जालकिलक्लिन्नं पर्युषितं पूतमन्नमयाचितमसं-कॢप्तमश्नीयान्न कंचन याचेत ॥इति सुबालोपनिषत्सु द्वादशः खण्डः ॥१२॥

बाल्येन तिष्ठासेद्बालस्वभावोऽसङ्गो निरवद्यो मौनेन पाण्डित्येन निरवधि-कारतयोपलभ्येत कैवल्यमुक्तं निगमनं प्रजापतिरुवाच महत्पदं ज्ञात्वा वृक्ष-मूले वसेत कुचेलोऽसहाय एकाकी समाधिस्थ आत्मकाम आप्तकामोनिष्कामो जीर्णकामो हस्तिनि सिंहे दंशे मशके नकुले सर्पराक्षसगन्धर्वेमृत्यो रूपाणि विदित्वा न बिभेति कुतश्चनेति वृक्षमिव तिष्टासेच्छिद्यमानो-ऽपि न कुप्येत न कम्पेतोत्पलमिव तिष्ठासेच्छिद्यमानोऽपि न कुप्येत न कम्पे-ताकाशमिव तिष्ठासेच्छिद्यमानोऽपि न कुप्येत न कम्पेत सत्येन तिष्ठासेत्सत्यो-ऽयमात्मा सर्वेषामेव गन्धानां पृथिवी हृदयं सर्वेषामेव रसानामापो हृदयंसर्वेषामेव रूपाणां तेजो हृदयं सर्वेषामेव स्पर्शानां वायुर्हृदयं सर्वेषामेव शब्दा-नामाकाशं हृदयं सर्वेषामेव गतीनामव्यक्तं हृदयं सर्वेषामेव सत्त्वानांमृत्युर्हृदयं मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येत-ग्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥इति सुबालोपनिषत्सु त्रयोदशः खण्डः ॥१३॥


Page-----------------२५०--ॐ पृथिवी वान्नमापोऽन्नादा आपो वान्नं ज्योतिरन्नादं ज्योतिर्वान्नं वायुर-न्नादो वायुर्वान्नमाकाशोऽन्नाद आकाशो वान्नमिन्द्रियाण्यन्नादानीन्द्रियाणिवान्नं मनोऽन्नादं मनो वान्नं बुद्धिरन्नादा बुद्धिर्वान्नमव्यक्तमन्नादमव्यक्तं वान्न-मक्षरमन्नादमक्षरं वान्नं मृत्युरन्नादो मृत्युर्वै परे देव एकीभवतीति परस्तान्नसन्नासन्न सदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥इति सुबालोपनिषत्सु चतुर्दशः खण्डः ॥१४॥

अथ हैनं रैक्वः पप्रच्छ भगवन्योऽयं विज्ञानघन उत्क्रामन्स केन कतरद्वावस्थानं दहतीति तस्मै स होवाच योऽयं विज्ञानघन उत्क्रामन्प्राणं दहत्यपानंव्यानमुदानं समानं वैरम्भं मुख्यमन्तर्यामं प्रभञ्जनं कुमारं श्येनं श्वेतं कृष्णंनागं दहति पृथिव्यापस्तेजोवाय्वाकाशं दहति जागरितं स्वप्नं सुषुप्तं तुरीयंच महतां च लोकं परं च लोकं दहति लोकालोकं दहति धर्माधर्मं दहत्य-भास्करममर्यादं निरालोकमतः परं दहति महान्तं दहत्यव्यक्तं दहत्यक्षरंदहति मृत्युं दहति मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न सदस-दित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥इति सुबालोपनिषत्सु पञ्चदशः खण्डः ॥१५॥

सौबालबीजब्रह्मोपनिषन्नाप्रशान्ताय दातव्या नापुत्राय नाशिष्याय नासं-वत्सररात्रोषिताय नापरिज्ञातकुलशीलाय दातव्या नैव च प्रवक्तव्या । यस्यदेवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनैत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥इति सुबालोपनिषत्सु षोडशः खण्डः ॥१६॥

ॐ पूर्णमद इति शान्तिः ॥इति सुबालोपनिषत्समाप्ता ॥३२॥

क्षुरिकोपनिषत् ॥३३॥सम्पाद्यताम्

कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् ।क्षुरिकोपनिषद्योगभासुरं राममाश्रये ॥ॐ पूर्णमद इति शान्तिः ॥ॐ क्षुरिकां संप्रवक्ष्यामि धारणां योगसिद्धये । यां प्राप्य न पुनर्जन्मयोउ!गयुक्तः स जायते ॥ वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ॥१॥

निःशब्दं देशमास्थाय तत्रासनमवस्थितः । कूर्मोऽङ्गानीव संहृत्य मनोहृदि निरुध्य च ॥२॥

मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ।-----Page-----------------२५१--पूरयेत्सर्वमात्मानं सर्वद्वारान्निरुध्य च ॥३॥

उरोमुखकटिग्रीवं किंचि-द्धृदयमुन्नतम् । प्राणान्संचारयेत्तस्मिन्नासाभ्यन्तरचारिणः ॥४॥

भूत्वा तत्रगतः प्राणः शनैरथ समुत्सृजेत् ॥५॥

स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेनसमाहितः । द्वे तु गुल्फे प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥ द्वे जानुनीतथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः ॥६॥

वायोरायतनं चात्र नाभिदेशेसमाश्रयेत् । तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिवृता ॥ अणुरक्ताश्च पीताश्चकृष्णास्ताम्रविलोहिताः ॥७॥

अतिसूक्ष्मां च तन्वीं च शुक्लां नाडींसमाश्रयेत् । ततः संचारयेत्प्राणानूर्णनाभीव तन्तुना ॥८॥

ततो रक्तोत्प-लाभासं पुरुषायतनं महत् । दहरं पुण्डरीकेति वेदान्तेषु निगद्यते ॥तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः ॥९॥

मनसस्तु क्षुरं गृह्यसुतीक्ष्णं बुद्धिनिर्मलम् ॥ पादस्योपरि मर्मृज्य तद्रूपं नाम कृन्तयेत् ॥१०॥

मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः । इन्द्रवज्र इति प्रोक्तं मर्मजङ्घा-नुकीर्तनम् ॥ तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥११॥

ऊरोर्मध्येतु संस्थाप्य मर्मप्राणविमोचनम् ॥ चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः॥१२॥

ततः कण्ठान्तरे योगी समूहं नाडिसंचयम् । एकोत्तरं नाडिशतंतासां मध्ये वराः स्मृताः ॥१३॥

इडा रक्षतु वामेन पिङ्गला दक्षिणेनतु । तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् ॥१४॥

सुषुम्ना तु परेलीना विरजा ब्रह्मरूपिणी । द्वासप्ततिसहस्राणि प्रति नाडीषु तैतिलम् ॥छिद्यन्ते ध्यानयोगेन सुषुम्नैका न छिद्यते ॥१५॥

योगनिर्मलधारेणक्षुरेणामलवर्चसा । छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि ॥१६॥

जातीपुष्पसमायोगैर्यथा वास्यन्ति तैतिलम् । एवां शुभाशुभैर्भावैः सा नाडीतां विभावयेत् ॥१७॥

तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥१८॥

ततो विदितचित्तस्तु निःशब्दं देशमास्थितः । निःसङ्गस्तत्त्वयोगज्ञो निरपेक्षःशनैः शनैः ॥१९॥

पाशं छित्त्वा यथा हंसो निर्विशङ्कः खमुत्क्रमेत् ।छिन्नपाशस्तथा जीवः संसारं तरते तदा ॥२०॥

यथा निर्वाणकाले तु दीपोदग्ध्वा लयं व्रजेत् । तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥२१॥

प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् । वैराग्योपलघृष्टेन छित्त्वा तन्तुंन बध्यते ॥२२॥

अमृतत्वं समाप्नोति यदा कामात्प्रमुच्यते । सर्वैषणा-विनिर्मुक्तश्छित्त्वा तन्तुं न बध्यते छित्त्वा तन्तुं न बध्यत इति ॥२३॥

इत्याथर्वणीयक्षुरिकोपनिषत्समाप्ता ॥३३॥


Page-----------------२५२--

मन्त्रिकोपनिषत् ॥३४॥सम्पाद्यताम्

स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् ।मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥ॐ पूर्णमद इति शान्तिः ॥

ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् । त्रिवर्त्मानं तेजसोऽहं सर्वतः-पश्यन्न पश्यति ॥१॥

भूतसंमोहने काले भिन्ने तमसि वैखरे । अन्तःपश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥२॥

अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानःकुमारकैः । विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥३॥

ध्यायतेऽध्यासितातेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् ॥४॥

गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितासिता च रक्ता च सर्वकाम-दुघा विभोः ॥५॥

पिबन्त्येनामविषयामविज्ञातां कुमारकाः । एकस्तु पिबतेदेवः स्वच्छन्दोऽत्र वशानुगः ॥६॥

ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसह-द्विभुः । सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वभिः ॥७॥

पश्यन्त्यस्यांमहात्मानः सुवर्णं पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः॥८॥

शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः । रथन्तरं बृहत्साम सप्त-वैधैस्तु गीयते ॥९॥

मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवाह्येते ह्यथर्वाणो भृगूत्तमाः ॥१०॥

सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलि-तस्तथा । अनड्वान्नोहितोच्छिष्टः पश्यन्ते बहुविस्तरम् ॥११॥

कालः प्राणश्चभगवान्मृत्युः शर्वो महेश्वरः । उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा ॥१२॥

प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च । स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितै-र्विभुः ॥१३॥

तं षड्विंशक इत्येते सप्तविंशं तथापरे । पुरुषं निर्गुणं सांख्य-मथर्वशिरसो विदुः ॥१४॥

चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च । अद्वैतंद्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा ॥१५॥

ब्रह्माद्यं स्थावरान्तं च पश्यन्तिज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः ॥१६॥

यस्मि-न्सर्वमिदं प्रोतं ब्रह्म स्थावरजंगमम् । तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरेयथा ॥१७॥

यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः । पश्यन्तिव्यक्ततां भूयो जायन्ते बुद्बुदा इव ॥१८॥

क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यतेपुनः । एवं स भगवान्देवं पश्यन्त्यन्ये पुनःपुनः ॥१९॥

ब्रह्म ब्रह्मेत्यथा-यान्ति ये विदुर्ब्राह्मणास्तथा । अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनःलीनाश्चाव्यक्तशालिन इत्युपनिषत् ॥

ॐ पूर्णमद इति शान्तिः ॥

इति यजुर्वेदीयमन्त्रिकोपनिषत्समाप्ता ॥३४॥


Page-----------------२५३--

सर्वसारोपनिषत् ॥३५॥सम्पाद्यताम्

समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् ।विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ॐ सह नाववत्विति शान्तिः ॥ॐ कथं बन्धः कथं मोक्षः काऽविद्या का विद्येति जाग्रत्स्वप्नं सुषुप्तं तुरीयंच कथम् अन्नमयः प्राणमयो मनोमयो विज्ञानमय आनन्दमयः कथं कर्ताजीवः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथं प्रत्यगात्मा परमात्मात्मामाया चेति कथम् । आत्मेश्वरोऽनात्मनो देहादीनात्मत्वेनाभिमन्यते सोऽभिमानआत्मनो बन्धस्तन्निवृत्तिर्मोक्षस्तदभिमानं कारयति या साऽविद्या सोऽभि-मानो ययाऽभिनिवर्तते सा विद्या । मनआदिचतुर्दशकरणैः पुष्कलैरादि-त्याद्यनुगृहीतैः शब्दादीन्विषयान्स्थूलान्यदोपलभते तदात्मनो जागरणंतद्वासनारहितश्चतुर्भिः करणैः शब्दाद्यभावेऽपि वासनामयाञ्शब्दादीन्यदो-पलभते तदात्मनः स्वप्नम् । चतुर्दशकरणोपरमाद्विशेषविज्ञानाभावाद्यदातदात्मनः सुषुप्तम् ॥१॥

