प्रमुखा विकल्पसूचिः उद्घाट्यताम्

शाण्डिल्योपनिषत् ॥६१॥सम्पाद्यताम्

शाण्डिल्योपनिषत्प्रोक्तयमाद्यष्टाङ्गयोगिनः ।यद्वोधाद्यान्ति कैवल्यं स रामो मे परा गतिः ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥शाण्डिल्यो ह वा अथर्वाणं पप्रच्छ-आत्मलाभोपायभूतमष्टाङ्गयोगमनु-ब्रूहीति । स होवाचाथर्वा यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध-योऽष्टाङ्गानि । तत्र दश यमाः । तथा नियमाः । आसनान्यष्टौ । त्रयः प्राणा-यामाः । पञ्च प्रत्याहाराः । तथा धारणा । द्विप्रकारं ध्यानम् । समाधिस्त्वेक-रूपः । तत्राहिंसासत्यास्तेयब्रह्मचर्यदयाजपक्षमाधृतिमिताहारशौचानि चेतियमा दश । तत्र हिंसा नाम मनोवाक्कायकर्मभिः सर्वभूतेषु सर्वदा क्लेशज-ननम् । सत्यं नाम मनोवाक्कायकर्मभिर्भूतहितयथार्थाभिभाषणम् । अस्तेयं नाममनोवाक्कायकर्मभिः परद्रव्येषु निःस्पृहता । ब्रह्मचर्यं नाम सर्वावस्थासु मनो-वाक्कायकर्मभिः सर्वत्र मैथुनत्यागः । दया नाम सर्वभूतेषु सर्वत्रानुग्रहः ।आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहितेषु जनेषु प्रवृत्तौ निवृत्तौ वाएकरूपत्वम् । क्षमा नाम प्रियाप्रियेषु सर्वेषु ताडनपूजनेषु सहनम् । धृति-----Page------------------४१०--र्नामार्थहानौ स्वेष्टबन्धुवियोगे तत्प्राप्तौ सर्वत्र चेतःस्थापनम् । मिताहारोनाम चतुर्थांशावशेषकसुस्निग्धमधुराहारः । शौचं नाम द्विविधं - बाह्यमान्तरंचेति । तत्र मृज्जलाभ्यां बाह्यम् । मनःशुद्धिरान्तरम् । तदध्यात्मविद्ययालभ्यम् ॥१॥

तपःसन्तोषास्तिक्यदानेश्वरपूजनसिद्धान्तश्रवणहीमतिजपो-व्रतानि दश नियमाः । तत्र तपो नाम विध्युक्तकृच्छ्रचान्द्रायणादिभिः शरीर-शोषणम् । संतोषो नाम यदृच्छालाभसंतुष्टिः । आस्तिक्यं नाम वेदोक्त-धर्माधर्मेषु विश्वासः । दानं नाम न्यायार्जितस्य धनधान्यादेः श्रद्धयार्थिभ्यःप्रदानम् । ईश्वरपूजनं नाम प्रसन्नस्वभावेन यथाशक्ति विष्णुरुद्रादिपूजनम् ।सिद्धान्तश्रवणं नाम वेदान्तार्थविचारः । ह्रीर्नाम वेदलौकिकमार्गकुत्सित-कर्मणि लज्जा । मतिर्नाम वेदविहितकर्ममार्गेषु श्रद्धा । जपो नाम विधि-वदुरूपदिष्टवेदाविरुद्धमन्त्राभ्यासः । तद्द्विविधं वाचिकं मानसं चेति । मानसंतु मनसा ध्यानयुक्तम् । वाचिकं द्विविधमुच्चैरुपांशुभेदेन । उच्चैरुच्चारणंयथोक्तफलम् । उपांशु सहस्रगुणम् । मानसं कोटिगुणम् । व्रतं नाम वेदो-क्तविधिनिषेधानुष्ठाननैयत्यम् ॥२॥

स्वस्तिकगोमुखपद्मवीरसिंहभद्रमुक्तम-यूराख्यान्यासनान्यष्टौ । स्वस्तिकं नाम-जानूर्वोरन्तरे सम्यक्कृत्वा पादतलेउभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥३॥

सव्ये दक्षिणगुल्फंतु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा ॥४॥

अङ्गुष्ठेन निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण च । ऊर्वोरुपरि शाण्डिल्य कृत्वापादतले उभे । पद्मासनं भवेदेतत्सर्वेषामपि पूजितम् ॥५॥

एकं पादम-थैकस्मिन्विन्यस्योरुणि संस्थितः । इतरस्मिंस्तथा चोरुं वीरासनमुदीरितम्॥६॥

दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरम् । हस्तौ च जान्वोः संस्थाप्यस्वाङ्गुलीश्च प्रसार्य च ॥७॥

व्यक्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ।सिंहासनं भवेदेतत्पूजितं योगिभिः सदा ॥८॥

योनिं वामेन संपीड्यमेढ्रादुपरि दक्षिणम् । भ्रूमध्ये च मनोलक्ष्यं सिद्धासनमिदं भवेत् ॥९॥

गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । पादपार्श्वे तु पाणिभ्यांदृढं बद्धा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविषापहम् ॥१०॥

संपीड्य सीविनीं सूक्ष्मां गुल्फेनैव तु सव्यतः । सव्यं दक्षिणगुल्फेन मुक्ता-सनमुदीरितम् ॥११॥

अवष्टभ्य धरां सम्यक्तलाभ्यां तु करद्वयोः । हस्तयोःकूर्परौ चापि स्थापयेन्नाभिपार्श्वयोः ॥१२॥

समुन्नतशिरःपादो दण्डव-----Page------------------४११--द्व्योम्नि संस्थितः । मयूरासनमेतत्तु सर्वपापप्रणाशनम् ॥१३॥

शरीरान्त-र्गताः सर्वे रोगा विनश्यन्ति । विषाणि जीर्यन्ते । येन केनासनेन सुख-धारणं भवत्यशक्तस्तत्समाचरेत् । येनासनं विजितं जगत्त्रयं तेन विजितंभवति । यमनियमाभ्यां संयुक्तः पुरुषः प्राणायामं चरेत् । तेन नाड्यःशुद्धा भवन्ति ॥१४॥

अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ केनोपायेननाड्यः शुद्धाः स्युः । नाड्यः कतिसंख्याकाः । तासामुत्पत्तिः कीदृशी ।तासु कति वायवस्तिष्ठन्ति । तेषां कानि स्थानानि । तत्कर्माणि कानि । देहेयानि यानि विज्ञातव्यानि तत्सर्वं मे ब्रूहीति । स होवाचाथर्वा । अथेदंशरीरं षण्णवत्यङ्गुलात्मकं भवति । शरीरात्प्राणो द्वादशाङ्गुलाधिको भवति ।शरीरस्थं प्राणमग्निना सह योगाभ्यासेन समं न्यूनं वा यः करोति सयोगिपुङ्गवो भवति । देहमध्ये शिखिस्थानं त्रिकोणं तप्तजाम्बूनदप्रभं मनु-ष्याणाम् । चतुष्पदां चतुरस्रम् । विहङ्गानां वृत्ताकारम् । तन्मध्ये शुभातन्वी पावकी शिखा तिष्ठति । गुदाद्द्व्यङ्गुलादूर्ध्वं मेढ्राद्द्व्यङ्गुलादधोदेहमध्यं मनुष्याणां भवति । चतुष्पदां हृन्मध्यम् । विहगानां तुन्दमध्यम् ।देहमध्यं नवाङ्गुलं चतुरङ्गुलमुत्सेधायतमण्डाकृति । तन्मध्ये नाभिः ।तत्र द्वादशारयुतं चक्रम् । तच्चक्रमध्ये पुण्यपापप्रचोदितो जीवो भ्रमति ।तन्तुपञ्जरमध्यस्थलूतिका यथा भ्रमति तथा चासौ तत्र प्राणश्चरति । देहेऽ-स्मिञ्जीवः प्राणारूढो भवेत् । नाभेस्तिर्यगध ऊर्ध्वं कुण्डलिनीस्थानम् । अष्टप्रकृ-तिरूपाऽष्टधा कुण्डलीकृता कुण्डलिनी शक्तिर्भवति । यथावद्वायुसंचारं जला-न्नादीनि परितः स्कन्धः पार्श्वेषु निरुध्यैनं मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रं योग-काले चापानेनाग्निना च स्फुरति । हृदयाकाशे महोज्ज्वला ज्ञानरूपा भवति ।मध्यस्थकुण्डलिनीमाश्रित्य मुख्या नाड्यश्चतुर्दश भवन्ति । इडा पिङ्गलासुषुम्ना सरस्वती वारुणी पूषा हस्तिजिह्वा यशस्विनी विश्वोदरी कुहूः शङ्खिनीपयस्विनी अलम्बुसा गान्धारीति नाड्यश्चतुर्दश भवन्ति । तत्र सुषुम्ना विश्व-धारिणी मोक्षमार्गेति चाचक्षते । गुदस्य पृष्ठभागे वीणादण्डाश्रिता मूर्धपर्यन्तंब्रह्मरन्ध्रे विज्ञेया व्यक्ता सूक्ष्मा वैष्णवी भवति । सुषुम्नायाः सव्यभागे इडातिष्ठति । दक्षिणभागे पिङ्गला । इडायां चन्द्रश्चरति । पिङ्गलायां रविः । तमो-रूपश्चन्द्रः । रजोरूपो रविः । विषभागो रविः । अमृतभागश्चन्द्रमाः । तावेव-----Page-----------------४१२--सर्वकालं धत्तः । सुषुम्ना कालभोक्त्री भवति । सुषुम्ना पृष्ठपार्श्वयोः सरस्व-तीकुहू भवतः । यशस्विनीकुहूमध्ये वारुणी प्रतिष्ठिता भवति । पूषासरस्वती-मध्ये पयस्विनी भवति । गान्धारीसरस्वतीमध्ये यशस्विनी भवति । कन्दम-ध्येऽलम्बुसा भवति । सुषुम्नापूर्वभागे मेढ्रान्तं कुहूर्भवति । कुण्डलिन्या अध-श्चोर्ध्वं वारुणी सर्वगामिनी भवति । यशस्विनी सौम्या च पादाङ्गुष्ठान्तमि-ष्यते । पिङ्गला चोर्ध्वगा याम्यनासान्तं भवति । पिङ्गलायाः पृष्ठतो याम्य-नेत्रान्तं पूषा भवति । याम्यकर्णान्तं यशस्विनी भवति । जिह्वाया ऊर्ध्वान्तंसरस्वती भवति । आसव्यकर्णान्तमूर्ध्वगा शङ्खिनी भवति । इडापृष्ठभागात्स-व्यनेत्रान्तगा गान्धारी भवति । पायुमूलादधोर्ध्वगाऽलम्बुसा भवति । एताश्चचतुर्दशसु नाडीष्वन्या नाड्यः संभवन्ति । तास्वन्यास्तास्वन्या भवन्तीतिविज्ञेयाः ॥ यथाऽश्वत्थादिपत्रं शिराभिर्व्याप्तमेवं शरीरं नाडीभिर्व्याप्तम् । प्राणा-पानसमानोदानव्याना नागकूर्मकृकरदेवदत्तधनञ्जया एते दश वायवः सर्वासुनाडीषु चरन्ति । आस्यनासिकाकण्ठनाभिपादाङ्गुष्ठद्वयकुण्डल्यधश्चोर्ध्वभागेषुप्राणः संचरति । श्रोत्राक्षिकटिगुल्फघ्राणगलस्फिग्देशेषु व्यानः संचरति । गुद-मेढ्रोरुजानूदरवृषणकटिजङ्घानाभिगुदाग्न्यगारेष्वपानः संचरति । सर्वसंधिस्थौदानः । पादहस्तयोरपि सर्वगात्रेषु सर्वव्यापी समानः । भुक्तान्नरसादिकंगात्रेऽग्निना सह व्यापयन्द्विसप्ततिसहस्रेषु नाडीमार्गेषु चरन्समानवायुरग्निनासह साङ्गोपाङ्गकलेवरं व्याप्नोति । नागादिवायवः पञ्चत्वगस्थ्यादिसंभवाः ।तुन्दस्थं जलमन्नं च रसादिषु समीरितं तुन्दमध्यगतः प्रागस्तानि पृथक्कुर्यात् ।अग्नेरुपरि जलं स्थाप्य जलोपर्यन्नादीनि संस्थाप्य स्वयमपानं संप्राप्य तेनैव सहमारुतः प्रयाति देहमध्यगतं ज्वलनम् । वायुना पालितो वह्निरपानेन शनै-र्देहमध्ये ज्वलति । ज्वलनो ज्वालाभिः प्राणेन कोष्ठमभ्यागतं जलमत्युष्णम-करोत् । जलोपरि समर्पितव्यञ्जनसंयुक्तमन्नं वह्निसंयुक्तवारिणा पक्वमकरोत् ।तेन स्वेदमूत्रजलरक्तवीर्यरूपरसपुरीषादिकं प्राणः पृथक्कुर्यात् । समानवायुनासह सर्वासु नाडीषु रसं व्यापयञ्छ्वासरूपेण देहे वायुश्चरति । नवभिर्व्योमरन्ध्रैःशरीरस्य वायवः कुर्वन्ति विण्मूत्रादिविसर्जनम् । निश्वासोच्छ्वासकासश्च प्राण-कर्मोच्यते । विण्मूत्रादिविसर्जनमपानवायुकर्म । हानोपादानचेष्टादि व्यानकर्म ।देहस्योन्नयनादिकमुदानकर्म । शरीरपोषणादिकं समानकर्म । उद्गारादि नाग-कर्म । निमीलनादि कूर्मकर्म । क्षुत्करणं कृकरकर्म । तन्द्रा देवदत्तकर्म ।-----Page-----------------४१३--श्लेष्मादि धनञ्जयकर्म । एवं नाडीस्थानं वायुस्थानं तत्कर्म च सम्यग्ज्ञात्वानाडीसंशोधनं कुर्यात् ॥१५॥

यमनियमयुतः पुरुषः सर्वसङ्गविवर्जितः कृतविद्यःसत्यधर्मरतो जितक्रोधो गुरुशुश्रूषानिरतः पितृमातृविधेयः स्वाश्रमोक्तसदा-चारविद्वच्छिक्षितः फलमूलोदकान्वितं तपोवनं प्राप्य रम्यदेशे ब्रह्मघोषसम-न्विते स्वधर्मनिरतब्रह्मवित्समावृते फलमूलपुष्पवारिभिः सुसंपूर्णे देवायतनेनदीतीरे ग्रामे नगरे वापि शुशोभनमठं नात्युच्चनीचायतमल्पद्वारं गोमया-दिलिप्तं सर्वरक्षासमन्वितं कृत्वा तत्र वेदान्तश्रवणं कुर्वन्योगं समारभेत् ।आदौ विनायकं संपूज्य स्वेष्टदेवतां नत्वा पूर्वोक्तासने स्थित्वा प्राङ्मुख उदङ्मुखोवापि मृद्वासनेषु जितासनगतो विद्वान्समग्रीवशिरोनासाग्रदृग्भ्रूमध्ये शशभृ-द्बिम्बं पश्यन्नेत्राभ्याममृतं पिबेत् । द्वादशमात्रया इडया वायुमापूर्योदरे स्थितंज्वालावलीयुतं रेफबिन्दुयुक्तमग्निमण्डलयुतं ध्यायेद्रेचयेत्पिङ्गलया । पुनःपिङ्गलयाऽऽपूर्य कुम्भित्वा रेचयेदिडया । त्रिचतुस्त्रिचतुःसप्तत्रिचतुर्मासपर्यन्तंत्रिसंधिषु तदन्तरालेषु च षट्कृत्व आचरेन्नाडीशुद्धिर्भवति । ततः शरीरे लघु-दीप्तिवह्निवृद्धिनादाभिव्यक्तिर्भवति ॥१६॥

प्राणापानसमायोगः प्राणायामोभवति । रेचकपूरककुम्भकभेदेन स त्रिविधः । ते वर्णात्मकाः । तस्मात्प्रणवएव प्राणायामः पद्माद्यासनस्थः पुमान्नासाग्रे शशभृद्बिम्बज्योत्स्नाजाल-वितानिताकारमूर्ती रक्ताङ्गी हंसवाहिनी दण्डहस्ता बाला गायत्री भवति ।उकारमूर्तिः श्वेताङ्गी तार्क्ष्यवाहिनी युवती चक्रहस्ता सावित्री भवति ।मकारमूर्तिः कृष्णाङ्गी वृषभवाहिनी वृद्धा त्रिशूलधारिणी सरस्वती भवति ।अकारादित्रयाणां सर्वकारणमेकाक्षरं परं ज्योतिः प्रणवं भवतीति ध्यायेत् ।इडया बाह्याद्वायुमापूर्य षोडशमात्राभिरकारं चिन्तयन्पूरितं वायुं चतुः-षष्टिमात्राभिः कुम्भयित्वोकारं ध्यायन्पूरितं पिङ्गलया द्वात्रिंशन्मात्रया मकार-मूर्तिध्यानेनैवं क्रमेण पुनः पुनः कुर्यात् ॥१७॥

अथासनदृढो योगी वशीमितहिताशनः सुषुम्नानाडीस्थमलशोषार्थं योगी बद्धपद्मासनो वायुं चन्द्रे-णापूर्य यथाशक्ति कुम्भयित्वा सूर्येण रेचयित्वा पुनः सूर्येणापूर्य कुम्भयित्वाचन्द्रेण विरेच्य यया त्यजेत्तया संपूर्य धारयेत् । तदेते श्लोका भवन्ति-प्राणंप्रागिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत्पीत्वा पिङ्गलया समीरणमथोबद्धा त्यजेद्वामया । सूर्याचन्द्रमसोरनेन विधिनाऽभ्यासं सदा तन्वतां शुद्धानाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥१८॥

प्रातर्मध्यन्दिने-----Page-----------------४१४--सायमर्धरात्रे तु कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥१९॥

कनीयसि भवेत्स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे प्राणरोधेपद्मासनं महत् ॥२०॥

जलेन श्रमजातेन गात्रमर्दनमाचरेत् । दृढतालघुता चापि तस्य गात्रस्य जायते ॥२१॥

अभ्यासकाले प्रथमं शस्तंक्षीराज्यभोजनम् । ततोऽभ्यासे स्थिरीभूते न तावन्नियमग्रहः ॥२२॥

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथाहन्ति साधकम् ॥२३॥

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तंयुक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥२४॥

यथेष्टधारणाद्वायोरनलस्यप्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥२५॥

विधिव-त्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्नावदनं भित्त्वा सुखाद्विशति मारुतः॥२६॥

मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरो भावःसैवावस्था मनोन्मनी ॥२७॥

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ।कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः ॥२८॥

अधस्तात्कुञ्चनेनाशुकण्ठसंकोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥२९॥

अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयन् । योगी जराविनिर्मुक्तः षोडशोवयसा भवेत् ॥३०॥

सुखासनस्थो दक्षनाड्या बहिःस्थं पवनं समाकृष्या-केशमानखाग्रं कुम्भयित्वा सव्यनाड्या रेचयेत् । तेन कपालशोधनंवातनाडीगतसर्वरोगसर्वविनाशनं भवति । हृदयादिकण्ठपर्यन्तं सस्वनंनासाभ्यां शनैः पवनमाकृष्य यथाशक्ति पुम्भयित्वा इडया विरेच्य गच्छंस्ति-ष्ठन्कुर्यात् । तेन श्लेष्महरं जठराग्निवर्धनं भवति । वक्त्रेण सीत्कारपूर्वकं वायुंगृहीत्वा यथाशक्ति कुम्भयित्वा नासाभ्यां रेचयेत् । तेन क्षुत्तृष्णालस्यनिद्रान जायते । जिह्वया वायुं गृहीत्वा यथाशक्ति कुम्भयित्वा नासाभ्यां रेच-येत् । तेन गुल्मप्लीहज्वरपित्तक्षुधादीनि नश्यन्ति ॥ अथ कुम्भकः । सद्विविधः सहितः केवलश्चेति । रेचकपूरकयुक्तः सहितः । तद्विवर्जितः केवलः ।केवलसिद्धिपर्यन्तं सहितमभ्यसेत् । केवलकुम्भके सिद्धे त्रिषु लोकेषु नतस्य दुर्लभं भवति । केवलकुम्भकात्कुण्डलिनीबोधो जायते । ततः कृशवपुःप्रसन्नवदनो निर्मललोचनोऽभिव्यक्तनादो निर्मुक्तरोगजालो जितबिन्दुः पट्वग्नि-र्भवति । अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता । एषा सा वैष्णवी मुद्रासर्वतन्त्रेषु गोपिता ॥३१॥

अन्तर्लक्ष्यविलीनचित्तपवनो योगी सदा वर्तते-----Page-----------------४१५--दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि । मुद्रेयं खलु खेचरी भवतिसा लक्ष्यैकताना शिवा शून्याशून्यविवर्जितं स्पुरति सा तत्त्वं पदं वैष्णवी॥३२॥

अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदत्तेक्षणश्चन्द्रार्कावपि लीन-तामुपनयन्निष्पन्दभावोत्तरम् । ज्योतीरूपमशेषबाह्यरहितं देदीप्यमानं परंतत्त्वं तत्परमस्ति वस्तुविषयं शाण्डिल्य विद्धीह तत् ॥३३॥

तारं ज्योतिषिसंयोज्य किंचिदुन्नमयन्भ्रुवौ । पूर्वाभ्यासस्य मार्गोऽयमुन्मनीकारकः क्षणात्॥३४॥

तस्मात्खेचरीमुद्रामभ्यसेत् । तत उन्मनी भवति । ततो योग-निद्रा भवति । लब्धयोगनिद्रस्य योगिनः कालो नास्ति । शक्तिमध्ये मनःकृत्वा शक्तिं मानसमध्यगाम् । मनसा मन आलोक्य शाण्डिल्य त्वं सुखीभव ॥३५॥

खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । सर्वं च खमयंकृत्वा न किंचिदपि चिन्तय ॥३६॥

बाह्यचिन्ता न कर्तव्या तथैवान्तर-चिन्तिका । सर्वचिन्तां परित्यज्य चिन्मात्रपरमो भव ॥३७॥

कर्पूरमनलेयद्वत्सैन्धवं सलिले यथा । तथा च लीयमानं सन्मनस्तत्त्वे विलीयते ॥३८॥

ज्ञेयं सर्वप्रतीतं च तज्ज्ञानं मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्थाद्वितीयकः ॥३९॥

ज्ञेयवस्तुपरित्यागाद्विलयं याति मानसम् । मानसेविलयं याते कैवल्यमवशिष्यते ॥४०॥

द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानंमुनीश्वर । योगस्तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥४१॥

तस्मिन्निरोधितेनूनमुपशान्तं मनो भवेत् । मनःस्पन्दोपशान्त्याऽयं संसारः प्रविलीयते ॥४२॥

सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा । शास्त्रसज्जनसंपर्कवैराग्याभ्यास-योगतः ॥४३॥

अनास्थायां कृतास्थायां पूर्वं संसारवृत्तिषु । यथाभिवाञ्छित-ध्यानाच्चिरमेकतयोहितात् ॥४४॥

एकतत्त्वदृढाभ्यासात्प्राणस्पन्दो निरुध्यते ।पूरकाद्यनिलायामाद्वृढाभ्यासादखेदजात् ॥४५॥

एकान्तध्यानयोगाच्च मनःस्प-न्दो निरुध्यते । ओङ्कारोच्चारणप्रान्तशब्दतत्त्वानुभावनात् । सुषुप्ते संविदा ज्ञातेप्राणस्पन्दो निरुध्यते ॥४६॥

तालुमूलगतां यत्नाज्जिह्वयाक्रम्य घण्टिकाम् ।ऊर्ध्वरन्ध्रगते प्राणे प्राणस्पन्दो निरुध्यते ॥४७॥

प्राणे गलितसंवित्तौ तालूर्ध्वंद्वादशान्तगे । अभ्यासादूर्ध्वरन्ध्रेण प्राणस्पन्दो निरुध्यते ॥४८॥

द्वादशा-ङ्गुलपर्यन्ते नासाग्रे विमलेऽम्व्ररे । संविद्दृशि प्रशास्यन्त्यां प्राणस्पन्दोनिरुध्यते ॥४९॥

भ्रूमध्ये तारकालोकशान्तावन्तमुपागते । चेतनैकतने बद्धे-----Page-----------------४१६--प्राणस्पन्दो निरुध्यते ॥५०॥

ओमित्येव यदुद्भूतं ज्ञानं ज्ञेयात्मकं शिवम् ।असंस्पृष्टविकल्पांशं प्राणस्पन्दो निरुध्यते ॥५१॥

चिरकालं हृदेकान्तव्योम-संवेदनान्मुने । अवासनमनोध्यानात्प्राणस्पन्दो निरुध्यते ॥५२॥

एभिःक्रमैस्तथाऽन्यैश्च नानासंकल्पकल्पितैः । नानादेशिकवक्त्रस्थैः प्राणस्पन्दो निरु-ध्यते ॥५३॥

आकुञ्चनेन कुण्डलिन्याः कवाटमुद्धाट्य मोक्षद्वारं विभेदयेत् ।येन मार्गेण गन्तव्यं तद्द्वारं मुखेनाच्छाद्य प्रसुप्ता कुण्डलिनी कुटिलाकारासर्पवद्वेष्टिता भवति । सा शक्तिर्येन चालिता स्यात्स तु मुक्तो भवति । साकुण्डलिनी कण्ठोर्ध्वभागे सुप्ता चेद्योगिनां मुक्तये भवति । बन्धनायाधोमूढानाम् । इडादिमार्गद्वयं विहाय सुषुम्नामार्गेणागच्छेत्तद्विष्णोः परमंपदम् । मरुदभ्यसनं सर्वं मनोयुक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनोवृत्ति-र्मनीषिणा ॥५४॥

दिवा न पूजयेद्विष्णुं रात्रौ नैव प्रपूजयेत् । सततं पूजयेद्विष्णुंदिवारात्रं न पूजयेत् ॥५५॥

सुषिरो ज्ञानजनकः पञ्चस्नोतःसमन्वितः । तिष्ठतेखेचरी मुद्रा त्वं हि शाण्डिल्यतां भज ॥५६॥

सव्यदक्षिणनाडीस्थो मध्ये चरतिमारुतः । तिष्ठतः खेचरी मुद्रा तस्मिन्स्थाने न संशयः ॥५७॥

इडापिङ्गल-योर्मध्ये शून्यं चैवानिलं ग्रसेत् । तिष्ठन्ती खेचरी मुद्रा तत्र सत्यं प्रतिष्ठितम्॥५८॥

सोमसूर्यद्वयोर्मध्ये निरालम्बतले पुनः । संस्थिता व्योमचक्रे सामुद्रा नाम्ना च खेचरी ॥५९॥

छेदनचालनदाहैः फलां परां जिह्वां कृत्वादृष्टिं भ्रूमध्ये स्थाप्य कपालकुहरे जिह्वा विपरीतगा यदा भवति तदाखेचरी मुद्रा जायते । जिह्वा चित्तं च खे चरति तेनोर्ध्वजिह्वः पुमानमृतोभवति । वामपादमूलेन योनिं संपीड्य दक्षिणपादं प्रसार्य तं कराभ्यांधृत्वा नासाभ्यां वायुमापूर्य कण्ठबन्धं समारोप्योर्णतो वायुं धारयेत् ।तेन सर्वक्लेशहानिः । ततः पीयूषमिव विषं जीर्यते । क्षयगुल्मगुदावर्तजीर्णत्व-गादिदोषा नश्यन्ति । एष प्राणजयोपायः सर्वमृत्यूपघातकः । वामपादपार्ष्णियोनिस्थाने नियोज्य दक्षिणचरणं वामोरूपरि संस्थाप्य वायुमापूर्य हृदये चुबुकंनिधाय योनिमाकुञ्च्य मनोमध्ये यथाशक्ति धारयित्वा स्वात्मानं भावयेत् ।तेनापरोक्षसिद्धिः । बाह्यात्प्राणं समाकृष्य पूरयित्वोदरे स्थितम् । नाभिमध्येच नासाग्रे पादाङ्गुष्ठे च यत्नतः ॥६०॥

धारयेन्मनसा प्राणं सन्ध्याकालेषुवा सदा । सर्वरोगविनिर्मुक्तो भवेद्योगी गतक्लमः ॥६१॥

नासाग्रे वायुवि-----Page------------------४१७--जयं भवति । नाभिमध्ये सर्वरोगविनाशः । पादाङ्गुष्ठधारणाच्छरीरलघुताभवति । रसनाद्वायुमाकृष्य यः पिबेत्सततं नरः । श्रमदाहौ तु न स्यातांनश्यन्ति व्याधयस्तथा ॥६२॥

सन्ध्ययोर्ब्राह्मणः काले वायुमाकृष्य यःपिबेत् । त्रिमासात्तस्य कल्याणी जायते वाक् सरस्वती ॥६३॥

एवं षण्मासा-भ्यासात्सर्वरोगनिवृत्तिः । जिह्वया वायुमानीय जिह्वामूले निरोधयेत् । यःपिबेदमृतं विद्वान्सकलं भद्रमश्नुते ॥६४॥

आत्मन्यात्मानमिडया धारयित्वाभ्रुवोरन्तरे विभेद्य त्रिदशाहारं व्याधिस्थोऽपि विमुच्यते ॥६५॥

नाडीभ्यांवायुमारोप्य नाभौ तुन्दस्य पार्श्वयोः । घटिकैकां वहेद्यस्तु व्याधिभिः सविमुच्यते ॥६६॥

मासमेकं त्रिसन्ध्यं तु जिह्वयारोप्य मारुतम् । विमेद्यत्रिदशाहारं धारयेत्तुन्दमध्यमे ॥६७॥

ज्वराः सर्वेऽपि नश्यन्ति विषाणिव्रिविधानि च । मुहूर्तमपि यो नित्यं नासाग्रे मनसा सह ॥६८॥

