प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ईश्वरप्रत्यभिज्ञाविमर्शिनी
[[लेखकः :अभिनवगुप्तः|अभिनवगुप्तः]]


अभिनवगुप्तकृता ईश्वरप्रत्यभिज्ञाविमर्शिनी

ज्ञानाधिकारे प्रथममाह्निकम्सम्पाद्यताम्


ओं नमः संविद्वपुषे शिवाय ।

निराभासात्पूर्णादहमिति पुरा भासयति यद्
द्विशाखामाशास्ते तदनु च विभङ्क्तुं निजकलाम् ।
स्वरूपादुन्मेषप्रसरणनिमेषस्थितिजुषस्-
तदद्वैतं वन्दे परमशिवशक्त्यात्म निखिलम् ॥१॥

श्रीत्रैयम्बकसद्वंशमध्यमुक्तामयस्थितेः ।
श्रीसोमानन्दनाथस्य विज्ञानप्रतिबिम्बकम् ॥२॥

अनुत्तरानन्यसाक्षिपुमर्थोपायमभ्यधात् ।
ईश्वरप्रत्यभिज्ञाख्यं यः शास्त्रं यत्सुनिर्मलम् ॥३॥

तत्प्रशिष्यः करोम्येतां तत्सूत्रविवृतिं लघुम् ।
बुद्ध्वाभिनवगुप्तोऽहं श्रीमल्लक्ष्मणगुप्ततः ॥४॥

वृत्त्या तात्पर्यं टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृब्धम् ।
तस्मात्सूत्रार्थं मन्दबुद्धीन्प्रतीत्थं सम्यग्व्याख्यास्ये प्रत्यभिज्ञाविविक्त्यै ॥५॥

सर्वत्राल्पमतौ यद्वा कुत्रापि सुमहाधियि ।
न वान्यत्रापि तु स्वात्मन्येषा स्यादुपकारिणी ॥६॥

ग्रन्थकारः अपरोक्षमात्मदृष्टशक्तिकां परमेश्वरतन्मयतां परत्र संचिक्रमयिषुः, स्वतादात्म्यसमर्पणपूर्वमविघ्नेन तत्सम्पत्तिं मन्यमानः, परमेश्वरोत्कर्षप्रह्वतापरामर्शशेषतया परमेश्वरतादात्म्ययोग्यतापादनबुद्ध्या प्रयोजनमासूत्रयति -

कथंचिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् ।
समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि ॥ ईश्वरप्रत्यभिज्ञाकारिका १.१.१ ॥

इह परमेश्वरं प्रति या इयं कायवाङ्मनसां तदेकविषयतानियोजनालक्षणा प्रह्वता सा नमस्कारस्य अर्थः । सा च तथा कर्तुमुचिता प्रामाणिकस्य भवति, यदि सर्वतो नमस्करणीयस्य उत्कर्षं पश्येत् । अन्यथा युक्तिमपरामृशतः अपरमार्थेऽपि नमस्कारोद्यतस्य सांसारिकजनमध्यपातित्वमेव । यथोक्तम् -

{न विन्दन्ति परं देवं विद्यारागेण रञ्जिताः ।}

इति । तावति हि मायीयाशुद्धविद्यारागकलासञ्चार्यमाणस्य पशुत्वमेव । इतरापेक्षया तु कतिपयाध्वोत्तीर्णतया समुत्कर्षोऽपि स्यात् । तदुक्तम्-

{कस्य नाम करणैरकृत्रिमैः पश्यतस्तव विभूतिमक्षताम् ।
विभ्रमादवरतोऽपि जायते त्वां व्युदस्य वरदस्तुतिस्पृहा ॥}

इति श्रीमद्विद्याधिपतिना । एतच्च आगमकाण्डे निरूपयिष्यामः । तस्मान्निखिलोत्कर्षपरामर्शनमपि तत्र स्वीकार्यम् । यद्यपि आयातदृढेश्वरशक्तिपातस्य स्वयमेवेयमियती परमशिवभूमिरभ्येति हृदयगोचरम्, न तु अत्र स्वात्मीयः पुरुषकारः कोऽपि निर्वहति, सर्वस्य तस्य मायामयत्वेनान्धतमसप्रख्यस्यामायीयं शुद्धप्रकाशं स्वप्रतिद्वन्द्विनं प्रति उपायतानुपपत्तेः, तथापि तदेव तथाविधं रूपं प्रख्योपख्याक्रमेण स्वात्मपरावभासविषयभावजिगमिषया निःशेषोत्कर्षविशेषाभिधायि-जयत्यादिशब्दानुवेधेन परामर्शनीयम्, इति नमस्कारे जयत्यर्थ आक्षेप्यः । जयपदोदीरणेऽपि तादृशसमुत्कर्षातिशयशालिनि स्वात्मानमप्रह्वीकुर्वाणस्य तटस्थस्य परमनात्मोपकारित्वमिति समुत्कर्षविशेषाक्षिप्त एव नमस्कारोऽवश्यमभ्यन्तरीकार्यः, इत्यनया युक्त्या जयनमस्कारैकतरप्रक्रमे अन्यतरस्य अर्थाक्षिप्तता अवश्यमङ्गीकर्तव्या । वन्दन-नमन-स्मरण-प्रध्यानप्रभृतीनामपि नमस्कार-जयत्यर्थमात्रपरमार्थत्वादियमेव वर्तनी । अत्रायं पुनर्ग्रन्थकृता तादृक्प्रक्रम आश्रितः, यत्र द्वयमपि इदं स्वशब्दपरामृष्टमेव । एतच्च पदार्थव्याख्यानावसर एव प्रकटीभविष्यति । स्वशब्दपरामर्शश्च सर्वजनहितत्वाद्युक्तियुक्तः, स हि सर्वस्यैव झटिति हृदयङ्गमः, अर्थाक्षिप्तस्तु कतिचिदेव प्रति स्वप्रतिभोदितवाक्तत्त्वावमर्शासम्भवात्, वाक्तत्त्वावमर्शशून्यस्य च प्रकाशस्याप्रकाशकल्पत्वात् । एतच्च अग्रे स्फुटीभविष्यति । तदनेन अभिप्रायेण प्रसिद्धजय-नमःप्रभृतिशब्दशय्यानाश्लेषेण इमां सरणिमनुसरसि स्म ग्रन्थकारः ।

इह यद्यत्किञ्चित् स्फुरति तत्तद्वक्ष्यमाणेश्वररूपस्वात्मप्रथामात्रम्, तत्र तु उपायोपेयभावप्रभृतिः कार्यकारणभावोऽपि यथाप्रकाशं परमार्थभूत एव, प्रकाशस्य अनपह्नवनीयत्वात् । यदाह भट्टदिवाकरवत्सो विवेकाञ्जने

{प्रकाशश्वैव भावानाम् ..........।}
इत्यादि
{........न शापोक्त्या विलीयते ।}

इत्यन्तम् । तत्र तु कार्यकारणभावेऽपि क्वचित्परिपूर्णस्वातन्त्र्यलक्षणमाहेश्वर्यनान्तरीयकताक्रोडीकृतानन्तशक्तिचक्रचुम्बित-भावभावितप्रथान्तरव्यवधानं चकास्ति; स तु मायीयत्वेन स्थापयिष्यते, जडचेतनाद्यवान्तरभेदशतसम्भिन्नश्च असौ, तत्कृतश्च सर्वोऽयं निष्पाद्य-निष्पादकभावज्ञाप्य-ज्ञापकभावावभासो लोकव्यवहाररूपः । यत्र तु शुद्धस्वात्मरूपप्रथात्मका-नुत्तरशक्तिशालिनिरर्गलस्वात्मप्रकाश एव मायीयप्रथान्तरव्यवधानवन्ध्यो निबन्धनम्, तत्र तस्यैव भगवतः कारणत्वम् । एष च अनुग्रहलक्षणोऽन्त्यः पञ्चमः पारमेश्वरः कृत्यविशेषः परपुरुषार्थप्रापकः, तन्निबन्धनत्वात्परमार्थमोक्षस्य । अन्यत्रत्यो हि अपवर्गः कुतश्चिन्मुक्तिः, न सर्वत इति निःश्रेयसाभास इति वक्ष्यामः । स चायं द्वितीयः कार्यकारणभावो लौकिकान्वयव्यतिरेकसिद्धप्रसिद्धकार्यकारणभावविलक्षणत्वात्स्फुटेन रूपेणासञ्चेत्यमानः कादाचित्कवस्तुसद्भावोन्नेयपरमार्थः अतिदुर्घटकारित्वलक्षणैश्वर्यविजृम्भाभाविताद्भुतभावः प्रथमकोटिसंभावनाशून्यकालिकाकारस्वप्रकाशावरण-निराकरणमनोरथशतदुष्प्राप इत्येवंप्रकारः कथमा द्योतकनिपातसहितेन निरूपितःऽकथंचित्ऽ इति, केनचिच्च प्रकारेण परमेश्वराभिन्नगुरुचरणसमाराधनेन परमेश्वरघटितेनैव । यथोक्तम्

{संबन्धोऽतीव दुर्घटः ।}

इति । ’ासाद्यऽ इति आ समन्तात्परिपूर्णरूपतया सादयित्वा , स्वात्मोपभोगयोग्यतां निरर्गलां गमयित्वा ; इयता विदितवेद्यत्वेन परार्थे शास्त्रकरणे अधिकारो दर्शितः ; अन्यथा प्रतारकतामात्रमेव स्यात् । पौर्वकाल्येन सामनन्तर्यमत्र विवक्षितम् । अन्यथा तु आसादनतारतम्यप्राप्तौ मायीयमलकलापसंस्कारप्रक्षये कथं परोपदेशः शक्यक्रियः । संभवन्ति हि मायागर्भाधिकारिणो विष्णुविरिंचाद्याः , तदुत्तीर्णा अपि महामायाधिकृताः शुद्धाशुद्धा मन्त्र-तदीश-तन्महेशात्मानः ; शुद्धा अपि श्रीसदाशिवप्रभृतयः । ते तु यदीयैश्वर्यविप्रुड्भिरीश्वरीभूताः स भगवाननवच्छिन्नप्रकाशानन्दरूपस्वातन्त्र्यपरमार्थो महेश्वरः , तस्यऽदास्यम्ऽ इत्यनेन तत्प्रत्यभिज्ञोपपादनस्य महाफलत्वमासूत्रयति । दीयते अस्मै स्वामिना सर्वं यथाभिलषितमिति दासः , तस्य भाव इत्यनेन परमेश्वररूपस्वातन्त्र्यपात्रता उक्ता । ’जनस्यऽ इति , यः कश्चित्जायमानः तस्य , इत्यनेन अधिकारिविषयो नात्र कश्चिन्नियम इति दर्शयति , यस्य यस्य हि इदं स्वरूपप्रथनं तस्य तस्य महाफलम् , प्रथनस्यैव परमार्थफलत्वात्, तस्य च प्रतिबन्धकसंमतैरप्रतिबन्धनीयत्वात्, न हि प्रथितमप्रथितमिति न्यायात् । तदुक्तम्

{नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य दर्मस्य त्राय्ते महतो भयात् ॥}

इति । परमगुरुपादैरपि शिवदृष्टौ

{एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ।
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ॥
करणेन नास्ति कृत्यं क्वापि भावनयापि वा ।
सकृज्झाते सुवर्णे किं सत्यता करणादिना ॥
सर्वदा पितृमात्रादितुल्यदार्ड्येन सत्यता ।}

इति । <जनस्य> अनवरतजननमरणपीडितस्य इत्यनेन कृपास्पदतया उपकरणीयत्वमाह । अपिशब्दः स्वात्मनः तदभिन्नतामाविष्कुर्वन् पूर्णत्वेन स्वात्मनि परार्थसंपत्त्यतिरिक्तप्रयोजनान्तरावकाशं पराकरोति । परार्थश्च प्रयोजनं भवत्येव तल्लक्षणत्वात्, न हि अयं दैवशापः स्वार्थ एव प्रयोजनं न परार्थ इति ; तस्यापि अतल्लक्षणत्वे सति अप्रयोजनत्वात्; संपाद्यत्वेन अभिसंहितं यत्मुख्यतया तत एव क्रियासु प्रयोजकं तत्प्रयोजनम् । अत एव भेदादेऽपि ईश्वरस्य सृष्ट्यादिकरणे परार्थ एव प्रयोजनमिति दर्शयितुं न्यायनिर्माणवेधसा निरूपितम्

{यमर्थमधिकृत्य पुरुषः प्रवर्तते तत्प्रयोजनम्}

इति । <इच्छन्> इति इच्छाविषयीकृतस्य फलस्य प्रवृत्तो हेतुत्वं शत्रा दर्शयति । इच्छाशक्तिश्च उत्तरोत्तरमुच्छूनस्वभावतया क्रियाशक्तिपर्यन्तीभवति ---- इति दर्शयिष्यामः । उपशब्दः समीपार्थः , तेन जनस्य परमेश्वरधर्मसमीपताकरणमत्र फलम् । अत एवाह <समस्त> इति । परमेश्वरतालाभे हि समस्ताः संपदः तन्निःष्यन्दमय्यः संपन्ना एव , रोहणलाभे रत्नसंपद इव । प्रमुषितस्वात्मपरमार्थस्य हि किमन्येन लब्धेन , लब्धतत्परमार्थस्यापि तदन्यत्नास्ति यद्वाञ्छनीयम् । यदुक्तं ग्रन्थकृतैवः

{भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।
एनया वा दरिद्राणां किमन्यदुपयाचितम् ॥}

इत्येवं षष्ठीसमासेन प्रयोजनमुक्तम् , बहुब्रीहिणा तु उपायः सूच्यते । <समस्तस्य> भावाभावरूपस्य बाह्याभ्यन्तरस्य नीलसुखादेः या <संपत्> संपत्तिः सिद्धिः तथात्वप्रकाशः , तस्याः सम्यक्<अवाप्तिः> विमर्शरूढिः , सैव <हेतुः> यस्यां तत्प्रत्यभिज्ञायाम् , तथा हि ---- स्फुटतरभाससमाननीलसुखादिप्रमान्वेषणद्वारेणैव पारमार्थिकप्रमातृलाभ इह उपदिश्यते । यदाह अन्यत्रः

{इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥}

इति । तथा तत्रैव

{प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।
उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ॥
स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।}

इति । इयता च उपाये अतिदुर्घटत्वाशङ्का पराकृता । यदन्ते निरूपयिष्यति

{सुघट एष मार्गो नवः}(इप्व्_४,१ १६)

इति । <तम्य> महेश्वरस्य <प्रत्यभिज्ञा> प्रतीपमात्माभिमुख्येन ज्ञानं प्रकाशः प्रत्यभिज्ञा । प्रतीपमिति ---- स्वात्मावभासो हि न अननुभूतपूर्वोऽविच्छिन्नप्रकाशत्वात्तस्य , स तु तच्छक्त्यैव विच्छिन्न इव विकल्पित इव लक्ष्यते ---- इति वक्ष्यते । प्रत्यभिज्ञा च ---- भातभासमानरूपानुसंधानात्मिका , स एवायं चैत्र ---- इति प्रतिसंधानेन अभिमुखीभूते वस्तुनि ज्ञानम् ; लोकेऽपि एतत्पुत्र एवंगुण एवंरूपक इत्येवं वा , अन्ततोऽपि सामान्यात्मना वा ज्ञातस्य पुनरभिमुखीभावावसरे प्रतिसंधिप्राणितमेव ज्ञानं प्रत्यभिज्ञा ---- इति व्यवह्रियते ; नृपं प्रति प्रत्यभिज्ञापितोऽयम् ---- इत्यादौ । इहापि प्रसिद्धपुराणसिद्धान्तागमानुमानादिविदितपूर्णशक्तिस्वभावे ईश्वरे सति स्वात्मन्यभिमुखीभूते तत्प्रतिसंधानेन ज्ञानमुदेति , नूनं स एव ईश्वरोऽहम् ---- इति । तामेनाम् <उपपादयामि> इति । उपपत्तिः संभवः , तां संभवन्तीं तत्समर्थाचरणेन प्रयोजकव्यापारेण संपादयामि । तथा हि ---- संभवति तावदसौ , अविच्छिन्नप्रकाशत्वात्; निरोधकाभिमतमायाशक्तिसमपसारणमात्रमेव तु तत्र उपपादनम् । प्रत्यभिज्ञोपपत्तौ स्वपरविभागाभावे तदपेक्षं कर्त्रभिप्रायादि असंभाव्यमिति परस्मैपदप्रयोगः । इत्थं च अत्र श्लोके योजना , ---- महेश्वरस्य दास्यं समस्तसंपल्लाभहेतुं कथंचितासाद्य , जनस्यापि कथंचित्तत्प्रत्यभिज्ञामासाद्य प्रापय्य , उपकारं समस्तसंपल्लाभहेतुभूतं महेश्वरदास्यात्मकमिच्छन् , तामेव समस्तसंपत्समवाप्तिहेतुकां तत्प्रत्यभिज्ञामुपपादयामि । <आसाद्य> इति आवृत्तियोजने द्वौ णिचौ । इयति च व्याख्याने वृत्तिकृता भरो न कृतः , तात्पर्यव्याख्यानात् । यदुक्तम्

{संवृतसौत्रनिर्देशविवृतिमात्रव्यापारायाम् ।}

इति । टीकाकारेणापि वृत्तिमात्रं व्याख्यातुमुद्यतेन नेदं स्पृष्टम् , अस्माकं तु सूत्रव्याख्यान एव उद्यम -- इति विभज्य व्याख्यातम् । एवं सर्वत्र । एवमनेन श्लोकेन अभिधेयम् , प्रयोजनम् , तत्प्रयोजनम् , तत्प्रयोजनम् , अधिकारिनिरूपणम् , गुरुपर्वक्रमः संबन्ध -- इति दर्शितम् । तथा हि ---- समस्तसंपल्लक्षणो व्याख्यातो योऽर्थः पूर्वं पुण्यपापादौ संसारमूलकारणे हेतुः , स एव प्रत्यभिज्ञायते अनया ---- इति करणव्युत्पत्त्या उपायः इह लोकोत्तरमार्गं प्रति निर्णीतः , इति अतिदुर्घटकारित्वलक्षणमैश्वर्यम्

{मार्गो नव}(इप्व्_४,१ १६ )

इति शाखान्ते निरूपयिष्यमाणं सूचयता उपायः दर्शितः अभिधेयत्वेन । अत एव

{तथा हि जडभूतानाम्}(इप्व्_१,१ ४ )

इत्युपक्रमपूर्वकं श्लोकान्तरं भविष्यति । प्रयोजनं च प्रत्यभिज्ञोपायज्ञानम् , तस्य प्रयोजनं प्रत्यभिज्ञानम् , तस्यापि प्रयोजनं समस्तसंपल्लक्षणपारमैश्वर्यैकरूपरथनम् , ततः परं नास्त्येव , तस्य सर्वपर्यन्तफलत्वादंशांशिकयापि । यदुक्तं मयैव स्तोत्रे

{फलं क्रियाणामथवा विधीनां पर्यन्ततस्त्वन्मयतैव देव ।
पह्लेप्सवो ये पुनरत्र तेषां मूढा स्थितिः स्यादनवस्थयैव ॥}

इति । एतद्वक्ष्यति

{तदत्र निदधत्पदम्}(इप्व्_४,१ १६ )

इति पादद्वयेन । <जनस्य> इत्यनेन अधिकारी दर्शितः । यत्निगमयिष्यति

{अनिशमाविशन्}(इप्व्_४,१ १६ )

इति । <कथंचित्> इत्यनेन गुरुपर्वक्रमः । वक्ष्यति

{महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा}(इप्व्_४,१ १६ )

इति । एवं प्रत्यभिज्ञातव्यसमस्तवस्तुसंग्रहणेन इदं वाक्यमुद्देशरूपं प्रतिज्ञापिण्डात्मकं च , मध्यग्रन्थस्तु हेत्वादिनिरूपकः ,

{इति प्रकटितो मया}(इप्व्_४,१ १६ )

इति च अन्त्यश्लोको निगमनग्रन्थः -- इत्येवं पञ्चावयवात्मकमिदं शास्त्रं परव्युत्पत्तिफलम् । नैयायिकक्रमस्यैव मायापदे पारमार्थिकत्वम् ---- इति ग्रन्थकाराभिप्रायः

{क्रियासंबन्धसामान्य}(इप्व्_२,२ १ )

इत्यादिषु उद्देशेषु प्रकटीभविष्यति -- इति तावद्ग्रन्थस्य तात्पर्यं सुजनश्च लौकिकेश्वरपरिचित ईश्वरविषये जनमनुजीविगुणसंपन्नं प्रकाशयति ,
जनविषये च अभिगामिकादिगुणसंपन्नमीश्वरं प्रकाशयति - इति
इयानर्थः सामान्येन षष्ठोसमासेन दर्शितः <तस्य प्रत्यभिज्ञा> इति । एतच्छ्लोकाकर्णनसमये च शिष्याणामेतदर्थसंक्रमणक्रमेण परमेश्वरतादात्म्यमेव उपजायते तावत् । तथा हि ---- <जनस्य> इत्याकर्णनात्वयं ते जननमरणपीडिता अपर्युपस्तवृत्तयश्च , अस्माकमयमुपकारमिच्छन् , महेश्वरस्य दास्यमासाद्य , समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयति ; ततश्च तत्प्रत्यभिज्ञामेवंभूतां वयं प्राप्ता एव , इतीत्थमेव हि अधिकारिणि शास्त्रार्थस्य बिम्बप्रतिबिम्बवत्संक्रान्तिः लोड्लिङादीनां विषयीभवति प्रथमपुरुषार्थ उत्तमपुरुषार्थे पर्यस्यति , न तु ताटस्थ्येन ; अधिकार्यनधिकारिणोः प्रतिपत्तौ विशेषाभावप्रसङ्गात् । आरोग्यकामाः शिवां सेवन्तां सेवध्वम् ---- इति वा वाक्यार्थस्य सेवामहै -- इत्येवंरूपेण अधिकारिणि द्वितीया कक्ष्या संक्रान्तौ , तृटीयकक्ष्यामेव भाविकोटिपतितामपि पुरुषार्थसंपत्तिमकालकलितस्वरूपानुप्रवेशेन स्वात्मीकृतामभिमन्यमाने , तत एव विततसंवित्सुन्दरपरामर्शो पूर्णताभिमानप्रतिलम्भात्, अन्यस्य तु अनेवंरूपत्वेनैव अनधिकारिता ताटस्थ्यप्राणा ---- इति । तदास्तामवान्तरमेतततिगहनं च ---- इति स्थितमेतत् । एतेन श्लोकेन ईश्वरसांमुख्यं विनेयानां प्रयोजनादिप्रतिपादनं च क्रियते ---- इति ।

{अनन्तभावसंभारभासने स्पन्दनं परम् ।
उपोद्धातायते यस्य तं स्तुमः सर्वदा शिवम् ॥}

॥१॥

ननु ईश्वरस्य सिद्धिरेव कर्तव्या । केयं सिद्धिः ? न तावतुत्पत्तिः , नित्यत्वात् । नापि ईश्वरसिद्धिकारादयस्तस्योपपत्तिं विदधते । ज्ञप्तिः सिद्धिरिति चेत्, अनवच्छिन्नप्रकाशस्य प्रमाणव्यापारोपाधेयप्रकाशात्मकसिद्ध्यनुपयोग एव । ननु अनवच्छिन्नस्तदीयः प्रकाश -- इति कथमेतत्; नीलसुखादिप्रकाशे हि तत्प्रकाशः कुतः ? तदप्रकाशेऽपि सुप्तमूर्छादौ नितराम् , स्वप्रकाशेऽपि वा ईश्वरे प्रमात्ःणां किं वृत्तं येन तेषां प्रमाणव्यापारानुपयोग इत्याशङ्क्याह


कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे ।
अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,१ २ ॥

इह क ईश्वरे कीदृशे कीदृशेन प्रमाणेन अस्ति इति ज्ञानलक्षणां सिद्धिम् , नास्तीति ज्ञानलक्षणं वा निषेधं कुर्यात्? प्रमाता इति चेत्, स एव कः ?
देहादिर्जडः उत तदन्यो वा कश्चितात्मादिशब्दवाच्यः ? सोऽपि स्वप्रकाशस्वभावो वा न वा ? देहादिर्जडः इति चेत्, स एव स्वात्मनि असिद्धः परत्र कां सिद्धिं कुर्यात्? आत्मापि अस्वप्रकाशो जड एव तत्तुल्ययोगक्षेमः । स्वप्रकाशस्वभावः इति चेत्, कीदृशेन स्वेन रूपेण भाति ? यदि परिनिष्ठितसंविन्मात्ररूपेण , तदा संविदां भेदनम् , भेदितानां च अन्तरनुसंधानेन अभेदनं न स्यात्; तेन स्वतन्त्रस्वप्रकाशात्मतया तावत्स भासते , भेदितानां च अन्तरनुसंधानेन अभेदनं न स्यात्; तेन स्वतन्त्रस्वप्रकाशात्मतया तावत्स भासते , तथाभासमानश्च कीदृशमीश्वरं साधयेत्निषेधेत्वा ? कर्तृज्ञातृस्वभावमिति चेत्ननु स प्रमातैव तथाभूतः इति कोऽन्यः सः ? ननु सर्वकर्तृत्वसर्वज्ञत्वे प्रमातुर्न स्तः ; न खलु सर्वशब्दार्थो ज्ञातृकर्तृत्वयोः स्वरूपं भिनत्ति , भेददर्शनेऽपि ईश्वरज्ञानचिकीर्षायज्ञादेर्नित्यस्य विषयेण अकारणभूतेन अनाधेयातिशयत्वात् । प्रकाशमानतानयनमेव विषयत्वमिति चेत्, अप्रकाशस्वभावस्य तथात्वमनुचितम् ---- इति वक्ष्यामः । प्रकाशमानस्वभावत्वे विषयोऽपि सर्वात्मना प्रकाश एव निमग्न इति प्रकाशः प्रकाशते ---- इत्येतावन्मात्रपरमार्थत्वे कः सर्वज्ञासर्वज्ञविभागः ? , प्रमाणमपि एवं सिद्धत्वासिद्धत्वाभ्यां पर्यनुयोज्यम् ; एवं सिद्धिरपि । तस्मात्विषयाभिमतं वस्तु शरीरतया गृहीत्वा तावत्निर्भासमान आत्मैव प्रकाशते विच्छेदशून्यः , सुषुप्तमपि प्रति प्रकाशत एव , अन्यथा स्मृत्ययोगात्; प्रकाशस्य च नित्यत्वात्विच्छेदहेतोरभावेन , अन्यप्रमात्रपेक्षया च प्रकाशमानत्वात्, स्वपरप्रमातृविभागस्य तत्सृष्टस्य मायीयत्वेन वक्ष्यमाणत्वात् । स चायं स्वतन्त्रः । स्वातन्त्र्यं च अस्य अभेदे भेदनम् , भेदिते च अन्तरनुसंधानेन अभेदनम् ---- इति बहुप्रकारं वक्ष्यामः । एतदेव अस्य पारमेश्वर्यं मुख्यमानन्दमयं रूपम् ---- इति पूर्वमुपात्तं <कर्तरि> इति । तदेव तु स्वातन्त्र्यं विभज्य वक्तुं <ज्ञातरि> इति पञ्चान्निर्दिष्टम् । ज्ञानपल्लवस्वभावैव हि क्रिया ---- इति वक्ष्यते । तेन सर्वक्रियास्वतन्त्रे सर्वशक्तिके ---- इति यावदुक्तं भवेत्तावदेव <कर्तरि ज्ञातरि> इति । इयमेव च संवित्स्वभावता । संविदिति तु उच्यमाना विकल्प्यत्वेन प्रमेयतां स्पृशन्तो सृष्टत्वात्न परमार्थसंवित्---- इति वक्ष्यामः । कर्ता ज्ञाता च महेश्वर ---- इत्यभिधानेऽपि स एव प्रकार आपतेत्, इति यथा यथा प्रमेयभूमिकापादनन्यक्कारकलङ्कपरिहारः शक्यः तथा तथा यावद्गति यतितव्यम् , इति भूतविभक्त्या निर्देशः कृतः । उपदेशावसरे हि सर्वात्मना तावत्सा प्रमेयता अस्य परिहर्तुमशक्या । <स्वात्मनि> इति , स्वस्मिननपायिरूपे स्वभावे इत्यनेन , वैशेषिकाद्यभिमतजडात्मवादनिरासः । <आदिसिद्धे> इति , अविच्छिन्नप्रकाशे इत्यर्थः । <महेश्वरे> इति , एतदेव माहेश्वर्य यदनवच्छिन्नपर्काशत्वेन ज्ञातृकर्तृत्वधारोपारोहः । <अजडात्मा> इति , यस्य तु वैशेषिकादेर्जड आत्मा स सिद्धिं करोतु ईश्वरविषयाम् ; अन्यस्तु सांख्यादिनिषेधम् ; सांख्योऽपि विषयावभासनरूपं ज्ञानं बुद्धिधर्ममिच्छनात्मानं वस्तुतो जडमेव उपैति ; न च जडात्मा स्वात्मन्यपि दुर्लभप्रकाशस्वातन्त्र्यलेशः किंचित्साधयितुं निषेद्धुं वा प्रभविष्णुः पाषाण इव ; न च अजडात्मनोऽपि एतदुचितम् , तथा हि ---- स स्वात्मनि सिद्धिमित्थं कुर्यात्---- यदि अस्य सोऽभिनवत्वेन भासमानः पूर्वं न भासते , न भासनं चेत्जडतैव । निषेधं च इत्थं विदध्यात्---- यदि स न प्रकाशते तथा च जडः , न च जडस्य एतत्युक्तमित्युक्तम् , नापि अजडस्य ; तस्मात्संवित्प्रकाश एव घटादिप्रकाशः , न त्वसौ स्वतन्त्रः कश्चित्वास्तवः ; प्रकाश एव च आत्माः ; तत्न तत्र कारकव्यापारवत्प्रमाणव्यापारोऽपि नित्यत्ववत्स्वप्रकाशत्वस्यापि तत्र भावात् ॥२॥

ननु कारकव्यापारः प्रमाणव्यापारश्च यदि ईश्वरे न संभवति , तर्हि प्रत्यभिज्ञापयामि ---- इति यो व्यापार उक्तः स कतमो व्यापारः

इत्याशङ्क्याह

किंतु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते ।
शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,१ ३ ॥

स ईश्वरस्वभाव आत्मा प्रकाशते तावत्, तत्र च अस्य स्वातन्त्र्यमिति न केनचिद्वपुषा न प्रकाशते , तत्र अप्रकाशात्मनापि प्रकाशते प्रकाशात्मनापि ,
तत्रापि प्रकाशात्मनि सर्वथा प्रकाशात्मना प्रकाशो भागशो वा ; भागशः प्रकाशने सर्वस्य व्यतिरेकेण अव्यतिरेकेण वा , कतिपयस्य व्यतिरेकेण अव्यतिरेकेण वा , उक्तप्रकारपूर्णतया वा ; तदमी सप्त प्रकाराः । तत्र प्रथमः प्रकारो जडोल्लासः , अन्त्यः परमशिवात्मा , मध्यमा जीवा भासाः , सैव भगवतो माया विमोहिनी नाम शक्तिः , तद्वशात्प्रकाशात्मतया सततमवभासमानेऽपि आत्मनि भागेन अप्रकाशनवशाद्<अनुपलक्षिते> सर्वथा हृदयंगमीभावमप्राप्ते अत एव पूर्णतावभासनसाध्यामर्थक्रियामकुर्वति , तत्पूर्णतावभासनात्मकाभिमानविशेषसिद्धये
<प्रत्यभिज्ञा> व्याख्यातपूर्वा प्रदर्श्यते , कथम् ? <शक्तेः> ईश्वरनिष्ठत्वेन प्रसिद्धाया दृक्क्रियात्मिकायाः , <आविष्करणेन> प्रदर्शनेन ,
अभिमानसाध्यार्थक्रियाणां तदभिमानसिद्ध्या विना असिद्धेः ; तथा च दृष्टान्तं दर्शयति


{तैस्तैरप्युपयाचितैः ।}(इप्व्_४,१ १७ )

इति । एतदुक्तं भवति ---- न कारकव्यापारो भगवति , नापि ज्ञापकव्यापारोऽयम् , अपि तु मोहापसारणमात्रमेतत्, व्यवहारसाधनानां प्रमाणानां तावत्येव विश्रान्तेः । घटोऽयमग्रगः प्रत्यक्षत्वात्---- इत्यनेन हि घटो न ज्ञाप्यते प्रत्यक्षेणैव प्रकाशमानत्वात्, अन्यथा पक्षे हेत्वसिद्धेः , केवलं मोहमात्रमपसार्यते । यश्चायं मोहस्तदपसारणं च यत्, तदुभयमपि भगवत एव विजृम्भामात्रम् , न तु अधिकं किंचित्---- इत्युक्तं वक्ष्यते च ॥३॥

ननु परिदृश्यमाने भावराशौ किमीया शक्तिराविष्क्रियते कं च प्रति इति । जडानां तावत्न ज्ञानात्मिका शक्तिरस्ति , क्रियात्मिकापि स्वातन्त्र्यप्रांा स्वातन्त्र्यव्यपगमादसंभावनाभूमिरेव ; तथा च रथो गच्छति ---- इत्यादौ उपचारं केचन प्रतिपन्नाः , न च जडान्प्रति व्यवहारसाधनमुचितम् ; अथ अजडजीवज्जनताधिकारेण उभयमपि , तर्हि सर्वस्य स्वात्मा महेश्वर ---- इति दूरतरं विप्रकर्षिता प्रत्याशा , तदेतदाश्ङ्क्य निरूपयति

तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया ।
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,१ ४ ॥

<तथा हि> इति युक्त्युपक्रमं द्योतयति , दृश्यतां किल इत्यर्थः । <तथा> इत्यनेन साध्यं सूच्यते , हिना हेतुरित्यन्ये , प्रकृतं साध्यं हेतुसिद्ध्यायत्तमुपक्रम्यते इत्यर्थः । तेन इति बुद्धिवर्तिना , तत एव स्मर्यमाणेन ग्रन्थेन वर्णयिष्यमाणेन प्रकारेण यस्मात्सर्वमेतद्युक्तमिति <तथा हि> इति शब्दस्य वार्थः । इह तावत्भावराशिर्यथा विमृश्यते तथा अस्ति , अस्तित्वस्य प्रकाशं शरणीकुर्वतः प्रकाशप्राणितदेशीयमाश्रित्य समुन्मेवात्, अविमृष्टं हि यदि वस्तु तन्न नीलं न पीतं न सत्न असदिति कुत इति पर्यनुयोगे किमुत्तरं स्यात् । तेन यद्यथा यावतवाधितं विमृश्यते तत्तथा तावतस्ति , ततेव देशकालाकारविततात्मानोऽपि द्रव्यक्रियासंबन्धादयः एकत्वेन परमार्थसन्त इति वक्ष्यते

{क्रियासंबन्धसामान्य}(इप्व्_२,२ १)

इत्यादिना , ततश्च विततमपि इदं विश्वं संक्षेपविमर्शदशाधिरोहे जडं जीवच्च ---- इत्येतावता द्वयरूपेण अस्ति । तत्र जडा विमृश्यमाना न स्वतन्त्रा भवन्ति , विमृश्यमानता हि तेषां न स्वशरीरविश्रान्तः कोऽपि धर्मः जडत्वाभावप्रसंगात्, मम नीलं भाति मया नीलं ज्ञायते इति । तेषाम् <जडभूतानां> चिन्मयत्वेऽपि मायाख्यया ईश्वरशक्त्या जाड्यं प्रापितानाम् , <जीवन्तं> प्रमातारमाश्रित्य <प्रतिष्ठा> तत्प्रमात्राभिमुख्येन अवस्थानम् , ततो जडा नाम न पृथक्सन्ति । यथोक्तं ग्रन्थकृतैवः


{एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।
जडाः प्रकाश एवैकः स्वात्मनः स्वपरात्मभिः ॥}

इति । स एव हि स्वात्मना सन् वक्तव्यो यस्य अन्यानुपहितं रूपं चकास्ति ; न च भारूपानुपहितं जडं नाम किञ्चित्, तेन जडानां हि शक्तिराविष्क्रियते जडान्प्रति ---- इत्येतत्तावत्निरुत्थानमेव । ये तु अन्ये जडेभ्यो जीवन्त ---- इति नाम प्रसिद्धाः तेषामपि शरीरप्राणपुर्यष्टकशून्याकाराः तावत्जडा एव इति तेषामपि किमुच्यते । अत एव घटशरीरप्राणसुखतद्भ् ।वरूपं यल्लग्नं भाति तदेव जीवरूपभूतं सत्यम् ; तस्य च आपाते यद्यपि बहुत्वं भाति तथापि तत्जडात्मकवेद्यशरीराद्युपाधेः । ततस्ततपारभार्थिकमन्योन्याश्रयात्, जीवा हि जडभेदात्भेदभागिनः जडाश्च जीवभेदात्, एतद्देहोऽयमेतद्वेद्योऽयम् ---- इति भेदमुपेयुः , नीलपीतादिभावभेदास्तु प्रमातृसंलग्नतया भेदभूमिमेव परमधिरूढा इति । किं तेन । तदयं जीवानामभेद एव संपन्न इति जीवन् प्रमाता ---- इति जातम् । जीवनं च जीवनकर्तृत्वं तच्च ज्ञानक्रियात्मकम् , यो हि जानाति च करोति च स जीवति ---- इत्युच्यते । तदयं प्रमाता ज्ञानक्रियाशक्तियोगादीश्वर ---- इति व्यवहर्तवयः पुराणागमादिप्रसिद्धेश्वरवत्; तद्प्रसिद्धावपि सर्वविषयज्ञानक्रियाशक्तिमत्त्वस्वभावमेव ऐश्वर्यं तन्मात्रानुबन्धित्वादेव सिद्धम् ; तदपि च कल्पितेश्वरे राजादौ तथा व्याप्तिग्रहणात्, यो यावति ज्ञाता कर्ता च स तावति ईश्वर्प्राजेव , अनीश्वरस्य ज्ञातृत्वकर्तृत्वे स्वभावविरुद्धे यतः ; आत्मा च विश्वत्र ज्ञाता कर्ता च ---- इति सिद्धा प्रत्यभिज्ञा । ज्ञानक्रियाशक्तो एव स्वाभाविक्यौ अप्ररूढभेदोन्मेषे सदाशिवेश्वरौ , भेदस्य सामान्यतः प्ररोहे विद्याकले , विशोषतः प्ररोहे बुद्धिकर्मेन्द्रियगण इव भविष्यति । जडा इति अजीवन्तः , अन्ये च जीवन्त ---- इत्यापाते तावद्भाति न तु संविदापाते भातीति जीवतामिति जङ्गमा एव अमी इत्थं निर्दिष्टाः ॥४॥

ननु ज्ञानक्रिये एव कथं सिद्धे यत ऐश्वर्यव्यवहारः प्रसाध्यते ---- इति शङ्कां शमयितुमाह

तत्र ज्ञानं स्वतः सिद्धं क्रिया कायाश्रिता सती ।
परैरप्युपलक्ष्येत तयान्यज्ञानमूह्यते ॥५ [इप्व्_१,१ ५] ॥

अहं जानामि , मया ज्ञातं ज्ञास्यते च ---- इत्येवं स्वप्रकाशाहंपरामर्शपरिनिष्ठितमेव इदं ज्ञानं नाम , किं तत्र अन्यत्विचार्यते , तदप्रकाशे हि विश्वमन्धतमसं स्यात्, तदपि वा न स्यात्, बालोऽपि हि प्रकाशविश्रान्तिमेव संवेदयते । तदुक्तम्


{विज्ञातारमरे केन बोजानीयात् ।}(बृ २,५ १९)

इति । तन्निह्नवे हि कः प्रश्नः , किमुत्तरं च स्यात्---- इति । तत्र च जानामि ---- इत्यन्तःसंरम्भयोगोऽपि भाति , येन शुक्लादेर्गुणातत्यन्तजडात्जानामि ---- इति ---- वपुः चित्स्वभावतामभ्येतिः ; स च संरम्भो विमर्शः क्रियाशक्तिर्भवति । यदुक्तमस्मत्परमेष्ठिश्रोस्रोमानन्दपादैः ----

{घटादिग्रहकालेऽपि घटं जानाति सा क्रिया ।}

इति । तेन आन्तरी क्रियाशक्तिः ज्ञानवदेव स्वतः सिद्धा स्वप्रकाशा , सैव तु स्वशक्त्या । प्राणपुर्यष्टकक्रमेण शरीरमपि संचरमाणा स्पन्दनरूपा सती व्यापारात्मिका माथापदेऽपि प्रमाणस्य प्रत्यक्षादेर्विषयः । सा च परशरीरादिसाहित्येन अवगता स्वं स्वभावं ज्ञात्मकमवगमयति , न च ज्ञानमिदन्तथा भाति , इदन्ता हि अज्ञानत्वम् , न च अन्यद्वस्तु अन्येन वपुषा भातं भातं भवेत्, तत्ज्ञानं भात्येव परम् , भाति च यत्तदेव अहमित्यस्य वपुः इति परज्ञानमपि स्वात्मैवः ; परत्वं केवलमुपाधेर्देहादेः , स चापि विचारितो यावत्न अन्य इति विश्वः प्रमातृवर्गः परमार्थत एकः प्रमाता स एव च अस्ति । तदुक्तम्

{ प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ।}

इति । ततश्च भगवान् सदाशिवो जानाति इत्यतः प्रभृति क्रिमिरपि जानाति ---- इत्यन्तमेक एव प्रमाता इति फलतः सर्वज्ञत्वं प्रमातुः । एवं कर्तृत्वेऽपि वाच्यम् । यदुक्तमस्मत्परमेष्ठिभिः शिवदृष्टौ


{घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना ।
सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना ॥
नानाभावैः स्वमात्मानं जानन्नास्ते स्वयं शिवः ।}

इत्यादि । <ऊह्यते> इत्यनेन ज्ञानेन ज्ञानस्य प्रमेयत्वं न निर्वहति ---- इति दर्शयति , अन्यथा हि अनुमीयते ---- इति ब्रूयात् ।

तदेवं येषां तार्किकप्रवादपांसुपातधूसरीभावो न वृत्तोऽस्मिन् संवेदनपथे , ते इयतैव आत्मानमीश्वरं विद्वांसो घटशरीरप्राणसुखतदभावान् तत्रैव निमज्जयन्त ईश्वरसमाविष्टा एव भवन्ति । ततोऽयमुपोद्धातः । उप इति आत्मनः समीपे टङ्कवतीश्वरप्रत्यभिज्ञानलक्षण उत्कर्षो हन्यते विश्राम्यते येन ; एतावदेव च अस्य ग्रन्थस्य तात्पर्यम् ---- इति । ततोऽपि अयमुपोद्धातः । उपांशु अविततं कृत्वा उदिति शास्त्रस्य ऊर्ध्व एव हन्यते अपसार्यते प्रमेयविषयो व्यामोहो येन ---- इति । गत्यर्थत्वाद्वा हन्तेर्ज्ञानमर्थः , ज्ञायते प्रमेयं येन इति । केचित्तु गतिं स्त्रियं गच्छति ---- इत्येतद्विषयमेव हन्त्यर्थमाहुः । एवं श्लोकचतुष्टयार्थभावनादार्ढ्य् ।देव लभ्यते परमशिवः । इति शिवम् ॥५॥

इति श्रीमदाचार्योत्पलदेवशिष्य ---- श्रीमदाचार्यलक्ष्मणगुप्तदत्तोपदेश ---- श्रीमदाचार्याभिनवगुप्तविरचितायां श्रीप्रत्यभिज्ञाविमर्शिन्यां ज्ञानाधिकारे उपोद्धातः ।
इति प्रथमाह्निकम् ॥ १ ॥

ज्ञानाधिकारे द्वितीयमाह्निकम् ।सम्पाद्यताम्


{पूर्वपक्षतया येन विश्वमाभास्य भेदतः ।
अभेदोत्तरपक्षान्तं नीयते तं स्तुमः शिवः ॥}

इह यत्परमार्थरूपमाशङ्क्यमानप्रतिपक्षप्रतिक्षेपेण निरूपयिष्यमाणं सुष्ठुतमां स्पष्टोकृतं भवति । यदाह भट्टनारायणः


{नमस्ते भवसंभ्रान्तभ्रान्तिमुद्भाव्य भिन्दते ।
ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ॥}

तत्रेह अनात्मानीश्वरवादिनां भ्रान्तिभेदनपूर्वकं परमार्थं विवरीष्यन् तदुद्भावनं तावतेकादशभिः श्लोकैः करोति

{ननु स्वलक्षणाभासम् ।}

इत्यादिभिः

{ तेन कर्तापि कल्पितः ॥}

इत्यन्तैः । तत्र श्लोकद्वयेन आत्मनो ध्रुवस्य दृश्यानुपलब्ध्या अभाव उक्तः प्रत्यक्षात्मवादिनः प्रति । तत्र श्लोकत्रयेण स्मृत्यनुसंधानं संस्कारात्सिद्धमिति अन्यबासिद्धत्वातात्मानुमानाय न पर्याप्तम् ---- इति प्रोक्तमनुमेयात्मवादिनः प्रति । तत्र श्लोकेन ज्ञानादि गुणैर्गुणिनि प्रतिपत्तिः ---- इति अनुमानं निरस्तम् । एवमात्मानं निराकृत्य , ततो ज्ञानक्रियाशक्तिसंबन्धरूपमैश्वर्य निराकर्तुं ज्ञानस्य स्वरूपमेव व्यतिरिक्तं वाद्यन्तरमते , सांख्यमते च अयुज्यमानम् ---- इति निरूपितं श्लोकद्वयेन । तत एकेन क्रिया नाम न काचित्क्वचिदपि अस्ति ---- इति कथितम् । तत्र साधकं प्रतिक्षिप्य बाधकं च उपन्यस्यति । ततः संबन्धस्य श्लोकेन नास्तित्वं प्रतिपादितं प्रमाणाभावं वदता । श्लोकेनैव तत्र बाधकं प्रमाणमुक्त्वा , न आत्मा स्थिरो नापि ज्ञातृत्वकर्तृत्वलक्षणमस्य ऐश्वर्यम् ---- इति स्वपक्ष उपसंहृतः ---- इति पूर्वपक्षस्य पिण्डार्थः ।

अथ ग्रन्थार्थो व्याख्यायते ।

ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः ।
साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ १ ॥

नित्यस्य कस्यचिद्द्रष्टुस्तस्यात्रानवभासतः ।
अहंप्रतीतिरप्येषा शरीराद्यवसायिनी ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ २ ॥

<ननु> इति आक्षेपे ; इह आत्मा संवित्स्वभावः स्थिरः इति तावदयुक्तम् , स्थिरस्यापि स्वप्रकाशस्य अप्रकाशनात् । तथा हि ---- घटप्रकाशो घटविकल्पो घटप्रत्यभिज्ञा घटस्मृतिः घटोत्प्रेक्षा ---- इत्यादिरूपेण ज्ञानान्येव प्रकाशन्ते भिन्नकान्तानि भिन्नविषयाणि भिन्नकाराणि च । तत्र नीलस्य प्रकाशः <स्वलक्षणाभासं ज्ञानम्> <स्वम्> अन्याननुयायि स्वरूपसंकोचभाजि , <लक्षणम्> देशकालाकाररूपं यस्य <आभासः> प्रकाशनमन्तर्मुखं यस्मिन् बहिर्मुखीनस्वरूपधारिणि ज्ञाने ततविकल्पकं विषयभेदेऽपि एकजातीयम् , स्वरूपवैचित्र्येऽपि कारणाभावात् । विकल्पे हि वैचित्र्यकारणमभिलापः , स च अत नास्ति ; न हि अभिलापो नीलस्य धर्मः , न च चक्षुर्ग्राह्यः , ततोऽसौ प्राच्यः स्मर्तव्यः , अप्रबुद्धे च संस्कारे न स्मृतिः , तत्प्रबोधश्च वस्तुदर्शनोत्थितः इति वस्तुदर्शनसमयेऽभिलापस्मृतिर्नास्ति ।

ततः <परं> विकल्पकं ज्ञानम् , सर्वस्य विकल्पस्य साक्षात्पारम्पर्येण वा निर्विकल्पकमूलत्वात् । <परम्> इति च अन्यरूपं सामान्यलक्षणं तस्य विषयः , स्वलक्षणेऽतिसंकोचिनि विततविकल्पसाध्यस्य व्र्ड्धव्यावहारिकस्य , औपदेशिकस्य वा संकेतस्य कर्तुमशक्यत्वात्, कृतस्यापि वैयर्थ्यात्, तेन हि अननुयायिना न पुनर्व्यवहारः । तच्च बहुभेदम् , यतस्ततभिलापेन संजल्पात्मना शब्दरूपेण सह वर्तते । शब्दनं च इदम् ---- इति , तत्---- इति , तदिदम् ---- इति , भवेदिदम् ---- इति , इदं वा इदम् ---- इत्यादि बहुधा भिद्यते । तच्च न विषयपक्षो वर्तते , अपि तु तस्य विकल्पस्य स्वरूपमेव विचित्रोकुर्वत्प्रतिभाति इति विकल्पो बहुभेदः । एवमनुभवविकल्पपरम्परा तावत्स्वप्रकाशत्वेन भाति ।

स्यादेतत्, यल्लग्नासौ परम्परा सोऽपि आभाति ---- इति ; तत्र , यतो द्वयमपि एतदविकल्पेतररूपं न अन्यस्य <कस्यचित्> एतदतिरिक्तस्य द्रष्टुः अनुभवितुः संबन्धि , दृश्यस्य तु भवतु बाह्यार्थवादे । अत्र हेतुः ---- यतः <तस्य> द्रष्टुः , अत एव संवित्स्वभावतोपगमात्स्वप्रकाशतायोग्यत्वातापन्नोपलब्धिलक्षणप्राप्तेः , <अत्र> एतद्बोधद्वयमध्ये नास्ति अवभासः । ननु अस्त्येव अवभासः ---- इति असिद्धा दृश्यानुपलब्धिः । तथा हि ---- अहं वेद्मि , निश्चिनोमि , स्मरामि इदम् ---- इति विदादिप्रकृत्यर्थरूपात्ज्ञानस्मृत्यादेः इदम् ---- इति च कर्मरूपात्विषयाततिरिक्तमेव अहम् ---- इति अनुयायिनि प्रकाशे अनुयायिरूपं भाति । क एवमाह भाति ---- इति ? भानं हि अविकल्पकम् , अहम् ---- इति शब्दानुविद्धो विकल्पप्रत्ययः । ननु तथापि किमनेन विकल्प्यते , शरीरसन्तानो वा कृशोऽहम् ---- इत्यादिप्रत्ययात्, ज्ञानसन्तानो वा सुख्यहम् ---- इति प्रतीतेः ? मत्वर्थीयश्च सन्तानमेव स्पृशति नातिरिक्तम् । तदेतदुक्तम् ---- <अहंप्रतीतिरपि> शरीरम् , आदिग्रहणात्ज्ञानम् , अवस्यति , संतानरूपतया विकल्पयति अवश्यम् ; सदृशापरभावभेदग्रहणसामर्थ्यवासनाविष्टत्वात्---- इति । <एषा> इति न अस्माभिर्निह्नुता , <साभिलापं विकल्पाख्यम्> इत्यनेन संगृहीतत्वात् । एतदुक्तं भवति ---- अहंप्रतीतिरेव तावत्न आत्मा , तस्या अपि विकल्परूपत्वातस्थैर्याच्च । एतत्प्रतीतिप्रत्ययोऽपि नास्ति अन्यः शरीरादेः , भवन्नपि वा वेद्यपक्षपतितः स्यात्---- इति । तथापि संवित्संवेद्यव्यतिरिक्तस्य आत्मनो न सिद्धिः ---- इत्येततपिशब्देन द्योतितम् । एवं नास्ति आत्मा संवित्संवेद्यत्र्यतिरिक्तो दृश्यस्य तस्यानुपलब्धेः ---- इति ॥१॥ ॥२॥

अत्र आत्मवाद्यनुमानमुत्थापयति


अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी ।
कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ३ ॥

इह स्मृतिकाले सुस्मूर्षितोऽर्थो भवतु , ध्वंसतां वा ---- इति किन्तेन(क्स्स्किमनेन) , अनुभवस्तावत्ध्वस्तः ---- इत्यत्र सर्वस्य अविवादः , तमेव च अनुरुन्धाना स्मृतिर्जायते । तथा हि ---- स्मृतौ न अर्थस्य प्रकाशः , न अध्यवसायः , नापि अनुभवस्य अर्थस्य च अङ्गुलिद्वयवत्, नापि अनुभवविशिष्टस्य अर्थस्य दण्डिवत्, सर्वत्र अयम् ---- इति प्रत्ययप्रसङ्गात्; किंतु अनुभवप्रकाश एव स्मृतौ प्रधानम् , अनुभवस्य तु अर्थप्रकाशात्मकत्वातनुभवप्रकाशनान्तरीयकोऽर्थावभासः इति । सर्वथा यदि अनुभवो ध्वस्तः , तदा तत्प्रकाशरूपा कथं स्मृतिस्तद्द्वारेण अर्थविषया स्यात्, तया च सर्वो व्यवहारः क्रियमाणो दृष्टः इत्यसौ स्वरूपेण अनपह्नवनीया सती अनुभवस्य नाशे किंचितविनष्टमावेदयति । तदेव च अनुभवकर्तृ ---- अनुभवितृरूपम् , आत्मा अनुभावको नित्यः ---- इति । इयदेव च आत्मसिद्धेर्जीवितम् । तत्तु न अधिकमिहैव उन्मीलितमाचार्येण , वक्तव्यशेषविवक्षया पूर्वपक्षो मा तावत्समापतित्याशयेन । <कथं भवेत्> इति । अर्ह्तस्तावत्तस्यामकिंचित्करः , अनुभवश्च ध्वस्तः इति न केनचित्प्रकारेण स्मृतिः स्यात्, तदभावे च संकेतशब्दस्मृत्यायत्ता अपि अस्तङ्गताः सर्वे विकल्पाः , निर्विकल्पं च अन्धबधिरमूकप्रायमिति हन्त निराक्रन्दमवसीदेत्विश्वम् ---- इति ॥३॥

इह कार्यातिरेकेण तादृक्कल्पनीयं यत्कार्यसिद्धये पर्याप्नोति , न चैवमात्मा , अर्थो हि तावत्स्मर्यते , स च अनुभवप्रकाशमुखेन , अनुभवश्च ध्वस्तः ---- इत्युक्तम् ; यदि आत्मा कश्चिदस्ति , किं तेन । एतदपि हि वक्तव्यम् ---- आकाशमपि अस्ति ---- इति । अथ उच्यते ---- न केवलेन आत्मना एतत्सिद्ध्यति , अपि तु अनुभवसंस्कारोऽपि अत्र उपयोगी ---- इति , तर्हि स एवास्तु , किमनेन ? ---- तदेतत्दर्शयति


सत्याप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु ।
स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ४ ॥

<दृष्टेषु> अनुभूतेषु <वस्तुषु> या <स्मृतिः> तस्यामनुभवो दृगात्मा <द्वारम्> अर्थाशस्पर्शे , स च <सत्यप्यात्मनि> नष्टोऽनुभवः ,
तस्य हि अनाशे इदम् ---- इत्येष एव अत्रुटितः प्रकाशः इति का स्मृतिः , तदनुभविता किं स्मृतेः कुर्यात्---- इति ।

<यत्रैव> विषये <अनुभवो> वृत्तः <तदेव> तस्याः स्मृतेः <पदं> स्मर्यमाणम् । तत्पदा ---- इति बहुव्रीहिः , <सा> इति स्मृतिः ॥४॥

ननु ज्ञानान्तरस्य विषयेण कथं तस्याः विषयित्वाभिमानः ---- इत्याशङ्क्याह


यतो हि पूर्वानुभवसंस्कारात्स्मृतिसंभवः ।
यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिनात्मना ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ५ ॥

अनुभवेन हि संस्कारो जन्यते स्वोचितः , संस्कारश्च प्रातनरूपां स्थितिं स्थापयति , आकृष्टशाखादेश्चिरसंवर्तितस्य विवर्त्यमानस्य भूर्जादेः । तेन अत्रापि संस्कारः तां स्मृतिं पूर्वानुभवानुकारिणीं करोति ---- इति तद्विषय एव स्मृतेर्विषयः ।

एवं तर्हि <अन्तर्गडुः> यथा आयासाय परम् , तद्वतात्मा स्थिरः कल्पनायासमात्रफलः इति किं तेन , सर्वं हि संस्कारेण जगद्व्यवहारकुटुम्बकं कृतकरावलम्बम् ---- इति ॥५॥

ननु तस्मैव संस्कारस्य आश्रयो वक्तव्यः , स हि गुणत्वादाश्रयमपेक्षते , य आश्रयः स आत्मा स्यात्---- इत्याशङ्क्याह


ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् ।
संस्कारात्स्मृइतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ६ ॥

इह संस्कारे जायमाने , यदि आत्मनो विशेषः , स तर्हि अव्यतिरिक्तः इति न नित्यः स्यात्; अथ न कश्चितस्य विशेषः , तेन तर्हि किम् । अथ संस्कार एव अस्य विशेषः , तर्हि न व्यतिरिक्तोऽसौ इति पुनरपि अनित्ये ज्ञाने संस्कारः ---- इत्यायातम् । अनुभवाद्विशिष्टं विशिष्टस्म्र्ट्याख्यकार्यकारि ज्ञानं परम्परया जायते ---- इति इयानेव संस्कारार्थः । अथ संस्कारात्मा व्यतिरिक्तो विशेषः , तस्य तर्हि किमसौ । संबन्धश्च व्यतिरिक्तो निराकरिष्यते । एवं ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि विकल्पनीयाः । एतदाह ---- <ततः> इति आत्मनो <भिन्नेषु धर्मेषु> अङ्गीक्रियमाणेषु तेषु सत्स्वपि , आत्मनः <स्वरूपे> विशेषाभावात्स तावतात्मा स्म्र्टौ न व्याप्रियेत , अस्मतृरूपासंस्कृतरूपादिप्राच्यरूप् ।नपायात्, इति <संस्कारादेव स्मृतेः सिद्धिः> ---- इति । अहं स्मरामि ---- इति यः <स्मर्ता> सोऽपि शरीरसंतानो ज्ञानसंतानश्च अध्यावसीयते , <यथा द्रष्टा> । पूर्वं हि उक्तम्

