ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-८१-९०

परब्रह्मोपनिषत् ॥८१॥

सम्पाद्यताम्

परब्रह्मोपनिषदि वेद्याखण्डसुखाकृति ।परिव्राजकहृद्गेयं परितस्त्रैपदं भजे ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

अथ हैनं महाशालः शौनकोऽङ्गिरसं भगवन्तं पिप्पलादं विधि-वदुपसन्नः पप्रच्छ दिव्ये ब्रह्मपुरे के संप्रतिष्ठिता भवन्ति । कथं सृज्यन्ते ।नित्यात्मन एष महिमा । विभज्य एष महिमा विभुः । क एषः । तस्मै सहोवाच । एतत्सत्यं यत्प्रब्रवीमि ब्रह्मविद्यां वरिष्ठां देवेभ्यः प्राणेभ्यः । परब्रह्म-पुरे विरजं निष्कलं शुभमक्षरं विरजं विभाति । स नियच्छति मधुकरः श्वेवविकर्मकः । अकर्मा स्वामीव स्थितः । कर्मतरः कर्षकवत्फलमनुभवति । कर्म-मर्मज्ञाता कर्म करोति । कर्ममर्म ज्ञात्वा कर्म कुर्यात् । को जालं विक्षिपे-देको नैनमपकर्षत्यपकर्षति । प्राणदेवताश्चत्वारः । ताः सर्वा नाड्यः सुषुप्त-श्येनाकाशवत् । यथा श्येनः स्वमाश्रित्य याति स्वमालयं कुलायम् । एवंसुषुप्तं ब्रूत । अयं च परश्च स सर्वत्र हिरण्मये परे कोशे । अमृता ह्येषानाडी त्रयं संचरति । तस्य त्रिपादं ब्रह्म । एषात्रेष्य ततोऽनुतिष्ठति । अन्यत्रब्रूत । अयं च परं च सर्वत्र हिरण्मये परे कोशे । यथैष देवदत्तो यष्ट्या चताड्यमानो नैवैति । एवमिष्टापूर्तकर्मा शुभाशुभैर्न लिप्यते । यथा कुमारकोनिष्काम आनन्दमभियाति । तथैष देवः स्वप्न आनन्दमभियाति । वेद एवपरं ज्योतिः । ज्योतिषा मा ज्योतिरानन्दयत्येवमेव । तत्परं यच्चित्तं परमा-त्मानमानन्दयति । शुभ्रवर्णमाजायतेश्वरात् । भूयस्तेनैव मार्गेण स्वप्नस्थानंनियच्छति । जलूकाभाववद्यथाकाममाजायतेश्वरात् । तावतात्मानमानन्दयति ।परसंधि यदपरसन्धीति । तत्परं नापरं त्यजति । तदैव कपालाष्टकं संधायय एष स्तन इवावलम्बते सेन्द्रयोनिः स वेदयोनिरिति । अत्र जाग्रति ।शुभाशुभातिरिक्तः शुभाशुभैरपि कर्मभिर्न लिप्यते । य एष देवोऽन्यदेवास्यसंप्रसादोऽन्तर्याम्यसङ्गचिद्रूपः पुरुषः । प्रणवहंसः परं ब्रह्म । न प्राणहंसः ।प्रणवो जीवः । आद्या देवता निवेदयति । य एवं वेद तत्कथं निवेदयते ।-----Page-----------------५२८--जीवस्य ब्रह्मत्वमापादयति । सत्त्वमथास्य पुरुषस्यान्तःशिखोपवीतत्वं ब्राह्म-णस्य । मुमुक्षोरन्तःशिखोपवीतधारणम् । बहिर्लक्ष्यमाणशिखायज्ञोपवीतधा-रणं कर्मिणो गृहस्थस्य । अन्तरुपवीतलक्षणं तु बहिस्तन्तुवदव्यक्तमन्तस्तत्त्व-मेलनम् । न सन्नासन्न सदसद्भिन्नाभिन्ने न चोभयम् । न सभागं ननिर्भागं न चाप्यभयरूपकम् ॥ ब्रह्मात्मैकत्वविज्ञानं हेयं मिथ्यात्वकारणा-दिति । पञ्चपाद्ब्रह्मणो न किंचन । चतुष्पादन्तर्वर्तिनोऽन्तर्जीवब्रह्मणश्वत्वारिस्थानानि । नाभिहृदयकण्ठमूर्धसु जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः । आहवनी-यगार्हपत्यदक्षिणसभ्याग्निषु । जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीय-मक्षरं चिन्मयम् । तस्माच्चतुरवस्था । चतुरङ्गुलवेष्टनमिव षण्णवतितत्त्वानितन्तुवद्विभज्य तदाहितं त्रिगुणीकृत्य द्वात्रिंशत्तत्त्वनिष्कर्षमापाद्य ज्ञानपूतंत्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय नवब्रह्माख्यनवगुणोपेतं ज्ञात्वा नवमा-नमितस्त्रिगुणीकृत्य सूर्येन्द्वग्निकलास्वरूपत्वेनैकीकृत्याद्यन्तरेकत्वमपि मध्येत्रिरावृत्य ब्रह्मविष्णुमहेश्वरत्वमनुसंधायाद्यन्तमेकीकृत्य चिद्ग्रन्थावद्वैतग्रन्थिंकृत्वा नाभ्यादिबह्मबिलप्रमाणं पृथक् पृथक् सप्तविंशतितत्त्वसंबन्धं त्रिगुणो-पेतं त्रिमूर्तिलक्षणलक्षितमप्येकत्वमापाद्य वामांसादिदक्षिणकट्यन्तं विभा-व्याद्यन्तग्रहसंमेलनमेकं ज्ञात्वा मूलमेकं सत्यं मृण्मयं विज्ञातं स्याद्वाचार-म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं । हंसेति वर्णद्वयेनान्तःशिखोपवी-तित्वं निश्चित्य ब्राह्मणत्वं ब्रह्मध्यानार्हत्वं यतित्वमलक्षितान्तःशिखोपवीतित्व-मेवं बहिर्लक्षितकर्मशिखा ज्ञानोपवीतं गृहस्थस्याभासब्राह्मणत्वस्य केशसमूह-शिखाप्रत्यक्षकार्पासतन्तुकृतोपवीतत्वं चतुर्गुणीकृत्य चतुर्विंशतितत्त्वापादनतन्तु-कृत्त्वं नवतत्त्वमेकमेव परंब्रह्म तत्प्रतिसरयोग्यत्वाद्बहुमार्गप्रवृत्तिं कल्पयन्ति ।सर्वेषां ब्रह्मादीनां देवर्षीणां मनुष्याणां मूर्तिरेका । ब्रह्मैकमेव । ब्राह्मणत्वमेक-मेव । वर्णाश्रमाचारविशेषाःपृथक्पृथक् शिखा वर्णाश्रमिणामेककैव । अपवर्गस्ययतेः शिखायज्ञोपवीतमूलं प्रणवमेकमेव वदन्ति । हंसः शिखा । प्रणय उपवी-तम् । नादः संधानम् । एष धर्मो नेतरो धर्मः । तत्कथमिति । प्रणवहंसोनादस्त्रिवृत्सूत्रं स्वहृदि चैतन्ये तिष्ठति त्रिविधं ब्रह्म । तद्विद्धि प्रापञ्चिकशिखो-पवीतं त्यजेत् । सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परंब्रह्मतत्सूत्रमिति धारयेत् ॥१॥

पुनर्जन्मनिवृत्त्यर्थं मोक्षस्याहर्निशं स्मरेत् ।-----Page-----------------५२९--सूचनात्सूत्रमित्युक्तं सूत्रं नाम परं पदम् ॥२॥

तत्सूत्रं विदितं येन समुमुक्षुः स भिक्षुकः । स वेदवित्सदाचारः स विप्रः पङ्क्तिपावनः ॥३॥

येनसर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगविद्ब्राह्मणो यतिः॥४॥

बहिः सूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः । ब्रह्मभावमिदं सूत्रं धारयेद्यःस मुक्तिभाक् ॥५॥

नाशुचित्वं न चोच्छिष्टं तस्य सूत्रस्य धारणात् । सूत्र-मन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥६॥

ये तु सूत्रविदो लोके ते चयज्ञोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परंतेषां पवित्रं ज्ञानमीरितम् ॥७॥

अग्नेरिव शिखा नान्या यस्य ज्ञानमयीशिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥८॥

कर्मण्यधिकृता येतु वैदिके लौकिकेऽपि वा । ब्राह्मणाभासमात्रेण जीवन्ते कुक्षिपूरकाः ।व्रजन्ते निरयं ते तु पुनर्जन्मनि जन्मनि ॥९॥

वामांसदक्षकट्यन्तं ब्रह्मसूत्रंतु सव्यतः । अन्तर्बहिरिवात्यर्थं तत्त्वतन्तुसमन्वितम् ॥१०॥

नाभ्यादिब्रह्म-रन्ध्रान्तप्रमाणं धारयेत्सुधीः । तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तन्तुनिर्मितम्॥११॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्यनेतरेषां तु किंचन ॥१२॥

इदं यज्ञोपवीतं तु परमं यत्परायणम् । विद्वा-न्यज्ञोपवीती संधारयेद्यः स मुक्तिभाक् ॥१३॥

बहिरन्तश्चोपवीती विप्रःसंन्यस्तुमर्हति । एकयज्ञोपवीती तु नैव संन्यस्तुमर्हति ॥१४॥

तस्मात्सर्वप्रय-त्नेन मोक्षापेक्षी भवेद्यतिः । बहिःसूत्रं परित्यज्य स्वान्तःसूत्रं तु धारयेत् ॥१५॥

बहिःप्रपञ्चशिखोपवीतित्वमनादृत्य प्रणवहंसशिखोपवीतित्वमवलम्ब्य मोक्ष-साधनं कुर्यादित्याह भगवाञ्छौनक इत्युपनिषत् ॥१६॥

हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति परब्रह्मोपनिषत्समाप्ता ॥८१॥


अवधूतोपनिषत् ॥८२॥

सम्पाद्यताम्

गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् ।तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥

अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं परिसमेत्य पप्रच्छ भग-वन्कोऽवधूतस्तस्य का स्थितिः किं लक्ष्म किं संसरणमिति । तं होवाच भगवो दत्तात्रेयः परमकारुणिकः ॥ अक्षरत्वाद्वरेण्यत्वाद्धूतसंसारबन्धनात् । तत्त्व-मस्यादिलक्ष्यत्वादवधूत इतीर्यते ॥१॥


Page-----------------५३०--

यो विलङ्घ्याश्रमान्वर्णानात्मन्येवस्थितः सदा । अतिवर्णाश्रमी योगी अवधूतः स कथ्यते ॥२॥

तस्य प्रियंशिरः कृत्वा मोदो दक्षिणपक्षकः । प्रमोद उत्तरः पक्ष आनन्दो गोष्पदा-यते ॥३॥

गोपालसदृशं शीर्षे नापि मध्ये न चाप्यधः । ब्रह्म पुच्छं प्रतिष्ठेतिपुच्छाकारेण कारयेत् ॥४॥

एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् ।न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥५॥

स्वैरं स्वैरवि-हरणं तत्संसरणम् । साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मौ न मेध्या-मेध्यौ । सदा सांग्रहण्येष्ट्याश्वमेधमन्तर्यागं यजते । स महामखो महा-योगः । कृत्स्नमेतच्चित्रं कर्म । स्वैरं न विगायेत्तन्महाव्रतम् । न स मूढवल्लि-प्यते । यथा रविः सर्वरसान्प्रभुङ्क्ते हुताशनश्चापि हि सर्वभक्षः । तथैव योगीविषयान्भुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः ॥६॥

आपूर्यमाणमचलप्रतिष्ठंसमुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमा-प्नोति न कामकामी ॥७॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥८॥

ऐहिकामुष्मिकव्रातसिद्ध्यैमुक्तेश्च सिद्धये । बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम् ॥९॥

तदेवकृतकृत्यत्वं प्रतियोगिपुरःसरम् । अनुसंदधदेवायमेवं तृप्यति नित्यशः॥१०॥

दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया । परमानन्दपूर्णोऽहंसंसरामि किमिच्छया ॥११॥

अनुतिष्ठन्तु कर्माणि परलोकयियासवः । सर्व-लोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥१२॥

व्याचक्षतां ते शास्त्राणिवेदानध्यापयन्तु वा । येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥१३॥

निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । द्रष्टारश्चेत्कल्पयन्तु किं मेस्यादन्यकल्पनात् ॥१४॥

गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना । नान्या-रोपितसंसारधर्मा नैवमहं भजे ॥१५॥

शृण्वन्त्वज्ञाततत्त्वास्ते जानन्क-स्माच्छृणोम्यहम् । मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥१६॥

विप-र्यस्तो निदिध्यासे किं ध्यानमविपर्यये । देहात्मत्वविपर्यासं न कदाचिद्भजा-म्यहम् ॥१७॥

अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् । विपर्यासं चिरा-----Page------------------५३१--भ्यस्तवासनातोऽवकल्पते ॥१८॥

आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते ।कर्मक्षये त्वसौ नैव शाम्येद्ध्यानसहस्रतः ॥१९॥

विरलत्वं व्यवहृतेरिष्टंचेद्ध्यानमस्तु ते । बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः ॥२०॥

विक्षेपोनास्ति यस्मान्मे न समाधिस्ततो मम । विक्षेपो वा समाधिर्वा मनसः स्याद्वि-कारिणः । नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् ॥२१॥

कृतं कृत्यंप्रापणीयं प्राप्तमित्येव नित्यशः । व्यवहारो लौकिको वा शास्त्रीबो वाऽन्यथापिवा । ममाकर्तुरलेपस्य यथारब्धं प्रवतताम् ॥२२॥

अथवा कृतकृत्योऽपिलोकानुग्रहकाम्यया । शास्त्रीयेणैव मार्गेण वर्तेऽहं मम का क्षतिः ॥२३॥

देवार्चनस्रानशौचभिक्षादौ वर्ततां वपुः । तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्त-कम् ॥२४॥

विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् । साक्ष्यहं किंचि-दप्यत्र न कुर्वे नापि कारये ॥२५॥

कृतकृत्यतया तृप्तः प्राप्तप्राप्यतयापुनः । तृप्यन्नेवं स्वमनसा मन्यतेऽसौ निरन्तरम् ॥२६॥

धन्योऽहं धन्योऽहंनित्यं स्वात्मानमञ्जसा वेद्मि । धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मेस्पष्टम् ॥२७॥

धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य । धन्योऽहंधन्योऽहं स्वस्याज्ञानं पलायितं क्वापि ॥२८॥

धन्योऽहं धन्योऽहं कर्तव्यंमे न विद्यते किंचित् । धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र संपन्नम् ॥२९॥

धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके । धन्योऽहं धन्योऽहं धन्योधन्यः पुनःपुनर्धन्यः ॥३०॥

अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् ।अस्य पुण्यस्य संपत्तेरहो वयमहो वयम् ॥३१॥

अहो ज्ञानमहो ज्ञानमहोसुखमहो सुखम् । अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ॥३२॥

इतिय इदमधीते सोऽपि कृतकृत्यो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेया-त्पूतो भवति । ब्रह्महत्यात्पूतो भवति । कृत्याकृत्यात्पूतो भवति । एवंविदित्वा स्वेच्छाचारपरो भूयादॐसत्यमित्युपनिषत् ॥३३॥

हरिः ॐ तत्सत् ॥ॐ स ह नाववत्विति शान्तिः ॥इत्यवधूतोपनिषत्समाप्ता ॥८२॥


Page-----------------५३२--

त्रिपुरातापिन्युपनिषत् ॥८३॥

सम्पाद्यताम्

त्रिपुरातापिनीविद्यावेद्यचिच्छक्तिविग्रहम् ।वस्तुतश्चिन्मात्ररूपं परं तत्त्वं भजाम्यहम् ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