अवस्थात्रयभावाद्भावसाक्षि स्वयं भावाभावरहितंनैरन्तर्यं चैक्यं यदा तदा तत्तुरीयं चैतन्यमित्युच्यतेऽन्नकार्याणां षण्णांकोशानां समूहोऽन्नमयः कोश इत्युच्यते । प्राणादिचतुर्दशवायुभेदा अन्नमयेकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यत एतत्कोशद्वयसंयुक्तोमनआदिचतुर्भिः करणैरात्मा शब्दादिविषयान्संकल्पादिधर्मान्यदा करोति तदामनोमयः कोश इत्युच्यते । एतत्कोशत्रयसंयुक्तस्तद्गतविशेषाविशेषज्ञो यदाऽ-वभासते तदा विज्ञानमयः कोश इत्युच्यते । एतत्कोशचतुष्टयं स्वकारणाज्ञानेवटकणिकायामिव गुप्तवटवृक्षो यदा वर्तते तदानन्दमयकोश इत्युच्यते ।सुखदुःखबुद्ध्याश्रयो देहान्तः कर्ता यदा तदेष्टविषये बुद्धिः सुखबुद्धिरनिष्ट-विषये बुद्धिर्दुःखबुद्धिः शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः । पुण्यपाप-कर्मानुसारी भूत्वा प्राप्तशरीरसंधिर्योगमप्राप्तशरीरसंयोगमिव कुर्वाणो यदादृश्यते तदोपहितत्वाज्जीव इत्युच्यते । मनआदिश्च प्राणादिश्च सत्त्वादिश्चेच्छा-दिश्च पुण्यादिश्चैते पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मी भूतात्मज्ञानादृते नविनश्यति । आत्मसंनिधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गं शरीरंहृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते ॥२॥


Page-----------------२५४--ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमेवमाविर्भावतिरोभावहीनःस्वयंज्योतिः स साक्षीत्युच्यते ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववि-शिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते ।कूटस्थाद्युपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणसूत्रमिव सर्वक्षेत्रेष्वनु-स्यूतत्वेन यदा प्रकाशत आत्मा तदान्तर्यामीत्युच्यते सर्वोपाधिविनिर्मुक्तःसुवर्णवद्विज्ञानघनश्चिन्मात्रस्वरूप आत्मा स्वतन्त्रो यदाऽवभासते तदात्वंपदार्थः प्रत्यगात्मेत्युच्यते । सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सत्यमविनाशिनामदेशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यत्यविनाशि तत्सत्यमित्यु-च्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधीयते ॥३॥

अनन्तं नाम मृद्विकारेषु मृदिव सुवर्णविकारेषु सुवर्णमिव तन्तुकार्येषुतन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्वं व्यापकं चैतन्यमनन्तमित्युच्यत आनन्दोनाम सुखचैतन्यस्वरूपोऽपरिमितानन्दसमुद्रोऽविशिष्टसुखरूपश्चानन्द इत्यु-च्यते । एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकालवस्तुनिमित्तेष्वव्यभिचारि सतत्पदार्थः परमात्मा परं ब्रह्मेत्युच्यते । त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधि-काद्विलक्षण आकाशवत्सर्वगतः सूक्ष्मः केवलः सत्तामात्रोऽसिपदार्थःस्वयंज्योतिरात्मेत्युच्यतेऽतत्पदार्थश्चात्मेत्युच्यते । अनादिरन्तर्वत्नी प्रमाणा-प्रमाणसाधारणा न सती नासती न सदसती स्वयमविकाराद्विकारहेतौनिरूप्यमाणेऽसती । अनिरूप्यमाणे सती लक्षणशून्या सा मायेत्युच्यते ॥४॥

इत्याथर्वणीयसर्वसारोपनिषत्समाप्ता ॥३५॥


निरालम्बोपनिषत् ॥३६॥सम्पाद्यताम्

यशालम्बालम्बिभावो विद्यते न कदाचन ।ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ॥ॐ पूर्णमद इति शान्तिः ॥ॐ नमः शिवाय गुरवे सच्चिदानन्दमूर्तये । निष्प्रपञ्चाय शान्ताय निरा-लम्बाय तेजसे ॥ निरालम्बं समाश्रित्य सालम्बं विजहाति यः । स संन्यासी चयोगी च कैवल्यं पदमश्नुते । एषामज्ञानजन्तूनां समस्तारिष्टशान्तये । यद्य-द्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ॥ किं ब्रह्म । क ईश्वरः । को जीवः ।का प्रकृतिः । कः परमात्मा । को ब्रह्मा । को विष्णुः । को रुद्रः । क इन्द्रः ।-----Page-----------------२५५--कः शमनः । कः सूर्यः । कश्चन्द्रः । के सुराः । के असुराः । के पिशाचाः । के मनुष्याः । काः स्त्रियः । के पश्वादयः । किं स्थावरम् । के ब्राह्मणादयः । काजातिः । किं कर्म । किमकर्म । किं ज्ञानम् । किमज्ञानम् । किं सुखम् ।किं दुःखम् । कः स्वर्गः । को नरकः । को बन्धः । को मोक्षः । क उपास्यः ।कः शिष्यः । को विद्वान् । को मूढः । किमासुरम् । किं तपः । किं परमंपदम् । किं ग्राह्यम् । किमग्राह्यम् । कः संन्यासीत्याशङ्क्याह ब्रह्मेति । स होवाचमहदहंकारपृथिव्यप्तेजोवाय्वाकाशत्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूप-तया भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं तत्सकलशक्त्युपबृंहितमनाद्य-नन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादिवाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥ ईश्वरैति च ॥ ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्या-मित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः जीव इति च ब्रह्मविष्ण्वी-शानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः । सोऽह-मेकोऽपि देहारम्भकभेदवशाद्बहुजीवः । प्रकृतिरिति च ब्रह्मणः सकाशान्ना-नाविचित्रजगन्निर्माणसामर्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः । परमात्मेति चदेहादेः परतरत्वाद्ब्रह्मैव परमात्मा स ब्रह्मा स विष्णुः स इन्द्रः स शमनः ससूर्यः स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयस्त-त्स्थावरं ते ब्राह्मणादयः । सर्वं खल्विदं ब्रह्म नेह नानास्ति किं चन । जातिरिति च ।न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः । न जातिरात्मनो जातिर्व्यवहार-प्रकल्पिता । कर्मेति च क्रियमाणेन्द्रियैः कर्माण्यहं करोमीत्यध्यात्मनिष्ठतयाकृतं कर्मैव कर्म । अकर्मेति च कर्तृत्वभोक्तृत्वाद्यहंकारतया बन्धरूपं जन्मादि-कारणं नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसंधानं यत्तदकर्म । ज्ञान-मिति च देहेन्द्रियनिग्रहस्तद्गुरूपासनश्रवणमनननिदिध्यासनैर्यद्यद्दृग्दृश्यस्व-रूपं सर्वान्तरस्थं सर्वसमं घटपटादिपदार्क्थमिवाविकारं विकारेषु चैतन्यं विना-किंचिन्नास्तीति साक्षात्कारानुभवो ज्ञानम् । अज्ञानमिति च रज्जौ सर्पभ्रान्ति-रिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्र-मबन्धमोक्षोपाधिनानात्मभेदकल्पितं ज्ञानमज्ञानम् । सुखमिति च सच्चिदान-नदस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम् । दुःखमिति अनात्मरूपोविषयसंकल्प एव दुःखम् । स्वर्ग इति च सत्संसर्गः स्वर्गः । नरक इति चअसत्संसारविषयजनसंसर्ग एव नरकः । बन्ध इति च अनाद्यविद्यावासनया-----Page-----------------२५६--जातोऽहमित्यादिसंकल्पो बन्धः । पितृमातृसहोदरदारापत्यगृहारामक्षेत्रममता-संसारावरणसंकल्पो बन्धः । कर्तृत्वाद्यहंकारसंकल्पो बन्धः । अणिमाद्यष्टैश्व-र्याशासिद्धसंकल्पो बन्धः । देवमनुष्याद्युपासनाकामसंकल्पो बन्धः । यमा-द्यष्टाङ्गयोगसंकल्पो बन्धः । वर्णाश्रमधर्मकर्मसंकल्पो बन्धः । आज्ञाभयसंश-यात्मगुणसंकल्पो बन्धः । यागव्रततपोदानविधिविधानज्ञानसंभवो बन्धः ।केवलमोक्षापेक्षासंकल्पो बन्धः । संकल्पमात्रसंभवो बन्धः । मोक्ष इति चनित्यानित्यवस्तुविचारादनित्यसंसारसुखदुःखविषयसमस्तक्षेत्रममताबन्धक्षयोमोक्षः । उपास्य इति च सर्वशरीरस्थचतन्यब्रह्मप्रापको गुरुरुपास्यः । शिष्यैति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः । विद्वानिति चसर्वान्तरस्थस्वसंविद्रूपविद्विद्वान् । मूढ इति च कर्तृत्वाद्यहंकारभावारूढोमूढः । आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीनामैश्वर्यकामनया निरशनजपा-ग्निहोत्रादिष्वन्तरात्मानं संतापयति चात्युग्ररागद्वेषविहिंसादम्भाद्यपेक्षितं तपआसुरम् । तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्षज्ञानाग्निना ब्रह्माद्यैश्वर्या-शासिद्धसंकल्पबीजसंतापं तपः । परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरण-गुणादेः परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम् । ग्राह्यमितिच देशकालवस्तुपरिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् । अग्राह्यमिति चस्वस्वरूपव्यतिरिक्तमायामयबुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् । सं-न्यासीति च सर्धधर्मान्परित्यज्य निर्ममो निरहंकारो भूत्वा ब्रह्मेष्टं शरणमुप-गम्य तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किंचनेत्या-दिमहावाक्यार्थानुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिनास्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसःसोऽवधूतः स ब्राह्मण इति । इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतःसोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्ततेपुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत् ॥

ॐ पूर्णमद इति शान्तिः ॥इति निरालम्बोपनिषत्समाप्ता ॥३६॥


Page-----------------२५७--

शुकरहस्योपनिषत् ॥३७॥सम्पाद्यताम्

प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् ।विकलेवरकैवल्यं त्रिपाद्राममहं भजे ॥ॐ सह नाववत्विति शान्तिः ॥अथातो रहस्योपनिषदं व्याख्यास्यामो देवर्षयो ब्रह्माणं संपूज्य प्रणिपत्यपप्रच्छुर्भगवन्नस्माकं रहस्योपनिषदं ब्रूहीति । सोऽब्रवीत् । पुरा व्यासो महा-तेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ह ॥१॥

श्रीवेदव्यास उवाच । देवदेव महाप्राज्ञ पाशच्छेददृढव्रत । शुकस्य ममपुत्रस्य वेदसंस्कारकर्मणि ॥२॥

ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः ।ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥३॥

ईश्वर उवाच । मयोपदिष्टेकैवल्ये साक्षद्ब्रह्मणि शाश्वते । विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम्॥४॥

श्रीवेदव्यास उवाच । यथा तथा वा भवतु ह्युपनायनकर्मणि ।उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥५॥

सर्वज्ञो भवतु क्षिप्रं ममपुत्रो महेश्वर । तव प्रसादसंपन्नो लभेन्मुक्तिं चतुर्विधाम् ॥६॥

तच्छ्रुत्वाव्यासवचनं सर्वदेवर्षिसंसदि । उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा॥७॥

कृतकृत्यः शुकस्तत्र समागत्य सभक्तिमान् । तस्मात्स प्रणवं लब्ध्वापुनरित्यब्रवीच्छिवम् ॥८॥

श्रीशुक उवाच ॥ देवादिदेव सर्वज्ञ सच्चिदानन्द-लक्षण । उमारमण भूतेश प्रसीद करुणानिधे ॥९॥

उपदिष्टं परंब्रह्म प्रण-वान्तर्गतं परम् । तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥१०॥

श्रोतु-मिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम् । वक्तव्यानि रहस्यानि कृपयाद्य सदा-शिव ॥११॥

श्रीसदाशिव उवाच । साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने ।प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥१२॥

रहस्योपनिषन्नाम्ना सषडङ्गमि- होच्यते । यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥१३॥

अङ्गहीनानिवाक्यानि गुरुर्नोपदिशेत्पुनः । सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः ॥१४॥

चतुर्णामपि वेदानां यथोपनिषदः शिरः । इयं रहस्योपनिषत्तथोपनिषदां शिरः॥२५॥

रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता । तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्यकिं पुण्यहेतुभिः ॥१६॥