{अहंप्रतीतिरप्येषा शरीराद्यवसायिनी ।}(इप्व्_१,२ २)

इति । एवमात्मनि साधकं प्रमाणं प्रत्यक्षमनुमानं च पराकृतम् , बाधकं च सूचितं ---- धर्मयोगे नित्यताहानि , अन्यथा किं तेन । तदुक्तम्


{चर्मोपमश्चेत्सोऽनित्यः स्वतुक्यश्चेदसत्समः ।
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति हि तत्फलम् ॥}

इति ॥६॥

इत्थमात्मानं निराकृत्य , तस्य ऐश्वर्यमपि निराकर्तुं ज्ञानशक्तिमेव परीक्षितुमाह


ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत् ।
अथापि जडमेतस्य कथमर्थप्रकाशता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ७ ॥

पराभ्युपगमेन प्रसङ्गापादनमेतत्पूर्वपक्षवादी करोति ---- प्रसङ्गविपर्ययलाभो मे भविष्यति ---- इति । तत्र आत्मवादी नित्यत्वमात्मन इत्थं ब्रूते ---- इह कालो नाम इदंभावविशिष्टस्य विशेषणतामवलम्बमानः तं विशिष्टीकुर्वन् तत्संकोचातनित्यं संपादयति । आत्मनश्च चित्स्वभावत्वातिदम् ---- इति प्रथनाभावेन विशेष्यत्वं नास्ति , विशेषणविशेष्यभावो हि योजकायत्तः , न च स्वप्रकाशे योजकान्तरमस्ति । स इत्थं ब्रुवाणः पर्यनुयुज्यते ---- <ज्ञानमपि> तर्हि स्वप्रकाशमिति तत्रापि एषैव वार्ता इति तदपि कस्मात्न नित्यम् ? न च द्वयोर्नित्ययोः कश्चित्संबन्धः , कार्यकारणभावो हि असौ नान्यः , तत आत्मनो ज्ञानं शक्तिः इति अवसन्नमदः । अथ न स्वप्रकाशं ज्ञानं तर्हि परस्यापि अदो न प्रकाशः ,
स्वप्रकाशरूपावेशनं हि असौ परस्य विदधत्बोधः प्रकाशो भवति परस्यापि , ततः स्वप्रकाशताशून्यो न असौ अर्थस्य प्रकाशः स्यात्, भावान्तरवत् ॥७॥

जडोऽप्यसौ इत्थमर्थस्य प्रकाशो भविष्यति ---- इति सांख्यमतमाशङ्कते


अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः ।
चैतन्यम् ॥ ८ [ईश्वरप्रत्यभिज्ञाकारिका १,२ ८] ॥

इह तावतर्थं जानामि ----इत्यस्ति व्यवहारः । तत्र अर्थस्य प्रकाशः ---- इत्येतावानेव परमार्थः । तत्न अर्थस्य स्वं रूपम् , सर्वं प्रति तथात्वप्रसङ्गात्, न कंचित्प्रति वा इति सर्वज्ञमज्ञं वा जगत्स्यात् । नापि अर्थे अन्यत एतद्रूपमुपनिपतितम् , एष एव हि दोषः स्यात् । तत्नूनमन्यत्रैव अयं धर्मः तत्त्वान्तरे , तत्रापि कथमर्थस्य प्रकाशः स्यातिति नूनं तत्र तत्त्वान्तरे सोऽर्थः प्रतिबिम्बत्वेन उपसंक्रामति । तत्तत्त्वान्तरं सत्त्वप्राधान्यात्प्रतिबिम्बग्रहयोग्यं तमसाऽऽच्छादितत्वात्सकलप्रतिबिम्बनतो व्यावर्तितम् , भागे रजसा तमसोऽपसारणात्किंचिदेव प्रतिबिम्बकं गृह्याति , तदेव बुद्धितत्त्वमुच्यते । अर्थप्रतिबिम्बग्रहश्च ज्ञानमस्य वृत्तिरूपं पूर्वव्यपदेशतिरोधायकदध्यादिपरिणामविलक्षणपरिणतिविशेषात्मकम् । एवम् <अर्थस्य> तावत्<रूपं बुद्धिः> धारयति । इयश्च सत्त्वादीनां सुखदुःखमोहरूपतयां भोग्यत्वात्जडमिति दर्पक्षवतप्रकाशम् । न च भोग्यस्य अप्रकाशस्य तद्विरुद्धभोक्तृतारूपप्रकाशात्मकस्वभावसंभवो युक्त्यनुपाती इति तद्विलक्षणेन भोक्त्रा भवितव्यम् । स च प्रकाशः ---- इत्येतावत्स्वभावः , स्वभावान्तरं हि अप्रकाशरूपं भोग्यं कथं भोक्तुः स्वभावतया संभाव्येत । स च प्रकाशमात्रस्वभावत्वेनैव यदि विश्वस्य प्रकाशः ,
तर्हि युगपदेव प्रकाशेत , घटप्रकाशोऽपि पटप्रकाशः स्यातिति विश्वं संकीर्येत । स च अर्थातर्थप्रतिबिम्बात्तदाधाराच्च बुद्धितत्त्वातन्यः कथमर्थस्य प्रकाशः स्यात्, असंबन्धात् । तस्मात्बुद्धिरेव स्वच्छत्वात्प्रकाशप्रतिबिम्बमपि गृह्णाति । ततः प्रकाशप्रतिबिम्बपरिग्रहमहिमोपनतप्रकाशावेशबुद्धितत्त्वावेशितप्रतिबिम्बकनीलाद्यर्थपर्यन्तसंक्रान्तेः प्रकाशावेशस्य अर्थः प्रकाशते इति सिद्धो व्यवहारः । तदेवं ज्ञानं जडबुद्धितत्त्वाव्यतिरेकात्जडमपि चित्प्रतिबिम्बयोगात्विषयस्य प्रकाशः ---- इति ।

एतदेव तावतनुचितम् ---- यत्प्रकाशात्मा पुमान् बुद्धौ प्रतिबिम्बमर्पयति , समानगुणे बिम्बकापेक्षया च विमले प्रतिबिम्बसंक्रान्तिदर्शनात्, रूपवति आदर्शे घटरूपप्रतिबिम्बवत्; आत्मबुद्ध्योश्च अतिवैलक्षण्यम् , आत्मापेक्षया च न बुद्धिर्विमला तत्बह्वतु तावतेतत्---- इति <अथ> शब्देन सूचयति ।

किंतु प्रतिबिम्बवादेनापि न किंचित्प्रतिसमाहितं भवेत्---- इति दर्शयति

अजडा सैवं जाड्ये नार्थप्रकासता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ८ ॥

चैतन्यप्रतिबिम्बयोगे यदि तावत्तत्प्रतिबिम्बकमपि मुख्यं प्रकाशरूपमेव न भवति , तेनापि न किंचित्कृतं स्यात्, न हि प्रतिबिम्बतवह्निपुञ्ज आदर्शो दाह्यं दहेत् । अथ मुख्यप्रकाशरूपमेव तत्प्रतिबिम्बकम् , तत्तर्हि बुद्धेरव्यतिरिक्तमिति मुख्यप्रकाशरूपैव बुद्धिर्जाता इति । यतो विरुद्धधर्माध्यासात्भीरुभिः एतत्कल्पितम् । स एव पुनः जाज्वल्यमानं निजमोजो जृम्भयति , ततश्च सा बुद्धिरेव चिन्मयी स्यात्, किं पुरुषेण । एवमर्थप्रतिबिम्बकद्वारेण अर्थमयी ---- इत्यपि आयातो विज्ञानवादः । कुत एतस्याः तद्रूपत्वम् ---- इति , पूर्वकारणपरम्परातः ---- इति उतरं वाच्यम् । एवं सैव चेत्चिद्रूपा , प्राग्वत्नित्यताप्रसङ्गः ; न चेत चिद्रूपस्यापि नित्यता , तर्हि आत्मा न नित्यः कश्चिदस्ति , यस्य ज्ञानं नाम शक्तिः स्यातिति ज्ञानमात्रमेव अस्ति । योऽर्थप्रकाशरूपो बोधो यश्च विकल्पस्मृत्यादिरूपः तावता अर्थव्यवहारसिद्धेः ---- इति प्रसङ्गविपर्ययलाभः <ज्ञानं च चित्स्वरूपं चेत्> इत्यादेः श्लोकद्वयस्य तात्पर्यम् ॥८॥

एवं ज्ञानं परीक्ष्य क्रियां परीक्षते


क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता ।
नान्यादृष्टेः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ९ ॥

इह परिस्पन्दरूपं तावत्गव्च्छति , चलति, पतति ---- इत्यादि यत्प्रतिभासगोचरम् , तत्र गृहसेशगतदेवदत्तस्वरूपातनन्तरं बाह्यदेशवर्तिदेवदत्तस्वरूपम् ---- इत्येतावतुपलभ्यते , न तु तत्स्वरूपातिरिक्तां कांचितन्यां क्रियां प्रतीमः । <देवदत्तो दिनं तिष्ठति> इत्यत्र तु प्रभातकालाविष्टदेवदत्तस्वरूपं ततः प्रहरकालालिङ्गिततत्स्वरूपम् ---- इत्यादि भाति , <दुग्धं परिणमते> इत्यत्र मधुरवस्तुरूपमम्लवस्तुरूपं द्रवरूपं कठिनरूपम् ---- इत्यादि । एवं सादृश्याच्च तत्र प्रत्यभिज्ञा भिन्नेऽपि कायकेशनस्वादाविव । देशाकारान्यत्वे तु कालान्यत्वमवश्यंभाविदेशकालान्यत्वेऽपि , स्वरूपस्यैव देशत्वात्, कालभेदे च स्वरूपभेदात्, देशकालाकारा आकार एव यद्यपि पर्यवस्मन्ति , तथापि स्थूलदृष्ट्या अस्ति भेदः इति ते हि भेदेन बौद्धैरुच्यन्ते ---- इति तात्पर्यम् । एवं प्रत्यक्षेण न दृश्यते कचित्क्रिया , तद्भावात्न तत्पूर्वकेण अनुमानेन , कार्यं च प्रामप्राप्त्याद्युत्तरक्षणरूपं तद्देशवस्तुरूपादि इति कार्यान्यथानुपपत्त्यापि न सा कल्प्या । एवं प्रत्यक्षानुमानाभ्यां तस्या अदृष्टिः ---- इति साधकप्रमाणाभाव उक्तः ।

बाधकमपि आह

न साप्येका क्रमिकैकस्य चोचिता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ९ ॥

तत्र पूर्वापररूपता क्षणानां विकल्पबुद्व्यानुसंधानात्, न तु स्वात्मनि किंचित्पूर्वमपरं वा , वस्तुमात्रं हि तत् । अतो विकल्पप्राणितं पूर्वापरीभूतत्वं क्रमरूपता क्रियायाः किंचित्क्षणं न वस्तु स्पृशति , ते हि क्षणा न अन्योन्यस्वरूपाविष्टाः इति कथम् <एका> क्रिया , क्रमो हि भेदेन व्याप्तः अभिश्ने तदभावात्, भेदस्य विरुद्धमेक्यमिति कथं <क्रमिका एका च> इति स्यात्? अथ एकत्र आश्रयेऽवस्थानातेका , तत्रापि तत्क्षणातिरिक्तो न कश्चिताश्रयोऽनुभूयते , क्षणा एव हि प्रबन्धवृत्तयो भान्ति । किं च तथाभूतैर्भिन्नदेशकालाकारैः क्रियाक्षणैराविष्ट आश्रयः कथमेकः स्यात्?
अत एव <देवदत्तोऽयम्, स एव ग्रामं प्राप्तः> इति सादृश्यात्भवन्ती प्रत्यभिज्ञा न ऐक्यं वास्तवं गमयितुमलम् ॥९॥

एवं ज्ञानं क्रियां च परीक्ष्य , यस्मिन् सति ते संबद्धे सर्वज्ञत्वसर्वकर्तृतारूपैश्वर्यप्रसाधनाय प्रभवतः , तं संबन्धं ध्वंसयितुं तद्विषयं प्रमाणाभावं तावदाह


तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते ।
नान्यन्नान्योऽस्ति संबन्धः कार्यकारणभावतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ १० ॥

मृत्प्पिण्डे सति स्तूपकः , तत्र सति शिविको यावत्घटः इत्येवं भावक्षणा एव उपलभ्यन्ते , न अधिकं किंचित्प्रत्यक्षेण अवभासते , नापि अनुमानेन ---- इति क्रियायामिव वाच्यम् । सर्वत्र आधाराधेयभावादौ अयमेव पन्थाः ---- पृथग्रूपकुण्डवदरक्षणानन्तरं निरन्तरात्मकविशिष्टकुण्डवदरोदयः ---- इति । अयमेव च भावो भावान्तरेण सह नियतपूर्वापरतया विकल्पेन व्यवहियमाणः कार्यकारणभावः ---- इति अभिधीयते । न च ज्ञानक्रियाभ्यां सह आत्मनः कार्यकारणभावः आत्मनस्तत्कार्यत्वाभावात्, ज्ञानस्य च स्वसामग्रोकार्यत्वात्, क्रियायाश्च अभावातिति न ज्ञानक्रियासंबन्धो यतो ज्ञातृत्वकर्तृत्वे स्याताम् ॥१०॥

एवं प्रमाणं पराकृत्य , संबन्धे बाधकं सामान्यविशेषमुखेन निरूपयति


द्विष्ठस्यानेकरूपत्वात्सिद्धस्यान्यानपेक्षणात् ।
पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२ ११ ॥

संबन्धस्तावत्परस्परप्राप्तिरूपो द्वयोः प्राप्तिभाजोरेकस्तिष्ठति ---- इति सामान्यलक्षणम् । तच्च कथम् ? न हि एकत्र विश्रमिताशेषशरीरसारोऽन्यत्र विश्रमितुमलं स्वरूपभेदप्रसङ्गात् । एतेन संयोगसमवायौ तन्मूलाश्च अन्येऽपि संबन्धा बाधविधुरां धुरमध्यारोपिता मन्तव्याः । योऽपि चेतनेषु तत्कल्पनया च अचेतनेषु पारतन्त्र्यात्मा संबन्धो व्यवहियते , तत्र सिद्धस्य न पारतन्त्र्यमस्ति सिद्धत्वादेव , असिद्धस्य नतरां निःस्वरूपस्य ताद्धर्म्यायोगात् । एवमपेक्षायामपि वाच्यम् । द्वे च रूपे कथं श्लिष्यतः ? द्वयोरेकत्वानुपपत्तेः ; एकत्वे वा कः श्लेषः ? तस्मात्ज्ञानसंबन्धात्<ज्ञाता> इति यथा विकल्पकल्पितोऽर्थो न वस्तु तथा क्रियासंबन्धात्<कर्ता> इत्यपि कल्पनामात्रम् ---- इति पूर्वपक्षस्य संक्षेपः । इति शिवम् ॥११॥ आदितः १६ ॥

इति श्रीमदाचार्याभिनवगुप्तविरचितायां प्रत्यभिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे पूर्वपक्षविवृतिर्नाम द्वितीयमाह्निकम् ॥ २ ॥

ज्ञानाधिकारे तृतीयमाह्निकम् ।सम्पाद्यताम्


{विना येन न किंचित्स्यात्समस्ता अपि दृष्टयः ।
अनस्तमितसंबोधस्वरूपं तं स्तुमः शिवम् ॥}

एतस्मिन् पूर्वपक्षे यदुक्तं स्मृतेः संस्कारमात्रादेव सिद्धिः ---- इति , तदेव दूषयितुं

{सत्यं ।}

इत्यादि

{ ज्ञानस्मृत्यपोहनशक्तिमान् ॥}

इत्यन्तं श्लोकसप्तकम् । क्रियायां संबन्धे च दूषणोद्धरणं द्वितीये क्रियाधिकारे भविष्यति । यत्तु परेण व्यतिरिक्तं ज्ञानं काशादसांख्यादिदृष्टौ निराकृतं तदभिमतमेव ग्रन्थकृत इति तत्दूषणान्तरमेव । तत्र श्लोकद्वयेन ज्ञानस्य स्वसंवेदनरूपतया अनुभवस्य स्मृतौ अप्रकाशत्वं दर्शितं संस्कारजत्वेऽपि । ततः श्लोकद्वयेन स्मृतेः भ्रान्तित्वमाशङ्कापूर्वकं पराकृत्य तृतीयेन प्रसङ्गात्सर्वाध्यवसायानामपि भ्रान्तित्वाशङ्का शमिता । ततः सत्यपि संस्कारे स्मृत्यनुपपत्तौ व्यवहारोच्छेदः ---- इति श्लोकेनोक्त्वा स्वपक्षे तदुपपत्तिः ---- इति श्लोकेनोक्तम् ---- इति तात्पर्यम् । ग्रन्थार्थस्तु निरूप्यते ।

सत्यं किंतु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः ।
जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३ १ ॥

पूर्वपक्षमध्यात्मया तावत्बहु अङ्गीकर्तव्यम् ---- इति <सत्यम्> इत्यनेन दर्शितम् । यत्तु न अङ्गीकर्तव्यं तत्दूष्यते ---- इत्येतदुक्तं <किंतु> इत्यनेन विशेषाभिधायिना । इह स्मृतौ विषयमात्रस्य प्रकाशो न समर्थनीयो वर्तते यः संस्कारादेव सिद्ध्येत्, किंतु अनुभवप्रकाशेन विना <तत्> इत्येवंरूपा कथं स्मृतिः स्यात्, कथं च तया विना अभिलाषेण व्यवहारः स्यात्? अनुभवेन हि अस्य सुखसाधनता निश्चिता , तत उपादानम् ; तत्र पूर्वानुभवजनितात्संस्कारातेतावत्जातम् । यद्यपि तज्ज्ञानं विषयेण न जनितम् , तथापि तद्विषयम् ---- इति । न च एतावता किंचित्, आत्मनिष्ठे स्वप्रकाशज्ञाने विषयस्येव अनुभवस्य प्राच्यस्य अप्रकाशात् ॥१॥

ननु संस्क् ।रजत्वादेव प्राच्यमनुभवमपि विषयीकुरुतां स्मृतिः ---- इत्याशङ्क्याह

दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् ।
रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३ २ ॥

<दृक्> ज्ञानम् , तच्च जडात्विभिद्यते स्वप्रकाशैकरूपतया ,
जडो हि प्रकाशात्पृथग्भूतो वक्तव्यः , तेन दृक्<स्वाभासा> , आभासः प्रकाशमानता सा स्वं रूपमव्यव्हिचारि यस्याः , स्वस्य च आभासनं रूपं यस्याः । सत्यपि बाह्ये तच्छरीरसंक्रान्तं न प्रकाशनं ज्ञानस्य रूपं भवितुमर्हति , परप्रकाशनात्मकनिजरूपप्रकाशनमेव हि स्वप्रकाशत्वं ज्ञानस्य भण्यते । ननु स्वाभासमेव सत्ततनुभवज्ञानं स्मरणे भासिष्यते , न ---- इत्याह <नान्येन वेद्या> । परत्र यदि दृक्भासेत तर्हि न सा स्वाभासा , इदमेव हि स्वप्रकाशस्य लक्षणम् ---- स्वयं हि यदि प्रकाशेत तदा परेण सह असंबन्धात्संबन्धप्राणा कथं <परत्र> इति सप्तमी संगच्छताम् ; तथा च रूपज्ञानेन <रसे दृक्> रसविषयं ज्ञानं न वेद्यते , एवं हि चक्षुषैव रसः फलतो गृहीत एव स्यात् । ननु यदि न आभाति स्मरणेऽनुभवः किं तर्हि संस्कारेण कृतं स्यात्, रूपज्ञानं न रसज्ञानजात्संस्कारात्जातम् , तत्कथमयं प्रसङ्गः ,
तस्मात्संस्कार एव भवत्संभावितदोषभङ्गाय प्रभवेत् । नैतत्, यतो हि असौ तत्संस्कारसंस्कृतात्समनन्तरप्रत्ययातुत्थितः स्मृतिबोधः ,
तेन तत्सदृशो भवतु शास्वासंनिवेश इव पूर्वसंनिवेशतुल्यः , न तु यो यत्संस्कारात्जातः स तस्य वेदनस्वभावो भवति ---- इति युक्तम् । सदृशत्वस्यापि गतिरवगमः कथम् ? न हि अनुभवज्ञानं सादृश्यं गमयति , नापि स्मृतिज्ञानम् , परस्परमसंवेदने द्वयनिष्ठसादृश्याध्यवसायायोगात्, अभ्यस्य च तदुभयवेदनरूपस्य अभावातिति संस्कारात्परं सविषयतामात्रं स्मृतेः सिद्धम् , न तु अनुभवविषयत्वम् , नापि अस्य विषयस्य पूर्वानुभवविषयीकृतत्वम् ---- इति निश्चयः एषः ॥२॥

ननु यदि स्मृतिज्ञाने अनुभवस्य सत्यतः प्रकाशः स्यात्, तन्मुखेन च तद्विषयस्य , तदा भवेत्भवदुक्तेरवकाशः , यावता स्मृतिर्विकल्परूपत्वात्केवलमपरकाशमानमेव अनुभवं तद्विषयं च अध्यवस्यति , ततियं भ्रान्तिस्वभावा , तत्र कोऽयं निर्बन्धः ? तदेतत्दर्शयति शङ्क्यमानत्वेन

अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः ।
दृष्टालम्बनता भ्रान्त्या ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३ ३ ॥

न तद्दर्शनं नापि तद्विषयः स्मृतेर्विषयः , तथापि तु उभयमध्यवसीयते , भ्रमरूपतया स्मृतेः । एतत्निराकरोति

तदेतदसमञ्जसम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३ ३ ॥

अत्र कारिकया उपपत्तिमाह

स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् ।
पूर्वानुभवसंकारापेक्षा च किमितीष्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३ ४ ॥

अनुभूतस्य अनुभवप्रकाशितस्य विषयस्य अप्रमोषोऽनपहारः तथैव प्रकाशनं यतेतत्स्मृतेः आत्मीयं रूपं तत्तथाप्रकाशनाभावे विघटेतमाम् । किं च भ्रान्तौ असद्वा आत्माकारो वा प्रख्याति , न तु तया अर्थः स्वीक्रियते तस्य अप्रकाशनातिति तया अर्थो न व्यवस्थापित एव । प्रकाशनात्मा हि व्यवस्थापना , ततश्च स्मरणादभिलाषेण कथमर्थविषयो व्यवहारः ? न च तदप्रकाशने संस्कारजत्वेन किंचित्कृत्यम् , तद्धि सादृश्यं लब्धुमवलम्ब्यते ; न च अनुभवेन विषयप्रकाशनात्मना स्मृत्यभिधानाया भ्रान्तेः किचिदपि सादृश्यमस्ति , सर्वथा विषयमस्पृशन्त्या ॥४॥

ननु योऽनुभवो यश्च तद्विषयः स यतः तया अध्यवसीयते , ततः अंशात्सादृश्यमनुभवेन स्मृतेः , तत्सिद्धये च संस्कारपरिग्रहः । <अध्यवसीयते> इति किमुच्यते ? <प्रकाश्यते> इति चेत्न भ्रान्तित्वम् ; <न प्रकाश्यते> इति चेत्पुनरपि विषयो न स्पृष्ट एव अनया इति सादृश्यमिति शब्दगडुमात्रम् , तदेतत्दर्शयितुमाह

भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः ।
ततोऽजाड्ये निजोल्लेखनिष्ठान्नार्थस्थितिस्ततः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३ ५ ॥

इह स्मृतेः अन्यस्य वा भ्रान्तिबोधस्य स्वसंवेदनांशे प्रकाशमाने न भ्रान्तिता , तत्र वैपरीत्याभावात्; यस्तु तत्र अध्यवसीयते स्वाकारः स विपरीततया अस्वाकारत्वेन अर्थतया इति तत्रांशे भ्रान्तिता । स चांशोऽर्थलक्षणो न स्मृत्या अन्यया वा भ्रान्त्या स्पृश्यते इति तत्र असौ तूष्णीका इति बलादेव तत्रांशे जडत्वमस्या आयातं घटज्ञानस्येव पटे । न च जडेन विषयस्य किंचित्कृत्यम् , ततश्च अर्थविषयो व्यवहारो विलुप्येत ।

अथ तु तमवसायरूपं स्वसंवेदनांशं स्वाकारं वा अवलम्ब्य अजडत्वमस्याः , एवमपि <अजाड्ये> निजं स्वसंवेदनमुल्लेखश्च स्वाकारः ---- इतीयति एषा परिनिष्ठिता स्मृतिः इति विषयस्य नामापि प्रहीतुमशक्नुवतः <ततः> स्मृत्यध्यवसायात्कथं विषयस्य व्यवस्थापनं व्यवहार्यत्वसंपादनसामर्थ्यम् ? ॥५॥

संस्कारे सत्यपि स्मृतिः न कथंचन घटते , ततश्च परस्परसङ्गतिहीनानि सकलानि ज्ञानानि ---- इति यदुक्तं श्लोकपञ्चकेन ततिदानीं प्रकृते योजयति

एवमन्योन्यभिन्नानामपरस्परवेदिनाम् ।
ज्ञानानामनुसंधानजन्मा नश्येज्जनस्थितिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३ ६ ॥

<जनस्य> लोकस्य या काचन <स्थितिः> व्यवहारः सा सर्वज्ञानानां यत्<अनुसंधानम्> एकविषयभावोपपन्नस्मृतिताप्राप्तिरूपम् , तत्र आयत्ता । तथा हि ---- स्मरणनिबन्धनाः सर्वे व्यवहाराः । प्रथममपि हि प्रत्यक्षज्ञानमहमितिपूर्वापररूपानुसंधानेन स्मरणानुप्राणितेन विना न घटते , प्रमातरि विश्रान्त्यभावातप्रत्यक्षत्वप्रसङ्गात् । एवं सुखादौ मन्तव्यम् । हानादानप्रेरणाभ्युपगमादवस्तु व्यवहाराः स्मरणमया एव । <एवं ज्ञानानाम्> यत्<अनुसंधानम्> ततो जायमाना <जनस्थितिः> <एवम्> इति पराभ्युपगमे सति , <नश्येत्> नश्यति ---- इति संभाव्यते , कुत इति चेत्, विशेषणद्वारेण हेतुमाह । <अन्योन्यम्> तावत्<भिन्नानि> ज्ञानानि ---- अन्यतनुभवज्ञानम् , अन्यतिदानीन्तनं ज्ञानं विकल्पाभिमतम् , अन्यत्स्मरणसंमतं ज्ञानम् । तदेतानि स्वविषयप्रकाशमात्ररूपाणि परविषये जडान्धानेडमूककल्पानि , न च अन्योन्यस्य प्रकाशरूपाणि ॥६॥

एवं न स्वरूपतो न वेद्ययो वा एकीभावरूपमनुसंधानमस्ति । अन्योन्यं च विषयविषयिभावो नास्ति । न च तुर्यं ज्ञातेयनिबन्धनमनुसन्धानाधायि संभाव्यते इति ध्वंसेरन् व्यवहाराः । न च <ध्वंसन्ताम्> इति भवदभीष्टशापमात्रात्ते ध्वंसन्ते , प्रकाशन्ते यतः तत एततापद्यते ---- एतदेव समर्थयितुमुद्यन्तव्यम् ---- इति । तच्च अस्मदभिमतप्रकारेण विना विधेरपि अशक्यसमर्थनम् ---- इति दर्शयति

न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः ।
स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३ ७ ॥

<संवित्तावत्प्रकाशते> इति तावत्न केचितपह्नुवते । सा तु संवित्यदि स्वात्ममात्रविश्रान्ता अर्थस्य सा कथं प्रकाशः ? स हि अर्थधर्म एव तथा स्यात्; ततश्च अर्थप्रकाशः तावत्येव पर्यवसित इति गलितो ग्राह्यग्राहकभावः । अतोऽर्थप्रकाशरूपं संविदमिच्छता बलादेव अर्थोऽपि तद्रूपान्तर्गत एव अङ्गीक्रतव्यः ; स च अर्थप्रकाशो यदि अन्यश्च अन्यश्च , तत्न स्मरणमुपपन्नमित्यत एक एव असौ ---- इति । एकत्वात्सर्वो वेद्यराशिः तेन क्रोडीकृतः ---- इत्येतदपि अनिच्छता अङ्गीकार्यम् । एवमपि सततमेव उन्मग्नेन निमग्नेन वा विश्वात्मना प्रकाशेत , तथा स्वभावत्वात् । न चैवम् , अतः स्वरूपान्तर्ब्रुडितमर्थराशिमपरमपि भिन्नाकारमात्मनि परिगृह्य , कंचिदेव अर्थं स्वरूपातुन्मग्नमाभासयति ---- इति आपतितम् । सैषा ज्ञानशक्तिः । उन्मग्नाभासभिन्नं च चित्स्वरूपं वहिर्मुखत्वात्तच्छायानुरागात्नवं नवं ज्ञानमुक्तम् । एवमपि नवनवाभासाः प्रतिक्षणमुदयव्ययभाज इति सैव व्यवहारनिवहहानिः । तेन क्वचिताभासे गृहीतपूर्वे यत्संवेदनं बहिर्मुखमभूत्, तस्य यतन्तर्मुखं चित्स्वरूपत्वं तत्कालान्तरेऽपि अवस्थास्नु स्वात्मगतं तद्विषयविशेषे बहिर्मुखत्वं परामृशति इति एशा स्मृतिशक्तिः । यच्च तत्नवं भासयति स्मरति वा तत्वस्तुतः संविदा विश्वमय्या तादात्म्यवृत्ति इति विश्वमयं पूर्णमेव इति नवं न किंचिताभासितं स्मृतं वा स्यात् । इदमपि प्रवाहपतितमुरीकार्यम् ---- यत्किल तताभास्यते तत्संविदो विच्छिइद्यते , संविच्च ततः , संविच्च संविदन्तरात्, संवेद्यं च संवेद्यान्तरआत्; न च विच्छेदनं वस्तुतः संभवति , इति विच्छेदनस्य अवभासमात्रमुच्यते । न च ततियता पारमार्थिकम् , निर्मीयमाणस्य सर्वस्य अयमेव परमार्थः । यतः एष एव परितश्छेदनात्परिच्छेद उच्यते , तदवभासनसामर्थ्यमपोहनशक्तिः । अनेन शक्तित्रयेण विश्वे व्यवहाराः । तच्च भगवत एव शक्तित्रयम् ---- यत्तथाभूतानुभवितृ-स्मर्तृ-विकल्पयितृस्वभावचैत्रमैत्राद्यवभासनम् । स एव हि तेन तेन वपुषा जानाति, स्मरति विकल्पयति च । यथोक्तमाचार्येणैव

{यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते ।
जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥}

इत्यादि । एतासां च ज्ञानादिशक्तीनामसंख्यप्रकारो वैचित्र्यविकल्प इति तत्सामर्थ्यं स्वातन्त्र्यमपराधीनं पूर्णं महदैश्वर्यं तन्निर्मितब्रह्मविष्णुरुद्राद्यैश्वर्यापेक्षया उच्यते । तदेवं <चिद्वपुः> इत्येकं कृत्वा इयदायातम् <विश्वरूपः> इति । तत एव च परिनिष्ठितैकरूपजडभाववैलक्षण्यात्ज्ञानादिशक्तियुक्ततामाहेश्वर्यमुपसंप्राप्तः । एतदनुपगमे न किंचितिदं भासेत ---- इति प्रसङ्गः । भासते तु , तस्मातेततवश्याङ्गीकर्तव्यम् ---- इति प्रसङ्गविपर्ययः । नश्येज्जनस्थितिः , यद्येवं न स्यात्---- इति प्राक्तनेन श्लोकेन सह संबन्धः । <चेत्> इत्यनेन तद्विपर्ययः सूचितः ॥७॥

इति शिवम् । आदितः २३ ॥

इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे परदर्शनानुपपत्तिर्नाम तृतीयमाह्निकम् ॥ ३ ॥

_____

ज्ञानाधिकारे चतुर्थमाह्निकम् ।सम्पाद्यताम्


{पदार्थरत्ननिकरं निजहृद्गञ्जपुञ्जितम् ।
ग्रथ्नन्तं स्मृतिसूत्रान्तः संतत्यैव स्तुमः शिवम् ॥१॥}

एवं ज्ञानपूर्विका स्मृतिः , तदुभयानुग्राहिणी अपोहनशक्तिः ---- इति तावत्वस्तुसंभवक्रमेण प्रदर्शितम् । उपक्रमानुसारेण स्मृतिरेव सूचितप्रसङ्गविपर्ययसमर्थनदृशा विवेच्या ।

{सत्यं किंतु स्मृतिज्ञानम् ।}

इति हि उपक्रान्तम् । तत्र संस्कारमात्रात्तावत्मा नाम उदपादि स्मृतिः , इदं तु वक्तव्यम् ---- तथाभूतभवदभ्युपगतभगवत्प्रभावोऽपि कथमेनां कुर्यात्---- इति शङ्कां शमयितुं स्मृतितत्त्वनिरूपणाय

{स हि पूर्वानुभूतार्थोपलब्धा ।}

इत्यादि

{ अर्थौ भातः प्रमातरि ।}

इत्यन्तं श्लोकाष्टकम् । तत्र श्लोकेन स्वपक्षे स्मृतिरुपपन्ना ---- इति कथितम् । द्वितीयेन स्मृतेः पूर्वानुभवविषयीकृतस्वलक्षणप्रकाशनसामर्थ्यमुक्तम् । तृतीयेन अनुभवेन तद्विषयेण च एकीभावपर्यन्त आवेशः स्मरणस्य उक्तः । तुर्येण अनुभवस्य न विषयतया स्मृत्या प्रकाशनम् ---- इति निरूपितम् । पञ्चमेन योगिज्ञानमपि अनुभवं पृथग्भावेन न विषयीकरोति ---- इति बडता तुर्यश्लोकार्थ एव उपोद्वलितः । षष्ठेनाशङ्क्यमानमनुभवस्य स्मृत्या पृथग्विषयीकरणं काक्पनिकम् ---- इत्यवास्तवीकृतम् । सप्तमेन स्मृतिप्रसङ्गात्विकल्पेऽपि पूर्वानुभवेन ऐक्यात्मावेशो दर्शितः । अष्टमेन स्मर्तव्यस्य स्मृतेः स्मर्तुश्च एकचित्तत्त्वविश्रान्तिः उक्ता , प्रसङ्गाच्च दृश्यस्य दर्शनस्य द्रष्टुश्च ---- इति तात्पर्यार्थः । अथ क्रमेण श्लोकार्थ उच्यते ।

स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् ।
विमृशन्स इति स्वैरी स्मरतीत्यपदिश्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४ १ ॥

<पूर्वमनुभूतस्य अर्थस्य> य <उपलन्धा> अन्तर्मुखो बोधः स तावतद्यापि <परतः> स्मृतिकालेऽपि अस्त्येव , संविन्मात्रस्वरूपस्य कालकृतसंकोचरूपविशेषात्मकावच्छेदायोगात् । अनुभवस्य च अन्तः अर्थोऽपि अपृथग्भावेन अवस्थितः ---- इत्येतदपि अयत्नसिद्धम् । इयत्तु चिन्त्यम् ---- अकालकलिते संवेदने तदन्तर्वर्तिनि च विश्वत्र भावजाते यदि तावत्चिन्मयतापरामर्शः , तत्<अहम्> इति एतावतैव पूर्णेन विमर्शेन भाव्यम् ;
अथ इदम्तया पृथग्भावावभासनेन , तथापि तत्र द्वयी गतिः । <अहम्> इत्यंशे यदि विश्रान्यति इदन्ता , तदा अहमिदमितिसदाशिवादिदशया भाव्यम् ।
अथ न रोहति , तत्<इदम्> इत्येव आभासनेन भवितव्यम् ; अपूर्वताभासनाच्च ततनुभवनमेव स्यात्न स्मरणम् ---- इत्याशङ्ग्याह <स्वैरी> इति । <स्वम्> आत्मीयमुपकरणमीरयति स्वकर्तव्येषु अवश्यं तच्छीलश्च ; <स्वं> च आत्मानमीरयति न पुनः स्वकर्तव्ये प्रेरकमपेक्षते ---- इति <स्वैरी> स्वतन्त्रः । तेन स्वतन्त्रत्वात्<स> इति विमृशति । <स> इति विमर्शनस्य च इयद्रूपम् ---- यत्सर्वथा अकालकलितस्वरूपपरामर्शनमेव न ,
नापि अत्यन्तं भेदेन विमर्शनमेव अपि तु यो भावः पूर्वमनुभवकाले तद्देशकालप्रमात्रन्तरसाचिव्येन पृथक्कृतो न च अहन्तायामेव लीनीकृतः , स तादृगेव तमसेव आच्छाद्य अवस्थापितः संस्कारशब्दवाच्यः , तस्य तमाच्छादकमपहस्तयति ; तत्र अपहस्तिते स पूर्ववत्पृथक्कृते एवावभाति । ननु च इदन्तया अवभासेत्पूर्ववदेव , नैवम् । तदानीन्तनावभासनपृथक्कृतशरीरादिसंबन्धमनवधूयैव हि तत्प्रकाशः ; ततश्च इदानीन्तनावभासनस्मरणकालपरामर्शोऽपि न निमीलति इति तत्परामर्शभित्तिप्राधान्येन पूर्वकालपरामर्शः इति विरुद्धपूर्वापरपरामर्शस्वभाव एव <स> इति परामर्श उच्यते । एवं च स एव परमेश्वरः <स्मरति> । एतदेव हि तस्य स्मर्तृत्वम् ---- यतेवंप्रकारपरामर्शोचितकालकलादिस्पर्शसहिष्णुमायाप्रमातृभावपरिग्रहः इति मायाविद्याद्वयाद्वयमयम् । तत एव सकलसिद्धिवितरणचतुरचिन्तामणिप्रख्यमागमिकाः स्मरणमेव मन्त्रादिप्राणितं मन्यन्ते । तथा च

{ध्यानादिभावं स्मृतिरेव लब्ध्वा चिन्तामणिस्त्वद्विभवं व्यनक्ति ।}

इति । अलं तावत् । अनेन तृन्नन्तसमासेन यत्नतोऽनुभवस्यार्थमुखेन कालस्पर्शमर्थविश्रान्ततां द्वयोरपि प्रमातरि निरूढिं भेदाभेदाभ्यां दर्शयति , वृत्तो एकार्थीभावात् । तस्य च भेदाभेदमयत्वम् ---- इति वक्ष्यामः ॥१॥

एतदेव स्मृतितत्त्वमुपपादयितुं श्लोकान्तराणि । तत्र यदि कश्चिद्ब्रूयात्---- इह स्मृतिर्विकल्पः , न च अनेनार्थः प्रकाश्यते , अर्थासंस्पर्शिनो हि विकल्पाः , अनुभवेन च येन सोऽर्थः प्रकाशतां नीतः स इदानीं कीर्तिमात्रमूर्तिर्जातः , न च सोऽपि स्मृत्या प्रकाश्यते ---- ज्ञानस्य ज्ञानान्तरेणासंवेद्यत्वातसत्त्वाच्चेति अर्थस्य प्रकाशनाभावात्<इदं स्मरामि> इति ज्ञानं भ्रान्तिमात्रमेव ---- इति पुनरपि आपतितम् ---- इति , तदा तं प्रति उच्यते

भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन् ।
स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४ २ ॥

इह स्मृतिविकल्पे तावतर्थोऽवसीयते , अन्यथा सुप्तमूर्च्छितकल्पतापत्तेः । एवं च यावतध्यवसायोऽर्थस्य तावत्<अर्थात्> इति सामर्थ्यातियतभ्युपगन्तव्यम् ---- यत्सोऽर्थः प्रकाशते , अप्रकाशमानेऽध्यवसातव्येऽध्यवसायोऽन्धप्रायः स्यात् । प्रकाशनं च न तदानीन्तनकालस्य त्यागेन , नापि द्वीकारेण , इदमित्येवावभासनप्रसङ्गात् । तस्माततीतानुभवकालः पूर्वानुभूतभावस्वालक्षण्याक्षेपकत्वेनापेक्षणीयो वेद्यभागे प्रकाशात्मकावभासाभिनिवेशितया , स्मर्तृदेहप्राणाद्यवभासकालश्चावलम्बनीयो वेदकभागे विमर्शांशाभिनिवेशित्वेन । आभासमात्रं हि भावस्य स्वरूपम् , प्रत्याभासं प्रमाणस्य व्यापारात् । तदेव आभासान्तरव्यामिश्रणया दिपसहस्रप्रभासंमूर्च्छनवत्स्फुटीभवति । आभासान्तरव्यामिश्रणाभावेऽपि तु कालाभाससंभेदेनैव स्वालक्षण्यं तस्य आभासस्य करोति , कालशक्तेरेव भेदकत्वातिति वक्ष्यते । एवं तावत्स्वलक्षणीभावः प्राक्तनदेहाभाससाचिव्याभ्युदितकालाभासया घटाभासस्य इति । तावत्येव वा स्मृतिः आभासान्तरैरपि व्यामिश्रा अतिस्फुटेति । अत्यन्तस्फुटीभावेऽपि तदानीन्तनकालता न त्रुट्यति अन्यसाधारण्यानवभावात् । तथावभासे तु योगिनस्तन्निर्माणमेव । ब्रह्मभाषितादौ तु नवमेव अवभासनमिति । अत्र तु आगमादिमानान्तरानुभूतब्रह्मादिस्वरूपस्मरणपरम्परा अभ्युपायः । <भासयेत्> इति विधिरूपेण नियोगेन नियमो लक्ष्यते , न भासयति इत्येतत्न , अपि तु भासयत्येव इति । <स्वकाले> इति स्मरणकाले । <आमृशन्> इति वेदकभागनिवेशी वर्तमानकाल उक्तः । <पूर्वाभासितं स्वलक्षणम्> इति वेद्यांशस्पर्शी भूतकालो घटाभासस्यापि केवलस्य स्वालक्षण्यापत्तिहेतुर्दर्शितः । इयदेव स्मृतेः अव्यव्हिचारि वपुः , अर्थितातिशयात्तु स्फुटत्वमिति <अथ> शब्दो द्योतयति । तदेवाह <अस्विलात्मना> इति । सर्वाभासमिश्रेण वपुषा इत्यर्थः ॥२॥

ननु एवं स्वलक्षणस्य प्रकाशने भेदेन बहिस्तदवभासेत । एतदेव हि बहिरवभासनम् ---- यत्स्वलक्षणप्रकाशनमिति शङ्काशमनाय निरूपयति

न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् ।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४ ३ ॥

स्मरणज्ञानात्भिन्नत्वेन बहीरूपतया यदि सोऽर्थो भासेत <स्मर्यमाणस्य> च यत्<भासनं> तदेव न स्यात्स्मर्यमाणमेव तत्न स्यात्, अनुभूयमानमेव तत्भवेतिति यावत् । ननु चैवं कथं स्वलक्षणस्य प्रकाशनमुक्तम् ? एतत्न इदाणीं प्रकाशनमपि तु पूर्वकाले एव , तदा चासौ बहिरवभासत एव । ननु चेदानीं तर्हि किम् ? विमर्शनमिति ब्रूमः । ननु प्रकाशनविमर्शनयोः भिन्नकालत्वमापतितम् । ततः किम् ? उभयमपि न किंचित्स्यात्, अन्योन्यजीवितत्वातस्य । मैवम् , यस्य हि संवेदनान्येव भिन्नानि तत्त्वम् , तस्य इदमप्रतिसमाधेयमेव , अस्मद्दर्शने तु भिन्नकाला अपि संविदः तत्कालात्यागेनैव एकतावभासनेन स्वतन्त्रः प्रमाता यावदन्तर्मुखतया तावत्यंशे विमृशति तावत्प्रकाशस्य तात्कालिकबहिर्भावाभासो विमर्शस्य इदानीन्तनान्तर्मुखा स्थितिरिति । एतदेव वेदनाधिकं वेदितृत्वं ---- वेदनेषु संयोजनवियोजनयोः यथारुचि करणं स्वातन्त्र्यम् , कर्तृत्वं च एतदेव उच्यते । घटमहमन्वभूवमिति वा स घटः इति वा <ऐक्यम्> अनुसंधानमनुसंधातुरभिन्नमिति दर्शयितुं यदेव ऐक्यं <स एव वेदिता> इति सामानाधिकरण्येन दर्शितम् । <एष स> इति आच्छादितस्येव प्रमातृतत्त्वस्य स्फुटावभासनं कृतम् , इदमिति , विस्मयगर्भयानया उक्त्या प्रत्यभिज्ञा एव सूचिता । यदाह ग्रन्थकार एव

{इत्थं स्वसंवित्तिमपह्नुवानैर्यत्तद्वदद्भिः कलुषीकृतं यत् ।
प्रमातृतत्त्वं स्फुटयुक्तिभिस्तान्मूकान्विधाय प्रकटीकृतं तत् ॥}

इति ॥३॥

ननु च प्राच्य एव अनुभवो यदि स्मर्यमाणस्य बहिरवभासनरूपः प्रकाशः तर्हि इयतुच्यताम् ---- सोऽनुभव इदानीं स्मरणेन विषयीक्रियते ---- इति , ऐक्येन तु अलौकिकेन कोऽर्थः इति व्यामोहं विहन्तुमाह

नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् ।
प्रागन्वभूवमहमित्यात्मारोहणभासनात् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४ ४ ॥

<पूर्वो> घटादिः अर्थः <पृथक्> इति इदन्तया भाति स्म नैवं स्मरणकाले स्मृतिज्ञानात्पृथक्त्वेन इदं पूर्वमनुभवनमिति <भाति> । यथा च स्मृतिकाले तस्मात्स्मृतिज्ञानात्सोऽर्थः <प्राक्> इति पूर्वस्वभावो न भेदेन आभाति , स्मृतिकाले बहिरवभासाभावातेवं तत एव हेतोः <पूर्वोऽपि अनुभवो> न भेदेन आभाति , कथं तर्हि उभयं भाति ? अन्वभूवमित्येवम् । एतत्किमुच्यते इति चेत्, <अहम्> ---- इत्येवंस्वभावो य <आत्मा> पूर्वापरसंविदन्तर्मुखस्वभावः तत्र यत्<आरोहणम्> विश्रमः तेन हेतुना पूर्वसंविद्रूपतायाः स्वप्रकाशाया <भासनात्> तल्लोनस्यापि घटस्य स्वप्रकाशदेशीयत्वेन भासनम् । <आत्मनि च आरोहणम्> विश्रमणा अनुभवस्य अर्थस्य च । प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः ---- इति न्यायात्संख्याक्षिप्ते तद्वति वा कर्तृभूतेऽस्मदर्थेऽनुभवो ब्रुडितः तद्द्वारेण अर्थोऽपि च , न तु स्वातन्त्र्येणैव असौ , तदर्थमेव कर्म न निर्दिष्टम् । घटादिः पुनः अनुभवकाले न अस्मदर्थमारोहति , <हि> यस्मात्नैव भाति पूर्वोऽनुभवः पृथकपरार्धोक्ताथेतोः , तस्मात्संविदामैक्यमिति पूर्वेण संबन्धः । लुङा भूतकालस्य द्योतितत्वात्<प्राक्> इति भिन्नक्रमः , उत्तमपुरुषेण अस्मदर्थस्य <अहम्> इत्यपि । आरोहणमिति , रुहिरिति अणिजन्तः णिजन्तोपि ॥४॥

ननु क एवमाह ---- अनुभवः पृथक्न भाति इति , घटवत्न भाति इति चेत्किं ततः ? घटोऽपि हि न अनुभवसख्यः भाति इति किं न भाति ? स्वभावेन भाति इति तु उभयत्रापि समानम् । तथा हि ---- अतीतानागतसूक्ष्मादि यथा योगिज्ञाने विषयीभवति इति अभ्युपगतम् , तथा परचित्तमपि

{प्रत्ययस्य परचित्तज्ञानम् ।} (योगद् ३ पा १९ सू )

इत्यादौ । तत्र ज्ञानवृत्तिपरिणतमेव सत्त्वं चित्तशब्देनोक्तम् , अन्यथा प्रत्ययस्य संयमविषयीकार्यत्वं कथमुच्येत , आलम्बनयोगश्च कथं शङ्कयेत <न च सालम्बनम्> इति । तस्मात्परकीयमनुभवनमिव निजमपि विषयीक्रियतामित्याशङ्क्य दृष्टान्त एवासिद्धः इति <भान्ति> इत्यन्तेन , अभ्युपगमेन वा सिद्धत्वेऽपि प्रकृतेऽर्थे विषमः इति शेषेण दर्शयति

योगिनामपि भासन्ते न दृशो दर्शनान्तरे ।
स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४ ५ ॥

<योगिनाम्> यतेतत्<दर्शनान्तरम्> भावनाद्युद्भवः परचित्तविषयो ज्ञानविशेषः , तत्र <दृशः> इति उपलब्धयो न भान्ति । तथा हि ---- सौगतानां तावत्स्वप्रकाशैकरूपं ज्ञानम् , तत्चेत्ज्ञानान्तरेण वेद्यम् , तर्हि यदस्य निजं वपुः अनन्यवेद्यतया प्रकाशनं नाम , न तत्प्रकाशितं स्यात् । सांख्यानामपि पुरुषच्छायैव उपलब्धिः , पुरुषश्च असंवेद्य पर्वा इति कथं वेद्या स्यात् । वैशेषिकाणामपि आत्मनि अभेदेन समवायि संवेदनं परगतं मनसा कथं गृह्येत अन्तःशरीरवृत्तिना , तच्छरीरान्तरनुप्रवेशे तु तस्यैव अहमिति शरीरीकरणातहन्तावभासितत्वातात्मनो भेदो विगलेत्, नित्यानुमेयत्वं तु न आत्मन उपपद्यते , ज्ञानस्य च ज्ञानान्तरवेद्यत्वेऽनवस्थानादि उक्तम् ।

तस्मात्योगिनः परचित्तवेदनावसरे इयान् प्रकाशः ---- एतद्देहप्रकाशसहचारी घटसुखादिप्रकाशः ---- इति । तत्र घटसुखादि इदन्तया भाति , तद्गतस्तु प्रकाशोऽहम् ---- इत्येव स्वप्रकाशतया प्रकाशते । प्रमात्रीकृतपरदेहप्राणादिसमवभाससंस्कारात्तु तन्निष्ठामिदन्तामेव प्रकाशभागेऽपि मन्यमान इदं परज्ञानमिति अभिमन्यते अविगलितस्वपरविभागो योगी । प्राप्तप्रकर्षस्तु सर्वमात्मत्वेन पश्यन् स्वसृष्टमेव स्वपरविभागं मन्यते इति ज्ञानस्य न योगिज्ञानेन प्रकाश्यता । भवतु वा तथापि प्रकृतं न एतत्समम् । तथा हि ---- अयमनुभवति इति परनिष्ठ एव असौ अनुभवे योगिनः प्रकाशः , न तु अहमनुभवामि इति आत्मारोहेण वर्तमानः , इह तु अन्वभूवमिति अहमंशविश्रान्तिः अनालीढेदंभावैव अनुभवस्य इति युक्तमुक्तम् ---- यस्मातनुभवः पृथक्न भाति तस्मातैक्यं भिन्नकालानां संविदां वेदिता इति ॥५॥

यद्यहंभावविश्रान्तिवशातनुभवः स्मृतौ पृथक्न भाति इति उच्यते , तदा परामर्शान्तरं साक्षादेव इदन्तया अनुभवं परामृशत्यदि वा इदंभावोचितघटादिविश्रान्ततामनुभवस्य प्रथयतुपलब्धम् , इति तदनुसारेणापि किं न व्यवह्रियते इति पराभिप्रायं प्रतिक्षिपति

स्मर्यते यद्दृगासीन्मे सैवमित्यपि भेदतः ।
तद्व्याकरणमेवास्या मया दृष्टमिति स्मृतेः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४ ६ ॥

लोकस्य तावतेवं न संवेदनम् , स हि न पृथग्भूतां दृशं कांचित्मन्यते ---- <सा दृक्मे आसीत्> इत्येवम् । एवमपि तु <यत्स्मर्यते> एवंभूतमपि यत्स्मरणं कस्यचित्विवेचकंमन्यस्य , तत्स्मृतेर्व्याकरणम् , पदस्येव प्रकृतिप्रत्ययार्थनिरूपंं काल्पनिकं विभज्य आकरणं परत्र प्रतिपादनमात्रम् । सोऽपि यदि मूलप्रतीति वेदयते पूर्वोक्तक्रमेण , तदा अनुभवं पृथग्भूतं न वेद , यत एव तत्राहोः शिरः इतिवत्कल्पितं भेदं मन्यते । अन्यथा स घटः इतिवत्<सा दृक्> इत्यत्रापि प्राक्तनं दृगन्तरमपेक्षणीयं स्यात् । ततित्यनेन हि घटस्य वा दृशो वा पूर्वानुभवविषयापत्तिः उच्यते , अन्यथा दृकित्येव स्यात् । ततश्च दृक्मया दृगन्तरेण अनुभूता इति आपतेत् । तत्रापि तथात्वेऽनवस्था । ननु स्मृतेः मौलिकं किं रूपम् ? उच्यते ---- मया दृष्टमिति । ननु अत्र दयितावदननलिनादिविश्रान्तं दर्शनमुक्तं न तु आत्मारूढम् , कर्मणि निष्ठोत्पत्तेः । स एष स्ववाचमेव न चेतयति । कर्तुः क्रियया हि आप्यं कर्म इति दृशिक्रियायाः कर्तृनिष्ठतैव । तथा च कर्तृस्थामेव दृशिक्रियामाहुः <दर्शयते भृत्यान् राजा> इत्यादौ । जैमिनीयैरपि ज्ञानरूपा दृशिः भावनात्मिका प्रमातृविश्रान्तैव उक्ता , केवलं प्रकटता विषयधर्मो दृष्टताख्या , अन्या संवित्वाऽस्वतन्त्रा इति अन्यतेतत् । प्रमातृविश्रान्तत्वमेव कथयितुं मया इत्युक्तम् । तेन अन्वभूवमहम् , मयानुभूतमिति शब्दवैचित्र्यमात्रमिदम् , न तु अर्थभेदः । अन्ये तु भिन्नक्रमत्वेन योजयन्ति ---- दृकासीत्सा मे इत्येवम् , मया दृष्टमिति च यत्स्मरणं <तत्व्याकरणमस्याः> इति अनन्तरोक्तान्वभूवमित्युचितपरामर्शायाः स्मृतेः इति । अपिः चार्थे ॥६॥

ननु दृष्टमपि निर्विकल्पकेन यावत्न परामृष्टं विमर्शविशेषविश्रान्त्या तावत्न स्मर्यते मार्गदृष्टमिव तृणपर्णादि विशेषेण रूपेण , तदिदमेव विचारणीयम् , समनन्तरभाविविकल्पकाले तद्दर्शनमिदन्तया अवभातपूर्वं वा न वा इति , तदेतताशङ्क्याह

या च पश्याम्यहमिमं घटोऽयमिति वावसा ।
मन्यते समवेतं साप्यवसातरि दर्शनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४. ७ ॥

इह दर्शनं यादृशं निजेन वपुषा तादृशेनैव तेन भातव्यं सर्वदा , तच्च स्वकालेऽनन्यप्रकाशमहमित्येतावता स्वरूपेण उचितप्रकाशम् , तद्विकल्पांशविचारः तावत्न कुत्रचितङ्गम् , भवतु वाङ्गम् , किं तु अवसायोऽपि एवंभूतः इति अपिशब्देन सूचयति । तत्र समनन्तरभाविना विकल्पेन वस्तु परामृश्यमानमनुभवपरामर्शमुखेन वा परामृश्यते अहमिमं पश्यामि इति वर्तमानतया , इममित्यनेन च प्रत्यक्षव्यापारत्वं प्रत्यक्षायमाणत्वेन दर्शितम् । एवमेव वा परामृश्यते ---- घटोऽयमिति । अत्र अयंशब्देन प्रत्यक्षायमाणत्वमुक्तम् । तत्र अन्त्ये विकल्पे दर्शनस्य पृथक्परामर्श एव नास्ति इति का तत्र इदन्ताशङ्का । ततश्च पारिशेष्यातहन्तया तस्य अत्रास्ति परामर्शः , तदभावे विकल्पस्य निमीलिताक्षेऽपि भावात्स्वयमर्थस्पर्शे सति स्फुटमविषयपर्यवसितः कथमध्यवसायो भवेत् । आद्ये तु दर्शनं परामृष्टमपि अस्मदर्थेऽन्तर्भूतमहंभावास्पदमवसातरि विश्रान्तं स्वप्रकाशमेव परामृष्टमिति विकल्पोऽपि न बोधान्तरबोध्यतां बोधयति बोधस्य ।
अवसायः अवसा , समवेतमिति अपृथग्भावमाह । अवसातरि इति , स्वतन्त्रेऽन्तर्मुखे बोधात्मनि अहन्तास्पदे इत्यर्थः । दर्शनमिति निर्विकल्पकमनुभवनम् । उपलक्षणं चैतत्विकल्पस्मृत्यादेरपि , ज्ञानस्य ज्ञानान्तरेण परामर्शे हि अयमेव न्यायः । विकल्पयाम्यहम् , स्मराम्यहम् , विकल्पितं मया , स्मृतं मया इति अहन्तारूढ्यैव विकल्पादेः अवभासात् । अत एव आत्मनोऽमी विकल्पाद्याः शक्तिविशेषाः तद्विश्रान्तशरीरत्वातिति दर्शितम् <ज्ञानस्मृत्यपोहनशक्तिमान्> इत्यत्र ॥७॥

एवमियतः प्रमेयस्य यत्फलं तदुपसंहर्तुमाह

तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि ।
ग्राह्यग्राहकताभिन्नावर्थौ भातः पमातरि ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४. ८ ॥