अथैतस्मिन्नन्तरे भगवान्प्राजापत्यं वैष्णवं विलयकारणं रूपमा-श्रित्य त्रिपुराभिधा भगवतीत्येवमादिशक्त्या भूर्भुवः स्वस्त्रीणि स्वर्गभूपाता-लानि त्रिपुराणि हरमायात्मकेन ह्रीङ्कारेण हृल्लेखाख्या भगवती त्रिकूटाव-साने निलये विलये धाम्नि महसा घोरेण प्राप्नोति । सैवेयं भगवती त्रिपु-रेति व्यापठ्यते । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचो-दयात् परो रजसे सावदोम् । जातवेदसे सुनवाम सोममरातीयतो निद-हाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ।त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् । शताक्षरी परमा विद्या त्रयीमयी साष्टार्णा त्रिपुरा परमेश्वरी ।आद्यानि चत्वारि पदानि परब्रह्मविकासीनि । द्वितीयानि शक्त्याख्यानि ।तृतीयानि शैवानि । तत्र लोका वेदाः शास्त्राणि पुराणानि धर्माणि वै चिकि-त्सितानि ज्योतींषि शिवशक्त्योगादित्येवं घटना व्यापठ्यते । अथैतस्य परंगह्वरं व्याख्यास्याभो महामनुसमुद्भवं तदिति । ब्रह्म शाश्वतम् । परो भगवा-न्निर्लक्षणो निरञ्जनो निरुपाधिराधिरहितो देवः । उन्मीलते पश्यति विका-सते चैतन्यभावं कामयत इति । स एको देवः शिवरूपी दृश्यत्वेन विकासतेयतिषु यज्ञेषु योगिषु कामयते । कामं जायते । स एष निरञ्जनोऽकामत्वे-नोज्जृम्भते । अकचटतपयशान्सृजते । तस्मादीश्वरः कामोऽभिधीयते । तत्प-रिभाषया कामः ककारं व्याप्नोति । काम एवेदं तत्तदिति ककारो गृह्यते ।तस्मात्तत्पदार्थ इति य एवं वेद । सवितुर्वरेण्यमिति षूङ् प्राणिप्रसवे सविताप्राणिनः सूते प्रसूते शक्तिम् । सूते त्रिपुरा शक्तिराद्येयं त्रिपुरा परमेश्वरीमहाकुण्डलिनी देवी । जातवेदसमण्डलं योऽधीते सर्वं व्याप्यते । त्रिकोण-शक्तिरेकारेण महाभागेन प्रसूते । तस्मादेकार एव गृह्यते । वरेण्यं श्रेष्ठं भज-नीयमक्षरं नमस्कार्यम् । तस्माद्वरेण्यमेकाराक्षरं गृह्यत इति य एवं वेद ।भर्गो देवस्य धीमहीत्येवं व्याख्यास्यामः । धकारो धारणा । धियैव धार्यतेभगवान्परमेश्वरः । भर्गो देवो मध्यवर्ति तुरीयमक्षरं साक्षात्तुरीयं सर्वं सर्वा-----Page------------------५३३--न्तर्भूतम् । तुरीयाक्षरमीकारं पदानां मध्यवर्तीत्येवं व्याख्यातं भर्गोरूपं व्या-चक्षते । तस्माद्भर्गो देवस्य धीमहीत्येवमीकाराक्षरं गृह्यते । महीत्यस्यव्याख्यानं महत्त्वं जडत्वं काठिन्यं विद्यते यस्मिन्नक्षतेरेतन्महि लकारः परंधाम । काठिन्याढ्यं ससागरं सपर्वतं ससप्तद्वीपं सकाननमुज्ज्वलद्रूपं मण्डल-मेवोक्तं लकारेण पृथ्वी देवी महीत्यनेन व्याचक्षते । धियो यो नः प्रचो-दयात् । परमात्मा सदाशिव आदिभूतः परः । स्थाणुभूतेन लकारेण ज्योति-र्लिङ्गमात्मानं धियो बुद्धयः परे वस्तुनि ध्यानेच्छारहिते निर्विकल्पके प्रचो-दयात्प्रेरयेदित्युच्चारणरहितं चेतसैव चिन्तयित्वा भावयेदिति । परो रजसेसावदोमिति तदवसाने परं ज्योतिरमलं हृदि दैवतं चैतन्यं चिल्लिङ्गं हृदया-गारवासिनी हृल्लेखेत्यादिना स्पष्टं वाग्भवकूटं पञ्चाक्षरं पञ्चभूतजनकं पञ्चक-लामयं व्यापठ्यत इति । य एवं वेद । अथ तु परं कामकलाभूतं कामकूट-माहुः । तत्सवितुर्वरेण्यमित्यादिद्वात्रिंशदक्षरीं पठित्वा तदिति परमात्मासदाशिवोऽक्षरं विमलं निरुपाधितादात्म्यप्रतिपादनेन हकाराक्षरं शिवरूपं निर-क्षरमक्षरं व्यालिख्यत इति । तत्परागव्यावृत्तिमादाय शक्तिं दर्शयति । तत्स-वितुरिति पूर्वेणाध्वना सूर्याधश्चन्द्रिकां व्यालिख्य मूलादिब्रह्मरन्ध्रगं साक्षर-मद्वितीयमाचक्षत इत्याह भगवन्तं देवं शिवशक्त्यात्मकमेवोदितम् । शिवोऽयंग्रमं देवं शक्तिरेषा तु जीवजा । सूर्याचन्द्रमसोर्योगाद्धंसस्तत्पदमुच्यते ॥१॥

तस्मादुज्जृम्भते कामः कामात्कामः परः शिवः । कार्णोऽयं कामदेवोऽयंवरेण्यं भर्ग उच्यते ॥२॥

तत्सवितुर्वरेण्यं भर्गो देवः क्षीरं सेचनीयमक्षरंसमधुघ्नमक्षरं परमात्मजीवात्मनोर्योगात्तदिति स्पष्टमक्षरं तृतीयं ह इति तदेवसदाशिव एव निष्कल्मष आद्यो देवोऽन्त्यमक्षरं व्याक्रियते । परमं पदं धीतिधारणं विद्यते जडत्वधारणं महीति लकारः शिवाधस्तात्तु लकारार्थः स्पष्ट-मन्त्यमक्षरं परमं चैतन्यं धियो यो नः प्रचोदयात्परो रजसे सावदोमित्येवंकूटं कामकलालयं षडध्वपरिवर्तको वैष्णवं परमं धामैति भगवांश्चैतस्माद्यएवं वेद । अथैतस्मादपरं तृतीयं शक्तिकूटं प्रतिपद्यते । द्वात्रिंशदक्षर्यागायत्र्या तत्सवितुर्वरेण्यं तस्मादात्मन आकाश आकाशाद्वायुः स्फुरतितदधीनं वरेण्यं समुदीयमानं सवितुर्वा योग्यो जीवात्मपरमात्मसमुद्भवस्तंप्रकाशशक्तिरूपं जीवाक्षरं स्पष्टमापद्यते । भर्गो देवस्य धीत्यनेनाधाररूप-----Page------------------५३४--शिवात्माक्षरं गण्यते । महीत्यादिनाशेषं काम्यं रमणीयं दृश्यं शक्तिकूटंस्पष्टीकृतमिति । एवं पञ्चदशाक्षरं त्रैपुरं योऽधीते स सर्वान्कामानवाप्नोति ।स सर्वान्भोगानवाप्नोति । स सर्वांल्लोकाञ्जयति । स सर्वा वाचो विजृम्भ-यति । स रुद्रत्वं प्राप्नोति । स वैष्णवं धाम भित्त्वा परं ब्रह्म प्राप्नोति । यएवं वेद । इत्याद्यां विद्यामभिधायैतस्याः शक्तिकूटं शक्तिशिवाद्यं लोपामुद्रे-यम् । द्वितीये धामनि पूर्वेणैव मनुना बिन्दुहीना शक्तिभूतहृल्लेखा क्रोधमु-निनाऽधिष्ठिता । तृतीये धामनि पूर्वस्या एव विद्याया यद्वाग्भवकूटं तेनैवमानवीं चान्द्रीं कौवेरीं विद्यामाचक्षते । मदनाधः शिवं वाग्भवम् । तदूर्ध्वंकामकलामयम् । शक्त्यूर्ध्वं शक्तिमिति मानवी विद्या । चतुर्थे धामनि शिव-शक्त्याख्यं वाग्भवम् । तदेवाधः शिवशक्त्याख्यमन्यत्तृतीयं चेयं चान्द्रीविद्या । पञ्चमे धामनि ध्येयेयं चान्द्री कामाधः शिवाद्यकामा । सैव कौबेरीषष्ठे धामनि व्याचक्षत इति । य एवं वेद । हित्वेकारं तुरीयस्वरं सर्वादौसूर्याचन्द्रमस्केन कामेश्वर्येवागस्त्यसंज्ञा । सप्तमे धामनि तृतीयमेतस्या एवपूर्वोक्तायाः कामाद्यं द्विधाधः कं मदनकलाद्यं शक्तिबीजं वाग्भवाद्यं तयो-रर्धावशिरस्कं कृत्वा नन्दिविद्येयम् । अष्टमे धामनि वाग्भवमागस्त्यं वागर्थ-कलामयं कामकलाभिधं सकलमायाशक्तिः प्रभाकरी विद्येयम् । नवमे धामनिपुनरागस्त्यं वाग्भवं शक्तिमन्मथशिवशक्तिमन्मथोर्वीमायाकामकलालयं चन्द्र-सूर्यानङ्गधूर्जटिमहिमालयं तृतीयं षण्मुखीयं विद्या । दशमे धामनि विद्याप्रका-शितया भूय एवागस्त्यविद्यां पठित्वा भूय एवेमामन्त्यमायां परमशिवविद्येय-मेकादशे धामनि भूय एवागस्त्यं पठित्वा एतस्या एव वाग्भवं यद्घनजं काम-कलालयं च तत्सहजं कृत्वा लोपामुद्रायाः शक्तिकूटराजं पठित्वा वैष्णवी विद्याद्वादशे धामनि व्याचक्षत इति ॥३॥

य एवं वेद । तान्होवाच भगवान्सर्वेयूयं श्रुत्वा पूर्वां कामाख्यां तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्रासन-गतां पीठोपपीठदेवतापरिवृतां सकलकलाव्यापिनीं देवतां सामोदां सपरागांसहृदयां सामृतां सकलां सेन्द्रियां सदोदितां परां विद्यां स्पष्टीकृत्वा हृदयेनिधाय विज्ञायानिलयं गमयित्वा त्रिकूटां त्रिपुरां परमां मायां श्रेष्ठां परांवैष्णवीं संनिधाय हृदयकमलकर्णिकायां परां भगवतीं लक्ष्मीं मायां सदोदितांमहावश्यकरीं मदनोन्मादनकारिणीं धनुर्बाणधारिणीं वाग्विजृम्भिणीं चन्द्र-----Page------------------५३५--मण्डलमध्यवर्तिनीं चन्द्रकलां सप्तदशीं महानित्योपस्थितां पाशाङ्कुशमनोज्ञ-पाणिपल्लवां समुद्यदर्कनिभां त्रिनेत्रां विचिन्त्य देवीं महालक्ष्मीं सर्वलक्ष्मीमयींसर्वलक्षणसंपन्नां हृदये चैतन्यरूपिणीं निरञ्जनां त्रिकूटाख्यां स्मितमुखींसुन्दरीं महामायां सर्वसुभगां महाकुण्डलिनीं त्रिपीठमध्यवर्तिनीमकथादि-श्रीपीठे परां भैरवीं चित्कलां महात्रिपुरां देवीं ध्यायेन्महाध्यानयोगेनेयमेवंवेदेति महोपनिषत् ॥४॥

इति त्रिपुरातापिन्युपनिषत्सु प्रथमोपनिषत् ॥१॥

अथातो जातवेदसे सुनवाम सोममित्यादि पठित्वा त्रैपुरी व्यक्तिर्लक्ष्यते ।जातवेदस इत्येकर्चसूक्तस्याद्यमध्यमावसानेषु तत्र स्थानेषु विलीनं बीजसागर-रूपं व्याचक्ष्वेत्यृषय ऊचुः । तान्होवाच भगवाञ्जातवेदसे सुनवाम सोमंतदन्त्यमवाणीं विलोमेन पठित्वा प्रथमस्याद्यं तदेवं दीर्घं द्वितीयस्याद्यं सुन-वाम सोममित्यनेन कौलं वामं श्रेष्ठं सोमं महासौभाग्यमाचक्षते । स सर्व-संपत्तिभूतं प्रथमं निवृत्तिकारणं द्वितीयं स्थितिकारणं तृतीयं सर्गकारणमित्य-नेन करशुद्धिं कृत्वा त्रिपुराविद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममि-त्यादि पठित्वा महाविद्येश्वरीविद्यामाचक्षते त्रिपुरेश्वरीं जातवेदस इति । जातेआद्याक्षरे मातृकायाः शिवसि बैन्दवममृतरूपिणीं कुण्डलिनीं त्रिकोणरूपिणींचेति वाक्यार्थः । एवं प्रथमस्याद्यं वाग्भवम् । द्वितीयं कामकलालयम् ।जात इत्यनेन परमात्मनो जृम्भणम् । जात इत्यादिना परमात्मा शिवौच्यते । जातमात्रेण कामी कामयते काममित्यादिना पूर्णं व्याचक्षते । तदेवसुनवाम गोत्रारूढं मध्यवर्तिनाऽमृतमध्येनार्णेन मन्त्रार्णान्स्पष्टीकृत्वा । गोत्रेतिनामगोत्रायामित्यादिना स्पष्टं रामकलालयं शेषं वाममित्यादिना । पूर्वेणा-ध्वना विद्येयं सर्वरक्षाकरी व्याचक्षते । एवमेतेन विद्यां त्रिपुरेशीं स्पष्टीकृत्वाजातवेदस इत्यादिना जातो देव एक ईश्वरः परमो ज्योतिर्मन्त्रतो वेति तुरीयंवरं दत्त्वा बिन्दुपूर्णज्योतिःस्थानं कृत्वा प्रथमस्याद्यं द्वितीयं च तृतीयं चसर्वरक्षाकरीसंबन्धं कृत्वा विद्यामात्मासनरूपिणीं स्पष्टीकृत्वा जातवेदसेसुनवाम सोममित्यादि पठित्वा रक्षाकरीं विद्यां स्मृत्वाद्यन्तयोर्धाम्नोः शक्ति-शिवरूपिणीं विनियोज्य स इति शक्त्यात्मकं वर्णं सोममिति शैवात्मकं धामजानीयात् । यो जानीते स सुभगो भवति ॥१॥

एवमेतां चक्रासनगतांत्रिपुरवासिनीं विद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममिति पठित्वा-----Page-----------------५३६--त्रिपुरेश्वरीविद्यां सदोदितां शिवशक्त्यात्मिकामावेदितां जातवेदाः शिव इतिसेति शक्त्यात्माक्षरमिति शिवादिशक्त्यन्तरालभूतां त्रिकूटादिचारिणीं सूर्या-चन्द्रमस्कां मन्त्रासनगतां त्रिपुरां महालक्ष्मीं सदोदितां स्पष्टीकृत्वा जात-वेदसे सुनवाम सोममित्यादि पठित्वा पूर्वां सदात्मासनरूपां विद्यां स्मृत्वावेद इत्यादिना विश्वाहसंततोदयबैन्दवमुपरि विन्यस्य सिद्धासनस्थांत्रिपुरां मालिनीं विद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादिपठित्वा त्रिपुरां सुन्दरीं श्रित्वा कले अक्षरे विचिन्त्य मूर्तिभूतां मूर्तिरूपिणींसर्वविद्येश्वरीं त्रिपुरां विद्यां स्पष्टीकृत्वा जातवेदसे इत्यादि पठित्वा त्रिपुरांलक्ष्मीं श्रित्वाऽग्निं निदहाति सैवेयमग्न्यानने ज्वलतीति विचिन्त्य त्रिज्योति-षमीश्वरीं त्रिपुरामम्बां विद्यां स्पष्टीकुर्यात् । एवमेतेन स नः पर्षदति दुर्गाणिविश्वेत्यादिपरप्रकाशिनी प्रत्यग्भूता कार्या । विद्येयमाह्वानकर्मणि सर्वतोधीरेति व्याचक्षते । एवमेतद्विद्याष्टकं महामायादेव्यङ्गभूतं व्याचक्षते । देवाह वै भगवन्तमब्रुवन्महाचक्रनायकं नो ब्रूहीति सार्वकामिकं सर्वाराध्यं सर्व-रूपं विश्वतोमुखं मोक्षद्वारं यद्योगिन उपविश्य परं ब्रह्म भित्त्वा निर्वाणमुप-विशन्ति ॥२॥