सर्वंतरति पाप्मानं तस्य जन्मशतार्जितम् । तारसंयमात्सकलविषयज्ञानं भवति ।नासाग्रे चित्तसंयमादिन्द्रलोकज्ञानम् । तदधश्चित्तसंयमादग्निलोकज्ञानम् ।चक्षुषि चित्तसंयमात्सर्वलोकज्ञानम् । श्रोत्रे चित्तस्य संयमाद्यमलोकज्ञानम् ।तत्पार्श्वे संयमान्निरृतिलोकज्ञानम् । पृष्ठभागे संयमाद्वरुणलोकज्ञानम् ।वामकर्णे संयमाद्वायुलोकज्ञानम् । कण्ठे संयमात्सोमलोकज्ञानम् । वाम-चक्षुषि संयमाच्छिवलोकज्ञानम् । मूर्ध्नि संयमाद्ब्रह्मलोकज्ञानम् । पादाधोभागेसंयमादतललोकज्ञानम् । पादे संयमाद्वितललोकज्ञानम् । पादसन्धौ संय-मान्नितललोकज्ञानम् । जङ्घे संयमात्सुतललोकज्ञानम् । जानौ संयमान्महा-तललोकज्ञानम् । ऊरौ चित्तसंयमाद्रसातललोकज्ञानम् । कटौ चित्तसंयमा-त्तलातललोकज्ञानम् । नाभौ चित्तसंयमाद्भूलोकज्ञानम् । कुक्षौ संयमाद्भुव-र्लोकज्ञानम् । हृदि चित्तस्य संयमात्स्वर्लोकज्ञानम् । हृदयोर्ध्वभागे चित्तसं-यमान्महर्लोकज्ञानम् । कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् । भ्रूमध्ये चित्त-संयमात्तत्तपोलोकज्ञानम् । मूर्ध्नि चित्तसंयमात्सत्यलोकज्ञानम् । धर्माधर्म-संयमादतीतानागतज्ञानम् । तत्तज्जन्तुध्वनौ चित्तसंयमात्सर्वजन्तुरुतज्ञानम् ।संचितकर्मणि चित्तसंयमात्पूर्वजातिज्ञानम् । परचित्ते चित्तसंयमात्परचित्त-ज्ञानम् । कायरूपे चित्तसंयमादन्यादृश्यरूपम् । बले चित्तसंयमाद्धनुमदादि-बलम् । सूर्ये चित्तसंयमाद्भुवनज्ञानम् । चन्द्रे चित्तसंयमात्ताराव्यूहज्ञानम् ।-----Page-----------------४१८--ध्रुवे तद्गतिदर्शनम् । स्वार्थसंयमात्पुरुषज्ञानम् । नाभिचक्रे कायव्यूहज्ञानम् ।कण्ठकूपे क्षुत्पिपासानिवृत्तिः । कूर्मनाड्यां स्थैर्यम् । तारे सिद्धदर्शनम् ।कायाकाशसंयमादाकाशगमनम् । तत्तत्स्थाने संयमात्तत्तत्सिद्धयो भवन्ति ॥७॥

अथ प्रत्याहारः । स पञ्चविधः विषयेषु विचरतामिन्द्रियाणां बलादाहरणंप्रत्याहारः । यद्यत्पश्यति तत्सर्वमात्मेति प्रत्याहारः । नित्यविहितकर्मफल-त्यागः प्रत्याहारः । सर्वविषयपराङ्मुखत्वं प्रत्याहारः । अष्टादशसु मर्मस्थानेषुकर्माद्धारणं प्रत्याहारः । पादाङ्गुष्ठगुल्फजङ्घाजानूरुपायुमेढ्रनाभिहृदयकण्ठ-कूपतालुनासाक्षिभ्रूमध्यललाटमूर्ध्ना स्थानानि । तेषु क्रमादारोहावरोहक्रमेणप्रत्याहरेत् ॥६९॥

अथ धारणा । सा त्रिविधा--आत्मनि मनोधारणंदहराकाशे बाह्याकाशधारणं पृथिव्यप्तेजोवाय्वाकाशेषु पञ्चमूर्तिधारणं चेति॥७०॥

अथ ध्यानम् । तद्द्विविधं सगुणं निर्गुणं चेति । सगुणं मूर्तिध्यानम् ।निर्गुणमात्मयाथात्म्यम् ॥७१॥

अथ समाधिः । जिवात्मपरमात्मैक्यावस्थात्रिपुटीरहिता परमानन्दस्वरूपा शुद्धचैतन्यात्मिका भवति ॥७२॥

इति शाण्डिल्योपनिषत्सु प्रथमोऽध्यायः ॥१॥

अथ शाण्डिल्यो ह वै ब्रह्मर्षिश्चतुर्षु वेदेषु ब्रह्मविद्यामलभमानः किंनामेत्यथर्वाणं भगवन्तमुपसन्नः पप्रच्छाधीहि भगवन् ब्रह्मविद्यां येन श्रेयो-ऽवाप्स्यामीति । स होवाचाऽथर्वा शाण्डिल्य सत्यं विज्ञानमनन्तं ब्रह्म यस्मि-न्निदमोतं च प्रोतं च । यस्मिन्निदं सं च वि चैति सर्वं यस्मिन्विज्ञाते सर्वमिदंविज्ञातं भवति । तदपाणिपादमचक्षुःक्षोत्रमजिह्वमशरीरमग्राह्यमनिर्देश्यम् ।यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । यत्केवलं ज्ञानगम्यम् । प्रज्ञाच यस्मात्प्रसृता पुराणी । यदेकमद्वितीयम् । आकाशवत्सर्वगतं सुसूक्ष्मंनिरञ्जनं निष्क्रियं सन्मात्रं चिदानन्दैकरसं शिवं प्रशान्तममृतं तत्परं चब्रह्म । तत्त्वमसि । तज्ज्ञानेन हि विजानीहि । य एको देव आत्मशक्तिप्रधानःसर्वज्ञः सर्वेश्वरः सर्वभूतान्तरात्मा सर्वभूताधिवासः सर्वभूतनिगूढो भूत-योनिर्योगैकगम्यः । यश्च विश्वं सृजति विश्वं बिभर्ति विश्वं भुङ्क्ते स आत्मा ।आत्मनि तं तं लोकं विजानीहि । मा शोचीरात्मविज्ञानी शोकस्यान्तंगमिष्यति ॥इति शाण्डिल्योपनिषत्सु द्वितीयोऽध्यायः ॥२॥


Page-----------------४१९--अथैनं शाण्डिल्योऽथर्वाणं पप्रच्छ यदेकमक्षरं निष्क्रियं शिवं सन्मात्रंपरंब्रह्म । तस्मात्कथमिदं विश्वं जायते कथं स्थीयते कथमस्मिँल्लीयते । तन्मेसंशयं छेत्तुमर्हसीति । स होवाचाथर्वा सत्यं शाण्डिल्य परंब्रह्म निष्क्रियमक्ष-रमिति । अथाप्यस्यारूपस्य ब्रह्मणस्त्रीणि रूपाणि भवन्ति-सकलं निष्कलं सक-लनिष्कलं चेति । यत्सत्यं विज्ञानमानन्दं निष्क्रियं निरञ्जनं सर्वगतं सुसूक्ष्मंसर्वतोमुखमनिर्देश्यममृतमस्ति तदिदं निष्कलं रूपम् । अथास्य या सहजा-स्त्यविद्या मूलप्रकृतिर्माया लोहितशुक्लकृष्णा । तया सहायवान् देवः कृष्ण-पिङ्गलो ममेश्वर ईष्टे । तदिदमस्य सकलनिष्कलं रूपम् ॥ अथैष ज्ञानमयेनतपसा चीयमानोऽकामयत बहु स्यां प्रजायेयेति । अथैतस्मात्तप्यमानात्सत्य-कामान्त्रीण्यक्षरान्यजायन्त । तिस्रो व्याहृतयस्त्रिपदा गायत्री त्रयो वेदास्त्रयोदेवास्त्रयो वर्णास्त्रयोऽग्नयश्च जायन्ते । योऽसौ देवो भगवान्सर्वैश्वर्यसंपन्नःसर्वव्यापी सर्वभूतानां हृदये संनिविष्टो मायावी मायया क्रीडति स ब्रह्मास विष्णुः स रुद्रः स इन्द्रः स सर्वे देवाः सर्वाणि भूतानि स एव पुरस्तात्सएव पश्चात्स एवोत्तरतः स एव दक्षिणतः स एवाधस्तात्स एवोपरिष्टात्स एवसर्वम् । अथास्य देवस्यात्मशक्तेरात्मक्रीडस्य भक्तानुकम्पिनो दत्तात्रेयरूपासुरूपा तनूरवासा इन्दीवरदलप्रख्या चतुर्बाहुरघोरापापकाशिनी । तदिदमत्यसकलं रूपम् ॥१॥

अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ भगवन्सन्मात्रंचिदानन्दैकरसं कस्मादुच्यते परंब्रह्मेति । स होवाचाथर्वा यस्माच्च वृहतिवृंहयति च सर्वं तस्मादुच्यते परंब्रह्मेति । अथ कस्मादुच्यते आत्मेति ।यस्मात्सर्वमाप्नोति सर्वमादत्ते सर्वमत्ति च तस्मादुच्यते आत्मेति । अथकस्मादुच्यते महेश्वर इति । यस्मान्महत ईशः शब्दध्वन्या चात्मशक्त्या चमहत ईशते तस्मादुच्यते महेश्वर इति । अथ कस्मादुच्यते दत्तात्रेय इति ।यस्मात्सुदुश्चरं तपस्तप्यमानायात्रये पुत्रकामायातितरां तुष्टेन भगवताज्योतिर्मयेनात्मैव दत्तो यस्माच्चानसूयायामत्रेस्तनयोऽभवत्तस्मादुच्यते दत्ता-त्रेय इति । अथ योऽस्य निरुक्तानि वेद स सर्वं वेद । अथ यो ह वैविद्ययैनं परमुपास्ते सोऽहमिति स ब्रह्मविद्भवति ॥ अत्रैते श्लोका भवन्ति--दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् । आत्ममायारतं देवमवधूतंदिगम्बरम् ॥१॥

भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् । चतुर्बाहुमुदा-----Page------------------४२०--राङ्गं प्रफुल्लकमलेक्षणम् ॥२॥

ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् ।भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् ॥३॥

एवं यः सततं ध्यायेद्देव-देवं सनातनम् । स मुक्तः सर्पपापेभ्यो निःश्रेयसमवाप्नुयात् ॥४॥

इत्यॐसत्यमित्युपनिषत् ॥इति शाण्डिल्योपनिषत्सु तृतीयोऽध्यायः ॥३॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति शाण्डिल्योपनिषत्समाप्ता ॥६१॥

पैङ्गलोपनिषत् ॥६२॥सम्पाद्यताम्

पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् ।परितः कलये रामं परमाक्षरवैभवम् ॥ॐ पूर्णमद इति शान्तिः ॥अथ ह पैङ्गलो याज्ञवल्क्यमुपसमेत्य द्वादशवर्षशुश्रूषापूर्वकं परमरहस्य-कैवल्यमनुब्रूहीति पप्रच्छ । स होवाच याज्ञवल्क्यः सदेव सोम्येदमग्र आ-सीत् । तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं सनातनमेकमेवाद्वितीयंब्रह्म । तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्यपुरुषरेखादिवल्लोहित-शुक्लकृष्णगुणमयी गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितंयत्तत्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य सत्त्वोद्रिक्ताऽव्यक्ताख्यावरण-शक्तिरासीत् । तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमायःसर्वज्ञः सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति स्वस्मिन्विलीनंसकलं जगदाविर्भावयति । प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः प्राणि-कर्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं संकोचितपटवद्वर्तते ।ईशाधिष्ठितावरणशक्तितो रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्र-तिबिम्बितं यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी स्पष्टास्पष्ट-वपुर्भवति । हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहंकाराभिधा स्थूल-शक्तिरासीत् । तत्प्रतिबिम्बितं यत्तद्विराट्चैतन्यमासीत् । स तदभिमानी स्पष्ट-वपुः सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति । तस्मादात्मन आकाशःसंभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । तानि-----Page-----------------४२१--पञ्च तन्मात्राणि त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठ्ययसूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत । सृष्टेः परिमितानिभूतान्येकमेकं द्विधा विधाय पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधासंयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि तत्तदण्डोचितचतुर्दशभुवनानितत्तद्भुवनोचितगोलकस्थूलशरीराण्यसृजत् । स पञ्चभूतानां रजॐशांश्चतुर्धाकृत्वा भागत्रयात्पञ्चावृत्त्यात्मकं प्राणमसृजत् । स तेषां तुर्यभागेन कर्मेन्द्रि-याण्यसृजत् । स तेषां सत्त्वांशं चतुर्धा कृत्वा भागत्रयसमष्टितः पञ्चक्रिया-वृत्त्यात्मकमन्तःकरणमसृजत् । स तेषां सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्य-सृजत् । सत्त्वसमष्टित इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षि-पत् । तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् । तदाज्ञयाऽहंकारसमन्वितोविराट् स्थूलान्यरक्षत् । हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्ड-स्थानि तानि तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि चेतनीकर्तुंसोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि समस्तव्यष्टिमस्तकान्विदार्य तदेवानु-प्राविशत् । तदा जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे । सर्वज्ञेशोमायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो जीवत्वमगमत् । शरीर-त्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् । जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तोघटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन परिभ्रमतीति ॥१॥

इति पैङ्गलोपनिषत्सु प्रथमोऽध्यायः ॥१॥

अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां सृष्टिस्थित्यन्तकृद्विभुरीशःकथं जीवत्वमगमदिति । स होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भव-पूर्वकं जीवेश्वरस्वरूपं विविच्य कथयामीति सावधानेनैकाग्रतया श्रूयताम् ।ईशः पञ्चीकृतमहाभूतलेशानादाय व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रम-मकरोत् । कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः । रक्तमूत्रलालास्वेदादि-कमबंशाः । क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः । प्रचारणोत्तारणाश्वासादिकावाय्वंशाः । कामक्रोधादयो व्योमांशाः । एतत्संघातं कर्मणि संचितंत्वगादियुक्तं बाल्याद्यवस्थाभिमानास्पदं बहुदोषाश्रयं स्थूलशरीरं भवति ॥अथापञ्चीकृतमहाभूतरजॐशभागत्रयसमष्टितः प्राणमसृजत् । प्राणापानव्यानो-दानसमानाः प्राणवृत्तयः । नागकूर्मकृकरदेवदत्तधनंजया उपप्राणाः । हृदास-ननाभिकण्ठसर्वाङ्गानि स्थानानि । आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रिय-----Page------------------४२२--मसृजत् । वाक्पाणिपादपायूपस्थास्तद्वृत्तयः । वचनादानगमनविसर्गानन्दास्त-द्विषयाः ॥ एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणमसृजत् । अन्तःकरण-मनोबुद्धिचित्ताहंकारास्तद्वृत्तयः । संकल्पनिश्चयस्मरणाभिमानानुसंधानास्तद्वि-षयाः । गलवदननाभिहृदयभ्रूमध्यं स्थानम् । भूतसत्त्वतुरीयभागेन ज्ञानेन्द्रि-यमसृजत् । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तद्वृत्तयः । शब्दस्पर्शरूपरसगन्धास्तद्वि-षयाः । दिग्वातार्कप्रचेतोऽश्चिवह्नीन्द्रोपेन्द्रमृत्युकाः । चन्द्रो विष्णुश्चतुर्वक्त्रःशंभुश्च करणाधिपाः ॥ अथान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाःपञ्च कोशाः । अन्नरसेनैव भूत्वाऽन्नरसेनाभिवृद्धिं प्राप्यान्नरसमयपृथिव्यांयद्विलीयते सोऽन्नमयकोशः । तदेव स्थूलशरीरम् । कर्मेन्द्रियैः सह प्राणादि-पञ्चकं प्राणमयकोशः । ज्ञानेन्द्रियैः सह मनो मनोमयकोशः । ज्ञानेन्द्रियैःसह बुद्धिर्विज्ञानमयकोशः । एतत्कोशत्रयं लिङ्गशरीरम् । स्वरूपाज्ञानमानन्द-मयकोशः । तत्कारणशरीरम् । अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणादि-पञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं कामकर्मतमांस्यष्टपुरम् ॥ ईशाज्ञयाविराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय विश्वत्वमगमत् । विज्ञानात्मा चिदा-भासो विश्वो व्यावहारिको जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्यनाम भवति । ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं प्रविश्य मन अधिष्ठायतैजसत्वमगमत् । तैजसः प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नामभवति । ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं प्रविश्यप्राज्ञत्वमगमत् । प्राज्ञोऽविच्छिन्नः पारमार्थिकः सुषुप्त्यभिमानीति प्राज्ञस्यनाम भवति । अव्यक्तलेशाज्ञानाच्छादितपारमार्थिकजीवस्य तत्त्वमस्यादिवा-क्यानि ब्रह्मणैकतां जगुर्नेतरयोर्व्यावहारिकप्रातिभासिकयोः । अन्तःकरणप्रति-बिम्बितचैतन्यं यत्तदेवावस्थात्रयभाग्भवति । स जाग्रत्स्वप्नसुषुप्त्यवस्थाः प्राप्यघटीयन्त्रवदुद्विग्नो जातो मृत इव स्थितो भवति । अथ जाग्रत्स्वप्नसुषुप्ति-मूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति ॥ तत्तद्देवताग्रहान्वितैः श्रोत्रादि-ज्ञानेन्द्रियैः शब्दाद्यर्थविषयग्रहणज्ञानं ज्ञाग्रदवस्था भवति । तत्र भ्रूमध्यं गतोजीव आपादमस्तकं व्याप्य कृषिश्रवणाद्यखिलक्रियाकर्ता भवति । तत्तत्फलभुक्च भवति । लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते । स सार्वभौमवद्व्य-वहाराच्छ्रान्तोऽन्तर्भवनं प्रवेष्टुं मार्गमाश्रित्य तिष्ठति । करणोपरमे जाग्रत्सं-स्कारोत्थप्रबोधवद्ग्राह्यग्राहकरूपस्फुरणं स्वप्नावस्था भवति । तत्र विश्व एव-----Page-----------------४२३--जाग्रद्व्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य वासनारूपकं जगद्वैचित्र्यंस्वभासा भासयन्यथेप्सितं स्वयं भुंङ्क्ते ॥ चित्तैककरणा सुषुप्त्यवस्था भवति ।भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीषाभिमुखं यथा गच्छति तथा जीवोऽपिजाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते ॥ अकस्मान्मु-द्गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसंघातैः कम्पन्निव मृततुल्यामूर्च्छा भवति । जाग्रत्स्वप्नसुषुप्तिमूर्च्छावस्थानामन्याऽऽब्रह्मादिस्तम्बपर्यन्तंसर्वजीवभयप्रदा स्थूलदेहविसर्जनी मरणावस्था भवति । कर्मेन्द्रियाणिज्ञानेन्द्रियाणि तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित अविद्याभूतवेष्टितोजीवो देहान्तरं प्राप्य लोकान्तरं गच्छति । प्राक्कर्मफलपाकेनावर्तान्तरकीठ-वद्विश्रान्तिं नैव गच्छति । सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते नृणांमोक्षेच्छा जायते । तदा सद्गुरुमाश्रित्य चिरकालसेवया बन्धं मोक्षंकश्चित्प्रयाति । अविचारकृतो बन्धो विचारान्मोक्षो भवति । तस्मात्सदाविचारयेत् । अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते । तस्मात्सदाविचारयेज्जगज्जीवपरमात्मनो जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवाव-शिष्यत इति ॥१॥

इति पैङ्गलोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

अथ हैनं पैङ्गलः पप्रच्छ याज्ञवल्क्यं महावाक्यविवरणमनुब्रूहीति ।स होवाच याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं ब्रह्मास्मीत्यनुसंधानंकुर्यात् । तत्र पारोक्ष्यशबलः सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्द-लक्षणो जगद्योनिस्तत्पदवाच्यो भवति । स एवान्तःकरणसंभिन्नबोधोऽस्म-त्प्रत्ययावलम्बनस्त्वंपदवाच्यो भवति । परजीवोपाधिमायाविद्ये विहाय तत्त्वं-पदलक्ष्यं प्रत्यगभिन्नं ब्रह्म । तत्त्वमसीत्यहं ब्रह्मास्मीति वाक्यार्थविचारः श्रवणंभवति । एकान्तेन श्रवणार्थानुसंधानं मननं भवति । श्रवणमनननिर्विचि-कित्स्येऽर्थे वस्तुन्येकतानवत्तया चेतःस्थापनं निदिध्यासनं भवति । ध्यातृध्यानेविहाय निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति । तदानीमात्म-गोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति । ताः स्मरणादनुमीयन्ते ।इहानादिसंसारे संचिताः कर्मकोटयोऽनेनैव विलयं यान्ति । ततोऽभ्यासपाट-वात्सहस्रशः सदाऽमृतधारा वर्षन्ति । ततो योगवित्तमाः समाधिं धर्ममेघंप्राहुः । वासनागाले निःशेषममुना प्रविलापिते कर्मसंचये पुण्यपापे समूलो-----Page------------------४२४--न्मूलिते प्राक्परोक्षमपि करतलामलकवद्वाक्यमप्रतिबद्धापरोक्षसाक्षात्कारंप्रसूयते । तदा जीवन्मुक्तो भवति ॥ ईशः पञ्चीकृतभूतानामपञ्चीकरणं कर्तुंसोऽकामयत । ब्रह्माण्डतद्गतलोकान्कार्यरूपांश्च कारणत्वं प्रापयित्वा ततःसूक्ष्माङ्गं कर्मेन्द्रियाणि प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं चैकीकृत्यसर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य भूमिं जले जलं वह्नौ वह्निंवायौ वायुमाकाशे चाकाशमहंकारे चाहंकारं महति महदव्यक्तेऽव्यक्तं पुरुषेक्रमेण विलीयते । विराड्ढिरण्यगर्भेश्वरा उपाधिविलयात्परमात्मनि लीयन्ते ।पञ्चीकृतमहाभूतसंभवकर्मसंचितस्थूलदेहः कर्मक्षयात्सत्कर्मपरिपाकतोऽप-ञ्चीकरणं प्राप्य सूक्ष्मेणैकीभूत्वा कारणरूपत्वमासाद्य तत्कारणं कूटस्थेप्रत्यगात्मनि विलीयते । विश्वतैजसप्राज्ञाः स्वस्वोपाधिलयात्प्रत्यगात्मनिलीयन्ते । अण्डं ज्ञानाग्निना दग्धं कारणैः सह परमात्मनि लीनं भवति ।ततो ब्राह्मणः समाहितो भूत्वा तत्त्वंपदैक्यमेव सदा कुर्यात् । ततोमेघापायेंऽशुमानिवात्माऽविर्भवति । ध्यात्वा मध्यस्थमात्मानं कलशान्तर-दीपवत् । अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ॥१॥

प्रकाशयन्तमन्तःस्थंध्यायेत्कूटस्थमव्ययम् । ध्यायन्नास्ते मुनिश्चैव चासुप्तेरामृतेस्तु यः ॥२॥

जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् । जीवन्मुक्तपदं त्यक्त्वास्वदेहे कालसात्कृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥३॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तंमहतः परं ध्रुवं तदेव शिष्यत्यमलं निरामयम् ॥४॥

इति ।इति पैङ्गलोपनिषत्सु तृतीयोऽध्यायः ॥३॥

अथ हैनं पैङ्गलः पप्रच्छ याज्ञवल्क्यं ज्ञानिनः किं कर्म का च स्थिति-रिति । स होवाच याज्ञवल्क्यः । अमानित्वादिसंपन्नो मुमुक्षुरेकविंशतिकुलंतारयति । ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति । आत्मानं रथिनं विद्धिशरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥१॥

इन्द्रि-याणि हयानाहुर्विषयांस्तेषु गोचरान् । जङ्गमानि विमानानि हृदयानि मनी-षिणः ॥२॥

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः । ततो नारायणःसाक्षाद्धृदये सुप्रतिष्ठितः ॥३॥

प्रारब्धकर्मपर्यन्तमहिनिर्मोकवद्व्यवहरति ।चन्द्रवच्चरते देही स मुक्तश्चानिकेतनः ॥४॥

तीर्थे श्वपचगृहे वा तनुंविहाय याति कैवल्यम् । प्राणानवकीर्य याति कैवल्यम् ॥ तं पश्चाद्विग्बलिं-----Page-----------------४२५--कुर्यादथवा स्वननं चरेत् । पुंसः प्रव्रजनं प्रोक्तं नेतराय कदाचन ॥५॥

नाशौचं नाग्निकार्यं च न पिण्डं नोदकक्रिया । न कुर्यात्पार्वणादीनि ब्रह्मभू-ताय भिक्षवे ॥६॥

दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा । ज्ञानाग्नि-दग्धदेहस्य न च श्राद्धं न च क्रिया ॥७॥

यावच्चोपाधिपर्यन्तं तावच्छु-श्रूषयेद्गुरुम् । गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम् ॥८॥

शुद्धमानसःशुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः सोऽहमस्मीति प्राप्ते ज्ञानेनविज्ञाने ज्ञेये परमात्मनि हृदि संस्थिते देहे लब्धशान्तिपदं गते तदा प्रभा-मनोबुद्धिशून्यं भवति । अमृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं स्वात्मानंज्ञात्वा वेदैः प्रयोजनं किं भवति । ज्ञानामृततृप्तयोगिनो न किंचित्कर्तव्य-मस्ति तदस्ति चेन्न स तत्त्वविद्भवति । दूरस्थोऽपि न दूरस्थः पिण्डवर्जितःपिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति । हृदयं निर्मलं कृत्वा चिन्तयित्वा-प्यनामयम् । अहमेव परं सर्वमिति पश्येत्परं सुखम् ॥९॥

यथा जलेजलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः॥१०॥

देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति तदाविद्वान्ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् । ततः पवित्रं परमेश्वराख्यमद्वैतरूपंविमलाम्बराभम् । यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः॥११॥

आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । सबाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा ॥१२॥

यत्र यत्रमृतो ज्ञानी येन वा केन मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः॥१३॥

घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बंज्ञानालोकं समन्ततः ॥१४॥

तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एतस्यध्यानयोगस्य कलां नार्हति षोडशीम् ॥१५॥

इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातु-मिच्छति । अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥१६॥

विज्ञेयोऽ-क्षरतन्मात्रो जीवितं वापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदु-पास्यताम् ॥१७॥

अनन्तकर्मशौचं च जपो यज्ञस्तथैव च । तीर्थयात्राभि-गमनं यावत्तत्त्वं न विन्दति ॥१८॥

अहंब्रह्मेति नियतं मोक्षहेतुर्महात्म-नाम् । द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥१९॥

ममेति बध्यते जन्तु-र्निर्ममेति विमुच्यते । मनसो ह्युन्मनीभावे द्वैतं नैवोपलभ्यते ॥२०॥

यदायात्युन्मनीभावस्तदा तत्परमं पदम् । यत्र यत्र मनो याति तत्र तत्र परं पदम्-----Page-----------------४२६--॥२१॥

तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् । हन्यान्मुष्टिभिराकाशंक्षुधार्तः खण्डयेत्तुषम् ॥२२॥

नाहंब्रह्मेति जानाति तस्य मुक्तिर्न जायते ।य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । सआदित्यपूतो भवति । स ब्रह्मपूतो भवति । स विष्णुपूतो भवति । स रुद्र-पूतो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वेषु वेदेष्वधीतोभवति । स सर्ववेदव्रतचर्यासु चरितो भवति । तेनेतिहासपुराणानां रुद्राणांशतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतं जप्तं भवति । दशपूर्वान्दशोत्तरान्पुनाति । स पङ्क्तिपावनो भवति । स महान्भवति । ब्रह्महत्या-सुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगिपातकेभ्यः पूतो भवति । तद्विष्णोःपरमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विप-न्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥२३॥

ॐ सत्यमित्युपनिषत् ॥ॐ पूर्णमद इति शान्तिः ॥इति पैङ्गलोपनिषत्समाप्ता ॥६२॥

भिक्षुकोपनिषत् ॥६३॥सम्पाद्यताम्

भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा ।तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ॥ॐ पूर्णमद इति शान्तिः ॥ॐ अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहूदकहंसपरमहंसाश्चेति चत्वारः ।कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यवसिष्ठप्रभृतयोऽष्टौ ग्रासांश्चरन्तोयोगमार्गे मोक्षमेव प्रार्थयन्ते । अथ बहूदका नाम त्रिदण्डकमण्डलुशिखाय-ज्ञोपवीतकाषायवस्त्रधारिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाऽष्टौ ग्रासान्मैक्षा-चरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ हंसा नाम ग्राम एकरात्रंनगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः । गोमूत्रगोमयाहारिणो नित्यंचान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ परमहंसा नामसंवर्तकारुणिश्वेतकेतुजडभरतदत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ ग्रासां-श्चरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । वृक्षमूले शून्यगृहे श्मशानवासिनो-----Page-----------------४२७--वा साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मौ लाभालाभौ शुद्धाशुद्धौद्वैतवर्जिता समलोष्टाश्मकाञ्चनाः सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेतिपश्यन्ति । अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानपरायणा आत्म-निष्ठाः प्राणसंधारणार्थं यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृहतृणकूट-वल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिनगिरिकन्दरकुहरकोटरनि-र्झरस्थण्डिले तत्र ब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः परमहंसाचरणेनसंन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥१॥

ॐ पूर्णमद इति शान्तिः ॥इति भिक्षुकोपनिषत्समाप्ता ॥६३॥

महोपनिषत् ॥६४॥सम्पाद्यताम्

यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् ।परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः ॥ॐ आप्यायन्त्विति शान्तिः ॥अथातो महोपनिषदं व्याख्यास्यामस्तदाहुरेको ह वै नारायण आसीन्नब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्योन चन्द्रमाः । स एकाकी न रमते । तस्य ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते ।तस्मिन्पुरुषाश्चतुर्दश जायन्ते । एका कन्या । दशेन्द्रियाणि मन एकादशंतेजः । द्वादशोऽहंकारः । त्रयोदशकः प्राणः । चतुर्दश आत्मा । पञ्चदशीबुद्धिः । भूतानि पञ्च तन्मात्राणि । पञ्च महाभूतानि । स एकः पञ्चविंशतिःपुरुषः । तत्पुरुषं पुरुषो निवेश्य नास्य प्रधानसंवत्सरा जायन्ते । संवत्सरा-दधिजायन्ते । अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाऽध्यायत । तस्यध्यानान्तःस्थस्य ललाटान्त्रयक्षः शूलपाणिः पुरुषो जायते । बिभ्रच्छ्रियं यशःसत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय ऋग्यजुःसामाथर्वा-ङ्गिरसः सर्वाणि छन्दांसि तान्यङ्गे समाश्रितानि । तस्मादीशानो महादेवोमहादेवः । अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाऽध्यायत । तस्यध्यानान्तःस्थस्य ललाटात्स्वेदोऽपतत् । ता इमाः प्रतता आपः ततस्तेजोहिरण्मयमण्डम् । तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्यायत् । पूर्याभिमुखो-----Page-----------------४२८--भूत्वा भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदोऽग्निर्देवता । पश्चिमाभिमुखो भूत्वाभुवरिति व्याहृतिस्त्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता । उत्तराभिमुखो भूत्वास्वरिति व्याहृतिर्जागतं छन्दः सामवेदः सूर्यो देवता । दक्षिणाभिमुखो भूत्वामहरिति व्याहृतिरानुष्टुभं छन्दोऽथर्ववेदः सोमो देवता । सहस्रशीर्षं देवंसहस्राक्षं विश्वशंभुवम् । विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । विश्व-मेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् ।पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम् । हृदयं चाप्यधोमुखं संतत्यैसीत्कराभिश्च । तस्य मध्ये महानर्चिर्विश्वार्चिर्विश्वतोमुखम् । तस्य मध्ये वह्नि-शिखा अणीयोर्ध्वा व्यवस्थिता । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् ॥१॥