<तत्> इति तस्मादर्थे पूर्वोक्तस्य प्रमेयस्य हेतुभावेन उपजीवनमिह सूचयति । यत एवमुक्तम् ---- अनुभवस्य अर्थस्येव स्मरणात्न भेदेन अवभासः स्म्र्टिशक्तिश्च परमेश्वरस्यैव , तत इदमत्र परिनिष्ठितं तत्त्वमिति । इह स्मृतिः अनुभवं क्रोडीकरोति इत्युक्तम् । अनुभवश्च द्विधा , ---- परामर्शभेदात्कदाचित्स्वात्मपरामर्शपूर्वकमनुभाव्यं परामृशति यत्र अस्य अभिसंधिप्रधानता <मया दृश्यते> इति , कदाचितनुभवनीयमेव प्रधानतया परामृशति यत्र अनभिसंधेरेव सहसा वस्तूपनिपातः , अर्थक्रियां प्रति आग्रहविशेषो वा <अयम्> इति , तत्रापि च प्रकाशपरामर्शोऽस्त्येव , अन्यथा प्रकाशायोगात् । एवमुभयथानुभवे प्रत्येकं स्मृतिरपि द्वयपरामर्शमयी उदेति इति चत्वारः स्मरणभेदाः , द्वौ अनुभवभेदौ । अनुसंधानं प्रत्यभिज्ञानमपि एतदुभयमेलनात्मकमत्रैवान्तर्भूतम् । तच्च एतद्भेदातष्टधा , पूर्वापरविश्रान्तिकृतात्प्रत्येकं द्विधाभेदाच्च षोडशधा । तदेते द्वाविंशतिः संवेदनभेदाः । तेषु च ग्राह्यं तावत्प्रकाशातबहिर्भूतम् , अन्यथा प्रकाशनायोगात्, बहिर्भूतं च तत्, अन्यथार्थत्वासंभवात्, न च तत एव , तदैव , तदेवापृथग्भूतमत्र पृथग्भूतं च भवति इति नूनमन्यः कल्पितप्रकाशात्मा कश्चितत्र अर्थोऽस्ति , यतोऽयमर्थराशिः पृथग्भवनन्योन्यमपि पृथक्तामधिगच्छेत्, अन्यथा प्रकाशाभिन्नानां परस्परमपि कथङ्कारं पृथग्भावो भवेत् । सोऽयं वेद्यैकदेश एव , विच्छिन्न एव , अनुज्झितवेद्यभाव एव , अहमिति विच्छेदशूम्यप्रकाशोचितेन परामर्शेन परामृश्यमानो मायाप्रमाता इति वक्ष्यते {देहे बुद्धौ ।}(इप्व्_१,६ ४) इत्यत्र । स च ग्राहक इति उच्यते । एवं सममेव स्वात्मनि निर्मलमकुरस्थानीये यत्युगलकं स्वस्मात्प्रकाशरूपातव्यतिरिक्तमवभासयति परमेश्वरः तदेव एतत्भगवतो ज्ञानकर्तृत्वं स्मरणकर्तृत्वं ज्ञानशक्तिस्मृतिशक्तिरूपमुच्यते इति तात्पर्यार्थः ।

अक्षरार्थस्तु ---- मया दृश्यते इति , अयमिति च यतामृशति प्रमाता प्रकाशरूपो येन अनुभवति इति उच्यते , तत आमर्शनातेतत्लक्ष्यते , ग्राह्यरूपेण ग्राहकरूपेण योजितौ घटादिदेहादिस्वभावौ अर्थौ वेद्यौ प्रमातरि विशुद्धप्रकाशरूपे भातः प्रकाशेते । एवं दृष्टः इति स इति च यत्परामृशति प्रकाशरूपः प्रमाता , यतोऽसौ स्मरति इति व्यपदेश्यः । ततोऽपि एतदेव लक्ष्यते । अनुभवरूपोपजीवित्वं पूर्वोक्तं द्रढयितुं प्रसङ्गातत्र ज्ञानशक्तेरपि उन्मीलनं कृतम् । लक्षणे शत्रादेशः । अपिशब्दश्चार्थे । अर्थशब्दो विच्छिन्नवेद्यवाची । ग्राहको मायीयः कल्पितः प्रमाता अशुद्धप्रकाशस्वभावः इति शिवम् । आदितः श्लो ३१॥

इति श्रीमदाचार्याभिनवगुप्तविरचितायांीश्वरप्रत्यभिज्ञासूत्रविमर्शिन्यां प्रथमे ज्ञानाधिकारे स्मृतिशक्तिनिरूपणं नाम चतुर्थमाह्निकम् ॥ ४ ॥

___

ज्ञानाधिकारे पञ्चममाह्निकम् ।सम्पाद्यताम्

{महागुहान्तर्निर्मग्नभावजातप्रकाशकः ।
ज्ञानशक्तिप्रदीपेन यः सदा तं स्तुमः शिवम् ॥}

एवं तावत्स्मृतिशक्तेः स्वरूपं प्रतिपादितम् , अधुना तदुपजीवनीयज्ञानशक्तिपरमार्थनिर्णयं वितत्य , <वर्तमानावभास्ञाम्> इत्यादिकया , <सक्रमं प्रतिभासते> इत्यन्तया श्लोकैकविंशत्या निरूपयति । तत्राद्येव श्लोकेन वस्तुनि प्रतिज्ञां करोति एवंभूता ज्ञानशक्तिः इति । ततः श्लोकद्वयेन प्रकाश एवार्थानां स्वरूप, इत्याह । ततो द्वयेन प्रकाशबाह्यानामर्थानां सद्भावं विज्ञानवाद्युपगतवासनादूषणेन दृढीकृतमाशङ्क्य , तृतीयेन तदनभ्युपगमेऽपि तावत्न किञ्चितुपरुध्यत इति दर्शयति । अथ श्लोकेन स्वदर्शनेऽर्थतत्त्वमुपदर्शयन् बाह्यार्थसद्भावे प्रत्यक्षं पराकरोति प्रमाणत्वेन । ततो द्वयेन अनुमेयतामपि बाह्यस्य निरस्यति । अनन्तरं श्लोकेन चिदात्मनि अर्थानामवश्यं सद्भावः परामर्शात्मना इति प्रकटयति । ततोऽपि प्रकाशस्य प्रमातृरूपस्य प्रत्यवमर्श एव जीवतमिति श्लोकचतुष्टयेन अनुभवागमन्यायस्वरूपनिरूपणाभिः अभिधत्ते । अनन्तरं ज्ञानपरामर्श एव ज्ञेयं शुद्धं प्रमातृरूपतानुज्झितं च प्रक्षयति इति तस्यैव प्रधानत्वे न्यायं श्लोकत्रयेणाह । प्रकाशैकरूपत्वे च ज्ञानज्ञात्रादि भिन्नमिति श्लोकेनाह । ततो ज्ञातरि इव विशुद्धे ज्ञानेऽपि अविकल्पकसविकल्पकरूपे विमर्श एव प्राणितमिति श्लोकद्वयेनाह । ततो ज्ञातुर्ज्ञानस्य च पूर्वपक्षे दूषि । यत्भिन्नत्वं ततुपसंहारदिशा श्लोकेन समर्थयते , इति तात्पर्यमाह्निकस्य । श्लोकार्थस्तु निरूप्यते ।

ननु स्मरणविकल्पादीनामनुभव एव जीवितम् , तत्र यदि भेदेन आभासान्तेऽर्थाः तत्तेष्वपि तथैव अवभास उचितः , नो चेतन्यथा , तदनुभव एव तावत्ज्ञानशक्तिरूपो विचारणीय इत्याशयेनाह

वर्तमानावभासानां भावानामवभासनम् ।
अन्तःस्थितवतामेव घटते बहिरात्मना ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १ ॥

वर्तमानत्वेन स्फुटतया अवभासनमिदमित्येवमाकारं येषां तेषाम् , यदेतत्<बहिरात्मना> कल्पितमायीयशून्यादिशरीरान्तप्रमातृपृथग्भावेन हेतुना , <भिन्नानाम्> ततो मायाप्रमातुः विच्छिन्नानाम् <अवभासनम्> तत्परमार्थप्रमातरि शुद्धचिन्मये <अन्तःस्थितवताम्> तेन सह ऐकात्म्यमनुज्झितवतामेव <घटते> प्रमाणेन उपपद्यते , तेन अनुज्झितसंविदभेदस्य भावस्य कल्पितप्रमात्रपेक्षया भेदेन प्रकाशनं भगवतो ज्ञानशक्तिरित्युक्तं भवति ॥१॥

प्रमाणेनोपपद्यते इत्युक्तं तत्प्रमाणं दर्शयति

प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना ।
न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ २ ॥

अर्थो नीलादिः , तस्य नीलादिरूपतैव यदि प्रकाशमानता न पुनः सापरा काचितर्थशरीरोत्तीर्णा प्रकाशात्मता तर्हि यथा सर्वान् प्रति नीलमेव तत्संभावनया भण्यते , न कंचित्वा प्रति , वस्तुतो वा स्वात्मन्येव तत्नीलं परस्य परनिष्ठत्वानुपपत्तेः , स्वात्मनि वा न नीलं न अनीलं प्रकाशानुग्रहेण विना व्यवस्थानायोगात् । तथा प्रकाशमानतापि अस्य सर्वान् प्रति न कंचित्वा प्रति अपि तु स्वात्मन्येव , स्वात्मन्यपि वा न स्यातिति अन्धता जगतः ।

अथ इन्द्रियालोकादिक्षणवर्गात्प्रकाशरूपोऽसौ नीलक्षणो विशिष्ट एव जातः , एवमपि स एव प्रसङ्गः , प्रकटतावादेऽपि अयमेव दोषः , सर्वथा अर्थशरीरविश्रान्तः चेत्प्रकाशो मम अवभासते इति प्रमातृलग्नतया प्रकाशस्थितिः दुरुपपादा । प्रमाता हि तदानीमिन्द्रियादिमयोऽर्थरूपप्रकाशस्य कारणं भवेत्बीजमिवाङ्कुरस्य । न च अङ्कुरो बीजापेक्षोऽङ्कुरात्मा , ततो यदि न प्रकाशात्मा स स्यात्<प्रागिव> ज्ञानोदयात्पूर्वं यथाऽसावप्रकाशः तथा ज्ञानोदयेऽपि स्यात् । ननु ज्ञानमर्थप्रकाशरूपमेव , तत्कथं ज्ञानस्य उदयानुदययोः अर्थस्य तुल्यता स्यात् । स्यातेतत्यदि उपपद्येत्, यावता अर्थात्भिन्नं यत्ज्ञानं प्रकाशरूपम् , ततर्थस्य संबन्धितया कथं स्यात् । यदि तावतर्थः प्रकाशते इत्येवंभूतं ज्ञानस्य स्वरूपं ततर्थज्ञानयोः अभेद एवायातः , अर्थस्वभावस्य ज्ञानत्वेन उक्तत्वात्, अर्थस्वभावत्वे च सति प्रकाशस्य अर्थात्मतायामुक्तं दूषणम् । अथ अर्थं प्रकाशयति इति ज्ञानस्य स्वरूपम् , तर्हि प्रकाशमानमर्थं करोति ज्ञानमिति आपतिते पुनरपि स एव दोषः । कृतप्रतानश्च अयं प्रकृत्यर्थण्यर्थविवेको मयैव भेदविदारणे इति तत एव अन्वेष्यः । तस्मात्भिन्नः प्रकाशोऽर्थस्य संबन्धी भवति इति संभावनैव नास्ति । तच्च इदमुपपत्त्या आयातम् ---- अर्थस्य स्वरूपं प्रकाशमानता प्रकाशाभिन्नत्वमिति । प्रकाशश्च यदि घटेऽन्यः पटेऽन्यः तदा अनुसंधानस्य अयोगः , द्वयोः प्रकाशयोः स्वात्ममात्रपर्यवसानादिति वितत्य उपपादितं <नश्येत्जनस्थितिः> इत्यत्र । तस्मातेक एव प्रकाशः । एतदेव आवृत्त्या दर्शितं <न च प्रकाशो भिन्नः स्यात्> इति ॥२॥

व्यतिरिक्तस्य ज्ञानस्य अर्थप्रकाशरूपतामभ्युपगम्यापि बाधकान्तरमाह

भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् ।
प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिद्ध्यति ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ ३ ॥

यदि अर्थातन्य एव ज्ञानात्मा प्रकाशः अत एव भिन्नोऽर्थतः तर्हि स्वात्मनि तस्य प्रकाशमात्ररूपत्वातभेद एव । तथा हि नीलस्य प्रकाशः , पीतस्य प्रकाशः इति यो नीलांशः पीतांशश्च , स न तावत्ज्ञानस्य स्वरूपं भेदवादत्यागापत्तेः । अथ विषयः , तदेवेदं विचार्यते ---- इह प्रकाशबलात्नीलपीतयोः भेदोऽभ्युपगन्तव्यः , येनैव च प्रकाशेन नीलो नील एव इति उपगम्यते , तेनैव च प्रकाशेन पीतः पीत इति कथं संगच्छताम् , नीलेन जनितः , पीतेन जनितः , तेन वा सह समानसामग्रीक इत्यादि यतुच्यते तत्सिद्धे नीलपीतयोर्भेदे स्यात्, स एव विचार्यः । अथ नीलाकारोऽसौ तत्यदि प्रतिबिम्बबलात्तद्द्वितीयबिम्बानवभासातयुक्तम् । अथ अभेदः , तर्हि त्यक्तो भेदवादः , तथा करणतादिवादे शिखरस्थज्ञानं बहुतरनीलादिजन्यमेकत्र पटु अन्यत्र मन्दमिति कथं भेदः प्रकाशशरीरस्य अभेदात् । तथाभूते च अन्यतरदर्शनोद्भूतेऽपि संस्कारे बलादेव अशेषस्मरणप्रसङ्ग इति भूयान् सङ्करः । स्यादेतत्, अर्थ एवास्तु , किमनेन दोषापादकेन प्रकाशेन इति । अत्राह ---- अप्रकाशस्य प्रसिद्धिरेव न काचित्, स्वात्मनि हि नीलं यदि पूतं न किंचित्वा , तत्किं दुष्येत्, अत एव ग्रन्थकृतैव अन्यत्र उक्तम्

{एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।
जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ॥}

इति । तत्यदि प्रकाशः तदा भवति अर्थः , प्रकाशश्च असौ कथम् । यदि प्रकाशतैव घटस्य वपुः सैव पटस्य इत्यादि विश्ववपुः प्रकाशः सिद्धः ॥३॥

एकस्यैव प्रकाशस्य एवंभूतक्रमाक्रमकार्यकारणभावादिविचित्रवैश्वरूप्यप्रदर्शनसामर्थ्यरूपमैश्वर्यमित्येतावत्पर्यवसाययितव्यम् । तच्चैवं पर्यवस्यति , यदि प्रकाशस्य विचित्रभावे हेत्वन्तरमपाकृतम् । तत्र प्रकाशस्य अविचित्रस्य क्रमेण विचित्रताकारणं प्रतिबिम्बात्मकं तत्प्रतिबिम्बसजातीयं यत्तदेव नीलादिरूपं बाह्यम् , तच्च यद्यप्यनुमेयम् , तथापि इदं नीलमिति प्रत्यक्षेण अध्यवसायातध्यवसायप्राणितत्वाच्च प्रमाणस्थितेः प्रत्यक्षव्यपदेश्यं भविष्यति । बाह्यार्थवादोकथितमिति हेत्वन्तरमनुमीयमानबाह्यरूपमाशङ्क्यमानत्वेन दर्शयति

तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् ।
न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ ४ ॥

न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् ।
तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ ५ ॥

इह बोधः तावतभिन्नः , प्रकाशमात्रमेव हि अस्य परमार्थः , प्रकाशाधिकं यदि नीलस्य रूपम् , तर्हि ततप्रकाशरूपमिति न प्रकाशेत । अथ तथा प्रकाशत्वमेव अस्य रूपम् , पीतप्रकाशः कथं स्यात् । अथापि क्रमिकनीलपीतादिप्रकाशरूपमेव तस्य स्वरूपम् , नीलाद्याभासशून्योऽहमिति प्रकाशः स्वापाद्यवस्थासु न स्यात् । तस्मात्प्रकाशः प्रकाश एव , अणुमात्रमपि न रूपान्तरमस्य अस्ति इति अभिन्नो बोधः , तस्य च अभिन्नस्य कदाचित्नीलाभासता कदाचित्पीताभासता इति ये विचित्राभासाः तत्र कारणत्वं हि यस्य्मात्न उपपन्नं हेतौ अभिन्ने कार्यभेदस्य असंभवात्, तस्मात्स स विचित्रनीलपीतादिरूप आकास्मिकोऽज्ञातप्रत्यक्षसिद्धहेतुकः सन् बाह्यं विज्ञानगतप्रतिबिम्बात्मकस्वस्वभावसंपादकमौचित्यात्निजरूपसदृशं क्रमोपनिपतद्रूपबहुतरभेदात्मकं ज्ञानात्सर्वथा पृथग्भूतमनुमापयति इति संभावयते बाह्यार्थवादी ॥४॥

न च अस्य इदं संभावनामात्रम् , अपि तु निश्चयपर्यवसायि एव भवति । तथा हि विज्ञानवादिना यो हेतुः वैचित्र्ये वासनाप्रबोधलक्षण उक्तः स न उपपद्यते । <स्मृतिजनकः संस्कारो वासना> इति तावत्प्रसिद्धम् , इह तु अनुभववैचित्र्यहेतुः पर्येषणीयो वर्तते । अस्तु वा नीलाद्याभाससंपादनसामर्थ्यरूपा ज्ञानस्य योग्यतात्मिका शक्तिः वासना , तस्याश्च स्वकार्यसंपादनोन्मुख्यं प्रबोधः , ततो बोधेषु आभासवैचित्र्यमिति । तत्रापि तु ब्रूमः ---- इह यद्यापि आभासानां ज्ञानान्तर्वर्तिनामपारमार्थिकत्वं संवृतिसत्त्वमुच्येतापि , तथापि यदेषां तद्वस्तुसदेव अङ्गीकार्यमवस्तुनः सर्वसामर्थ्यविरहितालक्षणस्य कार्यसंपादनप्राणितसामार्त्थ्यात्मकस्वभावानुपपत्तेः । एवंस्थिते या एता वासना आभासकारणत्वेन इष्यन्ते , तासां बोधात्यदि भिन्नं रूपम् , तच्च परमार्थसत्, तदयं शब्दान्तरप्रच्छन्नो बाह्यार्थवादप्रकार एव । अथ संवृतिसत्, तर्हि तेन रूपेण कारणतानुपपत्तिः । तथा येन रूपेण आसां पारमार्थिकता तेन कारणता , तत्तर्हि ज्ञानमात्रं तच्च अभिन्नमिति नीलाद्याभासरूपस्य कार्यभेदस्य असिद्धिः । एवं वासनानामबिचित्रत्वे तत्प्रबोधो विचित्र इति का प्रत्याशा । भवन्तु वा वासना भिन्नाः , तथापि बोधमात्रातिरिक्तस्य देशकालभावादेः प्रबोधकाभिमतस्य विचित्रस्य कारणस्य अभावात्प्रबोधोऽविचित्र इति एक एव प्रबोधः इति सममेव नीलादिवैचित्र्यं भासेत । अथ स्वसंतानवर्तीनि ज्ञानान्तराणि विचित्राणि प्रबोधकारणानि इति , तदसत्, सुखदुःखनीकपीलादिपूर्वापरादिदेशकालभेदस्य विज्ञानमात्ररूपत्वे विज्ञानस्य च प्रकाशमात्रप्रमार्थतायां स्वरूपभेदासंभवे तथा बोधवैलक्षण्यानुपपत्तेः । परप्रमातृरूपेषु बोधान्तरिषु संतानान्तरशब्दवाच्येष्वपि तुल्योऽयमवैलक्षण्यप्रकारः । तत्रापि परकीयाभिमतस्य कृशस्थूलादेः कायस्य , श्वासप्रश्वासादेः प्राणस्य , सुखदुःखादेः धीगुणस्य ; अनुमात्रभिमतसंबिन्मात्ररूपाभेदे परत्वं कस्य भवेतिति न विद्मः । बोधस्य तन्निष्ठस्य इति चेत्, सोऽपि प्रमाणेन यदि न सिद्धः ततसतेव , सिद्धोऽपि प्रमेयतया चेत्तत्जड एव , तथापि च कायादिवतेव ज्ञानमात्रस्वभावः स्वसंविन्मात्ररूपत्वे परं प्रति अस्य असिद्धेः । ननु व्याहारादिक्रिया स्वात्मनि इच्छया व्याहरेयमित्येवंरूपया हेतुभावेन व्याप्ता दृष्टा तत्चैत्रकायेऽपि तया तद्धेतुकया भाव्यम् । न च मत्संततिपतिता समीहा अस्ति इति स्वसंवेदनेन निश्चितम् , ततश्च परसमीहा सिद्ध्यति , तदेव संतानान्तरमिति । अत्रोच्यते ---- इह अनुमातुः व्याहाराभासो द्विधा भवति ---- व्याप्तिग्रहणकालेऽविच्छेदप्राणोऽहं व्याहरामि इत्येवंरूपः । अनुमानावसरे च <व्याहरति अयम्> इति विच्छेदजीवित इति अन्यस्य व्याप्तिः गृहीता अन्यश्च आभासः कथमिदानीं हेतुः स्यात्? व्याहरति इति आभासस्य हेतुः अविदित एव इति कथं ततो हेतोः समीहा अनुमीयेत ? किं च <व्याहरति अयम्> इति यः प्रमात्रन्तरेऽनुमातृसंमते विच्छिन्नतया अवभासः सोऽनुमेयसंमतायाः परमीहायाः कथं कार्यः स्यात्? तस्या हि व्याहरामीत्याभासः कार्यो योऽसौ अविच्छेदजीवितः । न च अविच्छेदमयस्य विच्छेदमयः कार्यमिति युक्तं तथाभूतकार्यकारणभावग्रहणोपायाभावात्, न हि स्वात्मनि योऽयमविच्छिन्नाभासः स परत्र विच्छिन्नं <व्याहरति> इत्येवंरूपमाभासं जनयति इति केनचित्प्रमाणेन सिद्धम् , परसिद्धिपूर्वकत्वातस्य अर्थस्य , परप्रमातृसिद्धश्च एवंभूतार्थाधीनत्वेन इतरेतराश्रयात् । न च अवश्यनविच्छिन्नात्विच्छिन्नेन भाव्यमिति नियमोऽस्ति व्यव्हिचारात् । न च विच्छिन्नोऽपि आभास उपद्यतामिति तदनुसंधानात्तदुत्पत्तिः नियता तत्सद्भावेऽप्यस्यानुत्पत्तेः तदभावे च उत्पत्तेः , विच्छिन्न आभासः परत्र उत्पद्यतामिति या समीहा तया सह प्रत्र उत्पन्नस्य विच्छिन्नाभासस्य कार्यकारणभावग्रहणमेव परासिद्धौ न युक्त, इति
व्याप्तेरेव असिद्धिः ।

प्रमात्रन्तराणि च यदि भिन्नानि तदा तन्निष्ठानामवभासानां भेद एव <ज्ञानादव्यतिरिक्तं च> इति न्यायात् । ततश्च एकाभासनिष्ठत्वाभावातेकाभासविश्रान्तः संभूय प्रमात्ःणां व्यवहारो न स्यातिति अन्योसंभवः ---- यत्प्रमेयं बोधात्भिन्नं भवति इति । सहोपलम्भनियमादेः अनैकान्तिकत्वात्नीलपीतादिनापि प्रमेयराशिना किमपकृतम् , येन अस्य स्वरूपविश्रान्तिः न सह्यते , तस्मात्प्रमात्रन्तराणामपि असिद्धिरेव , सिद्धौ वा सर्वप्रमात्रन्तर्गता आभासा एकैकत्र परत्र आभासवैचित्र्यहेतुं वासनोद्वोधवैचित्र्यं जनयेयुः नियमे हेत्वन्तराभावातिति तथापि न नीलादिवैचित्र्यसिद्धिः । एवं वासनानां तदुद्बोधहेतूनां च विचित्राणामनुपपत्तिरेव । ततश्च स्थितमेतत्, अभिन्नो बोधः तस्य आकस्मिकाभासभेदहेतुत्वानुपपत्तेः बाह्योऽर्थोऽनुमेयः संभाव्यते इति यदि बाह्यार्थवादिना उच्यते इति श्लोकद्वयार्थः । चेच्छब्दः श्लोकद्वयवाक्यार्थशङ्काद्योतकः । एवमाशङ्क्यमानत्वेन परसंभावना दृढा दर्शिता ॥५॥

अधुना तु एनां संभावनां शिथिलयितुं तावदाह

स्यादेतदवभासेषु तेष्वेवावसिते सति ।
व्यवहारे किमन्येन बाह्येनानुपपत्तिना ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ ६ ॥

<स्यादेतत्> इति पूर्वोक्तसंभावनाभ्युपगमे यदा व्याख्यायते तदा किं तु इति वाक्यशेषेण तच्छैथिल्यविषयं संभावनान्तरं शेषश्लोकेन दर्शयते इति व्याख्येयम् । यदि तु अध्याहारो न सह्यते तदा स्यादेतदिति इदमपि संभावनान्तरं स्यात्, यदनेन श्लोकेन उच्यते इति एकवाक्यतया योज्यम् । अनयापि कष्टकल्पनया बाह्यानर्थान् प्रसाधयता भवता तैः न किंचित्कर्तव्यम् , आभासैरेव तैः भवता अभ्युपगतैः व्यवहारसिद्धेः , न हि नित्यानुमेयेन कश्चित्व्यवहार इति किं बाह्येन , यत्र साधकं च नास्ति प्रमाणम् , बाधकं च प्रकाशात्भेदे अनुमेयतयापि प्रकाशनाभाव इति तावत्मुख्यम् । अभ्युश्चयबाधकस्तु अवयविनो वृत्त्यनुपपत्तिः , समवायासिद्धिः , कम्पाकम्पावरणानावरणरक्तारक्तदिग्भागभेदादिविरुद्धधर्मयोगः ।

अणुसंचयबाह्यवादेऽपि संचयस्य अन्यस्य अभावे परमाणव एव , ते च यदि संयुज्यन्ते निरन्तरतया ततवश्यं दिग्भागभेदः , एवनाक्षे षट्सु दिक्षु संचीयमानेषु षट्सु अणुषु मध्यमस्य परमाणोः यत्रैव धाम्नि एको लग्नः तत्रैव यदि अपरः ततेकपरमाणुमात्रता । अथ अन्यत्र एकः अन्यतरपरः ततवश्यं भागभेदापत्तिः , इति भाग एव सन् , तस्यापि एषैव सरणिः इति न किंचितवशिष्यते बाह्यं तत्त्वतः ।

न चैतत्वाच्यम् ---- मूर्तानामेकदेशत्वायोगात्, संयोगे भिन्नदेशत्वाव्यावृत्तेः तन्निष्टं द्व्यणुकं नाम कार्यद्रव्यमणुपरिमाणम् , तेभ्यः त्रिभ्यो महत्कार्यमिति । अवयवीवादो हि अयम् , स च पूर्वमेव अपबाधितः । यच्च अव्याप्यवृत्तित्वं संयोगस्य उच्यते तन्निरंशे कथं संगच्छताम् । स्वाश्रये हि यदि असौ समवैति किमन्यातस्य अवशिष्यते यत्न व्याप्नुयातिति । अभ्युश्चयबाधकं च इदमिति न अत्र अस्माभिः भरः कृतः । विस्तरेण च प्रज्ञालङ्कारे दर्शितमाचार्यशङ्करनन्दनेन ॥६॥

ननु बाधकं नाम प्रमाणसिद्धे वस्तुनि न किंचित्कर्तुं समर्थम् , तेनैव दृढेन प्रमाणेन बाधकाभिमतस्य बाधितस्य अप्रमाणत्वसंपादनात् । दर्शितं च इह साधकं प्रमाणं कार्यहेतुः <तत्तदाकस्मिकाभास> इति कारिकया इत्याशङ्क्य आह

चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः ।
योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ ७ ॥

इह तावत्स्वप्न -- स्मरण -- मनोराज्य -- संकल्पादिषु नीलाद्याभासवैचित्र्यं बाह्यसमर्पकह्तुव्यतिरेकेणैव निर्भासते इति यद्यपि अस्ति संभवः , तथापि तदाभासवैचित्र्यमस्थैर्यात्सर्वप्रमात्रसाधारण्यात्पूर्वानुभवसंस्कारजत्वसंभावनातवस्तु इति शङ्क्येत । यत्पुनरिदं योगिनामिच्छामात्रेण पुरसेनादिवैचित्र्यनिर्माणं दृष्टम् , तत्र उपादानं प्रसिद्धमृत्काष्ठ-शुक्र -- शोणि -- तादिवैचित्र्यमयं न संभवत्येव , न हि एवं वक्तुं शक्यम् ---- सर्वगताः परमाणवो योगीच्छया झटिति संघटिताः कार्यमारप्स्यन्ते इति । यतेतत्लोकप्रसिद्धकारणभावानतिक्रमसिद्धये निरूप्यते । न च एतत्प्रसिद्धम् ---- प्रमाणुभ्य एव स्थूलं घटादि जायते इति , किं तु कपालादिव्यवधानेन , तथापि नियतसहकारिसमवलम्बनं करचरणादिव्यापारे विशिष्टदेशकालधर्माधिपत्ययोगः शिक्षाभ्यासप्रकर्ष इति , इयति च आंश्रीयमाणे योगी कुम्भं निर्मिमाणः कुम्भकारप्रसिद्धसनस्तसामग्रीसनर्जनपुरःसरंघटं घटयन् कुम्भकार एव स्यात्, तस्मात्प्रसिद्धकारणोल्लङ्घने किमसंचेत्यमानपरमाण्वाद्युपादानकारणान्तरचिन्तया इति । तत्र योगिसंविद एव सा तादृशी शक्तिः ---- यताभासवैचित्र्यरूपमर्थजातं प्रकाशयति इति । तदस्ति संभवः ---- यत्संवितेव अभ्युपगतस्वातन्त्र्या अप्रतीधातलक्षणातिच्छाविशेषवशात्संविदोऽनिधिकात्मताया अनपायातन्तःस्थितमेव सत्भावजातमिदमित्येवं प्राणबुद्धिदेहादेः वितीर्णकियन्मात्रसंविदूपात्स्वातन्त्र्यं किं न अभ्युपगम्यते स्वसंवेदनसिद्धम् , किमिति हेत्वन्तरपर्येषणाप्रयासेन खिद्यते । एवकारेण इदमाह ---- सर्वेण तावत्वादिना विषयव्यवस्थापनं संविद्रूपमनपह्नवनीयमादिसिद्धं हि ततिति उक्तम् । तस्य च स्वातन्त्र्यमेव देवशब्दनिर्दिष्टं चिद्रूपत्वमिति किमपरकारणान्वेषणव्यसनितया । हि यस्मातेवं प्रकाशयति देव इति संभाव्यते , तस्मात्किं बाह्येन अनुपपत्तिना इति पूर्वेण संबन्धः ॥७॥

ननु एवमुभयथापि संभावनानुमानमुन्मिषति , तत्र किं मकुरप्रतिबिम्बितघटादिदृष्टान्तेन ज्ञानप्रतिबिम्बताभासवैचित्र्ये विज्ञानदर्पणातिरिक्तं तत एव बाह्याभिमतं हेतुं कल्पयेम ? किं वा योगिदृष्टान्तेन संवित्स्वातन्त्र्यमेव हेतुभावेन ब्रूयाम ? तदिदं सांशयिकं वर्तते इति आशङ्क्य बाह्यार्थानुमानसंभावनां सूत्रद्वयेन अपाकर्तुमाह

अनुमानमनाभातपूर्वे नैवेष्टमिन्द्रियम् ।
आभातमेव बीजादेराभासाद्धेतुवस्तुनः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ ८ ॥

आभासः पुनराभासद्बाह्यस्यासीत्कथंचन ।
अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ ९ ॥

न केवलमनन्तरश्लोकनिर्दिष्टाभिः युक्तभिः प्रत्यक्षेण बाह्योऽर्थो न भासते , इयदेव हि प्रत्यक्षं तच्च नीलं भाति इति स्वप्रकाशसंविद्रूपं नाधिकं किंचितिति , यावतनुमानेनापि न अस्य बाह्यास्य सिद्धिः इति अपिशब्दस्याभिप्रायः । तत्र अनुमानमत्र नैव प्रवर्तितुमुत्सहते । प्रवृत्तमपि न प्रकृतसिद्धिमादव्यातिति अनेन सूत्रद्वयेन उपदर्श्यते । तत्र अनुमानं विकल्पः , सर्वश्च अयं विकल्पोऽनुभवमूल इति प्रसिद्धम् । तेन यत्सर्वथा अनाभातपूर्वमननुभूतचरं तत्र अनुमानमनुमितिव्यापारो विकल्पात्मा नैव केनचित्वादिना इष्यते । ननु भवतु प्रत्यक्षतो दृष्टेऽनुमाने संकथा इयम् , सामान्यतो दृष्टे तु किं वक्ष्यसि यथा अर्थोपलब्ध्या इन्द्रियानुमाने ? उच्यते ---- तत्रापि विकल्पेन यथा सोऽर्थः स्पृश्यते तथा अनुमेय इति स्थितिः । विकल्पश्च न इन्द्रियादिकमर्थं केनचित्संनिवेशविशेषादिना विशेषात्मना स्पृशति , अपि तु किंचिदुपलब्धेः कारणमिति अमुना स्वभावेन , स च स्वभावः कारणतालक्षणः प्रत्यक्षगृहीत एव । तथा च बीजातङ्कुरः तन्तुभ्यः पट इत्यादौ कार्यकारणभावः प्रत्यक्षानुपलम्भबलेन तावत्निश्चेयः । तत्र च प्रत्यक्षं प्रत्याभासं प्रामाण्यं भजते , विमर्शलक्षणस्य प्रमितिव्यापारस्य एकैकशब्दवाच्येऽर्थे प्रवृत्तेः तदनुसारित्वाच्च प्रमाणस्य इति वक्ष्यते ।

{एकाभिधानविषये मितिर्वस्तुन्यबाधिता ।}

इति । आभासमात्रं च सामान्यमिति निरेषुअते । अनुपलम्भोऽपि अन्योपलम्भरूप आभासमात्रविश्रान्त एव इति कारणाभासो विशेषशून्यः परिगृहीत एव बीजातङ्कुर इति प्रतीतौ । यत्यस्य नियममनुविधत्ते अव्यतिरिक्तं तत्तस्य कार्यमिति प्रतिघटं मृत्तिकादिरूपहेतुतद्वन्मात्रस्य आमासात् ॥८॥

आभासात्बाह्यः पुनर्नाभासरूपः , स च आभासते इति विप्रतिषिद्धम् । अनाभासे च नास्ति विकल्परूपस्य अनुमानस्य व्यापारः । ग्रामगृहादेस्तु यत्बाह्यं ततग्रामादिरूपं न उच्यते प्रत्येकं वाटानूपकुण्यतुलादेः बाह्यत्वप्रसङ्गात्, अपि तु तत्संनिकटम् , तस्मात्ग्रामबाह्यमाभासबाह्यमिति च शब्दसाम्यमात्रमेतत्न वस्तुसाम्यम् । एवं ये विकल्पे वस्तु न आभाति इति मन्यन्ते तेषामपि तावतनुमानविकल्पो न बाह्ये उपपन्नः । अस्माभिस्तु उपपादितम् ---- अध्यवसायस्यापि आभासमानविषयत्वम् <भ्रान्तित्वे चावसायस्य> इति सूत्रे । तेन अनुमानविकल्पात्मनापि प्रकाशेन यदि अनाविष्टो नीलादिः अर्थः तत्न अनुमित एव स्यात् । अथ आविष्ट एव , तर्हि <प्रागिवार्थोऽप्रकाशः स्यात्> इति न्यायेन प्रकाशमात्रस्वभाव एव , न बाह्यः । तेन बाह्ये साध्ये यत्किंचित्प्रमाणमानीयते , तदबाह्यतामेव प्रत्युत साधयति इति विरुद्धमेव, अत एव आह <कथंचन> इति , केनापि प्रकारेण प्रत्यक्षात्मना अनुमेयात्मना वा आभासनमाभासो बाह्यस्य अनाभासस्य न कदाचितभूतिति , तस्मात्सिद्धम् <चिदात्मैव हि देव> इति ॥९॥

ननु अन्तःस्थितं बहिः प्रकाशयेदित्युक्तं ततन्तःस्थितत्वमुपपादनीयमिति आशङ्क्य आह

स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १० ॥

बहीरूपतया आभासनेऽपि अहन्तारूपता न त्रुट्यति ,

{प्रमात्रैकात्म्यमान्तर्यम्}

इति हि वक्ष्यते , तच्च सदैव , प्रकाशस्य प्रमातृत्वात्, तदात्मतया च विनाऽप्रकाशमानस्य अवस्तुत्वात्, किं तु तत्र अहमिति उचिते परामर्शे योऽयमिदन्तापरामर्शः सैव बाह्यता , तच्च इह अन्तःस्थितत्वमहमित्येतावता चित्समुचितेनैव बपुषा परामर्शनमेव , तच्च इह नीलादीनामस्त्येव , न तु नास्ति इति , यदि हि न स्यात्कुम्भकृतो <घटं करवाणि> इति य उत्तरक्रियामपेक्ष्य इच्छाशब्दवाच्यः परामर्शः , एषणीयेन स परामृश्येन अनियन्त्रितः चेत्ततः पटेच्छापि सा न कस्मातिति संकीर्येरन् व्यवहाराः । अथ तत्रापि च एषणीयः तदानीमेव निर्मितः सन् तथा जातः , तर्हि तन्निर्माणं चिदात्मनि विनेच्छया नोपपन्नमिति <तिष्ठासोरेवमिच्छैव हेतुता> इत्यत्र वर्णयिष्यते । तच्च इच्छान्तरमपि विषयनियन्त्रितं न वा इति विकल्पेऽनवस्था । विषयनियन्त्रितं चेत्स्यातात्मतैव जाता , न चेत्घटे पटेच्छा स्यात् । अथ तत्रापि तदानीमेव इति कृत्वा अनवस्था । तस्मात्सर्वोऽयं भावराशिः चिदात्मनि अहमित्येव वपुषा सततावभासुरवपुः ऐश्वर्यरूपाच्च स्वातन्त्र्यलक्षणात्स्वामिभावात्विचित्रेण वपुषा क्रमाक्रमादिना संवितेनं बहिःकरोति प्रमातृप्रथनपूर्वकम् , तत्रापि क्वचिताभासे प्रमात्ःनेकीकरोति नितम्बनीनृत्त इव प्रेक्षकान् । तावति हि तेषामाभासे ऐक्यम् । शरीरप्राणबुद्धिसुखाद्याभासांशेषु तु भेदस्य अविगलनात्न सर्वथा ऐक्यम् । अत एव प्रतिक्षणं प्रमातृसंयोजनवियोजनवैचित्र्येण परमेश्वरो विश्वं सृष्टिसंहारादिना प्रपञ्चयति । तदुक्तमाचार्येण

{सदा सृष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय भवते नमः ॥}

इत्यादि । श्रीभट्टनारायणेनापि

{मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः ।
कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥}

इति । तस्मात्स्थितमन्तःस्थितं भावजातं तेन विना तद्विषयस्य परामर्शायोगातिति ॥१०॥

ननु परामर्शो नाम विकल्पः , स च अविकल्पशुद्धसंविद्वपुषि भगवति कथं स्यातित्याशङ्क्याह

स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ ११ ॥

इह अवभावस्य प्रकाशस्य , अनवभासस्य च अप्रकाशस्य घटादेः परस्परपरिहारेण द्वयोः स्वात्मनि चेत्व्यवस्थानम् , तत्घटपटयोः इव इदम्जडमिदं जडमिति दुरुपपादं वैलक्षण्यम् । अथ अवभासो यतोऽर्थस्य संबम्धी , ततो न जडः , तर्हि संबन्धमात्रेण मृतपि घटस्य इति अजडा स्यात् । अथ न स्वसंबन्धमात्रमपि तु अवभासोऽर्थस्य प्रकाशः , तर्हि अर्थात्मना स प्रकाश इति समापतितम् । न च अन्यात्मना अन्यस्य प्रकाश उपपन्नः । अथ अन्यस्वभावोऽपि घटोऽवभासस्य कारणम् , तर्हि अवभासोऽपि घटस्य कारणमिति घटोऽपि अजडः स्यात् । अथ अन्येन सतापि घटेन यतोऽवभासस्य प्रतिबिम्बरूपा च्छाया दत्ता , तामसौ अदभासो बिभ्रत्घटस्य इति उच्यते , ततश्च अजडः , तर्हि स्फटिकसलिलमकुरादिः अपि एवंभूत एव इति अजड एव स्यात् । अथ तथाभूतमपि आत्मानं तं च घटादिकं स्फटिकादिः न पराम्रष्टुं समर्थ इति जदः , तथापरामर्शनमेव अजाड्यजीवितमन्तर्बहिष्करणस्वातन्त्र्यरूपं स्वाभाविकमवभासस्य स्वात्मविश्रान्तिलक्षणमनन्यमुखप्रेक्षित्वं नाम । <अहमेवं प्रकाशात्मा प्रकाशे> इति हि विमर्शोदये स्वसंविदेव प्रमातृप्रमेयप्रमाणादि कृतार्थमभिमन्यते न तु अतिरिक्तं काङ्क्षति , स्फटिकादि हि गृहीतप्रतिबिम्बमपि तथाभावेन सिद्धौ प्रमात्रन्तरमपेक्षते इति निर्विमर्शत्वात्जडम् । सर्वत्र वस्तुतो विमर्शात्मकप्रमातृस्वभावतादात्म्याहंपरामर्शविश्रान्तेः अजडत्वमेव पूर्वापरकोट्योः । यदुक्तम्

{इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥}

इति । मध्यावस्थैव तु इदन्ता विमृश्यमानऊर्वापरकोटिः विमूढानां मायापदं संसारः इति विमर्श एव प्रधानं भगवत इति स्थितम् ॥११॥

न केवलं संवित्तत्त्वस्य अस्माभिः एव विमर्शप्राधान्यमुक्तं यावतागमान्तरैरपि इति दर्शयति

आत्मात एव चैतन्यं चित्क्रियाचितिकर्तृता ।
तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १२ ॥

यतो विमर्श एव प्रधानमात्मनो रूपममुमेव हेतुं प्रयोजनरूपमुद्दिश्य आत्मा धर्मिस्वभावो द्रव्यभूतोऽपि , चैतन्त्यमिति धर्मवाचिना शब्देन सामानाधिकरण्यमाश्रित्य उदितः कथितः , भगवता शिवसूत्रेषु

{चैतन्यमात्मा}(१-१)

इति पठितम् । चैतन्यमिति हि धर्मवाचकोपलक्षणम् ,

{चितिशक्तिरपरिणामिनी}
{ तद्दृशेः कैवल्यम् ।}(यो सू २-२५)
{द्रष्टा दृशिमात्रः }(यो सू २-२०)

इत्यादौ अपि हि धर्मशब्देन सामानाधिकरण्यमात्मनो दर्शितं गुरुणा अनन्तेन । द्रव्यं हि ततुच्यते यद्विश्रान्तः पदार्थवर्गः सर्वो भाति च अर्थ्यते च अर्थक्रियायै , तद्यदि न तत्सकलोऽयं तत्त्वभूतभावभुवनसंभारः संविदि विश्रान्तः तथा भवति इति स एव गुणकर्मादिधर्माश्रयभूतपदार्थान्तरस्वभावः तामेव मुख्यद्रव्यस्वरूपमाश्रयते इति सैव द्रव्यम् । ततनन्तधर्मराशिविश्रमभित्तिभूतायाः तस्याः स एव धर्मः चैतन्यमिति कर्तृकृदन्तातुत्पन्नेन भावप्रत्ययेन संबन्धाभिधायिनापि प्राधान्येन दर्शितः । तथा हि संबन्धविश्रान्तस्य प्रतीतेः , द्रव्य्तरूपस्य च संबन्धिनः प्रकृत्या उक्तत्वात्चितिक्रियारूपं ध्रमं संबद्धमवगमयता ष्यञा निष्कृष्टांशः प्रत्यायितो भवति । चितिक्रिया च चित्तौ कर्तृता , स्वातंत्र्यं संयोजनवियोजनानुसंधानादिरूपमात्ममात्रतायामेव जडवतविश्रान्तत्वमपरिच्छिन्नप्रकाशसारत्वमनन्यमुखप्रेक्षित्वमिति । तदेव अनात्मरूपात्जडात्संयोजनवियोजनादिस्वातंत्र्यविकलात्वैलक्षण्यादायि इति । तदेवं परत्वेन प्रधानतया अभिसंधाय आत्मा चेतन इति वक्तव्ये धर्मान्तराधरीकरणाय विमर्शधर्मोद्धुरीकरणाय च <आत्मा चैतन्यम्> इत्युक्तम् । चित्क्रियाचितिकर्तृतातात्पर्येण इति समासः । <अर्धयुक्पादविश्रान्तिः> इति हि काव्ये समयः , न शास्त्रे । यदि वा चित्क्रिया आत्मा उचितः चितिकर्तृता च इति पृथगेव । एवं तु न क्वचित्पठितम् ॥१२॥

ननु यथा प्रकाशोऽप्रकाशश्च इति य्भयमपि स्वात्मनि , ततश्च प्रकाश इति उक्ते जडात्न वैलक्षण्यमुदितं स्यात्, तद्वत्विमर्शोऽपि अविमर्शोऽपि च स्वात्मनि, इति तेनापि कथं वैलक्षण्यं जडाजडयोः इत्याशङ्क्याह

चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता ।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १३ ॥

चेतयति इत्यत्र या चितिः चितिक्रिया तस्याः प्रत्यवमर्शः स्वात्मचमत्कारलक्षण आत्मा स्वभावः । तथा हि ---- घटेन स्वात्मनि न चमत्क्रियते , स्वात्मा न परामृश्यते , न स्वात्मनि तेन प्रकाश्यते , न अपरिच्छिन्नतया भास्यते , ततो च चेत्यत इति उच्यते । चैत्रेण तु स्वात्मनि अहमिति संरम्भोद्योयोल्लासविभूतियोगात्चमत्क्रियते , स्वात्मा परामृश्यते , स्वात्मन्येव प्रकाश्यते , इदमिति यः परिच्छेद एतावद्रूपतया तद्विलक्षणीभावेन नीलपीतसुखदुःखतच्छून्यताद्यसंख्यावभासयोगेन अवभास्यते , ततः चैत्रेण चेत्यते इति उच्यते । एवं च विमर्शः स्वात्मनि अविमर्शोऽपि स्वात्मनि इत्यसिद्दमेतत् । विमर्शो हि सर्वंसहः परमपि आत्मीकरोति , आत्मानं च परीकरोति , उभयमेकीकरोति , एकीकृतं द्वयमपि न्यग्भावयति इत्येवंस्वभावः । प्रत्यवमर्शाश्च आन्तराभिलापात्मकशब्दनस्वभावः , तच्च शब्दनं सङ्केतनिरपेक्षमेव अविच्छिन्नचमत्कारात्मकमन्तर्मुखशिरोनिर्देशप्रख्यमकारादिमायीयसाङ्केतिकशब्दजीवितभूत ---- नीलमिदंचैत्रोऽहमित्यादिप्रत्यवमर्शान्तरभित्तिभूतत्वात्, पूर्णत्वात्परा , वक्ति विश्वमभिलपति प्रत्यवमर्शेन इति च वाक्, अत एव सा स्वरसेन चिद्रूपतया स्वात्मविश्रान्तिवपुषा उदिता सदानस्तमिता नित्या अहमित्येव । एतदेव परमात्मनो मुख्यं स्वातन्त्र्यमैश्वर्यमीशितृत्वमनन्यापेक्षित्वमुच्यते । परापरं तु इदंभावरूपस्य प्रत्यवमर्शस्य अख्यातिप्राणस्य उद्बोधमात्रेऽपि अहंभाव एव विश्रान्तेः श्रीसदाशिवादिभूमौ पश्यन्तीदशायाम् । अपरं तु इदंभावस्यैव निरूढौ मायागर्भाधिकृतानामेव विष्णुविरिञ्चेन्द्रादीनाम् , तत्तु तेषां परमेश्वरप्रसादजमेव । इति अन्यनिरपेक्षतैव परमार्थत आनन्दः , ऐश्वर्यम् , स्वातन्र्यम् , चैतन्यम् । तस्मात्युक्तमुक्तम्

{ तेन जडात्स हि विलक्षणः ।}

इति ॥१३॥

प्रधानागमेष्वपि एतत्प्रदर्शितमेव इति निरूपयति





सा स्फुरत्ता महासत्ता देशकालाविशेषिनी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १४ ॥

इह घटः कस्मातस्ति , स्वपुष्पं कस्मात्नास्ति इत्युक्त इतिवक्तारो भवन्ति घटो हि स्फुरति मम न तु इतरतिति । तदेतत्घटत्वमेव यदि स्फुरत्त्वं स्फुरणसंबन्धः , तत्सर्वदा सर्वस्य स्फुरेत्न कस्यचिद्वा , तस्मात्मम स्फुरति इति कोऽर्थः , मदीयं स्फुरणं स्पन्दनमादिष्टमिति । स्पन्दनञ्च किञ्चिच्चलनम् , एषैव च किञ्चिद्रूपता यतचलमपि चलमाभासते इति , प्रकाशस्वरूपं हि मनागपि नातिरिच्यते , अतिरिच्यते इव इति ततचलमेव आभासभेदयुक्तमिव च भाति । तत उक्तम्





{आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्वपुः ।
अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ॥}

इति । यथा





{अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ।
धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥} (स्प २२)

इति ।

{ स्पन्दतत्त्वविविक्तये ।} (स्प २१)

इति ।

{गुणादिस्पन्दनिःष्यन्दाः ।} (स्प १९)

इति च । लोकेऽपि विविधवैचित्र्ययोगेन स्पन्दवत्त्वम् । सत्ता च भवनकर्तृता सर्वक्रियाषु स्वातन्त्र्यम् । सा च स्वपुष्पादिकमपि व्याप्नोति इति महती , देशकालौ नीलादिवत्सैव सृजति इति ताभ्यां विशेषणीया न भवति , यत्किल येन तुल्यकक्ष्यतया भाति तत्तस्य विशेषणं कटक इव चैत्रस्य । न च देशकालौ विमर्शेन तुल्यकक्ष्यौ भातः तयोः इदन्तया तस्य च अहन्तया प्रकाशे तुल्यकक्ष्यत्वानुपपत्तेः । एवं देशकालास्पर्शात्विभुत्वं नित्यत्वं च , सकलदेशकालस्पर्शोऽ पि तन्निर्माणयोगातिति ततोऽपि व्यापकत्वनित्यत्वे । तदुक्तम्





{महासत्ता महादेवी विश्वजीवनमुच्यते ।}

इति । सारमिति यततुच्छं रूपं ततियमेव विमर्शशक्तिः , ग्राह्यग्राहकाणां यत्प्रकाशात्मकं रूपं तस्यापि अप्रकाशवैलक्षण्याक्षेपिका इयमेव इति श्रीसारशास्त्रेऽपि निरूपितम्





{यत्सारमस्य जगतः सा शक्तिर्मालिनी परा ।}

इति । सैषा इति शक्तिप्रत्यभिज्ञानं दर्शितम् । हृदयं च नाम प्रतिष्ठास्थानमुच्यते , तच्च उक्तनीत्या जडानां चेतनम् , तस्यापि प्रकाशात्प्रकत्वम् , तस्यापि विमर्शशक्तिः इति विश्वस्य परमे पदे तिष्ठतो विश्रान्तस्य तस्य इदमेव हृदयं विमर्शरूपं परमन्त्रात्मकं यत्र तत्र अभिधीयते । सर्वस्य हि मन्त्र एव हृदयम् , मन्त्रश्च विमर्शनात्मा , विमर्शनं च परावाक्छक्तिमयम् । तत एवोक्तम्





{न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः ।}

इति ।

{तत्र तावत्समापन्ना मातृभावम् ।}

इत्यादि च , इत्यागमेषु । तत्रभवद्भर्तृहरिणापि





{न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ }

इति ।
{सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते ।
यदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुङ्यवत् ॥}

इत्यादि च । ततेतेन विदुः इत्येतत्निर्वाहितम् । बौद्धैरपि अध्यवसायापेक्षं प्रकाशस्य प्रामाण्यं वदद्भिः उपगतप्राय एव अयमर्थः , अभिलापात्मकत्वातध्यवसायस्य इति ॥१४॥

ननु असंख्यशक्तिश्रेणोशोभितवपुषि परमशिवे विमर्शशक्तिरेव इयमित्थंकारमभिषिच्यते कस्मातित्याशङ्क्याह





आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति ।
ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १५ ॥

स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्यादद्वयात्मनः ।
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १६ ॥

सर्वाः शक्तोः कर्तृत्वशक्तिः ऐश्वर्यात्मा समाक्षिपति । सा च विमर्शरूपा इति युक्तमस्या एव प्राधान्यमिति तात्पर्येण उत्तरमुक्तम् । शब्दार्थस्य अयम् , प्रकाशात्मा परमेश्वरः स्वात्मानं ज्ञात्रेकरूपत्वातज्ञेयमपि ज्ञेयीकरोति इति यत्संभाव्यते कारणान्तरस्य अनुपपत्तेः दर्शितत्वात्दृढेन संभावनानुमानेन , तदत एव विमर्शशक्तिलक्षणात्कर्तृत्वाथेतोः भवति , यतो हि अयमात्मानं परामृशति ततो विश्वनिर्भरत्वात्तथा नीलादित्वेन चकास्ति । ननु एषैव कुतः संभावना , आत्मानं ज्ञेयीकरोति इति ? आह, पृथक्प्रकाशात्बहिर्भूता स्थितिः यस्य तादृक्ज्ञेयं नैव भवति । तुः अवधारेण । तत्र च उक्ता युक्तयः । अभ्युच्चययुक्तिमपि आह , यदि व्यतिरिक्तं ज्ञेयं स्यात्तत्ज्ञातृरूपस्य आत्मनो यतेतत्ज्ञेयविषयमौन्मुख्यं स्वसंवेदनसिद्धं दृश्यते तत्न अस्य स्यात्, तेन व्यतिरिक्तविषयौन्मुख्येन अन्याधीनत्वं नाम पारतन्त्र्यमस्य आनीयते । पारतन्त्र्यं च स्वातन्त्र्यस्य विरुद्धम् । स्वातन्त्र्यमेव च अनन्यमुखप्रेक्षित्वमात्मनः स्वरूपम् , इति व्यतिरिक्तोन्मुख आत्मा अनात्मैव स्यात् । अनात्मा च जडो ज्ञेयं प्रति न उन्मुखीभवति इति प्रसङ्गः । ततः प्रसङ्गविपर्ययातिदमायातम् ---- अव्यतिरिक्तोन्मुखः स्वतन्त्रः सनात्मानमेव ज्ञेयीकरोति इति ॥१५॥

न च केवलं नीलादिरूपमेव ज्ञेयम् , यावतत्यक्तकर्तृस्वभावं स्वातन्त्र्येण अपरित्यक्तमेव सन्तमात्मानं निर्माय व्यवहारेण ध्यानोपासनार्चनोपदेशादिना योजयति इति यत्संभाव्यते तदपि अत एव इति संबन्धः । ननु स्वातन्त्र्ययुक्तं च निर्मीयते च इति विरुद्धमिदम् ? अत्राह , <अद्वयात्मनः> संविदेकरूपस्य स्वातन्त्र्याथेतोः इदं न न युज्यते , यत्किल मायापदे अतिदुर्घटं प्रतिभाति , तत्संपादने यतप्रतिहतं स्वातन्त्र्यं तदेव पुनः स्वातन्त्र्यशब्देन दर्शितम् । <अत एव> इत्यनेन तु विमर्शशक्तिरूपमिति अपुनरुक्तम् । अथ वा अत एव स्वातन्त्र्यातिति सामानाधिकरण्येन श्लोकद्वयेन संबन्धनीयम् । उदाहरणमत्रार्थे दर्शयति , नीलादिनिर्माणवतस्य स्वत्रन्त्रनिर्माणस्य अप्रसिद्धत्वात्, ईश्वरो भगवानात्मा नित्यो विभुः स्वतन्त्रः इत्येवमादौ हि प्रमातुः , पूजयितुः , ध्यातुः वाऽपृथग्भूतं तत्प्रमेयम् , पूज्यम् , ध्येयं च भाति इति तत्तावत्निर्मितम् , न च अनीश्वरम् । एवं हि ईश्वर इति , अनीश्वर इति संकल्पध्यानादेः तुल्यत्वं स्यात्, न च एवं फलभेदस्य उपलब्धेः इति , तस्मात्स्वातन्त्र्यशून्यताभासनेन स्वातन्त्र्ययुक्तताभासनेन च यतिदमुभयं ज्ञेयमात्मरूपमेव परमेश्वरो भासयति तत्विमर्शशक्तिबलातेव , इति सैव प्रधानमिति ॥१६॥

ननु प्रकाशबलात्भावव्यवस्था , स च प्रकाशो विमर्शसार इति विमर्शाभेदे तदेव ततिति वक्तुं युक्तम् , ईश्वर आत्मा इत्यादिसंकल्पेषु च निर्मितस्य इदन्तया परामर्शः , स्वातन्त्र्यं तु अहंपरामर्शरूपम् , इति निर्मितस्य तद्रूपत्वाभावे कथं स्वातन्त्र्यामुक्तत्वमिति ? ततेतत्परिहर्तुमाह





नाहन्तादिपरामर्शभेदादस्यानयतात्मनः ।
अहंमृश्यतयाइवास्य सृष्तेस्तिङ्वाच्यकर्मवत् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १७ ॥