तान्होवाच भगवाञ्श्रीचक्रं व्याख्यास्याम इति । त्रिकोणं त्र्यस्रंकृत्वा तदन्तर्मध्यवृत्तमानयष्टिरेखामाकृष्य विशालं नीत्वाग्रतो योनिं कृत्वापूर्वयोन्यग्ररूपिणीं मानयष्टिं कृत्वा तां सर्वोर्ध्वां नीत्वा योनिं कृत्वाद्यं त्रिकोणंचक्रं भवति । द्वितीयमन्तरालं भवति । तृतीयमष्टयोन्यङ्कितं भवति । अथा-ष्टारचक्राद्यन्तविदिक्कोणाग्रतो रेखां नीत्वा साध्याद्याकर्षणबद्धरेखां नीत्वेत्ये-वमथोर्ध्वसंपुटयोन्यङ्कितं कृत्वा कक्षाभ्य ऊर्ध्वगरेखाचतुष्टयं कृत्वा यथाक्रमेणमानयष्टिद्वयेन दशयोन्यङ्कितं चक्रं भवति । अनेनैव प्रकारेण पुनर्दशारचक्रंभवति । मध्यत्रिकोणाग्रचतुष्टयाद्रेखाचराग्रकोणेषु संयोज्य तद्दशारांशतोनीतांमानयष्टिरेखां योजयित्वा चतुर्दशारं चक्रं भवति । ततोऽष्टपत्रसंवृतं चक्रंभवति । षोडशपत्रसंवृतं चक्रं चतुर्द्वारं भवति । ततः पार्थिवं चक्रं चतुर्द्वारंभवति । एवं सृष्टियोगेन चक्रं व्याख्यातम् । नवात्मकं चक्रं प्रातिलोम्येनवा वच्मि । प्रथमं चक्रं त्रैलोक्यमोहनं भवति । साणिमाद्यष्टकं भवति ।समात्रष्टकं भवति । ससर्वसंक्षोभिण्यादिदशकं भवति । सप्रकटं भवति ।त्रिपुरयाधिष्ठितं भवति ससर्वसंक्षोभिणीमुद्रया जुष्टं भवति । द्वितीयं सर्वाशा-----Page------------------५३७--परिपूरकं चक्रं भवति सकामाद्याकर्षिणीषोडशकं भवति । सगुप्तं भवति ।त्रिपुरेश्वर्याधिष्ठितं भवति । सर्वविद्राविणीमुद्रया जुष्टं भवति । तृतीयं सर्व-संक्षोभणं चक्रं भवति । सानङ्गकुसुमाद्यष्टकं भवति । सगुप्ततरं भवति ।त्रिपुरसुन्दर्याऽधिष्ठितं भवति । सर्वाकर्षिणीमुद्रया जुष्टं भवति । तुरीयं सर्व-सौभाग्यदायकं चक्रं भवति । ससर्वसंक्षोभिण्यादिद्विसप्तकं भवति । ससंप्रदायंभवति । त्रिपुरवासिन्याधिष्ठितं भवति । ससर्ववशंकरिणीमुद्रया जुष्टं भवति ।तुरीयान्तं सर्वार्थसाधकं चक्रं भवति । ससर्वसिद्धिप्रदादिदशकं भवति । सक-लकौलं भवति । त्रिपुरामहालक्ष्म्याऽधिष्ठितं भवति । महोन्मादिनीमुद्रया जुष्टंभवति । षष्ठं सर्वरक्षाकरं चक्रं भवति । ससर्वज्ञत्वादिदशकं भवति । सनिगर्भंभवति । त्रिपुरमालिन्याऽधिष्ठितं भवति । महाङ्कुशमुद्रया जुष्टं भवति ।सप्तमं सर्वरोगहरं चक्रं भवति । सर्ववशिन्याद्याष्टकं भवति । सरहस्यं भवति ।त्रिपुरसिद्ध्याऽधिष्ठितं भवति । सखेचरीमुद्रया जुष्टं भवति । अष्टमं सर्व-सिद्धिप्रदं चक्रं भवति । सायुधचतुष्टयं भवति । सपरापररहस्यं भवति ।त्रिपुराम्बयाऽधिष्ठितं भवति । बीजमुद्रयाऽधिष्ठितं भवति । नवमं चक्रनायकंसर्वानन्दमयं चक्रं भवति । सकामेश्वर्यादित्रिकं भवति । सातिरहस्यं भवति ।महात्रिपुरसुन्दर्याऽधिष्ठितं भवति । योनिमुद्रया जुष्टं भवति । संक्रामन्ति वैसर्वाणि छदांसि चकाराणि । तदेव चक्रं श्रीचक्रम् । तस्य नाभ्यामग्नि-मण्डले सूर्याचन्द्रमसौ । तत्रॐकारपीठं पूजयित्वा तत्राक्षरं बिन्दुरूपं तद-न्तर्गतव्योमरूपिणीं विद्यां परमां स्मृत्वा महात्रिपुरसुन्दरीमावाह्य । क्षीरेणस्नापिते देवि चन्दनेन विलेपिते । बिल्वपत्रार्चिते देवि दुर्गेऽहं शरणं गतः ।इत्येकयर्चा प्रार्थ्य मायालक्ष्मीतन्त्रेण पूजयेदिति भगवानब्रवीत् । एतैर्मन्त्रै-र्भगवतीं यजेत् । ततो देवी प्रीता भवति । स्वात्मानं दर्शयति । तस्माद्यएतैर्मन्त्रैर्यजति स ब्रह्म पश्यति । स सर्वं पश्यति । सोऽमृतत्वं च गच्छति ।य एवं वेदेति महोपनिषत् ॥३॥

इति त्रिपुरातापिन्युपनिषत्सु द्वितीयोपनिषत् ॥२॥

देवा ह वै मुद्राः सृजेमेति भगवन्तमब्रुवन् । तान्होवाच भगवानवनि-कृतजानुमण्डलं विस्तीर्य पद्मासनं कृत्वा मुद्राः सृजतेति । स सर्वानाकर्षयतियो योनिमुद्रामधीते स सर्वं वेत्ति स सर्वफलमश्नुते स सर्वान्भञ्ज-यति स विद्वेषिणं स्तम्भयति । मध्यमे अनामिकोपरि विन्यस्य कनिष्ठिका-----Page------------------५३८--ङ्गुष्ठतोऽधीते मुक्तयोस्तर्जन्योर्दण्डवदधस्तादेवंविधा प्रथमा संपद्यते । सैवमिलितमध्यमा द्वितीया । तृतीयाङ्कुशाकृतिरिति । प्रातिलोम्येन पाणी सङ्घर्ष-यित्वाङ्गुष्ठौ साग्निमौ समाधाय तुरीया । परस्परं कनीयसेदं मध्यमाबद्धेअनामिके दण्डिन्यौ तर्जन्यावालिङ्ग्यावष्टभ्य मध्यमानखमिलिताङ्गुष्ठौ पञ्चमी ।सैवाग्रेऽङ्कुशाकृतिः षष्ठी । दक्षिणशये वामबाहुं कृत्वाऽन्योन्यानामिके कनीय-सीमध्यगते मध्यमे तर्जन्याक्रान्ते सरलास्वङ्गुष्ठौ खेचरी सप्तमी । सर्वोर्ध्वेसर्वसंहृति स्वमध्यमानामिकान्तरे कनीयसि पार्श्वयोस्तर्जन्यावङ्कुशाढ्ये युक्तासाङ्गुष्ठयोगतोऽन्योन्यं सममञ्जलिं कृत्वाऽष्टमी । परस्परमध्यमापृष्ठवर्तिन्याव-नामिके तर्जन्याक्रान्ते समे मध्यमे आदायाङ्गुष्ठौ मध्यवर्तिनौ नवमी प्रति-पद्यत इति । सैवेयं कनीयसे समे अन्तरितेऽङ्गुष्ठौ समावन्तरितौ कृत्वात्रिखण्डापद्यत इति । पञ्च बाणाः पञ्चाद्या मुद्राः स्पष्टाः । क्रोमङ्कुशा । हस-खूफ्रें खेचरी । हस्रौं बीजाष्टमी वाग्भवाद्या नवमी दशमी च संपद्यत इति ।य एवं वेद । अथातः कामकलाभूतं चक्रं व्याख्यास्यामो ह्रीं क्लीमैं ब्लूँ स्त्रौमेतेपञ्च कामाः सर्वचक्रं व्यावर्तन्ते । मध्यमं कामं सर्वावसाने संपुटीकृत्य ब्लूंका-रेण संपुटं व्याप्तं कृत्वा द्विरैन्दवेन मध्यवर्तिना साध्यं बद्ध्वा भूर्जपत्रे यजति ।तच्चक्रं यो वेत्ति स सर्वं वेत्ति । स सकलाँल्लोकानाकर्षयति । सर्वं स्तम्भ-यति । नीलीयुक्तं चक्रं शत्रून्मारयति । गतिं स्तम्भयति । लाक्षायुक्तं कृत्वासकललोकं वशीकरोति । नवलक्षजपं कृत्वा रुद्रत्वं प्राप्नोति । मातृकयावेष्टितं कृत्वा विजयी भवति । भगाङ्ककुण्डं कृत्वाग्निमाधाय पुरुषो हविषाहुत्वा योषितो वशीकरोति । वर्तुले हुत्वा श्रियमतुलां प्राप्नोति । चतुरस्रेहुत्वा वृष्टिर्भवति । त्रिकोणे हुत्वा शत्रून्मारयति । गतिं स्तम्भयति ।पुष्पाणि हुत्वा जिवयी भवति । महारसैर्हुत्वा परमानन्दनिर्भरो भवति ।गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठ-राजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् । इत्ये-वमाद्यमक्षरं तदन्त्यबिन्दुपूर्णमित्यनेनाङ्गं स्पृशति । गं गणेशाय नम इतिगणेशं नमस्कुर्वीत । ॐ नमो भगवते भस्माङ्गरागायोग्रतेजसे हन हनदह दह पच पच मथ मथ विध्वंसय विध्वंसय हलभञ्जन शूलमूले व्यञ्जन-सिद्धिं कुरु कुरु समुद्रं पूर्वप्रतिष्ठितं शोषय शोषय स्तम्भय स्तम्भय परमन्त्र-परयन्त्रपरतन्त्रपरदूतपरकटकपरच्छेदनकर विदारय विदारय च्छिन्धि च्छिन्धि-----Page-----------------५३९--ह्रीं फट् स्वाहा । अनेन क्षेत्राध्यक्षं पूजयेदिति । कुलकुमारि विद्महे मन्त्रको-टिषु धीमहि । तन्नः कौलिः प्रचोदयात् । इति । कुमार्यर्चनं कृत्वा यो वै साध-कोऽभिलिखति सोऽमृतत्वं गच्छति । स यश आप्नोति । स परमायुष्यमथ-वा परं ब्रह्म भित्त्वा तिष्ठति । य एवं वेदेति महोपनिषत् ॥इति त्रिपुरातापिन्युपनिषत्सु तृतीयोपनिषत् ॥३॥

देवा ह वै भगवन्तमव्रुवन्देव गायत्रं हृदयं नो व्याख्यातं त्रैपुरं सर्वोत्त-मम् । जातवेदससूक्तेनाख्यातं नस्त्रैपुराष्टकम् । यदिष्ट्वा मुच्यते योगी जन्म-संसारबन्धनात् । अथ मृत्युंजयं नो ब्रूहीत्येवं ब्रुवतां सर्वेषां देवानां श्रुत्वेदंवाक्यमथातस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयं दर्शयति । कस्मान्त्रयम्बकमिति ।त्रयाणां पुराणामम्बकं स्वामिनं तस्मादुच्यते त्र्यम्बकमिति । अथ कस्मादुच्यतेयजामह इति । यजामहे सेवामहे वस्तु महेत्यक्षरद्वयेन कूटत्वेनाक्षरैकेणमृत्युंजयमित्युच्यते तस्मादुच्यते यजामह इति । अथ कस्मादुच्यते सुगन्धि-मिति । सर्वतो यश आप्नोति । तस्मादुच्यते सुगन्धिमिति । अथ कस्मादु-च्यते पुष्टिवर्धनमिति । यत्सर्वांल्लोकान्सृजति यत्सर्वांल्लोकांस्तारयति यत्सर्वां-ल्लोकान्व्याप्नोति तस्मादुच्यते पुष्टिवर्धनमिति । अथ कस्मादुच्यते उर्वारुक-मिव बन्धनान्मृत्योर्मुक्षीयेति । संल्लग्नत्वादुर्वारुकमिव मृत्योः संसारबन्धना-त्संल्लग्नत्वाद्बद्धत्वान्मोक्षीभवति मुक्तो भवति । अथ कस्मादुच्यते मामृता-दिति अमृतत्वं प्राप्नोत्यक्षरं प्राप्नोति स्वयं रुद्रो भवति । देवा ह वै भगव-न्तमूचुः सर्वं नो व्याख्यातम् । अथ कैर्मन्त्रैः स्तुता भगवती स्वात्मानं दर्श-यति तान्सर्वाञ्छैवान्वैष्णवान्सौरान्गाणेशान्नो ब्रूहीति । स होवाच भगवां-स्र्यम्बकेनानुष्टुभेन मृत्युंजयमुपासयेत् । पूर्वेणाध्वना व्याप्तमेकाक्षरमितिस्मृतम् । ॐ नमः शिवायेति याजुषमन्त्रोपासको रुद्रत्वं प्राप्नोति । कल्याणंप्राप्नोति । य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीवचक्षुराततम् । विष्णोः सर्वतोमुखस्य स्नेहो यथा पललपिण्डमोतप्रोतमनुव्याप्तंव्यतिरिक्तं व्याप्नुत इति व्याप्नुवतो विष्णोस्तत्परमं पदं परं व्योमेति परमं पदंपश्यन्ति वीक्षन्ते । सूरयो ब्रह्मादयो देवास इति सदा हृदय आदधते ।तस्माद्विष्णोः स्वरूपं वसति तिष्ठति भूतेष्विति वासुदेव इति । ॐ नम इतित्रीण्यक्षराणि । भगवत इति चत्वारि । वासुदेवायेति पञ्चाक्षराणि । एतद्वै-----Page-----------------५४०--वासुदेवस्य द्वादशार्णमभ्येति । सोपप्लवं तरति । स सर्वमायुरेति । विन्दतेप्राजापत्यं रायस्पोषं गौपत्यं च तमश्नुते प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम-कार उकारो मकार इति । तानेकधा संभवति तदोमिति । हंसः शुचिषद्वसु-रन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजाऋतजा अद्रिजा ऋतं बृहत् । हंस इत्येतन्मनोरक्षरद्वितीयेन प्रभापुञ्जेनसौरेण धृतमब्जा गोजा ऋतजा अद्रिजा ऋतं सत्या-प्रभा-पुञ्जि-न्युषा-संध्या-प्रज्ञाभिः शक्तिभिः पूर्वं सौरमधीयानः सर्वं फलमश्नुते । स व्योम्नि परमे धामनिसौरे निवसते । गणानां त्वेति त्रैष्टुभेन पूर्वेणाध्वना मनुनैकार्णेन गणाधिप-मभ्यर्च्य गणेशत्वं प्राप्नोति । अथ गायत्री सावित्री सरस्वत्यजपा मातृकाप्रोक्ता तया सरवमिदं व्याप्तम् । ऐं वागीश्वरि विद्महे क्लीं कामेश्वरि धीमहि ।सौस्तन्नः शक्तिः प्रचोदयादिति । गायत्री प्रातः सावित्री मध्यन्दिने सरस्वतीसायमिति निरन्तरमजपा । हंस इत्येव मातृका । पञ्चाशद्वर्णविग्रहेणाकारा-दिक्षकारान्तेन व्याप्तानि भुवनानि शास्त्राणि छन्दांसीत्येवं भगवती सर्वंव्याप्नोतीत्येव तस्यै वै नमो नम इति । तान्भगवानब्रवीदेतैर्मन्त्रैर्नित्यं देवींयः स्तौति स सर्वं पश्यति । सोऽमृतत्वं च गच्छति । य एवं वेदेत्युपनिषत् ॥इति त्रिपुरातापिन्युपनिषत्सु चतुर्थोपनिषत् ॥४॥