इति महोपनिषत्सु प्रथोमोऽध्यायः ॥१॥

शुको नाम महातेजाः स्वरूपानन्दतत्परः । जातमात्रेण मुनिराड् यत्सत्यंतदवाप्तवान् ॥१॥

तेनासौ स्वविवेकेन स्वयमेव महामनाः । प्रविचार्य चिरंसाधु स्वात्मनिश्चयमाप्तवान् ॥२॥

अनाख्यत्वादगम्यत्वान्मनःषष्टेन्द्रिय-स्थितेः । चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ॥३॥

चिदणोः परम-स्यान्तःकोटिब्रह्माण्डरेणवः । उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात् ॥४॥

आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः । न किंचिद्यदनिर्देश्यं वस्तु सत्तेतिकिंचन ॥५॥

चेतनोऽसौ प्रकाशत्वाद्वेद्याभावाच्छिलोपमः । स्वात्मनि व्योमनिस्वस्थे जगदुन्मेषचित्रकृत् ॥६॥

तद्भामात्रमिदं विश्वमिति न स्यात्ततः पृथक् ।जगद्भेदोऽपि तद्भानमिति भेदोऽपि तन्मयः ॥७॥

सर्वगः सर्वसंबन्धोगत्यभावान्न गच्छति । नास्त्यसावाश्रयाभावात्सद्रूपत्वादथास्ति च ॥८॥

विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम् । सर्वसंकल्पसंन्यासश्चेतसा यत्परि-ग्रहः ॥९॥

जाग्रतः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः । यत्संकोचविका-साभ्यां जगत्प्रलयसृष्टयः ॥१०॥

निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः ।अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः ॥११॥

स्वयैव सूक्ष्मया बुद्ध्या सर्वंविज्ञातवाञ्छुकः । स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः ॥१२॥

इदंवस्त्विति विश्वासं नासावात्मन्युपाययौ । केवलं विररामास्य चेतो विषय-चापलम् । भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः ॥१३॥

एकदा-----Page-----------------४२९--सोऽमलप्रज्ञो मेरावेकान्तसंस्थितः । पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनंमुनिम् ॥१४॥

संसाराडम्बरमिदं कथमभ्युत्थितं मुने । कथं च प्रशमंयाति किं यत्कस्य कदा वद ॥१५॥

एवं पृष्टेन मुनिना व्यासेनाखिलमा-त्मजे । यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना ॥१६॥

अज्ञासिषं पूर्वमे-वमहमित्यथ तत्पितुः । स शुकः स्वकया बुद्ध्या न वाक्यं बहु मन्यते ॥१७॥

व्यासोऽपि भगवान्बुद्ध्वा पुत्राभिप्रायमीदृशम् । प्रत्युवाच पुनः पुत्रं नाहंजानामि तत्त्वतः ॥१८॥

जनको नाम भूपालो विद्यते मिथिलापुरे ।यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥१९॥

पित्रेत्युक्तः शुकः प्राया-त्सुमेरोर्वसुधातलम् । विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥२०॥

आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने । द्वारि व्याससुतो राजञ्छुकोऽत्रस्थितवानिति ॥२१॥

जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया । उक्त्वाबभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥२२॥

ततः प्रवेशयामास जनकःशुकमङ्गणे । तत्राहानि स सप्तैव तथैवावसदुन्मनाः ॥२३॥

ततः प्रवेश-यामास जनकोऽन्तःपुराजिरे । राजा न दृश्यते तावदिति सप्त दिनानि तम्॥२४॥

तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः । जनको लालयामासशुकं शशिनिभाननम् ॥२५॥

ते भोगास्तानि भोज्यानि व्यासपुत्रस्य तन्मनः ।नाजहुर्मन्दपवनो बद्धपीठमिवाचलम् ॥२६॥

केवलं सुसमः स्वच्छो मौनीमुदितमानसः । संपूर्ण इव शीतांशुरतिष्ठदमलः शुकः ॥२७॥

परिज्ञात-स्वभावं तुं शुकं स जनको नृपः । आनीय मुदितात्मानमवलोक्य ननामह ॥२८॥

निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः । किमीप्सितं तवेत्याहकृतस्वागत आह तम् ॥२९॥

संसाराडम्बरमिदं कथमभ्युत्थितं गुरो । कथंप्रशममायाति यथावत्कथयाशु मे ॥३०॥

यथावदखिलं प्रोक्तं जनकेनमहात्मना । तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया ॥३१॥

स्वयमेवमया पूर्वमभिज्ञातं विशेषतः । एतदेव हि पृष्टेन पित्रा मे समुदाहृतम् ॥३२॥

भवताप्येष एवार्थः कथितो वाग्विदां वर । एष एव हि वाक्यार्थः शास्त्रेषुपरिदृश्यते ॥३३॥

मनोविकल्पसंजातं तद्विकल्पपरिक्षयात् । क्षीयते दग्ध-संसारो निःसार इति निश्चितः ॥३४॥

तत्किमेतन्महाभाग सत्यं ब्रूहिममाचलम् । त्वत्तो विश्रममाप्नोमि चेतसा भ्रमता जगत् ॥३५॥

शृणुतावदिदानीं त्वं कथ्यमानमिदं मया । श्रीशुकं ज्ञानविस्तारं बुद्धिसारान्तरा-----Page------------------४३०--न्तरम् ॥३६॥

यद्विज्ञानात्पुमान्सद्यो जीवन्मुक्तत्वमाप्नुयात् ॥३७॥

दृश्यंनास्तीति बोधेन मनसो दृश्यमार्जनम् । संपन्नं चेत्तदुत्पन्ना परा निर्वाणनि-र्वृतिः ॥३८॥

अशेषेण परित्यागो वासनायां य उत्तमः । मोक्ष इत्युच्यतेसद्भिः स एव विमलक्रमः ॥३९॥

ये शुद्धवासना भूयो न जन्मानर्थभा-गिनः । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥४०॥

पदार्थभाव-नादार्ढ्यं बन्ध इत्यभिधीयते । वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते ॥४१॥

तपःप्रभृतिना यस्मै हेतुनैव विना पुनः । भोगा इह न रोचन्ते स जीवन्मुक्तौच्यते ॥४२॥

आपतत्सु यथाकालं सुखदुःखेष्वनारतः । न हृष्यतिग्लायति यः स जीवन्मुक्त उच्यते ॥४३॥

हर्षामर्षभयक्रोधकामकार्पण्य-दृष्टिभिः । न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते ॥४४॥

अहंकारमयींत्यक्त्वा वासनां लीलयैव यः । तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते॥४५॥

ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु । सुषुप्तिवद्यश्चरति सजीवन्मुक्त उच्यते ॥४६॥

अध्यात्मरतिरासीनः पूर्णः पावनमानसः ।प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति । यो जीवति गतस्नेहः स जीव-न्मुक्त उच्यते ॥४७॥

संवेद्येन हृदाकाशे मनागपि न लिप्यते । यस्यासा-वजडा संवित्स जीवन्मुक्त उच्यते ॥४८॥

रागद्वेषौ सुखं दुःखं धर्माधर्मौफलाफले । यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते ॥४९॥

मौनवान्निरहं-भावो निर्मानो मुक्तमत्सरः । यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते॥५०॥

सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः । निरिच्छो वर्तते कार्ये सजीवन्मुक्त उच्यते ॥५१॥

येन धर्ममधर्म च मनोमननमीहितम् । सर्व-मन्तःपरित्यक्तं स जीवन्मुक्त उच्यते ॥५२॥

यावती दृश्यकलना सकलेयंविलोक्यते । सा येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते ॥५३॥

कट्वम्ललवणंतिक्तममृष्टं मृष्टमेव च । सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥५४॥

जरा मरणमापच्च राज्यं दारिद्र्यमेव च । रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते॥५५॥

धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी । धिया येन सुसंत्यक्तं सजीवन्मुक्त उच्यते ॥५६॥

उद्वेगानन्दरहितः समया स्वच्छया धिया । नशोचति न चोदेति स जीवन्मुक्त उच्यते ॥५७॥

सर्वेच्छाः सकलाः शङ्काःसर्वेहाः सर्वनिश्चयाः । धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते ॥५८॥

जन्मस्थितिविनाशेषु सोदयास्तमयेषु च । सममेव मनो यस्य स जीवन्मुक्त-----Page-----------------४३१--उच्यते ॥५१॥

न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति । भुङ्क्ते यःप्रकृतान्भोगान्स जीवन्मुक्त उच्यते ॥६०॥

शान्तसंसारकलनः कलावानपिनिष्कलः । यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥६१॥

यःसमस्तार्थजालेषु व्यवहार्यपि निःस्पृहः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्तौच्यते ॥६२॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेहमु-क्तत्वं पवनोऽस्पन्दतामिव ॥६३॥

विदेहमुक्तो नोदेति नास्तमेति नशाम्यति । न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥६४॥

ततः स्तिमि-तगम्भीरं न तेजो न तमस्ततम् । अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते॥६५॥

न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम् । न च भूतपदा-र्थौघसदनन्ततया स्थितम् ॥६६॥

किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः ।न सन्नासन्न सदसन्न भावो भावनं न च ॥६७॥

चिन्मात्रं चैत्यरहितम-नन्तमजरं शिवम् । अनादिमध्यपर्यन्तं यदनादि निरामयम् ॥६८॥

द्रष्टृद-र्शनदृश्यानां मध्ये यद्दर्शनं स्मृतम् । नातः परतरं किंचिन्निश्चयोऽस्त्यपरोमुने ॥६९॥

स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् । स्वसंकल्पवशा-द्बद्धो निःसंकल्पाद्विमुच्यते ॥७०॥

तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य महा-त्मनः । भोगेभ्यो ह्यरतिर्जाता दृश्याद्वा सकलादिह ॥७१॥

प्राप्तं प्राप्तव्यम-खिलं भवता पूर्णचेतसा । स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥७२॥

अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः । शुक पश्यन्न पश्येस्त्वं साक्षीसंपूर्णकेवलः ॥७३॥

विशश्राम शुकरतूष्णीं स्वस्थे परमवस्तुनि । वीत-शोकभयायासो निरीहश्छिन्नसंशयः ॥७४॥

जगाम शिखरं मेरोः समाध्यर्थम-खण्डितम् ॥७५॥

तत्र वर्षसहस्राणि निर्विकल्पसमाधिना । देशे स्थित्वाशशामासावात्मन्यस्नेहदीपवत् ॥७६॥

व्यपगतकलनाकलङ्कशुद्धः स्वयमम-लात्मनि पावने पदेऽसौ । सलिलकण इवाम्बुधौ महात्मा विगलितवासन-मेकतां जगाम ॥७७॥

इति महोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

निदाघो नाम मुनिराट् प्राप्तविद्यश्च बालकः । विहृतस्तीर्थयात्रार्थं पित्रा-नुज्ञातवान्स्वयम् ॥१॥

सार्धत्रिकोटितीर्थेषु स्नात्वा गृहमुपागतः । स्वोदन्तंकथयामास ऋभुं नत्वा महायशाः ॥२॥

सार्धत्रिकोटितीर्थेषु स्नानपुण्यप्र-भावतः । प्रादुर्भूतो मनसि मे विचारः सोऽयमीदृशः ॥३॥

जायते म्रियते-----Page-----------------४३२--लोको म्रियते जननाय च । अस्थिराः सर्व एवेमे सचराचरचेष्टिताः । सर्वा-पदां पदं पापा भावा विभवभूमयः ॥४॥

अयःशलाकासदृशाः परस्परम-सङ्गिनः । शुष्यन्ते केवला भावा मनःकल्पनयानया ॥५॥

भावेष्वरतिरा-याता पथिकस्य मरुष्विव । शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा॥६॥

चिन्तानिचयचक्राणि नानन्दाय धनानि मे । संप्रसूतकलत्राणि गृहा-ण्युग्रापदामिव ॥७॥

इयमस्मि स्थितोदारा संसारे परिपेलवा । श्रीर्मुनेपरिमोहाय सापि नूनं न शर्मदा ॥८॥

आयुः पल्लवकोणाग्रलम्बाम्बुकणभ-ङ्गुरम् । उन्मत्त इव संत्यज्य याम्यकाण्डे शरीरकम् ॥९॥

विषयाशीविषा-सङ्गपरिजर्जरचेतसाम् । अप्रौढात्मविवेकानामायुरायासकारणम् ॥१०॥

युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रन्थनं च तरङ्गाणामास्थानायुषि युज्यते ॥११॥

प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते । परायानिर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥१२॥

तरवोऽपि हि जीवन्ति जीवन्तिमृगपक्षिणः । स जीवति मनो यस्य मननेनोपजीवति ॥१३॥

जातास्तएव जगति जन्तवः साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः॥१४॥

भारो विवेकिनः शास्त्रं भारो ज्ञानं च रागिणः । अशान्तस्य मनोभारो भारोऽनात्मविदो वपुः ॥१५॥

अहंकारवशादापदहंकाराद्दुराधयः ।अहंकारवशादीहा नाहंकारात्परो रिपुः ॥१६॥

अहंकारवशाद्यद्यन्मया भुक्तंचराचरम् । तत्तत्सर्वमवस्त्वेव वस्त्वहंकाररिक्तता ॥१७॥

इतश्चेतश्च सुव्यग्रंव्यर्थमेवाभिधावति । मनो दूरतरं याति ग्रामे कौलेयको यथा ॥१८॥

क्रूरेण जडतां याता तृष्णाभार्यानुगामिना । वशः कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मिचेतसा ॥१९॥

अप्यब्धिपानान्महतः सुमेरून्मूलनादपि । अपि वह्न्यश-नाद्ब्रह्मन्विषमश्चित्तनिग्रहः ॥२०॥

चित्तं कारणमर्थानां तस्मिन्सति जगत्त्र-यम् । तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥२१॥

यां यामहं मुनि-श्रेष्ठ संश्रयामि गुणश्रियम् । तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका॥२२॥

पदं करोत्यलङ्घ्येऽपि तृप्ता विफलमीहते । चिरं तिष्ठति नैकत्र तृष्णाचपलमर्कटी ॥२३॥

क्षणमायाति पातालं क्षणं याति नभःस्थलम् । क्षणंभ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥२४॥

सर्वसंसारदुःखानां तृष्णैकादीर्घदुःखदा । अन्तःपुरस्थमपि या योजयत्यतिसंकटे ॥२५॥

तृष्णाविषूचि-कामन्त्रश्चिन्तात्यागो हि स द्विज । स्तोकेनानन्दमायाति स्तोकेनायाति खेद-----Page------------------४३३--ताम् ॥२६॥

नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः ॥२७॥

कलेवरमहंकारगृहस्थस्य महागृहम् । लुठत्वभ्येतु वा स्थैर्यं किमनेन गुरोमम ॥२८॥

पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गणम् । चित्तभृत्यजनाकीर्णंनेष्टं देहगृहं मन ॥२९॥

जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्ट-दन्तास्थिशकलं नेष्टं देहगृहं मम ॥३०॥

रक्तमांसमयस्यास्य सबाह्याभ्यन्तरेमुने । नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥३१॥

तडित्सु शरदभ्रेषुगन्धर्वनगरेषु च । स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥३२॥

शैशवेगुरुतो भीतिर्मातृतः पितृतस्तथा । जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम्॥३३॥

स्वचित्तबिलसंस्थेन नानाविभ्रमकारिणा । बलात्कामपिशाचेनविवशः परिभूयते ॥३४॥

दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा ।ह्वसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥३५॥

दैन्यदोषमयी दीर्घा वर्धतेवार्धके स्पृहा । सर्वापदामेकसखी हृदि दाहप्रदायिनी ॥३६॥

क्वचिद्वाविद्यते यैषा संसारे सुखभावना । आयुः स्तम्बमिवासाद्य कालस्तामपिकृन्तति ॥३७॥

तृणं पांशुं महेन्द्रं च सुवर्णं मेरुसर्षपम् । आत्मंभरितयासर्वमात्मसात्कर्तुमुद्यतः । कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्त्रयम् ॥३८॥

मासपाञ्चालिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे । स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियःकिमिव शोभनम् ॥३९॥

त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने । समा-लोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥४०॥

मेरुशृङ्गतटोल्लासिगङ्गाचल-रयोपमा । दृष्टा यमिन्मुने मुक्ताहारस्योल्लासशालिता ॥४१॥

श्मशानेषुदिगन्तेषु स एव ललनास्तनः । श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः॥४२॥

केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । दुष्कृताग्निशिखा नार्योदहन्ति तृणवन्नरम् ॥४३॥

ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः ।स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥४४॥

कामनाम्ना किरातेनविकीर्णा मुग्धचेतसः । नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥४५॥

जन्म-पल्वलमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिश-पिण्डिका ॥४६॥

सर्वेषां दोषरत्नानां सुसमुद्गिकयानया । दुःखशृङ्खलयानित्यमलमस्तु मम स्त्रिया ॥४७॥

यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्वभोगभूः । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥४८॥

दिशोऽपि नहि दृश्यन्ते देशोऽप्यन्योपदेशकृत् । शैला अपि विशीर्यन्ते-----Page-----------------४३४--शीर्यन्ते तारका अपि ॥४९॥

शुष्यन्त्यपि समुद्राश्च ध्रुवोऽप्यध्रुवजीवनः ।सिद्धा अपि विनश्यन्ति जीर्यन्ते दानवादयः ॥५०॥

परमेष्ठ्यपि निष्ठावा-न्हीयते हरिरप्यजः । भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः ॥५१॥

ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः । नाशमेवानुधावन्ति सलिलानीववाडवम् ॥५२॥

आपदः क्षणमायान्ति क्षणमायान्ति संपदः । क्षणंजन्माथ मरणं सर्वं नश्वरमेव तत् ॥५३॥

अशूरेण हताः शूरा एकेनापिशतं हतम् । विषं विषयवैषम्यं न विषं विषमुच्यते ॥५४॥

जन्मान्तरघ्नाविषया एकजन्महरं विषम् । इति मे दोषदावाग्निदग्धे संप्रति चेतसि॥५५॥

स्फुरन्ति हि न भोगाशा मृगतृष्णासरःस्वपि । अतो मां बोधयाशुत्वं तत्त्वज्ञानेन वै गुरो ॥५६॥

नो चेन्मौनं समास्थाय निर्मानो गत-मत्सरः । भावयन्मनसा विष्णुं लिपिकर्मार्पितोपमः ॥५७॥

इति महोपनिषत्सु तृतीयोऽध्यायः ॥३॥

निदाघ तव नास्त्यन्यज्ज्ञेयं ज्ञानवतां वर । प्रज्ञया त्वं विजानासि ईश्वरा-नुगृहीतया । चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने ॥१॥

मोक्षद्वारेद्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारः संतोषश्चतुर्थः साधुसङ्गमः॥२॥

एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् । एकस्मिन्वशगे यान्तिचत्वारोऽपि वशं गताः ॥३॥

शास्त्रैः सज्जनसंपर्कपूर्वकैश्च तपोदमैः । आदौसंसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥४॥

स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैक-वाक्यता । यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ॥५॥

संकल्पाशानु-संधानवर्जनं चेत्प्रतिक्षणम् । करोषि तदचित्तत्वं प्राप्त एवासि पावनम्॥६॥

चेतसो यदकर्तृत्वं तत्समाधानमीरितम् । तदेव केवलीभावं साशुभा निर्वृतिः परा ॥७॥

चेतसा संपरित्यज्य सर्वभावात्मभावनाम् । यथातिष्ठसि तिष्ठ त्वं मूकान्धबधिरोपमः ॥८॥

सर्वं प्रशान्तमजमेकमनादि-मध्यमाभास्वरं स्वदनमात्रमचैत्यचिह्नम् । सर्वं प्रशान्तमिति शब्दमयी चदृष्टिर्बाधार्थमेव हि मुधैव तदोमितीदम् ॥९॥

सर्वं किंचिदिदं दृश्यं दृश्यतेचिज्जगद्गतम् । चिन्निष्पन्दांशमात्रं तन्नान्यदस्तीति भावय ॥१०॥

नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वापि जगत्क्रियाम् । आत्मैकत्वं विदित्वा त्वं तिष्ठा-क्षुब्धमहाब्धिवत् ॥११॥

तत्त्वावबोध एवासौ वासनातृणपावकः । प्रोक्तःसमाधिशब्देन नतु तूष्णीमवस्थितिः ॥१२॥

निरिच्छे संस्थिते रत्ने यथा-----Page-----------------४३५--लोकः प्रवर्तते । सत्तामात्रे परे तत्त्वे तथैवायं जगद्गणः ॥१३॥

अतश्चा-त्मनि कर्तृत्वमकर्तृत्वं च वै मुने । निरिच्छत्वादकर्ताऽसौ कर्ता संनिधिमात्रतः॥१४॥

ते द्वे ब्रह्मणि विन्देत कर्तृताकर्तृते मुने । यत्रैवैष चमत्कारस्तमाश्रित्यस्थिरो भव ॥१५॥

तस्मान्नित्यमकर्ताहमिति भावनयेद्धया । परमामृतनाम्नीसा समतैवावशिष्यते ॥१६॥

निदाघ शृणु सत्त्वस्था जाता भुवि महा-गुणाः । ते नित्यमेवाभुदिता मुदिताः ख इवेन्दवः ॥१७॥

नापदि गलानिमा-यान्ति निशि हेमाम्बुजं यथा । नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि॥१८॥

आकृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः । समाः समरसाः सौम्यसततं साधुवृत्तयः ॥१९॥

अब्धिवद्धतमर्यादा भवन्ति विशदाशयाः ।नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ॥२०॥

कोऽहं कथमिदं चेतिसंसारमलमाततम् । प्रविचार्यं प्रयत्नेन प्राज्ञेन सहसाधुना ॥२१॥

नाकर्मसुनियोक्तव्यं नानार्येण सहावसेत् । द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया॥२२॥

शरीरमस्थि मांसं च त्यक्त्वा रक्ताद्यशोभनम् । भूतमुक्तावलीतन्तुंचिन्मात्रमवलोकयेत् ॥२३॥

उपादेयानुपतनं हेयैकान्तविसर्जनम् । यदेत-न्मनसो रूपं तद्बाह्यं विद्धि नेतरत् ॥२४॥

गुरुशास्त्रोक्तमार्गेण स्वानुभूत्याच विद्घने । ब्रह्मैवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥२५॥

यत्रनिशितासिशतपातनमुत्पलताडनवत्सोढव्यमग्निना दाहो हिमसेचनमिवाङ्गारा-वर्तनं चन्दनचर्चेव निरवधिनाराचविकिरपातो निदाघविनोदनधारागृहशीकर-वर्षणमिव स्वशिरश्छेदः सुखनिद्रेव मूकीकरणमाननमुद्रेव बाधिर्यं महानुप-चय इवेदं नावहेलनया भवितव्यमेवं दृढवैराग्याद्बोधो भवति ॥ गुरुवाक्य-समुद्भूतस्वानुभूत्यादिशुद्धया । यस्याभ्यासेन तेनात्मा सततं चावलोक्यते॥२६॥

विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् । तथा विज्ञानविध्वस्तंजगन्नास्तीति भावय ॥२७॥

न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः ।न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः । केवलं तन्मनोमात्रमयेनासाद्यतेपदम् ॥२८॥

यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः । शान्तचेतःसुतत्सर्वं तमोऽर्केष्विव नश्यति ॥२९॥

मातरीव परं यान्ति विवमाणिमृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥३०॥

न रसायन-पानेन न लक्ष्म्यालिङ्गितेन च । न तथा सुखमाप्नोति शमेनान्तर्यथा जनः॥३१॥

श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् । न हृष्यति-----Page-----------------४३६--ग्लायति यः स शान्त इति कथ्यते ॥३२॥

तुषारकरबिम्बाच्छं मनो यस्यनिराकुलम् । मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥३३॥

तपस्विषुबहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवानेव राजते ॥३४॥

संतोषामृतपानेन ये शान्तास्तृप्तिमागताः । आत्मारामा महात्मानस्ते महा-पदमागताः ॥३५॥

अप्राप्तं हि परित्यज्य संप्राप्ते समतां गतः । अदृष्टखेदा-खेदो यः संतुष्ट इति कथ्यते ॥३६॥

नाभिनन्दत्यसंप्राप्तं प्राप्तं भुङ्के यथेप्सि-तम् । यः स सौम्यसमाचारः संतुष्ट इति कथ्यते ॥३७॥

रमते धीर्यथाप्राप्तेसाध्वीवाऽन्तःपुराजिरे । सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी ॥३८॥

यथाक्षणं यथाशास्त्रं यथादेशं यथासुखम् । यथासंभवसत्सङ्गमिमं मोक्षपथ-क्रमम् । तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ॥३९॥

तुर्यविश्रान्ति-युक्तस्य निवृत्तस्य भवार्णवात् । जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः॥४०॥

नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवा-म्भोधिः स तिष्ठति यथास्थितः ॥४१॥

सर्वात्मवेदनं शुद्धं यदोदेतितवात्मकम् । भाति प्रसृतिदिक्कालबाह्यं चिद्रूपदेहकम् ॥४२॥

एव-मात्मा यथा यत्र समुल्लासमुपागतः । तिष्ठत्याशु तथा तत्र तद्रूपश्चविराजते ॥४३॥

यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् । तत्सुषुप्ताविवस्वप्नः कल्पान्ते प्रविनश्यति ॥४४॥

ऋतमात्मा परं ब्रह्म सत्यमित्यादिकाबुधैः । कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः ॥४५॥

यथाकटकशब्दार्थः पृथग्भावो न काञ्चनात् । न हेम कटकात्तद्वज्जगच्छ-ब्दार्थता परा ॥४६॥

तेनेयमिन्द्रजालश्रीर्जगति प्रवितन्यते । द्रष्टुर्दृश्यस्यसत्तान्तर्बन्ध इत्यभिधीयते ॥४७॥

द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमु-च्यते । जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते ॥४८॥

मनसैवेन्द्रजाल-श्रीर्जगति प्रवितन्यते । यावदेतत्संभवति तावन्मोक्षो न विद्यते ॥४९॥

ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा । मनोमयमतो विश्वं यन्नाम परि-दृश्यते ॥५०॥

न बाह्ये नापि हृदये सद्रूपं विद्यते मनः । यदर्थं प्रतिभानंतन्मन इत्यभिधीयते ॥५१॥

संकल्पनं मनो विद्धि संकल्पस्तत्र विद्यते ।यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥५२॥

संकल्पमनसी भिन्ने नकदाचन केनचित् । संकल्पजाते गलिते स्वरूपमवशिष्यते ॥५३॥

अहं त्वंजगदित्यादौ प्रशान्ते दृश्यसंभ्रमे । स्यात्तादृशी केवलता दृश्ये सत्तामुपागते-----Page-----------------४३७--॥५४॥

महाप्रलयसंपत्तौ ह्यसत्तां समुपागते । अशेषदृश्ये सर्गादौ शान्त-मेवावशिष्यते ॥५५॥

अस्त्यनस्तमितो भास्वानजो देवो निरामयः । सर्वदासर्वकृत्सर्वः परमात्मेत्युदाहृतः ॥५६॥

यतो वाचो निवर्तन्ते यो मुक्तैरव-गम्यते । यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः ॥५७॥

चित्ता-काशं चिदाकाशमाकाशं च तृतीयकम् । द्वाभ्यां शून्यतरं विद्धि चिदाकाशंमहामुने ॥५८॥

देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् । निमेषेणचिदाकाशं तद्विद्धि मुनिपुङ्गव ॥५९॥

तस्मिन्निरस्तनिःशेषसंकल्पस्थितिमेषिचेत् । सर्वात्मकं पदं शान्तं तदा प्राप्नोष्यसंशयः ॥६०॥

उदितौदार्य-सौन्दर्यवैराग्यरसगर्भिणी । आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ॥६१॥

दृश्यासंभवबोधेन रागद्वेषादितानवे । रतिर्बलोदिता यासौ समाधिरभिधी-यते ॥६२॥

दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् । तदेव केवली-भावं ततोऽन्यत्सकलं मृषा ॥६३॥

मत्त ऐरावतो बद्धः सर्षपीकोणकटरे ।मशकेन कृतं युद्धं सिंहौघैरेणुकोटरे ॥६४॥

पद्माक्षे स्थापितो मेरुर्निगीर्णोभृङ्गसूनुना । निदाघ विद्धि तादृक्त्वं जगदेतद्भ्रमात्मकम् ॥६५॥

चित्तमेवहि संसारो रागादिक्लेशदूषितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥६६॥

मनसा भाव्यमानो हि देहतां याति देहकः । देहवासनया मुक्तोदेहधर्मैर्न लिप्यते ॥६७॥

कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।मनोविलाससंसार इति मे निश्चिता मतिः ॥६८॥

नाविरतो दुश्चरितान्ना-शान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥६९॥

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । विदित्वा स्वात्मनो रूपं न बिभेतितदाचन ॥७०॥

परात्परं यन्महतो महान्तं स्वरूपतेजोमयशाश्वतं शिवम् ।कविं पुराणं पुरुषं सनातनं सर्वेश्वरं सर्वदेवैरुपास्यम् ॥७१॥

अहंब्रह्मेतिनियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च ।ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ॥७२॥

जीवेश्वरादिरूपेण चेतना-चेतनात्मकम् । ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता । जाग्रदादिविमो-क्षान्तः संसारो जीवकल्पितः ॥७३॥

त्रिणाचिकादियोगान्ता ईश्वरभ्रान्ति-माश्रिताः । लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः ॥७४॥

तस्मा-न्मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः । कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्य-ताम् ॥७५॥

अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् । स एव साक्षा-----Page------------------४३८--द्विज्ञानी स शिवः स हरिर्विधिः ॥७६॥

दुर्लभो विषयत्यागो दुर्लभं तत्त्व-दर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥७७॥

उत्पन्नशक्तिबोधस्यत्यक्तनिःशेषकर्मणः । योगिनः सहजावस्था स्वयमेवोपजायते ॥७८॥

यदाह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः । विजानाति तदा तस्य भयं स्यान्नात्र संशयः॥७९॥

सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तंभानुमन्धवत् ॥८०॥

प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् । एवं ब्रह्मपरि-ज्ञानादेव मर्त्योऽमृतो भवेत् ॥८१॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥८२॥

अनात्मतां परि-त्यज्य निर्विकारो जगत्स्थितौ । एकनिष्ठतयान्तःस्थः संविन्मात्रपरो भव ॥८३॥

मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् । जगत्त्रयमिदं सर्वं चिन्मात्रंस्वविचारतः ॥८४॥

लक्ष्यालक्ष्यमतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना । शिवएव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥८५॥

अधिष्ठानमनौपम्यमवाङ्मनस-गोचरम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ॥८६॥

सर्वशक्तेर्महे-शस्य विलासो हि मनो जगत् । संयमासंयमाभ्यां च संसारः शान्तिमन्व-गात् ॥८७॥

मनोव्याधेश्चिकित्सार्थमुपायं कथयामि ते । यद्यत्स्वाभिमतंवस्तु तत्त्यजन्मोक्षमश्नुते ॥८८॥