स्वरूपे भावप्रत्ययः , आदिग्रहणातात्मेश्वरादिपरामर्शः , तिङ्ग्रहणं क्रियावाचिप्रत्ययोपलक्षणम् , कर्मग्रहणमसत्त्वभूतशक्तिरूपोपलक्षणम् । ततयमर्थः , अहमित्येवं स्वरूपो यः परामर्शो यश्च ईश्वरः प्रमाता आत्मा शिव इत्यादिः अनन्तप्रकारः परामर्शः , तस्य यद्यपि भेदोऽन्योन्यरूपता तथापि तद्भेदाथेतोः अस्य आत्मनो निर्मातृरूपस्य अहंपरामर्शमयस्य निर्मेयरूपस्य च ईश्वरादिपरामर्शास्पदस्य यो भेदः शङ्कितः , स न युक्तः । यत ईश्वर इत्यपि यः परामर्शः , स ईशनशीले ज्ञातृत्वकर्तृत्वतत्त्वे विश्रान्यति , ज्ञातृत्वादि च ज्ञानादौ स्वातन्त्र्यमनन्यमुखप्रेक्षित्वमविच्छिन्नज्ञानयोगः , अविच्छेदश्च जानामि करोमि इति अस्मदर्थविश्रान्तिः इति अस्य ईश्वरस्य आत्मनः सृष्टेः सृज्यमानस्य अहंविमर्शनीयत्वमेव । सृष्टेरिति वा हेतौ पञ्चमी । अस्य ईश्वरस्य यतः ईश्वरादिसंकल्पेषु अपि अहंपरामर्शनयोग्यस्यैव सृष्टिः ।
अर्हे कृत्यः । यथा क्रियाकारकसमुच्चयविकल्पादिशक्तयो यथास्वं तिङ्तृतीयादिचवादिप्रयोगावसेयपरामर्शपरमार्थाः पाकः कर्ता समुच्चयो विकल्पः इत्यादिशब्दैः अभिधीयमानाः सत्त्वभावमापादिता अपि पचति चैत्रेण च वा इत्येवंरूपे मूलपरामर्शे विश्राम्यन्ति , अन्यथा तु ताः प्रतीता नैव भवेयुः । तद्वतत्रापि । एतदुक्तं भवति ---- परामर्शे नाम विश्रान्तिस्थानम् , तच्च पार्यन्तिकमेव पारमार्थिकम् , तच्च अहमित्येवंरूपमेव । मध्यविश्रान्तिपदं तु यत्वृक्षमूलस्थानीयं ग्रामगमने तस्य तदपेक्षया सृष्टत्वमुच्यते इति को विरोधः । अनेन नीलादेः अपि इदं नीलमिति मध्यपरामर्शेऽपि मूलपरामर्शे अहमित्येव विश्रान्तेः आत्ममयत्वमुपपादितमेव । <नीलमिदं वेद्मि> इत्यपि हि <अहं प्रकाशे> इतीयत्तत्त्वम् । यथोक्तम् <इदमित्यस्य> इत्यादि । मूढस्तु नीलादिविमर्शातेव अर्थक्रियादिपरितोषाभिमानी इति नीलादेः स्वातन्त्र्यनिर्मुक्तत्वमुक्तम् । आत्मादौ तु तन्मूलपरामर्शविश्रान्तिमन्तरेण प्रतीतिपरिसमाप्तिमर्थक्रियां च मूढोऽपि न अभिमन्यत इति तस्य निर्मितौ अपि अनुज्झितस्वातन्त्र्यमुक्तम् ॥१७॥

नन्वेवं विश्वपरामर्शनामहमित्येव विशुद्धैकपरामर्शविश्
रान्तिरेव तत्त्वं तत्कथमिदमुच्यते ---- ज्ञानस्मृत्यादिका अस्य शक्तय इति , ज्ञानस्य च संशयनिर्णयादिभेदः नीलादीनां च वैचित्र्यम् ? इति आशङ्कायां परिहारमाह





मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।
कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १८ ॥

अनुपपन्नमवभासनं माया इति उच्यते , ततश्च भिन्नं प्रकाशात्सर्वमवभासजातं माया , तत्र च चित्तत्त्वस्यैव स्वातन्त्र्यं मायाशक्तिः , तया भिन्नं यत्संवेद्यं प्रमातुश्च अन्योन्यतश्च , मायाशक्त्या भिन्नेन प्रमातुः अन्योन्यतो वेद्याच्च करणवर्गेण यत्संवेद्यं स एव गोचरो विश्रान्तिपदं यस्याः तादृशी सती , <सैव> प्रत्यवमर्शात्मा चितिः परावाग्रूपा ज्ञानमिति , संकल्प इति , अध्यवसाय इति च उच्यते , आदिग्रहणात्संशयः स्मृतिः इत्यादि । तथा हि ---- इन्द्त्रियेण स्फुटग्राहिणा बाह्येन विषयेण स्फुटेन च नियन्त्रितं संवित्तत्त्वं तत्ज्ञानम् । मनसा विषयेण च अप्स्हुटेन संकल्पः । बुद्ध्या विषयेण च विषयत्वपर्यन्तभाजा अध्यवसायो निश्चयः । विषयस्य च यत्भिन्नत्वं बहिरन्तःकरणानां च तत्प्रकाशाभेदातनुपपन्नं चित्तत्त्वेन भास्यते इति भेदे यतो विश्रान्तिः , न तु भेदस्य अभेदे ईश्वरसदाशिवादिवत्, ततो ज्ञानसंकल्पादयो भिन्नाः तस्य अप्रध्वस्तस्वस्वभावाभेदस्य संवित्तत्त्वस्य अनुसंधातुः शक्तय इति उक्ताः , संशयादयश्च भिन्ना नीलादिवैचित्र्यं च इति सर्वमखण्डितम् ॥१८॥

ननु प्रत्यवमर्शात्मत्वं चितिशक्तेः सङ्कल्पस्मरणादिशक्तिषु सचिकल्पात्मिकासु भवतु । या तु निर्विकल्परूपा साक्षात्करणलक्षणा अनुबह्वशक्तिः , तत्र कथम् । प्रत्यबमर्शो हि अभिलापविशेषयोजनामयः , अभिलापविशेषयोजना च सङ्केतस्मरणमपेक्षते । तच्च संस्कारप्रबोधम् । सोऽपि तादृश्दृशम् , इति एवं प्रथमसमये कथमभिलापयोगः इति परस्य व्यामोहमपोहितुमाह





साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा ।
धावनाद्युपपद्येत प्रतिसंधानवर्जितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ १९ ॥

इह तावत्चैतन्यस्य आत्मभूतोऽङ्गुलिनिर्देशादिप्रख्योऽभिलापयोगः , अन्यथा बालस्य प्रथमं व्यवहारे दृश्यमाने व्युत्पत्तिरेव न स्यात् । निर्विकल्पकज्ञानपरंपरया हि तं शब्दं शृणोति , ततः तमर्थं पुरः पश्यति , पुनस्तद्विविक्तं भूतलं पश्यति इति घटमानय नय इति व्यवहारात्कथमस्य अयमर्थ इति हृदि परिस्फुरेत्, इदं घट इति , इदमानय इति , इदं नय इति , इतियोजनाप्राणो हि अयमर्थः , योजना च विकल्पव्यापारः । अत्र बालास्य प्राग्जन्मानुभूतसङ्केतस्मृतेः एवम् , तथापि सङ्केतकाले स शब्दो विषयत्वेन इदंभावेन प्रत्यवमृश्यमानत्वात्भेदात्प्रच्युत्य निर्भासमानो विज्ञानशरीरे विश्रान्तः सन् वाचक इति भवति , तद्विज्ञानस्य सवरूपं चेत्भाति ततभिलापमयमेव इति , यथा विषयस्य सुखरूपत्वाभावेऽपि ज्ञानं सुखात्मकं भाति तथा मा भूतभिलापात्मा रूपादिः विषयः , तथापि विज्ञानं तदात्मकमवभासिष्यते । अत्र तु दर्शने विषयस्यापि विमर्शमयत्वातभिलापमयत्वमेव वस्तुतः , स्तैमित्याद्यवस्थापि यदि न परामर्शमयी तर्हि अस्यां विकल्पात्मकप्रमातृव्यापारानुलासात्संभवः शपथपरमार्थ एव , स्मरणं च न स्यात्, रूपविषयाध्यवसायी हि यदि विकल्प उदियात्किमन्यत्, सर्वचिन्तासंहरणेन स्तैमित्यं नाम न स्यात्, इति तत्रापि अस्ति अन्तः परामर्शः , सकलेन च शब्दग्रामेण शब्दनं हि सहन्ते वस्तूनि , तत्र च नियतशब्दयोजनं क्रियते । तथा हि ---- बालस्य पुरः पुण्डे सहजो यः परामर्शः , अहमित्यविच्छेदेन इदमिति विच्छेदेन वा तत्पृष्ठे एव गौर इति गौः इति वा शब्द आरोप्यते , सोऽपि अभ्यासात्प्रमातृमयो भवति , तत्पृष्ठे च अन्यः शुक्ल इति , अन्यत्बलीवर्द इति , इत्येवं सङ्केततत्त्वम् । तस्मातस्ति साक्षात्कारे प्रत्यवमर्शः । अपिशब्दस्य अयमाशयः । इह साक्षात्कारो वस्तुतः <पश्यामि> इत्येवंभूतविकल्पनव्यापारपर्यन्त एव । विकल्पो हि प्रत्यक्षस्य व्यापार इति परोऽपि मन्यते । न च व्यपारः तद्वतो भिन्नो युक्तः , तत्स्वरूपभूतो हि सः । भवतु वा क्षणमात्रस्वभावः साक्षात्कारः , तत्रापि अस्ति विमर्शः । अवश्यं चैतत् । <कथमन्यथा> इति । यदि स न स्यात्ततेकाभिसंधानेन जवात्गच्छन् , त्वरितं च वर्क्षान् पठन् , द्रुतं च मन्त्रपुस्तकं वाचयन् , न अभिमतमेव गच्छेत्, उच्चारयेत्, वाचयेत्वा । तथा हि ---- तस्मिन् देशे ज्ञानम् -- आचिक्रमिषा -- आक्रमणम् -- आक्रान्तताज्ञानम् -- प्रयोजनान्तरानुसंधानम् -- तित्यक्षा -- देशान्तरानुसंधिः , तत्रापि आचिक्रमिषा इत्यादिना योजनवियोजनरूपेण प्रत्यवमर्शेन विनाभिमतदेशावाप्तिः कथं भवेत् । एवं त्वरितोद्ग्रहणवाचनादौ मन्तव्यम् । तत्र विशे अतः स्थानकरणाक्रमणादियोगः । अत्र च यतः पश्चाद्भाविस्थूलविकल्पकल्पना न संवेद्यते , तत एव त्वरितत्वमिति सूक्ष्मेण प्रत्यवमर्शेन संवर्तितशब्दभावनामयेन भाव्यमेव । संवर्तिता हि शब्दभावना प्रसारणेन विवर्त्यमाना स्थूलो विकल्पः , यथा इदमित्यस्य प्रसारणा घटः श्क्ल इत्यादिः , तस्यापि पृथुबुध्नोदराकारः शुक्लत्वजातियुक्तगुणसमवायी इत्यादिः । <धावु गतिशुद्धौ> इति पाठात्धाविस्त्वरितगतौ स्वशक्तिवशात्वर्तत इति ॥१९॥

भवतु एवं सूक्ष्मो विमर्शः प्रकाशशरीरावेशी , यत्र तु स्थूलत्वेन विकल्परूपता स्फुटा , तत्र शब्दो नीलादिवतेव पृथक्प्रतिभासते ---- नीलमिदमिति , स कथं प्रकाशस्वरूपातपृथग्भूतः स्यात्, शब्दात्मा च विमर्शः , स च अत्र मायात्मकं भेदपदेऽपि प्रकाशापृथग्भूतो भवद्भिः इष्टः , ततेतत्कथं प्रतिपत्तव्यमित्याशङ्क्याह





घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
परेशशक्तिरात्मेव भासते न त्विदन्तया ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ २० ॥

केन एततुक्तं घट इति यः स्थूलः शब्दः स प्रकाशजीवितस्वभावो विमर्श इति । सोऽपि हि स्थूलः शब्दोऽर्थवत्पृथग्भूत एव भाति । तौ नामकरूपलक्षणौ शब्दार्थौ एकरूपतया <सोऽयम्> इत्येवंरूपत्वेन परामृशन्ती अध्यवसा या सा परमेश्वरशक्तिः विमर्शरूपा आत्मवदेव अहमित्यनवच्छिन्नत्वेन भाति , न तु कदाचितिदन्तया विच्छिन्नत्वेन भाति विच्छिन्नत्वेन अवभासे परप्रतिष्ठत्वात्पुनर्विमर्शान्तरेण भाव्यम् , तत्रापि एवमिति अनवस्थातो नीलस्य प्रकाशनमेव न स्यात्प्रतिष्ठालाभाभावात् । तस्मात्सर्व एव विमर्शः प्रकाशातविच्छिन्न एव इति । अध्यवसा इति , {आतश्चोपसर्गे}(पा व्या ३-३-१६) इत्यङन्तः स्त्रियाम् ॥२०॥

ननु एवं सर्वस्यैव ज्ञानकलापस्य अहमित्येव प्रतिष्ठाने वेद्यभूमिस्पर्शो नास्ति वेद्यभुवि च देशकालयोगः न तु वेदकांशे , देशकालयोगाभावे च यतिदं ज्ञानां देशापेक्षया प्रमात्राद्यंशापेक्षया च सक्रमत्वं लक्ष्यते तत्कथं स्यात्, क्रमाभावे च एकत्वमेव वस्तुतो भवेत्, ततश्च <ज्ञानस्मृत्यादिभिस्तद्वान् परमेश्वरः> इति यतुक्तं तत्कथं निर्वहेतित्याशङ्कां शमयन् पूर्वोक्तमुपसंहरति





केवलं भिन्नसम्वेद्यदेशकालानुरोधतः ।
ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५ २१ ॥

सत्यमेवमक्रममेव संवित्तत्त्वम् , किन्तु स्वशक्तिवशात्भिन्नत्वेन भासितानि यानि वेद्यानि तेषां मूर्तिभेदकृतो यो दूरादूरवैतत्यावैतत्यादिः देशः , क्रियाभेदकृतश्च यः चिरशीघ्रक्रमादिरूपः कालः , तौ अनुरुध्य छायामात्रेण अबलम्ब्य, ज्ञानस्मरणाध्यवसायानां स्वांशा इव भान्ति निरंशानामपि , तद्भासमानांशकृतश्च सक्रमत्वावभासः परस्परापेक्षया स्वांशापेक्षया च , यद्यपि कालक्रम एव स्फुटो विज्ञानेषु भाति न देशक्रमः , तथापि विमूढस्य पर्वतसंवेदनं विततमिव वदरसंवेदनं च सूक्ष्ममिव भाति इति देशक्रमोऽपि दर्शितः , तेन वेद्यगतक्रमस्वीकाराभासात्सक्रमत्वमाभासमानमपि न अपारमार्थिकमाभासमानस्य परार्थत्वात्, ततश्च युक्तमुक्तम् <ज्ञानादयोऽस्य भगवतः शक्तयः> इति ।

{मायाशक्त्या विभोः}

इति श्लोकेन स्वरूपवैचित्र्यं ज्ञानां दर्शितम् । अनेन तु देशकालवैचित्र्यमिति विशेषः । इति शिवम् ॥२१॥

इति श्रीमदाचार्याभिनवगुप्तविरचितायांीश्वरप्रत्यभिज्ञासूत्रविमर्शिन्यां प्रथमे ज्ञानाधिकारे ज्ञानशक्तिनिरूपणं नाम पञ्चमाह्निकम् ॥ ५ ॥

________

ज्ञानाधिकारे षष्ठमाह्निकम् ।सम्पाद्यताम्


{स्वात्माभेदधनान्भावांस्तदपोहनटङ्कतः ।
व्हिन्दन्यः स्वेच्छया चित्ररूपकृतं स्तुमः शिवः ॥}

एवं स्मृतिशक्तिर्ज्ञानशक्तिश्च निरूपिता । अथ तदुभयानुप्राहिणी अपोहनशक्तिर्वितत्य श्लोकैकादशकेन <अहं प्रत्यवमर्शो यः प्रकाशात्मा> इत्यादिना <सिद्धे सर्वस्य जीवतः> इत्यन्तेन निर्णीयते । तत्र श्लोकेन प्रत्यवमर्शे अविकल्पो विशेषः इति सूच्यते । ततः श्लोकेन शुद्धेऽहंप्रत्यवमर्शेऽपोहनव्यापारासंभवः उच्यते । ततः स्वदृष्टावेव तदुपपत्तिः इति श्लोकेन । ततोऽपि द्वयेन अशुद्धस्याहमित्यवमर्शस्य विकल्परूपता । ततः श्लोकेन अनुसंधानस्वापि विकल्परूपता । एवंरूपानुसंधानादिरूपमेव परमेश्वरस्य स्रष्ट्टत्वमिति श्लोकेन । ततः प्रकृते चिदात्मन्यर्थावभासस्य सत्तोपसंहियते श्लोकेन । ततो द्वयेन तस्मैवार्थावभासस्यानुभवस्मरणादौ वैचित्र्यमुच्यते , तदुक्तिश्च प्रकृतायामीश्वररूपस्वात्मप्रत्यभिज्ञायामुपयुज्यते इति श्लोकेन । इत्याह्निकस्य तात्पर्यार्थः । अथ ग्रन्थार्थो व्याख्यायते ।

उक्तिमिदम्

{सवभावमवभासस्य विमर्शम् ।}

इति । तत्र विमर्शोऽभिलापात्मना शब्देन योजित एव , तद्योजनाकृतं च विकल्परूपत्वं शुद्धेऽपि परमेश्वरे प्राप्तम् , न चैतदिष्टं तस्य संसारपदे माथात्मन्युपपत्तेः इत्याशङ्क्याह

अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः ।
नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ १ ॥

प्रकाशस्य शुद्धसंविद्रूपस्य देहादिसंस्पर्शैरनाविलीभूतस्य यः आत्मा जीवितभूतः सारस्वभावो विच्छेदशून्योऽन्तरभ्युपगमकल्पोऽनन्यमुखप्रेक्षित्वरूपस्वातन्त्र्यविश्रान्तिरूपः <अहम्> इति प्रत्यवमर्शः असौ विकल्पो न भवति । विकल्पत्वाशङ्कायां बीजं दर्शयति <वाग्वपुरपि> इति । विषयरूपात्श्रोत्रग्राह्यात्शब्दादन्य एव अन्तरवभासमानः संविद्रूपावेशी शब्दनात्माभिलापो वागित्यनेनोक्तः ---- वक्ति अर्थं स्वाध्यासेन सोऽयमित्यभिसंधानेन । यदि वाग्वपुः , कस्मान्न विकल्पः ? आह ---- न ह्यस्य विकल्पलक्षणमस्ति , तथा हि ---- विविधा कल्पना विविधत्वेन च शङ्कितस्य कल्पोऽन्वव्यवच्छेदनं विकल्पः , विविधत्वं च बह्नावनग्निसंभावनासमारोपनिरासेऽसति भवत्, द्वयं वह्न्यवह्निरूपं समाक्षिपति , तेन विकल्पेऽवश्यं तच्च निश्चेतव्यमतच्च अपोहितव्यं भवति ।

तथा च

भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः ।
प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ २ ॥

घटे हि दृष्टे घटस्थान एवाघटेऽपि योग्यदेशाभिमतस्थानाक्रमणशीलो विज्ञानजनकः स्वकारणोपनीतः संभाव्यते पटादिस्वभावः , अतो घटाघटयोर्द्वयोरवभावसस्य संभावनात्समारोपः सावकाशो भवति , अघटस्य सत्यारोपे निषेधनलक्षणोपोहनव्यापारः इति तदनुप्राणिता विकल्परूपता घट इत्येतस्य निश्चयस्य , <लिङ्संभावनायाम्> । यस्त्वयं प्रकाशो नाम तस्य स्थाने यः संभाव्यते स तावदप्रकाशरूपो न भवति तुल्यकक्षस्य हि संभावनं भवति , न च यत्प्रकाशेन कर्तव्यं तदप्रकाशस्य कदाचित्दृष्टं संभावनारोपणादिबलादेव च अस्याप्रकाशरूपत्वं विघटेत , अतः प्रकाशतुल्यस्यान्यस्याप्रकाशरूपस्य भेदिनस्तत्तुल्यकक्ष्यस्यापोहनात्मकभेदनव्यापारासाहिष्णोरवभासनमेव नास्ति , तदभावे कस्यापोष्ठनम् ? अवभाससंभवेऽपि प्रकाशरूपत्वमेव । न च प्रकाशस्य स्वरूपदेशकालभेदो येन द्वितीयः प्रकाश एकस्मादपोह्येतेति । हीति , यस्मादेवं ततो द्वयाभावाद्पोहासंभवे विकल्परूपत्वाभावात्चिन्मात्रे परामर्शात्मनि अहमिति प्रत्यवमर्श एव , न तु विकल्पः ॥२॥

ननु घटे परिनिष्थितरूपे दृष्टे तद्दर्शनमुपजीवता विकल्पेन कथमघटस्य निषेधनं क्रियते , न ह्यघटस्य केनचिन्नामापि गृहीतम् ,
अघटवासनापि घटे दृष्टे कथंकारं प्रबुध्यताम् ? सत्यम् , एवं शाक्यः पर्यनुयोज्यो न तु वयम् , यतः

तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् ।
तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ ३ ॥

इह प्रमाता नाम प्रमाणादतिरिक्तः प्रमासु स्वतन्त्रः संयोजनवियोजनाद्याधानवशात्कर्ता दर्शितः , तस्य च प्रमातुरन्तः सर्वार्थावभासः , चिन्मात्रशरीरोऽपि तत्सामानाधिकरण्यवृत्तिरपि दर्पणनगरन्यायेनास्ति ---- इत्यपि उक्तम् । एवं च तत्प्रतिभां घटाभासम् , अतत्प्रतिभां च अघटाभासं प्रमाता भजते ---- सेवते तावत्, तदविकल्पदशायां चित्स्वभावोऽसौ घटः चिद्वदेव विश्वशरीरः पूर्णः , न च तेन कश्चिद्व्यवहारः , तत्मायाव्यापारमुक्कासयन्पूर्णमपि खण्डयति भावम् , तेनाघटस्यात्मनः पटादेश्चापोहनं क्रियते निषेधनरूपम् , तदेव व्यपोहनमाश्रित्य तस्म घटस्य निश्चयनमुच्यते <घट एव> इति , एवार्थस्य संभाव्यमानापरवस्तुनिषेधरूपत्वात्, एष एव परितश्छेदात्तक्षणकल्पात्परिच्छेदः , हीति ---- यत एवम् , तस्मात्युक्तं <द्वयाक्षेपी विकल्पः> इति पूर्वश्लोकोल्तेन वस्तुद्वयेन हेतू क्रमेणोक्तौ यस्मादेवं विकल्पः ततोऽहमिति शुद्धो विमर्शः न विकल्पः ---- इति श्लोकत्रये महावाक्यार्थः । शाक्यैरपि प्रमातुरेवायं व्यापार उक्तः <एकः प्रत्यवमर्शाख्यः> इत्यत्र <प्रपत्ता> इति <स्वयम्> इति च वदद्भिः , स त्वेतैः कथं समर्थ्यः ---- इत्यास्तामेतत् ॥३॥

नन्वेवमहमित्यपि प्रत्यवमर्शेऽनहंरूपस्य घटादेः प्रतियोगिनोऽ पोहनीयस्यापोहे विकल्परूपता कथं न स्यातित्याशयेनाह

चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः ।
देहे बुद्धावथ प्राणे कल्पिते नभसीव वा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ ४ ॥

प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् ।
विकल्प एव स परप्रतियोग्यवभासजः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ ५ ॥

अहमित्यवमर्शो द्विधा ---- शुद्धो मायीयश्च , तत्र शुद्धो यः संविन्मात्रे विश्वाभिन्ने विश्वच्छायाच्छुरिताच्छात्मनि वा । अशुद्धस्तु वेद्यरूपे शरीरादौ । तत्र शुद्धेऽहंप्रत्यवमर्शे प्रतियोगी न कश्चिदपोहितव्यः संभवति घटादेरपि प्रकाशसारत्वेनाप्रतियोगित्वेनानपोह्यत्वात्, इत्यपोह्याभावे कथं तत्र विकल्परूपता । अशुद्धस्तु वेद्यरूपे शरीरादौ अन्यस्माद्देहादेर्घटादेश्च व्यवच्छेदेन भवन् विकल्प एव ---- इति वाक्यार्थः । अक्षरार्थस्तु ---- चित्तत्त्वं प्रकाशमात्ररूपं हित्वा सदप्यपहस्तनया अप्रधानीकृत्य भिन्ने देहादावहमेव देहादिः नीलादौ प्रमेये प्रमाता ---- इत्यभिमानेन <योऽहं स्थूलः> इत्यादिविमर्शः स विकल्प एव , न तु शुद्धं प्रत्यवमर्शमात्रम् । अत्र हेतुः ---- परो द्वितीयो देहादिर्घटादिश्च यः प्रतियोगी तुल्यकक्ष्योऽन्योन्यपरिहाराच्च विरुद्धस्तस्य योऽवभासः ---- समारोपणलक्षणः , तस्माद्यतोऽसावतन्निषेधानुप्राणितोऽ हमित्यवमर्शो जातः <अहं स्थूलः , न कृशः , न घटादिः> इति , शुद्धप्रकाशरूपस्य अपहस्तनैव देहादेर्भेदहेतुः ,
तदपहस्तने तु परमेश्वरस्य स्वात्मप्रच्छादनेच्छारूपाऽभेदाप्रकाशनं भ्रान्तिरूपं प्रति स्वातन्त्र्यरूपा मायाशक्तिर्हेतुः , चिद्रूपस्य चापहस्तनं देहादेरेव अत्यक्तवेद्यभावस्य भिन्नस्यैव उपपत्तिशून्यतयैव प्रमातृत्वाभिमानः । तथा च देहाभिमानभूमिकायां स्थिताश्चार्वाकाः <चैतन्यविशिष्टः कायः पुरुषः> इति कायमेव प्राधान्येनाहुः । स्त्रीबालमूर्खाणां तथाभिमानात्ततोऽपि विवेकयुक्ताः पाकजोत्पत्तिपरिणामादिबलादस्थिरं शरीरं मन्वानाः प्राणशक्तिसमधिष्ठानेन च विना विकारशतावेशं शरीरस्य पश्यन्तो बुभुक्षापिपासायोगयोग्यं प्राणमेवात्मानं केचन श्रुत्यन्तविदो मन्यन्ते । ततोऽपि समधिकविवेकभाजः प्राणस्यापि अनित्यत्वादनुसंधानयोग्यतामपश्यन्तो ज्ञानसुखाद्याश्रयभूतां बुद्धिमेव काणादप्रभृतय आत्मानमाहुः । अपरे तस्या अपि योगिद्शायां वेद्यभावादपरत्वं मन्यमानाः असंवेद्यपर्वरूपं यन्न किंचिद्रूपं सकलवेद्यराशिविनिर्मुक्तं शून्यत्वान्नभस्तुल्यं न तु महाभूताकाशस्वभावं तत्प्रमातृतत्त्वं शून्यब्रह्मवादिनः सांख्यप्रभृतय आहुः । तस्मिन्नपि वेद्ये शुन्यान्तरं तत्रापि शून्यान्त्रम् ---- इति यावद्भेदः तावत्कल्पना न त्रुट्यतीति तदर्थमाह <कल्पिते> इति । न चानवस्था परमार्थप्रकाशबलेन यतः सर्वस्य प्रकाशो न तु देहादिवशात्, तया त्वभिमानमात्रं देहः प्रमातेति , सङ्कोचमात्ररूपं चित्तत्त्वं शून्यम् , भूतलं यथा घटाभावः, सङ्कोचोपरिवेद्यांशच्छायाच्छुरितं तु चित्तत्त्वमेव बुद्धिप्राणदेहादि इति । अमी एव भूमिकाविशेषा उत्तरोत्तरमारोहतां योगिनां जाग्रदादितया पिण्डस्थादितया चागमेषु भण्यन्ते , अपहस्तनं च व्याख्यास्यतेः

{कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् ।
अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥}

इति , तत्स्थितम् ---- अशुद्धः <अहम्> इत्यवमर्शो विकल्प एव ॥५॥

द्विविधोऽपि चायम् <अहं--प्रत्ययो> द्विधा ---- अनुभवमात्ररूपश्चानुसंधानात्मा च , शिवात्मनि <अहम्> इति सदाशिवात्मनि <अहमिदम्> इति शुद्धो द्विधा । अशुद्धोऽपि अहं स्थूल इति , योऽहं स्थूलोऽभवं सोऽहं कृश , बालो , युवा , स्थविरः , स एव अहमिति च अशुद्धो द्विविधः । तत्र शुद्धे विकल्परूपत्वमप्रतिष्ठमेव इत्युक्तम् , अशुद्धे तु अनुभवरूपे विकल्पत्वमुपपादितम् , अशुद्धेऽपि तु अनुसंधानात्मकतया अभेदस्य प्रस्फुरणात्कश्चिदविकल्पकत्वं शङ्केत तस्य व्यामोहं व्यपोहितुमाह

कादाचित्कावभासे या पूर्वाभासादियोजना ।
संस्कारात्कल्पना प्रोक्ता सापि भिन्नावभासिनि ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ ६ ॥

<देहे> इत्यादि वर्तते , कादाचित्कः कदाचिद्भवो नियतदेशकालाकारोऽवभासो यस्य देहादेः स्वलक्षणरूपस्य , तत्र या पूर्वाभासेन बालादिशरीरावभासेन योजना <योऽहं बालः> स एवाद्य <युवा > इत्यनुसंधानम् , आदिग्रहणादुत्तरेण भाविना आभासेन सह योजना <स्थविरो भवितास्मि> इति , सा योजना सर्वा कल्पना विकल्प एव , न तु शुद्धः प्रत्यवमर्शः । अत्र देहादेर्विशेषणं हेतुत्वाशयेन ---- यतो भिन्नतावभासित्वमेव देहादेस्तदानीमपि अविछिन्नम् , यदि हि तस्य देहादेः सर्वतः पूर्णत्वमवच्छेदहीनत्वं पश्यननुसंधानम् <अहमिदम्> इति विदध्यात्तदियं सदाशिवभूः केन विकल्पात्पदत्वेन भण्येत यावताऽविच्छिन्ने एव सोऽनुसंधिः । भिन्नेपि(क्स्स्हि) कथमनुसंधानमिति चेदाह <संस्कारात्> प्राक्तनानुभवकृतवासनाप्रबोधजस्मृतिवशातिति यावत्, प्राणे बलाबलवशादनुसंधिः , बुद्धौ ज्ञानसुखादितारतम्यात्, शून्ये वैतत्यावैतत्ययोगात्, अयमपि विकल्प एव , एवं <स एवायं घटः> इति घटाद्यनुसंधानेऽपि विकल्पत्वं मन्तव्यम् , किन्तु एतासु अनुसंधानभूमिषु विद्याशक्तिराधिक्येन अचिरद्युतिवद्दीप्यते इति तासां परपदपरिशीलनप्रथमकल्पाभ्युपायत्वमभ्युपागमन् गुरवः ॥६॥

न च देहादीनां पूर्वपूर्वप्रमातृवेद्यता येन प्रमातुरप्रकाशे प्रमेयं न भाति तत्प्रकाशश्च न पूर्वप्रकाशं विना , सोऽपि न प्रमात्रन्तरप्रकाशं विना इत्यनवस्था स्यात्, अपि तु शुद्धप्रकाश एव विश्वस्य प्रकाश इति निरूपयनुक्तयुक्त्या सदैव सृष्ट्यादिशक्त्यवियोगो भगवत उक्तो भवति , इति दर्शयति

तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् ।
भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ ७ ॥

यत्पूर्वं दर्शितं <देहे बुद्धौ> इत्यादि ततेवमुपपद्यते , कथम् ? यदि व्यवहारे मायापदे देहप्राणादिमपि प्रभुरेव प्रकाशपरमार्थ इच्छया मायाशक्तिरूपया , आविशन् देहप्राणादिप्राधान्येन स्वरूपं प्रदर्शयन् , अन्तः संबिन्मात्रे , भान्तमहमित्येवंरूपमर्थौघमिच्छयैव बहिः इदमिति भासयति तत एतदुपपद्यते , अन्यथा तु अनवस्था स्यात् । हेतौ लिङ् । अपिशब्द एवशब्दश्च भिन्नक्रमौ , यतेतावतुक्तम् , तदिति , तस्माथेतोः , एवं जातं वक्ष्यमाणरूपम् , किंतत्? यत्किल प्रभुः परस्परं व्यवहारकाले क्रयविक्रयप्रेक्षाव्याख्यादौ चैत्रमैत्रादिसंबन्धिनो देहप्राणादीनेकतया तावति व्यवहारे आविशनन्तर्भान्तमेव अनुज्झितान्तःप्रकाशमेव सन्तं बहिः एकाभासतया भासयति इति संभाव्यते इत्येतज्जातम् , इति संभावनायां लिङ् । तेन तेन प्रमात्रा सह अस्मिन्काले ऐक्यं सृज्यते , अन्येन प्रमात्रा ऐक्यं संह्रियते , घटादिमात्ररूपे स्थितिः क्रियते , पूर्णस्वरूपनिमीलनात्तिरोभाव आधीयते , तावत्याभासे ऐक्यावभासपूर्णत्ववितरणातनुग्रहः क्रियते , तेन न केवलं महासृष्टिषु महास्थितिषु महाप्रलयेषु प्रकोपतिरोधानेषु दीक्षाज्ञानाद्यनुग्रहेषु भगवतः क्र्ट्यपञ्चकयोगः यावत्सततमेव व्यवहारेपि । यदुक्तम्

{सदा सृष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥}

इति ।

{प्रतिक्षणमविश्रान्तस्त्रैलोक्यं कल्पनाशतैः ।
कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥}

इत्यादि च । तथा

{ प्राकाम्यमात्मनि यदा प्रकटीकरोषि ।
व्यक्तोः ॥}

इति च ॥७॥

इह अन्तरर्थाभावभासः स्थित एव , तत्किं तत्र कारणान्तरचिन्तया इति प्रकृतं प्रमेयम् , तत्सिद्धये उपपत्तिः उक्ता , तेन विना इच्छारूपः प्रत्यवमर्शो न स्यातिति , तत्प्रसङ्गात्प्रत्यवमर्शविकल्पादिस्वरूपमुपपादितम् , इति शिष्याणां धियं समाधातुं प्रकृतं प्रमेयमुपपादयनुपसंहरति

एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे ।
ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ ८ ॥

प्रकाशात्मा परमेश्वर एव यतो देहादिप्रमातृताभिमानदशायामपि वस्तुतः प्रमाता , <एवम्> इति , अतो हेतोः इदं सिद्धं भवति ---- स्मरणे अपोहनजीविते च विकल्पे अनुभवज्ञाने च अन्तराभासः प्रकाशविश्रान्तः स्थित एव , नात्र संशयः कश्चित्, यदि हि देहादिरेव परमार्थप्रमाता स्यात्तत्शरीरस्य प्राणस्य धियः शून्यस्य वा अन्तर्घटादि इति न किंचितेतत्---- घटादिपरिहारेण देहादेः स्थितत्वात् । परमार्थप्रकाशस्तु सर्वंसहः इति तत्रान्तर्विश्वम् , इति अनायाससिद्धमेतत् ॥८॥

ननु अन्तराभासवर्गस्य बहिराभासनं यदि सर्वत्रास्ति कस्तर्हि स्मरणादौ आभासभेदः , न च असौ न संवेद्यते ---- स्फुटतास्फुटतादिप्रस्फुरणस्य अनपह्नवनीयत्वातित्याशङ्क्याह





किंतु नैसर्गिको ज्ञाने बहिराभासनात्मनि ।
पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ ९ ॥

अनुभवज्ञानस्य <इदं नीलम्> इति अन्तरवभासं वहिराभासयतः स्वान्तर्भावाभासो नैसर्गिक
निसृष्टेः स्वातन्त्र्यातायातो न तु स्मरणादेरिव अन्यज्ञानकृतवासनादिबलात् । स्मरणे उत्प्रेक्षणे प्रत्यक्षपृष्ठभाविनि अध्यवसाये च योऽन्तर्नीलाद्यवभासो बाह्यतया अध्यवसायितव्यः नासौ स्वात्मोयः अपि तु पूर्वानुभवसंस्कारजोऽसौ , तत्र संस्कारो नाम अनुभवस्य कालान्तरेऽपि अनुवर्तमानता , अतोऽसावनुवर्तमानोऽनुभवो यतो नीलाद्याभाससंभिन्नः ततः तत्तादात्म्यापन्नं स्मरणाद्यपि तथा निर्भासते , तत एव स्मरणकालासंभवी आभासः तदनुभवपूर्वकालकलित एवेति स्वयं स्मरणादेर्निर्विषयत्वं गृहीतग्राहित्वं च उद्धोष्यते । एतदेव अस्फुटत्वम् , इति सिद्धोऽनुभवस्मरणादौ आभासभेदः अन्तराभासवर्गस्य बहिराभासनमन्याव्यवधानेन स्फुटता , व्यवधानेन तु तात्कालिकत्वाभावातस्फुटता इति ॥९॥

ननु अनुभवज्ञानातैन्द्रियकातन्यत्सर्वं ज्ञानं व्यवधानेन बहिराभासनरूपं प्राप्तमित्याशङ्क्य प्रविभागमाह





स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि ।
यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६ १० ॥

यः प्रत्यक्षव्यापारमनुपजीवन् व्याक्षेपसारतया मनोराज्यसङ्कल्पादिविकल्पः स स्वरं कृत्वा स्वप्रेरणेन प्रप्रेरणनैरपेक्ष्येण स्वातन्त्र्येण चरति उदेति व्ययते च , तत्र यो बहिराभासो नीलादेः अन्तराभासमयस्य स नैसर्गिक एव , तथा हि अपरिदृष्टपूर्वमपि श्वेतं दशनशतकलोतकरयुगलयुक्तं दन्तिनमन्तः प्रमातृभूमौ स्थितं बहिः अन्तःकरणभूमौ स्वच्छधीदर्पणात्मिकायां स विकल्पः तात्कालिकमेव भासयति ॥१०॥

ज्ञानाधिकारे सप्तमाह्निकम् ।सम्पाद्यताम्


अस्माच्च अन्तराभाससंभवसमर्थनप्रसङ्गागताताभासभेदविचारात्शास्त्रे यत्प्रयोअनं मुख्यतया अभिसंहितं स्वात्मनि ईश्वरप्रत्यभिज्ञानरूपं तदधिकरणसिद्धान्तनीत्या अनायाससिद्धमिति दर्शयति

अत एव यथाभीष्टसमुल्लेखावभासनात् ।
ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ १ ॥

<प्रतिभाति घटः> इति यद्यपि विषयोपश्लिष्टमेव प्रतिभानं भाति तथापि न तद्विषयस्य स्वकं वपुः , अपि तु संवेदनमेव तत्तथा चकास्ति <मां प्रति भाति> इति प्रमातृलग्नत्वात् । तथा च वेद

{तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति ।}

इति । शत्रा अविरतस्फुरणत्वं कर्मप्रवचनीयेन तदीयस्वातन्त्र्योपकल्पितनिर्माणक्रियाजनितो वेद्यवेदकभावरूपो लक्षणात्मा संबन्धो द्योतितः , केवलं विषयोल्लेखनबलात्बहिः क्रमावभासः समर्थितः , स स क्रमयौगपद्यादिविचित्ररूपो यः पदार्थानां वक्ष्यमाणेश्वरस्वातन्त्र्यरूपदेशकालशक्त्युपकल्पितः क्रमः देशकालपरिपाटी , तेन रूषिता प्रतिबिम्बकल्पतया उपरक्ता , या प्रतिभा उक्ता

{केवलं भिन्नसंवेद्य ।}

इत्यादिना । एषा इति च सर्वस्य स्वकाशरूपा , परमार्थतश्च अन्तर्मुखत्वेन प्रकाशमात्रपरमार्थतया भेदाभावातक्रमा , सैव महेश्वरः , अविद्यमानोऽन्तः परिच्छेदो देशतः कालतः स्वरूपतश्च यस्याः चित्तः संविदः तदेव रूपं यस्य इति , अत एव बहिर्मुखप्रकाशात्मकविज्ञानस्वभावस्य प्रमाणवर्गस्य योऽन्तः प्रत्याभासम् <इदमिदम्> इति अनन्त ---- कल्पः विकल्पमयो विमर्शात्मा प्रमासमूहः , तत्र संयोजनवियोजनविश्रमादिरूपानेकप्रकारस्वातन्त्र्यपरिपूर्णः शुद्धाहंप्रत्यवमर्शमयः प्रमाता स भण्यते , अतश्च बहिर्घटप्रकाशः <अयं घटः> इति अन्तर्विकल्पः स्वीकृतपूर्वरूपः <अहम्> इति तदुभयविश्रान्तिस्थानम् , इतीयत्पूर्णं प्रकाशस्य स्वरूपम् ॥१॥

अत्रैव उपपत्तिं प्रदर्शयितुमन्वयं तावदाह

तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि ।
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ २ ॥

<संविन्निष्ठा हि विषयव्यवस्थितयः> इति यतुच्यते तत्न भिन्नरूपप्रकात्मकसंविन्मात्रविश्रान्त्या सिद्ध्यति अपि तु तास्ता विभिन्नाः संविदो निश्चयरूपाः प्रमात्मानो याः तानि एव मुखानि द्वाराणि उपाया मार्गाः तैः मुखैः नदीस्रोतःस्थानीयैः यदि अमी भावा नीलसुखादय उह्यमाना एकस्मिन् <अहम्> इति प्रमातृरूपे महासंवित्समुद्रे प्रतितिष्ठन्ति आभिमुख्येन विश्रान्तिं भजन्ते , तत एषु परस्परं समन्वयरूपं तत्ज्ञातेयं ततुपपत्त्या घटते , ज्ञातीनां भावः तच्छब्दप्रवृत्तिनिमित्तं परस्परं जानीयुः इति , कर्म च अन्योन्ययोगक्षेमोद्वहनात्मकं ज्ञातेयम् , तच्च समन्वयाभिप्रायेण इह दर्शितम् , न जडानां स्वतः समन्वयः कदाचिदपि इति प्रतिपादयितुम् ॥२॥

तथा च व्यतिरेकमुखेन एतदेवाह

देशकालक्रमजुषामर्थानां स्वसमापिनाम् ।
सकृदाभाससाध्योऽसावन्यथा कः समन्वयः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ ३ ॥

अर्थानां जडानाम् , तज्ज्ञानां तद्विकल्पानां तन्निश्चयानां च देशक्रमं कालक्रमं चात्यजताम् , स्वसमापिनाम् ---- स्वरूपमात्रप्रतिष्ठानाम् , कः समन्वयः , न कश्चितित्यर्थः , यतो हि असौ समन्वयः सकृदाभासेन देशकालाकारमिश्रीकरणात्मना योजनाभासेन साधयितुं शक्यः नान्यथा , न हि पृथक्पृथक्परिक्षीणेषु स्रोतःसु तदुह्यमानाः तृणोलपादयः समन्वयं कंचित्यान्ति इति । अनेकत्वेन देशकालादिभेद इत्याशयेन सकृच्छब्दः तन्निषेधतात्पर्येण प्रयुक्तः ॥३॥

तत्र कोऽसौ समन्वय इत्याशङ्क्य बहुतरव्यापकं कार्यकारणभावं तावत्दर्शयति

प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् ।
कार्यकारणतासिद्धिहेतुतैकप्रमातृजा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ ५ ॥

इह अनुभूतो विषयः प्रकाशते स्मृतौ , तत्र विषयस्यासौ स्मृतिः न नूतनः प्रकाशः अपि तु अस्य स प्रकाशः प्राच्योऽनुभव एव , स चानुभवो ज्ञानरूपत्वेन ज्ञेयरूपत्वाभावात्न ज्ञानान्तरसंवेद्यः अपि तु स्वप्रकाशः , स च स्मृतिकाले यदि असन् तत्कथं प्रकाशताम् , भवतु वा असौ तथापि स्मृतिः स्यात्, तस्मातेततेवमुपपद्यते , यदेव स्मृतिस्वसंवेदनम् , तदेव अनुभवस्य स्वसंवेदनम् , न तु अपरं स्वसंवेदनव्यतिरिक्तं प्रत्यक्षमनुमानादिकं वा तत्र क्रमते , ततश्च तावत्कालापि अविछिन्नमेकं यत्स्वसंवेदनं तदेव <प्रमातृत्त्वम्> इति सिद्धम् । अन्यत्र अनुभवितरि स्मर्ता अन्यो न उपपद्यते , इत्यनया छायया स्मृत्या प्रमातृसिद्धिः पूर्वमुक्ता , इदानीं तु स्वसंवेदनैकीभावेन भङ्ग्यन्तरेण इति विशेषः ॥५॥

नन्वनुभवातिरिक्तेऽपि अर्थे सन्तु विकल्पाः प्रमाणम् , अप्रामाण्यं हि बाधबलात्भवति , बाधाभावे तत्कथं स्यादित्याशङ्क्य सोऽपि अयं बाध्यबाधकभावः सत्यासत्यप्रविभाजनया विश्वेषां व्यवहाराणां जीवितभूतो न एकेन प्रमातृतत्त्वेन विना घटत इति वितत्य दर्शयति

बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् ।
ज्ञानानामुदियादेकप्रमातृपरिनिष्ठितेः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ ६ ॥

<बाधाभावे प्रामाण्यम्> इत्येतदर्थमवश्यसमर्थ्यो यो बाधव्यवहारः सोऽपि कथमिति <अपि> शब्दस्यार्थः । इह शुक्त्या तावत्रजतस्य न काचित्बाधा नाम क्रियमाणा दृश्यते , शुक्तिज्ञानेन रजतज्ञानं बाध्यते इत्यपि न युक्तम् , स्वस्मिन् विषये आत्मनि च स्वरूपे द्वयोः ज्ञानयोः परिनिष्ठितयोः विश्र् ।न्तयोः अन्योन्यं विरोधस्य अभावात् । अथ अयं परस्परपरिहार एव विरोधः तर्हि सर्वेषां ज्ञानानां विरोधात्बाध्यबाधकभावस्य स्वात्मनि परिनिष्ठैव न लभ्येति सुतरां विघटेत सत्येतरप्रविभागः । नञपि अत्र तन्त्रेण व्याख्येयः । एतदुक्तं भवति ---- यदि ज्ञानं स्वयं नश्यति तदा किं ज्ञानान्तरेण अस्य कृतम् , न हि तेन तत्कालेऽसंभवता तस्य विषयापहारः कर्तुं शक्यः , न राजतमित्यपि ज्ञानं स्वं रजताभावं विषयीकुर्वत्न विषयमपहरेत्रजतज्ञानस्य । अथापि ज्ञानान्तरेण नाश्यते इत्यपि पक्षः , तत्रापि सर्वेषां ज्ञानामियमेव सरणिरिति किंचिदेव बाध्यमिति कथं स्यात्? यदा तु रजतज्ञानं शुक्तिज्ञानं च एकत्र स्वसंवेदने विश्रान्यतः तदा एततुपपद्यते , तथा हि ---- एकत्रापि प्रमातृतत्त्वे विश्राम्यतां ज्ञानानां नैकप्रकारैव विश्रान्तिः अपि तु विचित्रतयैव सा संवेद्यते , तथा हि ---- नीलमिति उत्पलमिति ज्ञाने प्रमातरि विश्राम्यन्ती परस्परोपरागाभासेन विश्राम्यतः । घट इति पट इति परस्परानाश्केषेण , शुक्तिका इति न रजतमिति वा ज्ञानं रजतमिति ज्ञानस्य उन्मूलनं तदीयविमर्शात्मकप्रमारूपव्यापारानुवर्तनविध्वंसं कुर्वत्प्रमातरि प्रतिष्ठां भजते । एवं कार्यकारणभावादौ विश्रान्तिवैचित्र्यं प्रमेयासंभवि प्रमात्रा स्वातन्त्र्येण निर्मितं तत एव अस्य प्रमास्वतन्त्रतादायि वाच्यम् । एवमेकत्र प्रमातरि पूर्वज्ञानस्य परिवर्जनेन यतो निश्चिता स्थितिः , इति बाध्यबाधकव्यवहार उपपन्नः , नीलादिवत्किल तानपि व्यवहारान् स एव परमेश्वरः स्वातन्त्र्याताभासयति तत्तेऽपि सत्या एवेति ॥६॥

अत्र परकीयं मतमाशङ्कते दूषयिष्यामीति

विविक्तभूतलज्ञानं घटाभावमतिर्यथा ।
तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ ७ ॥

इह शुक्तिकाज्ञानं स्वात्मानं संविदत्स्वात्माभिन्नं प्रमाणत्वं बुध्यते , <तत्परिच्छिनत्ति> इति न्यायात्, तत्परिच्छेदनान्तरीयकश्च अन्यव्यवच्छेद इत्यशुक्तिज्ञानरूपस्य रजतज्ञानस्य अप्रमाणत्ववेदनं तदेव उच्यते यतेतत्शुक्तिकासंवेदनाभिन्नप्रमाणत्ववेदनम् , न च एततपूर्वं यत्वस्त्वन्तरज्ञानमेव वस्त्वन्तराभावज्ञानमिति , शुद्धभूभागग्रहणमेव हि घटाभावग्रहणमिति प्रसिद्धमेतत् । एवमप्रमाणत्वसंवेदनमेव रजतज्ञानस्य बाध्यत्वमुच्यते , अतश्च बाध्यबाधकत्वमेवं सिद्धमिति चेतस्माभिः उच्यते ---- तत्किं प्रमात्रैक्येनेति ॥७॥

अत्र प्रसङ्गातभावव्यवहारस्य सिद्धौ तत्त्वमुपपादयिष्यन् दृष्टान्तमेव तावत्परदर्शने दूषयति

नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मना ।
न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ ८ ॥

यो दृष्टान्त उक्तः स एव न , कुत इति चेतुच्यते <इह भूतलं न घटः> इति तादात्म्येन अभावो व्यवहर्तव्यः कदाचित्, कदाचित्व्यतिरेकेण <इह भूतले घटो न > इति । तत्र शुद्धभूतलज्ञानाताद्योऽयं व्यवहारः सिध्यति , यत्र दृश्यत्वं न उपयोगि , उपलब्धिलक्षणप्राप्तिरपि हि यस्य नास्ति पिशाचादेः स्वभावबलात्, यस्य वा शब्दादेः तद्गाहकश्रोत्रादिसामग्रीसाकल्यस्य तत्र एकज्ञानसंसर्गिवस्त्वन्तरप्रतिपत्त्यभावेनानिश्चयात्तस्यापि तादात्म्येनायमभावो गृह्यते <भूतलं न पिशाचो न शब्दः> इति , यत्र तु दृश्यत्वं विशेषणमवश्यमपयोगि तत्र व्यतिरेकेण अभावे व्यवहर्तव्ये न एषोऽभ्युपायः ॥८॥

कुत इति चेत्---- अतिअप्रसङ्गादिति ब्रूमः । तमेव दर्शयति

विविक्तं भूतलं शश्वद्भावानां स्वात्मनिष्ठितेः ।
तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ ९ ॥

विद्यमानेऽपि घटे भूतलं शुद्धमेव , न हि भावा मिश्रीभवन्ति , ततश्च तदापि शुद्धभूतलज्ञानमस्ति , इति सत्यपि घटे कथमभावो व्यतिरेकेण न व्यवह्रियते <अत्र भूतले घटो नास्ति> इति , <तज्ज्ञानम्> इति विविक्तभूतलभागज्ञानम् , <जातु> इति कस्यांचिदेव दशायां घटासंनिधानरूपायाम् , भिन्नस्य घटस्य अभावं साधयति न तु सर्वदा इति केन प्रकारेण भवेत्, एतेन अत्र भूतले पिशाचो नास्ति इत्यपि स्यादिति आपतितं मन्तव्यम् ॥९॥

नन्वेवं व्यतिरेकाभावनिष्ठो व्यवहारो लोके तावतविगीतः अस्यांचिदेव दशायां दृष्टः , तत्र का गतिरित्याशङ्क्य चिरन्तनैरपरिदृष्टं तत्सिद्धिप्रकारं दर्शयति

किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः ।
तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ १० ॥

इह भाव एव भावान्तरस्य अभाव इति व्यवहर्तव्यः इति अयं तावतपरित्याज्यः प्रातीतिकः पन्थाः , तत्र भावस्य भावान्तरेण य आधार्याधारभावः स एव भावतदभावयोः , ततश्च भूतले घटव्यतिरिक्तं वस्त्वन्तरं शिलादिकमालोकपुञ्जादिकं वा यत्चाक्षुषे ज्ञाने भाति तदेव व्यवह्रियते <भूतले घटाभावः , भूतले घटो नास्ति> इति वा , यत्रापि नास्ति चक्षुर्व्यापारो नेत्रनिमीलनसंतमसादौ तत्रापि भूतले घटोचितकठिनस्पर्शविविक्तं मृदुमुष्णं शीतमनुष्णाशीतं वा गृह्णन् तमेव अत्र घटाभाव इति व्यवहरति वायुस्पर्शस्य सर्वगस्य अवश्यंभावात्, इति वाक्यार्थः । पदार्थस्तु ---- <किं तु> इति स्वमतोपक्षेपाय स्वप्रतिभाप्रश्नपरामर्शः , किं पुनरत्र न्याय्यमिति तत्राह <तत्र > भूतले <आलोकचयः> तावतस्ति ज्ञेयः , <अन्धस्य उष्णादिकः स्पर्शः> अस्ति , <तस्य> आलोकचयस्य स्पर्शस्य वा यत्<स्वज्ञानम्> अन्यघटादिविविक्तेन स्वेन रूपेण ज्ञानं तत्कर्तृ , <तस्य> आलोकादेः अघटरूपतां घटाभावरूपतां <तत्र> भूतले साधयति इति शक्योऽ यमर्थः । {शकि लिङ्च}(पा सू ३-३-१७२) इति लिङ् । आन्तरप्राणस्पन्दनजनितसूक्ष्मशब्दाकर्णनाच्च श्रोत्रादिसाकल्यं संभवायमानः तमेव शब्दमेकज्ञानसंसर्गिणं शृण्वन् शब्दान्तरं निषेधयति <न इह अन्यः शब्दः> इति । तत्सूक्ष्मशब्दाभावमपि सूक्ष्मतमान्तर्नादावहितश्रोत्रो वेदयते , रसगन्धस्पर्शाभावोऽपि दन्तोदकरसं त्रिपुटिकागन्धं कायीयं च स्पर्शं संवेदयमानेनैव रसाभावो वेद्यः , न हि एकज्ञानसंसर्गयोग्यवस्त्वन्तरोपलम्भेन विना उपलब्धिकारणसाकल्यनिश्चयोऽस्ति , इति एकान्त एषः । अचिरप्रवृत्ततत्तद्विषयानुभवकल्पितस्य तदैव ध्वंसानाशङ्कनात्करणस्य कारणसाकल्यनिश्चयः किमेकज्ञानसंसर्गितया इति चेत्न , तत्त्वभावोपलिप्सुर्हि प्रयत्नेन तत्तदिन्द्रियाधिष्ठानं व्यापारयन्नेव लक्ष्यते ॥१०॥

नन्वेवमदृश्यास्यापि पिशाचादेः निषेधव्यवहारो व्यतिरेकेणापि प्राप्नोति , स हि आलोकपुञ्जो यथा घटातन्यः तद्वत्पिशाचादेरपि । तदेतताशङ्क्याह





पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा ।
अदृश्यो भूतलस्यान्तर्न निषेध्यः स सर्वथा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ ११ ॥

आलोकपुञ्जो यद्यपि पिशाचाद्व्यतिरिक्तो यद्यपि च आलोकोऽस्ति अपिशाचात्मा इत्येतावत्सिद्ध्यति तथापि अत्र <पिशाचो नास्ति> इत्येततशक्यमध्यवसातुम् ,
घटो हि आलोकपूरमध्येऽपि असंभाव्यः , घटसंनिधौ तत्र आलोकपूरासमर्पणात्, अतश्च सिद्ध्यतीदम् <अत्र घटो नास्ति> इति , पिशाचस्तु तादृक्स्वभावो यो भूतलमध्ये आलोकमध्येऽपि वा भवन् भूतलस्य आलोकस्य वा तां निबिडतां न विहन्ति , ततश्च आलोकमध्ये तस्य संभावनात्कथं व्यतिरेकेण निषेधव्यवहारः , एवं रूपमध्ये रसादेः संभावनात्तस्यापि अनिषेधः । यद्यपि अनालोकः आलोकातन्यः पिशाचः तथापि असौ भूतलस्य अन्तर्मध्येऽदृश्यो भवति इति संभाव्यते यथा , तद्वदेव आलोकस्याभ्यन्तरेपि सोऽस्ति इति संभाव्यत एव , ततश्च यद्यपि आलोकस्ततोऽन्यः इत्यनेन पथा निषिद्धः पिशाचः तथापि सर्वप्रकारेण न निषिद्धः इति तदभावनिबन्धनाः कथं तत्र व्यवहाराः प्रवर्तन्तामिति श्लोकार्थः ॥११॥

एवं प्रसङ्गातभावव्यवहारस्य तत्त्वमुपदर्श्य प्रकृते योजयति





एवं रूप्यविदाभावरूपा शुक्तिमतिर्भवेत् ।
न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ १२ ॥

यथा आलोको घटाभाव इति आलोके गृहीते प्राक्गृहीतस्य घटस्य न किंचितायातं तथैव शुक्तिज्ञानं रूप्यज्ञानाभाव इति इयत्संभाव्यते । यथा घटज्ञानं घटज्ञानप्रामाण्यसंवित्पटज्ञानाभावः पटज्ञानाभावप्रामाण्यसंवितियता च न पूर्वप्रवृत्तं पटज्ञानमप्रमाणीभवति , एषा हि तस्य घटज्ञानस्य स्वरूपचिन्ता सर्वा न ज्ञानान्तरस्य आद्यस्य किमपि अतो जातम् । एवं शुक्तिरियमिति , न रजतमिदमिति च ज्ञानमेव स्वात्मना प्रकाशताम् , अहं शुक्तौ रजताभावे च प्रमाणं न तु रजते इति , तावता तु प्राक्तनस्य रजतज्ञानस्य न किंचित्वृत्तमिति तद्विषयीकृतं रजतं कथमसत्यं स्यात् ॥१२॥

नन्विदमित्यनेन तदेव परामृश्यते यत्र रजतज्ञानमभूत्तत्रैव इदानीं <न रजतम्> इति <शुक्तिः> इति च ज्ञानं प्रमाणभूतं जातम् , तततोऽनुमीयते ---- तत्<प्राच्यं रजतज्ञानमप्रमाणम्> इति , न हि एतत्संभवति ---- विरुद्धविषयद्वयावगाहि ज्ञानद्वयं प्रमाणमेकत्र विषयीभवति इति , तदयमानुमानिको बाधव्यवहारो भविष्यति इत्याशङ्क्याह





धर्म्यसिद्धेरपि भवेद्बाधा नैवानुमानतः ।
स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ १३ ॥