देवा ह वै भगवन्तमब्रुवन्स्वामिन्नः कथितं स्फुटं क्रियाकाण्डं सविषयंत्रैपुरमिति । अथ परमनिर्विशेषं कथयस्वेति । तान् होवाच भगवांस्तुरीययामाययाऽन्त्यया निर्दिष्टं परमं ब्रह्मेति । परमपुरुषं चिद्रूपं परमात्मेति । श्रोतामन्ता द्रष्टाऽऽदेष्टा स्प्रष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां पुरुषाणामन्तःपुरुषः सआत्मा स विज्ञेय इति । न तत्र लोका अलोका न तत्र देवा अदेवाः पश-वोऽपशवस्तापसो न तापसः पौल्कसो न पौल्कसो विप्रा न विप्राः । स इत्ये-कमेव परं ब्रह्म विभ्राजते निर्वाणम् । न तत्र देवा ऋषयः पितर ईशते प्रति-बुद्धः सर्वविद्येति । तत्रैते श्लोका भवन्ति -- अतो निर्विषयं नित्यं मनः कार्यंमुमुक्षुणा । यतो निर्विषयो नाम मनसो मुक्तिरिष्यते ॥१॥

मनो हिद्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्धं कामविवर्जि-तम् ॥२॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धनं विषयासक्तंमुक्त्यै निर्विषयं मनः ॥३॥

निरस्तविषयासङ्गं संनिरुध्य मनो हृदि ।यदा यात्यमनीभावस्तदा तत्परमं पदम् ॥४॥

तावदेव निरोद्धव्यं यावद्धृ-----Page------------------५४१--दिगतं क्षयम् । एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ॥५॥

नैवचिन्त्यं न चाचिन्त्यं नाचिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यतेध्रुवम् ॥६॥

स्वरेण संल्लयेद्योगी स्वरं संभावयेत्परम् । अस्वरेण तुभावेन न भावो भाव इष्यते ॥७॥

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्ज-नम् । तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते क्रमात् ॥८॥

निर्विकल्पमनन्तंच हेतुदृष्टान्तवर्जितम् । अप्रमेयमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः ॥९॥

ननिरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा पर-मार्थता ॥१०॥

एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु । स्थानत्रयव्यती-तस्य पुनर्जन्म न विद्यते ॥११॥

एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥१२॥

घटसंवृतमाकाशं नीयमानेघटे यथा । घटो नीयेत नाकाशं तथा जीवो नभोपमः ॥१३॥

घटवद्विवि-धाकारं भिद्यमानं पुनः पुनः । तद्भेदे च न जानाति स जानाति च नित्यशः॥१४॥

शब्दमायावृतो यावत्तावत्तिष्ठति पुष्कले । भिन्ने तमसि चैकत्वमेकएवानुपश्यति ॥१५॥

शब्दार्णमपरं ब्रह्म तस्मिन्क्षीणे यदक्षरम् । तद्विद्वा-नक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥१६॥

द्वे ब्रह्मणी हि मन्तव्ये शब्द-ब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥१७॥

ग्रन्थ-मभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थम-शेषतः ॥१८॥

गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यति ज्ञानीलिङ्गिनस्तु गवां यथा ॥१९॥

ज्ञाननेत्रं समाधाय स महत्परमं पदम् ।निष्कलं निश्चलं शान्तं ब्रह्माहमिति संस्मरेत् ॥२०॥

इत्येकं परब्रह्मरूपंसर्वभूताधिवासं तुरीयं जानीते सोऽक्षरे परमे व्योमन्यधिवसति । य एतांविद्यां तुरीयां ब्रह्मयोनिस्वरूपां तामिहायुषे शरणमहं प्रपद्ये । आकाशाद्यनु-क्रमेण सर्वेषां वा एतद्भूतानामाकाशः परायणम् । सर्वाणि ह वा इमानिभूतान्याकाशादेव जायन्ते । आकाश एव लीयन्ते । तस्मादेव जातानिजीवन्ति । तस्मादाकाशजं बीजं विन्द्यात् । तदेकाकाशपीठं स्पार्शनं पीठंतेजःपीठममृतपीठं रत्नपीठं जानीयात् । यो जानीते सोऽमृतत्वं च गच्छति ।तस्मादेतां तुरीयां श्रीकामराजीयामेकादशधा भिन्नामेकाक्षरं ब्रह्मेति योजानीते स तुरीयं पदं प्राप्नोति । य एवं वेदेति महोपनिषत् ॥ हरिः ॐ तत्सत् ॥इति त्रिपुरातापिन्युपनिषत्सु पञ्चमोपनिषत् ॥५॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति श्रीत्रिपुरातापिन्युपनिषत्समाप्ता ॥८३॥


Page-----------------५४२--

देव्युपनिषत् ॥८४॥

सम्पाद्यताम्

श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि । साब्रवीदहंब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च अहमानन्दा-नानन्दाः विज्ञानाविज्ञाने अहम् । ब्रह्मा ब्रह्मणी वेदितव्ये । इत्याहाथर्वणीश्रुतिः । अहं पञ्च भूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् ।विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् । अहं रुद्रेभि-र्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नीअहमश्विनावुभौ । अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ॥१॥

विष्णुमुरुक्रमंब्रह्माणमुत प्रजापतिं दधामि । अहं दधामि द्रविणं हविष्मते सुप्राव्ये३ यजमा-नाय सुन्वते ॥२॥

अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन्ममयोनिरप्स्वन्तः समुद्रे । एवं वेद स देवीपदमाप्नोति । ते देवा अब्रुवन् ।नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताःप्रणताः स्म ताम् ॥३॥

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषुजुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥४॥

देवींवाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जंदुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥५॥

कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्द-मातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥६॥

महा-लक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि । तन्नो देवी प्रचोदयात् ॥७॥

अदि-तिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धवः॥८॥

कामो योनिः कामकला वज्रपाणिर्गुहा हसा । मातरिश्वाभ्रमिन्द्रःपुनर्गुहा सकला मायया च पुनः कोशा विश्वमाता दिवि द्योम् ॥९॥

एषा-ऽऽत्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ।य एवं वेद स शोकं तरति । नमस्ते अस्तु भगवति भवती मातरस्मान्पातुसर्वतः । सैषाऽष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषाविश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाच-यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहा-----Page-----------------५४३--नक्षत्रज्योतींषि कलाकाष्टादिकालरूपिणी । तामहं प्रणौमि नित्यम् । तापाप-हारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदांशिवाम् ॥१०॥

वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितंदेव्या बीजं सर्वार्थसाधकम् ॥११॥

एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥१२॥

वाङ्मया ब्रह्मभूस्तस्मा-त्षष्ठं वक्त्रसमन्वितम् । सूर्यो वामश्रोत्रबिन्दुः संयुताष्टतृतीयकः ॥१३॥

नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदान-न्ददायकः ॥१४॥

हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुश-धरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे॥१५॥

नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमनींमहाकारुण्यरूपिणीम् ॥१६॥

यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मा-दुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणंनोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा ।एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यतेनैका । अत एवोच्यतेऽज्ञेयाऽनन्ताऽलक्ष्याऽजैका नैकेति । मन्त्राणं मातृका देवीशब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी॥१७॥

यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता दुर्गात्संत्रायतेयस्माद्देवी दुर्गेति कथ्यते ॥१८॥

प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारा-र्णवतारिणीम् ॥१९॥

इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलम-वाप्नोति । इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति । शतलक्षं प्रजप्त्वापिसोऽर्चासिद्धिं च विन्दति । शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥२०॥

दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसा-दतः ॥२१॥

प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानोदिवसकृतं पापं नाशयति । तत्सायंप्रातः प्रयुञ्जानः पापोऽपापो भवति ।निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनप्रतिमायां जप्त्वादेवतासांनिध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।भौमाश्विभ्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति । य एवं वेदेत्युप-निषत् ॥२२॥

हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति देव्युपनिषत्समाप्ता ॥८४॥


Page-----------------५४४--

त्रिपुरोपनिषत् ॥८५॥

सम्पाद्यताम्

त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् ।अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥१॥

ॐ वाङ्मे मनसीति शान्तिः ॥ॐ तिस्रः पुरस्त्रिपथा विश्वचर्षणा अन्नाकथा अक्षराः संनिविष्टाः । अधि-ष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥१॥

नवयोनीर्नव-चक्राणि दधिरे नवैव योगा नव योगिन्यश्च । नवानां चक्रा अधिनाथास्योना नव भद्रा नव मुद्रा महीनाम् ॥२॥

एका स आसीत्प्रथमा सानवासीदासोनविंशादासोनत्रिंशात् । चत्वारिंशादथ तिस्रः समिधा उशती-रिव मातरो मा विशन्तु ॥३॥

ऊर्ध्वज्वलज्ज्वलनं ज्योतिरग्रे तमो वै तिर-श्चीनमजरं तद्रजोऽभूत् । आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वै मण्डलामण्डयन्ति ॥४॥

यास्तिस्रो रेखाः सदनानि भूस्त्रीस्त्रिविष्टपास्त्रिगुणास्त्रिप्र-काराः । एतत्त्रयं पूरकं पूरकाणां मन्त्री प्रथते मदनो मदन्या ॥५॥

मद-न्तिका मानिनी मङ्गला च सुभागा च सा सुन्दरी सिद्धिमत्ता । लज्जामतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥६॥

इमां विज्ञायसुधिया मदन्ती परिस्रुता तर्पयन्तः स्वपीठम् । नाकस्य पृष्ठे महतो वसन्तिपरं धाम त्रैपुरं चाविशन्ति ॥७॥

कामो योनिः कामकला वज्रपाणिर्गुहा-हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमा-तादिविद्या ॥८॥

षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिकमादेशयन्तः ।कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥९॥

पुरं हन्त्री-मुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा । वृहत्तिथिर्दश पञ्च च नित्यासषोडशीकं पुरमध्यं बिभर्ति ॥१०॥

यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखंचाधस्त्रीणि गुहासदनानि । कामी कलां कामरूपां चिकित्वा नरो जायतेकामरूपश्च कामः ॥११॥

परिस्रुतं झषमाजं फलं च भक्तानि योनीः सुप-रिष्कृताश्च । निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥१२॥

सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् । इषुभिः पञ्चभि-र्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥१३॥

भगः शक्तिर्भगवा-न्काम ईश उभा दाताराविह सौभगानाम् । समप्रधानौ समसत्त्वौ समोजौ-----Page-----------------५४५--तयोः शक्तिरजरा विश्वयोनिः ॥१४॥

परिस्रुता हविषा भावितेन प्रसंकोचेगलिते वैमनस्कः । शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति॥१५॥

इयं महोपनिषत्त्रैपुर्या यामक्षयं परमो गीर्भिरीट्टे । एषर्ग्यजुः पर-मेतच्च सामायमथर्वेयमन्या च विद्या ॥१६॥

ॐ ह्रीमॐ ह्रीमित्युपनिषत् ॥हरिः ॐ तत्सत् ॥ॐ वाङ्मे मनसीति शान्तिः ॥इति श्रीत्रिपुरोपनिषत्समाप्ता ॥८५॥

कठरुद्रोपनिषत् ॥८६॥

सम्पाद्यताम्

परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः ।तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥ देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् । स प्रजा-पतिरब्रवीत्सशिखान्केशान्निष्कृष्य विसृज्य यज्ञोपवीतं निष्कृष्य पुत्रं दृष्ट्वा त्वंब्रह्मा त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वंविधाता त्वं प्रतिष्ठाऽसीति वदेत् । अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं वष-ट्कारोऽहमॐकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठास्मीति ।तान्येतान्यनुव्रजन्नाश्रुमापातयेत् । यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् । प्रद-क्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति । स स्वर्ग्यो भवति ब्रह्मचारीवेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपाधिभिर्वि-तत्येष्ट्वा च शक्तितो यज्ञैः । तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च ।सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् । द्वादशरात्रं पयोभक्षास्यात् । द्वादशरात्रस्यान्ते अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुंवैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्यग्नौ जुहुयात् । मृण्म-यान्यप्सु जुहुयात् । तैजसानि गुरवे दद्यात् । मा त्वं मामपहाय परागाः ।नाहं त्वामपहाय परागामिति । गार्हपत्यदक्षिणाप्न्याहवनीयेष्वरणिदेशाद्भस्म-मुष्टिं पिबेदित्येके । सशिखान्केशान्निष्कृष्य विसृज्य यज्ञोपवीतं भूःस्वाहेत्यप्सुजुहुयात् । अत ऊर्ध्वमनशनमपां प्रवेशमग्निप्रवेशं वीराध्वानं महाप्रस्थानं-----Page-----------------५४६--वृद्धाश्रमं वा गच्छेत् । पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः । यत्प्रातः सोऽयंप्रातः । यद्दर्शे तद्दर्शनम् । यत्पौर्णमास्ये तत्पौर्णमास्यम् । यद्वसन्ते केशश्मश्रु-लोमनखानि वापयेत्सोऽस्याग्निष्टोमः । संन्यस्याग्निं न पुनरावर्तयेन्मृत्यु-र्जयमावहमित्यध्यात्ममन्त्रान्पठेत् । स्वस्ति सर्वजीवेभ्य इत्युक्त्वाऽऽत्मानमनन्यंध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् । अनिकेतश्चरेत् । भिक्षाशी यत्किं-चिन्नाद्यात् । लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति । तदपि श्लोकाभवन्ति-कुण्!डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ । शीतोपघातिनीं कन्थांकौपीनाच्छादनं तथा ॥१॥

पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च ।यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः ॥२॥

स्नानं पानं तथा शौचमद्भिःपूताभिराचरेत् । नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥३॥

नात्यर्थंसुखदुःखाभ्यां शरीरमुपतापयेत् । स्तूयमानो न तुष्येत निन्दितो नशपेत्परान् ॥४॥

ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी । दर्शनं स्पर्शनंकेलिः कीर्तनं गुह्यभाषणम् ॥५॥

संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेवच । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥६॥

विपरीतं ब्रह्मचर्यमनुष्ठेयंमुमुक्षुभिः । यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ॥७॥

स एवजगतः साक्षी सर्वात्मा विमलाकृतिः । प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः॥८॥

न कर्मणा न प्रजया न चान्येनापि केनचित् । ब्रह्मवेदनमात्रेणब्रह्माप्नोत्येव मानवः ॥९॥

तद्विद्याविषयं ब्रह्म स्तयज्ञानसुखाद्वयम् । संसारेच गुहावाच्ये मायाज्ञानादिसंज्ञके ॥१०॥

निहितं ब्रह्म यो वेद परमेव्योम्नि संज्ञिते । सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः ॥११॥

प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् । एकं ब्रह्माहमस्मीति ब्रह्मैवभवति स्वयम् ॥१२॥

ब्रह्मभूतात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् ।उपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् ॥१३॥

आकाशाद्वायुसंज्ञस्तुस्पर्शोऽपञ्चीकृतः पुनः । वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा॥१४॥

तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा । तेभ्य एवविसृष्टं तद्ब्रह्माण्डादि शिवेन ह ॥१५॥

ब्रह्माण्डस्योदरे देवा दानवायक्षकिन्नराः । मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥१६॥

अस्थि-स्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् । योऽयमन्नमयो ह्यात्मा भाति सर्व-----Page------------------५४७--शरीरिणः ॥१७॥

ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरस्थितः । ततोविज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥१८॥

आनन्दमय आत्मा तुततोऽन्यश्चान्तरस्थितः । योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥१९॥

मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः । तथा मनोमयो ह्यात्मा पूर्णोज्ञानमयेन तु ॥२०॥

आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् । तथा-नन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥२१॥

सर्वान्तरेण पूर्णश्च ब्रह्मनान्येन केनचित् । यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानाद्वयात्मकम् ॥२२॥

सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् । सुखी भवति सर्वत्र अन्यथासुखता कुतः ॥२३॥

असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् । कोजीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥२४॥

तस्मात्सर्वात्मना चित्तेभासमानो ह्यसौ नरः । आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥२५॥

यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे । निर्भेदं परमाद्वैतं विन्दते च महा-यतिः ॥२६॥

तदेवाभयमत्यन्तकल्याणं परमाभृतम् । सद्रूपं परमं ब्रह्मत्रिपरिच्छेदवर्जितम् ॥२७॥

यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः । विजा-नाति तदा तस्य भयं स्यान्नात्र संशयः ॥२८॥

अस्यैवानन्दकोशेन स्तम्बान्ताविष्णुपूर्वकाः । भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥२९॥

तत्तत्पद-विरक्तस्य श्रोत्रियस्य प्रसादिनः । स्वरूपभूत आनन्दः स्वयं भाति परे यथा॥३०॥

निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते । यतो वाचो निवर्तन्तेनिमित्तानामभावतः ॥३१॥

निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते ।तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥३२॥

यस्माच्छ्रोत्रत्वगक्ष्यादि-खादिकर्मेन्द्रियाणि च । व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु ॥३३॥

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । विदित्वा स्वात्मरूपेण न बिभेतिकुतश्चन ॥३४॥

एवं यस्तु विजानाति स्वगुरोरुपदेशतः । स साध्वसाधु-कर्मभ्यां सदा न तपति प्रभुः ॥३५॥

ताप्यतापकरूपेण विभातमखिलं जगत् ।प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥३६॥

शुद्धमीश्वरचैतन्यं जीव-चैतन्यमेव च । प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥३७॥

इतिसप्तविधं प्रोक्तं भिद्यते व्यवहारतः । मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते॥३८॥

मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा । अन्तःकरणसंबन्धात्प्रमाते-----Page------------------५४८--त्यभिधीयते ॥३९॥

तथातद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते । अज्ञातमपिचैतन्यं प्रमेयमिति कथ्यते ॥४०॥

तथा ज्ञातं च चैतन्यं फलमित्यभि-धीयते । सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः ॥४१॥

एवं यो वेदतत्त्वेन ब्रह्मभूयाय कल्पते । सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः ॥४२॥

स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ स ह नाववत्विति शान्तिः ॥इति कठरुद्रोपनिषत्समाप्ता ॥८६॥


भावनोपनिषत् ॥८७॥

सम्पाद्यताम्

स्वाविद्यापदतत्कार्यं श्रीचक्रोपरि भासुरम् ।बिन्दुरूपशिवाकारं रामचन्द्रपदं भजे ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

आत्मानमखण्डमण्डलाकारमावृत्य सकलब्रह्माण्डमण्डलं स्वप्र-काशं ध्यायेत् । ॐ श्रीगुरुः सर्वकारणभूता शक्तिः । तेन नवरन्ध्ररूपो देहः ।नवशक्तिरूपं श्रीचक्रम् । वाराही पितृरूपा । कुरुकुल्ला बलिदेवता माता ।पुरुषार्थाः सागराः । देहो नवरत्नद्वीपः । आधारनवकमुद्राः शक्तयः । त्वगा-दिसप्तधातुभिरनेकैः संयुक्ताः संकल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् ।रसनया भाव्यमाना मधुराम्लतिक्तकटुकषायलवणभेदाः षड्रसाः षडृतवःक्रियाशक्तिः पीठम् । कुण्डलिनी ज्ञानशक्तिर्गृहम् । इच्छाशक्तिर्महात्रिपुर-सुन्दरी । ज्ञाता होता ज्ञानमग्निः ज्ञेयं हविः । ज्ञातृज्ञानज्ञेयानामभेदभावनंश्रीचक्रपूजनम् । नियतिसहिताः शृङ्गारादयो नव रसा अणिमादयः ।कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्याद्यष्ट शक्तयः । पृथिव्य-प्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थमनोविकाराःषोडश शक्तयः । वचनादानगमनविसर्गानन्दहानोपेक्षाबुद्धयोऽनङ्गकुसुमादिश-क्तयोऽष्टौ । अलम्बुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनीगान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः ।सर्वसंक्षौभिण्यादिचतुर्दशारगा देवताः । प्राणापानव्यानोदानसमाननागकूर्म-कृकरदेवदत्तघनंजया इति दश वायवः । सर्वसिद्धिप्रदा देव्यो बहिर्दशारगा-----Page-----------------५४९--देवताः । एतद्वायुदशकसंसर्गोपाधिभेदेन रेचकपूरकशोषकदाहप्लावका अमृत-मिति प्राणमुख्यत्वेन पञ्चविधोऽस्ति । क्षारको दारकः क्षोभको मोहकोजृम्भक इत्यपालनमुख्यत्वेन पञ्चविधोऽस्ति । तेन मनुष्याणां मोहको दाहकोभक्ष्यभोज्यलेह्यचोष्यपेयात्मकं चतुर्विधमन्नं पाचयति । एता दश वह्निकलाःसर्वज्ञत्वाद्यन्तर्दशारगा देवताः । शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणावशिन्यादिशक्तयोऽष्टौ । शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्च पुष्पबाणामन इक्षुधनुः । वश्यो बाणो रागः पाशः । द्वेषोऽङ्कुशः । अव्यक्तमहत्तत्त्व-महदहंकार इति कामेश्वरी-वज्रेश्वरी-भगमालिन्योऽन्तस्त्रिकोणाग्रगा देवताः ।पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदश नित्याः । श्रद्धा-नुरूपा धीर्देवता । तयोः कामेश्वरी सदानन्दघना परिपूर्णस्वात्मैक्यरूपादेवता । सलिलमिति लौहित्यकारणं सत्त्वम् । कर्तव्यमकर्तव्यमिति भावना-युक्त उपचारः । अस्तिनास्तीति कर्तव्यतानूपचारः । बाह्याभ्यन्तःकरणानांरूपग्रहणयोग्यतास्त्वित्यावाहनम् । तस्य बाह्याभ्यन्तःकरणानामेकरूपविषय-ग्रहणमासनम् । रक्तशुक्लपदैकीकरणं पाद्यम् । उज्ज्वलदामोदानन्दासनदान-मर्ध्यम् । स्वच्छं स्वतःसिद्धमित्याचमनीयम् । चिच्चन्द्रमयीति सर्वाङ्गस्रवणंस्रानम् । चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं वस्त्रम् । प्रत्येकं सप्तविंशतिधाभिन्नत्वेनेच्छाज्ञानक्रियात्मकब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी ब्रह्मसूत्रम् । स्वव्य-तिरिक्तवस्तुसङ्गरहितस्मरणं विभूषणम् । सच्चित्सुखपरिपूर्णतास्मरणं गन्धः ।समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् । तेषामेव सर्वदा स्वीक-रणं धूपः । पवनावच्छिन्नोर्ध्वज्वलनसच्चिदुल्काकाशदेहो दीपः । समस्तया-तायातवर्ज्यं नैवेद्यम् । अवस्थात्रयाणामेकीकरणं ताम्बूलम् । मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरंध्रादा मूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् ।तुर्यावस्था नमस्कारः । देहशून्यप्रमातृतानिमज्जनं बलिहरणम् । सत्यमस्तिकर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः । स्वयं तत्पादुकानिमज्जनंपरिपूर्णध्यानम् । एवं मुहूर्तत्रयं भावनापरो जीवन्मुक्तो भवति । तस्य-----Page-----------------५५०--देवतात्मैक्यसिद्धिः । चिन्तितकार्याण्ययत्नेन सिद्ध्यन्ति । स एव शिवयोगीतिकथ्यते । कादिहादिमतोक्तेन भावना प्रतिपादिता । जीवन्मुक्तो भवति ।य एवं वेद । इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इत्याथर्वणीया भावनोपनिषत्संपूर्णा ॥८७॥

रुद्रहृदयोपनिषत् ॥८८॥

सम्पाद्यताम्

यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् ।तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥

हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् । तारसारं महावाक्यंपञ्चब्रह्माग्निहोत्रकम् ॥१॥

प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह ।को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः ॥२॥

कस्य शुश्रूषणान्नित्यं प्रीतादेवा भवन्ति मे । तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥३॥

सर्व-देवात्मको रुद्रः सर्वे देवाः शिवात्मकाः । रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मात्रयोऽग्नयः ॥४॥

वामपार्श्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः । या उमासा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः ॥५॥

ये नमस्यन्ति गोविन्दं तेनमस्यन्ति शंकरम् । येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् ॥६॥

ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् । ये रुद्रं नाभिजानन्ति ते नजानन्ति केशवम् ॥७॥

रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः । यो रुद्रः सस्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥८॥

ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्मकंजगत् । पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा ॥९॥

उमारुद्रात्मिकाःसर्वाः प्रजाः स्थावरजङ्गमाः । व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् ॥१०॥

उमाशंकरयोगो यः स योगो विष्णुरुच्यते । यस्तु तस्मै नमस्कारं कुर्याद्भक्ति-समन्वितः ॥११॥

आत्मानं परमात्मानमन्तरात्मानमेव च । ज्ञात्वात्रिविधमात्मानं परमात्मानमाश्रयेत् ॥१२॥

अन्तरात्मा भवेद्ब्रह्मा परमात्मामहेश्वरः । सर्वेषामेव भूतानां विष्णुरात्मा सनातनः ॥१३॥

अस्य त्रैलोक्य-वृक्षस्य भूमौ विटपशाखिनः । अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः-----Page-----------------५५१--॥१४॥

कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः । प्रयोजनार्थंरुद्रेण मूर्तिरेका त्रिधा कृता ॥१५॥

धर्मो रुद्रो जगद्विष्णुः सर्व-ज्ञानं पितामहः । श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः ॥१६॥

कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते । रुद्रो नर उमा नारी तस्मै तस्यैनमो नमः ॥१७॥

रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः ॥ रुद्रोविष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः ॥१८॥

रुद्रः सूर्य उमा छायातस्मै तस्यै नमो नमः । रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः ॥१९॥

रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः । रुद्रो यज्ञ उमा वेदिस्तस्मैतस्यै नमो नमः ॥२०॥

रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः ।रुद्रो वेद उमा शास्त्रं तस्मै तस्यै नमो नमः ॥२१॥

रुद्रो वृक्ष उमा वल्लीतस्मै तस्यै नमो नमः । रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ॥२२॥

रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः । रुद्रो लिङ्गमुमा पीठं तस्मैतस्यै नमो नमः ॥२३॥

सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् । एभि-र्मन्त्रपदैरेव नमस्यामीशपार्वतीम् ॥२४॥

यत्र यत्र भवेत्सार्धमिमं मन्त्रमु-दीरयेत् । ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते ॥२५॥

सर्वाधिष्ठानम-द्वन्द्वं परं ब्रह्म सनातनम् । सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥२६॥

तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं शुक । तदात्मकत्वात्सर्वस्य तस्माद्भिन्नंनहि क्वचित् ॥२७॥

द्वे विद्ये वेदितव्ये हि परा चैवापरा च ते । तत्रापरातु विद्यैषा ऋग्वेदो यजुरेव च ॥२८॥

सामवेदस्तथाऽथर्ववेदः शिक्षा मुनी-श्वर । कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ॥२९॥

ज्योतिषं च यथानात्मविषया अपि बुद्धयः । अथैषा परमा विद्या ययात्मा परमाक्षरम् ॥३०॥

यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् । अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा॥३१॥

नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् । तद्भूतयोनिं पश्यन्तिधीरा आत्मानमात्मनि ॥३२॥

यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ।तस्मादत्रान्नरूपेण जायते जगदावलिः ॥३३॥

सत्यवद्भाति तत्सर्वं रज्जुसर्प-वदास्थितम् । तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥३४॥

ज्ञानेनैव हिसंसारविनाशो नैव कर्मणा । श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि ॥३५॥


Page-----------------५५२--गुरुस्तस्मै परां विद्यां दद्याद्ब्रह्मात्मबोधिनीम् । गुहायां निहितं साक्षादक्षरंवेद चेन्नरः ॥३६॥

छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् । तदे-तदमृतं सत्यं तद्बोद्धव्यं मुमुक्षुभिः ॥३७॥

धनुस्तारं शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥३८॥

लक्ष्यं सर्व-गतं चैव शरः सर्वगतो मुखः । वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः॥३९॥

न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकला देवताश्च ।स एष देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥४०॥

द्वौसुपर्णौ शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ । तयोर्जीवः फलं भुङ्क्ते कर्मणोन महेश्वरः ॥४१॥

केवलं साक्षिरूपेण विना भोगं महेश्वरः । प्रकाशतेस्वयं भेदः कल्पितो मायया तयोः ॥४२॥

घटाकाशमठाकाशौ यथाकाश-प्रभेदतः । कल्पितो परमौ जीवशिवरूपेण कल्पितौ ॥४३॥

तत्त्वतश्च शिवःसाक्षाच्चिज्जीवश्च स्वतः सदा । चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः॥४४॥

चितश्चिन्न चिदाकाराद्भिद्यते जडरूपतः । भिद्यते चेज्जडो भेदश्चि-देका सर्वदा खलु ॥४५॥

तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः । चिदे-कत्वपरिज्ञाने न शोचति न मुह्यति ॥४६॥

अद्वैतं परमानन्दं शिवं यातितु केवलम् ॥४७॥

अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् । अहम-स्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥४८॥

स्वशरीरे स्वयंज्योतिःस्वरूपंसर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥४९॥

एवंरूपपरिज्ञानं यस्यास्ति परयोगिनः । कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरू-पिणः ॥५०॥

आकाशमेकं संपूर्णं कुत्रचिन्नैव गच्छति । तद्वत्स्वात्मपरिज्ञानीकुत्रचिन्नैव गच्छति ॥५१॥

स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः ।ब्रह्मैव भवति स्वस्थः सच्चिदानन्दमातृकः ॥५२॥

इत्युपनिषत् ॥ हरिः ॐतत्सत् ॥ॐ स ह नाववत्विति शान्तिः ॥इति रुद्रहृदयोपनिषत्समाप्ता ॥८८॥


Page-----------------५५३--

योगकुण्डल्युपनिषत् ॥८९॥

सम्पाद्यताम्

योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् ।निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥

हेतुद्वयं हि चित्तस्य वासना च समीरणः । तयोर्विनष्ट एक-स्मिंस्तद्द्वावपि विनश्यतः ॥१॥

तयोरादौ समीरस्य जयं कुर्यान्नरः सदा ।मिताहारश्चासनं च शक्तिचालस्तृतीयकः ॥२॥

एतेषां लक्षणं वक्ष्ये शृणुगौतम सादरम् । सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ॥३॥

भुज्यते शिव-संप्रीत्यै मिताहारः स उच्यते । आसनं द्विविधं प्रोक्तं पद्मं वर्जासनं तथा॥४॥

ऊर्वोरुपरि चेद्धत्ते उभे पादतले यथा । पद्मासनं भवेदेतत्सर्वपाप-प्रणाशनम् ॥५॥

वामाङ्घ्रिमूलकन्दाधो ह्यन्यं तदुपरि क्षिपेत् । समग्रीवशिरः-कायो वज्रासनमितीरितम् ॥६॥

कुण्डल्येव भवेच्छक्तिस्तां तु संचालयेद्बुधः ।स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते ॥७॥

तत्साधने द्वयं मुख्यं सरस्व-त्यास्तु चालनम् । प्राणरोधमथाभ्यासादृज्वी कुण्डलिनी भवेत् ॥८॥

तयो-रादौ सरस्वत्याश्चालनं कथयामि ते । अरुन्धत्येव कथिता पुराविद्भिः सर-स्वती ॥९॥

यस्याः संचालनेनैव स्वयं चलति कुण्डली । इडायांवहति प्राणे बद्ध्वा पद्मासनं दृढम् ॥१०॥

द्वादशाङ्गुलदैर्घ्यं चअम्बरं चतुरङ्गुलम् । विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः॥११॥

अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद्दृढम् । स्वशक्त्या चाल-येद्वामे दक्षिणेन पुनः पुनः ॥१२॥