स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् ।यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥८९॥

स्वपौरुषैकसाध्येनस्वेप्सितत्यागरूपिणा । मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥९०॥

असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यदा । सर्वं सर्वगतं शान्तं ब्रह्म संपद्यतेतदा ॥९१॥

भव भावनया मुक्तो मुक्तः परमया धिया । धारयात्मानम-व्यग्रो ग्रस्तचित्तं चितः पदम् ॥९२॥

परं पौरुषमाश्रित्य नीत्वा चित्तमचि-त्तताम् । ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया ॥९३॥

मनो मारयनिःशङ्कं त्वां प्रबध्नन्ति नारयः ॥९४॥

अयं सोऽहमिदं तन्म एतावन्मात्रकंमनः । तदभावनमात्रेण दात्रेणेव विलीयते ॥९५॥

छिन्नाभ्रमण्डलं व्योम्नियथा शरदि धूयते । वातेन कल्पकेनैव तथाऽन्तर्धूयते मनः ॥९६॥

कल्पा-न्तपवना वान्तु यान्तु चैकत्वमर्णवाः । तपन्तु द्वादशादित्या नास्ति निर्मनसःक्षतिः ॥९७॥

असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे । असंकल्पातिसा-म्राज्ये तिष्ठावष्टब्धतत्पदः ॥९८॥

न हि चञ्चलताहीनं मनः क्वचन दृश्यते ।-----Page-----------------४३९--चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता ॥९९॥

एषा हि चञ्चला स्पन्द-शक्तिश्चित्तत्वसंस्थिता । तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम् ॥१००॥

यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते । तदेव च तपः शास्त्रसिद्धान्ते मोक्षौच्यते ॥१०१॥

तस्य चञ्चलता यैषा त्वविद्या वासनात्मिका । वासना-ऽपरनाम्नीं तां विचारेण विनाशय ॥१०२॥

पौरुषेण प्रयत्नेन यस्मिन्नेव पदेमनः । योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ ॥१०३॥

अतः पौरुष-माश्रित्य चित्तमाक्रम्य चेतसा । विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव॥१०४॥

मन एव समर्थं हि मनसो दृढनिग्रहे । अराजकः समर्थः स्याद्राज्ञोनिग्रहकर्मणि ॥१०५॥

तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् । आवर्तै-रुह्यमानानां दूरं स्वमन एव नौः ॥१०६॥

मनसैव मनश्छित्त्वा पाशंपरमबन्धनम् । भवादुत्तारयात्मानं नासावन्येन तार्थते ॥१०७॥

यायोदेति मनोनाम्नी वासना वासितान्तरा । तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् ॥१०८॥

भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् ।भावाभावौ ततस्त्यक्त्वा निर्विकल्पः सुखी भव ॥१०९॥

एष एव मनोनाश-स्त्वविद्यानाश एव च । यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् ॥११०॥

अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः ॥१११॥

अविद्या विद्यमानैवनष्टप्रज्ञेषु दृश्यते । नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः ॥११२॥

तावत्संसारभृगुषु स्वात्मना सह देहिनम् । आन्दोलयति नीरन्ध्रं दुःखकण्ट-कशालिषु ॥११३॥

अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी । स्वयमा-त्मावलोकेच्छा मोहसंक्षयकारिणी ॥११४॥

अस्याः परं प्रपश्यन्त्याः स्वात्म-नाशः प्रजायते । दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते ॥११५॥

इच्छा-मात्रमविद्येयं तन्नाशो मोक्ष उच्यते । स चासंकल्पमात्रेण सिद्धो भवति वैमुने ॥११६॥

मनागपि मनोव्योम्नि वासनारजनीक्षये । कलिका तनु-तामेति चिदादित्यप्रकाशनात् ॥११७॥

चैत्यानुपातरहितं सामान्येन चसर्वगम् । यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥११८॥

सर्वं चखल्विदं ब्रह्म नित्यचिद्घनमक्षतम् । कल्पनाऽन्या मनोनाम्नी विद्यते नहिकाचन ॥११९॥

न जायते न म्रियते किंचिदत्र जगत्त्रये । न च भाव-विकाराणां सत्ता क्वचन विद्यते ॥१२०॥

केवलं केवलाभासं सर्वसामान्यम-क्षतम् । चैत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥१२१॥

तस्मिन्नित्ये तते-----Page-----------------४४०--शुद्धे चिन्मात्रे निरुपद्रवे । शान्ते शमसमाभोगे निर्विकारे चिदात्मनि॥१२२॥

यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति । चिच्चैत्यं स्वयमम्लानंमाननान्मन उच्यते । अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ॥१२३॥

नाहंब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः । सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यतेमनः ॥१२४॥

कृशोऽहं दुःखबद्धोऽहं हस्तपादादिवानहम् । इतिभावानुरूपेण व्यवहारेण बध्यते ॥१२५॥

नाहं दुःखी न मे देहो बन्धःकोऽस्यात्मनि स्थितः । इति भावानुरूपेण व्यवहारेण मुच्यते ॥१२६॥

नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् । इति निश्चितवानन्तः-क्षीणविद्यो विमुच्यते ॥१२७॥

कल्पितेयमविद्येयमनात्मन्यात्मभावनात् ।परं पौरुषमाश्रित्य यत्नात्परमया धिया । भोगेच्छां दूरतस्त्यक्त्वा निर्विकल्पःसुखी भव ॥१२८॥

मम पुत्रो मम धनमहं सोऽयमिदं मम । इतीयमि-न्द्रजालेन वासनैव विवल्गति ॥१२९॥

मा भवाज्ञो भव ज्ञस्त्वं जहिसंसारभावनाम् । अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥१३०॥

कस्त-वायं जडो मूको देहो मांसमयोऽशुचिः । यदर्थं सुखदुःखाभ्यामवशः परि-भूयसे ॥१३१॥

अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् । तिष्ठतस्तवकार्येषु माऽस्तु रागानुरञ्जना ॥१३२॥

अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभि-रद्रयः । अविद्यमाना या विद्या तया विश्वं खिलीकृतम् ॥१३३॥

इदं तद्व-ज्रतां यातं तृणमात्रं जगत्त्रयम् ॥ इत्युपनिषत् ॥इति महोपनिषत्सु चतुर्थोऽध्यायः ॥४॥

ऋभुः ॥ अथापरं प्रवक्ष्यामि शृणु तात यथायथम् । अज्ञानभूः सप्तपदाज्ञभूः सप्तपदैव हि ॥१॥

पदान्तराण्यसंख्यानि प्रभवन्त्यन्यथैतयोः ।स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहन्त्ववेदनम् ॥२॥

शुद्धसन्मात्रसंवित्तेः स्वरूपान्नचलन्ति ये । रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः ॥३॥

यः स्वरूपपरि-भ्रंशश्चेत्यार्थे चिति मज्जनम् । एतस्मादपरो मोहो न भूतो न भविष्यति ॥४॥

अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः । सा ध्वस्तमननाकारा स्वरूप-स्थितिरुच्यते ॥५॥

संशान्तसर्वसंकल्पा या शिलावदवस्थितिः । जाग्रन्निद्रा-विनिर्मुक्ता सा स्वरूपस्थितिः परा ॥६॥

अहन्तांशे क्षते शान्ते भेदनि-ष्पन्दचित्तता । अजडा या प्रचलति तत्स्वरूपमितीरितम् ॥७॥

बीज-----Page------------------४४१--जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च । जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजा-ग्रत्सुषुप्तिकम् ॥८॥

इति सप्तविधो मोहः पुनरेष परस्परम् । श्लिष्टो भव-त्यनेकाग्र्यं शृणु लक्षणमस्य तु ॥९॥

प्रथमं चेतनं यत्स्यादनाख्यं निर्मलंचितः । भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ॥१०॥

बीजरूपस्थितंजाग्रद्बीजजाग्रत्तदुच्यते । एषा ज्ञप्तेर्नवावस्था त्वं जाग्रत्संस्थितिं शृणु ॥११॥

नवप्रसूतस्य परादयं चाहमिदं मम ॥ इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभा-वनात् ॥१२॥

अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः । पीवरः प्रत्ययःप्रोक्तो महाजाग्रदिति स्फुटम् ॥१३॥

अरूढमथवा रूढं सर्वथा तन्मयात्म-कम् । यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते ॥१४॥

द्विचन्द्रशुक्तिकारू-प्यमृगतृष्णादिभेदतः । अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् ॥१५॥

अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि । परामर्शः प्रबुद्धस्य स स्वप्नैति कथ्यते ॥१६॥

चिरं संदर्शनाभावादप्रफुल्लं बृहद्वचः । चिरका-लानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः ॥१७॥

स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपिपरिस्फुरत् । षडवस्थापरित्यागो जडा जीवस्य या स्थितिः ॥१८॥

भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः । जगत्तस्यामवस्थायामन्त-स्तमसि लीयते ॥१९॥

सप्तावस्था इमाः प्रोक्ता मया ज्ञानस्य वै द्विज ।एकैका शतसंख्याऽत्र नानाविभवरूपिणी ॥२०॥

इमां सप्तपदां ज्ञानभूमि-माकर्णयानघ । नानया ज्ञातया भूयो मोहपङ्के निमज्जति ॥२१॥

वदन्तिबहुभेदेन वादिनो योगभूमिकाः ॥ मम त्वभिमता नूनमिमा एव शुभप्रदाः॥२२॥

अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम् । मुक्तिस्तु ज्ञेयमित्युक्ताभूमिकासप्तकात्परम् ॥२३॥

ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।विचारणा द्वितीया तु तृतीया तनुमानसी ॥२४॥

सत्त्वापत्तिश्चतुर्थीस्यात्ततोऽसंसक्तिनामिका । पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥२५॥

आसामन्तःस्थिता मुक्तिर्यस्यां भूयो न शोचति । एतासां भूमिकानां त्वमिदंनिर्वचनं शृणु ॥२६॥

स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनैः ।वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥२७॥

शास्त्रसज्जनसंपर्क-वैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥२८॥

विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते-----Page-----------------४४२--तनुमानसी ॥२९॥

भूमिकात्रितयाभ्यासाच्चित्ते तु विरतेर्विशात् । सत्त्वा-त्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥३०॥

दशाचतुष्टयाभ्यासादसंसर्गकलातु या । रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥३१॥

भूमिकापञ्चका-भ्यासात्स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात्॥३२॥

परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् । पदार्थभावना नाम षष्ठीभवति भूमिका ॥३३॥

भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्भनात् । यत्स्व-भावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥३४॥

एषा हि जीवन्मुक्तेषु तुर्याव-स्थेति विद्यते । विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥३५॥

ये निदाघमहाभागाः सप्तमीं भूमिमाश्रिताः । आत्मारामा महात्मानस्ते महत्पद-मागताः ॥३६॥

जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते । प्रकृतेनाथकार्येण किंचित्कुर्वन्ति वा न वा ॥३७॥

पार्श्वस्थबोधिताः सन्तः पूर्वा-चारक्रमागतम् । आचारमाचरन्त्येव सुप्तबुद्धवदुत्थिताः ॥३८॥

भू-मिकासप्तकं चैतद्धीमतामेव गोचरम् । प्राप्य ज्ञानदशामेतां पशुम्लेच्छाद-योऽपि ये ॥३९॥

सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः । ज्ञप्तिर्हिग्रन्थिविच्छेदस्तस्मिन्सति विमुक्तता ॥४०॥

मृगतृष्णाम्बुबुद्ध्यादिशान्तिमात्रा-त्मकस्त्वसौ । ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं परमं पदम् ॥४१॥

ते स्थिताभूमिकास्वासु स्वात्मलाभपरायणाः । मनःप्रशमनोपायो योग इत्यभिधीयते॥४२॥

सप्तभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः । एतासां भूमिकानां तुगम्यं ब्रह्माभिधं पदम् ॥४३॥

त्वत्ताऽहन्तात्मता यत्र परता नास्तिकाचन । न क्वचिद्भावकलना न भावाभावगोचरा ॥४४॥

सर्वं शान्तंनिरालम्बं व्योमस्थं शाश्वतं शिवम् । अनामयमनाभासमनामकमकारणम्॥४५॥

न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च । मनोवचोभिरग्राह्यंपूर्णात्पूर्णं सुखात्सुखम् ॥४६॥

असंवेदनमाशान्तमात्मवेदनमाततम् ।सत्ता सर्वपदार्थानां नान्या संवेदनादृते ॥४७॥

संबन्धे द्रष्टृदृश्यानांमध्ये दृष्टिर्हि यद्वपुः । द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् ॥४८॥

देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः । अजाड्यसंविन्मननं तन्मयो भवसर्वदा ॥४९॥

अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् । अचेतनेचाजडं च तन्मयो भव सर्वदा ॥५०॥

जडतां वर्जयित्वैकां शिलायाहृदयं हि तत् । अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा । चित्तं दूरे परित्यज्य-----Page-----------------४४३--योऽसि सोऽसि स्थिरो भव ॥५१॥

पूर्वं मनः समुदितं परमात्मतत्त्वा-त्तेनाततं जगदिदं सविकल्पजालम् । शून्येन शून्यमपि विप्र यथाऽम्बरेणनीलत्वमुल्लसति चारुतराभिधानम् ॥५२॥

संकल्पसंक्षयवशाद्गलितेतु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभातिशरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥५३॥

अक-र्तृकमरङ्गं च गगने चित्रमुत्थितम् । अद्रष्टृकं स्वानुभवमनिद्रस्वप्नदर्शनम्॥५४॥

साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि । निरिच्छं प्रतिबि-म्बन्ति जगन्ति मुकुरे यथा ॥५५॥

एकं ब्रह्म चिदाकाशं सर्वात्मकम-खण्डितम् । इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये ॥५६॥

रेखोप-रेखावलिता यथैका पीवरी शिला । तथा त्रैलोक्यवलितं ब्रह्मैकमिह दृश्यताम्॥५७॥

द्वितीयकारणाभावादनुत्पन्नमिदं जगत् । ज्ञातं ज्ञातव्यमधुना दृष्टंद्रष्टव्यमद्भुतम् ॥५८॥

विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन ।पश्य विश्रान्तसंदेहं विगताशेषकौतुकम् ॥५९॥

निरस्तकल्पनाजालम-चित्तत्वं परं पदम् । त एव भूमतां प्राप्ताः संशान्ताशेषकिल्बिषाः ॥६०॥

महाधियः शान्तधियो ये याता विमनस्कताम् । जन्तोः कृत-विचारस्य विगलद्वृत्तिचेतसः ॥६१॥

मननं त्यजतो नित्यं किंचित्परिणतंमनः । दृश्यं संत्यजतो हेयमुपादेयमुपेयुषः ॥६२॥

द्रष्टारं पश्यतोनित्यमद्रष्टारमपश्यतः । विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः ॥६३॥

सुप्तस्य घनसंमोहमये संसारवर्त्मनि । अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि॥६४॥

संसारवासनाजाले खगजाल इवाधुना । त्रोटिते हृदयग्रन्थौश्लथे वैराग्यरंहसा ॥६५॥

कातकं फलमासाद्य यथा वारि प्रसीदति ।तथा विज्ञानवशतः स्वभावः संप्रसीदति ॥६६॥

नीरागं निरुपासङ्गंनिर्द्वन्द्वं निरुपाश्रयम् । विनिर्याति मनो मोहाद्विहङ्गः पञ्जरादिव ॥६७॥

शान्तसंदेहदौरात्म्यं गतकौतुकविभ्रमम् । परिपूर्णान्तरं चेतः पूर्णेन्दुरिवराजते ॥६८॥

नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् । इत्थं सद-सतोर्मध्याद्यः पश्यति स पश्यति ॥६९॥

अयत्नोपनतेष्वक्षिदृग्दृश्येषुयथा मनः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥७०॥

परिज्ञा-योपभुक्तो हि भोगो भवति तुष्टये । विज्ञाय सेवितश्चौरो मैत्रीमेति-----Page-----------------४४४--न चोरताम् ॥७१॥

अशङ्कितापि संप्राप्ता ग्रामयात्रा यथाऽध्वगैः ।प्रेक्ष्यते तद्वदेव ज्ञैर्भोगश्रीरवलोक्यते ॥७२॥

मनसो निगृहीतस्य लीला-भोगोऽल्पकोऽपि यः । तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते ॥७३॥

बद्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति । परैरबद्धो नाक्रान्तो न राष्ट्रंबहु मन्यते ॥७४॥

हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः ॥७५॥

मनसो विजयान्नान्यागतिरस्ति भवार्णवे । महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ॥७६॥

आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः । प्रक्षीणचित्तदर्पस्य निगृहीते-न्द्रियद्विषः ॥७७॥

पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।तावन्निशीव वेताला वसन्ति हृदि वासनाः । एकतत्त्वदृढाभ्यासाद्यावन्नविजितं मनः ॥७८॥

भृत्योऽभिमतकर्तृत्वान्मन्त्री सर्वार्थकारणात् ।सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ॥७९॥

लालनात्स्निग्धललनापालनात्पालकः पिता । सुहृदुत्तमविन्यासान्मनो मन्ये मनीषिणः ॥८०॥

स्वालोकतः शास्त्रदृशा स्वबुद्ध्या स्वानुभावतः । प्रयच्छति परां सिद्धिंत्यक्त्वात्मानं मनःपिता ॥८१॥

सुहृष्टः सुदृढः स्वच्छः सुक्रान्तः सुप्रबो-धितः । स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः ॥८२॥

एनंमनोमणिं ब्रह्मन्बहुपङ्ककलङ्कितम् । विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव॥८३॥

विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च । इन्द्रियारीनलंछित्त्वा तीर्णो भव भवार्णवात् ॥८४॥

आस्थामात्रमनन्तानां दुःखानामाकरंविदुः । अनास्थामात्रमभितः सुखानामालयं विदुः ॥८५॥

वासना-तन्तुबद्धोऽयं लोको विपरिवर्तते । सा प्रसिद्धाऽतिदुःखाय सुखायोच्छेदमा-गता ॥८६॥

धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि । तृष्णयाबध्यते जन्तुः सिंहः शृङ्खलया यथा ॥८७॥

परमं पौरुषं यत्नमास्थायादायसूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ॥८८॥

अहंसर्वमिदं विश्वं परमात्माहमच्युतः । नान्यदस्तीति संवित्त्या परमा साह्यहंकृतिः ॥८९॥

सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः । इतिया संविदो ब्रह्मन्द्वितीयाऽहंकृतिः शुभा ॥९०॥

मोक्षायैषा न बन्धायजीवन्मुक्तस्य विद्यते ॥९१॥

पाणिपादादिमात्रोऽयमहमित्येष निश्चयः ।अहंकारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः ॥९२॥

जीव एव दुरा-----Page------------------४४५--त्मासौ कन्दः संसारदुस्तरोः । अनेनाभिहतो जन्तुरधोऽधः परिधावति ॥९३॥

अनया दुरहंकृत्या भावात्संत्यक्तयाचिरम् । शिष्टाहंकारवाञ्जन्तुः शमवा-न्याति मुक्तताम् ॥९४॥

प्रथमौ द्वावहंकारावङ्गीकृत्य त्वलौकिकौ ।तृतीयाऽहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ॥९५॥

अथ ते अपि संत्यज्यसर्वाहंकृतिवर्जितः । स तिष्ठति तथात्युच्चैः परमेवाधिरोहति ॥९६॥

भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते । मनसोऽभुदयोनाशो मनोनाशो महोदयः ॥९७॥

ज्ञमनो नाशमभ्येति मनो-ऽज्ञस्य हि शृङ्खला । नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् । न सन्ना-सन्न चैतेषां मध्यं ज्ञानिमनो विदुः ॥९८॥

यथा सौक्ष्म्याच्चिदाभास्यआकाशो नोपलक्ष्यते । तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते ॥९९॥

सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता । सैषा चिदविनाशात्मा स्वात्मेत्यादि-कृताभिधा ॥१००॥

आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी । सकला-मलसंसारस्वरूपैकात्मदर्शिनी ॥१०१॥

नास्तमेति न चोदेति नोत्तिष्ठति नतिष्ठति । न च याति न चायाति न च नेह न चेह चित् ॥१०२॥

सैषाचिदमलाकारा निर्विकल्पा निरास्पदा ॥१०३॥

आदौ शमदमप्रायैर्गुणैःशिष्यं विशोधयेत् । पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥१०४॥

अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनियो-जितः ॥१०५॥

प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः । नास्त्यविद्याम-लमिति प्राज्ञस्तूपदिशेद्गुरुः ॥१०६॥

सति दीप इवालोकः सत्यर्क इववासरः । सति पुष्प इवामोदश्चिति सत्यं जगत्तथा ॥१०७॥

प्रतिभासतएवेदं न जगत्परमार्थतः । ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये ॥१०८॥

यथावज्ज्ञास्यसि स्वस्थो मद्वाग्वृष्टिबलाबलम् । अविद्ययैवोत्तमया स्वार्थना-शोद्यमार्थया ॥१०९॥

विद्या संप्राप्यते ब्रह्मन्सर्वदोषापहारिणी । शाम्यतिह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलम् ॥११०॥

शमं विषं विषेणैति रिपुणाहन्यते रिपुः । ईदृशी भूतमायेयं या स्वनाशेन हर्षदा ॥१११॥

न लक्ष्यतेस्वभावोऽस्या वीक्ष्यमाणैव नश्यति । नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया॥११२॥

सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा । भेददृष्टिरविद्येयंसर्वथा तां विसर्जयेत् ॥११३॥

मुने नासाद्यते तद्धि पदमक्षयमुच्यते ।कुतो जातेयमिति ते द्विज मास्तु विचारणा ॥११४॥

इमां कथमहं हन्मी-----Page------------------४४६--त्येषा तेऽस्तु विचारणा । अस्तङ्गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम्॥११५॥

यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् । तदस्या रोगशालायायत्नं कुरु चिदित्सने ॥११६॥

यथैषा जन्मदुःखेषु न भूयस्त्वां नियो-क्ष्यति । स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्छैश्चिदर्णवः ॥११७॥

एकात्मकम-खण्डं तदित्यन्तर्भाव्यतां दृढम् । किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्मया-र्णवे ॥११८॥

तन्मयैव स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे । आत्मन्येवात्मनाव्योम्नि यथा सरसि मारुतः ॥११९॥

तथैवात्माऽऽत्मशक्त्यैव स्वात्मन्येवैतिलोलताम् । क्षणं स्फुरति सा दैवी सर्वशक्तिंतया तथा ॥१२०॥

देशकाल-क्रियाशक्तिर्न यस्याः संप्रकर्षणे । स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता॥१२९॥

रूपं परिमितेनासौ भावयत्यविभाविता । यदैवं भावितं रूपंतया परमकान्तया ॥१२२॥

तदैवैनामनुगता नामसंख्यादिका दृशः ।विकल्पकलिताकारं देशकालक्रियास्पदम् ॥१२३॥

चितो रूपमिदं ब्रह्म-न्क्षेत्रज्ञ इति कथ्यते । वासनाः कल्प्लयन्सोऽपि यात्यहंकारतां पुनः ॥१२४॥

अहंकारो विनिर्णेता कलङ्की बुद्धिरुच्यते । बुद्धिः संकल्पिताकारा प्रयातिमननास्पदम् ॥१२५॥

मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः ।पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ॥१२६॥

एवं जीवो हिसंकल्पवासनारज्जवेष्टितः । दुःखजालपरीतात्मा क्रमादायाति नीचताम्॥१२७॥

इति शक्तिमयं चेतो घनाहंकारतां गतम् । कोशकारकृमिरिवस्वेच्छया याति बन्धनम् ॥१२८॥

स्वयं कल्पिततन्मात्राजालाभ्यन्तरवर्तिच । परां विवशतामेति शृङ्खलाबद्धसिंहवत् ॥१२९॥

क्वचिन्मनः क्वचिद्बुद्धिःक्वचिज्ज्ञानं क्वचित्क्रिया । क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् ॥१३०॥

क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् । क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेतिसंस्मृतम् ॥१३१॥

क्वचिद्बन्ध इति ख्यातं क्वचित्पुर्यष्टकं स्मृतम् । प्रोक्तं क्वचि-दविद्येति क्वचिदिच्छेति संमतम् ॥१३२॥

इमं संसारमखिलमाशापाशवि-धायकम् । दधदन्तःफलैर्हीनं वटधाना वटं यथा ॥१३३॥

चिन्तानलशि-खादग्धं कोपाजगरचर्वितम् । कामाब्धिकल्लोलरतं विस्मृतात्मपितामहम्॥१३४॥

समुद्धर मनो ब्रह्मन्मातङ्गमिव कर्दमात् । एवं जीवाश्रिता भावाभवभावनयाहिताः ॥१३५॥

ब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ कोटिशः ।संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः ॥१३६॥

उत्पत्स्यन्तेऽपि-----Page-----------------४४७--चैवान्ये कणौघा इव निर्झरात् । केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः॥१३७॥

केचिच्चासंख्यजन्मानः केचिद्द्वित्रिभवान्तराः । केचित्किन्नरगन्धर्व-विद्याधरमहोरगाः ॥१३८॥

केचिदर्केन्दुवरुणास्त्रयक्षाधोक्षजपद्मजाः । केचि-द्ब्राह्मणभूपालवैश्यशूद्रगणाः स्थिताः ॥१३९॥

केचित्तृणौषधीवृक्षफल-मूलपतङ्गकाः । केचित्कदम्बजम्बीरसालतालतमालकाः ॥१४०॥

केचिन्महे-न्द्रमलयसह्यमन्दरमेरवः । केचित्क्षारोदधिक्षीरघृतेक्षुजलराशयः ॥१४१॥

केचिद्विशालाः ककुभः केचिन्नद्यो महारयाः । विहायस्युच्चकैः केचिन्निपत-न्त्युत्पतन्ति च ॥१४२॥

कन्दुका इव हस्तेन मृत्युनाऽविरतं हताः । भुक्त्वाजन्मसहस्राणि भूयः संसारसंकटे ॥१४३॥

पतन्ति केचिदबुधाः संप्राप्यापिविवेकताम् । दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः ॥१४४॥

लीलयैवयदादत्ते दिक्कालकलितं वपुः । तदेव जीवपर्यायवासनावेशतः परम् ॥१४५॥

मनः संपद्यते लोलं कलनाऽऽकलनोन्मुखम् । कलयन्ती मनःशक्तिरादौ भाव-यति क्षणात् ॥१४३॥

आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् ।ततस्तद्घनतां यातं घनस्पन्दक्रमान्मनः ॥१४७॥

भावयत्यनिलस्पन्दं स्पर्श-बीजरसोन्मुखम् । ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः ॥१४८॥

शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः । रूपतन्मात्रसहितं त्रिभिस्तैः सहसंमितम् ॥१४९॥

मनस्तादृग्गुणगतं रसतन्मात्रवेदनम् । क्षणाच्चेतत्यपांशैत्यं जलसंवित्ततो भवेत् ॥१५०॥

ततस्तादृग्गुणगतं मनो भावयतिक्षणात् । गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत् ॥१५१॥

अथेत्थंभूत-तन्मात्रवेष्टितं तनुतां जहत् । वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति॥१५२॥

अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् । तत्पुर्यष्टकमित्युक्तं भूत-हृत्पद्मषट्पदम् ॥१५३॥

तस्मिंस्तु तीव्रसंवेगाद्भावयद्भासुरं वपुः । स्थूल-तामेति पाकेन मनो बिल्वफलं यथा ॥१५४॥

मूषास्थद्रुतहेमाभं स्फुरितंविमलाम्बरे । संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः ॥१५५॥

ऊर्ध्वं शिरः-पिण्डमयमधः पादमयं तथा । पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम्॥१५६॥

कालेन स्फुटतामेत्य भवत्यमलविग्रहम् । बुद्धिसत्त्वबलोत्साह-विज्ञानैश्वर्यसंस्थितः ॥१५७॥

स एव भगवान्ब्रह्मा सर्वलोकपितामहः ।अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ॥१५८॥

चिन्तामभ्येत्य भग-वांस्त्रिकालामलदर्शनः । एतस्मिन्परमाकाशे चिन्मात्रैकात्मरूपिणि ॥१५९॥


Page-----------------४४८--अदृष्टपारपर्यन्ते प्रथमं किं भवेदिति । इति चिन्तितवान्ब्रह्मा सद्योजाताम-लात्मदृक् ॥१६०॥

अपश्यत्स्वर्गवृन्दानि समतीतान्यनेकशः । स्मरत्यथो ससकलान्सर्वधर्मगुणक्रमात् ॥१६१॥

लीलया कल्पयामास चित्राः संकल्पतःप्रजाः । नानाजारसमारम्भो गन्धर्वनगरं यथा ॥१६२॥

तासां स्वर्गापव-र्गार्थं धर्मकामार्थसिद्धये । अनन्तानि विचित्राणि शास्त्राणि समकल्पयत्॥१६३॥

विरञ्चिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः । तावत्स्थितिरियंप्रोक्ता तन्नाशे नाशमाप्नुयात् ॥१६४॥

न जायते न म्रियते क्वचित्किंचित्क-दाचन । परमार्थेन विप्रेन्द्र मिथ्या सर्वं तु दृश्यते ॥१६५॥

कोशमाशा-भुजङ्गानां संसाराडम्बरं त्यज । असदेतदिति ज्ञात्वा मातृभावं निवेशय॥१६६॥

गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा । अविद्यांशे सुतादौ वा कःक्रमः सुखदुःखयोः ॥१६७॥

धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता ।वृद्धायां मोहमायायां कः समाश्वासवानिह ॥१६८॥

यैरेव जायते रागोमूर्खस्याधिकतां गतैः । तैरेव भागैः प्राज्ञस्य विराग उपजायते ॥१६९॥

अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः । नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर॥१७०॥

अनागतानां भोगानामवाञ्छनमकृत्रिमम् । आगतानां च संभोगैति पण्डितलक्षणम् ॥१७१॥

शुद्धं सदसतोर्मध्यं पदं बुद्ध्वावलम्ब्य च ।सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥१७२॥

यस्य चेच्छा तथा-निच्छा ज्ञस्य कर्मणि तिष्ठतः । न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः॥१७३॥

यदि ते नेन्द्रियार्थश्रीः स्पन्दते हृदि वै द्विज । तदा विज्ञातविज्ञेयासमुत्तीर्णो भवार्णवात् ॥१७४॥

उच्चैःपदाय परया प्रज्ञया वासनागणात् ।पुष्पाद्गन्धमपोह्यारं चेतोवृत्तिं पृथक्कुरु ॥१७५॥

संसाराम्बुनिधावस्मिन्वासना-म्बुपरिप्लुते । ये प्रज्ञानावमारूढास्ते तीर्णाः पण्डिताः परे ॥१७६॥

न त्यजन्तिन वाञ्छन्ति व्यवहारं जगद्गतम् । सर्वमेवानुवर्तन्ते पारावारविदो जनाः॥१७७॥

अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः । चितश्चेतोन्मुखत्वंयत्तत्संकल्पाङ्कुरं विदुः ॥१७८॥

लेशतः प्राप्तसत्ताकः स एव घनतां शनैः ।याति चित्तत्वमापूर्य दृढं जाड्याय मेघवत् ॥१७९॥

भावयन्ति चितिश्चैत्यंव्यतिरिक्तमिवात्मनः । संकल्पतामिवायाति बीजमङ्कुरतामिव ॥१८०॥

संकल्पनं हि संकल्पः स्वयमेव प्रजायते । वर्धते स्वयमेवाशु दुःखाय न-----Page-----------------४४९--सुखाय यत् ॥१८१॥

मा संकल्पय संकल्पं मा भावं भावय स्थितौ ।संकल्पनाशने यत्तो न भूयोऽननुगच्छति ॥१८२॥

भावनाभावमात्रेणसंकल्पः क्षियते स्वयम् । संकल्पेनैव संकल्पं मनसैव मनो मुने ॥१८३॥

छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् । क्यथैवेदं नभः शून्यं जग-च्छून्यं तथैव हि ॥१८४॥

तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।नश्यति क्रियया विप्र पुरुषस्य तथा मलम् ॥१८५॥

जीवस्य तण्डुलस्येवमलं सहजमप्यलम् । नश्यत्येव न संदेहस्तस्मादुद्योगवान्भवेत् ॥१८६॥

इति महोपनिषत्सु पञ्चमोऽध्यायः ॥५॥

अन्तरस्थां परित्यज्य भावश्रीं भावनामयीम् । योऽसि सोऽसि जगत्य-स्मिँल्लीलया विहरानघ ॥१॥

सर्वत्राहमकर्तेति दृढभावनयानया ।परमामृतनाम्नी सा समतैवावशिष्यते ॥२॥

खेदोल्लासविलासेषु स्वात्म-कर्तृतयैकया । स्वसंकल्पे क्षयं याते समतैवावशिष्यते ॥३॥

समतासर्वभावेषु यासौ सत्यपरा स्थितिः । तस्यामवस्थितं चित्तं न भूयो जन्म-भाग्भवेत् ॥४॥

अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने । सर्वं त्यक्त्वामनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥५॥

शेषस्थिरसमाधानो येनत्यजसि तत्त्यज । चिन्मनःकलनाकारं प्रकाशतिमिरादिकम् ॥६॥

वासनांवासितारं च प्राणस्पन्दनपूर्वकम् । समूलमखिलं त्यक्त्वा व्योमसाम्यःप्रशान्तधीः ॥७॥

हृदयात्संपरित्यज्य सर्ववासनपङ्क्तयः । यस्तिष्ठतिगतव्यग्रः स मुक्तः परमेश्वरः ॥८॥

दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्यादिशो दश । युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ॥९॥

सबा-ह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च । इत आत्मा ततोऽप्यात्मा नास्त्य-नात्ममयं जगत् ॥१०॥

न तदस्ति न यत्राहं न तदस्ति न तन्मयम् ।किमन्यदभिवाञ्छामि सर्वं सच्चिन्मयं ततम् ॥११॥

समस्तं खल्विदंब्रह्म सर्वमात्मेदमाततम् । अहमन्य इदं चान्यदिति भ्रान्तिं त्यजानघ॥१२॥

तते ब्रह्मघने नित्ये संभवन्ति न कल्पिताः । न शोकोऽस्ति नमोहोऽस्ति न जराऽस्ति न जन्म वा ॥१३॥

यदस्तीह तदेवास्ति विज्वरोभव सर्वदा । यथाप्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् ॥१४॥

त्यागा-द्दानपरित्यागी विज्वरो भव सर्वदा । यस्येदं जन्म पाश्चात्त्यं तमाश्वेव-----Page-----------------४५०--महामते ॥१५॥

विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् । विरक्त-मनसां सम्यक्स्वप्रसङ्गादुदाहृतम् ॥१६॥

द्रष्टुर्दृश्यसमायोगात्प्रत्यया-नन्दनिश्चयः । यस्तं स्वमात्मतत्त्वोत्थं निष्पन्दं समुपास्महे ॥१७॥

द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रत्ययाभासमात्मानं समु-पास्महे ॥१८॥

द्वयोर्मध्यगतं नित्यमस्ति नास्तीतिपक्षयोः । प्रकाशनंप्रकाशानामात्मानं समुपास्महे ॥१९॥

संत्यज्य हृद्गुहेशानं देवमन्यंप्रयान्ति ये । ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥२०॥

उत्थि-तानुत्थितानेतानिन्द्रियारीन्पुनः पुनः । हन्याद्विवेकदण्डेन वज्रेणेव हरि-र्गिरीन् ॥२१॥

संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे । सर्वमेवा-पवित्रं तद्दृष्टं संसृतिविभ्रमम् ॥२२॥

अज्ञानोपहतो बाल्ये यौवने वनिता-हतः । शेषे कलत्रचिन्तार्तः किं करोति नराधमः ॥२३॥

सतोऽसत्तास्थिता मूर्ध्नि रम्याणां मूÞर्यरम्यता । सुखानां मूर्ध्नि दुःखानि किमेकं संश्र-याम्यहम् ॥२४॥

येषां निमेषणोन्मेषौ जगतः प्रलयोदयौ । तादृशाःपुरुषा यान्ति मादृशां गणनैव का ॥२५॥

संसार एव दुःखानां सीमान्तैति कथ्यते । तन्मध्ये पतिते देहे सुखमासाद्यते कथम् ॥२६॥

प्रबु-द्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्चोरोऽयमात्मनः । मनो नाम निहन्म्येनं मन-साऽस्मि चिरं हृतः ॥२७॥

मा खेदं भज हेयेषु नोपादेयपरो भव । हेयादेय-दृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव ॥२८॥

निराशता निर्भयतानित्यता समता ज्ञता । निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥२९॥

धृतिर्मैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता । हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवा-सनम् ॥३०॥

गृहीततृष्णाशबरीवासनाजालमाततम् । संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥३१॥

अनया तीक्ष्णया तात छिन्धिबुद्धिशलाकया । वात्ययेवाम्बुदं जालं छित्त्वा तिष्ठ तते पदे ॥३२॥

मनसैव मनश्छित्त्वा कुठारेणेव पादपम् । पदं पावनमासाद्य सद्य एवस्थिरो भव ॥३३॥

तिष्ठन्गच्छन्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् । असदेवेद-मित्यन्तं निश्चित्यास्थां परित्यज ॥३४॥

दृश्यमाश्रयसीदं चेत्तत्सच्चित्तोऽसिबन्धवान् । दृश्यं संत्यजसीदं चेत्तदाऽचित्तोऽसि मोक्षवान् ॥३५॥

नाहंनेदमिति ध्यायँस्तिष्ठ त्वमचलाचलः । आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे॥३६॥

दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव । स्वाद्यस्वादकसंत्यक्तं-----Page-----------------४५१--स्वाद्यस्वादकमध्यगम् ॥३७॥

स्वदनं केवलं ध्यायन्परमात्ममयो भव ।अवलम्ब्य निरालम्बं मध्ये मध्ये स्थिरो भव ॥३८॥

रज्जुबद्धा विमु-च्यन्ते तृष्णाबद्धा न केनचित् । तस्मान्निदाघ तृष्णां त्वं त्यज संकल्पवर्जनात्॥३९॥

एतामहंभावमयीमपुण्यां छित्त्वाऽनहंभावशलाकयैव । स्वभा-वजां भव्यभवान्तभूमौ भव प्रशान्ताखिलभूतभीतिः ॥४०॥

अहमेषांपदार्थानामेते च मम जीवितम् । नाहमेभिर्विना किंचिन्न मयैते विना किल॥४१॥

इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह । नाहं पदार्थस्यन मे पदार्थ इति भाविते ॥४२॥

अन्तःशीतलया बुद्ध्या कुर्वतो लीलयाक्रियाम् । यो नूनं वासनात्यागो ध्येयो ब्रह्मन्प्रकीर्तितः ॥४३॥

सर्वंसमतया बुद्ध्या यः कृत्वा वासनाक्षयम् । जहाति निर्ममो देहं नेयोऽसौवासनाक्षयः ॥४४॥

अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥४५॥

निर्मूलं कलनांत्यक्त्वा वासनां यः शमं गतः । ज्ञेयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणो-त्तमम् ॥४६॥

द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ । आपतत्सुयथाकालं सुखदुःखेष्वनारतौ । संन्यासियोगिनौ दान्तौ विद्धि शान्तौमुनीश्वर ॥४७॥

ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु । सुषुप्तवद्य-श्चरति स जीवन्मुक्त उच्यते ॥४८॥

हर्षामर्षभयक्रोधकामकार्पण्य-दृष्टिभिः । न हृष्यति ग्लायति यः परामर्शविवर्जितः ॥४९॥

बाह्यार्थवासनो-द्भूता तृष्णा बद्धेति कथ्यते । सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति भण्यते॥५०॥

इदमस्तु ममेत्यन्तमिच्छां प्रार्थनयान्विताम् । तां तीक्ष्ण-शृङ्खलां विद्धि दुःखजन्मभयप्रदाम् ॥५१॥

तामेतां सर्वभावेषु सत्स्व-सत्सु च सर्वदा । संत्यज्य परमोदारं पदमेति महामनाः ॥५२॥

बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि । त्यक्त्वा सदसदास्थां त्वं तिष्ठा-ऽक्षुब्धमहाब्धिवत् ॥५३॥

जायते निश्चयः साधो पुरुषस्य चतुर्विधः॥५४॥

आ पादमस्तकमहं मातापितृविनिर्मितः । इत्येको निश्चयो ब्रह्मन्बन्धा-यासविलोकनात् ॥५५॥

अतीतः सर्वभावेभ्यां वालाग्रादप्यहं तनुः ।इति द्वितीयो मोक्षाय निश्चयो जायते सताम् ॥५६॥

जगज्जालपदार्थात्मासर्व एवाहमक्षयः । तृतीयो निश्चयश्चोक्तो मोक्षायैव द्विजोत्तम ॥५७॥


Page-----------------४५२--अहं जगद्वा सकलं शून्यं व्योम समं सदा । एवमेष चतुर्थोऽपि निश्चयोमोक्षसिद्धिदः ॥५८॥

एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया ।शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्ता विलासिनः ॥५९॥

सर्वं चाप्यहमे-वेति निश्चयो यो महामते । तमादाय विषादाय न भूयो जायते मतिः॥६०॥

शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि । शिवः पुरुष ईशानोनित्यमात्मेति कथ्यते ॥६१॥

द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया ।परमात्ममयी शक्तिरद्वैतैव विजृम्भते ॥६२॥

सर्वातीतपदालम्बी परि-पूर्णैकचिन्मयः । नोद्वेगी न च तुष्टात्मा संसारे नावसीदति ॥६३॥

प्राप्तकर्मकरो नित्यं शत्रुमित्रसमानदृक् । ईहितानीहितैर्मुक्तो न शोचति नकाङ्क्षति ॥६४॥

सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् । आश-यज्ञश्च भूतानां संसारे नावसीदति ॥६५॥

पूर्वां दृष्टिमवष्टभ्य ध्येय-त्यागविलासिनीम् । जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः ॥६६॥

अन्तःसंत्यक्तसर्वाशो वीतरागो विवासनः । बहिःसर्वसमाचारो लोकेविहर विज्वरः ॥६७॥

बहिःकृत्रिमसंरम्भो हृदि संरम्भवर्जितः । कर्ताबहिरकर्ताऽन्तर्लोके विहर शुद्धधीः ॥६८॥

त्यक्ताहंकृतिराश्वस्तमतिराकाश-शोभनः । अगृहीतकलङ्काङ्को लोके विहर शुद्धधीः ॥६९॥

उदारःपेशलाचारः सर्वाचारानुवृत्तिमान् । अन्तःसङ्गपरित्यागी बहिःसंभार-वानिव । अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः ॥७०॥

अयं बन्धु-रयं नेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम्॥७१॥

भावाभावविनिर्मुक्तं जरामरणवर्जितम् । प्रशान्तकलनारम्यंनीरागं पदमाश्रय ॥७२॥

एषा ब्राह्मी स्थितिः स्वच्छा निष्कामाविगतामया । आदाय विहरन्नेवं संकटेषु न मुह्यति ॥७३॥

वैराग्येणाथशास्त्रेण महत्त्वादिगुणैरपि । यत्संकल्पहरार्थं तत्स्वयमेवोन्नयन्मनः ॥७४॥

वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् । अशया रक्ततामेति शरदीवसरोऽमलम् ॥७५॥

तमेव भुक्तिविरसं व्यापारौघं पुनः पुनः । दिवसेदिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते ॥७६॥

चिच्चैत्यकलितो बन्धस्तन्मुक्तौमुक्तिरुच्यते । चिदचैत्या किलात्मेति सर्वसिद्धान्तसंग्रहः ॥७७॥

एतन्निश्चयमादाय विलोकय धियेद्धया । स्वयमेवात्मनात्मानमानन्दं-----Page-----------------४५३--पदमाप्स्यसि ॥७८॥

चिदहं चिदिमे लोकाश्चिदाशाश्चिदिमाः प्रजाः ।दृश्यदर्शननिर्मुक्तः केवलामलरूपवान् ॥७९॥

नित्योदितो निराभासोद्रष्टा साक्षी चिदात्मकः ॥८०॥

चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिःस्वरूप-कम् । संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत् ॥८१॥

संशान्त-सर्वसंकल्पः प्रशान्तसकलेषणः । निर्विकल्पपदं गत्वा स्वस्थो भवमुनीश्वर ॥८२॥

इति । य इमां महोपनिषदं ब्राह्मणो नित्यमधीते ।अश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति । सोऽग्निपूतोभवति । स वायुपूतो भवति । स सोमपूतो भवति । स सत्यपूतोभवति । स सर्वपूतो भवति । स सर्वैर्देवैर्ज्ञातो भवति । स सर्वेषुतीर्थेषु स्नातो भवति । स सर्वैर्देवैरनुध्यातो भवति । स सर्वक्रतुभिरिष्ट-वान्भवति । गायत्र्याः षष्टिसहस्राणि जप्तानि फलानि भवन्ति । इतिहास-पुराणानां शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतं जप्तंभवति । आ चक्षुषः पङ्क्तिं पुनाति । आ सप्तमान्पुरुषयुगान्पुनाति । इत्याहभगवान्हिरण्यगर्भः । जप्येनामृतत्वं च गच्छतीत्युपनिषत् ॥८३॥

ॐ आप्यायन्त्विति शान्तिः ॥ ॐ तत्सत् ॥इति महोपनिषत्सु षष्ठोऽध्यायः ॥६॥

इति महोपनिषत्समाप्ता ॥६४॥

शरीरकोपनिषत् ॥६५॥सम्पाद्यताम्

तत्त्वग्रामोपायसिद्धं परतत्त्वस्वरूपकम् ।शरीरोपनिषद्वेद्यं श्रीरामब्रह्म मे गतिः ॥ॐ स ह नाववत्विति शान्तिः ॥ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् । यत्कठिनं सापृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिरं तदाका-शम् । श्रोत्रादीनि ज्ञानेन्द्रियाणि । श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षुरप्सुजिह्वा पृथिव्यां घ्राणमिति । एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरस-गन्धाश्चेति विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः । वाक्पाणिपादपायूप-स्थाख्यानि कर्मेन्द्रियाणि । तेषां क्रमेण वचनादानगमनविसर्गानन्दाश्चैते-----Page-----------------४५४--विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः । मनोबुद्धिरहंकारश्चित्तमित्यन्तः-करणचतुष्टयम् । तेषां क्रमेण संकल्पविकल्पाध्यवसायाभिमानावधारणास्वरूपा-श्चैते विषयाः । मनःस्थानं गलान्तं बुद्धेर्वदनमहंकारस्य हृदयं चित्तस्यनाभिरिति । अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः । मूत्रश्लेष्मरक्तशुक्र-स्वेदा अबंशाः । क्षुत्तृष्णालस्यमोहमैथुनान्यग्नेः । प्रचारणविलेखनस्थूलाद्यु-न्मेषनिमेषादि वायोः । कामक्रोधलोभमोहभयान्याकाशस्य । शब्दस्पर्शरूप-रसगन्धाः पृथिवीगुणाः । शब्दस्पर्शरूपरसाश्चापां गुणाः । शब्दस्पर्शरूपाण्य-ग्निगुणाः । शब्दस्पर्शाविति वायुगुणौ । शब्द एक आकाशस्य । सात्त्विकरा-जसतामसलक्षणानि त्रयो गुणाः ॥ अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ।अक्रोधो गुरुशुश्रूषा शौचं संतोष आर्जवम् ॥१॥

अमानित्वमदम्भित्वमा-स्तिकत्वमहिंस्रता । एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ॥२॥

अहंकर्ताऽस्म्यहं भोक्ताऽस्म्यहं वक्ताऽभिमानवान् । एते गुणा राजसस्य प्रोच्यन्तेब्रह्मवित्तमैः ॥३॥

निद्रालस्ये मोहरागौ मैथुनं चौर्यमेव च । एते गुणा-स्तामसस्य प्रोच्यन्ते ब्रह्मवादिभिः ॥४॥

ऊर्ध्वे सात्त्विको मध्ये राजसोऽध-स्तामस इति । सत्यज्ञानं सात्त्विकम् । धर्मज्ञानं राजसम् । तिमिरान्धं ताम-समिति । जाग्रत्स्वप्नसुषुप्तितुरीयमिति चतुर्विधा अवस्थाः । ज्ञानेन्द्रियकर्मे-न्द्रियान्तःकरणचतुष्टयं चतुर्दशकरणयुक्तं जाग्रत् । अन्तःकरणचतुष्टयैरेवसंयुक्तः स्वप्नः । चित्तैककरणा सुषुप्तिः । केवलजीवयुक्तमेव तुरीयमिति ।उन्मीलितनिमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इतिविज्ञायते । बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । शरीरं सप्तदशभिः सुसूक्ष्मंलिङ्गमुच्यते ॥५॥

मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः । एताः प्रकृ-तयस्त्वष्टौ विकाराः षोडशापरे ॥६॥

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तुपञ्चमम् । पायूपस्थौ करौ पादौ वाक्चैव दशमी मता ॥७॥

शब्दः स्पर्शश्चरूपं च रसो गन्धस्तथैव च । त्रयोविंशतिरेतानि तत्त्वानि प्रकृतानि तु ॥८॥

चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः ॥९॥

इत्युपनिषत् ॥ ॐ तत्सत् ॥ॐ स ह नाववत्विति शान्तिः ॥इति शारीरकोपनिषत्समाप्ता ॥६५॥


Page-----------------४५५--

योगशिखोपनिषत् ॥६६॥सम्पाद्यताम्

योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते । तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥

ॐ स ह नाववत्विति शान्तिः ॥ सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः । तेषां मुक्तिः कथं देव कृपयावद शंकर ॥१॥

सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् । जन्ममृत्यु-जराव्याधिनाशनं सुखदं वद ॥२॥

इति हिरण्यगर्भः पप्रच्छ स होवाच महे-श्वरः । नानामागैंस्तु दुष्प्रापं कैवल्यं परमं पदम् ॥३॥

सिद्धिमार्गेण लभतेनान्यथा पद्मसंभव पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥४॥

स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते । निष्कलं निर्मलं शान्तं सर्वातीतंनिरामयम् ॥५॥

तदेव जीवरूपेण पुण्यपापफलैवृतम् । परमात्मपदं नित्यंतत्कथं जीवतां गतम् ॥६॥

तत्त्वातीतं महादेव प्रसादात्कथयेश्वर । सर्व-भावपदातीतं ज्ञानरूपं निरञ्जनम् ॥७॥

वायुवत्स्फुरितं स्वस्मिंस्तत्राहंकृति-रुत्थिता । पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥८॥

सुखदुःखैःसमायुक्तं जीवभावनया कुरु । तेन जीवाभिधा प्रोक्ता विशुद्धे परमात्मनि॥९॥

कामक्रोधभयं चापि मोहलोभमथो रजः । जन्म मृत्युश्च कार्पण्यंशोकस्तन्द्रा क्षुधा तृषा ॥१०॥

तृष्णा लज्जा भयं दुःखं विषादो हर्ष एवच । एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव उच्यते ॥११॥

तस्माद्दोषविनाशार्थ-मुपायं कथयामि ते । ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये ॥१२॥

योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः । योगोऽपि ज्ञानहीनस्तु न क्षमोमोक्षकर्मणि ॥१३॥

तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् । ज्ञानस्व-रूपमेवादौ ज्ञेयं ज्ञानैकसाधनम् ॥१४॥

अज्ञानं कीदृशं चेति प्रविचार्यंमुमुक्षुणा । ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् ॥१५॥

असौ दोषैर्वि-निर्मुक्तः कामक्रोधभयादिभिः । सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते॥१६॥

स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा । कामक्रोधादिदोषाणांस्वरूपान्नास्ति भिन्नता ॥१७॥

पश्चात्तस्य विधिः किंनु निषेधोऽपि कथंभवेत् । विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः ॥१८॥

परिपूर्णस्वरूपं-----Page-----------------४५६--तत्सत्यं कमलसंभव । सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि ॥१९॥

कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम् । निष्कलं निर्मलं साक्षात्सकलंगगनोपमम् ॥२०॥

उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् । एतद्रूपंसमायातः स कथं मोहसागरे ॥२१॥

निमज्जति महाबाहो त्यक्त्वा विद्यांपुनः पुनः । सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः ॥२२॥

तथा-ज्ञानी यदातिष्ठेद्वासनावासितस्तदा । तयोर्नास्ति विशेषोऽत्र समा संसार-भावना ॥२३॥

ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः । ज्ञाननिष्ठो विर-क्तोऽपि धर्मज्ञो विजितेन्द्रियः ॥२४॥

विना देहेन योगेन न मोक्षं लभतेविधे । अपक्वाः परिपक्वाश्च देहिनो द्विविधाः स्मृताः ॥२५॥

अपक्वा योग-हीनास्तु पक्वा योगेन देहिनः । सर्वो योगाग्निना देहो ह्यजडः शोकवर्जितः॥२६॥

जडस्तु पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत् । ध्यानस्थोऽसौ तथा-प्येवमिन्द्रियैर्विशो भवेत् ॥२७॥

तानि गाढं नियम्यापि तथाप्यन्यैःप्रबाध्यते । शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा ॥२८॥

अन्यैर्नाना-विधैर्जीवैः शस्त्राग्निजलमारुतैः । शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः॥२९॥

तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः । ततो दुःखशतैर्व्याप्तंचित्तं क्षुब्धं भवेन्नृणाम् ॥३०॥

देहावसानसमये चित्ते यद्यद्विभावयेत् ।तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् ॥३१॥

देहान्ते किं भवेज्जन्म तन्नजानन्ति मानवाः । तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः ॥३२॥

पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते । असौ किं वृश्चिकैर्दष्टो देहान्तेवा कथं सुखी ॥३३॥

तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः ।अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै ॥३४॥

देहस्त्वपि भवेन्नष्टो व्याध-यश्चास्य किं पुनः । जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति ॥३५॥

यदायदा परिक्षीणा पुष्टा चाहंकृतिर्भवेत् । तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगा-दयः ॥३६॥

कारणेन विना कार्यं न कदाचन विद्यते । अहंकारं विना तद्व-द्देहे दुःखं कथं भवेत् ॥३७॥

शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् ।तत्कथं कुरुते तेषां सुखदुःखादिकं फलम् ॥३८॥

इन्द्रियाणि मनो बुद्धिःकामक्रोधादिकं जितम् । तेनैव विजितं सर्वं नासौ केनापि बाध्यते ॥३९॥

महाभूतानि तत्त्वानि संहृतानि क्रमेण च । सप्तधातुमयो देहो दग्धो योगा-----Page------------------४५७--ग्निना शनैः ॥४०॥

देवैरपि न लक्ष्येत योगिदेहो महाबलः । भेदबन्ध-विनिर्मुक्तो नानाशक्तिधरः परः ॥४१॥

यथाऽऽकाशस्तथा देह आकाशादपिनिर्मलः । सूक्ष्मात्सूक्ष्मतरो दृश्यः स्थूलात्स्थूलो जडाज्जडः ॥४२॥

इच्छा-रूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः । क्रीडते त्रिषु लोकेषु लीलया यत्र-कुत्रचित् ॥४३॥

अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत् । संहरेच्चपुनस्तानि स्वेच्छया विजितेन्द्रियः ॥४४॥

नासौ मरणमाप्नोति पुनर्योग-बलेन तु । हठेन मृत एवासौ मृतस्य मरणं कुतः ॥४५॥

मरणं यत्र सर्वेषांतत्रासौ परिजीवति । यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै ॥४६॥

कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते । जीवन्मुक्तः सदा स्वच्छः सर्व-दोषविवर्जितः ॥४७॥

विरक्ता ज्ञानिनश्चान्ये देहेन विजितः सदा । तेकथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः ॥४८॥

देहान्ते ज्ञानिभिःपुण्यात्पापाच्च फलमाप्यते । ईदृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत् ॥४९॥

पश्चाश्पुण्येन लभते सिद्धेन सह सङ्गतिम् । ततः सिद्धस्य कृपया योगीभवति नान्यथा ॥५०॥

ततो नश्यति संसारो नान्यथा शिवभाषितम् ।योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे ॥५१॥

ज्ञानेनैव विना योगो नसिध्यति कदाचन । जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते ॥५२॥

ज्ञानंतु जन्मनैकेन योगादेव प्रजायते । तस्माद्योगात्परतरो नास्ति मार्गस्तुमोक्षदः ॥५३॥

प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते । किमसौ मन-नादेव मुक्तो भवति तत्क्षणात् ॥५४॥

पश्चाज्जन्मान्तरशतैर्योगादेव विमु-च्यते । न तथा भवतो योगाज्जन्ममृत्यू पुनःपुनः ॥५५॥

प्राणापानसमा-योगाच्चन्द्रसूर्यैकता भवेत् । सप्तधातुमयं देहमग्निना रञ्जयेद्ध्रुवम् ॥५६॥

व्याधयस्तस्य नश्यन्ति छेदखातादिकास्तथा । तदासौ परमाकाशरूपो देह्यव-तिष्ठति ॥५७॥

किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै । देहीव दृश्यतेलोके दग्धकर्पूरवत्स्वयम् ॥५८॥

चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थि-तम् । रज्ज्वा यद्वत्सुसंबद्धः पक्षी तद्वदिदं मनः ॥५९॥

नानाविधैर्विचारैस्तुन बाध्यं जायते मनः । तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा ॥६०॥

तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः । न वशो जायते प्राणः सिद्धोपायंविना विधे ॥६१॥

उपायं तमविज्ञाय योगमार्गे प्रवर्तने । खण्डज्ञानेन-----Page-----------------४५८--सहसा जायते क्लेशवत्तरः ॥६२॥

यो जित्वा पवनं मोहाद्योगमिच्छतियोगिनाम् । सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्छति ॥६३॥

यस्य प्राणोविलीनोऽन्तः साधके जीविते सति । पिण्डो न पतितस्तस्य चित्तं दोषैःप्रबाधते ॥६४॥

शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते । तस्माज्ज्ञानंभवेद्योगाज्जन्मनैकेन पद्मज ॥६५॥

तस्माद्योगं तमेवादौ साधको नित्यम-भ्यसेत् । मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे ॥६६॥

योगात्परतरंपुण्यं योगात्परतरं शिवम् । योगात्परतरं सूक्ष्मं योगात्परतरं नहि ॥६७॥

योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा । सूर्याचन्द्रमसोर्योगो जीवात्मपर-मात्मनोः ॥६८॥

एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते । अथ योग-शिखां वक्ष्ये सर्वज्ञानेषु चोत्तमाम् ॥६९॥

यदानुध्यायते मन्त्रं गात्र-कम्पोऽथ जायते । आसनं पद्मकं बद्ध्वा यच्चान्यदपि रोचते ॥७०॥

नासाग्रेदृष्टिमारोप्य हस्तपादौ च संयतौ । मनः सर्वत्र संगृह्य ॐकारं तत्र चिन्त-येत् ॥७१॥

ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेश्वरम् । एकस्तम्भे नवद्वारेत्रिस्थूणे पञ्चदैवते ॥७२॥

ईदृशे तु शरीरे वा मतिमान्नोपलक्षयेत् । आदि-त्यमण्डलाकारं रश्मिज्वालासमाकुलम् ॥७३॥

तस्य मध्यगतं वह्निं प्रज्ज्वले-द्दीपवर्तिवत् । दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे ॥७४॥

भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः । द्वितीयं सुषुम्नाद्वारं परिशुभ्रंसमर्पितम् ॥७५॥

कपालसंपुटं पीत्वा ततः पश्यति तत्पदम् । अथ नध्यायते जन्तुरालस्याच्च प्रमादतः ॥७६॥

यदि त्रिकालमागच्छेत्स गच्छेत्पुण्य-संपदम् । पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया ॥७७॥

लब्धयोगोऽथबुध्येत प्रसन्नं परमेश्वरम् । जन्मान्तरसहस्रेषु यदा क्षीणं तु किल्बिषम् ॥७८॥

तदा पश्यति योगेन संसारोच्छेदनं महत् । अधुना संप्रवक्ष्यामि योगा-भ्यासस्य लक्षणम् ॥७९॥

मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा । गुरुवस्त्र-प्रसादेन कुर्यात्प्राणजयं बुधः ॥८०॥

वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृ-तम् । मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम् ॥८१॥

निरुध्य मारुतं गाढंशक्तिचालनयुक्तितः । अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् ॥८२॥

पायोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्तदा । मृत्युचक्रगतस्यापि तस्य मृत्युभयंकुतः ॥८३॥

एतदेव परं गुह्यं कथितं तु मया तव । वज्रासनगतो नित्य-----Page------------------४५९--मूर्ध्वाकुञ्चनमभ्यसेत् ॥८४॥

वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत् ।संतप्ता साग्निना जीवशक्तिस्त्रैलोक्यमोहिनी ॥८५॥

प्रविशेच्चन्द्रतुण्डे तुसुषुम्नावदनान्तरे । वायुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा ॥८६॥

विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति । ततस्तु कुम्भकैर्गाढं पूरयित्वापुनः पुनः ॥८७॥

अथाभ्यसेत्सूर्यभेदमुज्जायीं चापि शीतलीम् । भस्त्रांच सहितो नाम स्याच्चतुष्टयकुम्भकः ॥८८॥

बन्धत्रयेण संयुक्तः केवल-प्राप्तिकारकः । अथास्य लक्षणं सम्यक्कथयामि समासतः ॥८९॥

एका-किना समुपगम्य विविक्तदेशं प्राणादिरूपममृतं परमार्थतत्त्वम् । लघ्वाशिनाधृतिमता परिभावितव्यं संसाररोगहरमौषधमद्वितीयम् ॥९०॥

सूर्यनाड्यासमाकृष्य वायुमभ्यासयोगिना । विधिवत्कुम्भकं कृत्वा रेचयेच्छीतरश्मिना॥९१॥

उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च । मुहुर्मुहुरिदं कार्यंसूर्यभेदमुदाहृतम् ॥९२॥

नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोःक्षिपेत् । धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः ॥९३॥

कण्ठे कफादि-दोषघ्नं शरीराग्निविवर्धनम् । नाडीजलापहं धातुगतदोषविनाशनम् ॥९४॥

गच्छतस्तिष्ठतः कार्यमुज्जाय्याख्यं तु कुम्भकम् । मुखेन वायुं संगृह्य घ्राण-रन्ध्रेण रेचयेत् ॥९५॥

शीतलीकरणं चेदं हन्ति पित्तं क्षुधां तृषाम् ।स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः ॥९६॥

रेचयेत्पूरयेद्वायुमाश्रमंदेहगं धिया । यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् ॥९७॥

कण्ठसंकोचनंकृत्वा पुनश्चन्द्रेण रेचयेत् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥९८॥

कुण्डलीबोधकं वक्त्रदोषघ्नं शुभदं सुखम् । ब्रह्मनाडीमुखान्तःस्थकफाद्यर्गल-नाशनम् ॥९९॥

सम्यग्बन्धसमुद्भूतं ग्रन्थित्रयविभेदकम् । विशेषेणैवकर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥१००॥

बन्धत्रयमथेदानीं प्रवक्ष्यामियथाक्रमम् । नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात् ॥१०१॥

चतु-र्णामपि भेदानां कुम्भके समुपस्थिते । बन्धत्रयमिदं कार्यं वक्ष्यमाणं मयाहि तत् ॥१०२॥

प्रथमो मूलबन्धस्तु द्वितीयोड्डीयनाभिधः । जालन्धर-स्तृतीयस्तु लक्षणं कथयाम्यहम् ॥१०३॥

गुदं पार्ष्ण्या तु संपीड्यपायुमाकुञ्चयेद्बलात् । वारंवारं यथा चोर्ध्वं समायाति समीरणः ॥१०४॥

प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं गच्छतो-----Page-----------------४६०--नात्र संशयः ॥१०५॥

कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ।बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥१०६॥

तस्मादुड्डीयनाख्योऽयंयोगिभिः समुदाहृतः । उड्डियानं तु सहजं गुरुणा कथितं सदा ॥१०७॥

अभ्यसेत्तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत् । नाभेरूर्ध्वमधश्चापि ताणंकुर्यात्प्रयत्नतः ॥१०८॥

षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः । पूर-कान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ॥१०९॥

कण्ठसंकोचरूपोऽसौवायुमार्गनिरोधकः । कण्ठमाकुञ्च्य हृदये स्थापयेद्वृढमिच्छया ॥११०॥

बन्धो जालन्धराख्योऽयममृताप्यायकारकः । अधस्तात्कुञ्चनेनाशु कण्ठसंको-चने कृते ॥१११॥

मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः । वज्रा-सनस्थितो योगी चालयित्वा तु कुण्डलीम् ॥११२॥

कुर्यादनन्तरं भस्त्रींकुण्डलीमाशु बोधयेत् । भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया ॥११३॥

तथैव पृष्ठवंशः स्याद्ग्रन्थिभेदस्तु वायुना । पिपीलिकायां लग्नायां कण्डूस्तत्रप्रवर्तते ॥११४॥

सुषुम्नायां तथाऽभ्यासात्सततं वायुना भवेत् ।रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकम् ॥११५॥

चन्द्रसूर्यौसमौ कृत्वा तयोर्योगः प्रवर्तते । गुणत्रयमतीतं स्याद्ग्रन्थित्रयवि-भेदनात् ॥११६॥

शिवशक्तिसमायोगे जायते परमा स्थितिः । यथाकरी करेणैव पानीयं प्रपिबेत्सदा ॥११७॥

सुषुम्नावज्रनालेन पवमानंग्रसेत्तथा । वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः ॥११८॥

सुषुम्नायांस्थिताः सर्वे सूत्रे मणिगणा इव । मोक्षमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी॥११९॥

यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात् । आपूर्य कुम्भितोवायुर्बहिर्नो याति साधके ॥१२०॥

पुनः पुनस्तद्वदेव पश्चिमद्वारलक्षणम् ।पूरितस्तु स तद्द्वारैरीषत्कुम्भकतां गतः ॥१२१॥

प्रविशेत्सर्वगात्रेषु वायुःपश्चिममार्गतः । रेचितः क्षीणतां याति पूरितः पोषयेत्ततः ॥१२२॥

यत्रैवजातं सकलेवरं मनस्तत्रैव लीनं कुरुते स योगात् । स एव मुक्तो निरहंकृतिःसुखी मूढा न जायन्ति हि पिण्डपातिनः ॥१२३॥

चित्तं विनष्टं यदिभासितं स्यात्तत्र प्रतीतो मरुतोऽपि नाशः । न चेद्यदि स्यान्न तु तस्य शास्त्रंनात्मप्रतीतिर्न गुरुर्न मोक्षः ॥१२४॥

जलौका रुधिरं यद्वद्बलादाकर्षतिस्वयम् । ब्रह्मनाडी तथा धातून्संतताभ्यासयोगतः ॥१२५॥

अनेनाभ्यास-----Page------------------४६१--योगेन नित्यमासनबन्धतः । चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा॥१२६॥

रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् । नाना नादाःप्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् ॥१२७॥

नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषा-स्ततस्तदा । स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् ॥१२८॥

कथितंतु तव प्रीत्या ह्येतदभ्यासलक्षणम् । मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाःक्रमात् ॥१२९॥

एक एव चतुर्धाऽयं महायोगोऽभिधीयते । हकारेण बहि-र्याति सकारेण विशेत्पुनः ॥१३०॥

हंसहंसेति मन्त्रोऽयं सर्वैर्जीवैश्च जप्यते ।गुरुवाक्यात्सुषुम्नायां विपरितो भवेज्जपः ॥१३१॥

सोऽहंसोऽहमिति प्रोक्तोमन्त्रयोगः स उच्यते । प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि ॥१३२॥

हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते । सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधी-यते ॥१३३॥

हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम् । क्षेत्रज्ञः परमात्माच तयोरैक्यं यदा भवेत् ॥१३४॥

तदैक्ये साधिते ब्रह्मंश्चित्तं याति विली-नताम् । पवनः स्थैर्यमायाति लययोगोदये सति ॥१३५॥

लयात्संप्राप्यतेसौख्यं स्वात्मानन्दं परं पदम् । योनिमध्ये महाक्षेत्रे जपाबन्धूकसंनिभम्॥१३६॥

रजो वसति जन्तूनां देवीतत्त्वं समावृतम् । रजसो रेतसो योगा-द्राजयोग इति स्मृतः ॥१३७॥

अणिमादिपदं प्राप्य राजते राजयोगतः ।प्राणापानसमायोगो ज्ञेयं योगचतुष्टयम् ॥१३८॥

संक्षेपात्कथितं ब्रह्मन्ना-न्यथा शिवभाषितम् । क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा ॥१३९॥

एकेनैव शरीरेण योगाभ्यासाच्छनैःशनैः । चिरात्संप्राप्यते मुक्तिर्मर्कटक्रमएव सः ॥१४०॥

योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति । पूर्ववास-नया युक्तः शरीरं चान्यदाप्नुयात् ॥१४१॥

ततः पुण्यवशात्सिद्धो गुरुणासह संगतः । पश्चिमद्वारमार्गेण जायते त्वरितं फलम् ॥१४२॥

पूर्वजन्मकृताभ्यासात्सत्वरं फलमश्नुते । एतदेव हि विज्ञेयं तत्काकमतमुच्यते ॥१४३॥

नास्ति काकमतादन्यदभ्यासाख्यमतः परम् । तेनैव प्राप्यते मुक्तिर्नान्यथाशिवभाषितम् ॥१४४॥

हठयोगक्रमात्काष्ठासहजीवलयादिकम् । प्राकृतंमोक्षमार्गं स्यात्प्रसिद्धं पश्चिमं विना ॥१४५॥

आदौ रोगाः प्रणश्यन्तिपश्चाज्जाढ्यं शरीरजम् । ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम् ॥१४६॥

धातूंश्च संग्रहेद्वह्निः पवनेन समन्ततः । नाना नादाः प्रवर्तन्ते भार्दवं स्यात्क-----Page------------------४६२--लेवरे ॥१४७॥

जित्वा वृष्ठ्यादिकं जाड्यं खेचरः स भवेन्नरः । सर्व-ज्ञोऽसौ भवेत्कामरूपः पवनवेगवान् ॥१४८॥

क्रीडते त्रिषु लोकेषु जायन्तेसिद्धयोऽखिलाः । कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते ॥१४९॥

अहंकारक्षये तद्वद्देहे कठिनता कुतः । सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्त-रूपवान् ॥१५०॥

जीवन्मुक्तो महायोगी जायते नात्र संशयः । द्विविधाःसिद्धयो लोके कल्पिताऽकल्पितास्तथा ॥१५१॥

रसौषधिक्रियाजालमन्त्रा-भ्यासादिसाधनात् । सिध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः॥१५२॥

अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः । साधनेन विना-प्येवं जायन्ते स्वत एव हि ॥१५३॥

स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्यादीश्वर-प्रियाः । प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः ॥१४५॥

सिद्धानित्या महावीर्या इच्छारूपाः स्वयोगजाः । चिरकालात्प्रजायन्ते वासनारहि-तेषु च ॥१५५॥

तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये । विना कार्येसदा गुप्तं योगसिद्धस्य लक्षणम् ॥१५६॥

यथाकाशं समुद्दिश्य गच्छद्भिःपथिकैः पथि । नाना तीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः ॥१५७॥

स्वयमेव प्रजायन्ते लाभालाभविवर्जिते । योगमार्गे तथैवेदं सिद्धिजालं प्रव-र्तते ॥१५८॥

परीक्षकैः स्वर्णकारैर्हेम संप्रोच्यते यथा । सिद्धिभिर्लक्षयेत्सिद्धंजीवन्मुक्तं तथैव च ॥१५९॥

अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम् ।सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्षयेत् ॥१६०॥

अजरामरपिण्डो योजीवन्मुक्तः स एव हि । पशुकुक्कुटकीटाध्या मृतिं संप्राप्नुवन्ति वै ॥१६१॥

तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज । न बहिः प्राण आयाति पिण्डस्यपतनं कुतः ॥१६२॥

पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते । देहेब्रह्मत्वमायाते जलानां सैन्धवं यथा ॥१६३॥

अनन्यतां यदा याति तदामुक्तः स उच्यते । विमतानि शरीराणि इन्द्रियाणि तथैव च ॥१६४॥

ब्रह्मदेहत्वमापन्नं वारि बुद्बुदतामिव । दशद्वारपुरं देहं दशनाडीमहापथम्॥१६५॥

दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् । षडाधारापवरकं षड-न्वयमहावनम् ॥१६६॥

चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् । बिन्दु-नादमहालिङ्गं शिवशक्तिनिकेतनम् ॥१६७॥

देहं शिवालयं प्रोक्तं सिद्धिदंसर्वदेहिनाम् । गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ॥१६८॥

शिवस्य-----Page-----------------४६३--जीवरूपस्य स्थानं तद्धि प्रचक्षते । यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता॥१६१॥

यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते । यस्मादुत्पद्यते बिन्दुर्य-स्मान्नादः प्रवर्तते ॥१७०॥

यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः । तदेत-स्कामरूपाख्यं पीठं कामफलप्रदम् ॥१७१॥

स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूलेषडस्रके । नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् ॥१७२॥

द्वादशारंमहाचक्रं हृदये चाप्यनाहतम् । तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव ॥१७३॥

कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्रकम् । पीठं जालन्धरं नाम तिष्ठत्यत्रसुरेश्वरः ॥१७४॥

आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् । उड्यानाख्यंमहापीठमुपरिष्टात्प्रतिष्ठितम् ॥१७५॥

चतुरस्रं धरण्यादौ ब्रह्मा तत्राधि-देवता । अर्धचन्द्राकृति चलं विष्णुस्तस्याधिदेवता ॥१७६॥

त्रिकोणमण्डलंवह्नी रुद्रस्तस्याधिदेवता । वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता॥१७७॥

आकाशमण्डलं वृत्तं देवताऽस्य सदाशिवः । नादरूपं भ्रुवोर्मध्येमनसो मण्डलं विदुः ॥१७८॥

इति योगशिखोपनिषत्सु प्रथमोऽध्यायः ॥१॥

पुनर्योगस्य माहात्म्यं श्रोतुमिच्छामि शंकर । यस्य विज्ञानमात्रेण खेचरी-समतां व्रजेत् ॥१॥

शृणु ब्रह्मन्प्रवक्ष्यामि गोपनीयं प्रयत्नतः । द्वादशाब्दंतु शुश्रूषां यः कुर्यादप्रमादतः ॥२॥

तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्म-चारिणो । पाण्डित्यादर्थलोभाद्वा प्रमादाद्वा प्रयच्छति ॥३॥

तेनाधीतं श्रुतंतेन तेन सर्वमनुष्ठितम् । मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम् ॥४॥

शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्थितम् । तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ताच दुर्लभः ॥५॥

एतत्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम् । तस्य विज्ञान-मात्रेण जीवन्मुक्तो भवेज्जनः ॥६॥

अणिमादिकमैश्वर्यमचिरादेव जायते ।मननात्प्राणनाच्चैव मद्रूपस्यावबोधनात् ॥७॥

मन्त्रमित्युच्यते ब्रह्मन्मदधि-ष्ठानतोऽपि वा । मूलत्वात्सर्वमन्त्राणां मूलाधारसमुद्भवात् ॥८॥

मूलस्वरू-पलिङ्गत्वान्मूलमन्त्र इति स्मृतः । सूक्ष्मत्वात्कारणत्वाच्च लयनाद्गमनादपि॥९॥

लक्षणात्परमेशस्य लिङ्गमित्यभिधीयते । संनिधानात्समस्तेषु जन्तु-ष्वपि च संततम् ॥१०॥

सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते । महामायामहालक्ष्मीर्महादेवी सरस्वती ॥११॥

आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते ।-----Page-----------------४६४--सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते ॥१२॥

बिन्दुपीठं विनिर्भिद्य नाद-लिङ्गमुपस्थितम् । प्राणेनोच्चार्यते ब्रह्मन्षण्मुखीकरणेन च ॥१३॥

गुरूपदेश-मार्गेण सहसैव प्रकाशते । स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः॥१४॥

पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते । हिरण्यगर्भं सूक्ष्मं तु नादंबीजत्रयात्मकम् ॥१५॥

परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् । अप्रमेय-मनिर्देश्यमवाङ्मनसगोचरम् ॥१६॥

शुद्धं सूक्ष्मं निराकारं निर्विकारं निर-ञ्जनम् । अनन्तमपरिच्छेद्यमनूपममनामयम् ॥१७॥

आत्ममन्त्रसदाभ्यासा-त्परतत्त्वं प्रकाशते । तदभिव्यक्तिचिह्नानि सिद्धिद्वाराणि मे शृणु ॥१८॥

दीपज्वालेन्दुखद्योतविद्युन्नक्षत्रभास्वराः । दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्ययोगिनः ॥१९॥

अणिमादिकमैश्वर्यमचिरात्तस्य जायते । नास्ति नादात्परोमन्त्रो न देवः स्वात्मनः परः ॥२०॥

नानुसंधेः परा पूजा न हि तृप्तेः परंसुखम् । गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता । मद्भक्त एतद्विज्ञाय कृत-कृत्यः सुखी भवेत् ॥२१॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥२२॥

इति ॥इति योगशिखोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

यन्नमस्यं चिदाख्यातं यत्सिद्धीनां च कारणम् । येन विज्ञातमात्रेण जन्म-बन्धात्प्रमुच्यते ॥१॥

अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते । मूलाधार-गता शक्तिः स्वाधारा बिन्दुरूपिणी ॥२॥

तस्यामुत्पद्यते नादः सूक्ष्मबीजा-दिवाङ्कुरः । तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः ॥३॥

हृदयेव्यज्यते घोषो गर्जत्पर्जन्यसंनिभः । तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते॥४॥

प्राणेन च स्वराख्येन प्रथिता वैखरी पुनः । शाखापल्लवरूपेण ताल्वा-दिस्थानघट्टनात् ॥५॥

अकारादिक्षकारान्तान्यक्षराणि समीरयेत् । अक्ष-रेभ्यः पदानि स्युः पदेभ्यो वाक्यसंभवः ॥६॥

सर्वे वाक्यात्मका मन्त्रावेदशास्त्राणि कृत्स्नशः । पुराणानि च काव्यानि भाषाश्च विविधा अपि ॥७॥

सप्त स्वराश्च गाथाश्च सर्वे नादसमुद्भवाः । एषा सरस्वती देवी सर्वभूतगुहा-श्रया ॥८॥

वायुना वह्नियुक्तेन प्रेर्यमाणा शनैः शनैः । तद्विवर्तपदैर्वाक्यै-रित्येवं वर्तते सदा ॥९॥

य इमां वैखरीं शक्तिं योगी स्वात्मनि पश्यति ।स वाक्सिद्धिमवाप्नोति सरस्वत्याः प्रसादतः ॥१०॥

वेदशास्त्रपुराणानां-----Page-----------------४६५--स्वयं कर्ता भविष्यति । यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः ॥११॥

इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत । वायवो यत्र लीयन्ते मनोयत्र विलीयते ॥१२॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥१३॥

यत्रोपरमते चित्तंनिरुद्धं योगसेवया । यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ॥१४॥

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । एतत्क्षराक्षरातीतमनक्षरमिती-र्यते ॥१५॥

क्षरः सर्वाणि भूतानि सूत्रात्माऽक्षर उच्यते । अक्षरं परमंब्रह्म निर्विशेषं निरञ्जनम् ॥१६॥

अलक्षणमलक्ष्यं तदप्रतर्क्यमनूपमम् ।अपारपारमच्छेद्यमचिन्त्यमतिनिर्मलम् ॥१७॥

आधारं सर्वभूतानामनाधार-मनामयम् । अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम् ॥१८॥

अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम् । अशब्दमस्पर्शरूपमचक्षुःश्रोत्रनामकम् ॥१९॥

सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम् । सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेत-साम् ॥२०॥

निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम् । निर्लेपकं निरा-पायं कूटस्थमचलं ध्रुवम् ॥२१॥

ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रति-ष्ठितम् । भावाभावविनिर्मुक्तं भावनामात्रगोचरम् ॥२२॥

भक्तिगम्यं परंतत्त्वमन्तर्लीनेन चेतसा । भावनामात्रमेवात्र कारणं पद्मसंभव ॥२३॥

यथा देहान्तरप्राप्तेः कारणं भावना नृणाम् । विषयं ध्यायतः पुंसो विषयेरमते मनः ॥२४॥

मामनुस्मरतश्चित्तं मठयेवात्र विलीयते । सर्वज्ञत्वंपरेशत्वं सर्वसंपूर्णशक्तिता । अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्भवेत् ॥२५॥

इति ॥इति योगशिखोपनिषत्सु तृतीयोऽध्यायः ॥३॥

चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् । जीवत्वं च तथा ज्ञेयंरज्ज्वां सर्पग्रहो यथा ॥१॥

रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी ।भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥२॥

उपादानं प्रपञ्चस्यब्रह्मणोऽन्यन्न विद्यते । तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥३॥

व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् । इति ज्ञाते परे तत्त्वेभेदस्यावसरः कुतः ॥४॥

ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय ॥५॥

॥ ब्रह्मैव सर्वनामानिरूपाणि विविधानि च । कर्माण्यपि समग्राणि बिभर्तीति विभावय ॥६॥


Page-----------------४६६--सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् । ब्रह्मणो जायमानस्य ब्रह्मत्वं चतथा भवेत् ॥७॥

स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः । यस्तिष्ठतिविमूढात्मा भयं तस्यापि भाषितम् ॥८॥

यदज्ञानाद्भवेद्द्वैतमितर-त्तत्प्रपश्यति । आत्मत्वेन तदा सर्वं नेतरत्तत्र चाण्वपि ॥९॥

अनु-भूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् । असद्रूपो यथा स्वप्न उत्तरक्षण-बाधितः ॥१०॥

स्वप्ने जागरितं नास्ति जागरे स्वप्नता नहि । द्वयमेवलये नास्ति लयोऽपि ह्यनयोर्न च ॥११॥

त्रयमेव भवेन्मिथ्या गुण-त्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः ॥१२॥

यद्वन्मृदि घटभ्रान्तिः शुक्तौ हि रजतस्थितिः । तद्वद्ब्र्ह्मणि जीवत्वं वीक्षमाणेविनश्यति ॥१३॥

यथा मृदि घटो नाम कनके कुण्डलाभिधा । शुक्तौहि रजतख्यातिर्जीवशब्दस्तथा परे ॥१४॥

यथैव व्योम्नि नीलत्वं यथानीरं मरुस्थले । पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥१५॥

यथैव शून्यो वेतालो गन्धर्वाणां पुरं यथा । यथाकाशे द्विचन्द्रत्वं तद्वत्सत्येजगत्स्थितिः ॥१६॥

यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् । घटनाम्ना यथापृथ्वी पटनाम्ना हि तन्तवः ॥१७॥

जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैवकेवलम् । यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ॥१८॥

यथा नास्ति नभोवृक्षस्तथा नास्ति जगत्स्थितिः । गृह्यमाणे घटे यद्वन्मृत्तिकाभाति वै बलात् ॥१९॥

वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम् ।सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा ॥२०॥

यथैव द्विविधारज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् । यथैव मृन्मयः कुम्भस्तद्वद्देहोऽपि चिन्मयः॥२१॥

आत्मानात्मविवेकोऽयं मुधैव क्रियते बुधैः । सर्पत्वेन यथारज्जू रजतत्वेन शुक्तिका ॥२२॥

विनिर्णीता विमूढेन देहत्वेन तथा-ऽऽत्मता । घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका ॥२३॥

गृहत्वेन हि काष्ठानिखङ्गत्वेनैव लोहता । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥२४॥

इति ॥इति योगशिखोपनिषत्सु चतुर्थोऽध्यायः ॥४॥

पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् । समाहितमना भूत्वा शृणुब्रह्मन्यथाक्रमम् ॥१॥

दशद्वारपुरं देहं दशनाडीमहापथम् । दश-भिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् ॥२॥

षडाधारापवरकं षडन्वय-महावनम् । चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् ॥३॥

बिन्दु-----Page------------------४६७--नादमहालिङ्गविष्णुलक्ष्मीनिकेतनम् । देहं विष्णवालयं प्रोक्तं सिद्धिदं सर्व-देहिनाम् ॥४॥

गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् । शिवस्यजीवरूपस्य स्थानं तद्धि प्रचक्षते ॥५॥

यत्र कुण्डलिनी नाम परा शक्तिःप्रतिष्ठिता । यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते ॥६॥

यस्मादुत्पद्यतेबिन्दुर्यस्मान्नादः प्रवर्तते । यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥७॥

तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् । स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूलेषडस्रकम् ॥८॥

नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम् । द्वादशारंमहाचक्रं हृदये चाप्यनाहतम् ॥९॥

तदेतत्पूर्णगिर्याख्यं पीठं कमल-संभव । कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशास्रकम् ॥१०॥

पीठं जाल-न्धरं नाम तिष्ठत्यत्र चतुर्मुख । आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम्॥११॥

उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् । स्थानान्येतानिदेहेऽस्मिञ्छक्तिरूपं प्रकाशते ॥१२॥

चतुरस्रधरण्यादौ ब्रह्मा तत्राधि-देवता । अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता ॥१३॥

त्रिकोण-मण्डलं वह्नी रुद्रस्तस्याधिदेवता । वायोर्बिम्बं तु षट्कोणं संकर्षोऽत्राधिदेवता॥१४॥

आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता । नादरूपंभ्रुवोर्मध्ये मनसो मण्डलं विदुः ॥१५॥

शांभवस्थानमेतत्ते वर्णितंपद्मसंभव । अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् ॥१६॥

मूला-धारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला । मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीतिसा स्मृता ॥१७॥

इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते । विल-म्बिन्यामनुस्यूते नासिकान्तमुपागते ॥१८॥

इडायां हेमरूपेण वायु-र्वामेन गच्छति । पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः ॥१९॥

विलम्बिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता । तत्र नाड्यः समुत्पन्ना-स्तिर्यगूर्ध्वमधोमुखाः ॥२०॥

तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थि-तम् । गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते ॥२१॥

पूषा चा-लम्बुषा चैव श्रोत्रद्वयमुपागते । शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता॥२२॥

विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम् । सरस्वती तुया नाडी सा जिह्वान्तं प्रसर्पति ॥२३॥

राकाह्वया तु या नाडी पीत्वा-----Page-----------------४६८--च सलिलं क्षणात् । क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च ॥२४॥

कण्ठकूपोद्भवा नाडी शङ्खिन्याख्या त्वधोमुखी । अन्नसारं समादाय मूर्ध्निसंचिनुते सदा ॥२५॥

नाभेरधोगतास्तिस्रो नाडयः स्युरधोमुखाः ।मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी ॥२६॥

चित्राख्या सीविनीनाडी शुक्रमोचनकारणी । नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु॥२७॥

स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः । स्थूलं शुक्लात्मकंबिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् ॥२८॥

सोमात्मकः परः प्रोक्तः सदासाक्षी सदाच्युतः । पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः ॥२९॥

समूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते । वडवाग्निः शरीरस्थो ह्यस्थिमध्येप्रवर्तते ॥३०॥

काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते । काष्ठपाषाणजो वह्निःपार्थिवो ग्रहणीगतः ॥३१॥

अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः ।नभःस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः ॥३२॥

विषं वर्षति सूर्योऽसौस्रवत्यमृतमुन्मुखः । तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः ॥३३॥

भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः । महाविष्णोश्च देवस्य तत्सूक्ष्मंरूपमुच्यते ॥३४॥

एतत्पञ्चाग्निरूपं यो भावयेद्बुद्धिमान्धिया । तेन भुक्तं चपीतं च हुतमेव न संशयः ॥३५॥

सुखसंसेवितं स्वप्नं सुजीर्णमितभोज-नम् । शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः ॥३६॥

प्राणस्य शोधये-न्मार्गं रेचपूरककुम्भकैः । गुदमाकुञ्च्य यत्नेन मूलशक्तिं प्रपूजयेत् ॥३७॥

नाभौ लिङ्गस्य मध्ये तु उड्यानाख्यं च बन्धयेत् । उड्डीय याति तेनैवशक्तितोड्यानपीठकम् ॥३८॥

कण्ठं संकोचयेत्किंचिद्बन्धो जालन्धरोह्ययम् । बन्धयेत्खेचरीमुद्रां दृढचित्तः समाहितः ॥३९॥

कपालविवरे जिह्वाप्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥४०॥

खेचर्यामुद्रितं येन विवरं लम्बिकोर्ध्वतः । न पीयूषं पतत्यग्नौ न च वायुः प्रधा-वति ॥४१॥

न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते । न चमृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥४२॥

ततः पूर्वापरे व्योम्नि द्वाद-शान्तेऽच्युतात्मके । उड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने ॥४३॥

ततःपङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम् । नारायणमनुध्यायेत्स्रवन्तममृतं सदा॥४४॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि-----Page-----------------४६९--तस्मिन्दृष्टे परावरे ॥४५॥

अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर ।जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् ॥४६॥

नादे मनोलयं ब्रह्मन्दूरश्रवणकारणम् । बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् ॥४७॥

कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् । परकायमनोयोगः परकाय-प्रवेशकृत् ॥४८॥

अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये । पृथिव्यां धार-येच्चित्तं पातालगमनं भवेत् ॥४९॥

सलिले धारयेच्चित्तं नाम्भसा परि-भूयते । अग्नौ संधारयेच्चित्तमग्निना दह्यते न सः ॥५०॥

वायौ मनोलयंकुर्यादाकाशगमनं भवेत् । आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् ॥५१॥

विराड्रूपे मनो युञ्जन्महिमानमवाप्नुयात् । चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरोभवेत् ॥५२॥

इन्द्ररूपिणमात्मानं भावयन्मर्त्य भोगवान् । विष्णुरूपे महायोगीपालयेदखिलं जगत् ॥५३॥

रुद्ररूपे महायोगी संहरत्येव तेजसा । नारायणेमनो युञ्जन्नारायणमयो भवेत् । वासुदेवे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात्॥५४॥

यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः । तथा तत्तदवाप्नोतिभाव एवात्र कारणम् ॥५५॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाशिवः । नगुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते ॥५६॥

दिव्यज्ञानोपदेष्टारं देशिकंपरमेश्वरम् । पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् ॥५७॥

यथा गुरु-स्तथैवेशो यथैवेशस्तथा गुरुः । पूजनीयो महा भक्त्या न भेदो विद्यते-ऽनयोः ॥५८॥

नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् । अद्वैतं भावये-द्भक्त्या गुरोर्देवस्य चात्मनः ॥५९॥

योगशिखां महागुह्यं यो जानाति महा-मतिः । न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते ॥६०॥

न पुण्यपापेनास्वस्थो न दुःखं न पराजयः । न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले॥६१॥

सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः । तथा विज्ञाततत्त्वोऽसौमुक्त एव न संशयः ॥६२॥

इत्युपनिषत् ॥इति योगशिखोपनिषत्सु पञ्चमोऽध्यायः ॥५॥

उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर । येन विज्ञातमात्रेण मुक्तो भवतिसंसृतेः ॥१॥

उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् । हिरण्यगर्भ वक्ष्यामिश्रुत्वा सम्यगुपासय ॥२॥

सुषुम्नायै कुण्डलिन्यै सुधायै चन्द्रमण्डलात् ।मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥३॥

शतं चैका च हृदयस्य-----Page-----------------४७०--नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्याउत्क्रमणे भवन्ति ॥४॥

एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता ।सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ॥५॥

इडा तिष्ठति वामेन पिङ्गलादक्षिणेन तु । तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् ॥६॥

प्राणान्संधा-रयेत्तस्मिन्नासाभ्यन्तरचारिणः । भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् ॥७॥

गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डः स देहभृत् । दीर्घास्थिदेहपर्यन्तं ब्रह्म-नाडीति कथ्यते ॥८॥

तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । इडापिङ्गल-योर्मध्ये सुषुम्ना सूर्यरूपिणी ॥९॥

सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम् ।तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः ॥१०॥

भूतलोका दिशः क्षेत्राः समुद्राःपर्वताः शिलाः । द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः ॥११॥

स्वरम-न्त्रपुराणानि गुणाश्चैते च सर्वशः । बीजं बीजात्मकस्तेषां क्षेत्रज्ञः प्राणवायवः॥१२॥

सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् । नानानाडीप्रसवगं सर्व-भूतान्तरात्मनि ॥१३॥

ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम् । द्विसप्ततिसह-स्राणि नाड्यः स्युर्वायुगोचराः ॥१४॥

सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरामताः । अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् ॥१५॥

वायुना सहजीवो र्वज्ञानान्मोक्षमवाप्नुयात् । ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पायुं च मध्य-गम् ॥१६॥

कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् । द्विसप्ततिसहस्राणिनाडीद्वाराणि पञ्जरे ॥१७॥

सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निर-र्थकाः । हृल्लेखे परमानन्दे तालुमूले व्यवस्थिते ॥१८॥

अत ऊर्ध्वं निरोधेतु मध्यमं मध्यमध्यमम् । उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् । यदिभ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत् ॥१९॥

गमागमस्थं गमनादिशून्यंचिद्रूपदीपं तिमिरान्धनाशम् । पश्यामि तं सर्वजनान्तरस्थं नमामि हंसं पर-मात्मरूपम् ॥२०॥

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ।ध्वनेरन्तर्गतं ज्योतिर्ज्योतिषोऽन्तर्गतं मनः । तन्मनो विलयं यातितद्विष्णोः परमं पदम् ॥२१॥

केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती ।आधाराज्जायते विश्वं विश्वं तत्रैव लीयते ॥२२॥

तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत् । आधारशक्तिनिद्रायां विश्वं भवति निद्रया ॥२३॥

तस्यां शक्ति-प्रबोधेन त्रैलोक्यं प्रतिबुध्यते । आधारं यो विजानाति तमसः परमश्नुते-----Page-----------------४७१--॥२४॥

तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते ॥२५॥

आधारचक्र-महसा विद्युत्पुञ्जसमप्रभा । तदा मुक्तिर्न संदेहो यदि तुष्टः स्वयं गुरुः ॥२६॥

आधारचक्रमहसा पुण्यपापे निकृन्तयेत् । आधारवातरोधेन लीयते गगना-न्तरे ॥२७॥

आधारवातरोधेन शरीरं कम्पते यदा । आधारवातरोधेनयोगी नृत्यति सर्वदा ॥२८॥

आधारवातरोधेन विश्वं तत्रैव दृश्यते । सृष्टि-राधारमाधारमाधारे सर्वदेवताः । आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत्॥२९॥

आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत् । तत्र स्नात्वा च पीत्वाच नरः पापात्प्रमुच्यते ॥३०॥

आधारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते ।तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् ॥३१॥

आधारपश्चिमे भागे चन्द्र-सूर्यौ स्थिरौ यदि । तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् ॥३२॥

आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया । षट् चक्राणि च निर्भिद्य ब्रह्म-रन्ध्राद्बहिर्गतम् ॥३३॥

वामदक्षे निरुन्धन्ति प्रविशन्ति सुषुम्नया । ब्रह्मरन्ध्रंप्रविश्यान्तस्ते यान्ति परमां गतिम् ॥३४॥

सुषुम्नायां यदा हंसस्त्वध ऊर्ध्वंप्रधावति । सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् ॥३५॥

सुषुम्नायांयदा प्राणः स्थिरो भवति धीमताम् । सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयंगतौ ॥३६॥

तदा समरसं भावं यो जानाति स योगवित् । सुषुम्नायांयदा यस्य म्रियते मनसो रयः ॥३७॥

सुषुम्नायां यदा योगी क्षणैकमपितिष्ठति । सुषुम्नायां यदा योगी क्षणार्धमपि तिष्ठति ॥३८॥

सुषुम्नायां यदायोगी सुलग्नो लवणाम्बुवत् । सुषुम्नायां यदा योगी लीयते क्षीरनीरवत्॥३९॥

भिद्यते च तदा ग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते परमाकाशे तेयान्ति परमां गतिम् ॥४०॥

गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णि-काम् । मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् ॥४१॥

श्रीशैलदर्श-नान्मुक्तिर्वाराणस्यां मृतस्य च । केदारोदकपानेन मध्यनाडीप्रदर्शनात् ॥४२॥

अश्वमेधसहस्राणि वाजपेयशतानि च । सुषुम्नाध्यानयोगस्य कलां नार्हन्तिषोडशीम् ॥४३॥

सुषुम्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः । स मुक्तेःसर्वपापेभ्यो निःश्रेयसमवाप्नुयात् ॥४४॥

सुषुम्नैव परं तीर्थं सुषुम्नैव परोजपः । सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः ॥४५॥

अनेकयज्ञदानानिव्रतानि नियमास्तथा । सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम् ॥४६॥


Page-----------------४७२--ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा । चिच्छक्तिः परमा देवी मध्यमे सुप्र-तिष्ठिता ॥४७॥

भायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा । नादरूपापरा शक्तिर्ललाटस्य तु मध्यमे ॥४८॥

भागे बिन्दुमयी शक्तिर्ललाटस्यापरां-शके । बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते ॥४९॥

हृदये स्थूल-रूपेण मध्यमेन तु मध्यमे ॥५०॥

प्राणापानवशो जीवो ह्यधश्चोर्ध्वं चधावति । वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥५१॥

आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत्॥५२॥

अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति । हकारेणं बहिर्यातिसकारेण विशेत्पुनः ॥५३॥

हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा । तद्वि-द्वानक्षरं नित्यं यो जानाति स योगवित् ॥५४॥

कन्दोर्ध्वे कुण्डली शक्ति-र्मुक्तिरूपा हि योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित्॥५५॥

भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः । यासु मात्रासु तिष्ठन्तितत्परं ज्योतिरोमिति ॥५६॥

त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः ।त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥५७॥

चित्ते चलति संसारोनिश्चलं मोक्ष उच्यते । तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे ॥५८॥

चित्तंकारणमर्थानां तस्मिन्सति जगत्त्रयम् । तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यंप्रयत्नतः ॥५९॥

मनोऽहं गगनाकारं मनोऽहं सर्वतोमुखम् । मनोऽहं सर्व-मात्मा च न मनः केवलः परः ॥६०॥

मनः कर्माणि जायन्ते मनोलिप्यति पातकैः । मनश्चेदुन्मनीभूयान्न पुण्यं न च पातकम् ॥६१॥

मनसामन आलोक्य वृत्तिशून्यं यदा भवेत् । ततः परं परब्रह्म दृश्यते च सुदुर्लभम्॥६२॥

मनसा मन आलोक्य मुक्तो भवति योगवित् । मनसा मनआलोक्य उन्मन्यन्तं सदा स्मरेत् ॥६३॥

मनसा मन आलोक्य योगनिष्ठःसदा भवेत् । मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश ॥६४॥

यदाप्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् ॥६५॥

बिन्दुनादकलाज्योतीरवीन्दु-ध्रुवतारकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥६६॥

हसत्युल्लसतिप्रीत्या क्रीडते मोदते तदा । तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात् ॥६७॥

रोध्यते बुद्ध्यते शोके मुह्यते न च संपदा । कम्पते शत्रुकार्येषु कामेन रमतेहसन् ॥६८॥

स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे । यत्र देशे वसेद्वायु-----Page------------------४७३--श्चित्तं तद्वसति ध्रुवम् ॥६९॥

मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः । बिन्दुनाद-कला ब्रह्मन् विष्णुब्रह्मेशदेवताः ॥७०॥

सदा नादानुसन्धानात्संक्षीणा वासनाभवेत् । निरञ्जने विलीयेत मरुन्मनसि पद्मज ॥७१॥

यो वै नादः स वैबिन्दुस्तद्वै चित्तं प्रकीर्तितम् । नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत्॥७२॥

मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् । मनसोत्पद्यते बिन्दु-र्यथा क्षीरं गतात्मकम् ॥७३॥

षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्ड-लम् । प्रविशेद्वायुमामाकृष्य तथैवोर्ध्वं नियोजयेत् ॥७४॥

वायुं बिन्दुं तथाचक्रं चित्तं चैव समभ्यसेत् । समाधिमेकेन समममृतं यान्ति योगिनः ॥७५॥

यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीप-स्तथा नहि ॥७६॥

घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते । भिन्ने तस्मिन्घटे चैव दीपज्वाला च भासते ॥७७॥

स्वकायं घटमित्युक्तं यथा जीवो हितत्पदम् । गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते ॥७८॥

कर्णधारं गुरुंप्राप्य तद्वाक्यं प्लववद्दृढम् । अभ्यासवासनाशक्त्या तरन्ति भवसागरम्॥७१॥

इत्युपनिषत् ॥इति योगशिखोपनिषत्सु षष्ठोऽध्यायः ॥६॥

ॐ स ह नाववत्विति शान्तिः ॥ ॐ तत्सत् ॥इति योगशिखोपनिषत्समाप्ता ॥६६॥

तुरीयातीतोपनिषत् ॥६७॥सम्पाद्यताम्

ॐ तुरीयातीतोपनिषद्वेद्यं यत्परमाक्षरम् ।तत्तुर्यातीतचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥१॥

तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ।अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥२॥

हरिः ॐ पूर्णमद इति शान्तिः ॥अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का स्थितिरिति पितामहोभगवन्तं पितरमादिनारायणं परिसमेत्योवाच । तमाह भगवान्नारायणो-----Page-----------------४७४--योऽयमवधूतमार्गस्थो लोके दुर्लभतरो नतु बाहुल्यो यद्येको भवति स एवनित्यपूतः स एव वैराग्यमूर्तिः स एव ज्ञानाकारः स एव वेदपुरुष इतिज्ञानिनो मन्यन्ते । महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते । अहं च तस्मिन्ने-वावस्थितः सोऽयमादौ तावत्क्रमेण कुटीचको बहूदकत्वं प्राप्य बहूदको हंस-त्वमवलम्ब्य हंसः परमहंसो भूत्वा स्वरूपानुसंधानेन सर्वप्रपञ्चं विदित्वादण्डकमण्डलुकटिसूत्रकौपीनाच्छादनं स्वविध्युक्तक्रियादिकं सर्वमप्सु संन्यस्यदिगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिनपरिग्रहमपि संत्यज्य तदूर्ध्वममन्त्र-वदाचरन्क्षौराभ्यङ्गस्नानोर्ध्वपुण्ड्रादिकं विहाय लौकिकवैदिकमप्युपसंहृत्य सर्वत्रपुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि विहाय शीवोष्णसुखदुःखमानावमानंनिर्जित्य वासनात्रयपूर्वकं निन्दाऽनिन्दागर्वमत्सरदम्भदर्पद्वेषकामक्रोधलोभ-मोहहर्षामर्षासूयात्मसंरक्षणादिकं दग्ध्वा स्ववपुः कुणपाकारमिव पश्यन्नयत्नेना-नियमेन लाभालाभौ समौ कृत्वा गोवृत्त्या प्राणसंधारणं कुर्वन्यत्प्राप्तं तेनैवनिर्लोलुपः सर्वविद्यापाण्डित्यप्रपञ्चं भस्मीकृत्य स्वरूपं गोपयित्वा ज्येष्ठाऽज्येष्ठ-त्वानपलापकः सर्वोत्कृष्टत्वसर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तःकश्चिन्नान्योऽस्तीति देवगुह्यादिधनमात्मन्युपसंहृत्य दुःखेन नोद्विग्नः सुखेननानुमोदको रागे निःस्पृहः सर्वत्र शुभाशुभयोरनभिस्नेहः सर्वेन्द्रियोपरमःस्वपूर्वापन्नाश्रमाचारविद्याधर्मप्राभवमननुस्मरंस्त्यक्तवर्णाश्रमाचारः सर्वदादिवनक्तसमत्वेनास्वप्नः सर्वदा संचारशीलो देहमात्रावशिष्टो जलस्थलक-मण्डलुः सर्वदाऽनुन्मत्तो बालोन्मत्तपिशाचवदेकाकी संचरन्नसंभाषणपरःस्वरूपध्यानेन निरालग्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन सर्वं विस्मृत्य तुरीया-तीतावधूतवेषेणाद्वैतनिष्ठापरः प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतःसृ कृतकृत्यो भवतीत्युपनिषत् ॥ ॐ तत्सत् ॥१॥

ॐ पूर्णमद इति शान्तिः ॥॥ इति तुरीयातीतोपनिषत्समाप्ता ॥६७॥


Page-----------------४७५--

संन्यासोपनिषत् ॥६८॥सम्पाद्यताम्

संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् ।सत्तासामान्यविभवं स्वमात्रमिति भावये ॥१॥

ॐ आप्यायन्त्विति शान्तिः ॥हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यामः । योऽनुक्रमेण संन्यस्यतिस संन्यस्तो भवति । कोऽयं संन्यास उच्यते कथं वा संन्यस्तो भवति । यआत्मानं क्रियाभिर्गुप्तं करोति मातरं पितरं भार्यां पुत्रान्बन्धूननुमोदयित्वाये चास्यर्त्विजस्तान्सर्वांश्च पूर्ववत्प्राणित्वा वैश्वानरेष्टिं निर्वपेत्सर्वस्वं दद्याद्यज-मानस्य गा ऋत्विजः सर्वैः पात्रैः समारोप्य यदाहवनीय गार्हपत्ये वाऽन्वाहा-र्यपचने सभ्यावसथ्ययोश्च प्राणापानव्यानोदानसमानान्सर्वान्सर्वेषु समारोप-येत् । सशिखान्केशान्विसृज्य यज्ञोपवीतं छित्त्वा पुत्रं दृष्ट्वा त्वं यज्ञस्त्वं सर्व-मित्यनुमन्त्रयेत् । यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वाऽनवेक्षमाणः प्राची-मुदीचीं वा दिशं प्रव्रजेच्च । त्रिषु वर्णेषु भिक्षाचर्यं चरेत् । पाणिपात्रेणाशनंकुर्यात् । औषधवदशनमाचरेत् । औषधवदशनं प्राश्नीयात् । यथालाभमश्नी-यात्प्राणसंधारणार्थं यथा मेदोवृद्धिर्न जायते । कृशो भूत्वा ग्राम एकरात्रंनगरे पञ्चरात्रं चतुरो मासान्वार्षिकान्प्रामे वा नगरे वापि वसेत् । पक्षा वैमासो इति द्वौ मासौ वा वसेत् । विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयान्ना-न्यत्प्रतिगृह्णीयाद्यद्यशक्तो भवति क्लेशतस्तप्यते तप इति । यो वा एवं क्रमेणसंन्यस्यति यो वा एवं पश्यति किमस्य यज्ञोपवीतं काऽस्य शिखा कथं वाऽस्यो-पस्पर्शनमिति । तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदात्मध्यानं विद्या शिखानीरैः सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम् । ब्रह्म-वादिनो वदन्त्यस्तमित आदित्ये कथं वाऽस्योपस्पर्शनमिति । तान्होवाचयथाऽहनि तथा रात्रौ नास्य नक्तं न दिवा तदप्येतदृषिणोक्तम् । सकृद्दिवाहैवास्मै भवति य एवं विद्वानेतेनात्मानं संधत्ते ॥१॥

इति संन्यासोपनिषत्सु प्रथमोऽध्यायः ॥१॥

ॐ चत्वारिंशत्संस्कारसंपन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहं-कारं दग्ध्वा साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हति । संन्यासे निश्चयं कृत्वा पुनर्न च करोति यः । स कुर्यात्कृच्छ्रमात्रं तु पुनः संन्यस्तुमर्हति ॥१॥

संन्यासं पातयेद्यस्तु पतितं न्यासयेत्तु यः । संन्यासविघ्नकर्ता च त्रीनेतान्पतितान्विदुः ॥२॥


Page-----------------४७६--

इति ॥ अथ षण्ढः पतितोऽङ्गविकलः स्त्रैणो बाधिरोऽ-र्भको मूकः पाषण्डश्चक्री लिङ्गी कुष्ठी वैखानसहरद्विजौ भृतकाध्यापकःशिपिविष्टोऽनग्निको नास्तिको वैराग्यवन्तोऽप्येते न संन्यासार्हाः । संन्यस्तायद्यपि महावाक्योपदेशे नाधिकारिणः ॥ आरूढपतितापत्यः कुनखी श्याव-दन्तकः । क्षीवस्तथाऽङ्गविकलो नैव संन्यस्तुमर्हति ॥३॥

संप्रत्यवसितानां चमहापातकिनां तथा । व्रात्यानामभिशस्तानां संन्यासं नैव कारयेत् ॥४॥

व्रतयज्ञतपोदानहोमस्वाध्यायवर्जितम् । सत्यशौचपरिभ्रष्टं संन्यासं नैव का-रयेत् ॥५॥

एते नार्हन्ति संन्यासमातुरेण विना क्रमम् । ॐ भूः स्वाहेतिशिखामुत्पाट्य यज्ञोपवीतं बहिर्न निवसेत् । यशो बलं ज्ञानं वैराग्यं मेधांप्रयच्छेति यज्ञोपवीतं छित्त्वा ॐ भूः स्वाहेत्यप्सु वस्त्रं कटिसूत्रं च विसृज्य सं-न्यस्तं मयेति त्रिवारमभिमन्त्रयेत् । संन्यासिनं द्विजं दृष्ट्वा स्थानाच्चलति भास्क-रः । एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥६॥

षष्टिं कुलान्यतीतानिषष्टिमागामिकानि च । कुलान्युद्धरते प्राज्ञः संन्यास्तमिति यो वदेत् ॥७॥

ये चसंतानजा दोषा ये दोषा देहसंभवाः । प्रैषाग्निर्निर्दहेत्सर्वांस्तुषाग्निरिव काञ्च-नम् ॥८॥

सखा मा गोपायेति दण्डं परिग्रहेत् । दण्डं तु वैणवं सौम्यं सत्वचंसमपर्वकम् । पुण्यस्थलसमुत्पन्नं नानाकल्मषशोधितम् ॥९॥

क्षदग्धमहतंकीटैः पर्वग्रन्थिविराजितम् । नासादघ्नं शिरस्तुल्यं भ्रुवोर्वा बिभृयाद्यतिः॥१०॥

दण्डात्मनोस्तु संयोगः सर्वथा तु विधीयते । न दण्डेन विनागच्छेदिषुक्षेपत्रयं बुधः ॥११॥

जगज्जीवनं जीवनाधारभूतं माते मामन्त्रयस्वसर्वसौम्येति कमण्डलुं परिगृह्य योगपट्टाभिषिक्तो भूत्वा यथासुखं विहरेत् ॥त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसितत्त्यज ॥१२॥

वैराग्यसंन्यासी ज्ञानसंन्यासी ज्ञानवैराग्यसंन्यासी कर्म-संन्यासीति चातुर्विध्यमुपागतः । तद्यथेति दृष्टानुश्रविकविषयवैतृष्ण्यमेत्यप्राक्पुण्यकर्मविशेषात्संन्यस्तः स वैराग्यसंन्यासी । शास्त्रज्ञानात्पापपुण्यलोका-नुभवश्रवणात्प्रपञ्चोपरतो देहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वावमनान्नमिव प्रवृत्तिं सर्वं हेयं मत्वा साधनचतुष्टयसंपन्नो यः संन्यस्यति स-----Page-----------------४७७--एव ज्ञानसंन्यासी । क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपा-नुसंधानेन देहमात्रावशिष्टः संन्यस्य जातरूपधरो भवति स ज्ञानवैराग्य-संन्यासी । ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्याभावेऽ-प्याश्रमक्रमानुसारेण यः संन्यस्यति स कर्मसंन्यासी । स संन्यासः षड्विधोभवति-कुटीचकबहूदकहंसपरमहंसतुरीयातीतावधूताश्चेति । कुटीचकः शिखा-यज्ञोपवीती दण्डकमण्डलुधरः कौपीनशाटीकन्थाधरः पितृमातृगुर्वाराधनपरःपिठरखनित्रशिक्यादिमात्रसाधनपर एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारीत्रिदण्डः । बहूदकः शिखादिकन्थाधरस्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो मधुकर-वृत्त्याष्टकवलाशी । हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी असंकॢप्तमाधुकरा-न्नाशी कौपीनखण्डतुण्डधारी । परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेषुकरपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मो-द्धूलनपरः सर्वत्यागी तुरीयातीतो गोमुखवृत्त्या फलाहारी अन्नाहारी चेद्गृह-त्रये देहमात्रावशिष्टो दिगम्बरः कुणपवच्छरीरवृत्तिकः । अवधूतस्त्वनियमःपतिताभिशस्तवर्जनपूर्वकं सर्ववर्णेष्वजगरवृत्त्याऽऽहारपरः स्वरूपानुसंधानपरः ।जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् । यद्बाह्यं जडमत्यन्तं तत्स्यां कथमहंविभुः ॥१३॥

कालेनाल्पेन विलयी देहो नाहमचेतनः । जडया कर्णशष्कुल्याकल्पमानक्षणस्थया ॥१४॥

शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः ।त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योऽयमन्यथा ॥१५॥

चित्प्रसादोप-लब्धात्मा स्पर्शो नाहमचेतनः । लब्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया॥१६॥

स्वल्पस्यन्दो द्रव्यनिष्ठो रसो नाहमचेतनः । दृश्यदर्शनयोर्लीनंक्षयिक्षणविनाशिनोः ॥१७॥

केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् ।नासया गन्धजडया क्षयिण्या परिकल्पितः ॥१८॥

पेलवो नियताकारो गन्धोनाहमचेतनः । निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः ॥१९॥

शुद्धचेतनएवाहं कलाकलनवर्जितः । चैत्यवर्जितचिन्मात्रमहमेषोऽवभासकः ॥२०॥

सबाह्याभ्यन्तरव्यापी निष्कलोऽहं निरञ्जनः ॥ निर्विकल्पचिदाभास एकआत्माऽस्मि सर्वगः ॥२१॥

मयैव चेतनेनेमे सर्वे घटपटादयः । सूर्यान्ताअवभास्यन्ते दीपेनेवात्मतेजसा ॥२२॥

मयैवैताः स्फुरन्तीह विचित्रेन्द्रिय-वृत्तयः । तेजसाऽन्तःप्रकाशेन यथाऽग्निकणपङ्क्तयः ॥२३॥

अनन्तानन्दसंभोगा-----Page-----------------४७८--परोपशमशालिनी । शुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु ॥२४॥

सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने । प्रत्यक्चैतन्यरूपाय मह्यमेव नमोनमः ॥२५॥

विचित्राः शक्तयः स्वच्छाः समा या निर्विकारया । चिताक्रियन्ते समया कलाकलनमुक्तया ॥२६॥

कालत्रयमुपेक्षित्र्या हीनाया-श्चैत्यबन्धनैः । चितश्चैत्यमुपेक्षित्र्याः समतैवावशिष्यते ॥२७॥

सा हि वाचा-मगम्यत्वादसत्तामिव शाश्वतीम् । नैरात्मसिद्धात्मदशामुपयातैव शिष्यते॥२८॥

ईहानीहामयैरन्तर्या चिदावलिता मलैः । सा चिन्नोत्पादितुं शक्तापाशबद्धेव पक्षिणी ॥२९॥

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः । धरा-विवरमग्नानां कीटानां समतां गताः ॥३०॥

आत्मनेऽस्तु नमो मह्यमवि-च्छिन्नचिदात्मने । परामृष्टोऽस्मि लब्धोऽस्मि प्रोदितोऽस्म्यचिरादहम् ।उद्धृतोऽस्मि विकल्पेभ्यो योऽस्मि सोऽस्मि नमोऽस्तु ते ॥३१॥

तुभ्यं मह्य-मनन्ताय मह्यं तुभ्यं चिदात्मने । नमस्तुभ्यं परेशाय नमो मह्यं शिवाय च॥३२॥

तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति । शान्तोऽपि व्यवहार-स्थः कुर्वन्नपि न लिप्यते ॥३३॥

सुलभश्चायमत्यन्तं सुज्ञेयश्चाप्तबन्धुवत् ।शरीरपद्मकुहरे सर्वेषामेव षट्पदः ॥३४॥

न मे भोगस्थितौ वाञ्छा न मेभोगविसर्जने । यदायाति तदायातु यत्प्रयाति प्रयातु तत् ॥३५॥

मनसामनसि च्छिन्ने निरहंकारतां गते । भावेन गलिते भावे स्वस्थस्तिष्ठामि केवलः॥३६॥

निर्भावं निरहंकारं निर्मनस्कमनीहितम् । केवलास्पन्दशुद्धात्मन्येवतिष्ठति मे रिपुः ॥३७॥

तृष्णारज्जुगणं छित्त्वा मच्छरीरकपञ्जरात् । नजाने क्व गतोड्डीय निरहंकारपक्षिणी ॥३८॥

यस्य नाहंकृतो भावो बुद्धिर्यस्यन लिप्यते । यः समः सर्वभूतेषु जीवितं तस्य शोभते ॥३९॥

योऽन्तः-शीतलया बुद्ध्या रागद्वेषविमुक्तया । साक्षिवत्पश्यतीदं हि जीवितं तस्यशोभते ॥४०॥

येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता । चित्तस्यान्तेऽर्पितंचित्तं जीवितं तस्य शोभते ॥४१॥

ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदे-त्यलम् । स्थितिमभ्यागता शान्तिर्मोक्षनामाभिधीयते ॥४२॥

भ्रष्टबीजोपमाभूयो जन्माङ्कुरविवर्जिता । हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ॥४३॥

पावनी परमोदारा शुद्धसत्त्वानुपातिनी । आत्मध्यानमयी नित्या सुषुप्तिस्थेवतिष्ठति ॥४४॥

चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते । निर्मनस्कस्वभाव-----Page------------------४७९--त्वान्न तत्र कलनामलम् ॥४५॥

सा सत्यता सा शिवता साऽवस्था पारमा-त्मिकी । सर्वज्ञता सा संतृप्तिर्नतु यत्र मनः क्षतम् ॥४६॥

प्रलपन्विसृज-न्गृह्णन्नुन्मिषन्निमिषन्नपि । निरस्तमननानन्दः संविन्मात्रपरोऽस्म्यहम् ॥४७॥

मलं संवेद्यमुत्सृज्य मनो निर्मूलयन्परम् । आशापाशानलं छित्त्वा संविन्मात्रपरोऽ-स्म्यहम् ॥४८॥

अशुभाशुभसंकल्पः संशान्तोऽस्मि निरामयः । नष्टेष्टानिष्टकलनःसंविन्मात्रपरोऽस्म्यहम् ॥४९॥

आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरोऽस्म्यहम् ॥५०॥

निर्मलायां निरा-शायां स्वसंवित्तौ स्थितोऽस्म्यहम् । ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः॥५१॥

कदाऽन्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः । कदोपशान्तमननोधरणीधरकन्दरे ॥५२॥

समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना । निरंश-ध्यानविश्रान्तिमूकस्य मम मस्तके ॥५३॥

कदा तार्णं करिष्यन्ति कुलायंवनपुत्रिकाः । संकल्पपादपं तृष्णालतं छित्त्वा मनोवनम् ॥५४॥

विततांभुवमासाद्य विहरामि यथासुखम् । पदं तदनु यातोऽस्मि केवलोऽस्मि जपा-म्यहम् ॥५५॥

निर्वाणोऽस्मि निरीहोऽस्मि निरंशोऽस्मि निरीप्सितः ।स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता ॥५६॥

आनन्दितोपशमता सदाप्रमुदितोदिता । पूर्णतोदारता सत्या जान्तिसत्ता सदैकता ॥५७॥

इत्येवंचिन्तयन्भिक्षुः स्वरूपस्थितिमञ्जसा । निर्विकल्पस्वरूपज्ञो निर्विकल्पो बभूवह ॥५८॥

आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः । न शूद्रस्त्रीपतितो-दक्या संभाषणम् । न यतेर्देवपूजनोत्सवदर्शनम् । तस्मान्न संन्यासिन एषलोकः । आतुरकुटीचकयोर्भूलोकभुवर्लोकौ । बहूदकस्य स्वर्गलोकः । हंसस्यतपोलोकः । परमहंसस्य सत्यलोकः । तुरीयातीतावधूतयोः स्वात्मन्येवकैवल्यं स्वरूपानुसंधानेन भ्रमरकीटन्यायवत् । स्वरूपानुसंधानव्यतिरिक्ता-न्यशास्त्राभ्यास उष्ट्रकुङ्कुमभारवद्व्यर्थः । न योगशास्त्रप्रवृत्तिः । न सांख्य-शास्त्राभ्यासः । न मन्त्रतन्त्रव्यापारः । नेतरशास्त्रप्रवृत्तिर्यतेरस्ति । अस्ति चेच्छवा-लंकारवत्कर्माचारविद्यादूरः । न परिव्राण्नामसंकीर्तनपरो यद्यत्कर्म करोतितत्तत्फलमनुभवति । एरण्डतैलफेनवत्सर्वं परित्यजेत् । न देवताप्रसादग्रह-णम् । स बाह्यदेवाभ्यर्चनं कुर्यात् । स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्त्या-----Page------------------४८०--ऽऽहारमाहरन्कृशी भूत्वा मेदोवृद्धिमकुर्वन्विहरेत् । मन्धुकरेण करपात्रेणास्यपात्रेण वा कालं नयेत् । आत्मसंमितमाहारमाहरेदात्मवान्यतिः । आहारस्यच भागौ द्वौ तृतीयमुदकस्य च । वायोः संचरणार्थाय चतुर्थमवशेषयेत् ॥५९॥

भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् । निरीक्षन्ते त्वनुद्विग्नास्तद्गृहं यत्नतोव्रजेत् ॥६०॥

पञ्च सप्त गृहाणां तु भिक्षामिच्छेत्क्रियावताम् । गोदोहमात्रमाका-ङ्क्षेन्निप्क्रान्तो न पुनर्व्रजेत् ॥६१॥

नक्ताद्वरश्चोपवास उपवासादयाचितः । अया-चिताद्वरं भैक्षं तस्माद्भैक्षेण वर्तयेत् ॥६२॥

नैव सव्यापसव्येन भिक्षाकालेविशेद्गृहान् । नातिक्रामेद्गृहं मोहाद्यत्र दोषो न विद्यते ॥६३॥

श्रोत्रियान्नंन भिक्षेत श्रद्धाभक्तिबहिष्कृतम् । व्रात्यस्यापि गृहे भिक्षेच्छ्रद्धाभक्तिपुरस्कृते॥६४॥

माधूकरमसंकॢप्तं प्राक्प्रणीतमयाचितम् । तात्कालिकं चोपपन्नं भैक्षंपञ्चविधं स्मृतम् ॥६५॥

मनःसंकल्परहितांस्त्रीन्गृहान्पञ्च सप्त वा । मधु-मक्षिकवत्कृत्वा माधूकरमिति स्मृतम् ॥६६॥

प्रातःकाले च पूर्वेद्युर्यद्भक्तैःप्रार्थितं मुहुः । तद्भैक्षं प्राक्प्रणीतं स्यात्स्थितिं कुर्यात्तथापि वा ॥६७॥

भिक्षाटनसमुद्योगाद्येन केन निमन्त्रितम् । अयाचितं तु तद्भैक्षं भोक्तव्यं चमुमुक्षुभिः ॥६८॥

उपस्थानेन यत्प्रोक्तं भिक्षार्थं ब्राह्मणेन तत् । तात्कालिक-मिति ख्यातं भोक्तव्यं यतिभिः सदा ॥६९॥