न केवलं स्वसंवेदनात्न सिद्ध्यति बाधा , यावतनुमानतोऽपि न सिद्ध्यति , धर्मिणोऽसिद्धेः , अपिशब्दाथेतोः व्याप्तेश्च , अपिः उभयत्र नेयः , इह धर्मिणि सिद्धे सिद्धेन हेतुना स्मर्यमाणव्याप्तिकेन साध्यधर्मायोगव्यवच्छेदोऽनुमानव्यापारः , इह च प्राच्ये रूप्यज्ञाने धर्मिणि अप्रामाण्यं साध्यो धर्मः तत्र शुक्तिकाज्ञानं वा , न रजतमिति ज्ञानं वा , तज्ज्ञानविषयीकार्यत्वं वा विषयगतं हेतूक्रियेत , न चैतत्युक्तं तत्काले प्राच्यरूप्यबोधस्य धर्मिणोऽभावात्, न चापि तस्य शुक्तिज्ञानादयो धर्माः , न च अपक्षधर्मात्साध्यसिद्धिः , अतः स्मर्यमाणं तद्धर्मि स्यातित्यपि असत् । अथ शुक्तिः न रजतज्ञानस्य विषय इति साध्यते शुक्तिकाज्ञानविषयत्वातिति , तत्यदि इदानीं तदा सिद्धसाधनम् , अथ पूर्वं तदा तत्पूर्वस्वसंवेदनेन बाध्यविषयता । केन चैवं व्याप्तिर्गृहीता ---- यत्र इदानीमन्यत्ज्ञानं तत्र पूर्वमन्यत्न भवति इति , अनुमानन्तरेण इति चेत्, अनन्वस्था । एतेन एतत्प्रत्युक्तम् ---- एकस्मिन् विषये कथं ज्ञानद्वयं स्यातिति , को हि एकविषयतां तयोर्ज्ञानयोः जानीयात्, ते हि तावत्स्वात्मनि स्वविषये च विश्राम्यते इति उक्तम् , इति अनुमानतोऽपि न बाधा , न च तथाभूतमपि व्यवधानमत्र प्रतीतौ संवेद्यते , स्वसंवेदनसिद्धतया झटिति भासनात् । अत एव एतदपि अशक्यं वक्तुम् ---- मा भूत्बाधा नाम इति ।

एवं परपक्षेऽनुपपत्तिं प्रदर्श्य स्वपक्षे एकप्रमातृपरिनिष्ठितेः उदियात्बाध्यबाधकभाव इति वाक्येन प्रतिज्ञातं निगमयति ---- युक्ता सा एकस्मात्प्रमातुः यदि जायेत इति , स एव हि तथा निर्माता इति व्याख्यातमेव , स्थिते चैवं यदि व्यवहारसिद्धयेऽन्यथानुपपत्तिरप्युच्यते ततुच्यतां कामम् , अधुना सर्वं सिद्ध्यति , इति ॥१३॥

न केवलमेते कार्यकारणभावस्मरणबाधाव्यवहाराः सकललोकयात्रासामान्यव्यवहारभूता एकप्रमातृप्रतिष्ठाः , यावतवान्तरव्यवहारा अपि ये क्रयविक्रयादयः समलाः , उपदेश्योपदेशभावादयश्च निर्मलाः , तेपि एकप्रमातृनिष्ठा एव भवन्ति , व्यवहारा हि सर्वे समन्वयप्राणाः इति उपसंहारक्रमेण दर्शयति





इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ ।
समलो विमलो वापि व्यवहारोऽनुभूयते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७ १४ ॥

<तत्तद्विभिन्न> इति श्लोकद्वयोक्तेन अनेन उपपत्तिप्रकारेण , अन्वयव्यतिरेकात्मना , तथा श्लोकान्तरैरुक्तेन व्यवहारोदाहरणप्रकारेण इदमपि मन्तव्यम् ---- यत्विभौ देशकालानवच्छिन्ने , अत एव अत्यर्थभिन्नैः मायाबलात्भेदैकप्राणितैः नीलसुखाद्याभासैः प्रतिबिम्बकल्पैः अनतिरिक्ततया वर्तमानैः , खचिते स्वरूपानन्यथाभावेन उपरक्ते , विश्रान्तः सर्वो व्यवहारोऽनुभूयते , अनुभव एव अत्र दृढतमं प्रमाणमिति यावत्, अनुभूयते च सोपदेशैः अवधानपरैः येन एषां यैव संसारदशासंमता व्यवहारदशा सैव प्रमातृतत्त्वप्रख्यात्मिका शिवभूमिः । यदुक्तम्





{ संबन्धे सावधानता ॥}

इति । अप्रत्यभिज्ञातात्मपरमार्थानां समलो व्यवहारः , अन्येषां स एव निर्मलः ॥ इति शिवम् ॥१४॥ आदितः ॥७७॥

इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरतितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यव्याख्योपेतायां प्रथमे ज्ञानाधिकारे एकाश्रयनिरूपणं नाम सप्तममाह्निकम् ॥ ७ ॥

_______

ज्ञानाधिकारे अष्टममाह्निकम् ।सम्पाद्यताम्


अथ ज्ञानाधिकारे माहेश्वर्यनिरूपणं नामाष्टममाह्निकं प्रारभ्यते ।

{स्वसंवेदनसंसिद्धव्यवहारवशेन यः ।
नित्यं महेश्वरः सिद्धः सिद्धानां तं स्तुमः शिवम् ॥}

एवं ज्ञानस्मरणापोहनानि व्युत्पाद्य एषामेकमाश्रयं विना व्यवहारो न युक्तः इति निरूपितमेतावता ,

{न चेदन्तः कृता }

इत्यत्र यतुक्तम् <एकः> इति तत्परिघटितम् । अन्तराभाससमर्थनेन <अन्तःकृतानन्तविश्वरूपः> , इत्यपि निरूपितम् । यदत्रैव <महेश्वरः> इति उक्तं तन्माहेश्वर्यं स्वातन्त्र्यरूपमुपपादयितव्यम् , तच्च ज्ञानविषयं क्रिया ---- विषयं च इत्युभयप्रकारम् , तत्र यतो भगवान् ज्ञाता कर्ता च , यद्यपि च प्रकाशविमर्शात्मकं चिदेकघनमेकमेव संविद्रूपम् , तथापि व्युत्पादनाय तत्परिघटित एव अयं विभागः , तेन ज्ञानात्मकक्रियाविषयं स्वातन्त्र्यं यद्यपि क्रियाशक्तिरूपं तथापि तत्ज्ञानाधिकार एव निर्णेतव्यं तद्विषयत्वात् । एवं च ज्ञातृशब्दार्थः प्रकृतितः प्रत्ययतश्च संपूर्णतया निर्णीतो भवति । तत्र ज्ञानं नाम स्वयंभेदिताभासभेदोपाश्रयनियन्त्रणासंकुचितम् <अहमिति> संवेदनम् । तत्राभासेषु यत्स्वातन्त्र्यं तदेव ज्ञानशक्तिविषयं स्वातन्त्र्यं संपद्यते इति ।

{तात्कालिकाक्षसामक्ष्य ।}
इत्यादिना

{ शुद्धे ज्ञानक्रिये यतः ।}

इत्यन्तेन श्लोकैकादशकेन तत्निरूप्यते । तत्र अभासान्तरापेक्षी च आभासोऽन्यथा वा इति श्लोकेन उक्त्वा , स एव आभास एक इति श्लोकान्तरेण उच्यते । अर्थक्रियाभासोऽपि तथैव आभासनियत इति श्लोकद्वयेन उक्त्वा कस्मिनाभासे सा अर्थक्रिया इति पुनः श्लोकद्वयेन । आभासान्तरविचित्रिताभासभित्तिस्थानीयमान्तरत्वमिति श्लोकेन । ततो बाह्यत्वं स्वरूपतो विभागतश्वेति श्लोकयुग्मेन । ततः श्लोकेन ज्ञानादिशक्त्याश्रयस्य एकस्य उपसंहारः । श्लोकान्तरेण महेश्वरत्वमुपसंहरता भाविनः क्रियाधिकारस्य उपक्षेप इति सङ्क्षेपार्थ आह्निकस्य । अथ श्लोकार्थो निरूप्यते ।

ननु यदि परमेश्वरनिष्ठतयैव समस्तोऽयं व्यवहारः ततस्य स्फुटत्वास्फुटत्वप्रायप्रसिद्धवैचित्र्यानुपपत्तिः , येन किल अयमनुप्राणितः स एक एव भगवान् , न च तद्व्यतिरेकेण व्यवहारस्य निजं किंचन तत्त्वमुत्पश्याम इत्याशङ्क्याह

तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्वचित् ।
आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ १ ॥

विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित् ।
विकल्पेषु भवेद्भाविभवद्भूतार्थगामिषु ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ २ ॥

केवलमेतावता आभासानां भेदो न पुनरर्थावभासस्य स्वात्मगतः क्वचिदपि भेद इति श्लोकद्वयस्य संमेलितस्य संबन्धः । यस्मिन्नेव काले स आभास आभाति तत्काले एव भवति , यतक्षसामक्ष्यं बाह्येन्द्रियप्रत्यक्षत्वं नाम आभासान्तरं पश्यामीत्येवंरूपं तत्सापेक्षाः तद्व्यामिश्राः क्वचिताभासा भवन्ति , यत्र स्फुटताव्यवहारः । अन्धविषयः अन्धकारस्थप्रमातृविषयः पुनः योऽन्यो व्यवहारोस्फुटतामयः तत्र ते आभासा अन्यथा , तथा हि जात्यन्धस्य बाह्येन्द्रियप्रत्यक्षत्वलक्षणमाभासान्तरं नैवास्ति , दृष्टवतस्तु अन्धीभूतस्य संतमसस्ह्तितस्य च तात्कालिकं तत्नास्ति अपि तु प्राक्तनमेव बाह्येन्द्रियप्रत्यक्षत्वमनुसंधत्ते ॥१॥

तस्मातर्थावभासस्य केषुचिदपि विकल्पेषु सत्तायां स्वरूपे विशेषोऽस्ति इति संभावना न कर्तव्या । ते हि विकल्पा भाविवस्तुगामिनो वा भविष्यन्निष्ठा वा भवन्तु अव्र्तमाननिष्ठा वा अतीतवस्तुविश्रान्ता वा । एतदुक्तं भवति ---- नीलमिदं पश्यामि , सङ्कल्पयामि , उत्प्रेक्षे , स्मरामि , करोमि वच्मि इत्यादौ नीलाभासोऽसौ स्वरूपतोऽनूनाधिकः । एवं पश्यामीत्यपि यः पीतादिषु । ते पुनराभासाः स्वातन्त्र्येण यदा भगवता संयोज्यन्ते वियोज्यन्ते च तदा अयं स्फुटत्वादिर्व्यवहारः , नीलमित्याभासस्य उत्प्रेक्षे इत्याद्याभासान्तरव्यवच्छेदनेन पश्यामीति आभासव्यामिश्रणायां स्फुटताव्यवहारः । एवं त्रैकालिकव्यवहारवैचित्र्योपपत्तिः । परमेश्वरस्वरूपान्तर्भूतत्वे पुनराभासानां न कुतश्चित्व्यवच्छेदः न केनचित्व्यामिश्रणा इति ॥२॥

नन्वेतत्नीलादिषु उपपद्यतां यत्र बाह्येन्द्रियव्यापारोऽस्ति सुखादौ तु तदभावात्कथं वैचित्र्यमित्याशङ्क्याह

सुखादिषु च सौख्यादिहेतुष्वपि च वस्तुषु ।
अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थितिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ ३ ॥

गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके ।
तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ ४ ॥

सुखे स्रक्चन्दनादिके च तत्कारणे , दुःखे अहिकण्टकादौ च तद्धेतौ अतीतेऽनागते वा यद्यपि आभासः स एव तथापि अतीतमिदमनागतमिदमिति आभासान्तरेण यतो व्यामिश्रणा अनुभवामीति आभासाच्च यतो व्यवच्छेदः तेन विद्यमानेष्वपि तेषु तस्य प्रमातुः तेन प्रकारेण स्थितिर्न भवति यथा पूर्वनभूतहमधुना सुखो दुःखीति समर्जिततत्तन्निमितसामग्रीको वा इति ॥३॥

यदा तु विकल्पेन तानि वस्तूनि बाढमुल्लिखति तदा पौनःपुन्यविशिष्टसुखतद्धेतूल्लेखनाभिधानकारणाभासानुप्रवेशाताभासान्तरव्यामिश्रणात्मना तेनैव अस्मदुक्तेन प्रकारेण न पुनरन्येन , <तथा> इति , सुखी अहमित्यादिकेन स्थितिः भवति इति संभाव्यम् । उचितमेतत्यतस्तदानीं स्फुटत्वाभासमिश्रं सुखाभासमुपलक्षयति असौ । अतीतग्रहणं भाविनोऽपि उपलक्षणम् ॥४॥

ननु इयता किमुक्तं भवति ---- बाह्यरूपाः स्रगादयः सुखादिहेतवो बाह्यजनिताश्च सुखादयः सुख्यहमिति अभिमानहेतवः इति , ततश्च बाह्यत्वाभावे तज्जन्यत्वाभावे च न तथा उक्तं स्यात्, तत्र च त एव न केचित्, ततश्च कथमुक्तमर्थावभासस्य सत्तायां न क्वापि विशेष इति सत्ताया एव अभावातित्याशङ्क्याह





भावाभावावभासानां बाह्यतोपाधिरिष्यते ।
नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ ५ ॥

इह सुखमस्ति मम , दुःखं नास्ति ममेति ये भावाभासा अभावाभासाश्च तेषां बाह्यत्वं नाम आत्मा स्वरूपं न भवति , न हि सुखमित्यस्य स्वरूपं <बाह्यम्> इति वपुषा भाति , सुखस्य हि सुखमेव स्वरूपं केवलं बाह्यत्वं नाम अभासान्तरमीश्वरेण स्वातन्त्र्यबलादेव यदा तत्र सुखाभासे मिश्रतया भास्यते तदा तत्तस्य उपाधिरूपतामुपरञ्चकतां विशेषणत्वं गच्छति , ततश्च यथा नीलाभासाभावे उत्पलाभासस्य न किंचित्वृत्तं स्वरूपतो राजाभासाभावे वा पुरुषाभासस्य , तथा बाह्यत्वाभासाभावेऽपि सुखाभासस्य दुःखाभावाभासस्य कान्ताभासस्य च न स्वरूपतः काचन म्लानता इति आन्तराणां सदैव स्थितिः एषाम् ॥५॥

इह अन्तःकरणे बुद्धिदर्पणात्मनि नीलादीनामवभासानामान्तरत्वमप्यस्ति अन्तःकरणमध्येभवत्वात्, बाह्यत्वमपि ग्राह्यतारूपं प्रमातुः विच्छेदेनावभासात्, बाह्यत्वं च केवलं बाह्यप्रत्यक्षता , अत्र च अवस्थाद्वयेऽपि अर्थक्रियाममी कुर्वन्त्येव अन्ततो ज्ञानं स्वविषयम् । यत्पुनः प्रमातृतादात्म्यलक्षणमान्तरत्वं तत्र अमी कथं न कांचितर्थक्रियां विदधीरनित्याशङ्क्याह





आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना ।
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ ६ ॥

<प्रमात्रैक्ये> इति , तन्निमित्तकं यतानन्तरत्वं तस्माद्धेतोः , एषामाभासानामर्थक्रिया न काचितस्ति , सा हि अर्थक्रिया भेदे सति भवति , स हि नीलाभासः पीताभासात्यतो भिद्यते यतश्च प्रमातुर्भिद्यते ततः स्वेन साध्यां भिन्नमर्थक्रियां तस्य प्रमातुः कुर्यात्, न च एष तदा भेदेऽस्ति प्रमात्रैक्यात् । सा हि अर्थक्रियाभासभेदनियता , तथा च कान्ताभासस्य बाह्यत्वेऽपि सति आभासान्तरस्य आलिङ्गनलक्षणस्य व्यपगमे दूरीभवति , इयमिति च आभासान्तरस्य उपगमेऽन्यैव प्राक्तनाह्लादविपरीता दृश्यते अर्थक्रिया , अत आभासभेदाभावः यतः प्रमात्रैक्यकृते आन्तरत्वे तस्मात्न अर्थक्रिया इति । अर्थक्रियाभासोऽपि च आभासान्तरमेव इति अर्थक्रियाकारित्वमपि न भावानां सत्त्वम् , येन तदभावे स्वरूपतोऽभावः स्यात् ॥६॥

ननु च बाह्याभासव्यतिभेदनकाले आन्तराभासो विरोधात्विच्छिन्न इति कथमिदमुक्तम् <आन्तराणां य आभासः स सदा> इति ? एतत्परिहरति





चिन्मयत्वेऽवभासानामन्तरेव स्थितिः सदा ।
मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ ७ ॥

इह अवभासानां सदैव बाह्यताभासतदभावयोः अपि अन्तरेव प्रमातृप्रकाश एव स्थितिः , यत एते चिन्मयाः , अन्यथा नैव प्रकाशेरनिति उक्तं यतः । यदा तु मायाशक्त्या विच्छेदावभासनस्वातन्त्र्यरूपया बाह्यत्वमेषामाभास्यते तदा ततवलम्ब्य अवभासमानानामसौ स्थितिः बहिरपि अन्तरपि । नायमन्तराभासो बाह्यत्वस्य विरोधो प्रत्युत सर्वाभासभित्तिभूतोऽसौ , तत्कथं विरोधः इति युक्तमुक्तम् <सदैव आन्तराणां सत्ता> इति ॥७॥

ननु बाह्यत्वे सति अर्थक्रिया , तच्च बाह्येन्द्रियगम्यत्वम् , न च विकल्पोल्लिखितानां तत्संभवति , तत्कथममीषामर्थक्रिया स्यात्, दृश्यते च विकल्पोल्लिखितः पिशाचादिः त्रासादिविधायी इत्याशङ्क्याह





विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः ।
प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ ८ ॥

विमर्शविशेषरूपे विकल्पज्ञाने य उल्लिख्यमानः कान्ताचौरादिः अर्थः सोपि बाह्यः , न केवलं बहिरवलोक्यमानः , यस्मात्सोऽपि प्रमातुः सकाशात्पृथगेव प्रथते <अयम्> इति , यच्च प्रमातरि अहमित्येव विश्रान्तत्वं ततान्तरत्वम् , अन्तरिति निकटम् , तच्च किंचितपेक्ष्य , अपेक्षणीयश्च सर्वत्र प्रमातैव अपेक्षणीयान्तरआभावे , ततश्च प्रमातरि निकटं तादात्म्य ---- प्राप्तमेव इति , ततो यत्भिन्नं तत्बाह्यमेव इति युक्ता उल्लेखस्यापि अर्थक्रिया ॥८॥

ननु कुम्भकारादिव्यापारेण घटादेः अस्तु बाह्यत्वम् , अन्तःकरणगोचरस्य तु किं कृतं ततित्याशङ्क्य आह





उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना ।
इच्छातो भर्तुरध्यक्षरूपोऽक्षादिभुवां यथा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ ९ ॥

अन्तर्विकल्पप्रतिबिम्बतस्य नीलादेः यो बहिरात्मना प्रमातृविच्छिन्नेन स्वभावेन प्रकाशः , स भर्तुः अन्तराभासान् बिभ्रतो बहिः सृष्टिं च पुष्णतः ईश्वरस्यैव इच्छया , यथैव चक्षुरादिविषयभूतानां प्रत्यक्षज्ञानशब्दवाच्यो बाह्यात्मना प्रकाशो नीलादीनाम् । एतदुक्तं भवति ---- कुम्भकारव्यापारो नाम परमार्थतः ईश्वरेच्छैव तदभासितकायस्पन्दपर्यन्ता , न पुनरन्यःकश्चन सः , ततश्च तथा ईश्वरेच्छया प्रकाशातवहिर्भूता अपि नीलाद्या बाह्यकरणगोचरीभूताः कल्पितात्प्रमातुः विच्छिन्नरूपत्वेन बाह्यत्वेन भासन्ते , तथा अन्तःकरणगोचरीभूता अपि इति को विशेषः । सुखदुःखप्रायास्तु भरताद्युक्तरूपाः स्थायिव्यभिचारिरूपा रितिनिर्वेदादयोऽन्तःकरणैकगोचरीभूता बहिरात्मना भान्ति , सङ्कल्पेषु यद्यपि क्षेत्रज्ञस्यैव स्वातन्त्र्यं तथापि चित्परमार्थताया न्यग्भावयितुमशक्यत्वातीश्वरस्यैव तत्वस्तुतः , यथोक्तं ग्रन्थकृतैव





{यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते ।
जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥
तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा ।}

इति । यत्र तु अनिच्छोरेव क्षेत्रज्ञस्य स्वरसवाहिव्याक्षेपसारा साङ्कल्पिकी सृष्टिः तत्र स्फुटः ईश्वरस्यैव व्यापारः । तस्मात्साङ्कल्पिकानामपि बहिर्भावे परमेश्वरेच्छिअव हेतुरिति सिद्धान्तः ॥९॥

अधुना पूर्वोक्तमैक्यं माहेश्वर्यं च निगमयति





तदैक्येन विना न स्यात्संविदां लोकपद्धतिः ।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ १० ॥

स एव विमृशत्त्वेन नियतेन महेश्वरः ।
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८ ११ ॥
यतेतत्पूर्वोक्तेन ग्रन्थेन उपपादितम् , <तत्> इति , तस्माथेतोः , संविदां ज्ञानामैक्येन विना , लोकपद्धतिः लोकमार्गः सर्वो व्यवहारो न संभवेत्, संभवति च अयम् , तस्मातैक्यमासाम् । न चैतत्दुर्घटं यतो विषयप्रकाश एव संवितुच्यते , केवलं विषयोपरागमह्म्ना बहिर्मुखतया नीलप्रकाशोऽन्यः , पीतप्रकाशश्चान्यः , प्रमार्थतस्तु प्रकाशस्य देशकालाकारसङ्कोचवैकल्यातेकत्वमेव , इत्येक एव प्रकाशोऽन्तर्विश्रान्तः , स एव च प्रमाता उच्यते इति स्थितमिदानीमुपपत्तितः ॥१०॥

न च अस्य असौ प्रकाशलक्षणः स्वात्मा नीलाद्युपरागश्च परामर्शन् शून्य एव आस्ते स्फटिक्रम एरिव , अपि तु सदैव विमृश्यमानरूपः , इति विमृशद्रूपत्वमनवच्छिन्नविमर्शता अनन्योन्मुखत्वमानन्दैकघनत्वम् , तदेवास्य माहेश्वर्यम् । स एव हि अहंभावात्मा विमर्शो देवस्य क्रीडादिमयस्य शुद्धे पारमार्थिक्यौ ज्ञानक्रिये , प्रकाशरूपता ज्ञानं तत्रैव स्वातन्त्र्यात्मा विमर्शः क्रिया , विमर्शश्च अन्तःकृतप्रकाशः , इति विमर्श एव परावस्थायां ज्ञानक्रिये , परापरावस्थायां तु भगवत्सदाशिवभुवि इदन्तासामानाधिकरण्यापन्नाहताविमर्शस्वभावे , अपरावस्थायां च मायापदे इदंभावप्राधान्येन वर्तमाने इति विशेषः । सर्वथा तु विमर्श एव ज्ञानं तेन विना हि जडभावोऽस्य स्यातिति उक्तम् , स एव च क्रिया इति भाविनः क्रियाधिकारस्य उपक्षेपं करोति इति शिवम् ॥११॥ आदितः ॥८९॥

इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यव्याख्योपेतायां माहेश्वर्यनिरूपणाख्यमष्टममाह्निकम् ॥ ८ ॥

प्रथमो ज्ञानाधिकारश्च समाप्तः ।

______

क्रियाधिकारे प्रथममाह्निकम् ।सम्पाद्यताम्

[विमर्शिनी]

{विततविशदस्वात्मादर्शे स्वशक्तिरसोज्ज्वलां
प्रकटयति यो मातृस्वांशप्रमेयतटद्वये ।
बहुतरभवद्भङ्गीभूमिं क्रियासरितं परां
प्रकटयतु नः श्रीमान्गौरीपतिः स ऋतं परम् ॥१॥}

{यत्र विश्रान्तिमासाद्य चित्रं क्रीडाविजृम्भितम् ।
क्रियाशक्तिरियात्यन्तं दर्शयेत्तं स्तुमः शिवम् ॥२॥}

अथ क्रियाशक्तिस्वरूपं वितस्य निर्णेतुमधिकारान्तरमारभ्यते ।
तत्र श्लोकाष्टकेन

{अत एव }

इत्यादिना

{यदवभास्यते }

इत्यन्तेन परमेश्वरे परमार्थतोऽक्रमा क्रिया , परिमितसांसारिकप्रमातृक्रमावभासनयोगात्सक्रमापि च , इत्युपपाद्यते । तथाहि श्लोकेन उक्तपूर्वपक्षप्रतिक्षेपः । ततः श्लोकेन सक्रमत्वाक्रमत्वविवेकः । ततः श्लोकत्रयेण क्रमस्वरूपनिरूपणम् । ततः श्लोकद्वयेन सक्रमत्वाक्रमत्वयोर्विषयविभागः , विषयविभागे च सति वस्तुतः एकत्रैव तयोः विश्रान्तिः , इति श्लोकेन निरूप्यते , इति तात्पर्यमाह्निकस्य ।

अथ श्लोकार्थो विभज्यते । तत्र पूर्वोक्ते ज्ञानशक्तिसमर्थनोपयोगनिमेये सिद्धे प्रमेयान्तरमपि अयत्नतः सिद्धम् , इति अधिकरणसिद्धान्तदिशा दर्शयति

अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा ।
एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१ १ ॥

यत्तावतुक्तम् <ज्ञानान्येव अनुभवविकल्परूपादिभिन्नानि न तेषामाश्रयोऽस्ति कश्चित्, संस्काराच्च स्मृतिः सिद्धा ज्ञानं च जडं चेत्न अर्थस्य प्रकाशः , अजडं चेत्देशकालसंकोचवैकल्यातात्मतत्त्वातभिन्नम्> इति , तत्तावत्प्रतिक्षिप्तं भिन्नानामनुभवादीनामनुपपत्तेः वितत्य दर्शितत्वात् । <न च संस्कारमात्रात्स्मृतिः> इत्येतदप्युक्तम् , अजडमेव च असंकुचितरूपं ज्ञानम् , तत्स्वातन्त्र्यावभासितज्ञेयोपरागवशात्तु तस्य संकोचावभास इत्यपि दर्शितं यतः , न केवलमतो हेतुकलापात्ज्ञानशक्तिचोद्यानि निदारितानि , यावत्क्रियाशक्तिविषयाण्यपि दूषणानि अत एव हेतुकलापातपसारितानि इति अपिशब्दः । <एका क्रिया क्रमिका कथमाश्रयस्य एकस्वभावत्वे सति घटते ?> इति युक्तम् , तथा

{तत्र तत्र स्थिते }

इति ,

{द्विष्ठस्यानेकरूपत्वात् }

इति च यदुक्तं तदपि प्रतिक्षिप्तमेव , यतः इयति पूर्वपक्षे इयदेव जीवितमेकमनेकस्वभावं कथं स्यातिति ।
अत्र च उक्तं चित्स्वभावस्य दर्पणस्येव एकतानपबाधनेन आभासभेदसंभवे क इव धिरोध इति , तस्मात्प्रत्यभिज्ञानबलातेकोऽपि असौ पदार्थात्मा स्वभावभेदान् विरुद्धान् यावतङ्गीकुरुते तावत्ते विरोधादेव क्रमरूपतया निर्भासमानाः तमेकं क्रियाश्रयं संपादयन्ति इति , ततश्च संबन्धादीनामपि उपपत्तिरिति ॥१॥

ननु च क्रमिकत्वमेव क्रियायाः स्वरूपम् , क्रमश्च कालकलनाहीने चिन्मये भगवति नास्ति , इति कथमस्य सा भवेदित्याशङ्क्याह

सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१ २ ॥

उत्क्षिपति अपक्षिपति हस्तमिति ये पूर्वोत्तरे क्षणाः ते क्रमवन्तः , तत्र येषां त एव क्रिया काणादादीनामिव तेषां सा सक्रमा प्रत्यक्षेणैव भाति । ये तु मन्यन्ते तथाभूतप्रत्यक्षपरिदृश्यमानरूपभेदसंपादिका या असौ काचिततीन्त्रिया हस्तगता शक्तिर्व्यापारोद्बोधरूपा नित्यानुमेया तस्याः केवलं पूर्वापरीभूतत्वमनुमीयते , इति लौकिक्याः क्रियायाः सक्रमत्वं कालशक्तेः आभासविच्छेदनप्रदर्शनसामार्थ्यरूपात्पारमेश्वरात्शक्तिविशेषात्घटते उपपद्यते , या तु प्रभोः संबन्धिनी तदव्यतिरिक्ता क्रियाशक्तिः शाश्वती कालेन अस्पृष्टा तस्याः सक्रमत्वमस्ति इति संभावनाऽपि नास्ति , यथा प्रभोः सक्रमत्वमसंभाव्यं तथा अस्या अपि । उक्तं हि ----

{हस्तस्य सक्रमत्वे तद्गताऽपि क्रिया तथा स्यात्}

इति ॥२॥

ननु कालो विशेष भावमुपगच्छन् भावं स्वेन रूपेण अवच्छिनत्ति तत्र कोऽसौ कालो नाम इत्याशङ्क्याह

कालः सूर्यादिसंचारस्तत्तत्पुष्पादिजन्म वा ।
शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१ ३ ॥

ये इयत्तया परिनिष्ठिता आभासाः सिद्धाः , तद्यथा चन्द्रसूर्यादीनां सहकारमल्लिकाकुटजादीनां शीतोष्णादेः परभृतमदविलासादेः त एव <कालः> यतोऽपरिनिष्ठितं गमनपठनादि तैरियत्तया परिनिष्ठीयते परिवर्तकैरिव कनकम् । स एव च सूर्यादीनां स्वभावविशेषस्तत्त्वतः परमाश्रतः क्रमो नान्यः कश्चित्क्रमो नाम , क्रम एव च कालो नान्योऽसौ कश्चित्, इति एवकारो भिन्नाभिन्नक्रमो योज्यः , यौगपद्यमपि द्वयोराभासयोः अपराभासापेक्षया क्रम एव , चिरक्षिप्रादिधीरपि विततान्यत्ववशाताभासभेदे क्रम एव , परत्वापरत्वबुद्धिरपि स्फुटत्वादिना तत्रैव , इति तेन तेन प्रतिमानवर्तकतुल्येन सूर्यसंचारादिना सह मीयमानो हेमस्थानीयो देवदत्ताभासस्य वैचित्र्यभेद इत्थमुच्यते <दिवसं गच्छति> इति ॥३॥

ननु एवं कालो नाम भावस्वभाव एव अस्तु , का असौ कालशक्तिः इत्याशङ्क्याह

क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः ।
आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१ ४ ॥

इह स्वभावभेदमात्रं यदि क्रमात्मा कालः , तदाङ्गुलीचतुष्टयं भोन्नस्वभावमिति भिन्नकालं भवेत्, तस्मातरुणाभासस्य सद्भावः स्फुटप्रभापुञ्जस्य च असद्भावः इत्येवंभूतो यो भेद आभाससद्भावासद्भावाभ्यनुप्राणितः तत्कृतः क्रमः कालात्मा , तौ च आभासानां भावाभावौ न बाह्यहेतुकृतौ इति विस्तार्य उपपादितम् , इति य एव संवित्स्वभाव आत्मा स्वप्रसंकल्पादौ आभासवचित्र्यनिर्माणे प्रभुः प्रभविष्णुः इति स्वसंविदितस्तत एव तौ भवतः , स हि आत्मनि नीलादीनाभासानाभासयन् चित्रतया अपरिमेयया भासयति , तथाहि ---- लोहिताभासं घटाभासमुन्नताभासं दृढाभासं च सामानाधिकरण्येन घटाभासं पटाभासं च पृथक्त्वावभासेन अन्योन्यत्र आभासाभावेन , स्वात्मनि तु एकरसेनाभासेन , इयति च न क्रमस्य उदयः , यदा तु शरदाभासं हेमन्ताभासेन च सर्वथैव शून्यमाभासयति हेमन्ताभासं च शारदाभासेन तदा कालात्मा क्रम उत्तिष्ठति , इति सेयमित्थंभूता भाववैचित्र्यप्रथनशक्तिः भगवतः <कालशक्तिः> इत्युच्यते ॥४॥

चित्राभासकृत्त्वमेव स्फुटयति





मूर्तिवैचित्र्यतो देश- क्रममाभासयत्यसौ ।
क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१ ५ ॥

पदार्थस्य स्वं रूपं मूर्तिः , तस्याः यत्वैचित्र्यं विभेदः , तद्यथा गृहमिति अन्यत्स्वरूपम् , प्राङ्गणमिति अन्यत्, विपणिरिति अन्यत्, देवकुलमिति अपरम् , उद्यानमिति अन्यत्, अरण्यमिति तदन्यतरत्, तस्मात्वैचित्र्याताभास्यमानात्देशरूपो दूरादूरविततत्वाविततत्वादिः क्रमो भगवता अवभास्यते । यदा तु गाढप्रत्यभिज्ञाप्रकाशबलात्तदेव इदं हस्तस्वरूपमिति प्रतिपत्तौ मूर्तेर्न भेदः , अथ च अन्यान्यरूपत्वं भाति तदैकस्मिन् स्वरूपे यदन्यतन्यत्रूपं तद्विरोधवशातसहभवत्क्रिया उच्यते , तस्या यत्वैचित्र्यं परिमितापरिमितात्मकं तदेकानुसन्धानेन फलसिद्ध्यादिनिबन्धनवशात्यथारुचि चर्चितेन निर्भासयन् कालरूपं क्रममेवावभासयति । न चैतत्वाच्यम् ---- एकस्वरूपस्य कथमन्यतन्यद्रूपमिति ? यतो न असौ कश्चित्भावो य एवं कल्प्यते ; संविदेव हि तथा भाति , तथा भानमेव च तस्या ऐश्वर्यम् , न हि भासने विरोधः कश्चित्प्रभवति , स हि सुखदुःखादेर्भासनकृत एव , तथा भासनाभाव एव हि विरोधतत्त्वम् , एततपिशब्देन ईश्वरशब्देन च दर्शितम् ॥५॥

ननु एवमाभासविषयाभ्यामेव देशकालक्रमाभ्यां भवितव्यम् , अनाभासश्च प्रमाता , स हि न कस्यचिताभासते , तस्य सर्वमाभाति यतः , ततश्च तौ प्रमातरि कथम् , दृश्येते च <अभवमहं भवामि भवितास्मि> इति , <गृहे तिष्ठामि अरण्ये देवगृहे> इति च , किं च स्वयं देशकालक्रमशून्यस्य किं दूरं किमन्तिकं किं वर्तमानं किमतीतं किं भावि , इति प्रमात्राश्रयो भावेष्वपि क्रमो न युक्तः , न च प्रमातृनिरपेक्षेष्वपि तेषु स्वात्मनि दूरत्वादि भूतत्वादि वा , तदेतत्समर्थयितुमाह





सर्वत्राभासभेदोऽपि भवेत्कालक्रमाकरः ।
विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१ ६ ॥

देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः ।
स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१ ७ ॥

सर्वेषु वस्तुषु एकानेकरूपेषु यः कालात्मा क्रमः तस्य य आकरः ---- उत्पत्तिनिबन्धनमिति व्याख्यातः , आभासस्य भावाभावकृतो भेदः स शून्यप्राणबुद्धिदेहादेः भवति , इति संभाव्यति , यतः स शून्यादिः विच्छिन्नभाः , न हि तस्य भासनं स्वरूपं नीलादिवत्जडत्वात्, अपि तु संवित्स्फुरणमस्य भासनम् , तत्यदा अस्य नास्ति , यथा सुप्तो देहस्य संसारयात्रापतितत्वे शून्यस्य प्राणादेः , तदा अस्य भासनं विच्छिद्यते , इति आभाससद्भावासद्भावकृतः कालक्रमोऽस्ति , <अतीतोऽहं बालदेहाभासरूपः , भवामि युवदेहाभासरूपः> इति । स च यतः प्रमाता अहंभावसमावेशनातपरिपूर्णातत एव उद्रिक्तकालक्रमवत्त्वात्भावेष्वपि कालक्रममाभासयति , <योऽहं बालोऽभवं तत्सहभावी वटाभासोऽपि अभवत्> इति , न तु यः <सकृद्विभातः> इति अनया वाचोयुक्त्या अविच्छिन्नभासनः प्रमाता संविद्रूपः , तस्य स्वात्मनि कालक्रमः , नापि तदपेक्षया वेद्ये भावजाते , तद्धि तत्र अभेदेन भाति इति ।

एवं देशक्रमोऽपि मितात्मनः परिच्छिन्नस्वरूपस्य शून्यादेः देहान्तस्य स्वात्मनि भाति <इह तिष्ठामि> इति , स्वापेक्षया च भावेष्वपि <यत्मम संयोगपारिमित्येन वर्तते तदन्तिकमितरत्दूरम्> इति । अमितस्य स्वरूपेयत्ताशून्यस्य तु संवित्तत्त्वस्य भावाः स्वात्मना अहंभावेन यतो भान्ति ततः पूर्णाः ---- अपरिच्छिन्नस्वरूपेयत्ताकाः , यतः स्वात्मा तस्य तथाभूत एव इति समुच्चयोपमा , तदुक्तम् ----

{अपूर्वापरं हि इदं मूर्तितः क्रियातश्च सर्वं सर्वतः पूर्णम्}

इति । क्रियाप्रसङ्गातिह कालक्रमः प्राकर्णिको दृष्टान्तत्वेन तत्प्रसङ्गात्देशक्रमो निरूपितः , दृष्टान्तश्च पूर्वं वाच्य इति वैचित्र्यनिरूपणावसरे देशक्रमस्य आदौ अभिधानं न्याय्यम् , उपसंहारे तु प्राकरणिकस्य कालक्रमस्यैव आदौ निर्देशः , पश्चात्तु प्रासङ्गिकस्य देशक्रमस्य इति ॥६ ; ७॥

ननु एवं सत्यप्रमातरि भगवति नास्त्येव क्रिया इति आयातं कालक्रमाभावात्क्रमाश्रयेण च तस्या अवस्थानातित्याशङ्क्याह





किन्तु निर्माणशक्तिः साप्येवं विदुष ईशितुः ।
तथाविज्ञातृविज्ञेयभेदो यदवभास्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१ ८ ॥

इह तत्त्वतः परमेश्वरस्य अप्रतिहतस्वातन्त्र्यरूपाविच्छिन्नस्वात्मपरामर्शमयी अनन्योन्मुखतारूपा इच्छैव क्रिया इति उपसंहरिष्यते अधिकारान्तरे <एवमिच्छैव हेतुता कर्तृता क्रिया> इति । चैत्रमैत्रादेरपि पचामि इति यैव अन्तरिच्छा सैव क्रिया , तथा च अधिश्रयणादिबहुतरस्पन्दनसंबन्धेऽपि पचामि इति नास्य विच्छिद्यते , यत्तु पचामि इति इच्छारूपं तदेव तथास्पन्दनात्मतया भाति , तत्र तु न कोऽपि क्रमः तत्त्वतः । एवमीश्वरस्यापि <ईशे भासे स्फुरामि धूर्णे प्रत्यवमृशामि> इत्येवंरूपं यदिच्छात्मकं विमर्शनम् <अहम्> इत्येतावन्मात्रतत्त्वं न तत्र कश्चित्क्रमः , एतदेव च उच्यते <प्रमातृप्रमेयवैचित्र्यक्रम उल्लसतु> इत्यमुना वाक्येन , तदत्रापि न कश्चित्क्रमः , यथा तु इच्छारूपं <पचामि> इति स्पन्दनात्मतां कायापर्यन्तां गतं क्रमारूपितमाभाति तदा भगवदिच्छा प्रमातृप्रमेयभेदपर्यवसिता तत्क्रमोपश्लिष्टा भाति दर्पणतलमिव विततप्रबहन्नदीप्रबाहक्रमसमाश्लिष्टम् , अत्र च केवलं दर्पणस्य तथा इच्छा नास्ति , परमेश्वरस्य तु सा अस्ति ---- इति उभयथा अस्य क्रियाशक्तिः <क्रमरूपक्रियानिर्माणसामर्थ्य क्रमरूपक्रियोपरागयोगश्च> इति । एवं देशक्रमेऽपि वाच्यम् , तत्र तु अस्य चिच्छक्तिः उच्यते अन्यैः , इह तु क्रियाशक्तिरेव सा स्वीकृता इति पिण्डार्थः ।

अक्षरार्थस्तु ---- तथा इति स्वरूपभेदेन देशक्रमकारिणा क्रियाभेदेन च कालक्रमसंपादकेन उपलक्षितो यो विज्ञातुः शून्यादेः प्रमातुः भेदोऽन्योन्यं ज्ञेयाच्च , एवं घटादेः परस्परं ज्ञातुश्च स भगवता अवभास्यते , यत्तदवभासनं सा ईशितुरपि निर्माणशक्तिः क्रियाशक्तिः न तु केवलं शून्यादेरेव क्रिया , यतश्च तन्निर्मितं ज्ञातृज्ञेयक्रियावैचित्र्यभेदमसौ विद्वान् वेत्ति अविरतं तत्रैव हि तत्स्फुरति ततोऽपि तस्य सा क्रियाशक्तिः । अतो भासनविच्छेदनाभावात्क्रमाभावे स्थूलदृष्ट्या यद्यपि अस्य भवेत्क्रियानुपपत्तिशङ्का , किं तु एवमस्य क्रियाशक्तिरूपपन्ना ---- इति संगतिः । इति शिवम् ॥८॥ आदितः ९७॥

इति श्रीमदाचार्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तपादकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे क्रियाशक्तिनिरूपणं नाम प्रथममाह्निकम् ॥ १ ॥

________

क्रियाधिकारे द्वितीयमाह्निकम् ।सम्पाद्यताम्


{विरोधमविरोधं च स्वेच्छयैवोपपादयन् ।
भेदाभेदौ च यो मन्त्रतत्त्ववित्तं स्तुमः शिवम् ॥१॥}

यदुक्तम् <अप्रतिहतसामर्थ्यात्बह्गवतो निर्माणशक्तिः> इति , तदेव बाह्यवाददर्शनानुपपद्यमानक्रियासंबन्धसामान्यादिपदार्थराशिसमर्थनमुखेन निर्वाहयितुं

{क्रियासंबन्धसामान्य ।}

इत्यादि

{ तेन न भ्रान्तिरीदृशी ।}

इत्यन्तं श्लोकसप्तकेन आह्निकं प्रस्तूयते । तत्र प्रथमश्लोकेन सूत्रकल्पेन एकानेकरूपस्य क्रियादेः बाह्यवादे विरुद्धधर्माध्यासदूषणेन अनुपपद्यमानस्याप्यवश्यसमर्थनीयं वपुः इति दर्शयते । द्वितीयेन तत्र उपपत्तिः सूच्यते । तृतीयेन निर्विकल्पकसंवेदनसंवेद्यत्वेऽपि विकल्पकाले एव स्फुटमेषां रूपमित्युच्यते । चतुर्थपञ्चमाभ्यामेकानेकस्वरूपताया वि अयविभागः चिन्त्यते । षष्ठेन प्रहणकसूत्रसूचितसंबन्धस्वीकृतानां क्रियाकारकभावादीनां स्वरूपमुच्यते । सप्तमेन अर्थक्रियोपयोग इति संक्षेपः ।

नन्वेवं तथा निर्माणशक्त्या अवभासनारूपया यत्निर्मीयते तस्यावभासनैव निर्माणम् , नान्यत्, सा च द्विचन्द्रादेरपि अस्ति , नीलादेरपि , नीलादिनिष्ठस्य कर्मसामान्यसंबन्धादेरपि , ततश्च असत्यं सत्यं संवृतिसत्यमिति य एवंप्रायेषु व्यवहारः स कथं संगच्छेत निर्मेयत्वाविशेषातित्याशंक्य <क्रियादीनामसत्वत्वं तावत्निपपन्नम्> इति वदन् द्विचन्द्रादीनां तु इत्थमपि असत्यत्वमिति सूचयनाह ----

क्रियासंबन्धसामान्यद्रव्यदिक्कालबुद्धयः ।
सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२ १ ॥

चित्तत्त्वातन्यत्र या क्रियाबुद्धिः कर्तृकर्मकरणादिषु <चैत्रो भ्रजति> <तण्डुला विक्लिद्यन्ते> <एधा ज्वलन्ति> इति , तस्या एकानेकरूपश्चैत्राद्यर्थ आश्रयः आलम्बनम् । तथाहि ---- तत्तद्देशकालाकारभिन्नः तत्र चैत्रदेहोऽनेकस्वभावोऽपि <स एवायम्> इति एकरूपतामपरित्यजन्नेव निर्भासते , स एव च एकानेकरूपा क्रिया तथैव प्रतिभासनाच्च पारमार्थिकी , द्विचन्द्रादि तु तथाभासमानमपि उत्तरकालं प्रमाव्यापारानुवृत्तिरूपस्य स्थैर्यस्य उन्मूलनेन <द्विचन्द्रो नास्ति> इत्येवं रूपेण असत्यम् , इह पुनः <चलति चैत्रः> इत्येवंभूतो विमर्शः अनुवर्तमानो न केनचितुन्मूल्यमानः संवेद्यते , द्विचन्द्रादि च यद्यपि ह्लादोद्वेगयोः उपयुज्यते , तथापि द्विचन्द्राभिमानी न तावतीं तत्र अर्थक्रियामभिमन्यते , अपि तु यादृशी एकेन शशिना कर्तव्या तिमिरापसारणादिरूपा , तादृश्येव अपरेण , इति न तद्द्विगुणामर्थक्रियां तत्र अध्यवस्यति , तस्यां च असौ न उपयुज्यते , ब्रज्यायां तु यामेव ग्रामप्राप्तिमध्यवस्यति तस्यामविकलायामुपयोगोऽस्या इति स्थैर्यातुपयोगाच्च एकानेकरूपक्रियातत्त्वालम्बनबुद्धिः सत्यैव , एवं संबन्धादिषु कालपर्यन्तेषु वाच्यमुत्तरकारिकासु स्फुटीकरिष्यति ॥१॥

नन्वेकत्वमनेकत्वं च परस्परं विरुद्धे , कथमेकत्र वस्तुनि स्याताम् , ततश्चायं बाधकप्रमाणकृतः स्थैर्योन्मूलनप्रकार इत्याशङ्क्याह





तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम् ।
संप्राप्यानेकतां याति देशकालस्वभावतः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२ २ ॥

इह तावत्चैत्रे चलति दृष्टे न जातुचित्<न चलति अयम्> इति बुद्धिः जायते ---- न रजतमितिवत्, द्विचन्द्रोऽपि नायं द्विचन्द्रः तिमिरवशातहमुपप्लुतनयनः परमेवं वेद्मि इति भवति उन्मूलनाबुद्धिः । यत्तु उक्तम् ---- एकमेव कथमनेकं भवति इति , तत्र उच्यते ---- इह कारणमेव कथमकारणं भवति अथ उच्यते ---- विषयभेदात्तथा इति , तद्विषयभेदे एतत्न विरुध्यते इति केन अयं वितीर्णोऽवसरः ? संवेदनेन इति चेत्<चलति> इत्यादौ संवेदनमेव अस्मामिः प्रमाणीकृतं किमिति न सह्यते , विषयभेदोऽपि च अत्र वक्तुं न न शक्यते ; तथाहि ---- आभासान्तरेण असंभेदने तदेकाभासमात्रम् , अत एव अन्यापेक्षावियोगातन्तरङ्गत्वातान्तरमनुवर्तमानं तथाभूताभासमात्रग्रहणोचितान्तःकरणवेद्यतया च आन्तरं तथास्वरूपापरिच्युतेः तत्त्वमाभासान्तरयोगेन तननसहिष्णुत्वाच्च तत्त्वम् <एकम्> इति प्रतीयते , तदेव देशाभासेन इह अमुत्र इति , कालाभासेन अधुना तदानीमिति , स्वभावाभासेन कृशः स्थूल इत्यादिना , मिश्रितया अनेकमिति बाह्येन्द्रियवेद्यतायां प्रतीयते । तथा

{स्वामिनश्चात्मसंस्थस्य ।}

इति उक्तनीत्या विश्वमेव आनन्तरं सतेकम् , तदेव

{सान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वम्}

इति वक्ष्यमाणकार्यकारणभावतत्त्वदृष्ट्या इन्त्रियवेद्यतायामनेकम् , देशाद्याभासमिश्रणातिति । एकत्वम् ---- आभासान्तरामिश्रतायामन्तःकरणैकवेद्यत्वे चिन्मात्रतायाम् , अनेकत्वं पुनर्---- आभासान्तरमिश्रतायामुव्हयकरणवेद्यत्वे चिदतिरिक्तताभासने च , इति स्फुटो विषयभेदः , तस्यैव च तथात्वमिति परामर्शबलादेव कारणाकारणवतुपादानसहकारिवत् । अथ व्यपदेशमात्रमेतत्<कारणमकारणं च> इत्यादि , तदिहापि एकमनेकमिति व्यवहारमात्रम् , नीलं पीतमविकल्पकं सविकल्पकमित्यपि सर्वं मायापदे व्यवहारमात्रमिति सर्वं समानम् , तस्मातेकत्वानेकत्वविरोधो न बाधकः , तदेततेवकारेण उक्तम् । तत्र इति , तेषु क्रियादिषु यतान्तरं तत्त्वं तदेकम् , तदेव इन्द्रियवेद्यतां प्राप्य देशादिभेदातनेकतां याति इति संबन्धः , तत्र इति सत्यत्वे स्थिते , तयोर्वा एकत्वानेकत्वयोः मध्ये <एकत्वमेवमनेकत्वमेवम्> इति वा योजना ॥२॥

ननु एवं विषयभेदे अभ्युपगम्यमाने यदा एकं प्रतिभातं भवति तदा न अनेकम् , अनेकप्रतिभासे च न एकं प्रतिभातम् , इति कथमेकानेकरूपं वस्तु स्यात्, तथाहि बाह्येन इन्द्रियेण चैत्रो विचित्रदेशकः परमनुभूयते , न तु अनेकाभाससंमिश्रीकारे बाह्येन्द्रियजस्य अविकल्पकस्य व्यापारः ---- संनिहितविषयबलोत्पत्तेः अविचारकत्वातित्याहुः , विकल्पेनापि मानसेन तथाभूतं वस्तु नैव स्पृश्यते इति कया धिया वस्तु एकानेकरूपं गृह्येत ? इति परव्यामोहनिबर्हणाय आह ----

तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् ।
करोति मातृव्यापारमयीः कर्मादिकल्पनाः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२ ३ ॥

इह ज्ञानमालाया अन्तःसूत्रकल्पः स्वसंवेदनात्मा प्रमाता जीवितभूतः इति उपपादितं प्राक्, स च स्वतन्त्र इत्यपि निर्णीतम् , स तु विशुद्धस्वभावः शिवात्मा , मायापदे तु संकुचितस्वभावः पशुः , तदस्य मनःसमुल्लासावसरे विकल्पभूमिकायां स्फुट उल्लासः , ऐन्द्रियके निर्विकल्पके सदाशिवेश्वरदशाभ्युदयात्, अविकल्पबोधाबहिर्भूतस्य विमर्शव्यापारः । पश्चाद्भाविनं व्यवसायं निश्चयात्मकं विकल्पकमनुव्यवसायशब्दवाच्यं विदधदन्तःकरणमेतान् क्रियासंबन्धादिविकल्पान् संपादयति । ते च विकल्पाः तद्द्वयमेकत्वानेकत्वरूपमवलम्बन्ते , नहि विकल्पेषु प्रतिभासमानमवस्तुसतिति हि उक्तम् <प्रकाशतैव वस्तुत्वम्> इति । न च विकल्पस्य प्रकाशरूपतां मुक्त्वा आरोपणाध्यवसायाभिमानादिनामधेयं व्यापारान्तरं युक्तम् , ततोऽबाह्ये बाह्यमारोपयन्ति इत्यादि वचो वस्तुशून्यम् , तच्च एततुक्तम्

{भ्रान्तित्वे चावसायस्य ।}

इत्यत्र । अथ ब्रूयात्परो यतिन्द्रियज्ञानेन प्रकाशनीयं स्वलक्षणं तत्कथं विकल्पः स्पृशेदिति , भवेदेवं ---- यदि विकल्पो नाम स्वतन्त्रो भवेत्, यावता प्रमातुरसौ व्यापारः प्रमाता च पूर्वानुभवान्तःस्वसंवेदनरूपः तदस्य च अयमेव पूर्वानुभवसंस्कारो यत्विकल्पनव्यापारकालेऽपि पूवानुभवात्मत्वमनुज्झन्नेव आस्ते , ततः पूर्वानुभवो यावत्स्वलक्षणकाशनात्मा तावत्पूर्वानुभवतादात्म्यापन्नप्रमातृतत्त्वव्यापारोऽपि विकल्पस्तद्विषय एव , अत एवमुक्तमाचार्येण

{पूर्वानुभवसंस्कारः प्रमातुरयमेव सः ।
यदपोहनकालेऽपि स पूर्वानुभवः स्थितः ॥}

इति । तस्मात्प्रमातुः यो व्यापार एकत्वानेकत्वसंयोजनात्मा स एव प्रकृतो तत्र तादृशीः क्रियादिकल्पना एकानेकवस्तुविषया <एता> इति ग्रहणकवाक्यसूचिता मन एव करोति इति स्थितम् , यद्यपि अविकल्पेऽपि सामान्याद्यवभासो घटमात्रावभासादौ , तथापि न तदा सामान्यादि स्फुटम् , समानोपरञ्जकत्वे संबन्धिद्वयोद्भवे क्रमिकक्षणसंतानात्यागे अवयवकदम्बकस्वीकारे अवध्यवधिमत्परिग्रहादौ सामान्यसंबन्धक्रियाद्रव्यदिगादिपदार्थस्य परमार्थतः स्फुरणात्, इति <मानसविकल्पग्राह्या एकानेकरूपाः सामान्यादयः> इति स्थितम् । एवं च संवृत्तिः विकल्पबुद्धिः , तद्वशातुच्यतां संवृतिसत्यत्वं सत्यत्वस्यैव तु प्रकारः तत्, इति द्विचन्द्रादिवत्न असत्यता ॥३॥

तत्र च अयं संविदवतरणक्रमो यत्क्रियाशक्तेरेव अयं सर्वो विस्फारः , तत्रापि सम्बन्ध एव मूलभूतः , तथाहि ---- समानानां यतेकं भाति तत्सामान्यम् , देवदत्तस्य यत्वैतत्यं सा क्रिया , अवयवानां यदैक्यं वैतत्यं च देशतः सोऽवयवी , इममवधिं कृत्वा अयमित्थं ततोऽस्य अयं पुरस्तातित्यादिर्दिक्, अस्यायं क्रियाप्रतानः सहभावेन आस्ते विनाभावेन वा इति वर्तमानादिः कालः , यावथि प्रातिपदिकार्थस्य पृष्टपाति वपुः भाति तदतिरिक्तं सर्वं संबन्ध एव इति कारकाणामपि संबन्धरूपतैव , केवलं क्वचितसौ संबन्धो व्यपदेशान्तरग्रन्थिं सहते , यथा सास्रादिमतां संबन्धो <गावः> इति एकव्यपदेशसहिष्णुः तत्र सामान्यादिव्यवहारः , व्यपदेशान्तरग्रन्थिभङ्गे तु संबन्धाचोयुक्तिरेव , अत एव दिष्टिप्रस्थपलादिप्रमाणपरिमाणोन्मानरूपं तत्र अन्तर्गतं वा अणुमहदादि संख्यापृथक्त्वादि च यत्तत्सर्वं संबन्धस्यैव विजृम्भितम् , येऽपि सामान्यादि वस्त्वन्तरममंसत तेऽपि तत्र समवायमभ्युपजग्मुः जीवितत्वेन , समवायश्च संबन्धात्मा तदनुग्राह्यो वा केषांचित्, यत आहुः ----

{समवायाख्यां तां शक्तिमनुगृह्णाति संबन्धः ।}

इति ।

यदपि च कारकं तदपि क्रियामुखप्रेक्षि , सापि कालं प्राणेश्वरमाश्रयति , सोऽपि क्रियाद्वारेण सर्वभावात्मा सम्बन्धमुद्धुरयति इति संबन्धाधीनैव इयं चित्रा लोकयात्रा । यदाह आचार्य एव





{भेदाभेदात्मसंबन्धसहसर्वार्थसाधिता ।
लोकयात्राकृतिर्यस्य स्वेच्छया नौमि तं शिवम् ॥}

इति ।

अतः संबन्धमेव प्रथमं निरूपयितुमाह





स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि ।
अन्योन्यान्वयरूपैक्ययुजः संबन्धधीपदम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२ ४ ॥

राजा पुरुषश्च बहिस्तटस्थौ स्वात्मैकपरिसमाप्तौ प्रमातृभूमौ यदैक्यं गच्छतः , न च ऐक्यमात्रं तयोः भेदविगलनापत्तेः , अपि तु परस्पररूपश्लेषात्मकं युगपदेव निमज्जदुन्मज्जद्भेदाभेदकोटिद्वयदोलारोहणलक्षणमन्वयरूपम् , तदा तावेव सम्बन्धधिय आलम्बनं भवतो <राज्ञः पुरुषः> इति , तथाहि ---- राजा यदा पूर्वं धिया गृहीतोऽपि न स्वात्मविश्रान्त्या तुष्यति तदा रूपान्तरेण पुंसा श्लेषं भजन् कृतार्थीभवति , पुरुषोऽप्येवं , स च एष रूपश्लेष एक एव उभयोः चिदात्मनि तथा अवस्थानरूपः पूर्वप्रतिलब्धसंवित्प्रतिष्ठः तत एव अधिकसंविश्रिमज्जनातनाभासमानपृथग्भवनलक्षणः स्वातन्त्र्ये विश्राम्यति , इति तत्रैव निर्भासते समास्कन्दितपुरुषपरमार्थोऽपि , एवं बहिरनेकता , अन्तस्तु परस्पररूपश्लेषेणैक्यम् , इति संबन्धस्य रूपम् ॥४॥