मुहूर्तद्वयपर्यन्तं निर्भयाच्चालये-त्सुधीः । ऊर्ध्वमाकर्षयेत्किंचित्सुषुम्नां कुण्डलीगताम् ॥१३॥

तेन कुण्डलिनीतस्याः सुषुम्नाया मुखं व्रजेत् । जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजतिस्वतः ॥१४॥

तुन्दे तु ताणं कुर्याच्च कण्ठसंकोचनेव कृते । सरस्वत्यां चाल-नेन वक्षसश्चोर्ध्वगो मरुत् ॥१५॥

सूर्येण रेचयेद्वायुं सरस्वत्यास्तु चालने ।कण्ठसंकोचनं कृत्वा वक्षसश्चोर्ध्वगो मरुत् ॥१६॥

तस्मात्संचालयेन्नित्यंशब्दगर्भां सरस्वतीम् । यस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥१७॥

गुल्मंजलोदरः प्लीहा ये चान्ये तुन्दमध्यगाः । सर्वे तु शक्तिचालेन रोगा नश्यन्ति निश्चयम् ॥१८॥


Page-----------------५५४--

प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः । प्राणश्च देहगोवायुरायामः कुम्भकः स्मृतः ॥१९॥

स एव द्विविधः प्रोक्तः सहितः केवल-स्तथा । यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥२०॥

सूर्योज्जायीशीतली च भस्त्री चैव चतुर्थिका । भेदैरेव समं कुम्भो यः स्यात्सहित-कुम्भकः ॥२१॥

पवित्रे निर्जने देशे शर्करादिविवर्जिते । धनुःप्रमाणपर्यन्तेशीताग्निजलवर्जिते ॥२२॥

पवित्रे नात्युच्चनीचे ह्यासने सुखदे सुखे ।बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम् ॥२३॥

दक्षनाड्या समाकृष्यबहिष्ठं पवनं शनैः । यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः ॥२४॥

कपाल-शोधने वापि रेचयेत्पवनं शनैः । चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च॥२५॥

पुनःपुनरिदं कार्यं सूर्यभेदमुदाहृतम् । मुखं संयम्य नाडिभ्या-माकृष्य पवनं शनैः ॥२६॥

यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ।पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः ॥२७॥

शीर्षोदितानलहरं गलश्लेष्म-हरं परम् । सर्वरोगहरं पुण्यं देहानलविवर्धनम् ॥२८॥

नाडीजलोदरंधातुगतदोषविनाशनम् । गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् ॥२९॥

जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु । शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलंसुधीः ॥३०॥

गुल्मप्लीहादिकान्दोषान्क्षयं पित्तं ज्वरं तृषाम् । विषाणिशीतली नाम कुम्भकोऽयं निहन्ति च ॥३१॥

ततः पद्मासनं बद्ध्वा सम-ग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥३२॥

यथालगति कण्ठात्तु कपाले सस्वनं ततः । वेगेन पूरयेत् किंचिद्धृत्पद्मावधि मारु-तम् ॥३३॥

पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकाराणां भस्त्रावेगेन चाल्यते ॥३४॥

तथैव स्वशरीरस्थं चालयेत्पवनं शनैः । यथा श्रमोभवेद्देहे तथा सूर्येण पूरयेत् ॥३५॥

यथोदरं भवेत्पूर्णं पवनेन तथा लघु ।धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् ॥३६॥

कुम्भकं पूर्ववत्कृत्वारेचयेदिडयानिलम् । कण्ठोत्थितानलहरं शरीराग्निविवर्धनम् ॥३७॥

कुण्डली-बोधकं पुण्यं पापघ्नं शुभदं सुखम् । ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाश-नम् ॥३८॥

गुणत्रयसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यंभस्त्राख्यं कुम्भकं त्विदम् ॥३९॥

चतुर्णामपि भेदानां कुम्भके समुपस्थिते ।बन्धत्रयमिदं कार्यं योगिभिर्वीतकल्मषैः ॥४०॥

प्रथमो मूलबन्धस्तुद्वितीयोड्डीयणाभिधः । जालन्धरस्तृतीयस्तु तेषां लक्षणमुच्यते ॥४१॥


Page-----------------५५५--

अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूल-बन्धोऽयमुच्यते ॥४२॥

अपाने चोर्ध्वगे याते संप्राप्ते वह्निमण्डले ।ततोऽनलशिखा दीर्घा वर्धते वायुनाहता ॥४३॥

ततो यातौ वह्न्यमानौप्राणमुष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तेन ज्वलनो देहजस्तथा ॥४४॥

तेनकुण्डलिनी सुप्ता संतप्ता संप्रबुध्यते । दण्डाहतभुजङ्गीव निःश्वस्य ऋजुतांव्रजेत् ॥४५॥

बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं व्रजेत् । तस्मान्नित्यं मूलबन्धःकर्तव्यो योगिभिः सदा ॥४६॥

कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः ।बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥४७॥

तस्मादुड्डीयणाख्योऽयंयोगिभिः समुदाहृतः । सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् ॥४८॥

गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् । पश्चिमं ताणमुदरे धारयेद्धृदये गले॥४९॥

शनैः शनैर्यदा प्राणस्तुन्दसन्धिं निगच्छति । तुन्ददोषं विनिर्धूय कर्तव्यंसततं शनैः ॥५०॥

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कण्ठ-संकोचरूपोऽसौ वायुमार्गनिरोधकः ॥५१॥

अधस्तात्कुञ्चनेनाशु कण्ठसं-कोचने कृते । मध्ये पश्चिमताणेन स्यात्प्राणो ब्रह्मनाडिगः ॥५२॥

पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः । चालनं तु सरस्वत्याः कृत्वाप्राणं निरोधयेत् ॥५३॥

प्रथमे दिवसे कार्यं कुम्भकानां चतुष्टयम् ।प्रत्येकं दशसंख्याकं द्वितीये पञ्चभिस्तथा ॥५४॥

विशत्यलं तृतीयेऽह्निपञ्चवृद्ध्या दिने दिने । कर्तव्यः कुम्भको नित्यं बन्धत्रयसमन्वितः ॥५५॥

दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् । बहुसंक्रमणं नित्यं रोधान्मूत्र-पुरीषयोः ॥५६॥

विषमाशनदोषाच्च प्रयासप्राणचिन्तनात् । शीघ्रमुत्पच्चतेरोगः स्तम्भयेद्यदि संयमी ॥५७॥

योगाभ्यासेन मे रोग उत्पन्न इतिकथ्यते । ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्नमुच्यते ॥५८॥

द्वितीयं संशयाख्यंच तृतीयं च प्रमत्तता । आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् ॥५१॥

षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् । विषमं चाष्टमं चैव अनाख्यंनवमं स्मृतम् ॥६०॥

अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः । इत्येत-द्विघ्नदशकं विचारेण त्यजेद्बुधः ॥६१॥

प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्व-स्थया धिया । सुषुम्ना लीयते चित्तं तथा वायुः प्रधावति ॥६२॥

शुष्केमले तु योगी च स्याद्गतिश्चलिता ततः । अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् ॥६३॥


Page-----------------५५६--

आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते । अपानश्चोर्ध्वगोभूत्वा वह्निना सह गच्छति ॥६४॥

प्राणस्थानं ततो वह्निः प्राणापानौ चसत्वरम् । मिलित्वा कुण्डलीं याति प्रसुप्ता कुण्डलाकृतिः ॥६५॥

तेना-ग्निना च संतप्ता पवनेनैव चालिता । प्रसार्य स्वशरीरं तु सुषुम्ना वदनान्तरे॥६६॥

ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुणसमुद्भवम् । सुषुम्ना वदने शीघ्रंविद्युल्लेखेव संस्फुरेत् ॥६७॥

विष्णुग्रन्थिं प्रयात्युच्चैः सत्वरं हृदि संस्थिता ।ऊर्ध्वं गच्छति यच्चास्ते रुद्रग्रन्थिं तदुद्भवम् ॥६८॥

भ्रुवोर्मध्यं तु संभिद्ययाति शीतांशुमण्डलम् । अनाहताख्यं यच्चक्रं दलैः षोडशभिर्युतम् ॥६९॥

तत्र शीतांशुसंजातं द्रवं शोषयति स्वयम् । चलिते प्राणवेगेन रक्तं पित्तंरवेर्ग्रहात् ॥७०॥

यातेन्दुचक्रं यत्रास्ते शुद्धश्लेष्मद्रवात्मकम् । तत्र सिक्तंग्रसत्युष्णं कथं शीतस्वभावकम् ॥७१॥

तथैव रभसा शुक्लं चन्द्ररूपं हितप्यते । ऊर्ध्वं प्रवहति क्षुब्धा तदैवं भ्रमतेतराम् ॥७२॥

तस्यास्वादवशा-च्चित्तं बहिष्ठं विषयेषु यत् । तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा॥७३॥

प्रकृत्यष्टकरूपं च स्थानं गच्छति कुण्डली । क्रोडीकृत्य शिवं यातिक्रोडीकृत्य विलीयते ॥७४॥

इत्यधोर्ध्वरजः शुक्लं शिवे तदनु मारुतः ।प्राणापानौ समौ याति सदा जातौ तथैव च ॥७५॥

भूतेऽल्पे चाप्यनल्पेवा वाचके त्वतिवर्धते । धावयत्यखिला वाता अग्निमूषाहिरण्यवत् ॥७६॥

आधिभौतिकदेहं तु आधिदैविकविग्रहे । देहोऽतिविमलं याति चातिवाहि-कतामियात् ॥७७॥

जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् । तस्याति-वाहिकं मुख्यं सर्वेषां तु मदात्मकम् ॥७८॥

जायाभवविनिर्मुक्तिः काल-रूपस्य विभ्रमः । इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् ॥७९॥

मृषैवोदेति सकलं मृषैव प्रविलीयते । रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसो-र्भ्रमतो यथा ॥८०॥

पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरपि । स्वापाव्या-कृतयोरैक्यं स्वप्रकाशचिदात्मनोः ॥८१॥

शक्तिः कुण्डलिनी नाम बिस-तन्तुनिभा शुभा । मूलकन्दं फणाग्रेण दृष्ट्वा कमलकन्दवत् ॥८२॥

मुखेनपुच्छं संगृह्य ब्रह्मरन्ध्रसमन्विता । पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः॥८३॥

वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः । वाय्वाघातवशादग्निःस्वाधिष्ठानगतो ज्वलन् ॥८४॥

ज्वलनाघातपवनाघातैरुन्निद्रितोऽहिराट् । ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः ॥८५॥

रुद्रग्रन्थिं चभित्त्वैव कमलानि भिनत्ति षट् । सहस्रकमले शक्तिः शिवेन सह मोदते॥८६॥

सैवावस्था परा ज्ञेया सैव निर्वृतिकारिणी इति ॥ इति योगकुण्डल्युपनिषत्सु प्रथमोऽध्यायः ॥१॥


Page-----------------५५७--

अथाहं संप्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् । यथा विज्ञानवानस्यालोकेऽस्मिन्नजरोऽमरः ॥१॥

मृत्युव्याधिजराग्रस्तो दृष्ट्वा विद्यामिमां मुने ।बुद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् ॥२॥

जरामृत्युगदघ्नो यः खेचरींवेत्ति भूतले । ग्रन्थतश्चार्यतश्चैव तदभ्यासप्रयोगतः ॥३॥

तं मुने सर्वभा-वेन गुरुं मत्वा समाश्रयेत् । दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः॥४॥

अभ्यासं मेलनं चैव युगपन्नैव सिध्यति । अभ्यासमात्रनिरता नविन्दन्ते ह मेलनम् ॥५॥

अभ्यासं लभते ब्रह्मञ्जन्मजन्मान्तरे क्वचित् ।मेलनं तत्तु जन्मानां शतान्तेऽपि न लभ्यते ॥६॥

अभ्यासं बहुजन्मान्तेकृत्वा तद्भावसाधितम् । मेलनं लभते कश्चिद्योगी जन्मान्तरे क्वचित् ॥७॥

यदा तु मेलनं योगी लभते गुरुवक्त्रतः । तदा तत्सिद्धिमाप्नोति यदुक्ताशास्त्रसंततौ ॥८॥

ग्रन्थतश्चार्थतश्चैव मेलनं लभते यदा । तदा शिवत्वमा-प्नोति निर्मुक्तः सर्वसंसृतेः ॥९॥

शास्त्रं विनापि संबोद्धुं गुरवोऽपि नशक्नुयुः । तस्मात्सुदुर्लभतरं लभ्यं शास्त्रमिदं मुने ॥१०॥

यावन्न लभ्यतेशास्त्रं तावद्गां पर्यटेद्यतिः । यदा संलभ्यते शास्त्रं तदा सिद्धिः करेस्थिता ॥११॥

न शास्त्रेण विना सिद्धिर्दृष्टा चैव जगत्त्रये । तस्मान्मेलनदा-तारं शास्त्रदातारमच्युतम् ॥१२॥

तदभ्यासप्रदातारं शिवं मत्वा समाश्र-येत् । लब्ध्वा शास्त्रमिदं मह्यामन्येषां न प्रकाशयेत् ॥१३॥

तस्मात्सर्वप्रय-त्नेन गोपनीयं विजानता । यत्रास्ते च गुरुर्ब्रह्मन्दिव्ययोगप्रदायकः ॥१४॥

तत्र गत्वा च तेनोक्तविद्यां संगृह्य खेचरीम् । तेनोक्तः सम्यगभ्यासं कुर्यादा-दावतन्द्रितः ॥१५॥

अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् । खेचर्याखेचरीं युञ्जन्खेचरीबीजपूरया ॥१६॥

खेचराधिपतिर्भूत्वा खेचरेषु सदावसेत् । खेचरावसथं वह्निमम्बुमण्डलभूषितम् ॥१७॥

आख्यातं खेचरीबीजंतेन योगः प्रसिध्यति । सोमांशनवकं वर्णं प्रतिलोमेन चोद्धरेत् ॥१८॥

तस्मात्त्र्यंशकमाख्यातमक्षरं चन्द्ररूपकम् । तस्मादप्यष्टमं वर्णं विलोमेन परंमुने ॥१९॥

तथा तत्परमं विद्धि तदादिरपि पञ्चमी । इन्दोश्च बहुभिन्ने च-----Page-----------------५५८--कूटोऽयं परिकीर्तितः ॥२०॥

गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् । यत्तस्यदेहजा माया निरुद्धकरणाश्रया ॥२१॥

स्वप्नेऽपि न लभेत्तस्य नित्यं द्वादश-जप्यतः । य इमां पञ्च लक्षाणि जपेदपि सुयत्त्रितः ॥२२॥

तस्य श्रीखेचरी-सिद्धिः स्वयमेव प्रवर्तते । नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः॥२३॥

वलीपलितनाशश्च भविष्यति न संशयः । एवं लब्ध्वा महाविद्या-मभ्यासं कारयेत्ततः ॥२४॥

अन्यथा क्लिश्यते ब्रह्मन्न सिद्धिः खेचरीपथे ।यदभ्यासविधौ विद्यां न लभेद्यः सुधामयीम् ॥२५॥

ततः संमेलकादौ चलब्ध्वा विद्यां सदा जपेत् । नान्यथा रहितो ब्रह्मन्न किंचित्सिद्धिभाग्भवेत्॥२६॥

यदिदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् । ततस्तदोदितां सिद्धि-माशु तां लभते मुनिः ॥२७॥

तालुमूलं समुत्कृष्य सप्तवासरमात्मवित् ।स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् ॥२८॥

स्नुहिपत्रनिभं शस्त्रं सुतीक्ष्णंस्निग्धनिर्मलम् । समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥२९॥

हित्वासैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समु-च्छिनेत् ॥३०॥

एवं क्रमेण षण्मासं नित्योद्युक्तः समाचरेत् । षण्मासा-द्रसनामूलं सिराबद्धं प्रणश्यति ॥३१॥

अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्ट-येत् । शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् ॥३२॥

पुनः षण्मासमात्रेणनित्यं संघर्षणान्मुने । भ्रूमध्यावधि चाप्येति तिर्यक्कणबिलावधिः ॥३३॥