सिद्धमन्नं यदानीतं ब्राह्मणेनमठं प्रति । उपपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः ॥७०॥

चरेन्माधूकरंभैक्षं यतिर्म्लेच्छकुलादपि । एकान्नं नतु भुञ्जीत बृहस्पतिसमादपि । याचि-ताऽयाचिताभ्यां च भिक्षाभ्यां कल्पयेत्स्थितम् ॥७१॥

न वायुः स्पर्शदोषेननाग्निर्दहनकर्मणा । नापो मूत्रपुरीषाभ्यां नान्नदोषेण मस्करी ॥७२॥

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । कालेऽपराह्णे भूयिष्ठे भिक्षाचरणमा-चरेत् ॥७३॥

अभिशस्तं च पतितं पाषण्डं देवपूजकम् । वर्जयित्वा चरेद्भैक्षंसर्ववर्णेषु चापदि ॥७४॥

घृतं श्वमूत्रसदृशं मधु स्यात्सुरया समम् । तैलं सूकर-मूत्रं स्यात्सूपं लशुनसंमितम् ॥७५॥

माषापूपादि गोमांसं क्षीरं मूत्रसमं भवेत् ।तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः । घृतसूपादिसंयुक्तमन्नं नाद्यात्कदाचन॥७६॥

पात्रमस्य भवेत्पाणिस्तेन नित्यं स्थितिं नयेत् । पाणिपात्रश्चरन्योगीनासकृद्भैक्षमाचरेत् ॥७७॥

आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदासमः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥७८॥

आज्यं रुधिरमिव त्यजेदेक-त्रान्नं पललमिव गन्धलेपनमशुद्धलेपनमिव क्षारमन्त्यजमिव वस्त्रमुच्छिष्ठपात्र-----Page------------------४८१--मिवाभ्यङ्गं स्त्रीसङ्गमिव मित्राह्नादकं मूत्रमिव स्पृहां गोमांसमिव ज्ञातचर-देशं चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्णं कालकूटमिव सभास्थलंश्मशानस्थलमिव राजधानीं कुम्भीपाकमिव शवपिण्डवदेकत्रान्नं न देवतार्च-नम् । प्रपञ्चवृत्तिं परित्यज्य जीवन्मुक्तो भवेत् ॥ आसनं पात्रलोपश्च संचयःशिष्यसंचयः । दिवास्वापो वृथालापो यतेर्बन्धकराणि षट् ॥७९॥

वर्षाभ्योऽन्यत्रयत्स्यानमासनं तदुदाहृतम् । उक्तालाब्वादिपात्राणामेकत्यापीह संग्रहः ॥८०॥

यतेः संव्यवहाराय पात्रलोपः स उच्यते । गृहीतस्य तु दण्डादेर्द्वितीयस्यपरिग्रहः ॥८१॥

कालान्तरोपभोगार्थं संचयः परिकीर्तितः । शुश्रूषालाभ-पूजार्थं यशोर्थं वा परिग्रहः ॥८२॥

शिष्याणां नतु कारुण्याच्छिष्यसंग्रहईरितः । विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ॥८३॥

विद्याभ्यासेप्रमादो यः स दिवास्वाप उच्यते । आध्यात्मिकीं कथां मुक्त्वा भिक्षावार्तांविना तथा ॥८४॥

अनुग्रहं परिप्रश्नं वृथाजल्पोऽन्य उच्यते । एकान्नं मद-मात्सर्यं गन्धपुष्पविभूषणम् ॥८५॥

ताम्बूलाभ्यञ्जने क्रीडा भोगाकाङ्क्षारसायनम् । कत्थनं कुत्सनं स्वस्ति ज्योतिश्च क्रयविक्रयम् ॥८६॥

क्रियाकर्मविवादश्च गुरुवाक्यविलङ्घनम् । संविश्च विग्रहो यानं मञ्चकं शुक्लवस्त्रकम्॥८७॥

शुक्रोत्सर्गो दिवास्वापो भिक्षाधारस्तु तैजसम् । विषं चैवायुधं बीजंहिंसां तैक्ष्ण्यं च मैथुनम् ॥८८॥

त्यक्तं संन्यासयोगेन गृहधर्मादिकं व्रतम् ।गोत्रादिचरणं सर्वं पितृमातृकुलं धनम् । प्रतिषिद्धानि चैतानि सेवमानो व्रजे-दधः ॥८९॥

सुजीर्णोऽपि सुजीर्णासु विद्वांस्त्रीषु न विश्वसेत् । सुजीर्णा-स्वपि कन्थासु सज्जते जीर्णमम्बरम् ॥९०॥

स्थावरं जङ्गमं बीजं तैजसंविषमायुधम् । षडेतानि न गृह्णीयाद्यतिर्मूत्रपुरीषवत् ॥९१॥

नैवाददीतपाथेयं यतिः किंचिदनापदि । पक्वमापत्सु गृह्णीयाद्यावदन्नं न लभ्यते ॥९२॥

नीरुजश्च युवा चैव भिक्षुर्नावसथे वसेत् । परार्थं न प्रतिग्राह्यं न दद्याच्च कथं-चन ॥९३॥

दैन्यभावात्तु भूतानां सौभगाय यतिश्चरेत् । पक्वं वा यदिवाऽपक्वं याचमानो व्रजेदधः ॥९४॥

अन्नपानपरो भिक्षुर्वस्त्रादीनां प्रति-ग्रही । आविकं वाऽनाविकं वा तथा पट्टपटानपि ॥९५॥

प्रतिगृह्य यति-श्चैतान्यतत्येव न संशयः । अद्वैतं नावमाश्रित्य जीवन्मुक्तत्वमाप्नुयात् ॥९६॥


Page-----------------४८२--वाग्दण्डे मौनमातिष्ठेत्कायदण्डे त्वभोजनम् । मानसे तु कृते दण्डे प्राणा-यामो विधीयते ॥९७॥

कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मा-त्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥९८॥

रथ्यायां बहुवस्त्राणि भिक्षासर्वत्र लभ्यते । भूमिः शय्याऽस्ति विस्तीर्णा यतयः केन दुःखिताः ॥९९॥

प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः । आत्मन्यग्नीन्समारोप्य सोऽग्नि-होत्री महायतिः ॥१००॥

प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी ।ज्ञानाभ्यासवतामोतुर्वानरीभाक्त्वमेव च ॥१०१॥

नापृष्टः कस्यचिद्ब्रूयान्नचान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥१०२॥

सर्वेषामेव पापानां सङ्घाते समुपस्थिते । तारं द्वादशसाहस्रमभ्यसेच्छेदनं हितत् ॥१०३॥

यस्तु द्वादशसाहस्रं प्रणवं जपतेऽन्वहम् । तस्य द्वादशभि-र्मासैः परं ब्रह्म प्रकाशते ॥१०४॥

इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥इति संन्यासोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

ॐ आप्यायन्त्विति शान्तिः ॥इति संन्यासोपनिषत्समाप्ता ॥६८॥

परमहंसपरिव्राजकोपनिषत् ॥६९॥सम्पाद्यताम्

पारिव्राज्यधर्मवन्तो यज्ज्ञानाद्ब्रह्मतां ययुः ।तद्ब्रह्म प्रणवैकार्थं तुर्यतुर्यं हरिं भजे ॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥ हरिः ॐ ॥

अथ पितामहः स्वपितरमादिनारायणमुपसमेत्य प्रणम्य पप्रच्छभगवंस्त्वन्मुखाद्वर्णाश्रमधर्मक्रमं सर्वं श्रुतं विदितमवगतम् । इदानीं परम-हंसपरिव्राजकलक्षणं वेदितुमिच्छामि-कः परिव्रजनाधिकारी कीदृशं परिव्राज-कलक्षणं कः परमहंसः परिव्राजकत्वं कथं तत्सर्वं मे ब्रूहीति । स होवाचभगवनादिनारायणः । सद्गुरुसमीपे सकलविद्यापरिश्रमज्ञो भूत्वा विद्वान्सर्व-मैहिकामुष्मिकसुखश्रमं ज्ञात्वैषणात्रयवासनात्रयममत्वाहंकारादिकं वमना-त्रमिव हेयमधिगम्य मोक्षमार्गैकसाधनो ब्रह्मचर्यं समाप्य गृही भवेत् ।गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ।


Page-----------------४८३--

अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वायदहरेव विरजेत्तदहरेव प्रव्रजेदिति बुद्ध्वा सर्वसंसारेषु विरक्तो ब्रह्मचारी गृहीवानप्रस्थो वा पितरं मातरं कलत्रपुत्रमाप्तबन्धुवर्गं तदभावे शिष्यं सहवासिनंवाऽनुमोदयित्वा तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति तदु तथा न कुर्यात् ।आग्नेय्यामेव कुर्यात् । अग्निर्हि प्राणः प्राणमेवैतया करोति त्रैधातवीयामेवकुर्यात् । एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति । अयं ते योनिरृ-त्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथानो वर्धया रयिमि-त्यनेन मन्त्रेणाग्निमाजिघ्रेत् । एष वा अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छस्वाहेत्येवमेवैतदाह । ग्रामाच्छ्रोत्रियागारादग्निमाहृत्य स्वविध्युक्तक्रमेण पूर्वव-दग्निमाजिघ्रेत् । यद्यातुरो वाग्निं न विन्देदप्सु जुहुयात् । आपो वै सर्वा देवताःसर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोद्धृत्य प्राश्नीयात् साज्यं हविरनाम-यम् । एष विधिर्वीराध्वाने वाऽनाशके वा संप्रवेशे वाऽग्निप्रवेशे वा महाप्र-स्थाने वा । यद्यातुरः स्यान्मनसा वाचा वा संन्यसेदेष पन्थाः । स्वस्थक्रमेणैवचेदात्मश्राद्धं विरजाहोमं कृत्वाऽग्निमात्मन्यारोप्य लौकिकवैदिकसामर्थ्यं स्वच-तुर्दशकरणप्रवृत्तिं च पुत्रे समारोप्य तदभावे शिष्ये वा तदभावे स्वात्मन्येववा ब्रह्मा त्वं यज्ञस्त्वमित्यभिमन्त्र्य ब्रह्मभावनया ध्यात्वा सावित्रीप्रवेशपूर्वक-मप्सु सर्वविद्यार्थस्वरूपां ब्राह्मण्याधारां वेदमातरं क्रमाद्व्याहृतिषु त्रिषु प्रविलाप्यव्याहृतित्रयमकारोकारमकारेषु प्रविलाप्य तत्सावधानेनापः प्राश्य प्रणवेनशिखामुत्कृष्य यज्ञोपवीतं छित्त्वा वस्त्रमपि भूमौ वाऽप्सु वा विसृज्य ॐ भूःस्वाहा ॐ भुवः स्वाहा ॐ सुवः स्वाहेत्यनेन जातरूपधरो भूत्वा स्वं रूपंध्यायन्पुनः पृथक् प्रणवव्याहृतिपूर्वकं मनसा वचसापि संन्यस्तं मया संन्यस्तंमया संन्यस्तं मयेति मन्द्रमध्यमतारध्वनिभिस्त्रिवारं त्रिगुणीकृतप्रेषोच्चारणंकृत्वा प्रणवैकध्यानपरायणः सन्नभयं सर्वभूतेभ्यो मत्तः स्वाहेत्यूर्ध्वबाहुर्भूत्वाब्रह्माऽहमस्मीति तत्त्वमस्यादिवाक्यार्थस्वरूपानुसंधानं कुर्वन्नुदीचीं दिशंगच्छेत् । जातरूपधरश्चरेत् । एष संन्यासः । तदधिकारी न भवेद्यदि गृह-स्थप्रार्थनापूर्वकमभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते सखा मा गोपायौजःसखा योऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेत्यनेनमन्त्रेण प्रणवपूर्वकं सलक्षणं वैणवं दण्डं कटिसूत्रं कौपीनं कमण्डलुं त्रिवर्ण-वस्त्रमेकं परिगृह्य सद्गुरुमुपगम्य नत्वा गुरुमुखात्तत्त्वमसीति महावाक्यं प्रणव


Page------------------४८४--

पूर्वकमुपलभ्याय जीर्णवल्कलाजिनं धृत्वाथ जलावतरणमूर्ध्वगमनमेकभिक्षांपरित्यज्य त्रिकालस्नानमाचरन्वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं कुर्वन्ब्रह्ममार्गेसम्यक्संपन्नः स्वाभिमतमात्मनि गोपयित्वा निर्ममोऽध्यात्मनिष्ठः काम-क्रोधलोभमोहमदमात्सर्यदम्भदर्पाहंकारासूयागर्वेच्छाद्वेषहर्षामर्षममत्वादींश्चहित्वा ज्ञानवैराग्ययुक्तो वित्तस्त्रीपराङ्मुखः शुद्धमानसः सर्वोपनिषदर्थमालोच्यब्रह्मचर्यापरिग्रहाहिंसासत्यं यत्नेन रक्षञ्जितेन्द्रियो बहिरन्तःस्नेहवर्जितः शरीर-संधारणार्थं वा त्रिषु वर्णेष्वभिशस्तपतितवर्जितेषु पशुरद्रोही भैक्षमाणोब्रह्मभूयाय भवति । सर्वेषु कालेषु लाभालाभौ समौ कृत्वा करपात्रमाधूकरे-णान्नमश्नन्मेदोवृद्धिमकुर्वन्कृशीभूत्वा ब्रह्माहमस्मीति भावयन्गुर्वर्थं ग्राममुपेत्यध्रुवशीलोऽष्टौ मास्येकाकी चरेद्द्वावेवाचरेत् । यदालंबुद्धिर्भवेत्तदा कुटीचकोवा बहूदको वा हंसो वा परमहंसो वा तत्तन्मन्त्रपूर्श्वकं कटिसूत्रं कौपीनं दण्डंकमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेत् । ग्राम एकरात्रं तीर्थे त्रिरात्रंपत्तने पञ्चरात्रं क्षेत्रे सप्तरात्रमनिकेतः स्थिरमतिरनग्निसेवी निर्विकारो नियमा-नियममुत्सृज्य प्राणसंधारणार्थमयमेव लाभालाभौ समौ कृत्वा गोवृत्त्या भैक्ष-माचरन्नुदकस्थलकमण्डलुरवाधकरहस्यस्थलवासो न पुनर्लाभालाभरतः शुभा-शुभकर्मनिर्मूलनपरः सर्वत्र भूतलशयनः क्षौरकर्मपरित्यक्तो युक्तचातुर्मास्य-व्रतनियमः शुक्लध्यानपरायणोऽर्थस्त्रीपुत्रपराङ्मुखोऽनुन्मत्तोऽप्युन्मत्तवदाचरन्न-व्यक्तलिङ्गोऽव्यक्ताचारो दिवानक्तसमत्वेनास्वप्नः स्वरूपानुसंधानब्रह्मप्रणवध्या-नमार्गेणावहितः संन्यासेन देहत्यागं करोति स परमहंसपरिव्राजको भवति ।भगवन् ब्रह्मप्रणवः कीदृश इति ब्रह्मा पृच्छति । स होवाच नारायणः ।ब्रह्मप्रणवः षोडशमात्रात्मकः सोऽवस्थाचतुष्टयचतुष्टयगोचरः । जाग्रदवस्थायांजाग्रदादिचतस्रोऽवस्थाः स्वप्ने स्वप्नादिचतस्रोऽवस्थाः सुषुप्तौ सुषुप्त्यादिचत-स्रोऽवस्थास्तुरीये तुरीयादिचतस्रोऽवस्था भवन्तीति । जाग्रदवस्थायां विश्वस्यचातुर्विध्यं विश्वविश्वो विश्वतैजसो विश्वप्राज्ञो विश्वतुरीय इति । स्वप्नावस्थायांतैजसस्य चातुर्विध्यं तैजसविश्वस्तैजसतैजसस्तैजसप्राज्ञस्तैजसतुरीय इति । सुषु-प्त्यवस्थायां प्राज्ञस्य चातुर्विध्यं प्राज्ञविश्वः प्राज्ञतैजसः प्राज्ञप्राज्ञः प्राज्ञतुरीयैति । तुरीयावस्थायां तुरीयस्य चातुर्विध्यं तुरीयविश्वस्तुरीयतैजसस्तुरीयप्राज्ञस्तु-रीयतुरीय इति । ते क्रमेण षोडशमात्रारूढा अकारे जाग्रद्विश्व उकारे जाग्रत्तै-----Page------------------४८५--जसो मकार जाग्रत्प्राज्ञ अर्धमात्रायां जाग्रत्तुरीयो बिन्दौ स्वप्नविश्वो नादे स्वप्न-तैजसः कलायां स्वप्नप्राज्ञः कलातीते स्वप्नतुरीयः शान्तौ सुषुप्तविश्वः शान्त्यतीतेसुषुप्ततैजस उन्मन्यां सुषुप्तप्राज्ञो मनोन्मन्यां सुषुप्ततुरीयः तुया तुरीयविश्वोमध्यमायां तुरीयतैजसः पश्यन्त्यां तुरीयप्राज्ञः परायां तुरीयतुरीयः । जाग्र-न्मात्राचतुष्टयमकारांशं स्वप्नमात्राचतुष्टयमुकारांशं सुषुप्तिमात्राचतुष्टयं मका-रांशं तुरीयमात्राचतुष्टयमर्धमात्रांशम् । अयमेव ब्रह्मप्रणवः । स परमहंस-तुरीयातीतावधूतैरुपास्यः । तेनैव ब्रह्म प्रकाशते तेन विदेहमुक्तिः । भगवन्कथमयज्ञोपवीत्यशिखी सर्वकर्मपरित्यक्तः कथं ब्रह्मनिष्ठापरः कथं ब्राह्मण इतिब्रह्मा पृच्छति । स होवाच विष्णुर्भो भोऽर्भक यस्यास्त्यद्वैतमात्मज्ञानं तदेवयञ्जोपवीतम् । तस्य ध्याननिष्ठैव शिखा । तत्कर्म स पवित्रम् । स सर्वकर्म-कृत् । स ब्राह्मणः । स ब्रह्मनिष्ठापरः । स देवः । स ऋषिः । स तपस्वी । सश्रेष्ठः । स एव सर्वज्येष्ठः । स एव जगद्गुरुः । स एवाहं विद्धि । लोके परम-स हंसपरिव्राजको दुर्लभतरो यद्येकोऽस्ति । स एव नित्यपूतः । स एव वेदपुरुषोमहापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते । अहं च तस्मिन्नेवावस्थितः । स एवनित्यतृप्तः । स शीतोष्णसुखदुःखमानावमानवर्जितः । स निन्दामर्षसहिष्णुः ।स षडूर्मिवर्जितः । षड्भावविकारशून्यः । स ज्येष्ठाज्येष्ठव्यवधानरहितः । सस्वव्यतिरेकेण नान्यद्रष्टा । आशाम्बरो ननमस्कारो नस्वाहाकारो नस्वधा-कारश्च नविसर्जनपरो निन्दास्तुतिव्यतिरिक्तो नमन्त्रतन्त्रोपासको देवान्तर-ध्यानशून्यो लक्ष्यालक्ष्यनिवर्तकः सर्वोपरतः स सच्चिदानन्दाद्वयचिद्घनःसंपूर्णानन्दैकबोधो ब्रह्मैवाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसंधानेन यः कृतकृत्योभवति स ह परमहंसपरिव्राडित्युपनिषत् ॥१॥

हरिः ॐ तत्सत् ।ॐ भद्रं कर्णेभिरिति शान्तिः ॥ इति परमहंसपरिव्राजकोपनिषत्समाप्ता ॥६९॥

अक्षमालिकोपनिषत् ॥७०॥सम्पाद्यताम्

अकारादिक्षकारान्तवर्णजातकलेवरम् ।विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥पुनर्न च करोति यः । स कुर्यात्कृच्छ्रमात्रं तु पुनः संन्यस्तुमर्हति ॥१॥

संन्यासं पातयेद्यस्तु पतितं न्यासयेत्तु यः । संन्यासविघ्नकर्ता च त्रीनेतान्पतितान्विदुः ॥२॥१॥

ॐ वाङ्मे मनसीति शान्तिः ॥ हरिः ॐ ॥

अथ प्रजापतिर्गुहं पप्रच्छ भो ब्रह्मन्नक्षमालामेदविधिं ब्रूहीति ।सा किंलक्षणा कति भेदा अस्याः कति सूत्राणि कथं घटनाप्रकारः के वर्णाः-----Page-----------------४८६--का प्रतिष्ठा कैवास्याधिदेवता किं फलं चेति । तं गुहः प्रत्युवाच प्रवालमौक्ति-कस्फटिकशङ्खरजताष्टापदचन्दनपुत्रजीविकाब्जे रुद्राक्षा इति । आदिक्षान्तमूर्तिःसावधानभावा । सौवर्णं राजतं ताम्रं चेति सूत्रत्रयम् । तद्विवरे सौवर्णं तद्द-क्षपार्श्वे राजतं तद्वामे ताम्रं तन्मुखे मुखं तत्पुच्छे पुच्छं तदन्तरावर्तनक्रमेणयोजयेत् । यदस्यान्तरं सूत्रं तद्ब्रह्म । यद्दक्षपार्श्वे तच्छैवम् । यद्वामे तद्वैष्णवम् ।यन्मुखं सा सरस्वती । यत्पुच्छं सा गायत्री । यत्सुषिरं सा विद्या । याग्रन्थिः सा प्रकृतिः । ये स्वरास्ते धवलाः । ये स्पर्शास्ते पीताः । ये परास्तेरक्ताः । अथ तां पञ्चभिर्गन्धैरमृतैः पञ्चभिर्गव्यैस्तनुभिः शोधयित्वा पञ्चभिर्ग-व्यैर्गन्धोदकेन संस्नाप्य तस्मात्सोङ्कारेण पत्रकूर्चेन स्नपयित्वाऽष्टभिर्गन्धैरालिप्यसुमनःस्थले निवेश्याक्षतपुष्पैराराध्य प्रत्यक्षमादिक्षान्तैर्वर्णैर्भावयेत् । ओम-ङ्कार मृत्युंजय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ । ओमाङ्काराकर्षणात्मक सर्व-गत द्वितीयेऽक्षे प्रतितिष्ठ । ओमिङ्कार पुष्टिदाक्षोभकर तृतीयेऽक्षे प्रतितिष्ठ ।ओमीङ्कार वाक्प्रसादकर निर्मल चतुर्थेऽक्षे प्रतितिष्ठ । ओमुङ्कार सर्वबलप्रदसारतर पञ्चमेऽक्षे प्रतितिष्ठ । ओमूङ्कारोच्चाटनकर दुःसह षष्ठेऽक्षे प्रतितिष्ठ ।ओमृङ्कार संक्षोभकर चञ्चल सप्तमेऽक्षे प्रतितिष्ठ । ओमॄङ्कार संमोहनकरोज्ज्व-लाष्टमेऽक्षे प्रतितिष्ठ । ओम्लृङ्कार विद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ ।ओम्लॄङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ । ओमेङ्कार सर्ववश्यकर शुद्धसत्त्वै-कादशेऽक्षे प्रतितिष्ठ । ओमैङ्कार शुद्धसात्विक पुरुषवश्यकर द्वादशेऽक्षे प्रति-तिष्ठ । ओमोङ्काराखिलवाङ्मय नित्यशुद्ध त्रयोदशेऽक्षे प्रतितिष्ठ । ओमौङ्कारसर्ववाङ्मय वश्यकर चतुर्दशेऽक्षे प्रतितिष्ठ । ओमङ्कार गजादिवश्यकर मोहनपञ्चदशेऽक्षे प्रतितिष्ठ । ओमःकार मृत्युनाशनकर रौद्र षोडशेऽक्षे प्रतितिष्ठ ।ॐ कङ्कार सर्वविषहर कल्याणद सप्तदशेऽक्षे प्रतितिष्ठ । ॐ खङ्कार सर्व-क्षोभकर व्यापकाष्टादशेऽक्षे प्रतितिष्ठ । ॐ गङ्कार सर्वविघ्नशमन महत्तरैकोन-विंशेऽक्षे प्रतितिष्ठ । ॐ घङ्कार सौभाग्यद स्तम्भनकर विंशेऽक्षे प्रतितिष्ठ ।ॐ ङङ्कार सर्वविषनाशकरोग्रैकविंशेऽक्षे प्रतितिष्ठ । ॐ चङ्काराभिचारघ्न क्रूरद्वाविंशेऽक्षे प्रतितिष्ठ । ॐ छङ्कार भूतनाशकर भीषण त्रयोविंशेऽक्षे प्रतितिष्ठ ।ॐ जङ्कार कृत्यादिनाशकर दुर्धर्ष चतुर्विंशेऽक्षे प्रतितिष्ठ । ॐ झङ्कार भूत-नाशकर पञ्चविंशेऽक्षे प्रतितिष्ठ । ॐ ञङ्कार मृत्युप्रमथन षड्विंशेऽक्षे प्रतितिष्ठ ।-----Page-----------------४८७--ॐ टङ्कार सर्वव्याधिहर सुभग सप्तविंशेऽक्षे प्रतितिष्ठ । ॐ ठङ्कार चन्द्र-रूपाष्टाविंशेऽक्षे प्रतितिष्ठ । ॐ डङ्कार गरुडात्मक विषघ्न शोभनैकोनत्रिंशेऽक्षेप्रतितिष्ठ । ॐ ढङ्कार सर्वसंपत्प्रद सुभग त्रिंशेऽक्षे प्रतितिष्ठ । ॐ णङ्कार सर्व-सिद्धिप्रद मोहकरैकत्रिंशेऽक्षे प्रतितिष्ठ । ॐ तङ्कार धनधान्यादिसंपत्प्रद प्रसन्नद्वात्रिंशेऽक्षे प्रतितिष्ठ । ॐ थङ्कार धर्मप्राप्तिकर निर्मल त्रयस्त्रिंशेऽक्षे प्रतितिष्ठ ।ॐ दङ्कार पुष्टिवृद्धिकर प्रियदर्शन चतुस्त्रिंशेऽक्षे प्रतितिष्ठ । ॐ धङ्कारविषज्वरनिघ्न विपुल पञ्चत्रिंशेऽक्षे प्रतितिष्ठ । ॐ नङ्कार भुक्तिमुक्तिप्रद शान्तषट्त्रिंशेऽक्षे प्रतितिष्ठ । ॐ पङ्कार विषविघ्ननाशन भव्य सप्तत्रिंशेऽक्षे प्रतितिष्ठॐ फङ्काराणिमादिसिद्धिप्रद ज्योतीरूपाष्टत्रिंशेऽक्षे प्रतितिष्ठ । ॐ बङ्कारसर्वदोषहर शोभनैकोनचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ भङ्कार भूतप्रशान्तिकरभयानक चत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ मङ्कार विद्वेषिमोहनकरैकचत्वारिंशेऽक्षेप्रतितिष्ठ । ॐ यङ्कार सर्वव्यापक पावन द्विचत्वारिंशेऽक्षे प्रतितिष्ठ ।ॐ रङ्कार दाहकर विकृत त्रिचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ लङ्कार विश्वंभरभासुर चतुश्चत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ वङ्कार सर्वाप्यायनकर निर्मलपञ्चचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ शङ्कार सर्वफलप्रद पवित्र षट्चत्वारिंशेऽक्षेप्रतितिष्ठ । ॐ षङ्कार धर्मार्थकामद धवल सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ ।ॐ सङ्कार सर्वकारण सार्ववर्णिकाष्टचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ हङ्कारसर्ववाङ्मय निर्मलैकोनपञ्चाशदक्षे प्रतितिष्ठ । ॐ ळङ्कार सर्वशक्तिप्रद प्रधानपञ्चाशदक्षे प्रतितिष्ठ । ॐ क्षङ्कार परापरतत्त्वज्ञापक परंज्योतीरूप शिखामणौप्रतितिष्ठ । अथोवाच ये देवाः पृथिवीषदस्तेभ्यो नमो भगवन्तोऽनुमदन्तुशोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् । अथोवाच येदेवा अन्तरिक्षसदस्तेभ्य ॐ नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनु-मदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् । अथोवाच ये देवा दिविषदस्तेभ्योनमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्ष-मालिकाम् । अथोवाच ये मन्त्रा या विद्यास्तेभ्यो नमस्ताभ्यश्चोन्नमस्त-च्छक्तिरस्याः प्रतिष्ठापयति । अथोवाच ये ब्रह्मविष्णुरुद्रास्तेभ्यः सगुणेभ्यॐ नमस्तद्वीर्यमस्याः प्रतिष्ठापयति । अथोवाच ये सांख्यादितत्त्वभेदास्तेभ्योनमो वर्तध्वं विरोधेऽनुवर्तध्वम् । अथोवाच ये शैवा वैष्णवाः शाक्ताःशतसहस्रशस्तेभ्यो नमो नमो भगवन्तोऽनुमदन्दवनुगृह्णन्तु । अथोवाच-----Page-----------------४८८--याश्च मृत्योः प्राणवत्यस्ताभ्यो नमो नमस्तेनैतं मृडयत मृडयत । पुनरेतस्यांसर्वात्मकत्वां भावयित्वा भावेन पूर्वमालिकामुत्पाद्यारभ्य तन्मयीं महोपहारै-रुपहृत्यादिक्षान्तैरक्षरैरक्षमालामष्टोत्तरशतं स्पृशेत् । अथ पुनरुत्थाप्यप्रदक्षिणीकृत्यॐ नमस्ते भगवति मन्त्रमातृकेऽक्षमाले सर्ववशंकर्यौ नमस्ते भगवतिमन्त्रमातृकेऽक्षमालिके शेषस्तम्भिन्यॐ नमस्ते भगवति मन्त्रमातृकेऽक्षमालेउच्चाटन्यॐ नमस्ते भगवति मन्त्रमातृकेऽक्षमाले विश्वामृत्यॐ मृत्युंजयस्वरूपिणिसकललोकोद्दीपिनि सकललोकरक्षाधिके सकललोकोज्जीविके सकललोको-त्पादिके दिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यन्तरं यासि देशान्तरं यासिद्वीपान्तरं यासि लोकान्तरं यासि सर्वदा स्फुरसि सर्वहृदि वाससि । नमस्तेपरारूपे नमस्ते पश्यन्तीरूपे नमस्ते मध्यमारूपे नमस्ते वैखरीरूपे सर्वतत्त्वा-त्मिके सर्वविद्यात्मिके सर्वशक्त्यात्मिके सर्वदेवात्मिके वसिष्ठेन मुनिनाराधितेविश्वामित्रेण मुनिनोपजीव्यमाने नमस्ते नमस्ते । प्रातरधीयानो रात्रिकृतं पापंनाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायंप्रातः प्रयुञ्जानःपापोऽपापो भवति । एवमक्षमालिकया जप्तो मन्त्रः सद्यःसिद्धिकरो भवतीत्याहभगवान्गुहः प्रजापतिमित्युपनिषत् ॥१॥

हरिः ॐ तत्सत् ॥ॐ वाङ्मे मनसीति शान्तिः ॥

इत्यक्षमालिकोपनिषत्समाप्ता ॥७०॥