जातिद्रव्यावभासानां बहिरप्येकरूपताम् ।
व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२ ५ ॥

जात्यवभासस्य अवभासमानरूपायाः जातेः ग्राहिका याः कल्पनाः , ता न केवलं संबन्धवतन्तरेकरूपतां बहिश्च अनेकरूपतामालम्बन्ते , यावद्बहिरपि व्यक्तिभेदलक्षणमनैक्यं बहिरेव च तदनुस्यूततारूपामेकतामालम्बनत्वं नयन्ति । <गावः> इति हि प्रतिभासे पृथक्कृता बहिर्व्यक्तयो भान्ति , येन च बहुवचनम् , अनुयायि च आसां भाति वपुः यत एकप्रातिपदिकार्थपरामर्शानुगमः , उभयं च तद्बहिरेव <इमाः> इति अङ्गुल्या निर्देशात्, केवलं बाह्यत्वमपि स्थिते परमार्थप्रकाशान्तर्भावे , इति न तत्र भेदाभेदौ दूषणं चित्रसंवेदन इव । अनेन द्रव्येऽपि रक्तारक्तादि विरोधः कृतप्रतिविधानः , आन्तरं तु ऐक्यं संबन्धद्वारेण तद्वदेव सर्वत्र , एवमवभासमानस्य घट इति अवयविद्रव्यस्य प्राहिका याः कल्पनाः ता न केवलं संबन्धवतन्तर्बहीरूपतया एकानेकविषया यावत्बहिरप्येकं निःसंधिबन्धरूपत्वेन भिन्नं च अवयवलक्षणैकदेशद्वारेण स्वीकुर्वते , घट इति हि निःसन्दिबन्धनैकघनात्मा विततरूपश्च भाति इति ॥५॥

क्रियाविमर्शविषयः कारकाणां समन्वयः ।
अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२ ६ ॥

कारकाणां कर्त्रादिशक्त्याधाराणां द्रव्याणां च योऽन्योन्यं समन्वयो दृश्यते , यथा मातृमेयमानानां मिथः , सोऽन्तर्लीनप्रमात्मकक्रियादिशेषपरामर्शैकनिमित्तकः , न हि प्रमापरामर्शमन्तर्वर्तिनं विहाय वस्तुनः साक्षातन्वयोऽत्र संवेद्यते , अनन्यत्र भावरूपतानिमित्तता अत्र विषयार्थः , कारकशक्तिनामपि यः स्वाश्रयैः संबन्धः सोऽपि क्रियापरामर्शनिमित्तकः , द्रव्याणां च शक्तीनां च क्रियया साकं साक्षात्संबन्धः इति इयं क्रियैव भगवती एतावद्विजृम्भितं संबन्धमाविर्भावयति । अस्मादिदं पूर्वं परं दूरे इत्येवं वहिर्भिन्नतयापरामृश्यमानयोः भावयोरन्तरभेदनपूर्वकं भेदावमर्शमध्यमभेदविश्रान्तं च यत्रूपमामृश्यते तत्दिगित्युच्यते । अत्र हि तयोः मुखाद्यवयवविशेषपरामर्शादरः तत्संमुखत्वपराङ्मुखत्वादिनिश्चयः संयोगसंयुक्तसंयोगाल्पतादिपरिग्रहश्च उपयोगी । कालपरामर्शस्य पूर्वपरादिरूपत्वे जन्मस्थित्यल्पतादिविमर्शश्चिरक्षिप्रादिरूपत्वे च , पक्ष्यति पचति अपाक्षीतित्यादौ तु संभावितस्य स्फुटस्य स्फुटभूतपूर्वस्य आत्मीयसंवेदनस्पन्दितप्राणादित्यादिक्रियान्तरस्य फलविशेषस्य च ओदनादेः परामर्श उपयुज्यते , एवं संख्यापरिमाणपृथक्त्वसंयोगविभागप्रभृतिषु संबन्धरूपतैव वाच्या , सर्वथा अयं सक्षेपः , यत्र पदार्थाभासस्य आत्मविश्रान्त्या संतोषमपुण्यतः आभासान्तरपरामर्शविश्रान्तिसाकाङ्क्षतया स्वरूपपरिनिष्ठा तत्र संबन्धरूपतैव क्रियाशक्तिविजृन्भामयी , तत्रापि भावान्तरापेक्षया संबन्धान्तरमपि अस्तु , यथा संख्यादौ समवायं मन्यन्ते , न च अनवस्था भवन्त्यपि दोषाय , पूर्वापरकल्पसृष्ट्यनवस्थेव , नहि उत्तरसंबन्धसृष्ट्या विना पूर्वसंबन्धावभासे हानिः काचित्येन्मूले क्षतिः शंक्येत ॥६॥

एवं सकललोकयात्रानुप्राणितकल्पानल्पसंबन्धबन्धुरीभावं क्रियाशक्तिविजृम्भात्मकमभिधाय , तस्य स्थैर्योपयोगौ पूर्वसूचितौ निरूपयितुमाह





एवमेवर्थसिद्धिः स्यान्मातुरर्थक्रियार्थिनः ।
भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२ ७ ॥

इह भावानां न सत्तासंबन्धः सत्त्वम् , अव्यापकत्वादनवस्थावैयर्थ्यादिदोषात्, न अर्थक्रिया वस्त्वन्तरत्वात्, न तत्कारित्वं सर्वदा तदावेशादशनात्, उक्तं हि

{अर्थक्रियापि सहजा नार्थानाम् ॥ }

इति । तत्कारित्वस्य च प्रत्यक्षानुपलम्भात्मकान्वयव्यतिरेकगम्यस्य अप्रत्यक्षत्वे सयोऽपि अप्रत्यक्षत्वप्राप्तः , नार्थक्रियाकरणयोग्यत्वं तस्य सत्यासत्यके निश्चयकाले दुरवधारत्वात्, सर्वस्य च अस्य अग्रकाशमानत्वेन नरशृङ्गप्रायत्वम् , अर्थक्रियान्तरपर्येषणे च अनवस्था , इति प्रकाशमानतैव अनुन्मूक्यमानतथोचितविमर्शपरिस्पन्दा भावस्य सत्त्वम् , सा च भेदाभेदवपुषां संबन्धादीनामस्ति , इति ---- निराशङ्कमेव सत्यत्वमेव एषाम् , तथापि यदि परोऽनुबध्नीयात्---- इह लोकः प्राचुर्येण अर्थक्रियार्थी तत्कारिणि सत्यत्वं व्यवहरति , तत्किं संबन्धादीनामस्ति इति , तदस्य हृदयमाश्वास्यते , यदि न कुप्यसि तत्सर्वत्रैव व्यवहारे यत्रापि स्फुटा संबन्धादिधीः न उदेति एषमेव तत्रापि , इति संबन्धादिरूपतया भेदाभेदवान् योऽर्थः तेनैव अथक्रिया , न तु स्वात्ममात्रविश्रान्तेन काचिदपि कदाचिदपि अर्थक्रिया , तथाहि सुखेन स्मर्यमाणेन अभिलाषः , इत्यादि क्रमेण सर्वो व्यवहारः सुखाभासश्च योऽनुभूतः स एव अभिलष्यते न तु अन्योऽननुभूतः , स एव अभिलष्यते न तु अन्योऽननुभूतः , स एव च यदि प्राप्यते तदभिलषितं प्राप्तमिति तुष्यते यदि च तत्तदेव तर्हि किमभिलष्यते ---- प्राप्तत्वात्, अथ अतदेव तथापि कथमर्थ्यते ---- अज्ञातत्वात्, तस्मातेततेवं भवति ---- यदि तदेव च अतदेव च तदपि च अतदपि च इति । एवं सुखसाधनेषु वाच्यम् । तदुक्तमाचार्येणैव





{इष्टार्थितायामिष्टं वा विमृश्येतेष्टकारि वा ।
न चाप्यदृष्टमिष्टं द्यौरपीष्टाऽदृष्टभोगभूः ॥
दृष्टं च सह दृष्यैव विनष्टमिति कार्थिता ।
द्रष्ट्रैक्येन विभृष्टं तत् ॥}

इत्यादि । एवं च आभासात्मनि अस्मिनसंवेद्यमपि आभासान्तरं सामान्यसंबन्धरूपतया अनुप्रविष्टम् , अन्यथा न कथंचिद्व्यवहारः इति सकलदेशकालदशापुरुषोपयोगी यदि अयं व्यवहारो न सत्यः तर्हि न अन्यस्य सत्यत्वं विद्मः ---- इति न अत्र भ्रान्तिः इति भ्रमितव्यम् । इति शिवम् ॥७॥ आदितः १०४॥

इति श्रीमदाचार्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तपादकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे भेदाभेदावमर्शनं नाम द्वितीयमाह्निकम् ॥ २ ॥

______

क्रियाधिकारे तृतीयमाह्निकम् ।सम्पाद्यताम्

{प्रमाणानि प्रमावेशे स्वबलाक्रमणक्रमात् ।
यस्य वक्त्रावलोकीनि प्रमेये तं स्तुमः शिवम् ॥१॥}

एवं क्रियाशक्तिविस्फारनिरूपणप्रसङ्गेन संबन्धपुरःसरं सामान्यादीनां तत्त्वमुपपादितम् , अधुना तु संबन्धतत्त्वमेव एकघनतया व्युत्पादनीयम् । तच्च द्विविधमेव परमार्थतः ज्ञाप्यज्ञापकता कार्यकारणता च , तत्र पूर्वस्यां मानमेयभावादिचिन्तास्पदभूतायां सर्वमुक्तचरं वक्ष्यमाणं च आयत्तं ---- प्रमाणाधीना वस्तुसिद्धिः इति तत्र तत्र प्रसिद्धेः , एवं च प्रकृतसमर्थनीयवस्तूपयोगितया स्वयं च संबन्ध रूपतया अवश्यविचार्यां मानादिस्थितिं निरूपयितुम्

{इदमेतादृक् । }

इत्यादि ,

{ ईशादिव्यवहारः प्रवर्त्यते ॥}

इत्यन्तं श्लोकसप्तदशकेन आह्निकान्तरमारभ्यते । तत्र श्लोकद्वयेन प्रमाणतत्फलस्वरूपम् , ततः प्रमेयस्य स्वरूपं निरूपयितुं प्रत्याभासं प्रमाणस्य व्यापारो न तु स्वलक्षणात्मकवस्त्वेकनिष्ठतानियमेन ---- इति दर्शयितुं प्रत्यवमर्शबलेन आभासव्यवस्था , इति दशभिः श्लोकैः उच्यते , तत्प्रसंगात्मिथ्याज्ञानस्वरूपं श्लोकेन , प्रमेयस्वरूपसिद्धिश्च प्रकृतमपि ईश्वरवादमव;अम्ब्य घटते ---- इति श्लोकेन उपदर्श्यते , स च एष सर्वः प्रमाणतत्फलप्रमेयादिप्रविभागः सति प्रमातरि प्रदर्शितरूपे , ततो न तस्य प्रमेयता येन अत्रापि प्रमाणव्यापारसंभवः , केवलं व्यवहारमात्रसिद्धिफलं प्रमाणमत्र , इति श्लोकत्रयेण ---- इति तात्पर्यार्थः ।

यदुक्तम् <क्रियासंबन्धादिबुद्धयो न भ्रान्तिस्वभावाः> इति , तदेव निर्णेतुं प्रमाणतत्फलस्वरूपं तावत्प्रसिद्धमनुवदति ।

इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते ।
वस्तु प्रमाणं तत्सोऽपि स्वाभासोऽभिनवोदयः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ १ ॥

सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि ।
एकाभिधानविषये मितिर्वस्तुन्यबाधिता ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ २ ॥

यस्य वशात्---- सामर्थ्यात्, वस्तु <नीलसुखादिकं> व्यवतिष्ठते ---- नियतां प्रकाशमर्यादां न अतिवर्तते <इदमिति> स्वरूपेण <एतादृक्> इति च विशेषणभूतनित्यत्वानित्यत्वादियोगेन , तल्लोके <प्रमाणम्> इति स्थितम् , तच्च विवेचकेन विचार्यम् ---- इह वस्तुनः स्वरूपं स्वात्मवशेनैव न तावत्व्यवतिष्ठते ---- जडत्वात्, मम नीलं प्रकाशते चैत्रस्य वेति च तदा कथमवभासः , तस्मातन्यवशेन व्यवतिष्ठते , अन्योऽपि चेत्जडः ततन्धेन अन्धस्य हस्तादानम् , तस्मातन्योऽसौ संविदास्मा , सोऽपि यदि शुद्धो निर्विशेषो न तर्हि नीलस्यैव व्यवस्थाहेतुः भवेत्---- पीतादावपि तस्य तथात्वात्, तदसौ नीलोपरक्तो नीलोन्मुखो नीलप्रकाशस्वभाव इत्याभासः सन्नीलस्य व्यवस्थापकः , तत्प्रकाशस्वभावतैव हि तद्व्यवस्थापकता , स च नीलस्य प्रकाशो यदि अव्यतिरिक्तस्य , तत्पीतस्यापि स्यात्---- प्रकाशात्मकचित्तत्त्वतादात्म्याविशेषात्, तेन व्यतिरिक्तीकृतस्य नीलस्य स प्रकाशः । नीलं च इत्थं ततो व्यतिरेकाभासयोग्यं यदि सोऽप्या ---- भासो महतः प्रकाशात्व्यतिरिच्यते , महाप्रकाशाव्यतिरेके तस्य ततो नीलादेः व्यतिरेकाभावप्रसंगात्, महाप्रकाशाच्च न व्यतिरेकं किंचिदपि सहते , इति नूनं तेन संकोच आत्मनि निर्भासनीयः , संविदो वस्तूनां च संकोचनप्राणो नञर्थरूपोऽसौ शून्य इत्युच्यते , संकोचावभास एव च मायीयप्रमातुः उत्थानम् , अत एकया सृष्टिशक्त्या प्रमातृप्रमाणप्रमेयोल्लासः प्रमार्थतः , तेन ---- शून्यधीप्राणदेहाद्युपाध्याश्रयस्वीकारात्मकसंकोचपरिग्रहसंकुचितात्म्-अयाप्रमातुः अनन्तकालान्तर्मुखसंवेदनरूपात्स प्रमाणाभिमत आभासो यावत्प्रमेयोन्मुखतास्वभावः तावत्प्रमेयस्य देशकालाकाराभाससंभेदवत्त्वात्सोऽपि तथैव क्षणे अन्यान्यरूपः स्रष्टव्यः , तदुक्तम् <अभिनवोदयः> इति ---- अभिनवः ---- क्षणपरिवासम्लान्यापि न कलङ्कितः , तेन <नवनवोदय> इत्युक्तं भवति , सोऽपि यदि तथाभूतो मायाप्रमातृलग्नो न भवेत्ततो मम नीलावभासो यस्य तस्यैव पीताभासो मम इति न स्यात्, अस्ति च इदं स्वसंवेदनं ---- यत्सर्वत्र अबाध्यमानम् , इत्येवं स्वत्वेन आभासमानो य आभासो ---- नवनवप्रमेयौन्मुख्यात्नवनवोदयः स प्रमाणं यतः प्रमां विधत्ते । कासौ ? प्रमाणफलस्वभावा इति चेत्, आह ---- स एव बोधरूप आभासो मितिः प्रमाणफलमिति संबन्धः । ननु एवं पर्यायत्वमुक्तं भवेत्न तु फलभावः , आह ---- बाह्योन्मुखतया प्रकाशरूपया तत्र तत्प्रमाणम् , या तु तस्यैव अन्तर्मुखात्मा विमर्शरूपता प्राकुपपादिता तत्स्वभावेन केवलं विषयदशासंकुचितेन स एव बोधः फलम् , यथाहि <यः शूरोऽहं स एव विजयी> इति एकनिष्ठे शूरत्वविजयत्वे विवेकवता हेतुफलभावेन व्यवस्थाप्येते , यतो हि <अहं शूरः ततो विजयी> इति । एवं यतो नीलप्रकाशः ततो <नीलमिदम्> इति परामर्श इति एकरूपत्वेऽपि हेतुफलभावः , ययोक्तं

{तद्वशात्तद्व्यवस्थानात् ।}

इति । किं च इह व्यापाररूपमेव फलं व्यापारश्च व्याप्रियमाणात्व्यापार्यमाणात्वा अनन्याकार एव सिद्धः , इति ---- अभेदः प्रमाणफलयोः विमर्शबलेन च यतः प्रमाणं विमर्शश्च शब्दजीवितः शब्दश्च आभासान्तरैः देशकालादिरूपैरनामृष्टे एकतरिवाभासमात्रे प्रवर्तते ---- घट इति लोहित इति , ततो देशकालाभासयोः स्वलक्षणत्वार्पणप्रवणयोः अनामिश्रणात्सामान्यायमाने आभासे प्रमाणं प्रवर्तते , <अयम्> इत्यपि हि अवभास आभासान्तरानामिश्रे पुरोऽवस्थिते भावावभासमात्रे , इति उक्तं श्रीमदाचार्यपादैरेव ----

{नियतेऽप्ययमित्येवं परामर्शः पुरःस्थिते ।
सर्वभावगतेदन्तासामान्येनैव जायते ॥}

इति । तत आभासमात्रमेव वस्तु , स्वलक्षणं तु तदाभाससामानाधिकरण्याभासरूपमाभासान्तरमेकमन्यदेव , तत्र च पृथगेव च प्रमाणं , तत्परं मिश्रीकारेषु तेषु आभासेषु गृहीतग्राहि न प्रमाणमिति अग्रे भविष्यति , अध्यवसायस्य अस्मदुक्तनयेन शब्दप्राणितस्य प्रत्याभासविश्रान्तौ तदपेक्षमपि प्रामाण्यं वदता प्रत्याभासनिष्ठमेव प्रामाण्यमुपेत्यम् , इत्यास्ताम् , किमवान्तरेण । ननु यदि विमर्शः प्रमाणव्यापारः स तर्हि द्विचन्द्रेऽपि अस्ति ? मैवम् , स हि संस्कारयोगातात्मानमभिमतप्रसिद्धार्थक्रियाप्राप्तिपर्यन्तमनुबन्धयननुन्मूलितवृत्तिः स्थिरः सन् तथा भवति , मध्ये पुनरुन्मूलनं चेत्सहते न तर्हि असौ तथा विमर्शः , नायं विमर्शः पूर्वमपि ---- एकेन अन्तर्मुखेन वपुषा पूर्वमेव ---- तस्य निर्मूलनात्, स्वसंवितत्र च साक्षिणी , तदैव <न इदं रजतम्> इति वृत्तपूर्वस्यैव विमर्शस्य अविमर्शीकरणं संवेद्यते ।

उक्तं च एतत्बाधविचारे , वक्ष्यते च

{रजतैकविमर्श }

इत्यत्र , एवं स्थिते द्विचन्द्रेऽपि यावत्परकुतूहलसंपादनमर्थक्रियासंमतमपूर्ववस्तुदर्शनाय चिकीर्षति तावतवज्ञोपहासशोकादिविवशः परजनवचनाकर्णनेन समुन्मूल्यमानं प्राच्यं <द्विचन्द्रोऽ यम्> इति परामर्शं स्वसंवेदनादेव अभिमन्यते । नन्वेवं यत्र अर्थक्रियां न अन्विच्छति तत्र कथं बाधाबाधव्यवहारः ? मा भूत्---- किं नः त्रुटितं प्रवृत्तिर्हि न सर्वत्र प्रमाणत एव , किं तर्हि कवन संशयत एव , अर्थपक्षाधिक्यातर्थित्वतारतम्यादपि वा कृष्यादौ सविषान्न भोजने निश्चितसंभावितदृष्टप्रत्यवाये च चौर्यादौ प्रवृत्तिदर्शनात्, ततर्थित्वातिशयः लोकस्य प्रवृत्तौ निबन्धनम् , स च प्रवृत्तः क्वचन अनुम्मूलितप्रमितिकः प्रमाणतां प्रतिपद्यते , क्वचितन्यथाभवन् विपर्ययमिति । एवमाजन्म यतोऽनेन अभ्यस्त आजन्मशतेभ्यो वा प्रमाणाप्रमाणविभागः ततो मणिरूप्यादिवत्तत्स्वरूपमापातमात्र एव विलक्षणमीक्षते , अस्ति हि तस्य परमार्थतो वैलक्षण्यं कारणभेदादिकृतम् , ततश्च यदार्तिं परिमितां सह्यामभिमन्यते तत एव अर्थितामहाग्रहेण यत्र तत्र न प्रेर्यते तदा विसंवादभीरुः निश्चितप्रामाण्यात्बोधातदृष्टे दृष्टेऽपि वा प्रवर्तमानो न विसंवाद्यते , इति स ---- प्रेक्षापूर्वकारी भण्यते , तेन लौकिलं प्रमाणस्वरूपमनूदितं सामान्यसंबन्धादिज्ञानेऽपि मोहातप्रामाण्यशंकां शमयितुम् , अत एव विभागविशेषलक्षणपरीक्षादिभिरिह न आयासितो लोकः । यत्यतबाधितस्थैर्यमत एव अप्रतिहतानुवृत्तिकं विमर्शफलं विधत्ते तत्तद्बोधरूपं बोध्यनिष्ठं प्रमातृस्वरूपविश्रान्तं प्रमाणमिति । तच्च ऐन्द्रियके बोधे सुखादिसंवेदने योगिज्ञाने च अविवादमेव , मुख्यतयैव प्रमेयरूपे आभासे साक्षात्विश्रान्तेः । अनुमानजा तु प्रतीतिः आभासान्तरात्कार्यरूपात्स्वभावभूतात्वा आभासान्तरे प्रतिपत्तिः , वस्त्वन्तरस्य च तेन साकं कार्यकारणभावनियमः सामानाधिकरण्यनियमश्च ईश्वरनियतिशक्त्युपजीवन एव अवधार्यो भवति न अन्यथा । तेन यावति नियतिर्ज्ञाता तावति देशे काले वा अनुमानं प्रमाणम् । आगमस्तु नामान्तरशब्दनरूपो दृढीय स्तमविमर्शात्मा चित्स्वभावस्य ईश्वरस्य अन्तरङ्ग एव व्यापारः प्रत्यक्षादेरपि जीवितकल्पः तेन यत्यथामृष्टं तत्तथैव यथा <नैतत्विषं मां मारयति गरुड एव अहम्> इति । तत्र तु तथाविधे शब्दनात्मनि विमर्शे आनुकूल्यं यो भजते शब्दराशिः सोऽपि प्रमाणम् , यथा ---- वेदसिद्धान्तादिः , अन्योऽपि वा बौद्धार्हतागमादिः , तेन हि यत्शब्दनमुत्पातितं <ज्योतिष्टोमकारी अहं स्वर्गं गन्ता> इति <दीक्षितोऽहमपुनरावृत्तिभागी> इति , <कारुणिकोऽहं बुद्धपदं गन्ता> इति , <गाढक्लेशसहिष्णुरहमर्हत्पदं प्रपत्ता> इति , तत्र न विपर्यय उदेति , तदा श्वस्तस्यैव तत्र अनुष्ठानयोग्यत्वात्, अन्यस्य तु दृढप्रतिपत्तिरूपत्वाभावातप्रमाणमेव तथाविमर्शनात्मकं शब्दनम् । नन्वेवं तदेव शास्त्रं <कंचित्प्रति प्रमाणं कंचित्प्रति न> इति स्यात्, न चैतद्युक्तम् ---- <अपक्षपातित्वात्प्रमाणस्य> इति , अतत्त्वज्ञोऽसि प्रतीतिवृत्तस्य , तथापि नोपेक्ष्यसे , <अपक्षपाति प्रमाणम्> इति कः अस्य वचनस्य अर्थः , किं यतेकस्य नीलज्ञानं प्रत्यक्षरूपं तत्किं सर्वस्य नीलं भासयति धूमज्ञानं वा अग्निम् , <त्वं प्रातर्निधिमनेन विधिना लन्धासे> इति च यः सिद्धादेश आगमः स किं सर्वान्प्रति प्रमाणम् , अथ कस्यापि कदाचित्किंचित्, तथा इहापि दृढविमर्शनरूपं शब्दनमा ---- समन्तातर्थं गमयति इति आगमसंज्ञकं प्रमाणं सर्वस्य तावत्भवति , तत्र यथा मिथ्याज्ञानसहायतां भजमानमालोकेन्द्रियादिकमप्रमागतासविवमप्रमाणम् , न च
एतावता सम्यग्ज्ञानरूपस्य प्रत्यक्षस्य काचित्पक्षपातिता , तथा स एव व्योतिष्ठोमादिशब्दः शूद्रादेरदृढविमर्शात्मनि अत एवाप्रमाणे आगमाभासे साचिव्यं विदधदपि दृढविमर्शात्मकसत्यागमरूपशब्दलक्षणप्रमाणोपयोगितायां प्रामाण्यं भजन्न पल्लपातापल्षपातदोषप्रतिक्षेपयोग्यः , सर्व एव हि आगमो नियताधिलारिदेशकालसहकार्यादिनियन्त्रितमेव विमर्श विधत्ते , विधिरूपो निषेधात्मा वा । तेन <प्रसिद्धिः> इति श्लोके <यत्र यदा> इत्युक्तम् , तेन ---- प्रत्यक्षागमौ बाधकौ अनुमानस्य , इति तत्रभवद्भर्तृहरि -- न्यायभाष्यक्र्ट्प्रभृतयः , तस्मात्प्रमाणलक्षणे ज्ञाते सर्वं प्रमाणस्वरूपं ज्ञातं भवति किं विशेषलक्षणैः , यस्तु अविसंवादकत्वं तस्य लक्षणमाह तेनापि <प्रापकत्वं प्रवर्तकत्वं प्रवृत्तियोग्यशक्यप्राप्तिकवस्तूपदशकत्वं> प्रमाणलक्षणं ब्रुवता न किंचित्प्रमाणाभिमतबोधविश्रान्तं स्वरूमुक्तम् , तच्च अनेनैव लक्षणेन निर्वाह्यते तत्निर्व्यूढं भवति , अन्यथा मुखभङ्गमूर्धकम्पाङ्गुलीमोटनादिमात्रतत्त्वं तत्, इति अलं विस्तरेण ॥२॥

ननु च <एकाभिधानविषये मितिः> इति यतुक्तम् , तत्र ---- एकमभिधानं बाह्ये स्वलक्षण एव प्रवर्तते यदि , तत्कथमुक्तं प्रत्याभासं प्रमाणम् , आभासमिश्रीकरणाभासस्तु स्वलक्षणमित्याशङ्कां शमयन् प्रमाणस्य यत्प्रमेयं तत्परमार्थतो निरूपयितुमाह ----

यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ३ ॥

यद्यपि घट इति बहिः परिदृष्ट एकोऽर्थः तथापि तावानेव असौ न , अपि तु पृथङ्निर्भव्यमानतामपि सहते , तथाहि ---- स्वतन्त्रं वा विवेचनमर्थित्वानुसारेण वा पूर्वप्रसिद्ध्युपजीवनेन वा , तत्र त्रिधापि विवेचने क्रियमाणे पृथगेव भान्ति आभासाः , नन्वेवं चेत्कथमेकं स्वलक्षणम् ? उच्यते ---- तेषां पृथक्भासमानानामपि आभासानां यो विमर्शः अनुप्राणितभूतः स कदाचित्प्रत्याभासमेव विश्राम्यति , तदा परापरसामान्यग्रहणम् , कदाचित्पुनः गुणप्रधानतापादनेन <अत्र इदमित्थम्> इति मिश्रणाप्राणो विमर्शः तदा तदेकं स्वलक्षणम् । अपिः भिन्नकमः अनुसन्धानेन मिश्रताविमर्शेन साधितो य एकोऽर्थः स्वलक्षणात्मा तन्न एकस्मिन्नपि सति रुचि ---- स्वातन्त्र्यम् , अर्थित्वम् ---- अर्थक्रियाभिलाषपरवशताम् , व्युत्पत्तिं ---- वृद्धव्यवहारशरणतां च अनतिक्रम्य भिद्यत एव आभासः ॥३॥

क यथा इति निदर्शयितुमाह ----

दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः ।
यथाभासा विभिद्यन्ते देशकालाविभेदिनः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ४ ॥

तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः ।
आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ५ ॥

इह तावतेकस्मिन्नपि चेतनतया प्रसिद्धे पुरुषस्वलक्षणे विततदेशव्यापितां दीर्घतामेव कदाचित्विमृशति , या तरूणामपि अस्ति , निःसंधिबन्धनरूपतां वा वृत्ततां या शिलानामपि संभविनी , ऊर्ध्वदिगाक्रमणरूपां वा ऊर्ध्वतां या स्थाणोरपि संबन्धिनी , गमनागमनादिस्वतन्त्रभावयोग्यतारूपं वा पुरुषत्वं यदन्यपुरुषसाधारणम् । तथा हि ---- स्वतन्त्रया वा इच्छयां रुचिरूपया यावदेवं कुर्यात्यथोउक्तम्

{या त व्याक्षेपसारत्वाच्चेतसः स्वरसोद्गता ।}

इति । विततदेशव्यापिन एव वा अर्थान् तिरोधिलक्षणामर्थक्रियामर्थयमानो विभजेत्, एवं व्यवहारे वृद्धैः कीदृक्दीर्घं नाम गीयते इति व्युत्पित्समानो व्युत्पादयितुमिच्छुः वा विभागं कुर्यात् । इत्येवं तत्र आभासानां भेदः । एकस्वलक्षणं तु ---- एकस्मिन् देशाभासे कालाभासे च विश्रान्तेः , देशकालाभासावेव हि सामान्यरूपताप्रयोजकव्यापित्वनित्यत्वखण्डनाविधानसविधवृत्ती विशेषरूपतां वितरतः । एवं पुरुषत्ववतन्येऽपि ब्राह्मणाद्याभासा अपि निरूप्याः , एवमत्र तावत्प्रसिद्धतर आभासभेदो ---- जडाजडसाधारणबहुतरधर्मास्पदत्वात्, अनेन निदर्शनेन धूमेऽपि धूमत्वचान्दनत्वश्रीखण्डचन्दनोत्थितत्वादयः प्रसिद्धा आभासभेदा विभजनीयाः । प्रसिद्धेन दृष्टान्तेन अप्रसिद्धभागोऽपि यो घटः तत्रापि आभासभागभेदो भवति , तथाहि किंचिदपि अत्र नास्ति इति हृद्भङ्गमिव आपद्यमानो घटं पश्यन् <अस्ति इदम्> इति सत्त्वाभासमेव पश्यति , अपरानाभासान्नाम्नापि तु नाद्रियते , तथा उदकाहरणार्थी घटाभासम् , स्वतन्त्रनयनानयनयोग्यवस्त्वर्थी द्रव्याभासम् , मूल्याद्यर्थी काञ्चनावभासम् , हृद्यतार्थी औज्ज्वल्याभासम् , आदिग्रहणात्दृढतरभावार्थी दार्ढ्याभासमिति द्रष्टव्यम् , एवं रुचिव्युत्पत्त्योरपि योजनीयम् । एवमेते आभासभेदा एव वस्तु आभासमानतासारत्वात्वस्तुतायाः । योऽपि आभासस्य प्राणभूतो विमर्शः सोऽपि प्रत्याभासमेव , शब्दस्य अभिजल्पात्मनो बोधजीवितप्रख्यस्य प्रत्याभासमेव विश्रान्तेः , सत्घटो लोहितः इत्यादि । अर्थक्रियाकारित्वमपि अन्वयव्यतिरेकाभ्यां प्रत्याभासमेव नियतं ---- सदाभासेन हृद्भङ्गपरिहारमात्रस्य संपादनात्, तत्र आभासान्तरस्य या अपेक्षा सा अग्न्याभासेन अर्थक्रियायां साध्यायां पात्राभासस्य इव तदाभासनान्तरीयकत्वेन आभासान्तरस्यापि नियतस्य अपेक्षणात् । एवं येन येन मुखेन अर्थो विचार्यते तेन तेन आभासमात्रात्मैव तथैव प्रतिभासनात्विमर्शनातर्थक्रियाकरणाच्च इति सिद्धम् । एवं प्रसिद्धतरप्रसिद्धाप्रसिद्धत्वातिशयेन एकोऽपि अर्थोग्रन्थकारेण त्रैधं निरूपितो <दीर्घवृत्तेति धूमेति सद्धटेति> ॥५॥

ननु एवं प्रत्याभासमेव वस्तुत्वे एको घटात्मा न वस्तु स्यातित्याशंक्याह

आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः ।
सामानाधिकरण्येन प्रतिभासादभेदिनाम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ६ ॥

आभासानां मिश्रं यद्रूपं तत्र अवश्यं कश्चिदाभासः प्रधानत्वेन अन्याभासानां विश्रान्तिपदीकार्यः स तेषां समानमधिकरणम् , तेन सह यस्तेषां संबन्धः तत्सामानाधिकरण्यम् , तेन उपलक्षितो यः प्रतिभासः ---- अर्थोन्मुखः प्रकाशः तदनुप्राणकश्च नपदात्मा परामर्शः ---- तस्य सर्वस्य एकाभासविश्रान्ततानियमात्, तस्मात्तं सामानाधिकरण्याभासं समनुघ्राणयति यो वाक्यात्मा वाक्यार्थपरामर्शरूपो विमर्शः ---- इह इदानीमेष घटोऽस्ति इत्येवंरूपः ततो हेतोः ये अभेदिन एकस्वलक्षणतां प्राप्ता न च स्वरूपभेदमुज्झन्तः तेषामन्या विशिष्टा समुदिता अर्थक्रिया । आभासविमर्शभेदे पुनरन्या नियता एकैकमात्ररूपा आभासप्रतिभासशब्दाभ्यां सूत्रे विमर्शोऽपि आक्षिप्तो मन्तव्यः । पुनः शब्दो विशेषद्योतकः काकाक्षिवतुभयत्र योज्यः । बहुवचनेन ऐक्येऽपि स्वरूपभेदापरित्याग उक्तः , तत्र च ऐक्यावभासे परतन्त्रं सत्पृथक्त्वं यदा आभासानां तदा समानरूपव्यक्त्युपरञ्जकत्वेन पारमार्थिकं सामान्यरूपत्वम् , घटाभासस्य तु शुद्धस्य स्वतन्त्रपरामर्शे योग्यतामात्रेण सामान्यरूपता न वस्तुतो ---- द्रव्यादन्यो हि सर्वः पदार्थः परतन्त्रतासारः , एवमेकोऽपि घटात्मा च इत्यपि सत्यमेव ---- आभासविमर्शार्थक्रियाबलेन तथा व्यवस्थापनातिति ॥६॥

ननु एकेनैव अर्थक्रिया न तत्र , अपि तु आभाससमुदायातर्थक्रियासमुदायः , आभासाश्च भिन्ना अपि यदि एकामर्थक्रियां कर्तुं मिश्रीभवन्ति , तदा कस्तेषामियत्तावधिः इति चोद्यमपवदति ।

पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा ।
अविरुद्धावभासानामेककार्या तथैक्यधीः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ७ ॥

पृथक्वतिन्यो याः प्रदीपस्य प्रभाः सूक्ष्मतमावलोकनसामर्थ्याधानलक्षणां यामर्थक्रियां न कृतवत्यः तामेव एकभवनाभ्यन्तरं संमूर्छितात्मानो विदधते , न तत्र अर्थक्रियाणां समुदायो ७ ति । सागरपतितानि च स्रातांसि बहुतरतरङ्गारंभार्थक्रियाकारीणि । तद्वत्घटः काञ्चनो लोहितः ततोऽयं शिवलिङ्गशिरोमार्जनोचितसलिलाहरणार्थक्रियोचितो दृष्टमात्र एव तीव्रप्रीतिलक्षणार्थक्रियाकारी ; इति सिद्धमेवार्थक्रियाकारित्वम् । यत्पुनराभासानां मिश्रणे का सीमा इति ? तत्र उच्यते ---- येषामविरोधः त एव आभासा मिश्रीभवन्ति , नहि रूपाभासो मारुताभासेन मिश्रीभवति ---- विरोधात्, सोऽपि च नियतिशक्त्युत्थापितः । पृथक्ये दीपप्रकाशाः तेषां संबन्धि यदेकं सागरे स्रोतसां च यदेकं वस्तु तेन कार्या यथा ऐक्यधीः तथा अविरुद्धा ये अवभासा घटलोहितकाञ्चनादयः तेषां संबन्धि तदेकं स्वलक्षणं तत्कार्या ऐक्यधीरिति संबन्धः ऐक्यधिया ---- प्रतिभासो विमर्शोऽर्थक्रिया च इति स्वीकृतम् ॥७॥

नन्वेवं प्रत्याभासं प्रमाणस्य विश्रान्तत्वातग्न्याभासे अग्निज्ञानं प्रमाणं धूमज्ञानं च धूमाभासमात्रे कार्यकारणभावावभासोऽपि तावन्मात्रे , ततश्च धूमाभासोऽपि अग्न्याभासं व्यभिचरेतित्यादि बहुतरोपप्लवप्रसंगः इति शंकामपोहितुमाह

तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता ।
तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ८ ॥

तत्रेति ---- प्रत्याभासं प्रमाणं विश्राम्यति , इत्यस्मिन्नपि पक्षे न कश्चित्दोषः , तथाहि ---- अविशिष्टो यद्यपि बह्न्याभासो देशकालाभासप्रमुखैः आभासैः असंकीर्णत्वेन सामान्यमात्ररूपत्वात्तथापि स एवाभासो यावद्भिराभासैरविनाभूतो भगवत्या नियतिशक्त्या नियमितः तावतोऽवभासान् स्वीकृत्यैव प्रमाणकृतां निश्चयपदवीमवतरति । ततश्च बह्न्याभास इन्धनकार्यत्वाभासेन धूमकारणताभासेन उष्णस्वभावताभासेन च स्वाभाविकाव्यभिचरितनियमः प्रतीयमानो विश्वत्रैव सर्वदैव च तथा प्रतीतो भवति ---- एकत्वात्तस्य । अस्वाभाविकोऽपि यः स्वभावः पुरुषकृतसमयादिमुखप्रेक्षी , तद्यथा ---- अग्निशब्दवाच्यत्वं घटप्रतिपत्तिकारित्वमित्येवमादिः , सोऽपि एकप्रत्यक्षादेवनिश्चीयते , तस्य हि प्रमातुः कृत्रिमेण इतरेण वा रूपेण आभासान्तरनान्तरीयकतया असौ बह्न्याभासः संविदितः सर्वदेशकालगतः तथा संविदितः , इति तत्र किं प्रमाणान्तरेण । तस्य यथेच्छं पुरुषसमयेन नियुज्यमानस्य शब्दस्य अर्थोऽयं ज्वलद्भास्वराकार आभास इत्यनेन नियतिशक्तिरेव सर्वत्र शरणमिति पिशुनयति । एतदुक्तं भवति ---- यत्किंचित्कृत्रिममितरद्वा भावाभासस्य आभासान्तरेण नान्तरीयकतया प्रतिभाति तत्र नियतिशक्तिमात्रमेव परं विजृम्भते । तत्तु नियतिरूपं पूर्वापरविततकालम् ---- इन्धनकार्यत्वे धूमकारणत्वे उष्णस्वभावत्वे च आभासमाने , अनतिचिरकालं तु बह्न्यादिशब्दवाच्यतावभासादाविति विशेषः । ततश्च नियतिशक्त्युपजीवनेन धूमाभासोऽपि अग्न्याभासाव्यभिचारी इति न कश्चित्विप्लवः । कार्यता कारणता उष्णता च तस्य तस्य शब्दस्यार्थता तत्तच्छब्दा भिधेयता , आदिग्रहणात्---- गन्धरसशून्यता ऊर्ध्वदिक्संयोगिता जलविरोधिता च , इत्येवंभूतो य आत्मा स्वभावो वह्न्यादौ स एकस्मादेव प्रमाणात्मतः ---- संविदित इति यावत् । अविच्छेदः इति काव्ये अयं समयो , न ग्रन्थे द्वितीयतृतीयपादयोः सामस्त्येऽपि अदोषः । पृथग्भावप्रत्ययप्रयोगो वस्त्वन्तरापेक्षानपेक्षातः कृतकत्वाकृतकत्वाभ्यां वर्गभेदं सूचयितुम् ॥८॥

एवं भावस्वभावव्यवस्थापनं प्रत्याभासविश्रान्तेन एकेन प्रमाणेन क्रियते , तेषामपि आभासानां यथोचितं यदन्योन्यनान्तरीयकत्वं ततेकेन संवेदनरूपेण तदनेकप्रमिताभासविषयपूर्वप्रवृत्तसंवेदनकलापानुप्राणकान्तर्मुखस्वरूपेण निश्चीयते , तच्च ऐक्याभासमात्रे अनुसंधानरूपं प्रमाणम् , अनुसन्धीयमानेषु तु आभासेषु गृहीतग्राहित्वातप्रमाणम् , तत्र तु प्रत्येकं प्राच्यमेव प्रमाणम् । भावस्वभावव्यवस्थापनात्मकमानसप्रवृत्त्यतिरिक्तकायप्रवृत्त्युपयोगस्तु यथा प्रमाणविषयः तं प्रकारं दर्शयितुमाह





सा तु देशादिकाध्यक्षान्तरभिन्ने स्वलक्षणे ।
तात्कालिकी प्रवृत्तिः स्यादर्थिनः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ९ ॥

बाह्या तावतर्थक्रिया स्वलक्षणतः स्वालक्षण्ये च देशकालाभासयोजनस्यैव अन्तरङ्गत्वं तत्रापि च विशेषरूपतापि परामर्श विना न किंचित्, परामर्शद्वारेण तु प्रमातरि विश्राम्यन्ती प्रमातुः संवेदनैकरूपस्य देशकालायोगेन ऐक्यातभ्युज्झत्येव विशेषरूपताम् , इति सर्वत्र अद्वयं परमार्थतः , तथापि तु या विशेषरूपता भाति तस्यां परमेश्वरस्वातन्त्र्यमेव निमित्तं यत्, तत्मायाशक्तिरित्युच्यते । तत्र विशेषसाध्यार्थक्रियाविशेषेण योऽर्थी तस्य या स्वलक्षणे तस्मिन् विशेषरूपे अर्थे तत्कालभाविनी वाङ्मनः कायप्रवृत्तिः सा देशे , आदिग्रहणात्काले स्वरूपान्तरे तदनुसन्धानादौ च यानि अध्यक्षान्तराणि बहूनि प्रत्यक्षाणि तेषां भिन्ने भेदे निमित्ते सति भवति , न अन्यथा । नैकैकतः प्रमाणात्सा प्रवृत्तिः अपि तु प्रमाणसमूहादेव । समूहता च परस्य न उपपन्ना , अस्माकं तु एकस्वसंवेदनविश्रान्तिमयी सा बुध्यते , इति उक्तं प्राक्

{न चेदन्तः कृता । }(इप्क्२,३ ७)

इत्यत्र । इयमेव च सा प्रमाणानां योजना , योजिका च युक्तिरित्युच्यते । गन्धद्रव्यादियुक्तिवत् । एवं प्रत्यक्षसमूहादेव प्रवृत्तिरिति तात्पर्यम् । देशादिकेष्वध्यक्षेष्वपि देशाभासादियोजनायामपि , अन्तः ---- प्रमातरि अभिन्नं यत्स्वलक्षणं तत्र इति वा संगतिः । देशादिकैरध्यक्षान्तरैः प्रत्यक्षीभूतैराभासान्तरैर्भिन्ने स्वलक्षणे निमित्ते सति प्रवृत्तिः , इति वा योजना । अत्रापि प्रमेयवहुत्वनिरूपणदिशा तदनुयायित्वेन अभिधीयमानः प्रमाणसमूहो निमित्तत्वेन उक्तो भवति ।

ननु किं प्रात्त्यक्ष्यामेव प्रवृत्तौ प्रमाणसमूह उपयोगी ? नेत्याह

अप्यनुमानतः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ९ ॥

न केवल प्रत्यक्षतः प्रवृत्तिः देशादिकाध्यक्षान्तरभेदरूपप्रमाणसमूहनिमित्ता यावतनुमानतोऽपि तथैव । धूमाभासमात्रे अग्न्याभासमात्रे धूमस्याग्न्याभासाव्यभिचारित्वे पर्वताभासे च यानि प्रत्यक्षान्तराणि यच्च तद्गृहीतातिरिक्ते अयोगव्यवच्छेदे <अग्निरत्र> इत्येवंभूते पृथकनुमानं प्रमाणं तत्समूहादेव अर्थिनः तात्कालिकी प्रवृत्तिः इति संबन्धः ॥९॥

एवं विमर्शबलादेव भेदाभेदव्यवस्था , तदेव हि परमेश्वरस्य संवेदनात्मनः शिवनाथस्य स्वातन्त्र्यशक्तिविजृम्भितम् ; ततश्च परैः यतुच्यते <दूरान्तिकादौ अर्थस्य अभेदः> इति तदपि उअप्पद्यते , न तु अन्यथा कथंचित्, ---- इति निरूप्यते ।

दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना ।
बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ १० ॥

भिन्नावभासच्छायानामपि मुख्यावभासतः ।
एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ ११ ॥

प्रतिभासमात्रेण व्यवस्थां कुर्वतः कथं दूरादूरयोर्वस्तुनोरभेदः , प्रतिभासस्य सकलासकलावृतानावृतादितया यथाकथंचिदपि भेदात्? ननुविमर्शेऽपि प्रत्याभासं तथैव भिन्नता , ? सत्यम् , तथापि तु परो यो विमर्शः स एवायं पदार्थः इति एकप्रत्यवमर्शरूपः , तेन प्राणितकल्पेन आ समन्तात्ख्यानं प्रथनं यस्य मुख्यावभासस्य एकरूपभावाभासस्य , एकप्रत्यवमर्शे तदुचितोऽपि हि अस्त्येकावभासः , आभासविमर्शयोरन्योन्यभवियोगात् । तस्मात्मुख्यावभासादेकत्वमप्रतिहतमास्ते । यदेवानुमितं तदेव दृष्टम् , ---- इत्यत्र प्रत्यक्षपरोक्षतारूपेणात्मना स्वभावेन भिन्ना अवभावच्छाया अमुख्योऽवभासो येषां तेषामेकत्वं मुख्यावभासत एकप्रत्यवमर्शानुप्राणितात्, ---- इति संगतिः । बाह्यान्तरतया भिनावभासानामैक्यं यथा यदेव दृष्टं तदेवान्तरहमुल्लिखामि , ---- इति । व्यञ्जकानां दीपालोकादीनां दोषैर्भोन्नावभासानामैक्यम् , यदेव रक्तोत्पलं दीपेन नीलं दृष्टं तदेव सूर्यांशुभिर्लोहितं पश्यामि , इति । अन्येनापि प्रकारेण इन्द्रियापाटवादिना एकपार्श्वसंमुखत्वादिना वा येषामवभासच्छाया भिन्ना , तेषामपि मुख्यप्रत्यवमर्शानुवर्त्यवभासस्वरूपबलातैक्यमेव , ---- इति स्थितम् ॥१०॥॥११॥

ननु दूरादूरादावस्तु स एवार्थः प्रमात्रध्यवसितार्थक्रियांशे तथैवोपयोगात्, वाह्यान्तरत्वादौ कथम् , आन्तरस्यार्थक्रियायां प्रमात्रध्यवसितायामनुयोगात्---- इति भ्रान्तिं भङ्क्तुमाह

अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया ।
नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ १२ ॥

इह {कार्यकरणता}(इप्क्२,३ ८) इत्यत्र स्वरूपमिवार्थक्रियापि या मध्ये गणिता , सा सहजार्थस्वरूपभूता न भवति , तत्कारित्वं हि यस्मातीश्वरेच्छया नियतं भवने चाभवने च । यतो नैषा स्वरूपं तेन तस्या अकरणाथेतोर्भावस्यान्यत्वं नाशङ्कनीयं स्वरूपभेदाथि संभाव्येतान्यत्वं , न च स्वरूपमर्थक्रियाकारित्वम् , ---- इत्युक्तं वक्ष्यते च बहुशः । स्वरूपं च प्रत्यवमर्शवलादेकमेव बाह्यान्तरादावपि , इति ॥१२॥

ननु विमर्शबलादेव यदि वस्तूनां भेदाभेदव्यवस्था तर्हि इदानीं त्रिजगति निवृत्ता भ्रान्तिसंकथाः , शुक्तिकायामपि सत्यरजततैव आपतति <इदं रजतम्> इति विमृश्यमानत्वात्, ततश्च भ्रान्त्यभावे बाधानुपपत्तेः किमर्थमुक्तं {मितिर्वस्तुन्यवाधिता}(इप्क्२,३ २) इति । व्यभिचाराभावे हि <अवाधिता> इत्यस्य विशेषणस्य व्यवच्छेद्यं न लभ्यते , इत्याशङ्कां निरस्यति

रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः ।
उपाधिदेशासंवादाद्द्विचन्द्रेऽपि नभोऽन्यथा ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ १३ ॥

<इदं रजतं स्थिरं सर्वप्रमातृसाधारणमर्थक्रियायोग्यम्> इति इदमंशे रजताद्यंशेषु तत्संमेलनांशे च आभासविमर्शनबलात्न तावत्किंचित्मिथ्यात्वम् । किंतु उत्तरकालं यो भविष्यति विमर्शो <नेदं रजतं वस्तु स्थिरं प्रमात्रन्तरगम्यमभिमतकार्यकारि> इति तद्विमर्शविमर्शनीयं यत्तत्पूर्वविमर्शकालसमुचितमेव रूपं तत्तस्मिन् पूर्वविमर्शकाले नैवामृश्यते , भाव्यं च तेनामर्शनीयेन । तत्रैव काले <नेदं रजतमभूत्> इति हि उत्तरः परामर्शो न तु उदितप्रत्यस्तमितायां शतह्रदायामिव इदानीमेव <इदं न> इति विमर्शः ; ततो यावता पूर्णेन रूपेण प्रख्यातव्यं विमर्शपर्यन्तं तावत्न प्रख्याति , इत्यपूर्णख्यातिरूपा अख्यातिरेव भ्रान्तितत्त्वम् । तद्वशेन ह्यसद्विपरीतानिर्वाच्यादिख्यातयोऽपि उच्यन्ताम् ।

ननु सत्यरूप्यज्ञानमपि अपूर्णख्यातिः । ततस्तर्हि किम् ? । इदम् , अतः सर्वं भ्रान्तिः , ---- इत्यागच्छेत् । दिष्ट्या दृष्टिरुन्मीलिष्यति आयुष्मतः , मायापदं हि सर्वं भ्रान्तिः , तत्रापि तु स्वप्ने स्वप्न इव गण्डे स्फोट इव अपरेयं भ्रान्तिरुच्यते , अनुवृत्त्युचितस्यापि विमर्शस्यास्ह्तैर्यात् । अतश्च पृथकिदन्ताद्याभासेषु न काचन भ्रान्तिः , मेकनांशे तु विमर्शानुवृत्तिनिर्मूलनं विमर्शोदयकालादेव आरभ्य बाधकेन क्रियते , इति तत्रैव भ्रान्तिभावः , ---- इति सिद्धम् । रजतस्य शुक्तिकया सह यद्यपि एको विमर्शः तथापि शुक्तौ रजतस्य ज्ञानेन या दत्ता स्थितिः <इदं रजतम्> इति , सा न , यत उपाधिरूपो यो देशः <अत्र रजतम्> इति रजतच्छायामात्मनोपरञ्जयन् शुक्तिदेशः , तस्यासंवादात्, सम्यग्विमर्शानुवृत्त्याभासनं संवादनम् <वदिः> अत्र भासनविषयः , तस्याभावात्कारणात् ।

नन्वेवं भवतु शुक्तिकारजते , द्विचन्द्रज्ञाने तु <द्वौ चन्द्रौ> इत्याभासे शुक्तिकयेव मेलनं न केनचित्साकमाभासते यत्र बाधः स्यात्, एकाभासांशे च न बाधः , ---- इत्युक्तं भवतैव । क एतदाह --- मेलनं न केनचित्सह इति । एवं हि सति स्वालक्षण्येन नियतदेशकालतया कथमाभासः , ? तद्देशकालाभ्यां सह तत्रापि अस्ति मेलनाभासो यद्विमर्शोऽनुविवृत्सुर्निरुध्यते , द्वित्वाभासचन्द्राभासयोरपि मेलनाभासे विमर्शानुवृत्तिव्यावर्तनं वाच्यम् । तदेतदाह --- द्विरूपे चन्द्रेऽपि , न केवलं रजत एव । <नभः> इति देशविशेषः कश्चित् । <अन्यथा> इति द्विचन्द्रावरुद्धो योविमृष्टः स न तथा , ---- इति बाधकेन उन्मूलितप्राच्यविमर्शानुवृत्तिकः क्रियते , ---- इति । एवमाभासस्तन्मेलनं च नियमानुप्राणितम् ---- इत्येतावदेव प्रमेयम् । एतान्येव आगमे तत्त्वानि वक्ष्यन्ते । वस्तु तत्त्वं प्रमेयम् ---- इति पर्यायाः । तथा च काठिन्याभास इति पृथिवी , लोहिताभास इति रूपं तेजश्च , मेलनाभासो रजः , संनिवेशस्तु नियतिरूपः , नियतिर्हि नियमः , स च अभावप्राणः , अभावस्फुरणमेव च पृथिव्याभासस्य विचित्रतया चकासत्पृथुबुध्नोदराकारता , भेदाभासश्च माया , तत्पृष्ठे सत्यप्रकाशाभासश्च शिवतत्त्वम्, ---- इत्यास्तां तावत् । अग्रे भविष्यति एतत् । सर्वथा तावदत्र प्रमेये भगवत एव भेदने च अभेदने च स्वातन्त्र्यं घटगताभासभेदाभेददृष्टिरेव च परमार्थाद्वयदृष्टिप्रवेशे उपायः समवलम्वनीयः , न तु व्यवहारोऽपि अयं परमेश्वरस्वरूपानुप्रवेशविरोधी , इति प्रतिपादितम् ॥१३॥

एतदेव स्फुटयन् सकलप्रमेयसिद्धिः परमेश्वर एव आयत्ता , इति निरूपयति ।

गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता ।
भावानामित्थमेकत्र प्रमातर्युपपद्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ १४ ॥

इह अनुवृत्तं व्यावृत्तं च चकासद्वस्तु कतरेण वपुषा न सत्यमुच्यतामुभयत्रापि बाधकाभावात्, सत्यतो हि यदि बाधक एव एकतरस्य स्यात्तत्तदुदये स एव भागः पुनरुन्मज्जनसहिष्णुतारहितो विद्युद्विलायं विलीयेत ; न चैवम् , अत एव भेदाभेदयोर्विरोधं दुःसमर्थमभिमन्यमानैरेकैरविद्यात्वेन अनिर्वाच्यत्वम् , अपरैश्च आभासलग्नतया सांवृतत्वमभिदधद्भिः आत्मा परश्च वञ्चितः । संवेदनविश्रान्तं तु द्वयमपि भाति संवेदनस्य स्वातन्त्र्यआत् । सर्वस्य हि तिरश्चोऽपि एतत्स्वसंवेदनसिद्धं ---- यत्संविदन्तर्विश्रान्तमेकतामापाद्यमानं जलज्वलनमपि अविरुद्धम् , तत एव उक्तम्

{अत एव यथाभीष्टसमुक्केखा }(इप्क्१,६ ११)

इति । अतश्च गुणैरुपाधिरूपैरुपाधितया विवक्षितैः शब्दादिभिर्वा दण्डादिभिरपि वा यो भेदः , जातिवशात्सादृश्यात्भेदाग्रहणाद्वा , यश्च अभेदो भावानामित्थमित्युक्तनीत्या {क्रियासंबन्ध}(२,२ १) इत्यतः प्रभृति निरूपितः , स एकत्रप्रमातरि सकलप्रमाप्रमाणसंयोजनवियोजनादिविचित्रासंख्यकृत्यप्रपञ्चोचितस्वातन्त्र्ये भगवत्यस्मदीयहृदयैकान्तशायिनि शिवशब्दव्यपदेश्ये सति उपपद्यते , नान्यथा । विशेषणान्येव च भेदकानि ---- इति किमन्त्यैरन्यैर्विशेषैः अयं स परमाणुर्य एतद्देशादिविशिष्टघटारम्भणकालस्थितपश्चात्तनसंघटितद्व्यणुकारम्भकाले पूर्वं मिलितः । अयं स आत्मा , यः पुरा स्वर्गसदने सुरयोषितमिमामित्थं परिरब्धवान् , ---- इति इयतैव योगिसर्वज्ञादीनां सिद्धः परमाण्वात्मादिषु भेदावभासः , ---- इत्यलमवान्तरेण । सिद्धं तावत्भेदाभेदरूपं प्रमेयतत्त्वमेकप्रमातृविश्रान्त्या निःशङ्कतां श्रयति , इति ॥१४॥

नन्वेवंभूतो यद्ययं प्रमाता तत्रव तर्हि प्रमाणोपन्यासे प्रयतनीयं न प्रमेये , यदाह <प्रधाने हि यत्नः फलवान्> इति । तदेतदाशङ्क्य प्रथमोपक्षिप्तमेव प्रमेयं स्मारयत्याचार्यः । तथा हि ।

{अजडात्मा मिषेधं वा सिद्धिं वा विदधीत कः ।}(इप्क्१,१ २)

इति । यद्वस्तु तदेवेदानीं ज्ञाते प्रमाणस्वरूपे परमेश्वरस्वरूपे च निर्वाहणार्हम् , एवं भूतं हि प्रमाणं तदेवंभूते हि भगवति कथं क्रमताम् , इति । तदेतत्स्फुटयितुमाह





विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे ।
विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ १५ ॥

प्रमातरि पुराणे तु सर्वदा भातविग्रहे ।
किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ १६ ॥