अधश्च चुबुकं मूलं प्रयाति क्रमचारिता । पुनः संवत्सराणां तु तृतीयादेवलीलया ॥३४॥

केशान्तमूर्ध्वं क्रमति तिर्यक्शाखावधिर्मुने । अधस्तात्कण्ठ-कूपान्तं पुनर्वर्षत्रयेण तु ॥३५॥

ब्रह्मरन्ध्रं समावृत्य तिष्ठेदेव न संशयः ।तिर्यक् चूलितलं याति अधः कण्ठबिलावधि ॥३६॥

शनैः शनैर्मस्तकाच्चमहावज्रकपाटभित् । पूर्वं बीजयुता विद्या ह्याख्याता याऽतिदुर्लभा ॥३७॥

तस्याः षडङ्गं कुर्वीत तया षट्स्वरभिन्नया । कुर्यादेवं करन्यासं सर्वसिद्ध्या-दिहेतवे ॥३८॥

शनैरेवं प्रकर्तव्यमभ्यासं युगपन्नहि । युगपद्वर्तते यस्यशरीरं विलयं व्रजेत् ॥३९॥

तस्माच्छनैः शनैः कार्यमभ्यासं मुनिपुङ्गव । यदाच बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् ॥४०॥

तदा ब्रह्मार्गलं ब्रह्मन्दुर्भेद्यंत्रिदशैरपि । अङ्गुल्यग्रेण संघृष्य जिह्वामात्रं निवेशयेत् ॥४१॥

एवं वर्षत्रयंकृत्वा ब्रह्मद्वारं प्रविश्यति । ब्रह्मद्वारे प्रविष्ट तु सम्यङ्मथनमोचरेत् ॥४२॥


Page-----------------५५९--मथनेन विना केचित्साध्यन्ति विपश्चितः । खेचरीमन्त्रसिद्धस्य सिध्यते मथनंविना ॥४३॥

जपं च मथनं चैव कृत्वा शीघ्रं फलं लभेत् । स्वर्णजां रौप्यजांवापि लोहजां वा शलाकिकाम् ॥४४॥

नियोज्य नासिकारन्ध्रं दुग्धसिक्तेनतन्तुना । प्राणान्निरुध्य हृदये सुखमासनमात्मनः ॥४५॥

शनैः सुमथनंकुर्याद्भूमध्ये न्यस्य चक्षुषी । षण्मासं मथनावस्था भावेनैव प्रजायते ॥४६॥

यथा सुषुप्तिर्बालानां यथा भावस्तथा भवेत् । न सदा मथनं शस्तं मासेमासे समाचरेत् ॥४७॥

सदा रसनया योगी मार्गं न परिसंक्रमेत् । एवंद्वादशवर्षान्ते संसिद्धिर्भवति ध्रुवा ॥४८॥

शरीरे सकलं विश्वं पश्यत्या-त्माविभेदतः । ब्रह्माण्डोऽयं महामार्गे राजदन्तोर्ध्वकुण्डली ॥४९॥

इति ॥इति योगकुण्डल्युपनिषत्सु द्वितीयोऽध्यायः ॥२॥

मेलनमनुः । ह्रीं भं सं पं फं सं क्षम् । पद्मज उवाच । अमावास्या चप्रतिपत्पौर्णमासी च शंकर । अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः॥१॥

प्रतिपद्दिनतोऽकाले अमावास्या तथैव च । पौर्णमास्यां स्थिरीकुर्यात्सच पन्था हि नान्यथा ॥२॥

कामेन विषयाकाङ्क्षी विषयात्काममोहितः ।द्वावेव संत्यजेन्नित्यं निरञ्जनमुपाश्रयेत् ॥३॥

अपरं संत्यजेत्सर्वं यदीच्छेदा-त्मनो हितम् । शक्तिमध्ये मनः कृत्वा मनः शक्तेश्च मध्यगम् ॥४॥

मनसामन आलोक्य तत्त्यजेत्परमं पदम् । मन एव हि बिन्दुश्च उत्पत्तिस्थिति-कारणम् ॥५॥

मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् । न च बन्धन-मध्यस्थं तद्वै कारणमानसम् ॥६॥

चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्ध-नम् । ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा वायुं च मध्यगम् ॥७॥

स्थित्वाऽसौबैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् । वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतमेवच ॥८॥

षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् । मूलाधारं स्वाधि-ष्ठानं मणिपूरं तृतीयकम् ॥९॥

अनाहतं विशुद्धं च आज्ञाचक्रं च षष्ठकम् ।आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्गिकम् ॥१०॥

मणिपूरं नाभिदेशंहृदयस्थमनाहतम् । विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् ॥११॥

षट्चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डले । प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोज-येत् ॥१२॥

एवं समभ्यसेद्वायुं स ब्रह्माण्डमयो भवेत् । वायुं बिन्दुं तथा चक्रंचित्तं चैव समभ्यसेत् ॥१३॥

समाधिमेकेन समममृतं यान्ति योगिनः ।-----Page-----------------५६०--यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना ॥१४॥

विना चाभ्यासयोगेनज्ञानदीपस्तथा न हि । घटमध्यगतो दीपो बाह्ये नैव प्रकाशते ॥१५॥

भिन्ने तस्मिन्घटे चैव दीपज्वाला च भासते । स्वकायं घटमित्युक्तं यथा दीपोहि तत्पदम् ॥१६॥

गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् । कर्णधारंगुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च ॥१७॥

अभ्यासवासनाशक्त्या तरन्तिभवसागरम् । परायामङ्कुरीभूय पश्यन्त्यां द्विदलीकृता ॥१८॥

मध्यमायांमुकुलिता वैखर्यां विकसीकृता । पूर्वं यथोदिता या वाग्विलोमेनास्तगाभवेत् ॥१९॥

तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः । सोऽहमस्मीतिनिश्चित्य यः सदा वर्तते पुमान् ॥२०॥

शब्दैरुच्चावचैर्नीचैर्भाषितोऽपि नलिप्यते । विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयः ॥२१॥

विराड्ढिरण्य-गर्भश्च ईश्वरश्चेति ते त्रयः । ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात्॥२२॥

स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि । अण्डं ज्ञानाग्निना तप्तंलीयते कारणैः सह ॥२३॥

परमात्मनि लीनं तत्परं ब्रह्मैव जायते । ततःस्तिमितगम्भीरं न तेजो न तमस्ततम् ॥२४॥

अनाख्यमनभिव्यक्तं सत्किंचि-दवशिष्यते । ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् ॥२५॥

अङ्गुष्ठ-मात्रमात्मानमधूमज्योतिरूपकम् । प्रकाशयन्तमन्तःस्थं ध्यायेत्कूटस्थमव्ययम्॥२६॥

विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः । मायया मोहितःपश्चाद्बहुजन्मान्तरे पुनः ॥२७॥

सत्कर्मपरिपाकात्तु स्वविकारं चिकीर्षति ।कोऽहं कथमयं दोषः संसाराख्य उपागतः ॥२८॥

जाग्रत्स्वप्ने व्यवहरन्सु-षुप्तौ क्व गतिर्मम । इति चिन्तापरो भूत्वा स्वभासा च विशेषतः ॥२९॥

अज्ञानात्तु चिदाभासो बहिस्तापेन तापितः । दग्धं भवत्येव तदा तूलपिण्ड-मिवाग्निना ॥३०॥

दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् । विततोव्याप्य विज्ञानं दहत्येव क्षणेन तु ॥३१॥

मनोमयज्ञानमयान्सम्यग्दग्ध्वाक्रमेण तु । घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥३२॥

ध्यायन्नास्ते मुनिश्चै-वमासुप्तेरामृतेस्तु यः । जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ॥३३॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेशमुक्तत्वं पवनोऽस्प-न्दतामिव ॥३४॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्चयत् । अनाद्यनन्तं महतः परं ध्रुवं तदेव शिष्यत्यमलं निरामयम् ॥३५॥

हरिः ॐ तत्सत् ॥ इति योगकुण्डल्युपनिषत्सु तृतीयोऽध्यायः ॥३॥

ॐ स ह नाववत्विति शान्तिः ।इति योगकुण्डल्युपनिषत्समाप्ता ॥८९॥


Page-----------------५६१--


भस्मजाबालोपनिषत् ॥९०॥

सम्पाद्यताम्

यत्साम्यज्ञानकालाग्निस्वातिरिक्तास्तिताभ्रमम् ।करोति भस्म निःशेषं तत्ब्रह्मैवास्मि केवलम् ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

अथ जाबालो भुसुण्डः कैलासशिखरावासमॐकारस्वरूपिणंमहादेवमुमार्धकृतशेखरं सोमसूर्याग्निनयनमनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरंमृगहस्तं भस्मोद्धूलितविग्रहं तिर्यक्!त्रिपुण्ड्ररेखाविराजमानभालप्रदेशं स्मित-संपूर्णपञ्चविधपञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तं निष्कलं निर्गुणं शान्तंनिरञ्जनमनामयं हुम्फट्कुर्वाणं शिवनामान्यनिशमुच्चरन्तं हिरण्यबाहुं हि-रण्यरूपं हिरण्यवर्णं हिरण्यनिधिमद्वैतं चतुर्थं ब्रह्मविष्णुरुद्रातीतमेकमाशास्यंभगवन्तं शिवं प्रणम्य मुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमाङ्गःकृताञ्जलिपुटः पप्रच्छाधीहि भगवन्वेदसारमुद्धृत्य त्रिपुण्ड्रविधिं यस्मादन्या-नपेक्षमेव मोक्षोपलब्धिः । किं भस्मनो द्रव्यम् । कानि स्थानानि । मनवोऽ-प्यत्र के वा । कति वा तस्य धारणम् । के वात्राधिकारिणः । नियमस्तेषांको वा । मामन्तेवासिनमनुशासयामोक्षमिति । अथ स होवाच भगवान्प-रमेश्वरः परमकारुणिकः प्रमथान्सुरानपि सोऽन्वीक्ष्य पूतं प्रातरुदयाद्गोमयंब्रह्मपर्णे निधाय त्र्यम्बकमिति मन्त्रेण शोषयेत् । येन केनापि तेजसा तत्स्व-गृह्योक्तमार्गेण प्रतिष्ठाप्य वह्निं तत्र तद्गोमयद्रव्यं निधाय सोमाय स्वाहेतिमन्त्रेण ततस्तिल्व्रीहिभिः साज्यैर्जुहुयात् । अयं तेनाष्टोत्तरसहस्रं सार्धमेतद्वा ।तत्राज्यस्य पर्णमयी जुहूर्भवति । तेन न पापं शृणोति । तद्धोममन्त्रस्त्र्यम्ब-कमित्येव अन्ते स्विष्टकृत्पूर्णाहुतिस्तेनैवाष्टदिक्षु बलिप्रदानम् । तद्भस्मगायत्र्या संप्रोक्ष्य तद्धैमे राजते ताम्रे मृण्मये वा पात्रे निधाय रुद्रमन्त्रैः पुनर-भ्युक्ष्य शुद्धदेशे संस्थापयेत् । ततो भोजयेद्ब्राह्मणान् । ततः स्वयं पूतोभवति । मानस्तोक इति सद्यो जातमित्यादि पञ्चब्रह्ममन्त्र्तैर्भस्म संगृह्या-ग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्मदेवा भस्म ऋषयो भस्म । सर्व ह वा एतदिदं भस्म पूतं पावनं नमामि सद्यःसमस्ताघशासकमिति शिरसाभिनम्य । पूते वामहस्ते वामदेवायेति निधाय-----Page-----------------५६२--त्र्यम्बकमिति संप्रोक्ष्य शुद्धं शुद्धेनेति संमृज्य संशोध्य तेनैवापादशीर्षमुद्धू-लनमाचरेत् । तत्र ब्रह्ममन्त्राः पञ्च । ततः शेषस्य भस्मनो विनियोगः ।तर्जनीमध्यमानामिकाभि रग्नेर्भस्मासीति भस्म संगृह्य मूर्धानमिति मूर्धन्यग्रेन्यसेत् । त्र्यम्बकमिति ललाटे नीलग्रीवायेति कण्ठे कण्ठस्य दक्षिणे पार्श्वेत्र्यायुषमितिवामेति कपोलयोः कालायेति नेत्रयोस्त्रिलोचनायेति श्रोत्रयोःशृणवामेति वक्त्रे प्रब्रवामेति हृदये आत्मन इति नाभौ नाभिरिति मन्त्रेणदक्षिणभुजमूले भवायेति तन्मध्ये रुद्रायेति तन्मणिबन्धे शर्वायेति तस्कर-पृष्ठे पशुपतय इति वामबाहुमूले उग्रायेति तन्मध्ये अग्रेवधायेति तन्म-णिबन्धे दूरेवधायेति तत्करपृष्ठे नमो हत्त्र इति अंसे शंकरायेति यथाक्रमंभस्म धृत्वा सोमायेति शिवं नत्वा ततः प्रक्षाल्य तद्भस्मापः पुनन्त्वितिपिबेत् । नाधो त्याज्यं नाधो त्याज्यम् । एतन्मध्याह्नसायाह्नेषु त्रिकालेषुविधिवद्भस्मधारणमप्रमादेन कार्यम् । प्रमादात्पतितो भवति । ब्राह्मणानाम-यमेव धर्मोऽयमेव धर्मः । एवं भस्मधारणमकृत्वा नाश्नीयादापोऽन्नमन्यद्वा ।प्रमादात्त्यक्त्वा भस्मधारणं न गायत्रीं जपेत् । न जुहुयादग्नौ तर्पयेद्देवानृ-षीन्पित्रादीन् । अयमेव धर्मः सनातनः सर्वपापनाशको मोक्षहेतुः ।नित्योऽयं धर्मो ब्राह्मणानां ब्रह्मचारिगृहिवानप्रस्थयतीनाम् । एतदकरणे प्रत्य-वैति ब्राह्मणः । अकृत्वा प्रमादेनैतदष्टोत्तरशतं जलमध्ये स्थित्वा गायत्रींजप्त्वोपोषणेनैकेन शुद्धो भवति । यतिर्भस्मधारणं त्यक्त्वैकदोपोष्य द्वादश-सहस्रप्रणवं जप्त्वा शुद्धो भवति । अन्यथेन्द्रो यतीन्सालावृकेभ्यः पात-यति । भस्मनो यद्यभावस्तदा नर्यभस्मदाहनजन्यमन्यद्वावश्यं मन्त्रपूतंधार्यम् । एतत्प्रातः प्रयुञ्जानो रात्रिकृतात्पापात्पूतो भवति । स्वर्णस्तेयात्म-मुच्यते । मध्यन्दिने माध्यन्दिनं कृत्वोपस्थानान्तं ध्यायमान आदित्याभि-मुखोऽधीयानः सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्राह्मण-वधात्पूतो भवति । गोवधात्पूतो भवति । अश्ववधात्पूतो भवति । गुरुवधा-त्पूतो भवति । मातृवधात्पूतो भवति । पितृवधात्पूतो भवति । त्रिकाल-मेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति । सर्वतीर्थफलमश्नुते । अनप-ब्रुवः सर्वमायुरेति । विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । एवमावर्तये-दुपनिषदमित्याह भगवान्सदाशिवः साम्बः सदाशिवः साम्बः ॥इति भस्मजाबालोपनिषत्सु प्रथमोऽध्यायः ॥१॥