वाक्यार्थस्य विचारेण यदाप्नोति शरच्छतम् । एक-वारजपेनैव ऋष्यादिध्यानतश्च यत् ॥१७॥


Page------------------२५८--

ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंसऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् ।सः शक्तिः । सोऽहं कीलकम् । मम परमहंसप्रीत्यर्थे महावाक्यजपे विनि-योगः । सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः । नित्यानन्दो ब्रह्म तर्जनीभ्यांस्वाहा । नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् । यो वै भूमा अनामिकाभ्यांहुम् । यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट् । एकमेवाद्वितीयं ब्रह्मकरतलकरपृष्ठाभ्यां फट् ॥ सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः । नित्यानन्दोब्रह्म शिरसे स्वाहा । नित्यानन्दमयं ब्रह्म शिखायै वषट् । यो वै भूमा कव-चाय हुम् । यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् । एकमेवाद्वितीयं ब्रह्मअस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् । नित्यानन्दं पर-मसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तंनमामि ॥१॥

अथ महावाक्यानि चत्वारि । यथा

ॐप्रज्ञानं ब्रह्म ॥१॥

ॐ अहंब्रह्मास्मि ॥२॥

ॐतत्त्वमसि ॥३॥

ॐ अयमात्मा ब्रह्म ॥४॥

तत्त्वमसी-त्यमेदवाचकमिदं ये जपन्ति ते शिवसायुज्यमुक्तिभाजो भवन्ति ॥ तत्पदम-हामन्त्रस्य । परमहंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हंबीजम् । सः शक्तिः । सोऽहं कीलकम् । मम सायुज्यमुक्त्यर्थे जपे विनियोगः ।तत्पुरुषाय अङ्गुष्ठाभ्यां नमः । ईशानाय तर्जनीभ्यां स्वाहा । अघोराय मध्य-माभ्यां वषट् । सद्योऽजाताय अनामिकाभ्यां हुम् । वामदेवाय कनिष्ठिकाभ्यांवौषट् । तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यांफट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरिओ!मिति दिग्बन्धः ॥ ध्यानम् । ज्ञानंज्ञेयं ज्ञानगम्यादतीतं शुद्धं बुद्धं मुक्तमप्यव्ययं च । सत्यं ज्ञानं सच्चिदानन्दरूपंध्यायेदेवं तन्महो भ्राजमानम् ॥ त्वंपदमहामन्त्रस्य विष्णुरृषिः । गायत्री-छन्दः । परमात्मा देवता । ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् । मम मु-क्त्यर्थे जपे विनियोगः । वासुदेवाय अङ्गुष्ठाभ्यां नमः । संकर्षणाय तर्जनीभ्यांस्वाहा । प्रद्युम्नाय मध्यमाभ्यां वषट् । अनिरुद्धाय अनामिकाभ्यां हुम् । वासु-देवाय कनिष्ठिकाभ्यां वौषट् । वासुदेवसंकर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकरपृ-ष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् । चित्ताहंकारयन्तारं जीवाख्यं त्वंपदं-----Page-----------------२५९--भजे । असिपदमहामन्त्रस्य मन ऋषिः । गायत्री छन्दः । अर्धनारीश्वरोदेवता । अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः । परमात्मा कीलकम् । जीवब्रह्मै-क्यार्थे जपे विनियोगः । पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः । अब्द्व्यणुकायसर्जनीभ्यां स्वाहा । तेजोद्व्यणुकाय मध्यमाभ्यां वषट् । वायुद्व्यणुकाय अना-मिकाभ्यां हुम् । आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् । पृथिव्यप्तेजोवाय्वा-काशद्व्यणुकेभ्यः करतलकरपृष्ठाभ्यां फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ध्यानम् ॥ जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः । ऐक्यं तत्त्वं लयेकुर्वन्ध्यायेदसिपदं सदा ॥ एवं महावाक्यषडङ्गान्युक्तानि ॥अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥ येनेक्षते शृणो-तीदं जिघ्रति व्याकरोति च । स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥१॥

चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्य-पि ॥२॥

परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि । बुद्धेः साक्षितयास्थित्वा स्फुरन्नहमितीर्यते ॥३॥

स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः ।अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥४॥

एकमेवाद्वितीयं सन्नामरूप-विवर्जितम् । सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥५॥

श्रोतुर्देहे-न्द्रियातीतं वस्त्वत्र त्वंपदेरितम् । एकता ग्राह्यतेऽसीति तदैक्यमनुभूय-ताम् ॥६॥

स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् । अहंकारादिदेहान्तंप्रत्यगात्मेति गीयते ॥७॥

दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते । ब्रह्मश-ब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥८॥

अनात्मदृष्टेरविवेकनिद्रामहं ममस्वप्नगतिं गतोऽहम् । स्वरूपसूर्येऽभ्युदिते स्फुटोक्तेर्गुरोर्महावाक्यपदैः प्रबुद्धः॥९॥

वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे वाच्यं भौतिकमि-न्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः । वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तुसच्चित्सुखानन्दब्रह्म तदर्थ एष च तयोरैक्यं त्वसीदं पदम् ॥१०॥

त्वमितितदिति कार्ये कारणे सत्युपाधौ द्वितयमितरथैकं सच्चिदानन्दरूपम् । उभय-वचनहेतू देशकालौ च हित्वा जगति भवति सोऽयं देवदत्तो यथैकः ॥११॥

कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽव-शिष्यते ॥१२॥

श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् । निदिध्यासन-मित्येतत्पूर्णबोधस्य कारणम् ॥१३॥

अन्यविद्यापरिज्ञानमवश्यं नश्वरंभवेत् । ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् ॥१४॥

महावाक्या-----Page------------------२६०--न्युपदिशेत्सषडङ्गानि देशिकः । केवलं नहि वाक्यानि ब्रह्मणो वचनंयथा ॥१५॥

ईश्वर उवाच । एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक ।मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥१६॥

ततो ब्रह्मोपदिष्टं वै सच्चि-दानन्दलक्षणम् । जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥१७॥

योवेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः समहेश्वरः ॥१८॥

उपदिष्टः शिवेनेति जगत्तन्मयतां गतः । उत्थाय प्रणिप-त्वेशं त्यक्ताशेषपरिग्रहः ॥१९॥

परब्रह्मपयोराशौ प्लवन्निव ययौ तदा । प्रव्र-जन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥२०॥

अनुव्रजन्नाजुहाव पुत्रविश्लेष-कातरः । प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥२१॥

तच्छ्रुत्वा सकला-कारं व्यासः सत्यवतीसुतः । पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥२२॥

यो रहस्योपनिषदमधीते गुर्वनुग्रहात् । सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुतेसाक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥ॐ सह नाववत्विति शान्तिः ॥इति यजुर्वेदीयशुकरहस्योपनिषत्समाप्ता ॥

वज्रसूचिकोपनिषत् ॥३८॥सम्पाद्यताम्

यज्ज्ञानाद्यान्ति मुनयो ब्राह्मण्यं परमाद्भुतम् ।तन्त्रैपदब्रह्मतत्त्वमहमस्मीति चिन्तये ॥ॐ आप्यायन्त्विति शान्तिः ॥चित्सदानन्दरूपाय सर्वधीवृत्तिसाक्षिणे ।नमो वेदान्तवेद्याय ब्रह्मणेऽनन्तरूपिणे ॥ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् । दूषणं ज्ञानहीनानां भूषणंज्ञानचक्षुषाम् ॥१॥

ब्रह्मक्षत्रियवैश्यशूद्रा इति चत्वारो वर्णास्तेषां वर्णानांब्राह्मण एव प्रधान इति वेदवचनानुरूपं स्मृतिभिरप्युक्तम् । तत्र चोद्यमस्ति कोवा ब्राह्मणो नाम किं जीवः किं देहः किं जातिः किं ज्ञानं किं कर्म किं धार्मिकैति । तत्र प्रथमो जीवो ब्राह्मण इति चेत्तन्न । अतीतानागतानेकदेहानां-----Page-----------------२६१--जीवस्यैकरूपत्वात् एकस्यापि कर्मवशादनेकदेहसंभवात् सर्वशरीराणां जीव-स्यैकरूपत्वाच्च । तस्मान्न जीवो ब्राह्मण इति । तर्हि देहो ब्राह्मण इति चेत्तन्न ।आचाण्डालादिपर्यन्तानां मनुष्याणां पाञ्चभौतिकत्वेन देहस्यैकरूपत्वाज्जरामर-णधर्माधर्मादिसाम्यदर्शनाद्ब्राह्मणः श्वेतवर्णः क्षत्रियो रक्तवर्णो वैश्यः पीतवर्णःशूद्रः कृष्णवर्ण इति नियमाभावात् । पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्या-दिदोषसंभवाच्च । तस्मान्न देहो ब्राह्मण इति ॥ तर्हि जातिब्राह्मण इति चेत्तन्न ।तत्र जात्यन्तरजन्तुष्वनेकजातिसंभवा महर्षयो बहवः सन्ति । ऋष्यशृङ्गोमृग्याः कौशिकः कुशात् जाम्बूको जम्बूकात् वाल्मीको वल्मीकात् व्यासःकैवर्तकन्यकायाम् शशपृष्ठात् गौतमः वसिष्ठ उर्वश्याम् अगस्त्यः कलशेजात इति श्रुतत्वात् । एतेषां जात्या विनाप्यग्रे ज्ञानप्रतिपादिता ऋषयोबहवः सन्ति । तस्मान्न जातिर्ब्राह्मण इति ॥ तर्हि ज्ञानं ब्राह्मण इति चेत्तन्न ।क्षत्रियादयोऽपि परमार्थदर्शिनोऽभिज्ञा बहवः सन्ति । तस्मान्न ज्ञानं ब्राह्मणैति ॥ तर्हि कर्म ब्राह्मण इति चेत्तन्न । सर्वेषां प्राणिनां प्रारब्धसंचितागामि-कर्मसाधर्म्यदर्शनात्कर्माभिप्रेरिताः सन्तो जनाः क्रियाः कुर्वन्तीति । तस्मान्नकर्म ब्राह्मण इति ॥ तर्हि धार्मिको ब्राह्मण इति चेत्तन्न । क्षत्रियादयो हिर-ण्यदातारो बहवः सन्ति । तस्मान्न धार्मिको ब्राह्मण इति ॥ तर्हि को वाब्राह्मणो नाम । यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं षडुर्मिषड्भा-वेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं स्वयं निर्विकल्पमशेषकल्पा-धारमशेषभूतान्तर्यामित्वेन वर्तमानमन्तर्बहिश्चाकाशवदनुस्यूतमखण्डानन्द-स्वभावमप्रमेयमनुभवैकवेद्यमपरोक्षतया भासमानं करतलामलकवत्साक्षाद-परोक्षीकृत्य कृतार्थतया कामरागादिदोषरहितः शमदमादिसंपन्नो भावमात्सर्य-तृष्णाशामोहादिरहितो दम्भाहंकारादिभिरसंस्पृष्टचेता वर्तत एवमुक्तलक्षणोयः स एव ब्राह्मण इति श्रुतिस्मृतिपुराणेतिहासानामभिप्रायः । अन्यथा हिब्राह्मणत्वसिद्धिर्नास्त्येव । सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेदात्मानंसच्चिदानन्दं ब्रह्म भावयेदित्युपनिषत् ॥ॐ आप्यायन्त्विति शान्तिः ॥इति वज्रसूच्युपनिषत्समाप्ता ॥३८॥


Page-----------------२६२--

तेजोबिन्दूपनिषत् ॥३९॥सम्पाद्यताम्

यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।तच्चिन्मात्रमस्वण्डैकरसं ब्रह्म भवाम्यहम् ॥ॐ सह नाववत्विति शान्तिः ॥ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदि संस्थितम् । आणवं शांभवं शान्तंस्थूलं सूक्ष्मं परं च यत् ॥१॥

दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्य-यम् । दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥२॥

यताहारो जित-क्रोधो जितसङ्गो जितन्द्रियः । निर्द्वन्द्वो निरहंकारो निराशीरपरिग्रहः ॥३॥

अगम्यागमकर्ता यो गम्याऽगमनमानसः । मुखे त्रीणि च विन्दन्ति त्रिधामाहंस उच्यते ॥४॥

परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः । सोमरूपकलासूक्ष्मा विष्णोस्तत्परमं पदम् ॥५॥

त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जि-तम् । निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥६॥