परिमितप्रमातृलग्नो नवनवाभासः प्रमेयोन्मुखः प्रमाणमित्युक्तम् । तत्र प्रकाशवौषि प्रकाशमात्रस्वभावे पूर्वसिद्धे कः प्रमाणस्योपयोगः संभावना वा । तथा च पूर्वसिद्धे प्रमातरि सति तल्लग्नप्रकाशान्तर्भूतविमर्शमयीमभूतपूर्वां प्रमेयस्य सिद्धिं वितरति प्रमाणम् । प्रमातुश्चासिद्धस्य किं लग्ना सिद्धिरस्तु । विश्ववैचित्र्यं हि तर्त परमेश्वरे प्रकाशैकात्मनि सति भाति यथा चित्रं भित्तौ । यदि हि नीलपीतादिकं पृथगेव परामृश्यते तदा स्वात्मविश्रान्तेषु तेषु ततैव अन्योन्यविषये जडान्धबधिरकल्पानि ज्ञानानि स्वविषयमात्रनिष्ठितानि , विकल्पाश्च तदनुसारेण भवन्तः तथैव , इति <चित्रमिदम्> इति कथंकारं प्रतिपत्तिः । एकत्र तु निम्नोन्नतादिरहिते भित्तितले रेखाविभक्तनिम्नोन्नता दिविभागजुषि <गम्भीरनाभिरुन्नतस्तनीयम्> इति चित्रावभासो युक्तः , तद्वतेकप्रकाशभित्तिलग्नत्वेन वैचित्र्यात्मकभेदोपपत्तिः , इति भावभेदग्रहणप्रकाशभित्तेरनपायिनीं स्वप्रकाशतामाह । तत्र स्वप्रकाशे किं प्रमाणेन ? । अथोच्यते पूर्वमस्य प्रकाशो न भवति , तर्हि स एव नास्ति इति स्यात्प्रकाशमात्ररूपत्वात्तस्य । न च अस्य नास्ति , इत्यभावेन स्पर्श उपपन्नः , यतो हि असावेव परमार्थतः सन् , प्रकाशस्यैव सत्त्वात्, सतश्च असद्रूपत्वायोगात् । अथोच्यते ---- ईश्वरता तस्याप्रमिता प्रमास्यते तदपि न , यतो हि असौ प्रमातृत्वेन चेत्न चकास्यात्कस्यायमुच्यमः , चकास्ति चेत्तर
्हि प्रमातृतैव ईश्वरता , तदाह <ईश्वरे प्रमातरि सर्वदा भातविग्रहे> इति । विशेषेण गृह्यते इति विग्रहोऽसाधारणं स्वरूपम् , अत एव स्वतन्त्रप्रकाशरूपत्वातभावस्पर्शायोगेनाभावानुप्रवेशनेन यः कालव्यवहारः सोऽत्र नास्ति , ---- इति <पुराणे> इत्युक्तम् । तत्र किं प्रमाणं , कुतः प्रयोजनात्प्रमाणं , कस्तत्र प्रमाणस्योपयोगः , ---- इति , तत्र च किं प्रमाणं न किञ्चितुपपत्त्या घटते इत्यर्थः । यतः प्रमाणं नाम नवाभासरूपं प्रमातरि प्रमितिलक्षणां विश्रान्तिं विदधत्प्रमाणं भवति , प्रमाता चाविच्छिन्नाभासः सर्वाश्च प्रमितीः स्वात्मनि अन्तर्मुखरूपे भजते । तत्तस्मिन् कथमभिनवाभासस्तत्प्रमितिश्च कुत्र विश्राम्यतु तस्मात्देहप्राणपुर्यष्टकशून्यप्राय एव प्रमातरि प्रमाणमुच्यताम् । तत्रापि च वेद्यांशे यदि नाम , न तु कथंचित्संविदंशे , तत्रापि विषयोन्मुखे तत एव संकुचितत्वातभिनवाभासे संकोचविहीनसत्यप्रमातृलग्नतापेक्षया कथ्यतां स्वसंवेदनं प्रमाणम् । सौगतेनापि <ममेदं ज्ञानम्> इति कल्पितप्रमातृलग्नमेव तदुपेत्यं न तु परमार्थप्रमातरि प्रमाणेन किंचित् । उक्तं च मयैव

{यत्प्रमेयीकृताऽस्मीति सर्वोऽप्यात्मनि लज्जते ।
कथं प्रमेयीकरणं सहतां तन्महेश्वरः ॥}

इति ॥१६॥

नन्वेवं यदि भगवति प्रमाणमनुपयोग्यनुपपत्ति च किमर्थं तद्विषयं शास्त्रम् , तद्धि प्रमाणमेव , परार्थानुमानात्मकं हि शास्त्रम् , तत्र च प्रमाणादिषोडशपदार्थतत्त्वमयत्वमेव परमार्थः । यत्तु सौगतैः पञ्चावयवत्वादि दूष्यते तदाग्रहमात्रं , षोडशसु हि पदार्थेषु निरूप्यमाणेषु सम्यक्प्रतिपाद्यं परः प्रतिपाद्यते , <हिताहितप्राप्तिपरिहारयोः> इत्यादिना च ग्रन्थेन । परस्य किं प्रयोजनम् , तद्धि परस्य प्रतिपत्त्यै , सा च परार्थानुमानात्, तत्र च प्रतिज्ञादेरुपयोगः इति । तत्परिपूर्णपरप्रतिपत्तिकारि परमार्थतः सकलमेव शास्त्रं परार्थानुमानमागमव्यतिरिक्तं न्यायनिर्माणवेधसाक्षपादेन निरूपितम् । इति अत्रापि पूर्वोक्तमेव {किंतु मोहवशात्}(इप्क्१,१ ३) इति स्मारयितुमाह ।

अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् ।
शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३ १७ ॥

इह परमेश्वरस्येदमेव परं स्वातन्त्र्यं ---- यतस्मादृक्प्राच्यपशुदशाविशेषासंभाव्यमानातिदुष्करवस्तुसंपादनं नाम । इतश्च किमतिदुष्करं भविष्यति , ---- यत्प्रकाशात्मनि अखण्डितताद्रूप्ये एव प्रकाशमाने प्रकाशननिषधावभासः प्रकाशमानः । तस्मात्परमेश्वरस्य तत्परं स्वातन्त्र्यं यत्तथानवभासनं पशुरूपतावभासनं नाम ग्राहकांशसमुत्थापनं तद्द्वारेण च ग्राह्योल्लासनमपि । सैषा भगवतो मायाशक्तिरुच्यते । यथोक्तम् ।

{माया विमोहिनी नाम । }

इति । तदेवंभूतान्मायाशक्तिरूपात्स्वातन्त्र्यात्या मूढता विनष्टपूर्णचेतनता स्वात्मवर्तिन इच्छास्पन्दोदयस्फुटस्फुरितविश्वभावनिर्भरतात्मनः पूर्णत्वस्य , स्मृत्यादिशक्त्यात्मनः स्वातन्त्र्यस्य , देशकालसंकोचवैकल्यातयत्नसिधबैभवनित्यताधर्मस्य च प्रकाशमानस्यापि यदप्रकाशमानतया अभिमननम् , तस्या वशात्सामर्थ्यात्, पूर्वं यो न प्रवर्तितः समनन्तरश्लोकद्वयोक्तस्वरूपे प्रमातरि भगवति ईश्वरत्वादिना उक्तेनैव पूर्णतादिना व्यवहारो यः खलु <अहम्> इति भाति स पूर्णः विभुः स्वतन्त्रो नित्यः , ---- इत्येवमादिरूपः , तं प्रवर्तयन्तु व्यवहारं लोका इति । एतेन शक्तीनामिच्छाज्ञानक्रियाणां प्रकाशकेन प्रत्यभिज्ञारूपेण व्यवहारसाधनपरार्थानुमानात्मना शास्त्रेण तं व्यवहारं प्रवर्तयतां तत्समर्थाचरणं क्रियते । <प्रवर्त्यते> इति द्वौ णिचौ । केवलमिति न तु किंचिदपूर्वं क्रियते , नापि तत्त्वतोऽप्रकाशमानं प्रकाश्यते , प्रकाशमान एव यत्<न प्रकाशते> इत्यभिमननं तदपसार्यते । तदपसरणमेव हि परमेश्वरतालाभो मुक्तिः , तदनपसरणमेव संसारः , अभिमननमात्रसारं हि एतद्द्वयम् , उभयनपि चेदं भगवद्विजृम्भितमेव । एतदुक्तं भवति ---- यथा भौतस्य भासमाने एवात्मनि <अपहारितोऽहम्> इति मोहान्मन्यमानस्य मोहोऽपसार्यते , ---- कः खलु त्वं ? , यस्येदृशं वस्त्रं मुखमीदृशम् ---- इति चेत्, पश्य तदस्ति बह्वतः ---- इति पुनः पुनरभिदधता न च अस्य अपूर्वं किंचन रचितम् , तथा पशुलोकस्य भासमान एव आत्मनि <नाहमीश्वरः> इत्यादि मोहादभिमन्वतो मोहोऽपोह्यते । यो हि ज्ञानक्रियास्वातन्त्र्ययुक्तः स ईश्वरो यथा सिद्धान्तपुराणादिषु प्रसिद्धः , तथा च त्वम् ---- इति । यदि वा यस्मिन् यदायत्तं स तत्रेश्वरो राजेव स्वमण्डले , तथा च त्वयि विश्वम् , ---- इति ईश्वरताव्यवहारो नान्यनिमित्तकः , ---- इति व्याप्तिः । यत्खलु यल्लग्नं भाति तत्तेन पूर्णं निधानमिव मणिभिः त्वल्लग्नं च विश्वम् , ---- इति । यस्य यदन्तर्वर्ति भाति , स तावति व्यापकः समुद्ग इव मणिषु , त्वयि च संविद्रूपे धरादिसदाशिवान्तं शास्त्रप्रक्रियोक्तं विश्वम् , ---- इति । यस्मिन् स्थिते यदुदेति लीयते च तत्तत्पूर्वापरभागव्यापि यथा भूमावङ्कुरः , तथा च त्वयि प्रकाशरूपे विश्वम् , ---- इति । एवमन्येऽपि धर्माः सहस्रशोऽपि आगमादिसिद्धा योज्याः । तदेवं व्यपोहिते व्यामोहे स्थितेऽपि तत्संस्कारमात्रधृते शरीरादौ अनात्मताभिमानपुरःसर एवात्मताभिमाने घटादौ च प्रकाशमान एवानात्मताभिमाने ज्ञातेन्द्रजालतत्त्वस्य पश्यतोऽपि इन्द्रजालं यथा न तत्त्वतो व्यामोहः तथा प्रत्यभिज्ञातात्मस्वरूपस्य । ततो निवृत्ते प्रयाणप्रापितपर्यन्ते देहे परमेश्वरतैव । अभ्यासभावनाबलेन तु शिव शासनोपदिष्टेन देहघटादावेव परमेश्वरतासमावेशमभिनिविश्य पश्यत इहैव शरीरे पारमेश्वर्यांशधर्मोद्गमः , न तु वस्तुतः पूर्णता , देहत्वस्यैवसंकोचप्राणस्य गलने यथास्थितविश्वात्मकतापत्तेः । यस्य तु व्यवहारसाधने हेतुकलापेऽपि असिद्धताभिमानः , तस्य तत्रापि व्यवहारसाधनैरेव व्यामोहोऽपसार्यः । यस्य तु सर्वथा नापसरति , तत्रेश्वरशक्तिवलान्मूढतैव , तस्यापि कर्णपथगमनात्संस्कारपकिनावश्यं कदाचिद्भविष्यत्येव स्वरूपलाभः इति । तदेवं <कर्तरि>(इप्क्१,१ २) इत्यादिश्लोकद्वयेन यदुक्तं तदेव <विश्ववओचित्र्य> इत्यादिश्लोकत्रयेणोपस्कृत्य पुनर्निरूपितम् , एवं भूतं तावत्प्रमाणं तदेवं भूते भगवति कथमुपपद्यताम् । ततश्च युक्तमुक्तं शास्त्रादाविति मङ्ग्यन्तरेण इदानीं तदेव निर्वाहितम् ---- इति शिवम् ॥१७॥ आदितः १२०॥

इति श्रीमदाचार्याभिनवगुप्ताचार्यविरचितायां प्रत्यभिज्ञासूत्रविमर्शिन्यां क्रियाधिकारे मानतत्फलमेयनिरूपणं नाम तृतीयमाह्निकम् ॥ ३ ॥

____________________

क्रियाधिकारे चतुर्थमाह्निकम्सम्पाद्यताम्


{भावानाभासयन् कर्ता निर्मले स्वात्मदर्पणे ।
कार्यकारणभावं च यश्चित्रं तं स्तुमः शिवम् ॥}

क्रियाशक्तिस्फारप्रायसंबन्धप्रसङ्गात्ज्ञाप्यज्ञापकभावस्य तत्त्वं प्रसाध्य , कार्यकारणभावस्य तत्त्वं प्रसाधयितुं श्लोकैकविंशत्या आह्निकान्तरमारभ्यते , ---- <एष च> इत्यादि <एवमिच्छैव हेतुता कर्तृता क्रिया> इत्यन्तम् । तत्र श्लोकेन स्वमते कर्तृकर्मभाव एव कार्यकारणभावः , ---- इत्युपक्षिप्यते । ततः श्लोकत्रयेण जडस्य कारणत्वं पराक्रियते । ततः श्लोकषट्केन चेतनस्यैव कर्तृतारूपा कारणता प्रसाध्यते । ततः प्रसङ्गादनुमाने नियतिशक्तिरवश्योपजीव्या , ---- इति श्लोकत्रयेणोच्यते । ततः सौगतोक्तकार्यकारणपरमार्थोऽपि अस्मन्मतमेवावलम्बते , नो चेत्न किञ्चित्, ---- इति त्रिभिः श्लोकैः । सांख्योपदर्शितोऽपि कार्यकारणभावो नोपपद्यते , यद्यस्मदुक्तं चेतनस्य कर्तृत्वं नाङ्गीक्रियते , ---- इति त्रिभिः । चेतनस्यापि अनीश्वरतायां नैतद्घटते , ---- इति द्वाभ्यामिति संक्षेपार्थः । ग्रन्थस्तु व्याख्यायते ।

एवं क्रियाशक्तिमुखेन प्रमात्रेकरूपतां भगवति व्यवहर्तव्यां प्रसाध्य , कर्तृरूपतापि तत एवायत्नसिद्धा , ---- इति दर्शयितुमाह

एष चानन्तशक्तित्वादेवमाभासयत्यमून् ।
भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १ ॥

चोऽवधारणे । एष एव पुराणः प्रमाता अमून् भावानाभासितपूर्वानाभासानाभासयति अविच्छिन्नेन प्रबन्धेन । कथम् , इच्छाया ईशितुरभिन्नाया अविकल्परूपाया अक्रमाया वशेन सामर्थ्येन कुत्रास्य ते भावाः स्थिताः ? आह , <अनन्तशक्तित्वात्> इति । विश्वे हि भावास्तस्यैव शक्तिरूपेण स्वरूपात्मत्वेन स्थिताः ; इत्युक्तं

{स्वभिनश्चात्मसंस्थस्य }(इप्क्१,५,१०)

इत्यत्र । यदेतदाभासनं यासाविच्छा , सा क्रिया , अस्य भगवतो निर्मातृत्वम् ॥१॥

ननु बीजादङ्कुर उद्भवन् दृश्यते , न च अत्र कश्चिच्चेतनोऽनुप्रविशन् दृष्टः , तत्कथमेतदुक्तम् ? , ---- इत्याशङ्क्याह

जडस्य तु न सा शक्तिः सत्ता यदसतः सतः ।
कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ३ ॥

सद्वा कार्यमसद्वा संभाव्यते । उभयात्मकमनुभयात्मकमनिर्वाच्यम् , इति तु स्ववाचैव विरुध्यते तत्किमनेन । यदि असन् घटः , तर्हि तस्यासद्रूपतैव परमार्थः इति कथं स्वरूपविरुद्धं सत्त्वमभ्युपगच्छेत्, न हि पादपतनशतैरपि नीलमात्मनि पीतिमानं मृष्यते । अथ सन्नेव घटस्तर्हि किमन्यतुपयाच्यते दण्डचक्रसूत्रात् । अभिव्यक्तिविषयत्वस्फुटत्वादयोऽपि सदसद्रूपतया चिन्त्याः ॥

नन्वेवं तूष्णीमास्यताम् , नैतदपि युक्तमित्याह

अथ चोच्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ३ ॥

तदवश्यसमर्थ्योऽयमर्थमिति यावत् ॥३॥

ततश्च इत्थमुपपद्यत इति दर्शयति

कार्यकारणता लोके सान्तर्विपरिवर्तिनः ।
उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ४ ॥

कुम्भकारहृदये अन्तर्मनोगोचरत्वात्पूर्वमपि स्वसंविदेकात्मतया विचित्रत्वेन विश्वस्य भेदाभेदात्मना परिवर्तमानस्य स्पन्दनेन स्फुरतो यतन्तःकरणहिष्करणद्वयवेद्यत्वमाभास्यते , एषैव साकार्यकारणता । उभयग्रहणमुपलक्षणम् , यस्य यावति पूर्णार्थक्रिया समाप्तिरिति यावत् । सुखादीनामन्तःकरणैकवेद्यतापादनमेव निर्माणम् । न च कुम्भकारे प्राणपुर्यष्टबुद्धिशून्यदेहप्राये तदेतत्स्थितम् , एतस्यापि जडत्वात् । ततः संविदेव विश्वमात्मनि भासयति शक्तिवैचित्र्यात् । तस्य कस्यापि इति पूर्वमुक्तस्य अचिन्त्यापर्यनुयोज्यमहिम्न इत्यर्थः । नच वाच्यमुभयेन्द्रियवेद्यत्वमपि सदसद्वा इति । यतोऽयमत्र परमार्थः ---- यथा दर्पणान्तः कुम्भकारनिर्वर्त्यमानघटादिप्रतिबिम्बे दर्पणस्यैव तथाभासनमहिमा , तथा स्वप्नदर्शने संविदः , तथापि तन्महिम्नैव एतेन इदं बहिः स्फुटरूपं क्रियत इत्यभिमान उल्लसति । एवं संविन्महिम्ना कुम्भकृति दण्डचक्रादौ घटे स्थिते तन्महिम्नैव अभिमानो जायते ; यथा मया इदं कृतम् , अनेन इदं कृतम् , मम हृदये स्फुरितम् , अस्य हृदये स्फुरितमिति । तत्र जडस्य मृदादेर्दूरापेतोऽभिमान इति संवित्स्वभावे कर्तृत्वं व्यवस्थाप्यते । ननु भावरूपमेव इत्थं भास्यतां किं द्वयेन्द्रियवेद्यत्वेनोक्तमत्र , स्फुटमर्थक्रियाक्षमं रूपमनेनोक्तम् , ---- इति को विरोधः ॥४॥

अनेन च विचारेण प्रकृतमपि क्रियास्वरूपं सिद्धं भवति , ---- इति दर्शयति

एवमेका क्रिया सैषा सक्रमान्तर्बहिः स्थितिः ।
एकस्यैवोभयाकारसहिष्णोरुपपादिता ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ५ ॥

सैषेति , यस्याः <स्वरूपत आश्रयतश्च नोपपद्यते> इति उपालम्भः कृतः , सा उपपत्त्या स्थापिता । यतः संविद्रूपादान्तरात्प्रभृति इन्द्रियगोचरतया बहिष्पर्यन्ततया स्थितिराभासनारूपा , तत एव वेद्यात्मककर्मालिङ्गनेन सक्रमा तावदुपपन्ना , कर्तृकर्मैकाश्रयतादात्म्याच्च एका । स चैक आश्रयः संविद्रूपत्वेन स्वच्छत्वस्वतन्त्रत्वाभ्यामुभयमप्यन्तर्बहीरूपं सहत इति ॥५॥

ननु भवतु घटादावेवं , यत्र तु बीजाङ्जुरादौ चेतनानुप्रवेशो न दृश्यते तत्र कथं बीजस्यैवाङ्कुरः कार्यो न भवति ? इत्याशङ्क्याह

बहिस्तस्यैव तत्कार्यं यदन्तर्यदपेक्षया ।
प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ६ ॥

मातैव कारणं तेन स चाभासद्वयस्थितौ ।
कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ७ ॥
अन्तराभासमानस्य तथारूपापरित्यागेनैव बहिराभासनं निर्माणम् । ततश्च यद्वस्तु यमपेक्ष्य अन्तरित्युक्तं तद्वस्तु तस्यैव आन्तररूपविपरिवृत्तिमात्रस्य बहिष्कार्यं बहिष्करणार्हं भवति । संविद्रूपं च प्रमातारमपेक्ष्य अन्तराभासिनो भावास्तदपेक्षयैव बाह्याभासा इति तेनैव एतेषां बहिष्करणाभासनं युक्तम् ।

ततश्च प्रमातैव कारणं भवति न जडः । ह्यर्थे चः । यस्मात्स प्रमाता कार्यस्यान्तर्बहिराभासनद्वयनिमित्ततया स्थितस्तेन विना तदपेक्षस्याभासद्वयस्यानुपपत्तेः , तस्मादेकस्य प्रमातुरेव न तु कथंचित्जडस्य उदिता प्रसाधितरूपा क्रिया निर्मातृता भवतीति ॥७॥

एतदेव द्रढयति

अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः ।
तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ८ ॥

यत एवं चेतन एव निर्माता , अत एव नैयायिकादिभिरङ्कुरादौ बुद्दिमानेव परमेश्वरो हेतुत्वेन इष्टः । ननु तैः निमित्तकारणतास्य अङ्गीकृता क्रियाविभागादिक्रमायातपरमाण्वादिद्वारकतया , समवायिकारणनिजावयवारम्भपरम्परया तु तत ईश्वरादन्यस्यापि बीजभूमिजलादेर्हेतुता कथिता । सत्यं कथिता , सा तु नोपपद्यते , उक्तयुक्त्या जडस्य हेतुतायोगात्; ततश्चेश्वर एव बीजभूमिजलाभाससाहित्येनाङ्कुरात्मना भासते , ---- इतीयानत्र परमार्थः ॥८॥

ननुपरिदृष्टबीजादिव्यतिरिक्तबुद्धिमत्कारणकल्पनेन विना किमुपरुध्यत इति परस्य भ्रान्तिं भिन्दन्नाह

तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया ।
तत्तन्मृदादिसंस्कारक्रमेण जनयेद्घटम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ९ ॥

<तथा हि> इति निदर्शनोपक्रमेण व्याप्तिरेवंभूतैव दृष्टा , ---- इति द्रढयति । जडा हेतवश्चेतनप्रेरिताः कार्यं कुर्वन्ति , मृदादयो यदि हि सन्निधानमात्रेण विदध्युः कुम्भकारेण किमत्र कृत्यम् । शिविकस्तूपकादिपरम्परया ते जनयन्ति ; सा च कुम्भकारायत्ता इति चेत्सिद्धं नः साध्यम् ---- शिविकसंपादनेऽपि ते चेतनप्रेरणामपेक्षन्ते इति । तज्जडकारणानां चेतनप्रेरणामन्तरेण न क्वचित्कार्यकारित्वम् । यदि हि स्यात्मृदादीनामपि स्यात्, इति एकान्त एषः । ततश्च यतचेतनं कार्यकारि तत्चेतनापेक्षं मृदादय इव , तथा च वीजादि , ---- इति स्वभावः । अचेतनकार्यकारित्वं हि कादाचित्कत्वात्सनिमित्तम् , न चान्यदस्य निमित्तमुपपद्यते अनुपलम्भात्, इति तत्चेतनप्रेरणं यदि न निमित्तीकुर्यात्व्यापकविरुद्धमनिमित्तकत्वं प्रसज्येत ; न च युक्तं तत्, मृदादावपि तस्यैव प्रसङ्गात्, इति सिद्धा व्याप्तिः । अतश्च कुम्भकदेव तत्रेश्वरः । तदेतदाह ---- ईश्वररूपया व्यवस्थया यः स स मृद्दण्डचक्रादीनां संस्कारः , मृदो मर्दनं , दण्डस्य प्रगुणत्वं , चक्रस्य परिवर्तनमित्यादिः , तदारम्भो यः क्रमः शिविकस्तूपकादिरूपः , तेन घटं नियोगतो जनयति , नान्यथा , ---- नियोगे लिङ् । किं च यदि न क्रुध्यते वस्तुतः कुम्भकारोऽपि ऐश्वर्यैव स्वतन्त्रविश्वात्मतारूपया व्यवस्थया मृदादिसंस्कारापेक्षया प्रदर्शितनियत्यभिधाननिजशक्तिविजृम्भातो जनयेत्; अन्यथा अचेतना मृदादयः कथं कुम्भकारेच्छामनुरुध्येरन् , <तन्तवोऽपि वा पटसंपादनेच्छां किं नाद्रियेतन् । > तदेतदपि उक्तमनेनैव सूत्रेण <तथा हि> इति । नन्वेवं कुम्भकृतो नास्ति कर्तृत्वम् , ---- इति समुत्सीदेत्धर्माधर्मव्यवस्था । यदि प्रत्येषि युक्त्यागमयोः तदेवमेव । तथापि समस्तेतरनिर्माणमध्य एव इदमपि परमेश्वरेणैव निर्मितं यदविचलस्तस्य कुम्भकारपशोर्मिथ्याकर्तृत्वाभिमानः प्रतिभुव इव अधमर्णताभिमानः । यदि पुनरीश्वरस्येच्छैव इयमीदृशी <मा अस्य अभिमानोऽयमुद्गमत्> इति , तदा नासौ कर्ता कश्चित् । तदिदमपि उक्तं सूतेर्णैव <तथा हि> इति । कुम्भकारस्यापि <मृदादिसंस्कार क्रमेण किं घटं जनयामि , उत न जनयामि> इति य एकपक्षनिश्चयाय संप्रश्नात्मा विचारः , स ईश्वरसंनम्धिन एव विविधात्स्वरूपावच्छादनतत्त्वप्रकाशनरूपातवस्थानात्, ---- इति संप्रश्ने लिङ् । तस्मात्वस्तुत <ईश्वर एव सर्वत्र कर्ता , अहं च स एव> इति न परिमिते कर्ता , अपि तु सर्वत्र कर्ता , ---- इति एतावति सर्वथा हृदयेन अवधातव्यमिति स्थितम् ॥९॥

दृश्यतेऽस्य चेतनस्य स्वातन्त्र्यमेव सर्वत्र जम्भमाणं जडानपि यत्स्वात्मतामापादयति , न तु जडानां वस्त्वन्तराविष्करणे सामर्थ्यम् , ---- इति यदुक्तं , तत्सर्ववादिप्रसिद्धनिदर्शनेन द्रढयति

योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् ।
घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १० ॥

यदिह चेतनप्रेरितं कारणमिति प्रसिद्धं मृदादि , यच्च तदनपेक्षं बीजादि घटआदेरङ्कुरादेश्च जनकं , तदेव यदि परमार्थतः कारणं स्यात्तत्तद्व्यतिरेकेण घटाङ्कुरादेः कथं योगीच्छामात्रेण जन्म स्यात्, अकारणकत्वप्रसङ्गात्तेषां वा अकारणत्वप्रसंगात् । अथोच्यते ---- अन्ये एव ते घटाङ्कुरादयो मृद्धीजादिजन्याः , अन्ये एव च योगीच्छादिजन्याः , ---- इति , तत्रापि प्रबोध्यसे ---- विमर्शाभेदात्तावदभेद , ---- इति पूर्वमेव उक्तम् ; तत्रापि योगी खलु अप्रतिहतेच्छः , तस्य च इच्छा तादृगेव घटो भवतु यो मृदादिकृतकुम्भसंभवभूर्यर्थक्रियाकरणचतुरवृत्तिरिति । तदेतदाह ---- तस्य तस्य स्थिरस्य अर्थक्रियाविशेषस्य करणे हेतुतच्छीलानुकूलरूपं घटादि जायते , ---- इति । ये त्वाहुः ---- नोपादानं विना घटाद्युत्पत्तिः , योगी तु इच्छया परमाणून् पश्यन् संघट्टयतीति । ते वाच्याः ---- यदि खलु अन्वयव्यतिरेकागमादिपरिदृष्टः कार्यकारणभावो योगिषु न विपर्येति , ---- इति हृदयमावर्जयति वः तत्किं परमाणुग्रहेण ; नो चेत्घटस्य कपालानि शरीरस्य स्वावयवाः , तेषां निजं निजं प्रसिद्धं तृणशस्तिलशोऽपि अन्यथाभवबनसहमानं लौकिकमेव कारणम् , इति घटे मृद्दण्डचक्रादि , देहे स्त्रीपुरुषसंयोगादि उभयमपेक्ष्यं देहादिसंभवो दुःसमर्थ एव । चेतन एव तु तथा तथा भवति । भगवान् भूरिभर्गो महादेवो नियत्यनुवर्तनोल्लङ्घनतरस्वातन्त्र्यः , ---- इत्यत्र पक्षे नियत्यनुवर्तिनः लौकिके प्रसिद्धे कार्यकारणभावे स्वातन्त्र्यं , तदुल्लङ्घनमाद्रियमाणस्य तु योगिप्रायप्रसिद्धे लोकोत्तरे , ---- इति न कश्चित्विरोधः । इयांश्च लोके एव । परमार्थतस्तु स एव क्रमाक्रमरूपविश्वसृष्ट्यादिक्र्ट्यपञ्चकप्रपञ्चस्वभावः प्रकाशते । चेतनो हि स्वात्मदर्पणे भावान् प्रतिबिम्बवदाभासयति इति सिद्धान्तः । यदाह पूर्वगुरुः

{निरुपादानसंभारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥}(स्तवचि ९ श्लो )
इति ॥१०॥

ननु यदि प्रसिद्धकारणोल्लङ्घनेनापि तत्कार्यविशेषतुल्यवृत्तान्येव कार्याणि जायन्ते , भग्नास्तर्हि अनुमानकथाः । तथा हि मथमन्यदन्यत्र नियमवद्भवेतित्याशङ्क्य प्रामाणिकतरम्मन्यैस्तादात्म्यतदुत्पत्ती नियमनिदानमुपगते । न हि निःस्वभावं वस्तु भवति , नापि भिन्नस्वभावं स्वभावभेदेन भेदात् । पर्यायशस्तत्स्वभावद्वयाभावे च निःस्वभावताप्रसङ्गात् । एवं निर्हेतुके भिन्नहेतुके च कार्ये वाच्यम् । उभयत्रापि च हेतुकृतैव व्यवस्था । स्वहेतुत एव हि शिंशपा वृक्षस्वभावाव्यभिचारिणी जाता , स्वहेतुतश्च हुतभुग्धूमजननस्वभावः , तदिदानीं नियत्युल्लङ्घिनि कार्यकारणभावे सर्वमिदं विघटेत । योगीच्छया हि शिंशपापि अवृक्षस्वभावा भवेत्, धूमे तु द्विगुणं चोद्यम् ; अग्न्यादिसामग्री योगीच्छोद्भूता धूमं न जनयेत्, योगीच्छा वा अनग्निकं धूमम् , ---- इति न स्यादनुमानम् , अस्ति च तल्लोके , इत्याशङ्क्याह

योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते ।
कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ ११ ॥

योगीच्छापि सर्वथा तादृशमेव न तु वृश्चिकगोमयादिसंभूतवृश्चिकादिन्यायेन कथंचित्रसवीर्यादिना भिन्नं कार्यं जनयति , ---- इति यत्कथितमत एवास्य्मादेव हेतोः कार्यं वा धूमादि अग्न्याद्यनुमाने , शिंशपात्वादिस्वभावो वा वृक्षत्वाद्यनुमाने एवं हेतुर्भवति । यदि प्रमाणान्तरेण एवानुमाने जन्मान्तराभ्यासलोकप्रसिद्ध्यादिकमवश्योपजीव्यम् , सा च श्रुतानुमानप्रज्ञयोर्बीजम् , ---- इति च ऋतंभराविषयमुवाच पतञ्जलिः । अन्ये च यौक्तिका योगिप्रत्यक्षकल्पप्रत्यक्षसद्भावं समस्तवस्तुग्रहणाय कल्पितवन्तः । सांव्यवहारिके च प्रमाणे नास्माकं भरः , प्रकृतं हि अस्माकमीश्वरस्वरूपम् , तच्च स्वप्रकाशमेव , प्रमेयोपरोधेऽपि नोपरुध्यत इत्युक्तमसकृत् । ननु स्वभावहेतौ किमन्या चिन्तया ? , आह ---- वृक्षत्वाव्यभिचारिण्याः शिंशपाया उत्पत्तेर्यन्मूलं कारणं तत एव स सन्मात्रानुबन्धी स्वभावो जायते , ---- इति ; ततश्च

{एकसामग्र्यधीनस्य रूपादे रसतो गतिः ।
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥}

इति स्वभावहेतुर्न्यायः । ननु च वृश्चिकादीनां कीटगोमयाद्यनेककारणकत्वं तावत्दृष्टं , रसवीर्यादिभेदस्तु तत्र , ---- इत्यन्यदेतत् । तद्योगिजन्यत्वम्वह्निकस्यापि धूमस्य सह्यं नाम , स्वभावस्य तु कथं विपर्याससंभावना । न हि नीलं सदेवानीलं योगीच्छया भवति , ---- इति कश्चित्प्रामाणिकः प्रतीयात् । उच्यते । इह द्विविधो हि स्वभावहेतुरन्तर्लीनकार्यकारणभावस्तद्विपरीतश्च ; वह्निमानयं पर्वतो धूमवत्त्वातिति , अनित्योऽयं कृतकत्वातिति । तत्र आद्यस्य तावत्कार्यकारणभाव एष मूलम् ---- इति किं तत्रोच्यते । अपरस्तु विचार्यते , यदि तावत्कृतकत्वस्य कारणायत्तत्वं नाम स्वभावः कथमभवनपरिच्छिन्नभवनस्वभावता नामानित्यत्वं स्वभावः स्याताभासभेदात् । अभेदे तु आभासस्य हेतुसिद्धावेव साध्यस्य सिद्धत्वात्, यदि परं व्यवहारः साध्यते , तरुरयं वृक्षत्वात्, ---- इति न्यायेन , व्यवहारश्च ज्ञानाभिधानात्मा कार्यमेव , तत्र च नियतिशक्तिरङ्गीक्र्टा भवतापि । तस्मात्सर्वेषु स्वभावहेतुष्वाभासभेदं विना व्यवहारमात्रसाधनमेव , हेत्वाभासमयत्वादेवानधिको हि तत्र साध्याभासः , व्यावृत्तीनामेषैव वार्ता , सामान्यानामियमेव सरणिः । तस्मात्नियतः शिंशपाभासवृक्षाभासयोः पूर्वनीत्या सामानाधिकरण्याभासो हेतुबलात्! ततः स्वभावोऽयं हेतुहेतुमद्भावमूल एव , तत एव सामान्येनेदमुक्तं द्रष्टव्यं ---- सर्वः स्वभावहेतुरुत्पत्तिमूलजः , ---- इति । आभासा एव च वस्तु , ---- इति च समर्थितं प्राक् । ततश्च शिंशपायामेकस्यामेव सृज्यमानायां शाखादिमदर्थान्तराणामसृष्टेर्वृक्षाभासस्य सामान्यात्मनः साध्यस्य नामापि नास्ति , ---- इति संभाव्यत एव । यत्तु तदेकरूपं विशिष्टं वृक्षत्वं तत्खलु शिंशपात्वमेव तच्च सिद्धम् , ---- इति न साध्यम् । कारणायत्तमिदम् , ---- इत्याभासेऽपि न स्यादनित्यताभासः । एवमर्थक्रियाकारित्वाभावेऽपि क्षणिकत्वाभासाभावः इति नियत्यपेक्षयैव सर्वे स्वभावहेतवो नान्यथा , ---- इत्येकान्त एषः ॥११॥

नन्वाभासवस्तुत्ववादेऽनाभातसयग्नेरवस्तुत्वम् , ---- इत्यनाभातेन कथं धूमो जन्यते , ततश्च धूमादग्नेः कारणस्य कथमनुमानम् ? इत्याशङ्क्य सम्रथयितुमाह

भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् ।
परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १२ ॥

एकवारं तावत्महानसे प्रत्यक्षानुपलम्भबलेनाग्न्याभासधूमाभासयोः कार्यकारणभावो गृहीतः । तत्र विज्ञानवादिनो दर्शने प्रतिसन्तानमन्यश्चान्यश्चाभासः , ---- इति स्वाभासयोरेव कार्यकारणता गृहीता न तु सन्तानान्तरगतयोस्तदीयवृत्तान्तस्यासंवेदनात् । ततश्चेदानीमनुमानं न भवेत्स्वसन्तानगतात्धूमाभासात्क्रिमिसर्वज्ञादिप्रमातृसन्तानान्तरनिष्ठस्याग्न्याभासस्य इति निश्चयः । इह तु दर्शने व्याप्तिग्रहणावस्थायां यावन्तस्तद्देशसंभाव्यमानसद्भावाः प्रमातारस्तावतामेकोऽसौ धूमाभासश्च वह्न्याभासश्च वाह्यनये इव , तावति तेषां परमेश्वरेणैक्यं निर्मितम् , ---- इति हि उक्तम् । ततः स्वपरसन्तानविशेषत्यागेन धूमाभासमात्रं वह्न्याभासमात्रस्य कार्यम् , ---- इति व्याप्तौ गृहीतायां भूयोऽपि पर्वते यो धूमाभासः सोऽपि अग्न्याभासादेव इति व्याप्तिं स्मृत्वानुइमिमीते <अत्र पर्वते अग्न्याभासः> इति । तावति धूमाभासविशेषे प्रमात्रन्तरैः सहैकीभूय वह्न्याभाससामान्यांशे परोक्षरूपांशसहिते विशेषाभासान्तरविविक्ते प्रमात्रन्तरैः साकमेकीभवति , इति यावत् । <भूय> इति व्याप्तिं गृहीत्वा पुनरपि यो धूमाभासः , आदिग्रहणादङ्कुराभासादिर्गृह्यते सोऽप्याभासो नूतनोऽपूर्वो न तु धूमजधूमवदप्रत्यग्रः । स च अधिपतेरसंचेत्यमानात्वह्न्याभासात्बीजाभासादेव वा भवेत्तत एव जनितुं शक्नोति नान्यतः । शकि लिङ् । स चाभासस्तेषु तेषु प्रमातृष्वेक एव , अनेकत्वे न तु युज्यते एवैतदित्याशयः । यतश्च स एकोऽधिपतिश्च वह्न्याभासो धूमकारणं , ततो धूमाभासोऽस्यैवाग्न्याभासस्याव्यभिचारितं कार्यं लिङ्गं योगिकृतत्वाभावे निश्चिते सति , ---- इति तस्मात्कार्यात्सोऽनुमीयते यतः परोक्षोऽसावधिपतित्वादेव ॥१२॥

नन्वेवं गोपालघटिकान्तरालचिरोषितनिर्गतादपि धूमाभासात्स्यात्वह्न्याभासानुमानम् , ---- इत्याशङ्क्याह

कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् ।
तदाभासस्तदाभासादेव त्वधिपतेः परः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १३ ॥

परो नूतनादन्यो यो धूमाभासः स धूमाभासादेव प्रमात्रन्तरवर्तिनोऽधिपतिरूपात्परोक्षात्, ---- इति तथाभूतात्धूमाभासात्कथमकारणभूतो वह्न्याभासोऽनुमीयतामित्यभिप्रायशेषः । कुशलाश्च लक्षयन्त्येव विवेकम् , अस्यार्थस्यानुमानिकथहुतरव्यवहारोपयोगिनो यत्नेन व्युत्पत्तिः कार्या , ---- इत्याशयेन नूतनमिति यत्सूचितं तदेव व्यवच्छेद्यद्वारेण स्फुटीकृतम् ॥१३॥

ननु चैवं धूमाभासो वह्न्याभासात्, ---- इत्यङ्गीकृतं चेत्तर्हि चेतनस्यैव कर्तृत्वम् , ---- इति यदुक्तं तत्कथं ? तथाहि <वीजे सत्यङ्कुरो भवति> इति यदेतत्दृष्टं धूमाग्निवदेव तत्कथमनादरास्पदम् ? इत्याशङ्क्याह

अस्मिन् सतीदमस्तीति कार्यकारणतापि या ।
साप्यपेक्षाविहीनानां जाडानां नोपपद्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १४ ॥

एक एव भावस्तावत्न कार्यकारणभावः , भावद्वयमपि च न युगपद्भावि कार्यकार अनरूपं घटपटवत्, क्रमभाव्यपि नानियतक्रमकं नीलपीतादिज्ञानवत्, नियतक्रमिकत्वेऽपि न पूर्वभावि कार्यमुत्तरकालभावि च कारणम् , ---- इत्येवं नियतपूर्वभावं कारणं नियतपरभावं च कार्यम् , ---- इति परस्य तावन्मतम् । तत्र स्वरूपादनधिका चेत्पूर्वता परता च तत्भावद्वयमात्रं स च स च , ---- इति । चार्थोऽपि वा न कश्चित्तस्याप्यपेक्षारूपत्वात्स स इत्येव हि स्यात् । अथ पूर्वता नाम प्रयोजकसत्ताकत्वं परता च प्रयोज्यसत्ताकत्वं तर्हि वीजस्याङ्कुरप्रयोक्त्री सत्ता अङ्कुरविश्रान्ता अङ्कुरान्तर्भावमात्मन्यानयति , अङ्कुराभावे प्रयोक्तृत्वमात्रं स्यात्तदपि न किंचितन्यापेक्षत्वात्तस्य । एवं प्रयोज्यसत्ताकेऽपि वक्तव्यम् । एवं न केवलं भावमात्रमेव कार्यकारणता इत्यादयः पक्षा नोपपन्ना , यावत्<इदमस्ति> इति भाव्यमानविभक्त्या प्रयोज्यसत्ताकत्वम् , ---- इत्येवं रूपापि या कार्यकारणता सापि नोपपद्यते प्रमाणेन न संभवति जडानाम् , अन्योन्यापेक्षा हि अत्र जीवितं सा च जडानां न संभवति ॥१४॥

कथम् ? इति चेतुच्यते

न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् ।
सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १५ ॥

जडाः किलान्योन्यरूपमनुसन्धातुमप्रभविष्णवः , अन्योन्यानुसंधानरूपत्वं जडविरुद्धेन चैतन्येन व्याप्तम् , अनुसंधानं चापेक्षा चैतन्यस्वरूपमेव , अन्यत्र तु सोपचरिता । अतोऽनुसन्धानविहीनत्वाज्जडो भावः स्वात्ममात्रविश्रान्तिसन्तोषसंकुचितशरीरः कथं परत्र प्रसरेत् । ततश्च यदि बीजं सदङ्कुरोऽसनथापि विपर्यय उभयमपि वा सत्यदि वासत्, अथापि एकं सोपाख्यमन्यत्निरुपाख्यम् , द्वयमपि वा सोपाख्यं निरुपाख्यं वा , तथापि प्रातिपदिकार्थमात्रं धर्मान्तर्रेण समुच्चयादिनाप्यनालिङ्गितमवतिष्ठते , तस्य समस्तस्यापेक्षारूपत्वेन चैतन्यविश्रान्तत्वात् ॥१५॥

यस्यादचेतनेषु नापेक्षोपपद्यते

अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः ।
क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १६ ॥

सप्तमीरूपाया विभक्तेरन्यस्या अपि वा योऽर्थः क्रियाकारकभावलक्षणः स एव तावद्भावानां समन्वयो नान्यः शुष्कः कश्चित् । स च यदि स्वतन्त्रे चिद्रूपे भावद्वयं विश्राम्यति तदोपपद्यते , अन्यथा तु न कथंचित् । तथा हि विकल्पेनापि असौ व्यवह्रियमाणो न वस्तुनिष्ठतयोपपद्यते , वस्त्वनुसरणप्राणो हि विकल्पोऽनुभवानुसारितयैव भवति , सा चेह नास्ति वस्त्वप्रभवत्वेन , वस्त्वनुसारी हि अनुभवो , वस्तु च स्यात्मनिष्ठम् ---- इत्युक्तम् । तस्मात्बीजे सति अङ्कुरो , बह्नौ सति धूमः , ---- इति च स्वत्रन्त्रचिद्रूपप्रमातृविश्रान्तत्वे सर्वमेतद्युज्यते नान्यथा , इति ॥१६॥

ननु प्रयोज्यप्रयोजकसत्ताकतालक्षणापेक्षा यदि स्वात्मैकनिष्ठत्वे नोपपद्यते , तर्हि कार्यकारणयोस्तादात्म्यवादिनां सांख्यानां मते सा संभवत्येव , तत्किं चैतम्यविजृम्भात्मककर्तृवादसमर्थनेन ? इत्याशङ्क्याह

परस्परस्वभावत्वे कार्यकारणयोरपि ।
एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १७ ॥

यदि बीजस्याङ्कुरः स्व्भावस्तर्हि अङ्कुर एव न बीजं स्यात्किंचित्विपर्ययो वा स्यात्, ---- इति किं कारणं किं वा कार्यम् ; अथ अन्यद्वीजमङ्कुरोऽन्यः , तर्हि न परस्परात्मकत्वम् , भेदाभेदौ हि एकदैकविषयौ विरुद्धावेव ॥१७॥

नन्वेवमपि बीजमङ्कुरादिविचित्रमवभातं दीर्घदीर्घपरामर्शशालिभिः स्रोतोवदविच्छिन्नस्वरूपमेव निर्बाधं प्रत्यवमृश्यते । तथा च क्व गतं वीजम् , ---- इति प्रश्ने वक्तारो भवन्ति , न कुत्रचित्गतमङ्कुरात्मना वर्तते , अङ्कुरीभूतमयमङ्कुरस्ततिति । एवं प्रधानं महदादिधरान्तीभूतं यावद्विततीभूतमनन्तसर्गप्रलयपरम्परात्मतां प्राप्तम् , ---- इति विततग्राहिणी प्रतीतिः । भागाभिनिवेशवशात्तु कारणकार्यतापरिकल्पनं तस्यैव भावस्य विशसनप्रायम् , ---- इत्याशङ्क्याह

एकात्मनो विभेदश्च क्रिया कालक्रमानुगा ।
तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १८ ॥

इह दीर्घदर्शिना प्रत्यक्षानुमानागमान्यतमप्रमाणमूलां प्रत्यभिज्ञामाश्रित्य तदेवेदं सुखदुःखमोहसाम्यमनन्तप्रकारवैषम्यावलम्बनेन विश्वीभूतम् , ---- इति समर्थ्यते । तत्र प्रत्यभिज्ञानबलेन यदेकात्मकमेकस्वभावं तस्य यो भेदोऽन्यान्यरूपता इयमेव सा क्रियोच्यते , यतः काललक्षणेन क्रमेणानुगता , ते हि अन्यान्यस्वभावा युगपत्न भान्ति , पूर्वापरीभूतरूपतैव च क्रियोच्यते । यत एवं क्रिया <तथा> इति तेन प्रकारेण प्रधानादेः क्रियाविशेषलक्षणेन कर्तृतैव स्यात्, नतु शुष्कं कारणतामात्रं , यतो हेतोः <तथा> इति तेन तेन महदादिप्रकारेण सततमेव क्रिमिकां तथाभासनरूपां परिणामलक्षणां क्रियामाविशतः परिणमत्ता किंचिद्रूपं परिवर्ज्य त्यक्त्वा व्यावर्त्यमनुवर्तनीयं च व्यवस्थाप्य निर्वर्त्यमानतृतीयरूपप्रह्वता प्रधानादेस्तथा हेतुभूतया ॥१८॥

ननु प्रधानं परिणामक्रियायां कर्तृरूपमियता समर्थितम् , ---- इति को दोषो , न हि पुरुषवदस्याकर्तृत्वमिष्यते ? इत्याशङ्क्याह

न च युक्तं जडस्यैवं भेदाभेदविरोधतः ।
आभासभेदादेकत्र चिदात्मनि तु युज्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ १९ ॥

एवमित्यभिन्नरूपस्य धर्मिणः सततप्रवहद्धर्मभेदसंभेदस्वातन्त्र्यलक्षणं परिणमनक्रियाकर्तृकत्वं यदुक्तं तत्प्रधानादेर्न युक्तं जडत्वात्, जडो हि नाम परिनिष्ठितस्वभावः प्रमेयपदपतितः स च रूपभेदाद्भिन्नो व्यवस्थापनीयो नीलपीतादिवत्, एकस्यभाववत्त्वाच्चाभिन्नो नीलवत्, न तु स एव स्वभावो भिन्नश्चाभिन्नश्च भवितुमर्हति विधिनिषेधयोरेकत्रैकदा विरोधात् । कश्चित्स्वभावो भिन्नः कश्चित्त्वभिन्नः , ---- इति चेत्, द्वौ तर्हि इमौ स्वभावावेकस्य स्वभावस्य भवेताम् , न चैवं युक्तं

{भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ।}

इति न्यायात् । एवं जडस्य <इदम्> इति परिनिष्ठितामासतया सर्वतः परिच्छिन्नरूपत्वेन प्रमेयपदपतितस्य नायं स्वभावभेद एकत्वे सत्युपपद्यते । यत्तु प्रमेयदशापतितं न भवति किं तु चिद्रूपतया प्रकाशपरमार्थरूपं चिदेकस्वभावं स्वच्छम् , तत्र भेदाभेदरूपतोपलभ्यते ; अनुभवादेव हि स्वच्छस्यादर्शादेरखण्डितस्वस्वभावस्यैव पर्वतमतङ्गजादिरूपसहस्रसंभिन्नं वपुरुपपद्यते । न च रजतद्विचन्द्रादि यथा शुक्तिकैकचन्द्ररूपतिरोधानेन वर्तते , तथा दर्पणे पर्वतादि । दर्पणस्य हि तथावभासे दर्पणतैव सुतरामुन्मीलति ---- <निर्मलोऽयमुत्कृष्टोऽयं दर्पणः> इत्यभिमानात् । न हि पर्वतो बाह्यस्तत्र संक्रामति स्वदेशत्यागप्रसङ्गादस्य , न चास्य पृष्ठेऽसौ भाति दर्पणानवभासप्रङ्गात्, न च मध्ये निविडकठिनसप्रतिधस्वभावस्य तत्रानुप्रवेशसंभावनाभावात्, न पश्चात्तत्रादर्शनात्दूरतयैव च भासनात्, न च तन्निपतनोत्फलितप्रत्यावृत्ताश्चाक्षुषा मयूस्वाः पर्वतमेव गृह्णन्ति , बिम्बप्रतिबिम्बयोरुभयोरपि पर्वतपार्श्वगतदर्पणाभासेऽवलोकनात् । तस्मात्निर्मलतामाहात्म्यमेतत्यदनन्तावभाससंभेदश्चैकता च । गिरिशिखरोपरिवर्तिनश्चैकत्रैव बोधे नगरगतपरार्थसहस्राभासः , ---- इति चिद्रूपस्यैव कर्तृत्वमुपपन्नम् अभिन्नस्य भेदावेशसहिष्णुत्वेन क्रियाशक्त्यावेशसंभवात् ॥१९॥

नन्वेतावता विज्ञानमेव ब्रह्मरूपमिमां विश्वरूपतावैचित्रीं परिगृह्णातु किमीश्वरताकल्पनेन इत्याशङ्क्याह

वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः ।
चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ २० ॥

चिद्रूपस्यैकत्वं यदि वास्तवं भेदः पुनरयमविद्योपप्लवात्, ---- इत्युच्यते तदा कस्यायमविद्योपप्लवः , ---- इति न संगच्छते ब्रह्मणो हि विद्यैकरूपस्य कथमविद्यारूपता , न चान्यः कश्चितस्ति वस्तुतो जीवादिर्यस्याविद्या भवेत् । अनिर्वाच्येयमविद्या , ---- इति चेत्, कस्य अनिर्वाच्या , ---- इति न विद्मः ; स्वरूपेण च भाति , न चानिर्वाच्या , ---- इति किमेतत्? ; युक्त्या नोपपद्यते , ---- इति चेत्संवेदतिरस्कारिणी का खलु युक्तिर्नाम , अनुपपत्तिश्च भासमानस्य कान्या भविष्यति । सद्रूपमेव ब्रह्माभिन्नं चकास्त्यविकल्पके , विकल्पबलात्तु भेदोऽयम् , ---- इति चेत्, कस्यायं विकल्पनव्यापारो नाम ? ब्रह्मणश्चेत्, अविद्यायोगे न च अन्योऽस्ति ; अविकल्पलं च सत्यं विकल्पकमसत्यम् , ---- इति कुतो विभागो भासमानत्वस्याविशेषात् । भासमानोऽपि भेदो बाधितः , ---- इति चेत्, अभेदोऽपि एवम् , भेदभासनेन तस्य बाधात् । विपरीतसंवेदनोदय एव हि बाधो नान्यः कश्चित् । बाधोऽपि च भासमानत्वादेव सन्नान्यतः , ---- इति भेदोऽपि भासमानः कथमविद्या । भासनमवधीर्य आगमप्रमाणकोऽयमभेदः ---- इति चेतागमोऽपि भेदात्मक एव वस्तुभूतः प्रमातृप्रमाणप्रमेयविभागश्च , ---- इति न किंचिदेतत् । तस्मात्वास्तवं चिदेकत्वमभ्युपगम्यापि तस्य कर्तृत्वलक्सणा भिन्नरूपसमावेशात्मिका क्रिया नोपपद्यते ; परामर्शस्वरूपं तु स्वातन्त्र्यं यदि भवति तदोपपद्यते सर्वम् । परामर्शो हि चिकीर्षारूपेच्छा , तस्यां च सर्वमन्तर्भूतं निर्मातव्यमभेदकल्पेनास्ते , ---- इत्युक्तं

{स्वामिनश्चात्मसंस्थास्य ।}(इप्क्१,५ १०)

इत्यत्र । तेन स्वात्मरूपमेव विश्वं सत्यरूपं प्रकाशात्मतापरमार्थमत्रुटितप्रकाशाभेदमेव सत्प्रकाशपरमार्थेनैव भेदेन भासयति महेश्वरः , ---- इति तदेवास्यातिदुर्घटकारित्वलक्षणं स्वातन्त्र्यमैश्वर्यमुच्यते । आभासभिन्नयोरिति क्रियापेक्षा संबन्धसामान्ये षष्ठी , पश्चाद्ययोचितं विभज्यते । आभासेन भिन्नौ जडाजडाभासौ , जडो घटादिः कर्मरूपश्चिदाभासः कर्तृरूपः , ---- इति तयोः क्रिया , एकस्य क्रियमाणत्वमपरस्य कर्तृत्वं न भवेत् । चिकीर्षारूपेण निर्मातव्याभेदपरामर्शात्मना विना एका चासौ क्रिया कथं भिन्नयोः स्वभावभूता भवेत् । कार्यकारणताप्रस्तावात्कर्तृकर्मणी उक्ते , कारकान्तराण्यपि तु एककर्तृत्वानुप्रवेशीनि परमार्थतोऽन्यथा करणादौ भिन्ने कारकव्राते कथमभिन्ना सा । यदि वा आभासेन यौ भिन्नौ जडचेतनौ तयोर्या चिकीर्षा एकस्येष्यमाणता , परस्यैषितृता तस्स्वभावमेकत्वपरामर्शं विना , ---- इति । यद्वा आभासभिन्नयोः <अहमिदम्> इति यः परामर्श एकविश्रान्तिरूपश्चिकीर्षात्मा तं विना , ---- इति । आभासभिन्नयोरेकपरामर्शं विना चिकीर्षालक्षणा कथं क्रिया , ---- इति वा । एवं क्रियां वा चिकीर्षां वा परामर्शं वा अपेक्ष्य षष्ठी , नित्यसापेक्षत्वाच्च समासः ॥२०॥

एततुपसंहरति

इत्थं तथा घटपटाद्याभासजगदात्मना ।
तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४ २१ ॥

यथा न जडस्य कारणता न कर्तृता , तथानीश्वरस्य चेतनस्यापि , इत्यनेनैव हेतुताप्रकारेणेदं जातं यत्य एव तथा चिकीर्षुस्तस्यैव सा चिकीर्षा बहिष्पर्यन्ततां प्राप्ता <क्रिया> इत्यभिधीयते , सैव च कर्तृता तदेव च हेतुत्वं नान्यत्किंचित् । तेन <घटस्तिष्ठति> इत्ययमर्थः ---- घटात्मना तिष्ठासुः स्वातन्त्र्यात्स्थानमभ्युपगच्छन्न तु तद्रूपमसहमानो यो महेश्वरः प्रकाशः स तिष्ठति ---- इति । घटपटाद्याभासरूपं यत्किल जगत्तदात्मना यः <तथा> इति तेन तेन तज्जगद्गतजन्मस्थित्यादिभावविकारतद्भेदक्रियासहस्ररूपेण यः स्थातुमिच्छुः स्वतन्त्रः , तस्य या एवमिति विचित्ररूपेच्छा सैव क्रिया , ---- इति संबन्धः । तेन महेश्वर एव भगवान् विश्वकर्ता , ---- इति शिवम् ॥२१॥

इति श्रीमदाचार्योत्पलदेवचिरचितायामीश्वरप्रत्यभिज्ञाजां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे कार्यकारणतत्त्वनिरूपणं नाम चतुर्थमाह्निकम् ॥ ४ ॥

सम्पूर्णश्चायं क्रियाधिकारो नाम द्वितीयो विमर्शः ॥ २ ॥

आगमाधिकारे प्रथममाह्निकम्सम्पाद्यताम्


[विमर्शिनी]

{यं प्राप्य सर्वागमसिन्दुसङ्घः पूर्णत्वमभ्येति कृतार्थतां च ।
तं नौभ्यहं शांभवतत्त्वचिन्तारत्नौधसारं परमागमाब्धिम् ॥
श्रीमत्सदाशिवोदारप्रारम्भं वसुधान्तजम् ।
यदन्तर्भाति तत्त्वानां चक्रं तं संस्तुमः शिवम् ॥}

एवमधिकारद्वयेन ज्ञानक्रियास्वरूपं वितत्य निर्णीतम् । अथेदं वक्तव्यं क्रिया नाम विश्वपदार्थावभासलक्षणा इत्युक्तं समनन्तरमेव , के च ते विश्वे पदार्थाः , इति । तत्राभासरूपा एव जडचेतनलक्षणाः पदार्थास्ते च क्रियता रूपेण संगृह्यन्ते , नहि प्रत्यक्षं मायाप्रमातुः सर्वत्र क्रमते । अनुमानमप्येवम् , न हि यद्यदस्ति तत्र तत्र लिङ्गव्याप्त्यादिग्रहणसंभवः । आगमस्त्वपरिच्छिन्नप्रकाशात्मकमाहेश्वरविमर्शपरमार्थः किं न पश्येत्, इति तदनुसारेण पदार्थनिर्णयं विश्वप्रमेयीकरणप्रतिलब्धतद्विश्वोत्तीर्णप्रमातृपदहृदयङ्गमीकाराभिप्रायेण निरूपयितुमाचार्य आगमाधिकारं तृतीयमारभते ।