Page-----------------५६३--अथ भुसुण्डो जाबालो महादेवं साम्बं प्रणम्य पुनः पप्रच्छ किं नित्यंब्राह्मणानां कर्तव्यं यदकरणे प्रत्यवैति ब्राह्मणः । कः पूजनीयः । को वाध्येयः । कः स्मर्तव्यः । कथं ध्येयः । क्व स्थातव्यमेतद्ब्रूहीति । सामासेन तंहोवाच । प्रागुदयान्निर्वर्त्य शौचादिकं ततः स्नायात् । मार्जनं रुद्रसूक्तैः ।ततश्चाहतं वासः परिधत्ते पाप्मनोपहृत्यै । उद्यन्तमादित्यमभिध्यायन्नुद्धूलि-ताङ्गं कृत्वा यथास्थानं भस्मना त्रिपुण्ड्रं श्वेतेनैव रुद्राक्षाञ्छ्वेतान्विभृयात् ।नैतत् संमर्शः । तथान्ये । मूर्ध्नि चत्वारिंशत् । शिखायामेकं त्रयं वा । श्रोत्र-योर्द्वादश । कण्ठे द्वात्रिंशत् । बाह्वोः षोडश षोडश । द्वादश द्वादश मणिव-न्धयोः षट्षडङ्गुष्ठयोः । ततः संध्यां सकुशोऽहरहरुपासीत । अग्निर्ज्योति-रित्यादिभिरग्नौ जुहुयात् । शिवलिङ्गं त्रिसंध्यमभ्यर्च्य कुशेष्वासीनो ध्यात्वासाम्बं मामेव वृषभारूढं हिरण्यबाहुं हिरण्यवर्णं हिरण्यरूपं पशुपाशविमोचकंपुरुषं कृष्णपिङ्गलमूर्ध्वरेतसं विरूपाक्षं विश्वरूपं सहस्राक्षं सहस्रशीर्षं सहस्रचरणंविश्वतोबाहुं विश्वात्मानमेकमद्वैतं निष्कलं निष्क्रियं शान्तं शिवमक्षरमव्ययंहरिहरहिरण्यगर्भस्रष्टारमप्रमेयमनाद्यन्तं रुद्रसूक्तैरभिषिच्य सितेन भस्मनाश्रीफलदलैश्च त्रिशाखैरार्द्रैरनार्द्रैर्वा । न तत्र संस्पर्शः । तत्पूजासाधनं कल्प-येच्च नैवेद्यं । ततश्चैकादशगुणरुद्रो जपनीयः । एकगुणोऽनन्तः । षडक्षरो-ऽष्टाक्षरो वा शैवो मन्त्रो जपनीयः । ओमित्यग्रे व्याहरेत् । नम इति पश्चात् ।ततः शिवायेत्यक्षरत्रयम् । ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । ततोमहादेवायेति पञ्चाक्षराणि । नातस्तारकः परमो मन्त्रः । तारकोऽयं पञ्चा-क्षरः । कोऽयं शैवो मनुः । शैवस्तारकोऽयमुपदिश्यते मनुरविमुक्ते शैवेभ्योजीवेभ्यः । शैवोऽयमेव मन्त्रस्तारयति । स एव ब्रह्मोपदेशः । ब्रह्म सोमोऽर्हपवनः सोमोऽहं पवते सोमोऽहं जनिता मतीनां सोमोऽहं जनिता पृथिव्याःसोमोऽहं जनिताऽग्नेः सोमोऽहं जनिता सूर्यस्य सोमोऽहं जनितेन्द्रस्यसोमोऽहं जनितोत विष्णोः सोमोऽहमेव जनिता स यश्चन्द्रमसो देवानांभूर्भुवःस्वरादीनां सर्वेषां लोकानां च विश्वं भूतं भुवनं चित्रं बहुधा जातंजायमानं च यत्सर्वस्य सोमोऽहमेव जनिता विश्वाधिको रुद्रो महर्षिः हिर-ण्यगर्भादीनहं जायमानान्पश्यामि । यो रुद्रो अग्नौ यो अप्सु य ओषधीषुयो रुद्रो विश्वा भुवना विवेशैवमेव । अयमेवात्मान्तरात्मा ब्रह्मज्योतिर्य-स्मान्न मत्तोऽन्यः परः । अहमेव परो विश्वाधिकः । मामेव विदित्वाऽमृतत्व-मेति । तरति शोकम् । मामेव विदित्वा सांसृतिकीं रुजं द्रावयति । तस्मा-----Page------------------५६४--दहं रुद्रो यः सर्वेषां परमा गतिः । सोऽहं सर्वाकारः । यतो वा इमानिभूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तंमामेव विदित्वोपासीत । भूतेभिर्देवेभिरभिष्टुतोऽहमेव । भीषास्माद्वातः पवते ।भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च । सोमोऽत एव योऽहं सर्वेषामधि-ष्ठाता सर्वेषां च भूतानां पालकः । सोऽहं पृथिवी । सोऽहमापः । सोऽहं तेजः ।सोऽहं वायुः । सोऽहं कालः । सोऽहं दिशः । सोऽहमात्मा । मयि सर्वं प्रति-ष्ठितम् । ब्रह्मविदाप्नोति परम् । ब्रह्मा शिवो मे अस्तु सदाशिवोम् । अचक्षु-र्विश्वतश्चक्षुरकर्णो शिश्वतःकर्णोऽपादो विश्वतःपादोऽपाणिर्विश्वतःपाणिरहमशिराविश्वतःशिरा विद्यामन्त्रैकसंश्रयो विद्यारूपो विद्यामयो विश्वेश्वरोऽहमजरो-ऽहम् । मामेवं विदित्वा संसृतिपाशात्प्रमुच्यते । तस्मादहं पशुपाशवि-मोचकः । पशवश्चामानवान्तं मध्यवर्तिनश्च युक्तात्मानो यतन्ते मामेवप्राप्तुम् । प्राप्यन्ते मां न पुनरावर्तन्ते । त्रिशूलगां काशीमधिश्रित्य त्यक्ता-सवोऽपि मय्येव संविशन्ति । प्रज्वलद्वह्निगं हविर्यथा न यजमानमा-सादयति तथासौ त्यक्त्वा कुणपं न तत्तादृशं पुरा प्राप्नुवन्ति । एष एवा-देशः एष उपदेशः । एष एव परमो धर्मः । सत्यात्तत्र कदाचिन्न प्रमदि-तठयं तत्रोद्धूलनत्रिपुण्ड्राभ्याम् । तथा रुद्राक्षाद्यधारणात्तथा मदर्चनाच्च । प्रमा-देनापि नान्तर्देवसदने पुरीषं कुर्यात् । व्रतान्न प्रमदितव्यम् तद्धि तपस्तद्धितपः काश्यामेव मुक्तिकामानाम् । न तत्त्याज्यं न तत्त्याज्यं मोचकोऽहमविमुक्तेनिवसताम् । नाविमुक्तात्परमं स्थानम् । नाविमुक्तात्परमं स्थानम् । काश्यांस्थानानि चत्वारि । तेषामभ्यर्हितमन्तर्गृहम् । तत्राप्यविमुक्तमभ्यर्हितम् ।तत्र स्थानानि पञ्च । तन्मध्ये शिवागारमभ्यर्हितम् । तत्र प्राच्यामैश्वर्यस्था-नम् । दक्षिणायां विचालनस्थानम् । पश्चिमायां वैराग्यस्थानम् । उत्तरायांज्ञानस्थानम् । तस्मिन्यदन्तर्निर्लिप्तमव्ययमनाद्यन्तमशेषवेदवेदान्तवेद्यमनि-र्देश्यमनिरुक्तमप्रच्यवमाशास्यमद्वैतं सर्वाधारमनाधारमनिरीक्ष्यमहरहर्ब्रह्मवि-ष्णुपुरन्दराद्यमरवरसेवितं मामेव ज्योतिःस्वरूपं लिङ्गं मामेवोपासितव्यंतदेवोपासितव्यम् । नैव भावयन्ति तल्लिङ्गं भानुश्चन्द्रोऽग्निर्वायुः । स्वप्रकाशंविश्वेश्वराभिधं पातालमधितिष्ठति । तदेवाहम् । तत्रार्चितोऽहम् । साक्षाद-र्चितः त्रिशाखैर्बिल्वदलैर्दीप्तैर्वा योऽभिसंपूजयेन्मन्मना मय्याहितासुर्मय्ये-वार्पिताखिलकर्मा भस्मदिग्धाङ्गो रुद्राक्षभूषणो मामेव सर्वभावेन प्रपन्नो मदे-----Page------------------५६५--कपूजानिरतः संपूजयेत् । तदहमश्नामि । तं मोचयामि संसृतिपाशात् । अहर-हरभ्यर्च्य विश्वेश्वरं लिङ्गं तत्र रुद्रसूक्तैरभिषिच्य तदेव स्नपनपयस्त्रिः पीत्वामहापातकेभ्यो मुच्यते । न शोकमाप्नोति । मुच्यते संसारबन्धनात् । तदन-भ्यर्च्य नाश्नीयात्फलमन्नमन्यद्वा । यदश्नीयाद्रेतोभक्षीभवेत् । नापः पिबेत् ।यदि पिबेत्पूयपो भवेत् । प्रमादेनैकदा त्वनभ्यर्च्य मां भुक्त्वा भोजयित्वाकेशान्वापयित्वा गव्यानां पञ्च संगृह्योपोष्य जले रुद्रस्नानम् । जपेत्त्रिवारंरुद्रानुवाकम् । आदित्यं पश्यन्नभिध्यायन्स्वकृतकर्मकृद्रौद्रैरेव मन्त्रैः कुर्यान्मा-र्जनम् । ततो भोजयित्वा ब्राह्मणान्पूतो भवति । अन्यथा परेतो यातनाम-श्नुते । पत्रैः फलैर्वा जलैर्वान्यैर्वाभिपूज्य विश्वेश्वरं मां ततोऽश्नीयात् ।कापिलेन पयसाभिषिच्य रुद्रसूक्तेन मामेव शिवलिङ्गरूपिणं ब्रह्महत्यायाःपूतो भवति । कापिलेन दध्नाभिषिच्य सुरापानात्पूतो भवति । कापिलेना-ज्येनाभिषिच्य स्वर्णस्तेयात्पूतो भवति । मधुनाभिषिच्य गुरुदारगमनात्पूतोभवति । सितया शर्करयाभिषिच्य सर्वजीववधात्पूतो भवति । क्षीरादिभि-रेतैरभिषिच्य सर्वानवाप्नोति कामान् । इत्येकैकं महान्प्रस्थशतं महान्प्रस्थश-तमानैः शतैरभिपूज्य मुक्तो भवति संसारबन्धनात् । मामेव शिवलिङ्गरूपि-णमार्द्रायां पौर्णमास्यां वाऽमावास्यायां वा महाव्यतीपाते ग्रहणे संक्रान्तावभि-षिच्य तिलैः सतण्डुलैः सयवैः संपूज्य बिल्वदलैरभ्यर्च्य कापिलेनाज्यान्वित-गन्धसारधूपैः परिकल्प्य दीपं नैवेद्यं साज्यमुपहारं कल्पयित्वा दद्यात्पुष्पा-ञ्जलिम् । एवं प्रयतोऽभ्यर्च्य मम सायुज्यमेति । शतैर्महाप्रस्थैरखण्डैस्तण्डु-लैरभिषिच्य चन्द्रलोककामश्चन्द्रलोकमवाप्नोति । तिलैरेतावद्भिरभिषिच्य वा-युलोककामो वायुलोकमवाप्नोति । माषैरेतावद्भिरभिषिच्य वरुणलोककामो व-रुणलोकमवाप्नोति । यवैरेतावद्भिरभिषिच्य सूर्यलोककामः सूर्यलोकमवाप्नोति ।एतैरेतावद्भिर्द्विगुणैरभिषिच्य स्वर्गलोककामः स्वर्गलोकमवाप्नोति । एतैरेताव-द्भिश्चतुर्गुणैरभिषिच्य ब्रह्मलोककामो ब्रह्मलोकमवाप्नोति । एतैरेतावद्भिः शत-गुणैरभिषिच्य चतुर्जालं ब्रह्मकोशं यन्मृत्युर्नावपश्यति । तमतीत्य मल्लोककामोमल्लोकमवाप्नोति नान्यं मल्लोकात्परम् । यमवाप्य न शोचति । न स पुनरा-वर्तते न स पुनरावर्तते । लिङ्गरूपिणं मां संपूज्य चिन्तयन्ति योगिनः सिद्धाःसिद्धिं गताः । यजन्ति यज्वानः । मामेव स्तुवन्ति वेदाः साङ्गाः सोपनिषदःसेतिहासाः । न मत्तोऽन्यदहमेव सर्वम् । मयि सर्वं प्रतिष्ठितम् । ततः काश्यां-----Page-----------------५६६--प्रयतैरेवाहमन्वहं पूज्यः । तत्र गणा रौद्रानना नानामुखा नानाशस्त्रधारिणोनानारूपधरा नानाचिह्निताः । ते सर्वे भस्मदिग्धाङ्गा रुद्राक्षाभरणाः कृताञ्ज-लयो नित्यमभिध्यायन्ति । तत्र पूर्वस्यां दिशि ब्रह्मा कृताञ्जलिरहर्निशं मामु-पास्ते । दक्षिणस्यां दिशि विष्णुः कृत्वैव मूर्धाञ्जलिं मामुपास्ते । प्रती-च्यामिन्द्रः सन्नताङ्ग उपास्ते । उदीच्यामग्निकायमुमानुरक्ता हेमाङ्गवि-भूषणा हेमवस्त्रा मामुपासते मामेव वेदाश्चतुर्मूर्तिधराः । दक्षिणायांदिशि मुक्तिस्थानं तन्मुक्तिमण्डपसंज्ञितम् । तत्रानेकगणाः पालकाःसायुधाः पापघातकाः । तत्र ऋषयः शांभवाः पाशुपता महाशैवा वेदावतंसंशैवं पञ्चाक्षरं जपन्तस्तारकं सप्रणवं मोदमानास्तिष्ठन्ति । तत्रैका रत्नवेदिका ।तत्राहमासीनः काश्यां त्यक्तकुणपाञ्छैवानानीय स्वस्याङ्के संनिवेश्य भसित-रुद्राक्षभूषितानुपस्पृश्य मा भूदेतेषां जन्म मृतिश्चेति तारकं शैवं मनुमुपदि-शामि । ततस्ते मुक्ता मामनुविशन्ति विज्ञानमयेनाङ्गेन । न पुनरावर्तन्तेहुताशनप्रतिष्ठं हविरिव तत्रैव मुक्त्यर्थमुपदिश्यते शैवोऽयं मन्त्रः पञ्चाक्षरः ।तन्मुक्तिस्थानम् । तत ॐकाररूपम् । ततो मदर्पितकर्मणां मदाविष्टचेतसां मद्रू-पता भवति । नान्येषामियं ब्रह्मविद्येयं ब्रह्मविद्या । मुमुक्षवः काश्यामेवासीनावीर्यवन्तो विद्यावन्तः । विज्ञानमयं ब्रह्मकोशम् । चतुर्जालं ब्रह्मकोशम् ।यन्मृत्युर्नावपश्यति । यं ब्रह्मा नावपश्यति । यं विष्णुर्नावपश्यति । यमि-न्द्राग्नी नावपश्येताम् । यं वरुणादयो नावपश्यन्ति । तमेव तत्तेजःप्लुष्ट-विहभावं हैममुमां संश्लिष्य वसन्तं चन्द्रकोटिसमप्रभं चन्द्रकिरीटं सोम-सूर्याग्निनयनं भूतिभूषितविग्रहं शिवं मामेवमभिध्यायन्तो मुक्तकिल्बिषा-स्त्यक्तबन्धा मय्येव लीना भवन्ति । ये चान्ये काश्यां पुरीषकारिणः प्रति-ग्रहरतास्त्यक्तभस्मधारणास्त्यक्तरुद्राक्षधारणास्त्यक्तसोमवारव्रतास्त्यक्तग्रहयागा-स्त्यक्तविश्वेश्वरार्चनास्त्यक्तपञ्चाक्षरजपास्त्यक्तभैरवार्चना भैरवीं घोरादियातनांनानाविधां काश्यां परेता भुक्त्वा ततः शुद्धा मां प्रपद्यन्ते च । अन्तर्गृहेरेतो मूत्रं पुरीषं वा विसृजन्ति तदा तेन सिञ्चन्ते पितॄन् । तमेव पापकारिणंमृतं पश्यन्नीललोहितो भैरवस्तं पातयत्यस्त्रमण्डले ज्वलज्ज्वलनकुण्डेष्वन्ये-ष्वपि । ततश्चाप्रमादेन निवसेदप्रमादेन निवसेत्काश्यां लिङ्गरूपिण्यामित्यु-पनिषत् ॥ हरिः ॐ तत्सत् ॥इति भस्मजाबालोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥

इति भस्मजाबालोपनिषत्समाप्ता ॥९०॥


Page-----------------५६७--