उपाधिरहितंस्थानं वाङ्मनोऽतीतगोचरम् । स्वभावं भावसंग्राह्यमसंघातं पदाच्च्युतम् ॥७॥

अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं शाश्वतंध्रुवमच्युतम् ॥८॥

तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् । अचिन्त्यंचिन्मयात्मानं यद्व्योम परमं स्थितम् ॥९॥

अशून्यं शून्यभावं तु शून्या-तीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥१०॥

सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परंविदुः ॥११॥

मुनीनां संप्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयंदर्पं कामं क्रोधं च किल्बिषम् ॥१२॥

शीतोष्णे क्षुत्पिपासे च संकल्पक-विकल्पकम् । न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसंचयम् ॥१३॥

न भयं नसुखं दुःखं तथा मानावमानयोः । एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम्॥१४॥

यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्चदेहसाम्यं च दृक्स्थितिः ॥१५॥

प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥१६॥

सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः । यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥१७॥

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियतेबुधैः ॥१८॥

त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥१९॥

यस्मा-----Page------------------२६३--द्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदाबुधः ॥२०॥

वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदिवक्तव्यः सोऽपि शब्दविवर्जितः ॥२१॥

इति वा तद्भवेन्मौनं सर्वं सहज-संज्ञितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥२२॥

आदावन्तेच मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनःस्मृतः ॥२३॥

कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन नि-र्दिष्टं ह्यखण्डानन्दमद्वयम् ॥२४॥

सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥२५॥

सिद्धये सर्वभूतादि वि-श्वाधिष्ठानमद्वयम् । यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥२६॥

यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्यो-ऽसौ ब्रह्मवादिनाम् ॥२७॥

अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नोचेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥२८॥

दृष्टिं ज्ञानमयीं कृत्वा पश्ये-द्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥२९॥

द्रष्टृ-दर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलो-किनी ॥३०॥

चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृ-त्तीनां प्राणायामः स उच्यते ॥३१॥

निषेधनं प्रपञ्चस्य रेचकाख्यः समी-रितः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥३२॥

ततस्तद्वृत्तिनै-श्चल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥३३॥

विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयोमुहुर्मुहुः ॥३४॥

यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसा धारणंचैव धारणा सा परा मता ॥३५॥

ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतयास्थितिः । ध्यानशब्देन विख्यातः परमानन्ददायकः ॥३६॥

निर्विकारतयाबृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥३७॥

इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वंसंभवेत्स्वयम् ॥३८॥

ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वंरूपं भवेत्तस्य विषयो मनसो गिराम् ॥३९॥

समाधौ क्रियमाणे तु विघ्ना-न्यायान्ति वै बलात् । अनुसंधानराहित्यमालस्यं भोगलालसम् ॥४०॥

लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्म-विशारदैः ॥४१॥

भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्म-वृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥४२॥

ये हि वृत्तिं विहायैनां ब्रह्मा-----Page------------------२६४--ख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥४३॥

ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास्तेभुवनत्रये ॥४४॥

येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः । ते वैसद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥४५॥

कुशला ब्रह्मवार्तायां वृत्तिहीनाःसुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥४६॥

निमिषार्धंन तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुका-दयः ॥४७॥

कारणं यस्य वै कार्यं कारणं तस्य जायते । कारणं तत्त्वतोनश्येत्कार्याभावे विचारतः ॥४८॥

अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥४९॥

भावितं तीव्रवेगेनयद्वस्तु निश्चयात्मकम् । दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥५०॥

विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥इति तेजोबिन्दूपनिषत्सु प्रथमोऽध्यायः ॥१॥

अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरसचिन्मात्रस्वरूपमनुब्रूहीति । सहोवाच परमः शिवः । अखण्डैकरसं दृश्यमखण्डैकरसं जगत् । अखण्डैकरसंभावमखण्डैकरसं स्वयम् ॥१॥

अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया ।अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥२॥

अखण्डैकरसा भूमिरखण्डैक-रसं वियत् । अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥३॥

अखण्डैकरसं ब्रह्मचाखण्डैकरसं व्रतम् । अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥४॥

अख-ण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः । अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्य-हम् ॥५॥

अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः । अखण्डैकरसं लक्ष्य-मखण्डैकरसं महः ॥६॥

अखण्डैकरसो देह अखण्डैकरसं मनः । अखण्डै-करसं चित्तमखण्डैकरसं सुखम् ॥७॥

अखण्डैकरसा विद्या अखण्डैकरसो-ऽव्ययः । अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥८॥

अखण्डैकरसं किंचिद-खण्डैकरसं परम् । अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥९॥

अखण्डै-करसान्नास्ति अखण्डैकरसान्न हि । अखण्डैकरसात्किंचिदखण्डैकरसादहम्॥१०॥

अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् । अखण्डैकरसं वेद्यम-खण्डैकरसो भवान् ॥११॥

अखण्डैकरसं गुह्यमखण्डैकरसादिकम् । अखण्डै-करसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥१२॥

अखण्डैकरसा माता अखण्डै-करसः पिता । अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥१३॥

अखण्डै करसं सूत्रमखण्डैकरसो विराट् । अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥१४॥


Page------------------२६५--

अखण्डैकरसं चान्तरखण्डैकरसं बहिः । अखण्डैकरसं पूर्णमखण्डैकरसामृतम्॥१५॥

अखण्डैकरसं गोत्रमखण्डैकरसं गृहम् । अखण्डैकरसं गोप्यमखण्डै-करसश्शशी ॥१६॥

अखण्डैकरसास्तारा अखण्डैकरसो रविः । अखण्डैकरसंक्षेत्रमखण्डैकरसा क्षमा ॥१७॥

अखण्डैकरसः शान्त अखण्डैकरसोऽगुणः ।अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥१८॥

अखण्डैकरसो बन्धुर-खण्डैकरसः सखा । अखण्डैकरसो राजा ह्यखण्डैकरसं पुरम् ॥१९॥

अख-ण्डैकरसं राज्यमखण्डैकरसाः प्रजाः । अखण्डैकरसं तारमखण्डैकरसो जपः॥२०॥

अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डै-करसं महत् ॥२१॥

अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् । अखण्डैकरसंभोज्यमखण्डैकरसं हविः ॥२२॥

अखण्डैकरसो होम अखण्डैकरसो जपः ।अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥२३॥

अखण्डैकरसं सर्वं चिन्मा-त्रमिति भावयेत् । चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥२४॥

भव-वर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि । इदं च सर्वं चिन्मात्रमयं चिन्मयमेवहि ॥२५॥

आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः । सर्वलोकं च चिन्मात्रंत्वत्ता मत्ता च चिन्मयम् ॥२६॥

आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिःशिवः । यत्किंचिद्यन्न किंचिच्च सर्वं चिन्मात्रमेव हि ॥२७॥

अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥२८॥

द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मात्ररूपश्च सर्वंचिन्मयमेव हि ॥२९॥

संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि । असच्चसच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥३०॥

आदिरन्तश्च चिन्मात्रं गुरुशि-ष्यादि चिन्मयम् । दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥३१॥

सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि । लिङ्गं च कारणं चैव चिन्मा-त्रान्न हि विद्यते ॥३२॥

अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादि चिन्मयम् ।पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥३३॥

चिन्मात्रान्नास्ति संकल्प-श्चिन्मात्रान्नास्ति वेदनम् । चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता॥३४॥

चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् । चिन्मात्रात्परमंब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥३५॥

चिन्मात्रान्नास्ति माया च चिन्मा-त्रान्नास्ति पूजनम् । चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥३६॥


Page-----------------२६६--चिन्मात्रान्नास्ति कोशादि चिमात्रान्नास्ति वै वसु । चिन्मात्रान्नास्ति मौनं चचिन्मात्रान्नास्त्यमौनकम् ॥३७॥

चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेवहि । यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥३८॥

यच्च यावच्च दूरस्थंसर्वं चिन्मात्रमेव हि । यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥३९॥

यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि । चिन्मात्रान्नास्ति गमनंचिन्मात्रान्नास्ति मोक्षकम् ॥४०॥

चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्र-मेव हि । अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥४१॥

शास्त्रे मयित्वयीशे च ह्यखण्डैकरसो भवान् । इत्येकरूपकतया यो वा जानात्यहं त्विति॥४२॥

सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥४३॥

इति तेजोबिन्दूपनिषत्सु द्वितीयोऽध्यायः ॥२॥

कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ । स होवाच परः शिवः ।परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । केवलं ज्ञानरूपोऽहं केवलं परमोऽ-स्म्यहम् ॥१॥

केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् । केवलंनित्यरूपोऽर्ह केवलं शाश्वतोऽस्म्यहम् ॥२॥

केवलं सत्त्वरूपोऽहमहं त्यक्त्वा-हमस्म्यहम् । सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥३॥

केवलंतुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः । सदा चैतन्यरूपोऽस्मि चिदानन्द-मयोऽस्म्यहम् ॥४॥

केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । के-वलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥५॥

निर्विकल्पस्वरूपोऽस्मिनिरीहोऽस्मि निरामयः । सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः॥६॥

सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः । अपरिच्छिन्नरूपोऽस्मिह्यखण्डानन्दरूपवान् ॥७॥

सत्परान्दरूपोऽस्मि चित्परानन्दमस्म्यहम् ।अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥८॥

आत्मानन्दस्वरूपोऽहं स्त्यान-न्दोऽस्म्यहं सदा । आत्मारामस्वरूपोऽस्मि ह्यहमात्मा सदाशिवः ॥९॥

आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योती रसोऽस्म्यहम् । आदिमध्यान्तहीनोऽस्मिह्याकाशसदृशोऽस्म्यहम् ॥१०॥

नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः ।नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् ॥११॥

नित्यशेषस्वरूपोऽस्मि सर्वा-तीतोऽस्म्यहं सदा । रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥१२॥

भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा । सर्वाधिष्ठानरूपोऽस्मि सर्वदाचिद्घनोऽस्म्यहम् ॥१३॥

देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा ।-----Page-----------------२६७--चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥१४॥

सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि । सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥१५॥

अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि । अहमेवाहमेवास्मि भूमाकाशस्वरूप-वान् ॥१६॥

अहमेव महानात्मा ह्यहमेव परात्परः । अहमन्यवदाभामिह्यहमेव शरीरवत् ॥१७॥

अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः । अहंकालत्रयातीत अहं वेदैरुपासितः ॥१८॥

अहं शास्त्रेण निर्णीत अहं चित्तेव्यवस्थितः । मत्त्यक्तं नास्ति किंचिद्वा मत्त्यक्तं पृथिवी च वा ॥१९॥

मया-तिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु । अहं ब्रह्मास्मि सिद्धोऽस्मि नित्य-शुद्धोऽस्म्यहं सदा ॥२०॥

निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा ।केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥२१॥

स्वयमेव स्वयंभामि स्वयमेव सदात्मकः । स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥२२॥

स्वयमेव स्वयं भुञ्जे स्वयमेव स्वयं रमे । स्वयमेव स्वयं ज्योतिः स्वयमेवस्वयं महः ॥२३॥

स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये । स्वात्म-न्येव सुखासीनः स्वात्ममात्रावशेषकः ॥२४॥

स्वचैतन्ये स्वयं स्थास्येस्वात्मराज्ये सुखे रमे । स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये॥२५॥

चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् । आनन्दघन एवाहमहंअब्रह्मास्मि केवलम् ॥२६॥

सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् ।नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥२७॥

अहमेव हृदाकाश-श्चिदादित्यस्वरूपवान् । आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥२८॥

एकसंख्याविहीनोऽस्ति नित्यमुक्तस्वरूपवान् । आकाशादपि सूक्ष्मोऽहमाद्य-न्ताभाववानहम् ॥२९॥

सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् । सत्ता-मात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥३०॥

सत्यानन्दस्वरूपोऽहं ज्ञानान-न्दघनोऽस्म्यहम् । विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः ॥३१॥

ब्रह्म-मात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किंचन । तदेवाहं सदानन्दं ब्रह्मैवाहं सनात-नम् ॥३२॥

त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किंचन । चिच्चैतन्यस्वरू-पोऽहमहमेव परः शिवः ॥३३॥

अतिभावस्वरूपोऽहमहमेव सुखात्मकः ।साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा ॥३४॥

केवलं ब्रह्ममात्रत्वा-दहमात्मा सनातनः । अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥३५॥

नामरूपविमुक्तोऽहमहमानन्दविग्रहः । इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥३६॥


Page------------------२६८--

बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः । आदिचैतन्यमात्रोपकः ॥३६॥

बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः । आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् ॥३७॥

वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् ।सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥३८॥

सर्वत्र तृप्तिरूपोऽहं परा-मृतरसोऽस्म्यहम् । एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥३९॥

सर्वशू-न्यस्वरूपोऽहं सकलागमगोचरः । मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूप-वान् ॥४०॥

सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । तुरीयातीतरूपो-ऽहं निर्विकल्पस्वरूपवान् ॥४१॥

सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निर-ञ्जनः । अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥४२॥

ओङ्का-रार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् । चिदाकारस्वरूपोऽस्मि नाहमस्मिन सोऽस्म्यहम् ॥४३॥

न हि किंचित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् ।निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥४४॥

न बुद्धिर्नविकल्पोऽहं न देहादित्रयोऽस्म्यहम् । न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूप-वान् ॥४५॥

न तापत्रयरूपोऽहं नेषणात्रयवानहम् । श्रवणं नास्ति मेसिद्धेर्मननं च चिदात्मनि ॥४६॥

सजातीयं न मे किंचिद्विजातीयं न मेक्वचित् । स्वगतं च न मे किंचिन्न मे भेदत्रयं क्वचित् ॥४७॥

असत्यं हिमनोरूपमसत्यं बुद्धिरूपकम् । अहंकारमसद्धीति नित्योऽहं शाश्वतो ह्यजः ॥४८॥

देहत्रयमसद्विद्धि कालत्रयमसत्सदा । गुणत्रयमसद्विद्धि ह्यहं सत्या-त्मकः शुचिः ॥४९॥

श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत्सदा । शास्त्रं सर्वम-सद्विद्धि ह्यहं सत्यचिदात्मकः ॥५०॥

मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा ।सर्वतत्त्वमसद्विद्धि ह्यहं भूमा सदाशिवः ॥५१॥

गुरुशिष्यमसद्विद्धि गुरो-र्मन्त्रमसत्ततः । यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥५२॥

यच्चिन्त्यं तदसद्विद्धि यद्वाच्यं तदसत्सदा । यद्धितं तदसद्विद्धि न मां विद्धितथाविधम् ॥५३॥

सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति । दृष्टं श्रुत-मसद्विद्धि ओतं प्रोतमसन्मयम् ॥५४॥

कार्याकार्यमसद्विद्धि नष्टं प्राप्तम-सन्मयम् । दुःखादुःखमसद्विद्धि सर्वासर्वमसन्मयम् ॥५५॥

पूर्णापूर्णम-सद्विद्धि धर्माधर्ममसन्मयम् । लाभालाभावसद्विद्धि जयाजयमसन्मयम्॥५६॥

शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्व-मसन्मयम् ॥५७॥

गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् । असदेव सदासर्वमसदेव भवोद्भवम् ॥५८॥

असदेव गुणं सर्वं सन्मात्रमहमेव हि । स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥५९॥


Page------------------२६९--

अहं ब्रह्मास्मि मन्त्रोऽयंदृश्यपापं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥६०॥

अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं जन्म-पापं विनाशयेत् ॥६१॥

अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् ।अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥६२॥

अहं ब्रह्मास्मि मन्त्रो-ऽयं भेदबुद्धिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विना-शयेत् ॥६३॥

अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् । अहंब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥६४॥

अहं ब्रह्मास्मि मन्त्रोऽयंसर्वव्याधीन्विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत्॥६५॥

अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् । अहं ब्रह्मास्मिमन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥६६॥

अहं ब्रह्मास्मि मन्त्रोऽयं चित्त-वृत्तिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं संकल्पादीन्विनाशयेत् ॥६७॥

अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्व-तन्त्रं विनाशयेत् ॥६८॥

अहं ब्रह्मास्मि मन्त्रोऽयमात्मज्ञानं विनाशयेत् ।अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥६९॥

अहं ब्रह्मास्मि मन्त्रोऽयम-प्रतर्क्यसुखप्रदः । अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति ॥७०॥

अहंब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः । अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगि-रीन्हरेत् ॥७१॥

अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् । अहंब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥७२॥

अहं ब्रह्मास्मि मन्त्रोऽयंज्ञानानन्दं प्रयच्छति । सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥७३॥

सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् । सद्यो मोक्षमवाप्नोति नात्रसंदेहमण्वपि ॥७४॥

इति तेजोबिन्दूपनिषत्सु तृतीयोऽध्यायः ॥३॥

कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति ।स होवाच परः शिवः । चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्म-मात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥१॥

देहत्रयातिरिक्तोऽहं शुद्धचैतन्य-मस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥२॥

आनन्द-घनरूपोऽस्मि परानन्दघनोऽस्म्यहम् । यस्य देहादिकं नास्ति यस्य ब्रह्मेतिनिश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥३॥

यस्य किंचिदहं-----Page-----------------२७०--नास्ति चिन्मात्रेणावतिष्ठते । चैतन्यमात्रो यस्यान्तश्चिन्मात्रेकस्वरूपवान् ॥४॥

सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः । आनन्दरतिरव्यक्तः परिपूर्णश्चिदा-त्मकः ॥५॥

शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्माह्यन्यचिन्ताविवर्जितः ॥६॥

किंचिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ।न मे चित्तं न मे बुद्धिर्नाहंकारो न चेन्द्रियम् ॥७॥

न मे देहः कदाचिद्वान मे प्राणादयः क्वचित् । न मे माया न मे कामो न मे क्रोधः परोऽस्म्य-हम् ॥८॥

न मे किंचिदिदं वापि न मे किंचित्क्वचिज्जगत् । न मे दोषो नमे लिङ्गं न मे चक्षुर्न मे मनः ॥९॥

न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः । न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥१०॥

न मेतुरीयमिति यः स जीवन्मुक्त उच्यते । इदं सर्वं न मे किंचिदयं सर्वं न मेक्वचित् ॥११॥

न मे कालो न मे देशो न मे वस्तु न मे मतिः । न मेस्नानं न मे संध्या न मे दैवं न मे स्थलम् ॥१२॥

न मे तीर्थं न मेसेवा न मे ज्ञानं न मे पदम् । न मे बन्धो न मे जन्म न मे वाक्यं न मेरविः ॥१३॥

न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् । न मेजीव इति स्वात्मा न मे किंचिज्जगत्त्रयम् ॥१४॥

न मे मोक्षो न मे द्वैतंन मे वेदो न मे विधिः । न मिऽन्तिकं न मे दूरं न मे बोधो न मेरहः ॥१५॥

न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः । न मे ब्रह्मन मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥१६॥

न मे पृथ्वी न मे तोयं न मेवायुर्न मे वियत् । न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥१७॥

न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः । न मे शीतं न मे चोष्णंन मे तृष्णा न मे क्षुधा ॥१८॥

न मे मित्रं न मे शत्रुर्न मे मोहो न मेजयः । न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥१९॥

न मेवक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे गन्तव्यमीषद्वा न मे ध्यातव्य-मण्वपि ॥२०॥

न मे भोक्तत्र्यमीषद्वा न मे स्मर्तव्यमण्वपि । न मे भोगोन मे रागो न मे यागो न मे लयः ॥२१॥

न मे मौर्ख्यं न मे शान्तं न मेबन्धो न मे प्रियम् । न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥२२॥

न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः । अध्यारोपोऽपवादो वा न मेचैकं न मे बहु ॥२३॥

न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि ।न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥२४॥

न मे मज्जा न मेऽ-----Page------------------२७१--स्थिर्वा न मे त्वग्धातुसप्तकम् । न मे शुक्लं न मे रक्तं न मे नीलं न मे पृथक्॥२५॥

न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् । न मे भ्रान्तिर्नमे स्थैर्य न मे गुह्यं न मे कुलम् ॥२६॥

न मे त्याज्यं न मे ग्राह्यं न मेहास्यं न मे नयः । न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥२७॥

न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे तुभ्यं न मे मह्यंन मे त्वं च न मे त्वहम् ॥२८॥

न मे जरा न मे बाल्यं न मे यौवनम-ष्वपि । अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥२९॥

चिदहं चिदहंचेति स जीवन्मुक्त उच्यते । ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥३०॥

स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः । स्वयमेव स्वयं पश्येत्स्वात्मराज्येसुखं वसेत् । स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते ॥३१॥

स्वयमेवैकत्रीरोऽग्रे स्वयमेव प्रभुः स्मृतः । स्वस्वरूपे स्वयं स्वप्त्येत्स जीव-न्मुक्त उच्यते ॥३२॥

ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी ।स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥३३॥

सर्वात्मा समरूपात्माशुद्धात्मा त्वहमुत्थितः । एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥३४॥

अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः । लक्ष्यात्मा ललितात्माहं तूष्णी-मात्मस्वभाववान् ॥३५॥

आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धव-र्जितः । ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥३६॥

चिन्मात्रेणैवयस्तिष्ठेद्वैदेही मुक्त एव सः ॥३७॥

निश्चयं च परित्यज्य अहं ब्रह्मेति निश्च-यम् । आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥३८॥

सर्वमस्तीतिनास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमा-त्रकः ॥३९॥

किंचित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ । तूष्णीमेवस्थितस्तूष्णीं तूष्णीं सत्यं न किंचन ॥४०॥

परमात्मा गुणातीतः सर्वात्माभूतभावनः । कालभेद वस्तुभेदं देशभेदं स्वभेदकम् ॥४१॥

किंचिद्भेदं नतस्यास्ति किंचिद्वापि न विद्यते । अहं त्वं तदिदं सोऽयं कालात्मा कालही-नकः ॥४२॥

शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः । देवात्मा देव-हीनात्मा मेयात्मा मेयवर्जितः ॥४३॥

सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।सर्वसंकल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥४४॥

केवलः परमात्माहंकेवलो ज्ञानविग्रहः । सत्तामात्रस्वरूपात्मा नान्यत्किंचिज्जगद्भयम् ॥४५॥

जीवेश्वरेति वाक् क्वेति वेदशास्त्राद्यहं त्विति । इदं चैतन्यमेवेति अहं चैतन्य-----Page------------------२७२--मित्वपि ॥४६॥

इति निश्चयशून्यो यो वैदेही मुक्त एव सः । चैतन्यमात्र-संसिद्धः स्वात्मारामः सुखासनः ॥४७॥

अपरिच्छिन्नरूपात्मा अणुस्थूला-दिवर्जितः । तुर्यतुर्यः परानन्दो वैदेही मुक्त एव सः ॥४८॥

नामरूपवि-हीनात्मा परसंवित्सुखात्मकः । तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥४९॥

योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः । गुणागुणविहीनात्मा देशका-लादिवर्जितः ॥५०॥

साक्ष्यसाक्षित्वहीनात्मा किंचित्किंचिन्न किंचन । यस्यप्रपञ्चमानं न ब्रह्माकारमपीह न ॥५१॥

स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपेस्वयंरतिः । वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥५२॥

अतीता-तीतभावो यो वैदेही मुक्त एव सः । चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः॥५३॥

सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः । तस्मिन्काले विदेहीतिदेहस्मरणवर्जितः ॥५४॥

ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः । परैरदृष्ट-बाह्यात्मा परमानन्दचिद्घनः ॥५५॥

परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः ।ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥५६॥

ब्रह्मामृतरसासक्तो ब्रह्मामृत-रसः स्वयम् । ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥५७॥

ब्रह्मामृतरसेतृप्तो ब्रह्मानन्दानुभावकः । ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥५८॥

ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः । ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः॥५९॥

ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्घनः । ब्रह्मानन्दरसोद्वाहो ब्रह्मान-न्दरसंभरः ॥६०॥

ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः । आत्मरूपमिदंसर्वमात्मनोऽन्यन्न किंचन ॥६१॥

सर्वमात्माहमात्मास्मि परमात्मा परात्मकः ।नित्यानन्दस्वरूपात्मा वैदेही मुक्त एव सः ॥६२॥

पूर्णरूपो महानात्मा प्रीता-त्मा शाश्वतात्मकः । सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥६३॥

निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः । शान्ताशान्तस्वरूपात्मा नैका-त्मत्वविवर्जितः ॥६४॥

जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः । मुक्तामुक्तस्व-रूपात्मा मुक्तामुक्तविवर्जितः ॥६५॥

बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः ।द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥६६॥

सर्वासर्वस्वरूपात्मा सर्वासर्व-विवर्जितः । मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥६७॥

सर्वसंकल्प-हीनात्मा वैदेही मुक्त एव सः । निष्कलात्मा निर्मलात्मा बुद्धात्मा पुरुषा-त्मकः ॥६८॥

आनन्दादिविहीनात्मा अमृतात्मा मृतात्मकः । कालत्रयस्वरू-पात्मा कालत्रयविवर्जितः ॥६९॥

अखिलात्मा ह्यमेयात्मा मानात्मा-----Page-----------------२७३--मानवर्जितः । नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥७०॥

अन्यहीनस्वभा-वात्मा अन्यहीनस्वयंप्रभः । विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥७१॥

नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः । शमादिषट्कशून्यात्मा मुमुक्षुत्वा-दिवर्जितः ॥७२॥

स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिवि-हीनात्मा तुरीयादिविवर्जितः ॥७३॥

अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥७४॥

आनन्दकोशहीनात्मापञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥७५॥

दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः । सदा समाधिशून्यात्माआदिमध्यान्तवर्जितः ॥७६॥

प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः ।तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥७७॥

ॐकारवाच्यहीनात्मासर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥७८॥

आत्मज्ञेयादिहीनात्मा यत्किंचिदिदमात्मकः । भानाभानविहीनात्मा वैदेहीमुक्त एव सः ॥७९॥

आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् ।स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥८०॥

स्वमात्मनि स्वयंतृप्तः स्वमात्मानं स्वयं चर । आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युप-निषत् ॥

इति तेजोबिन्दूपनिषत्सु चतुर्थोऽध्यायः ॥४॥

निदाघो नाम वै मिउ!निः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रू-हीति । स होवाच ऋभुः । सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः । सर्वका-रणकार्यात्मा कार्यकारणवर्जितः ॥१॥

सर्वसंकल्परहितः सर्वनादमयःशिवः । सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥२॥

सर्वतेजःप्रकाशात्मानादानन्दमयात्मकः । सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥३॥

सर्व-नादकलातीत एष आत्माहमव्ययः । आत्मानात्मविवेकादिभेदाभेदविवर्जितः ॥४॥

शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः । महावाक्यार्थतोदूरो ब्रह्मास्मीत्यतिदूरतः ॥५॥

तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥६॥

अखण्डैकरसो वाऽहमा-नन्दोऽस्मीतिवर्जितः । सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥७॥

आत्मेतिशब्दहीनो य आत्मशब्दार्थवर्जितः । सच्चिदानन्दहीनो य एषै-वात्मा सनातनः ॥८॥

स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः । यस्य-----Page-----------------२७४--किंचिद्बहिर्नास्ति किंचिदन्तः कियन्न च ॥९॥

यस्य लिङ्गं प्रपञ्चं वा ब्रह्मे-वात्मा न संशयः । नास्ति यस्य शरीरं वा जीवो वा भूतभौक्तिकः ॥१०॥

नामरूपादिकं नास्ति भोज्यं वा भोगभुक् च वा । सद्वाऽसद्वा स्थितिर्वापि यस्यनास्ति क्षराक्षरम् ॥११॥

गुणं वा विगुणं वापि सम आत्मा न संशयः ।यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥१२॥

गुरुशिष्यादिभेदं वादेवलोकः सुरासुराः । यत्र धर्ममधर्यं वा शुद्धं वाऽशुद्धमण्वपि ॥१३॥

यत्रकालमकालं वा निश्चयः संशयो न हि । यत्र मन्त्रममन्त्रं वा विद्याऽविद्या नविद्यते ॥१४॥

द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् । अनात्मेति प्रसङ्गोवा ह्यनात्मेति मनोऽपि वा ॥१५॥

अनात्मेति जगद्वापि नास्ति नास्तीतिनिश्चिनु । सर्वसंकल्पशून्यत्वात्सर्वकार्यविवर्जनात् ॥१६॥

केवलं ब्रह्ममात्रत्वंनास्त्यनात्मेति निश्चिनु । देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥१७॥

जीवत्रयगुणाभावात्तापत्रयविवर्जनात् । लोकत्रयविहीनत्वात्सर्वमात्मेति शास-नात् ॥१८॥

चित्ताभावाच्चिन्तनीयं देहाभावाज्जरा न च । पादाभावाद्र-तिर्नास्ति हस्ताभावात्क्रिया न च ॥१९॥

मृत्युर्न जननाभावाद्वृद्ध्यभावा-त्सुखादिकम् । धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥२०॥

अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि । एकाभावे द्वितीयं न द्वितीयेऽपिन चैकता ॥२१॥

सत्यत्वमस्ति चेत्किंचिदसत्यं न च संभवेत् ।असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥२२॥

शुभं यद्यशुभं विद्धिअशुभाच्छुभमिष्यते । भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ॥२३॥

बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता । मरणं यदि चेज्जन्मजन्माभावे मृतिर्न च ॥२४॥

त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेवन । इदं यदि तदेवास्ति तदभावादिदं न च ॥२५॥

अस्तीति चेन्नास्तितदा नास्ति वेदस्ति किंचन । कार्यं चेत्कारणं किंचित्कार्याभावे न कारणम्॥२६॥

द्वैतं यदि तदाऽद्वैतं द्वैतभावे द्वयं न च । दृश्यं यदि दृगप्यस्तिदृश्याभावे दृगेव न ॥२७॥

अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च । पूर्णत्वमस्ति चेत्किंचिदपूर्णत्वं प्रसज्यते ॥२८॥

तस्मादेतत्क्वचिन्नास्ति त्वंचाहं वा इमे इदम् । नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे ॥२९॥

परंब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वम-प्यहम् ॥३०॥

चिन्मात्रं केवलं चाहं नास्त्यनात्म्येति निश्चिनु । इदं प्रपञ्चं-----Page-----------------२७५--नास्त्येव नोत्पन्नं नो स्थितं क्वचित् ॥३१॥

चित्तं प्रपञ्चमित्याहुर्नास्तिनास्त्येव सर्वदा । न प्रपञ्चं न चित्तादि नाहंकारो न जीवकः ॥३२॥

माया-कार्यादिकं नास्ति माया नास्ति भयं नहि । कर्ता नास्ति क्रिया नास्ति श्रवणंमननं नहि ॥३३॥

समाधिद्वितयं नास्ति मातृमानादि नास्ति हि । अज्ञानंचापि नास्त्येव ह्यविवेकं कदाचन ॥३४॥

अनुबन्धचतुष्कं न संबन्धत्रयमेवन । न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥३५॥

न भूमिर्न जलंनाग्निर्न वायुर्न च खं क्वचित् । न देवा नच दिक्पाला न वेदा न गुरुःक्वचित् ॥३६॥

न दूरं नान्तिकं नालं न मध्यं न क्वचित्स्थितम् । नाद्वैतंद्वैतसत्ये वा ह्यसत्यं वा इदं न च ॥३७॥

बन्धमोक्षादिकं नास्ति सद्वाऽसद्वासुखादि वा । जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥३८॥

सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि । चिदित्येवेति नास्त्येव चिदहंभा-षणं नहि ॥३९॥

अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् । वाचायदुच्यते । किंचिन्मनसा मनुते क्वचित् ॥४०॥

बुद्ध्या निश्चिनुते नास्तिचित्तेन ज्ञायते नहि । योगियोगादिकं नास्ति सदा सर्वं सदा न च ॥४१॥

अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि । भ्रान्तिरभ्रान्तिर्नास्त्येवनास्त्यनात्मेति निश्चिनु ॥४२॥

वेदः शास्त्रं पुराणं च कार्यं कारण-मीश्वरः । लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥४३॥

बन्धोमोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत्सर्वं मिथ्यान संशयः ॥४४॥

वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् । मनसाचिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥४५॥

बुद्ध्या निश्चीयते किंचिच्चित्तेनिश्चीयते क्वचित् । शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते ॥४६॥

श्रोत्राभ्यांश्रूयते यद्यदन्यत्सद्भावमेव च । नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चि-तम् ॥४७॥

इदमित्येव निर्दिष्टमयमित्येव कल्प्यते । त्वमहं तदिदं सोऽहमन्य-त्सद्भावमेव च ॥४८॥

यद्यत्संभाव्यते लोके सर्वसंकल्पसंभ्रमः । सर्वाध्यासंसर्वगोप्यं सर्वभोगप्रभेदकम् ॥४९॥

सर्वदोषप्रभेदाच्च नास्त्यनात्मेतिनिश्चिनु । मदीयं च त्वदीयं च ममेति च तवेति च ॥५०॥

मह्यं तुभ्यं मये-त्यादि सत्सर्वं वितथं भवेत् । रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम्॥५१॥

संहारे रुद्र इत्येवं सर्वं मिथेति निश्चिनु । स्नानं जपस्तपो होमःस्वाध्यायो देवपूजनम् ॥५२॥

मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् ।-----Page-----------------२७६--अन्तःकरणसद्भाव अविद्यायाश्च संशयः ॥५३॥

अनेककोटिब्रह्माण्डं सर्वंमिथ्येति निश्चिनु । सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥५४॥

दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते । वर्तते जगति यद्यत्सर्वं मिथ्येतिनिश्चिनु ॥५५॥

येन केनाक्षरेणोक्तं येन केन विनिश्चितम् । येनकेनापि गदितं येन केनापि मोदितम् ॥५६॥

येन केनापि यद्दत्तं येनकेनापि यत्कृतम् । यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥५७॥

यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु । त्वमेव परमात्मासि त्वमेव परमोगुरुः ॥५८॥

त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा । त्वमेव सर्व-भावोऽसि त्वं ब्रह्मासि न संशयः ॥५९॥

कालहीनोऽसि कालोऽसि सदाब्रह्मासि चिद्घनः । सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि ॥६०॥

सत्योऽसिसिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदामृटोऽसि । देवोऽसिशान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥६१॥

समोऽसिसच्चापि सनातनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि । सर्वाङ्गहीनोऽसिसदा स्थितोऽसि ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥६२॥

सर्वप्रपञ्चभ्रमवर्जि-तोऽसि सर्वेषु भूतेषु च भासितोऽसि । सर्वत्र संकल्पविवर्जितोऽसि सर्वागमा-न्तार्थविभावितोऽसि ॥६३॥

सर्वत्र संतोषसुखासनोऽसि सर्वत्र गत्यादिविव-र्जितोऽसि । सर्वत्र लक्ष्यादिविवर्जितोऽसि ध्यातोऽसि विष्ण्वादिसुरैरजस्रम्॥६४॥

चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येवस्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः ॥६५॥

आनन्दोऽसि परोऽसि त्वमेकएवाद्वितीयकः । चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपुकः ॥६६॥

सदसि त्वमसिज्ञोऽसि सोऽसि जानासि वीक्षसि । सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वैप्रभुः ॥६७॥

अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि । सर्वोऽसि सर्व-हीनोऽसि शान्ताशान्तविवर्जितः ॥६८॥

सत्तामात्रप्रकाशोऽसि सत्तासा-मान्यको ह्यसि । नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥६९॥

ईषन्मा-त्रविशून्योऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिवि-वर्जितः ॥७०॥

लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः । सर्वनादा-न्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥७१॥

ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपंप्रपश्यति । स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥७२॥

स्वात्मराज्येस्वमेवासि स्वयंभावविवर्जितः । शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किंचिन्न पश्यति-----Page-----------------२७७--॥७३॥

स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि । स्वस्वरूपादनन्योऽसिह्यहमेवासि निश्चिनु ॥७४॥

इदं प्रपञ्चं यत्किंचिद्यद्यज्जगति विद्यते ।दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥७५॥

भूमिरापोऽनलो वायुःखं मनो बुद्धिरेव च । अहंकारश्च तेजश्च लोकं भुवनमण्डलम् ॥७६॥

नाशोजन्म च सत्यं च पुण्यपापजयादिकम् । रागः कामः क्रोधलोभौध्यानं ध्येयं गुणं परम् ॥७७॥

गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् ।भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥७८॥

शमो विचारः संतोषोभोक्तृभोज्यादिरूपकम् । यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥७९॥

आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः । इन्द्रियाणि मनश्चैवअवस्थात्रितयं तथा ॥८०॥

चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥८१॥

सर्ववर्णाश्रमाचारंमन्त्रतन्त्रादिसंग्रहम् । विद्याविद्यादिरूपं च सर्ववेद्यं जडाजडम् ॥८२॥

बन्ध-मोक्षविभागं च ज्ञानविज्ञानरूपकम् । बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाष-णम् ॥८३॥

सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् । अनेकजीवसद्भावमे-कजीवादिनिर्णयम् ॥८४॥

यद्यद्ध्यायति चित्तेन यद्यत्संकल्पते क्वचित् ।बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् ॥८५॥

यद्यद्वाचा व्याकरोतियद्यदाचार्यभाषणम् । यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांस्यते पृथक् ॥८६॥

यद्यय्यायेन निर्णीतं महद्भिर्वेदपारगैः । शिवः क्षरति लोकान्वै विष्णुः पातिजगत्त्रयम् ॥८७॥

ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् । यद्यदस्तिपुराणेषु यद्यद्वेदेषु निर्णयम् ॥८८॥

सर्वोपनिषदां भावं सर्वं शशविषाण-वत् । देहोऽहमिति संकल्पं तदन्तःकरणं स्मृतम् ॥८९॥

देहोऽहमिति संकल्पोमहत्संसार उच्यते । देहोऽहमिति संकल्पस्तद्बन्धमिति चोच्यते ॥९०॥

देहोऽ-हमिति संकल्पस्तद्दुःखमिति चोच्यते । देहोऽहमिति यद्भानं तदेव नरकं स्मृतम्॥९१॥

देहोऽहमिति संकल्पो जगत्सर्वमितीर्यते । देहोऽहमिति संकल्पोहृदयग्रन्थिरीरितः ॥९२॥

देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते । देहो-ऽहमिति यज्ज्ञानं तदसद्भावमेव च ॥९३॥

देहोऽहमिति या बुद्धिः साचाविद्येति भण्यते । देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥९४॥

देहोऽहमिति संकल्पः सत्यजीवः स एव हि । देहोऽहमिति यज्ज्ञानंपरिच्छिन्नमितीरितम् ॥९५॥

देहोऽहमिति संकल्पो महापापमिति स्फुटम् ।-----Page-----------------२७८--देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ॥९६॥

यत्किंचिदपिसंकल्पस्तापत्रयमितीरितम् । कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालना-नास्वरूपम् । यत्किंचेदं सर्वसंकल्पजालं तत्किंचेदं मानसं सोम्य विद्धि॥९७॥

मन एव जगत्सर्वं मन एव महारिपुः । मन एव हि संसारोमन एव जगत्त्रयम् ॥९८॥

मन एव महद्दुःखं मन एव जरादिकम् ।मन एव हि कालश्च मन एव मलं तथा ॥९९॥

मन एव हि संकल्पोमन एव हि जीवकः । मन एव हि चित्तं च मनोऽहंकार एव च ॥१००॥

मन एव महद्बन्धं मनोऽन्तःकरणं च तत् । मन एव हि भूमिश्च मन एव हितोयकम् ॥१०१॥

मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हिचाकाशं मन एव हि शब्दकम् ॥१०२॥

स्पर्शं रूपं रसं गन्धं कोशाः पञ्चमनोभवाः । जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् ॥१०३॥

दिक्पालावसवो रुद्रा आदित्याश्च मनोमयाः । दृश्यं जडं द्वन्द्वजातमज्ञानं मानसंस्मृतम् ॥१०४॥

संकल्पमेव यत्किंचित्तत्तन्नास्तीति निश्चिनु । नास्ति नास्तिजगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् ॥१०५॥

इति तेजोबिन्दूपनिषत्सु पञ्चमोऽध्यायः ॥५॥

ऋभुः ॥ सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् । सच्चिदानन्दमद्वैतंसच्चिदानन्दमद्वयम् ॥१॥

सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥२॥

सच्चिदानन्दमेव त्वंसच्चिदानन्दकोऽस्म्यहम् । मनोबुद्धिरहंकारचित्तसंघातका अमी ॥३॥

न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् । न वाक्यं न पदं वेदंनाक्षरं न जडं क्वचित् ॥४॥

न मध्यं नादि नान्तं वा न सत्यं न निबन्ध-नम् । न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥५॥

न देहं न मुखंघ्राणं न जिह्वा न च तालुनी । न दन्तोष्ठौ ललाटं च निःश्वासोच्छ्वास एव च॥६॥

न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् । न दूरं नान्तिकंनाङ्गं नोदरं न किरीटकम् ॥७॥

न हस्तपादचलनं न शास्त्रं न च शासनम् ।न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥८॥

तुर्यातीतं न मे किंचित्सर्वंसच्चिन्मयं ततम् । नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥९॥

नविश्वस्तैजसः प्राज्ञो विराट्सूत्रात्मकेश्वराः । न गमागमचेष्टा च न नष्टं नप्रयोजनम् ॥१०॥

त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा । न पीनं-----Page-----------------२७९--नृ कृशं क्लेदं न कालं देशभाषणम् ॥११॥

न सर्वं न भयं द्वैतं न वृक्ष-तृणपर्वताः । न ध्यानं योगसंसिद्धिर्न ब्रह्मक्षत्रवैश्यकम् ॥१२॥

न पक्षी नमृगो नाङ्गी न लोभो मोह एव च । न मदो न च मात्सर्यं कामक्रोधादय-स्तथा ॥१३॥

न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् । न प्रौढहीनोनास्तिक्यं न वार्तावसरोऽस्ति हि ॥१४॥

न लौकिको न लोको वा नव्यापारो न मूढता । न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥१५॥

न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा । न जन्म न मृतिर्वृद्धिर्न देहोऽह-मिति भ्रमः ॥१६॥

न शून्यं नापि चाशून्यं नान्तःकारणसंसृतिः । नरात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥१७॥

न वारपक्षमासादिवत्सरं न च चञ्चलम् । न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥१८॥

न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः । न यमो यमलोको वा नलोका लोकपालकाः ॥१९॥

न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् । ना-विद्या न च विद्या च न माया प्रकृतिर्जडा ॥२०॥

न स्थिरं क्षणिकं नाशं नगतिर्न च धावनम् । न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥२१॥

न पदार्था न पूजार्हं नाभिषेको न चार्चनम् । न पुष्पं न फलं पुत्रं गन्धपु-ष्पादिभूपकम् ॥२२॥

न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि । न प्रा-र्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥२३॥

न होमो न च कर्माणि नदुर्वाक्यं सुभाषणम् । न गायत्री न वा संधिर्न मनस्यं न दुःस्थितिः ॥२४॥

न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः । न दुःसहं दुरालापं नकिरातो न कैतवम् ॥२५॥

न पक्षपातं पक्षं वा न विभूषणतस्करौ । न चदम्भो दाम्भिको वा न हीनो नाधिको नरः ॥२६॥

नैकं द्वयं त्रयं तुर्यं नमहत्त्वं न चाल्पता । न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥२७॥

नगोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता । न स्त्री न योषिन्नो वृद्धा न कन्यान वितन्तुता ॥२८॥

न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः । न महावा-क्यमैक्यं वा नाणिमादिविभूतयः ॥२९॥

सर्वचैतन्यमात्रत्वात्सर्वदोषः सदान हि । सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥३०॥

ब्रह्मैव सर्वंनान्योऽस्ति तदहं तदहं तथा । तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥३१॥

ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः । ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं नचेन्द्रियः ॥३२॥

ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः । ब्रह्मैवाहं न-----Page-----------------२८०--जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥३३॥

ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मेमृतिः । ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥३४॥

इदं ब्रह्म परं ब्रह्मसत्यं ब्रह्म प्रभुर्हि सः । कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥३५॥

एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् । दोषो ब्रह्म गुणो ब्रह्म दमः शान्तंविभुः प्रभुः ॥३६॥

लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्वं ब्रह्मपरं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥३७॥

जीव एव सदा ब्रह्म सच्चिदानन्द-मस्म्यहम् । सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥३८॥

स्वयं ब्रह्म नसंदेहः स्वस्मादन्यन्न किंचन । सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम्॥३९॥

नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किंचन । अणुमात्रलसद्रूपमणु-मात्रमिदं जगत् ॥४०॥

अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमा-त्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥४१॥

ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रंजगत्त्रयम् । आनन्दं परमानन्दमन्यत्किंचिन्न किंचन ॥४२॥

चैतन्यमात्र-मॐकारं ब्रह्मैव सकलं स्वयम् । अहमेव जगत्सर्वमहमेव परं पदम् ॥४३॥

अहमेव गुणातीत अहमेव परात्परः । अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः॥४४॥

अहमेवाखिलाधार अहमेव सुखात्सुखम् । आत्मनोऽन्यज्जगन्नास्तिआत्मनोऽन्यत्सुखं न च ॥४५॥

आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयजगत् । आत्मनोऽन्यन्न हि क्वापि आत्मनोऽन्यत्तृणं नहि ॥४६॥

आत्मनोऽ-न्यत्तुषं नास्ति सर्वमात्ममयं जगत् । ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्नहि ॥४७॥

ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् । ब्रह्ममात्रं वृतं सर्वंब्रह्ममात्रं रसं सुखम् ॥४८॥

ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् ।ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥४९॥

ब्रह्मणोऽन्यदहं नास्तिब्रह्मणोऽन्यत्फल नहि । ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि॥५०॥

ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः । ब्रह्मणोऽन्यन्न चाहंतात्वत्तेदन्ते नहि क्वचित् ॥५१॥

स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिंचन । यत्किंचिद्दृश्यते लोके यत्किंचिद्भाष्यते जलैः ॥५२॥

यत्किंचि-द्भुज्यते क्वापि तत्सर्वमसदेव हि । कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम्॥५३॥

लिङ्गभेदमिद सर्वमसदेव सदा सुखम् । कालभेदं देशभेदं वस्तु-भेदं जयाजयम् ॥५४॥

यद्यद्भेद च तत्सर्वमसदेव हि केवलम् । अस-दन्तःकरणकमसदेवेन्द्रियादिकम् ॥५५॥

असत्प्राणादिकं सर्वं संघातमस-----Page------------------२८१--दात्मकम् । असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥५६॥

असत्यं षड्विका-रादि असत्यमरिवर्गकम् । असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा ॥५७॥

सच्चि-दानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः॥५८॥

सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः । अहमेव परानन्द अहमेवपरात्परः ॥५९॥

ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः । सर्वप्रकाशरूपोऽहंसर्वाभावस्वरूपकम् ॥६०॥

अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् ।त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥६१॥

चिदाकारं चिदाकाशंचिदेव परमं सुखम् । आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥६२॥

सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । कालो नास्ति जगन्नास्ति मायाप्र-कृतिरेव न ॥६३॥

अहमेव हरिः साक्षादहमेव सदाशिवः । शुद्धचैतन्य-भावोऽहं शुद्धसत्त्वानुभावनः ॥६४॥

अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽ-स्म्यहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥६५॥

सर्वं ब्रह्मैव सततंसर्वं ब्रह्मैव चेतनम् । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥६६॥

परमात्मा परं ज्योतिः परं धाम परा गतिः । सर्ववेदान्तसारोऽहं सर्वशास्त्र-सुनिश्चितः ॥६७॥

योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः । सर्वज्ञानप्र-काशोऽस्मि मुख्यविज्ञानविग्रहः ॥६८॥

तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादि-वर्जितः । चिदक्षरोऽहं सत्योऽहं वासुदेवोऽजरोऽमरः ॥६९॥

अहं ब्रह्मचिदाकाशं नित्यं ब्रह्म निरञ्जनम् । शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥७०॥

सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् । सत्यासत्यं जगन्नास्ति संकल्पकल-नादिकम् ॥७१॥

नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् । अनन्तमव्ययंशान्तमेकरूपमनामयम् ॥७२॥

मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरी-चिका । वन्ध्याकुमारवचने भीतिश्चेदस्ति किंचन ॥७३॥

शशशृङ्गेण नागे-न्द्रो मृतश्चेज्जगदस्ति तत् । मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥७४॥

नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा॥७५॥

गगने नीलिमासत्ये जगत्सत्यं भविष्यति । शुक्तिकारजतं सत्यंभूषणं चेज्जगद्भवेत् ॥७६॥

रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः । जातरूपेणबाणेन ज्वालाग्नौ नाशिते जगत् ॥७७॥

विन्ध्याटव्यां पायसान्नमस्ति चेज्ज-गदुद्भवः । रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् ॥७८॥

सद्यःकुमा-रिकारूपैः पाके सिद्धे जगद्भवेत् । चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत्-----Page-----------------२८२--॥७९॥

मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् । तक्रं क्षीरस्वरूपं चेत्क्व-चिन्नित्यं जगद्भवेत् ॥८०॥

गोस्तनादुद्भव क्षीरं पुनरारोपणे जगत् । भूर-जोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥८१॥

कूर्मरोम्णा गजे बद्धे जगदस्तुमदोत्कटे । नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् ॥८२॥

तुरङ्गमालयासिन्धुर्बद्धश्चेदस्त्विदं जगत् । अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ॥८३॥

ज्वालावह्निः शीतलश्चेदस्ति रूपमिदं जगत् । ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्ज-गदस्त्विदम् ॥८४॥

महच्छैलेन्द्रनीलं वा संभवेच्चेदिदं जगत् । मेरुरागत्यपद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥८५॥

निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् ।मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥८६॥

अणुकोटरविस्तीर्णेत्रैलोक्यं चेज्जगद्भवेत् । तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् ॥८७॥

स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः । नदीवेगो निश्चलश्चेत्केनापीदं भवे-ज्जगत् ॥८८॥

क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् । जात्यन्धै रत्न-विषयः सुज्ञातश्चेज्जगत्सदा ॥८९॥

नपुंसककुमारस्य स्त्रीसुखं चेद्भवेज्जगत् ।निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥९०॥

सद्योजाता तु या कन्याभोगयोग्या भवेज्जगत् । वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत्॥९१॥

काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् । महाखरो वा सिंहेनयुध्यते चेज्जगत्स्थितिः ॥९२॥

महाखरो गजगतिं गतश्चेज्जगदस्तु तत् ।संपूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् ॥९३॥

चन्द्रसूर्यादिकौ त्यक्त्वा राहु-श्चेद्दृश्यते जगत् । भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥९४॥

दरिद्रोधनिकानां च सुखं भुङ्क्ते तदा जगत् । शुना वीर्येण सिंहस्तु जितो यदिजगत्तदा ॥९५॥

ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा । श्वानेन सागरेपीते निःशेषेण मनो भवेत् ॥९६॥

शुद्धाकाशो मनुष्येषु पतितश्चेत्तदाजगत् । भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥९७॥

शुद्धाकाशेवने जाते चलिते तु तदा जगत् । केवले दर्पणे नास्ति प्रतिबिम्बं तदाजगत् ॥९८॥

अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि । सर्वथा भेदकलनंद्वैताद्वैतं न विद्यते ॥९९॥

मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् । देहोऽह-मिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥१००॥

हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्म-चक्रकम् । संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥१०१॥

अनात्मरूपचोरश्चे-दात्मरत्नस्य रक्षणम् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥१०२॥


Page-----------------२८३--एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् । ब्रह्मैव सर्वभावनं भुवनं नामसंत्यज ॥१०३॥

अहंब्रह्मेति निश्चित्य अहंभावं परित्यज । सर्वमेव लयंयाति सुप्ताहस्तस्थपुष्पवत् ॥१०४॥

न देहो न च कर्माणि सर्वं ब्रह्मैवकेवलम् । न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥१०५॥

लक्षणात्र-यविज्ञानं सर्वं ब्रह्मैव केवलम् । सर्वव्यापारमुत्सृज्य ह्यह ब्रह्मेति भावय॥१०६॥

अहं ब्रह्म न संदेहो ह्यहं ब्रह्म चिदात्मकम् । सच्चिदानन्दमात्रोऽ-हमिति निश्चित्य तत्त्यज ॥१०७॥

शांकरीयं महाशास्त्रं न देयं यस्य कस्य-चित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥१०८॥

गुरुभक्तिविशु-द्धान्तः करणाय महात्मने । सम्यक् परीक्ष्य दातव्यं मासं षण्मासवत्सरम्॥१०९॥

सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् । तेजोबिन्दूपनिषदमभ्य-सेत्सर्वदा मुदा ॥११०॥

सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयं ब्रह्मैवभवति स्वयमित्युपनिषत् ॥

ॐ सह नाववत्विति शान्तिः ॥इति तेजोबिन्दूपनिषत्समाप्ता ॥३९॥

नादबिन्दूपनिषत् ॥४०॥सम्पाद्यताम्

वैराजात्मोपासनया संजातज्ञानवह्निना ।दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॥ॐ वाङ्मे मनसीति शान्तिः ॥ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः । मकारं पुच्छमित्याहुर-र्धमात्रा तु मस्तकम् ॥१॥

पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते । धर्मो-ऽस्य दक्षिणं चक्षुरधर्मोऽथो परः स्मृतः ॥२॥

भूर्लोकः पादयोस्तस्य भुव-र्लोकस्तु जानुनि । सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥३॥

जनोलो-कस्तु हृद्देशे कण्ठे लोकस्तपस्ततः । भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः॥४॥

सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः । एवमेतां समारूढो हंसयो-गविचक्षणः ॥५॥

न भिद्यते कर्मचारैः पापकोटिशतैरपि । आग्नेयी प्रथमामात्रा वायव्येषा तथापरा ॥६॥

भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा ।परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः ॥७॥

कालत्रयेऽपि यस्येमा मात्रानूनं प्रतिष्ठिताः । एष ॐकार आख्यातो धारणाभिर्निबोधत ॥८॥

घोषिणी-----Page-----------------२८४--प्रथमा मात्रा विद्या मात्रा तथाऽपरा । पतङ्गिनी तृतीया स्याच्चतुर्थी चायु-वेगिनी ॥९॥

पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते । सप्तमी वैष्णवीनाम अष्टमी शांकरीति च ॥१०॥

नवमी महती नाम धृतिस्तु दशमीमता । एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥११॥

प्रथमायां तुयात्रायां यदि प्राणैर्वियुज्यते । भरते वर्षराजासौ सार्वभौमः प्रजायते ॥१२॥

द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् । विद्याधरस्तृतीयायां गान्ध-र्वस्तु चतुर्थिका ॥१३॥

पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते । उषितःसह देवत्वं सोमलोके महीयते ॥१४॥

षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यांवैष्णवं पदम् । अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥१५॥

नवम्यांतु महर्लोकं दशम्यां तु जनं व्रजेत् । एकादश्यां तपोलोकं द्वादश्यां ब्रह्मशाश्वतम् ॥१६॥

ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् । सदोऽदितं परंब्रह्म ज्योतिषामुदयो यतः ॥१७॥

अतीन्द्रियं गुणातीतं मनो लीनं यदाभवेत् । अनूपमं शिवं शान्तं योगयुक्तं सदाविशेत् ॥१८॥

तद्युक्तस्तन्मयोजन्तुः शनैर्मुञ्चेत्कलेवरम् । संस्थितो योगचारेण सर्वसङ्गविवर्जितः ॥१९॥

ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः । तेनैव ब्रह्मभावेन परमानन्दमश्नुते॥२०॥

आत्मानं सततं ज्ञात्वा कालं नय महामते । प्रारब्धमखिलं भुञ्जन्नो-द्वेगं कर्तुमर्हसि ॥२१॥

उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति । तत्त्वज्ञा-नोदयादूर्ध्वं प्रारब्धं नैव विद्यते ॥२२॥

देहादीनामसत्त्वात्तु यथा स्वप्नेविबोधतः । कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ॥२३॥

तत्तुजन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् । स्वप्नदेहो यथाध्यस्तस्तथैवायं हिदेहकः ॥२४॥

अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः । उपादानंप्रपञ्चस्य मृद्भाण्डस्येव पश्यति ॥२५॥

अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्वविश्वता । यथा रज्जं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ॥२६॥

तद्वत्सत्य-मविज्ञाय जगत्पश्यति मूढधीः । रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति॥२७॥

अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते । देहस्यापि प्रपञ्चत्वात्प्रा-रब्धावस्थितिः कुतः ॥२८॥

अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते ।ततः कालवशादेव प्रारब्धे तु क्षयं गते ॥२९॥

ब्रह्मप्रणवसंधानं नादोज्योतिर्मयः शिवः । स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव ॥३०॥

सिद्धासने स्थितो योगी मुद्रां संधाय वैष्णवीम् । शृणुयाद्दक्षिणे कर्णे नाज-----Page------------------२८५--मन्तर्गतं सदा ॥३१॥

अभ्यस्यमानो नादोऽयं ब्रह्ममावृणुते ध्वनिः । पक्षा-द्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् ॥३२॥

श्रूयते प्रथमाभ्यासे नादोनानाविधो महान् । वर्धमाने तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ॥३३॥

आदौ जलधिजीमूतभेरीनिर्झरसंभवः । मध्ये मर्दलशब्दाभो घण्टाकाहलज-स्तथा ॥३४॥

अन्ते तु किंकिणीवंशवीणाभ्रमरनिःस्वनः । इति नानाविधानादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः ॥३५॥

महति श्रूयमाणे तु महाभेर्यादिक-ध्वनौ । तत्र सूक्ष्मं सूक्ष्मतरं नाममेव परामृशेत् ॥३६॥

घनमुत्सृज्य वासूक्ष्मे सूक्ष्ममुत्सृज्य वा घने । रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत्॥३७॥

यत्र कुत्रापि वा नादे लगति प्रथमं मनः । तत्र तत्र स्थिरीभूत्वातेन सार्धं विलीयते ॥३८॥

विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुव-न्मनः । एकीभूयाथ सहसा चिदाकाशे विलीयते ॥३९॥

उदासीन-स्ततो भूत्वा सदाभ्यासेन संयमी । उन्मनीकारकं सद्यो नादमेवाव-धारयेत् ॥४०॥

सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः । नादमेवानुसं-दध्यान्नादे चित्तं विलीयते ॥४१॥

मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षतेतथा । नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति ॥४२॥

बद्धः सुनाद-गन्धेन सद्यः संत्यक्तचापलः । नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः ॥४३॥

विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति । मनोमत्तगजेन्द्रस्य विषयोद्या-नचारिणः ॥४४॥

नियामनसमर्थोऽयं निनादो निशिताङ्कुशः । नादोऽन्त-रङ्गसारङ्गबन्धने वायुरायते ॥४५॥

अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपिवा । ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः ॥४६॥

मनस्तत्र लयं यातितद्विष्णोः परमं पदम् । तावदाकाशसंकल्पो यावच्छब्दः प्रवर्तते ॥४७॥

निःशब्दं तत्परं ब्रह्म परमात्मा समीयते । नादो यावन्मनस्तावन्नादान्तेऽपिमनोन्मनी ॥४८॥

सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् । सदा नादा-नुसंधानात्संक्षीणा वासना तु या ॥४९॥

निरञ्जने विलीयेते मनोवायू नसंशयः । नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥५०॥

सर्वे तत्र लयंयान्ति ब्रह्मप्रणवनादके । सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः ॥५१॥

मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः । शङ्खदुन्दुभिनादं च न शृणोतिकदाचन ॥५२॥

काष्ठवज्ज्ञायते देह उन्मन्यावस्थाया ध्रुवम् । न जानातिस शीतोष्णं न दुःखं न सुखं तथा ॥५३॥

न मानं नावमानं च संत्यक्त्वा-----Page-----------------२८६--तु समाधिना । अवस्थात्रयमन्वेति न चित्तं योगिनः सदा ॥५४॥

जाग्र-न्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् ॥५५॥

दृष्टिः स्थिरा यस्य विनासदृश्यं वायुः स्थिरो यस्य विनाप्रयत्नम् । चित्तं स्थिरं यस्य विनावलम्बं सब्रह्मतारान्तरनादरूप इत्युपनिषत् ॥५६॥

ॐ वाङ्मे मनसीति शान्तिः ॥

इति नादबिन्दूपनिषत्समाप्ता ॥४०॥