तत्र श्लोकैकादशकेन <एवमन्तर्बहिर्वृत्तिः> इत्यादिना <स्थूलसूक्ष्मत्यभेदतः> इत्यन्तेनागमसिद्धं शिवादिधरणीप्रान्तमेकैकाभासरूपतात्मकं दर्शनान्तरे <सामान्यम्> इति यद्व्यवहृतं , यस्य सामानाधिकरण्ययोगादनन्तस्वलक्षणावभासनव्यूहविशेषपूर्वकः समस्तोऽयं शरीरभुवनादिविभवः , तं परमेश्वरागमसिद्धं युक्त्याप्यवगतं प्रत्येकतस्तत्त्वग्रामं दर्शयति इत्याह्निकतात्पर्यम् ।

तत्राधिकारसंगतिं योजयन् पूर्वपक्षप्रतिक्षेपं चोपसंहरन् शिवतत्त्वस्वरूपमेव दर्शयितुमाह

एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा ।
मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ १ ॥

एवमिति , यतः परदर्शनोक्तः कार्यकारणभावो जडरूपप्रतिष्ठो न कथंचिदुपपन्नः , किन्तु चिद्रूप एवान्तर्बहिरात्मना प्रकाशपरमार्थेनापि वपुषा तथाभासनरूपेण वर्तमानः कालक्रममाक्षिपन् क्रियाभिधीयते , तस्य प्रमातुरेव ज्ञानशक्तिवपुषो धर्मस्ततिति । तस्मादवियुक्तं ज्ञानं क्रिया च । ज्ञानं विमर्शानुप्राणितम् , विमर्श एव च क्रियेति । न च ज्ञानशक्तिविहीनस्य क्रियायोगः इति । तदेतदवियुक्तज्ञानक्रियारूपं क्रियाद्वारेण सकलतत्त्वराशिगतसृष्टिसंहारशतप्रतिबिम्बसहिष्णु यत्तदुपदेशभावनादिषु तथाभासमानमनाभासमपि वस्तुतः शिवतत्त्वमित्युक्तं भवति ॥१॥

नन्येवंभूतं शिवतत्त्वं चेत्तर्हि ततोऽनतिरिच्यमानमिदं विश्वमिति किमन्यत्तत्त्वं स्यात् । एकचित्तत्त्वविश्रान्तौ च तत्त्वानां कथं क्रमो भवेत्, देशकालाभेदात्? एवमेतत्

किंत्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः ।
बहिर्भावपरत्वे तु , परतः पारमेश्वरम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ २ ॥

यद्यप्येकमेव शिवतत्त्वं तथापि तदीयमेव स्वातंत्र्यं स्वात्मनि स्वरूपभेदं तावत्प्रतिबिम्बकल्पतया दर्शयति । स्वरूपवैचित्र्यमेव देशकालक्रमः । मूरितिक्रियावैचित्र्यमयो हि असौ । ततश्चान्तरी ज्ञानरूपा या दशा तस्या उद्रेकाभासने <सादाख्यम्> सदाख्यायां भवम् । यतः प्रभृति सदिति प्रख्या । सदाख्यायाश्च सदाशिवशब्दरूपाया इदं वाच्यं तत्त्वम् । सृष्टिक्रमोपदेशादौ प्रथममुचितम् । तत्सादाख्यं तत्त्वम् । <बहिर्भावस्य> क्रियाशक्तिमयस्य <परत्वे> उद्रिकाभासे सति <पारमेश्वरं> परमेश्वरशब्दवाच्यमीश्वरतत्त्वं नाम । तच्च सादाख्यस्य पञ्चादुचितावभासनम् । एतदुक्तं भवति । इह तस्य भावस्तत्त्वम् , ---- इति भिन्नानां वर्गाणां वर्गीकरणनिमित्तं यदेकमविभक्तं भाति तत्तत्त्वम् । यथा गिरिवृक्षपुरप्रभृतीनां नदीसरःसागरादीनां च पृथिवीरूपत्वमब्रूपत्वं चेति । ततश्च शुद्धचैतन्यवर्गो यो मन्त्रमहेश्वराख्यः , तस्य प्रथमसृष्टावस्माकमन्तःकरणैकवेद्यमिव ध्यामलप्रायमुन्मीलितमात्रचित्रकल्पं यद्भावचक्रम् , तथा संहारे च ध्वंसोन्मुखतया तथाभूतमेव चकास्ति प्रतिबिम्बप्रायतया , तस्य चैतन्यवर्गस्य तादृशि भावराशौ तथाप्रवनं नाम यच्चिद्विशेषत्वं तत्सदाशिवतत्त्वम् । मन्त्रेश्वरादिरूपस्य तु चैतन्यराशेः स्फुटीभूतमस्मद्बहिश्करणसरणिसंप्राप्तभाववर्गप्रतिमं विश्वं प्रतिबिम्बकल्पतया भाति , तस्य तु तत्तथाप्रथनमीश्वरतत्त्वम् । यस्तु सदाशिवभट्टारक ईश्वरभट्टारकश्च ध्वेयोपास्यादिरूपतया स ब्रह्मविष्णुतुल्यः पृथगेव मन्तव्यो न तु नामसारूप्यात्भ्रमितव्यम् । यथाहुरेके <ब्रह्मविष्णुरुद्रा अपि तत्त्वमध्ये किं न गणिताः> इति ॥२॥

नामधेयान्तरमप्यत्र तत्त्वद्वये दर्शयति

ईश्वरो बहिरुन्मेषो , निमेषोऽन्तः सदाशिवः ।
सामानाधिकरण्यंच , सद्विद्याहमिदंधियोः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ३ ॥

यस्योन्मेषाटुदयो जगतः , इत्यत्र ईश्वरतत्त्वमेवोन्मेषशब्देनोक्तम् , विश्वस्य हि स्फुटत्वबाह्यत्वमुन्मेषणम् , निमेषणं त्वप्स्हुटत्वापादनमहन्तारूपतोद्रेचनम् , इति निमेषः सदाशिवतत्त्वम् । यतो जगतः प्रलय इति । शुद्धोऽयं स्पन्दः परमेश्वरस्याचलस्याप्यप्ररूढरूपान्तरापत्तिलक्षणः किंचिच्चलनात्मतया स्फुरद्रूपत्वात् । परमेश्वरस्य हि परमार्थत एताः शक्तयो यस्तत्त्वग्रामः , काचित्तु शक्तिरन्यबहुतरशक्तिक्रोडीकारं कुर्वती निकटत्वादुपास्या घटस्येव घटत्वात्मिका , काचिदन्यापेक्षिणी स्वरूपमात्रनिष्ठा दूरा घटस्येव सत्तास्मिका । एवं निमेषोन्मेषशक्ती एव सदाशिवेश्वरौ तयोस्त्वधिष्ठातृदेवते अपि तथानामे ॥

अथ तदधिष्ठातृद्वयगतं करणं विद्यातत्त्वमाह । प्रकाशस्य यदात्ममात्रविश्रमणमनन्योन्मुखस्वात्मप्रकाशताविश्रान्तिलक्षणो विमर्शः सोऽहमिति उच्यते । यस्त्वन्योन्मुखः स <इदम्> इति । स च स्वप्रकाशमात्रे पुनरनन्योन्मुखरूपे विश्राम्यति परमार्थतः । तत्राद्ये विमर्शं शिवतत्त्वं द्वितीये विद्येशता मध्यते तु रूपे <अहमिदम्> इति समधृततुलापुटन्यायेन यो विमर्शः स सदाशिवनाथ ईश्वरभट्टारके च , इदंभावस्य तु ध्यामलाध्यामलताकृतो विशेषः । ये एते <अहम्> इति <इदम्> इति धियौ तयोर्मायाप्रमातरि पृथगधिकरणत्वम् <अहम्> इति ग्राहके <इदम्> इति च ग्राह्ये , तन्निरासेनैकस्मिन्नेवाधिकरणे यत्संगमनं संबन्धरूपं प्रथनं तत्सती शुद्धा विद्या , अशुद्धविद्यातो मायाप्रमातृगताया अन्यैव । तत्र यदा <अहम्> इत्यस्य यदधिकरअणं चिन्मात्ररूपं तत्रैवेदमंशमुल्लासयति तदा तस्यास्फुटत्वात्सदाशिवता <अहमिदम्> इति । <इदमहम्> इति तु इदमित्यंशे स्फुटीभूतेऽधिकरणे यदाहमंशविमर्शं निषिञ्चति तदेश्वरता , ---- इति विभागः ॥३॥

ननु कस्मादियं शुद्धा विद्या इत्याह

इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् ।
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ४ ॥

अवलोकनं प्रथनं वेदनं विद्या , यथावस्तुत्वं वस्त्वनुसारित्वं च ; तस्याः शुद्धिरविपरीतता । वेद्यदशां चोपगतवतामङ्गीकृतवताम् , अत एवेदमित्येवंभूतेनोचितेन परामर्शेनोपपन्नानां परामृश्यमानानां भावानां <बोध> एव प्रकाशात्मा साररूपं वस्तु , प्रकाशश्चानन्मुखविमर्शात्माहमिति । तदेषां यदेव पारमार्थिकं रूपं तत्रैव प्ररूढत्वातहमोदमित्यस्य शुद्धवेदनरूपत्वम् ॥४॥

अधिष्ठातृरूपाद्देवताद्वयात्तत्त्वद्वयं विभक्तम् , ---- इत्येतद्भङ्ग्या प्रतिपादयत्यागमव्यवहारेण ।

अत्रापरत्वं भावानामनात्मत्वेन भासनात् ।
परताहन्तयाच्छादात्परापरदशा हि सा ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ५ ॥

परता पूर्वत्वमनन्यापेक्षाहमिति , <अपरत्वम्> अपूर्णत्वमन्यापेक्षितेदमिति । अत्र च तत्त्वद्वये भावानां ध्यामलाध्यामलरूपाणामुभयांशस्पर्शात्परापरत्वमिति । वेद्यभावनिष्ठा दशा तत्त्वस्वरूपा तदवभासयितृमन्त्रेश्वरादिशुद्धप्रमातृसंवेद्यवस्तुसारा । या तु तन्निष्ठसंवेदनदशा सा शुद्धा विद्या , तत्प्रमात्रधिष्ठातृत्वं श्रीसदाशिवेश्वरभट्टारकरूपता इति सक्षेपः ॥५॥

एवमेकेषां मते <अहम्> इत्याच्छादको यो भागः तत्प्रथाप्रधाना शुद्धविद्या । अन्ये तु मन्यन्ते , ---- योऽसाविदंभाग आच्छादनीयस्तस्य यदवभासनं तत्प्रधाना शुद्धविद्या । अन्यथा हि स इदमंशः केन भास्यतां मायायास्तत्राभावात्भावे वा प्ररोहप्रसङ्गात्; अत एवेयं प्ररोहासहिष्णुं यत इदन्तां भासयति ततः शुद्धा । भासनाच्च विद्येति । तत एवाप्ररुढमायाकल्पत्वात्महामायेयं श्रीरौरवादिगुरुभिरुपदिष्टा , तदेतदाह ।

भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या ।
मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ६ ॥

मायाप्रमातरि शून्यादिरूपेऽप्यनुल्लसिते , चिन्मात्र एव प्रमातरि कर्तरि च सति चिदेकरूपष्वपि भावेषु यदचिद्रूपतया भेदप्रकाशनलक्षणं स्वातन्त्र्यं सा शुद्धविद्या मायाशक्त्या तुल्या , वेद्यभागे भेदप्रकाशनात् । न च मायैव , ग्राहकस्य चिन्मात्रभागे तावदविपर्यासनात्, येन प्रकारेण विद्येश्वरा भगवन्तोऽनन्ताद्या वतन्ते । ते हि शुद्धचिन्मात्रगृहीताहं भावाः स्वतस्तु भिन्नं वेद्यं पश्यन्ति , यथा द्वैतवादिनामीश्वरः । एवं ग्राहकेऽंशतश्चैतन्यरूपात्परमार्थरूपे ग्राह्यविपर्यासनशक्तिः शुद्धविद्या विद्येश्वराणाम् ॥६॥

परे प्राहुः ---- भगवतः प्रमशिवस्याप्ररूढभेदावभासनं सदाशिवेश्वरता । तत्रास्फुटे भेदे इच्छाशक्तिरीश्वरस्य व्याप्रियते , स्फुटत्वे ज्ञानशक्तिः , ग्राह्यग्राहकविपर्यासद्वयप्ररूढौ तु मायाशक्तिः , सा च पशुप्रमातृषु , ग्राहकग्राह्योभयविपर्याससंस्कारे तु अविनिवृत्तेऽपि यदेतत्वस्तुपरमार्थप्रथनं तत्र विद्याशक्तिव्यापारो योगिज्ञानिप्रभृतिष्वपशुप्रमातृषु । तदेतद्दर्शयति ।

तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका ।
विद्याशक्तिः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ७ ॥

<पशुभावे> विपर्यासैकरसत्वलक्षणे पाशनीयत्वेऽस्वतंत्रत्वे दृश्यद्रष्ट्टदर्शनभेदे सत्यपि जाते पूर्वोक्तयुक्तिबलेन यदेतदैश्वर्यमुक्तं तस्य या प्रकाशिका परमेश्वरशक्तिः ---- यद्वशात्केचिदेव ता युक्तीरादृत्य तदा श्वस्तहृदयाः कृतिनो भवन्ति ---- सा विद्याशक्तिः । अयमेव षडर्धसारादिदृष्टोऽप्यस्याचार्यस्य हृदयमावर्जयति पक्षः , <अन्ये> इत्यनुक्तेः ।

एतदानन्तर्यौचित्येन च मायातत्त्वनिरूपणात्तदाह

तिरोधानकरी मायाभिधा पुनः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ७ ॥

मायाशक्तिः पुनरचिद्रूपे शून्यादौ प्रमातृताभिमानं प्ररूढं दध्र्ता भावानपि चिन्मयान् भेदेनाभिमानयन्ती सर्वथैव स्वरूपं तिरोधत्ते आवृणुते विमोहिनी सा । तिरोधानमत्र न विलयनरूपं मन्तव्यं , यत्कृत्यपञ्चकमध्य आगमेषु गण्यते , दीक्षितस्यापि गुरुमन्त्रादिनिन्दनप्रायमपि त्वावरणमेव ॥७॥

तिरोधानमावरणरूपं स्फुटयति

भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते ।
शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्भते ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ८ ॥

सुषुप्ते प्रलये <न> इत्यभावसमाधौ च तावच्छून्यमाकाशकल्पमनात्मरूपं वेद्यभावोचितम् <अहम्> इत्यात्मत्वेन वीक्ष्यते ; उच्छ्वसननिःश्वसनादौ वा प्राण एव तेजःसमुपवृंहितः , स्वच्छोदकाशयकल्पा वेद्यप्रतिबिम्बनवती वा बुद्धिरभिनिविश्यते अन्तरहं वेद्मि दुःख्यहमिति चिन्ताद्यवस्थासु , शरीरमेव तु पृथिवीप्रायं कृशोऽहमित्यादिदशासु अहमित्यात्मतया भाति । सर्वमेव चेदं शून्यादि वस्तुतश्चिन्मात्रसारमेव माययैव तावदचिद्रूपतया भासितम् । तथाविधमेव तु सतहमिति संविद्रूपताभिनिवेशस्थानं संपादितमप्रशान्तजडभावमेव इति अतिदुष्करवस्तुसंपादनाप्रतीघातरूपा परमेश्वरस्य मायाशक्तिः , ---- इत्येतत्<विजृम्भते> इत्यनेन दर्शितम् । बाह्यरूपाणां सुतधनदारादीनामप्यहंताभिनिवेशविषयत्वसंख्यातं सूचयति ॥८॥

नन्वचिद्रूपत्वादनात्मा यदि शून्यादिस्तदात्मतयासौ अभिनिविश्यमानश्चिद्रूप एव , ---- इति सर्वज्ञत्वसर्वकर्तृत्वादिविशुद्धैश्वर्यधर्मैव स्यात्, ---- इत्याशङ्क्याह

यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि ।
माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ९ ॥

स्यादैश्वर्यधर्मयोगः शून्यादेः यद्यहमित्यभिनिविश्यमानोऽपि मेयतां जह्यात् । तथाहि सति प्रमेयमप्यस्य नीलादिव्यतिरिक्ततया नैव भासेत । यावता यः शून्यादिः प्रमाता कथितः , स यावदेव स्वरूपाद्व्यतिरेकाभिमते नीलादौ प्रमेये प्रमाता तावदेव स्वयमपि मेयभूतः एव सन्माता । मेयं हि मीयमानत्वादेव परिमितम् , ---- इति तादृशादेव मेयान्तरादुपपन्नव्यतिरेकम् , न त्वेवं चिद्रूपमपरिमितत्वात् । परिमितत्वं च शून्यादेरहंभावस्य यत्तदेव कालादिपञ्चकम् तथा हि कालः क्रममासूत्रयन् प्रमातरि विजृम्भमाणस्तदनुसारेण प्रमेयेऽपि प्रसरति , योऽहं कृशोऽभवं स स्थूलो वर्ते भविष्यामि स्थूलतरः इत्येवमात्मानं देहरूपं क्रमवन्तमिव परामृशंस्तत्सहचारिणि प्रमेयेऽपि भूतादिरूपं क्रमं प्रकाशयति । अस्य शून्यादेर्जडस्य विद्या किंचिज्झत्वोन्मीलनरूपा बुद्धिदर्पणसंक्रान्तं भावराशिं नीलसुखादिं विविनक्ति । कला किंचित्कर्तृत्वोपोद्वलनमयी कार्यमुद्भावयति , किंचिज्जानामि । किंचित्करोमि , ---- इति । अत्र चांशे तुक्येऽपि किंचित्त्वे कस्मादिदमेव किंचित्, ---- इत्यत्रार्थेऽभिष्वङ्गरूपः प्रमातरि देहादौ प्रमेये च गुणाद्यारोपणमय इव रागो व्याप्रियते । न च तद्बुद्धिगतमवैराग्यमेव , तद्धि स्थूलं वृद्धस्य प्रमदायां न भवेदपि , रागस्तु भवत्येव । बुद्धिधर्माष्टकेऽपि च दृष्टोऽभिष्वङ्गः । अत्रैव कस्मादभिष्वङ्ग ---- इत्ययमर्थो नियत्या नियम्यते इति । एवं कलाविद्याकालरागनियतिभिरोतप्रोतो माययापहृतैश्वर्यसर्वस्वः सन् पुनरपि प्रतिवितीर्णतत्सर्वस्वराशिमध्यगतभागमात्र एवंभूतोऽयं मितः प्रमाता भाति ---- इदानीमिदं किंचिज्जानानः , इदं कुर्वाणोऽत्र रक्तोऽत्रैव च यः सोऽहम् ---- इति । एषां च भिन्नविषयत्वमपि भवति कदाचित्, यथान्यत्र रक्तोऽपि नियत्यान्यत्कार्यते इति । एते च प्रमातृलग्नतथैव भान्ति , ---- इति तस्यैव शक्तिरूपाः प्रतिप्रमातृभिन्ना एष , कदाचित्तु नटमल्लप्रेक्षादावीश्वरेच्छया एकीभवेयुरपि । न ह्येतेषामीश्वरेच्छातिरिक्तं निजं किमपि जीवितमस्ति , ---- इत्यसकृदुक्तं वक्ष्यते च ॥९॥

यदुक्तमिदमित्यत्र प्रमेये व्यतिरेकिणि माता , ---- इति तत्र तत्प्रमेयं दर्शयति ।

त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् ।
तस्याविभागरूप्येकं प्रधानं मूलकारणम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ १० ॥

यत्कार्यकरणरूपं त्रयोविंशतिप्रकारं यच्च तस्य मूलभूतं कारणं सर्वकार्यकरणाविभागरूपं प्रधानं नाम तत्सर्वं मेयम् ---- इति सम्बन्धः । योगिमन्त्रतदीश्वरप्रभृतीनां हि भूततन्मात्रकरणप्रधानवशीकारयोगित्वात्सर्वमेव प्रमेयम् । संसारिणामप्यनुमानागमादिदिशा प्रमेयमेव , इतीयत्प्रमेयम् । कालादयस्तु प्रमेया अपि प्रमार्येव लग्नाः , ---- इति प्रमातृशक्तिस्वभावत्वात्न प्रमेयत्वेनेहावसरे मायाप्रमातृच्यतिरिक्तप्रमेयप्रस्तावे गणिताः । वस्तुतो हि अत्रत्योऽयं प्रमातापि प्रमेय एव , स तु प्रमात्रीक्रियमाण आच्छादितप्रमेयताक इहोच्यते ॥१०॥

नन्वत्र त्रयोविंशतौ किं कार्यं किं करणम् ? इत्याशङ्क्याह

त्रयोदशविधा चात्र बाह्यान्तःकरणावली ।
कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१ ११ ॥

प्रमातुः पूर्वं करणोपयोगः , ---- इत्यत्रादौ त्रयोदश करणानिः तत्र बुद्धिरप्यवसायसामान्यमात्ररूपा , ग्राह्यग्राहकाभिमानरूपोऽहंकारः , संकल्पादिकारणं मनः , ---- इत्यन्तःकरणं त्रिधा । बुद्धौ शब्दाद्यध्यवसायरूपायामुपयोगीनि बुद्धीद्न्त्रियाणि पञ्च ---- श्रोत्रं , त्वक्, चक्षुः , जिह्वा , ध्राणम् , ---- इति । कर्मणि तूपयोगीनि पञ्च कर्मेन्द्रियाणि । तथा हि ---- त्यागो ग्रहणमिति द्वयम् , ---- बहिर्विषयः यत्तत्र पाणिः पायुः पादः , ---- इति करणानि । एतदेवान्ताः प्राणे येन क्रियते तद्वागीन्द्रियम् । तत्प्रक्षोभप्रशान्त्या विश्रान्तिक्रियोपयोगी उपस्थः । सर्वदेहव्यापकानि च कर्मेन्द्रियाण्यहङ्कारविशेषात्मकानि । तेन च्छिन्नहस्तो बाहुभ्यामाददानः पाणिनैवादत्ते , एवमन्यत् । केवलं तत्तत्स्फुटपूर्णवृत्तिलाभस्थानत्वात्पञ्चाङ्गुलिरूपमधिष्ठानमस्यौच्यते , ---- इत्येवं करणानि त्रयोदश । एषां च कार्यत्वेऽअप्यसाधारणेन करणत्वेन व्यपदेशः । स्थूलं कार्यं पृथिवी , आपः , तेजो , वायुः , नभः , ---- इति पञ्च भूतानि । सूक्ष्ममेषामेव रूपं , गन्धो , रसो , रूपं , स्पर्शः , शब्दः , ---- इति । तत्रैकैकगुणमाकाशादि , एकैकवृद्धगुणं वा , ---- इति दर्शनभेदः , ---- इति न विवेचितो , नुपयोगात् । तत्र स्थूलं विभक्तमविभागस्वानुमापकम् , ---- इति स्थूलरूपोपक्रममुक्तम् । अत्र पृथिव्याद्याभासा एव मिश्रीभूय घटादिस्वलक्षणीभूताः कर्मेन्द्रियैरुपसर्पिताः , बुद्धीन्द्रियैरालोचिताः , अन्तःकरणेन संकल्पिताभिमतनिश्चितरूपाः , विद्यया विवेविताः, कलादिभिरनुरञ्जिताः , प्रमातरि विश्राम्यन्ति , ---- इति तात्पर्यम् । एतच्च विस्तरतस्तत्प्रधानेषु तन्त्रालोकसारादिषु मया निर्णीतम् , ---- इतीहानुपयोगान्न वितानितम् , ---- इति शिवम् ॥११॥

इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेतायामागमाधिकारे तत्त्वनिरूपणाख्यं प्रथममाह्निकम् ॥१॥

____________________

आगमाधिकारे द्वितीयमाह्निकम् ।सम्पाद्यताम्


[विमर्शिनी]

{अखण्डितस्वभावोऽपि विचित्रां मातृकल्पनाम् ।
स्वह्र्ण्मण्डचक्रे यः प्रथयेत्तं स्तुमः शिवम् ॥}

एवं तत्त्वराशौ निर्णीते एतदन्तर्भावेनोल्तमपि मुख्यतया निर्णेतव्यं प्रमातृतत्त्वं वितत्य निर्णेतुं <तत्रैतन्मातृतामात्र> इत्यादि <व्यानोविश्वात्मकः परः> इत्यन्तैर्विंशतिश्लोकैराह्निकान्तरं प्रस्तूयते । तथाहि ---- प्रमातुरत्र स्वरूपप्रत्यभिज्ञानमुपदिश्यते शास्त्रे । स हि हेयमुपादेयं च स्वं स्वभावं विद्वान् परमोपादेयरूपं शिवस्वभावं स्वात्मानमभेदेनाविशन् जीवन्नेव मुक्तो भवति , ---- इति । तत्र श्लोकेन ब्रह्मादित्रयस्वरूपम् , तत्कतं च प्रमातृभेदं श्लोकसप्तकेन , द्वयेन समावेशस्वरूपम् , श्लोकपञ्चकेन प्रमातुरेव सुषुप्ताद्यवस्थाः , त्रयेण तासां हेयोपादेयविभागं निरूपयति , ---- इत्याह्निकतात्पर्यम् । ग्रन्थार्थस्तु निरूप्यते ॥

तत्रैतन्मातृतामात्रस्थितौ रुद्रोऽधिदैवतम् ।
भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १ ॥

तत्रेति , एवंभूतेऽस्मिन्नागमसिद्धे युक्त्यनुगते च तत्त्वस्वरूपे सति यदेतत्कालादिपञ्चकवेष्टितं प्रमातृतारूपम् , तदेव यस्यां शुद्धमुपसंहृतप्रमेयजातं भवति दशायां संहाराख्यायां तस्यामधिष्ठातृदेवतात्वं तद्दशासंपादनेन स्वोपासकलोकस्य तद्दशाध्यानावेशसमापन्नस्य स्वाभिमुख्यसंपादनेन च भजमानो भट्टारक ईश्वर एव रुद्रो भगवान् , यो मायापदेऽपि प्राणापानात्मकधर्माधर्मसूर्येन्दुदिननिशादिविमुक्तमध्यमज्योतीरूपप्रमातृस्वरूपस्पर्शादुन्मीलिततृतीयनेत्रः । भिन्नस्य तु प्रमेये तत्संतानप्रवहणलक्षणे प्रसरेऽधिष्ठातृदेवता विष्णुः , अत एव तयोः प्रमेयप्रसररूपस्य <इदं नीलम्> इत्येवं प्रकाशात्मनः प्राधान्यात्<अहम्> इति प्रमातृदशावेशशून्यत्वात्न तृतीयनेत्रोन्मीलनम् । देवतैव दैवतम् । <प्रसर> उत्पत्तिः संतानश्च ॥१॥

यदेतन्मातृतामात्रमुक्तं तस्य विभागमागमिकं च संज्ञाभेदं निरूपयति ।

एष प्रमाता मायान्धः संसारी कर्मबन्धनः ।
विद्याभिज्ञापितैश्वर्यश्चिद्घनो मुक्त उच्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ २ ॥

स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः ।
मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ ३ ॥

माययान्धो विमोहितः , अत एव कर्माणि स्वात्मनो बन्धकान्यभिमन्यमान <एष> इति कालादिवेष्टितः शून्यादिप्रमाता संसरति , ---- इत्यतः संसारी । देहोऽपि हि स्वरूपसादृश्यं बाल्ययौवनादिष्वनुवर्तयन् संसरतीव । बुद्ध्यादेस्तु जन्मान्तरेऽपि संसरणम् । विद्यया तु स्वरूपप्रकाशनशक्त्या प्रत्यभिज्ञापदं प्रापितमैश्वरयं यस्य , अत एव शरीराद्यपि विश्वमपि च संवेदनमेवाभिमन्यमानोऽत एव चिदेव घना अन्वाचिद्रूपव्यामिश्रणशून्या यस्य रूपम् , स पुनर्जन्मबन्धविरहात्देहेऽपि स्थिते <मुक्त> इति व्यपदेशयोग्यः । पतिते तु शिव एकघनः इति कः कुतो मुक्तः । भूतपूर्वगत्या तु प्रमात्रन्तरापेक्षया मुक्तह्शिवः , ---- इति व्यवहारः ।

यश्चासौ मुक्तः स भावान् स्वाङ्गवदभिमन्यमानः प्रमिमीते इति स तेषां स्वामी , स्वरूपपरमार्थसमर्पणाच्च पालकः इति पतिरुपदिष्टः शास्त्रे । मायाशक्तिकृतभेदान् व्यतिरिक्तानेव सतो यदा मिमीते तदा तैरेव मेयैः पाशरूपैः पाशितः इति पशुरुक्तः । तथाहि वेद्यराशिवशादेवास्मावि द्यास्मितारागद्वेषाभिनिवेशादयः क्लेशाः , धर्माधर्मादिरूपाणि कर्माणि , आदिपदादाशयरूपा वासना , फलभोगरूपो विपाकः , ---- इति कालुष्यमनन्तप्रकारम् , यतः पाशितत्वात्<पशुः> इत्युक्तः ॥३॥

यदेवैतत्पशुरूपं तदेवागमेषु त्रिविधं मलम् , ---- इत्याह ।

स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ ४ ॥

भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ ५ ॥

इह ज्ञातृकर्तृरूपं तावच्चित्तत्त्वस्य स्वरूपं , तस्यापहारो नामाणवं मलं येनासावणुः संकुचितो जातः । तत्र स्वरूपस्य निमीलनं संकोचः । तत्स्थिते बोधरूपे कर्तृत्वलक्षणस्य स्वातन्त्र्यात्मनः स्वरूपान्तरस्य निमीलनं विपर्ययो वा , ---- इत्युभययाप्याणवं मलं स्वरूपापहानिरूपमेकमेव ।

अत्रैवेति , सत्याणवे मले द्विप्रकारे स्वरूपसंकोचे वृत्ते भिन्नस्य यत्प्रथनं तस्य <मायीयम्> इति संज्ञामात्रम् । मायाकृतत्वेन मायीयता मलत्रयस्यापि । तत्र कर्तुरबोधरूपस्य देहादेर्भिन्नवेद्यप्रथने सति धर्माधर्मरूपं कार्मं मलम् , यतो जन्म भोगश्च स च नियतावधिकः , इति जात्यायुर्भोगफलं कर्म इत्युक्तं भवति ॥४॥॥५॥

अथैषां मलानां विविक्तविषयनिरूपणात्स्वरूपं स्फुटीकर्तुं <स्वातन्र्यहानिर्बोधस्य> इत्यस्य तावद्विषयमाह ।

शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता ।
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ ६ ॥

येषां चिन्मात्रमेव परमार्थो न तु <अहम्> इति स्वात्मविश्रान्त्यानन्दरूपं प्रमं स्वातन्त्र्यम् । ते पर्मेश्वरेण तया निर्मिताः स्वात्मनः सकाशाद्व्यतिरिक्ताः । अत्र हेतुः ---- <कर्तृताया> उत्तमस्वातन्र्यलक्षणाया <अत्ययात्> अभावात्; पर्मेश्वरस्य तूत्तमस्वातन्त्र्यावियुक्तबोधरूपत्वम् , ---- इत्यभिप्रायशेषः ॥६॥

नन्वस्माद्धेतोर्भवतु परमेश्वरात्तेषां भिन्नत्वमन्योन्यतस्तु कथं भेदो बोधरूपस्य व्यापित्वनित्यत्वकृतस्य च देशकालाभेदस्य समाबत्वात्; अन्योन्यभेदाभावे च <निर्मितास्ते> इति कथं बहुवचनम् ? इत्याशङ्कां व्यपोहति ।

बोधैकलक्षणैक्येऽपि तेषामन्योन्यभिन्नता ।
तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ ७ ॥

इह हि सर्वत्राप्रतिहतशक्तिः परमेश्वर एव तयाबुभूसंस्तथा तथा भवति , नत्वन्यः कश्चित्परमार्थयोऽस्ति , ---- इत्यसकृदुक्तम् ; ततश्च व्याविशेषेण तेषां शरीरादिशून्यान्तप्रमातृपदोत्तीर्णानां बोधत्वनित्यत्वविभुत्वादिधर्मजातस्यैक्येऽप्यन्योन्यं भेदः , ते च शास्त्रे विज्ञानकेवला उक्ताः । तत्र विज्ञामकेवलो मलैकयुक्तः , ---- इत्यादौ <विज्ञानं> बोधात्मकं रूपं <केवलं> स्वातन्त्र्यविरहितमेषामिति ॥७॥

एवं <स्वातन्त्र्यहानिर्बोधस्य> इत्यस्य भागस्य विज्ञानाकलविषयतामुक्त्वा <स्वातन्त्र्यस्याप्यबोधता> इत्यमुमंशं विषयप्रदर्शनेन स्पष्टयति ।

शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः ।
तेषां कार्मो मलोऽप्यस्ति मायीयस्तु विकल्पितः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ ८ ॥

शून्ये जडत्वादनोधरूपे एव , यदि वा प्राणे बुद्धौ वा येषामहमिति चमत्कारयोगात्कर्तृत्वं ते प्रलयेन कृताः <अकलाः> कलातत्त्वोपलक्षितकरणकार्यरहिता अबोधरूपाः कर्तारश्च । प्रलयावधि हि ते तथाकृताः उत्तरकालं तु कार्यकरणसंबद्धा एव भवन्ति ; यतस्तेषां न केवलमुक्तरूप आ,अव एव मलो यावत्कार्मोऽपि वासनासंस्काररूपो धर्माधर्मात्मास्त्येव । यद्येवम् , भिन्नवेद्यप्रथाप्येषां स्यात् । सत्यम् , सवेद्ये सुषुप्तपदे ,ऽपवेद्ये तु न भवति ; तेन मायीयो मल एषां विकल्पितो व्यवस्थितविषयत्वेन । तथा हि ---- केऽपि शून्यादिभागविश्रान्ता गाडनिद्राजडीकृता अपवेद्यसुषुप्तपदभाजः । अन्ये तु बुद्ध्यादिनिष्ठाः सुखदुःखावशेषसामान्यात्मकभिन्नवेद्यसंवेदनयोगितः सवेद्यसौषुप्तपदलीनाः । स्थूलदेहेन्द्रियात्मककार्यकरणवियोगरूपत्वं तु प्रलयाकललक्षणं सर्वेषां तुक्यम् ॥८॥

एवं <स्वातन्त्र्यस्याप्यबोधता> इत्येवमंशः स्फुटीकृतः , प्रसङ्गाच्च कार्ममलस्य विषयो दर्शितः , मायामलस्य च पाक्षिकत्वमुक्तम् । अधुना पुनराणवकार्ममलद्वयाभावेऽपि शुद्धोऽस्ति मायाख्यस्य मलस्य विषयः , ---- इति दर्शयति

बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ ।
भिन्नवेद्यजुषां मायामलो विद्येश्वराश्च ते ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ ९ ॥

ये चिन्मात्रमेवात्मतया पश्यन्ति <अहम्> इति च चमत्कारोल्लासात्कर्तारस्तत एव सर्वज्ञाः सर्वकर्तारश्च ते विद्येश्वराः । किन्तु तनुकरणभुवनादि यदेषां वेद्यतया कार्यतया च भाति, तत्कुविन्दपटदृष्ट्या भिन्नमेव सत्, ---- इत्यस्ति विद्ये श्वराणां मायाख्यमलयोगः ॥९॥
अथ मलत्रयस्यापि यौगपद्येन यो विषयस्तं दर्शयितुमाह ।

देवादीनां च सर्वेषां भविनां त्रिविधं मलम् ।
तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १० ॥

इह विद्येश्वरविज्ञानाकलास्तावन्न भविनो मायान्ताध्वातिक्रमणात्; प्रलयाकला अपिकंचित्कालमविद्यमानभवाः । ये त्वेते मायातत्त्वान्तरालपरिवर्तिनो देवादयः स्थावरान्ताश्वतुर्दश शास्त्रेषु परिगणितास्ते सर्वे <भविनः> संसारिणः , तेषां च त्रयोऽपि युगपन्मलाः । ननु मलत्रयमध्ये कतमो मलः संसरणमेषां संपादयेत्? आह , <तत्रापि> तेषु त्रिष्वपि सत्सु कार्मं मलं मुख्यतया संनिपत्य संसरणे कारणम् यथोक्तम् ।

{कर्मतस्तु शरीराणि विषयाः करणानि च ।}

इति । तनुकरणविषयसंबन्ध एव च वर्तमानो भविष्यंश्च , ---- इत्यनवरतं प्रबन्धतो वर्तमानः संसरणमुच्यते । आणवमायामलौ तु यद्यपि न कारणं संसारे , तथापि कार्मेण विना तौ देहादिविचित्रभावाभिनिर्वर्तनशक्तिशून्यौ विज्ञानाकलादिषु , ---- इति मुख्यं कार्ममेव मलं संसारकारणं तत्र तत्र शास्त्रे गण्यते । अत एव तदुपक्षये वृत्ते दत्तस्तावदसंसरणसोपानपदबन्धः , ---- इत्याशयेन कर्मबन्धाभिमानपरिहानिरेव यत्नतः सांख्यपुराणभारतादिशास्त्रेषूपदिश्यते । एवं मलत्रयस्यैकैकभेदैस्त्रिभिर्द्विभेदैस्त्रिभिस्त्रिभेदेनैकेन , इति सप्त प्रमातार उत्तिष्ठन्ति । तथा च शास्त्रे

{शिवादिसकलान्ताश्च शक्तिमन्तः सप्त ।}

इत्युक्तम् । तत्राप्यवान्तरभेदेन गुणमुख्यताभेदेन विकल्पसमुच्चयतादिभेदेन चानन्तप्रकारत्वमिति ॥१०॥

अस्य च मलत्रयस्योद्भवतिरोभावभेदात्संसारिणां प्रकारद्वयम् , ---- इति दर्शयति

कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम् ।
अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ ११ ॥

मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः ।
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १२ ॥

एतच्चेति , यत्त्रिदशादीनां भविनां चैतन्यं कर्तृतांशस्य प्राधान्यान्मलेन संविद्भागस्य निमज्जितत्वात्कर्तृतामयं चिद्रूपस्य तत्त्वं स्वातन्त्र्यम् , कलाख्येन परमेश्वरशक्त्यात्मना तत्त्वेन <उपोद्वलितम्> अनुप्राणितम् , मलेन न्यक्कृतं सदुद्बोधितम् , शून्यादेर्देहपर्यन्तस्य मायाप्रमातुः संबन्धि , तत्<गुणत्वेन> अप्रधानत्वेन <स्थितम्> , यतो <मितम्> इदन्तापन्नदेहादिशून्यान्तप्रमेयभागनिमग्नत्वात्प्रमेयम् , यो गौरो , यः सुखी , यस्तृषितो , यः सर्वरूपरहितः सोऽहम् , ---- इति हि इदन्तैवान्तर्नीताहंभावा संसारिणां परिस्फुरति । सेयं जाग्रत्स्वप्रसुषुप्तरूपा संसारावस्था ।

यदा तूक्तगुरूपदेशादिदिशा तेनैवाहंभावेन स्वातन्त्र्यात्मना व्यापकत्वनित्यत्वादिधर्मपरामर्शमात्मनि । विदधता ततः शून्यादेः प्रमेयादुन्मज्ज्येवास्यते तदा तुर्यातीतावस्था । यदापि परामृष्टतथाभूतवैभवादिनित्यैश्वर्यसंभेदेनैवाहंभावेन शून्यादिदेहधात्वन्तं सिद्धरसयोगेन विध्यते , तदास्यां तुर्यदशायां तदपि प्रमेयतामुज्झतीव । सेयं द्वय्यपि जीवन्मुक्तावस्था <समावेश> इत्युक्ता शास्त्रे । सम्यगावेशनमेव हि तत्र तत्र प्रधानम् , तत्सिद्धये तूपदेशान्तराणि । यथा गीतम् ।

{मय्यावेश्य मनो ये माम् ।}(गी १२ २)

इति ।

{अथावेशयितुं चित्तम् ।}(गी १२ ९)

इत्यादि च । समावेशपल्लवा एव च प्रसिद्धदेहादिप्रमातृभागप्रह्वीभावभावनानुप्राणिताः परमेश्वरस्तुतिप्रणामपूजाध्यानसमाधिप्रभृतयः कर्मप्रपञ्चाः । यद्गीतमपि ।

{अभ्यासेऽप्यसमर्थः सन्मत्कर्मपरमो भव ।}(गी १२ १०)

इति । देहपाते तु परमेश्वर एवैकरसः , ---- इति कः कुत्र कथं समाविशेत् । तदेतदाह --- यत्पुनः कर्तृताया मुख्यत्वं तन्नान्तरीयकश्च शून्यादेर्गुणभावः , तस्मिंश्चाप्यचिद्रूपे गुणीभूते <स्वातन्त्र्यस्याप्यबोधता> इति मलल्यापारस्यापहस्तनात्चितो यः परोऽप्यात्मभागो बोधलक्षणो मलेन न्यक्कृतोऽभूत्तस्यापि अधुनोन्मग्नत्वेन मुख्यत्वम् । यच्च तत्कर्तृताया <मुख्यत्वम्> उन्मग्नता , इदमेव ज्ञानमज्ञानात्मकमलप्रतिपक्षत्वात्; तदेतन्मुख्यत्वं समावेशस्य लक्षणं येन देहस्थितोऽपि <पतिः> इति <मुक्तः> इति शास्त्रेषूक्तः ॥१२॥

नन्वेवं पत्युः समावेशात्मिका तुर्यतदतीतरूपा भवतु दशा , पशोस्तु कथं सुषुप्तस्वप्नजाग्रदृशाभेद आगमेषूक्तः , ---- इत्याशङ्क्य सुषुप्तस्वरूपमेव तावदाचष्टे श्लोकत्रयेण ।

शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे ।
अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १३ ॥

साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता ।
जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १४ ॥

तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् ।
सवेद्यमपवेद्यं च मायामलयुतायुतम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १५ ॥

इह चित्तत्त्वं स्वस्वरूपमाच्छादयत्ज्ञेयरूपेण बुद्ध्यादिना देहान्तेन घटादिना वाभासते । एकमेव चेदं स्वातन्त्र्यविजृम्भितं , न त्वत्र वास्तवः क्रमो वा भेदो वा । तत्रापि तु स्वातन्त्र्यात्क्रमश्च भेदश्चाभासते । तदेवंस्थिते यश्चित्तत्त्वस्य स्वरूपाच्छादनभागः स एवोत्तरभागान्त्रासंकीर्णो यदा विश्राम्यति तदनुदयाद्वा तत्प्रध्वंसाद्वा प्रलय इव तदनादरणाद्वा निद्रासमाधिमूर्च्छादाविव , तत्रैव चाहन्तारूपं कर्तृतायाः पदं परामर्शोऽस्फुटत्वादरूपात्मना संस्कारेण शुद्धेन वेद्यपदवीमप्राप्तेन युक्तो भवति , तदा सैवावस्था नेत्येवपरामर्शलेशानपेक्षितनिषेध्यबुद्ध्यादिविषयसुस्पष्टपरामर्शसंभेदापि अवश्यंभाविनिषेध्ययोगात्<अकिञ्चनोऽहम्> इतिवत्स्वीकृतसामान्याकारनिषेध्या , अत एव संस्कारशेषीकृतज्ञेया <शून्य> इत्युच्यते । तथाविधे बुद्ध्यादीनां देहादिनीलान्तानामभावरूपे शून्यत्वमुच्यते , यतस्तत्र ज्ञेयानां <शून्यता> अभावरूपता संस्कारशेषता । इयमेव हि सर्वत्राभावो न तु सतां सर्वात्मना विनाशः ।

तत्रैव शून्ये प्रमातरि समवेता प्राणापानसमानोदानव्यानात्मके वायुचक्रे प्रेरणात्मिका शक्तिः , सा च विद्याकलयोः प्रपञ्चभूतौ यौ क्रमेण बुद्धीन्द्रियकर्मेन्त्रियवर्गौ तयोरान्तरी वृत्तिः । बाह्या हि तयोः शब्दाद्यालोचनशब्दाभिव्यक्तिस्थानाभिहननादिका वृत्तिः । तदुक्तम्

{सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ।} (सां २९ का )

इति । एवं शून्य एवाहन्ता अक्षचक्रोपोद्वलिता जीवनम् , इति स शून्य एव जीवः संसरति । यदि वेन्द्रियशक्तीनामेव यान्तरी साधारणप्राणनात्मिका प्राणशब्दवाच्या प्राणादिमारुतविशेषप्रेरणामयी सैव <अहम्> इत्यधिशयाना जीवनम् , तदा प्राण एव जीवः संसारी , स एव शून्यः , प्राणाश्च पुर्यष्टकशब्दवाच्यः , प्राणादिपञ्चकं बुद्धीन्द्रियवर्गः कर्मेन्द्रियगणो निश्चयात्मिका च यतो धीर्व्यज्यते । तन्मात्रपञ्चकं मनोऽहंबुद्ध्य इत्यन्ये

{तन्मात्रोदयरूपेण मनोऽहंबुद्धि ।}(स्प ४ १९)

इति ।

{भूमिरापोऽनलं ।}(गी ७ ४)

इति च वदन्तः ।

एवं यदुभयात्मकं पुर्यष्टकं तावत्येव शुद्धे या विश्रान्तिः , तस्यां सत्यां यदहन्तायाः सुषुप्ताया बोधलक्षणं भावरूपं कर्म च क्रियास्वभावं तत्सौषुप्तम् । मलेन हि प्रमाता सुप्तः कलया त्वसुप्त इव , अत्र तन्निमज्जने सुष्ठु सुप्तस्तस्य भावः कर्म वा , ---- इति । तत्र शून्यसौषुप्ते न किञ्चिद्व्यतिरिक्तं वेद्यम् , ---- इति मायीयमलाभावादपवेद्यं तत्; प्राणसुषुप्ते तु स्पर्शकृतस्य सुखदुःखादेर्भावात्मायाख्यमस्ति मलम् , ---- इति सवेद्यं तत् । एवं गाढागाढसुषुप्तद्वितयवत्प्रलयोऽपि मन्तव्यः । स परं देहादिप्रध्वंसानुदयकृतश्चिरतरकालश्च । सुषुप्तं तु देहाद्यनादरकृतमचिरकालं च , ---- इति विशेषः । तत्रापि श्रमकृतं निद्रा , धातुदोषकृतं मूर्च्छा , द्रव्यकृतं मदोन्मादादि , स्वातन्त्र्यकृतं समाधिः , ---- इत्याद्यवान्तरभेदः । केचित्तु समाधिरूपं सवेद्यमन्यदपवेद्यम् , ---- इति प्रपन्नाः ॥१५॥

नन्वेवं स्फुटवेद्यपदविनिर्मुक्ता सुषुप्तावस्थास्तु , स्वप्नजाग्रहशयोस्तु स्फुटवेद्यावभासयोगिन्योः को भेदः ? इत्याशङ्क्य श्लोकद्वयेन भेदमाह

मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात् ।
स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १६ ॥

सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा ।
सृष्टिः साधारणी सर्वप्रमात्ःणां स जागरः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १७ ॥

बाह्येन्द्रियाणि चक्षुर्गोलकादीनि निमीलितानि निद्रायमाणस्य लक्ष्यन्ते , न च तेषु निमीलितेषु बाह्येन्द्रियग्रहणव्यापारो दृष्टः , तेन शुद्ध एव मनोमार्गे रूपस्पर्शादयो भावा अक्षग्रहणसमुचितेन स्पष्टेन वपुषा भासनयोग्याः पर्मेश्वरेण सृज्यन्ते , न त्वणुना , अनिष्टस्यैव दर्शनात्, इष्टस्यापि देशकालान्तरादियोगेन । अत एव मनोमात्रस्थितत्वादेव न प्रमात्रन्तरसाधारणीयं सृष्टिः । यत्तु तत्र बाह्येन्द्रियविषयत्वं प्रमात्रन्तरसाधारण्यं चकास्ति , तद्यद्यपि यावद्भाति तावत्तथैव , तथाप्युत्तरकालं प्रबुद्धस्य न तथा , ---- इति परामर्शेन तद्रूपं निर्मूलत्वेनावभाति , ---- इति भ्रान्तम् । यानि हि प्रमात्रन्तराणि स्वप्ने स्वेन्त्रियाणि च भान्ति , एतानि प्रबोधकालभाविभिरेव तैरभिन्नानि , ---- इति निश्चयः , प्रबोधकाले च न तथा , ---- इति निश्चयानुवृत्तिरपहृतैव । तेनोभयमपि भ्रान्तमुच्यते ; भ्रान्तत्वमेव चास्थैर्यम् । एवमिन्द्रियाविषयत्वेनैवासाधारणत्वमाक्षिप्तम् ,

{विभ्रमेणैव चास्थैर्य ।}

इति स्वकण्ठेन , तत्जाग्रत्प्रतियोगिधर्मनिरूपणावसरेऽपि न दर्शितम् । एवंभूता या सृष्टिः सा पशोः स्वप्नसमये भावात्<स्वप्नपदं> स्वप्नकाले विषयः इति , तथाभूतविषयं प्रमातृत्त्वं पशोः स्वप्नावस्था इति यावत् । अक्षग्रहणं बाह्येन्द्रियदशकस्योपलक्षणम् ।

यत्र तु बाह्याक्षवि अयं सर्वप्रमातृसाधारणत्वं च निश्चयानुवृत्त्या बाधारहितया परमार्थत्वेन चकास्ति , तत एव स्थैर्य विषयस्य सा सृष्टिः पशोः जागरः ; तद्विषयं प्रमातृत्वं जागरावस्था , ---- इति यावत् । यावच्चानुवृत्तिस्थैर्य निश्चयस्य चकास्ति तावज्जागरः । तन्मध्ये च निश्चयानुवृत्तिनिर्मूलनात्स्वप्नः , ---- इत्यवभाससारत्वात्वस्तूनां , स्वप्नेऽपि दीर्घे यत्र स्वप्नान्तरं स तदपेक्षया जाग्रदेव ; जाग्रदभिमतमपि वा दीर्घदीर्घं कालान्तरे निश्चयानुवृत्तिनिर्प्धाज्जाग्रदन्तरापेक्षया स्वप्न एवेति मन्तव्यम् ॥१७॥

आसां तिसृणां हेयत्वप्रदर्शनेन तुर्यावस्थातः प्रभृत्युपादेयत्वं सूचयति

हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे ।
तद्धानोपचयप्रायसुखदुःखादियोगतः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १८ ॥

यत्रायं प्रमाता त्यागोपादानतदिच्छाप्रयत्नादिकं परिक्लेशं पश्यति , तदेवास्य हेयतया भाति । स चास्य सुखदुःखयोगवैचित्र्येणैव कृतः , तच्चैतदवस्थात्रये संभवति ; यतः कर्तृतारूपं स्वात्मविश्रान्त्यनन्यौन्मुख्यलक्षणमानन्दैकघनं यच्चिन्मयं वपुः , तद्यदा प्राणादिमत्शून्यपुर्यष्टकदेहादिभूमिषु गुण तामभ्येति , तदा तस्मिन् गुणीभूते प्राणादेः प्राधान्यं स्फुरति । तथा च तस्य चिद्रूपस्य यथायथा हानिस्तथातथा दुःखोपचयो , यथायथा किञ्चिदुन्मज्जनं तथातथा सुखोपचयः । तथाहि ---- बुभुक्षाकाले प्राणस्यैवोद्रेकात्दुःखं , तृप्तौ तस्य न्यग्भावादहन्तोद्रेके सुखं युक्तम् । एवं श्रान्तस्य मर्दनामर्दने देहप्राधानयाप्राधान्ये मन्तव्ये । यस्तु समावेशतत्त्वज्ञस्तस्य तत्काले दुःखानुदय एव । यदाह

{दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते ।
आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ॥}(स्प् ४८)

इति । एवं प्राणादेः प्राधान्ये कर्तृताया गुणभावे सुखदुःखवैचित्र्यशतयोगः प्रयासभूमिः , --- इति जाग्रत्स्वप्नसुषुप्ते प्राणादिप्राधान्यं कर्तृतान्यम्भावश्चास्ति , ---- इति तत्त्रयमेव हेयम् । कर्तृताप्राधान्योन्मेषात्तु तुर्यरूपात्प्रभृति तत्स्थैर्यात्मकतुर्यातीतदशान्तमुपादेयम् , एकरसानन्दघनस्वभावलाभे उपादित्सा -- जिहासा -- वैवश्य -- परिश्रम-- प्रशमात्, ---- इति तात्पर्यम् ॥१८॥

ननु प्राणादिप्राधान्यं हेयतायां कारणमुक्तं तच्चेज्जाग्रदादित्रय एव तर्हि तुर्यादौ तदभावात्तत्समावेशे व्युत्थामानुपपत्तिः , ---- इति श्लोकद्वयेन शङ्कां परिहरति ।

प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः ।
तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ १९ ॥

मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः ।
विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२ २० ॥

<प्राण> इति प्राणापानरूपा जीवनस्वभावा येयं चिद्रूपस्य स्थितिः , सा तावत्सामान्यपरिस्पन्दरूपा , देहप्राणादेरचेतनस्य चेतनायमानतासंपादनात्मिका अहमितिस्वात्रन्र्यारोपसारा सती विकल्पपरामर्शमयी सैव प्राणापानादिविशेषात्मना पञ्चरूपतां भजते । तत्र किञ्चिज्जहती क्वचित्पतन्ती च श्वासनिःश्वासरूपा क्रमेण प्राणत्वमपानत्वं च विशेषं दर्श्यति । तदिदं विशेषद्वयं जाग्रति तावत्स्फुटमेव देहात्प्रसृत्य विषेये विश्रान्तेः , ततोऽपि देहे ; स्मृत्यादौ वाभ्यन्तरे वेद्ये विश्रान्तेः प्राणापानयोः सुस्पष्टत्वात् । स्वप्नेऽपि तद्द्वयमस्त्येव ; स्वपतोऽपि हि प्राणापानौ निर्गमप्रवेशात्मानौ स्फुटमेव परेण लक्ष्येते । स्वयमेव च वेद्य संवेदनात्त्यागोपादानरूपा स्थितिः संवेद्यत एव , तेन प्राणना प्राणापानविशेषद्वयमयी जाग्रति , तथा स्वप्ने ; सुप्तं स्वप्नः , तदेव तु यदा सुतरां पुष्टं भवति , तदा सुषुप्तः प्रमाता , तस्येदं सौषुप्तं पदम् । तत्द्विविधमपि समानाख्यरूपविशेषं प्राणीयं स्वीकरोति । सवेद्ये तावत्सुषुप्ते यद्यपि प्राणापानस्पन्दो लक्ष्यते , तथापि तयोर्मध्ये या विश्रान्तिहृदयसदने निरिन्द्रिये प्रदेशे तदेव मुख्यतः सुषुप्तमिति । तत्र प्राणापानयोर्यश्छेदो विश्रान्तिः कंचित्कालं तदात्मा सकलरसादिवर्गस्योर्ध्वाधरतिर्यक्षु समानीकरणव्यापारात्मा , तत एव हृत्पद्मविकासदानाद्भुक्तपीतजरणकारी समानो दिनरात्रिरूपयोः प्राणापानयोः कंचित्कालं साम्याद्विच्छेदाच्च विषुवत्कालतुल्यः । विषुं व्याप्तिं समानीकरणमर्हति , ---- इति , {तदर्हम्}(पाषू ५-१-११७) इति वतिः । उपमाने वतेरेव चाव्यवत्वम् <उद्धतो निवतः> इति प्रयोगात्; तद्धि न्यायसिद्धं न वाचनिकम् । विशेषं वा दिनरात्रितदूनाधिकर्वलक्षणं सुवति प्रेरयत्यविरतम् , ---- इति शतरि विषुवत् । तत्र च विषुवति विच्छिद्यमानस्य प्राणापानस्य संस्काररूपतया सद्भावः , सैव हि विच्छेदो न तु सर्वात्मना नाशोऽस्ति , ---- इत्युक्तमसकृत् । ततश्च हानादानयोर्बीजरूपता सुषुप्ते ; इयति च सर्वः प्रलयाकलान्तः पशुवर्गः ।

यदा तु सा प्राणनावृत्तिर्वामदक्षिणमार्गौ खिलीभावयन्ती मध्यरूपेणोर्ध्वेन प्रवहति , तदा तत्प्रवहणं सकलस्य भेदस्याभेदसारतादानलक्षणं विलापनमाश्यानस्येव सर्पिषो विदधती उदानवृत्तिर्विज्ञानाकलादारभ्य सदाशिवान्तम् , सा च तुर्यात्मिका दशा । मायोर्ध्वे हि विज्ञानाकलाः , ---- इति ततःप्रभृति भेदगलनं प्रवर्तते । विलीने तु भेदे सर्ववेद्यराशिरूपतत्त्वभूतभुवनवर्गात्मलदेहव्यापनरूपेण प्राणवृत्तिर्व्यानरूपा विश्वात्मकपरमशोव्प्चिता तुर्यातीतरूपा । प्राण एव प्रमाता प्राणापानरूपः समानरूप उदानरूपो व्यानरूपश्च , ---- इति सामानाधिकरण्यम् , विज्ञानाकलश्चासौ मन्त्रश्चासौ वर्गापेक्षया , ईशश्च सदाशिवेश्वररूपो योऽसौ , ---- इति उदानः । एतदुक्तं भवति , यद्यपि तुर्यतदतीतयोरप्यस्ति प्राणना ---- अन्यथा जीवत्वस्य व्युत्थानस्य चानुपपत्तेः ---- तथापि भेदोपसंहारेणाभेदविश्रान्तिप्रधानत्वादनयोर्दशयोः सुखदुःखादिवैचित्र्यायोगातेकघनस्वात्मविश्रान्त्यात्मकपरमानन्दमयत्वेनोपादेयतैव । सुषुप्तादौ तु संस्काररूपत्वास्फुटवेद्योल्लासस्फुटवेद्यावभासरूपस्य भेदस्य विद्यमानत्वातस्ति सुखदुःखादिवैचित्र्यम् , ---- इति हेयतैव , ---- इति युक्तमुक्तं <हेया त्रयीयम्> इत्यादि । भगवतश्च विश्वशरीरस्य प्राणापानसमानोदानव्यानरूपतैव सकलगतोल्लासप्रवेशप्रलयाकलविज्ञानाकलआदिवर्गशिवरूपता , ---- इत्यप्यनेन दर्शितम् । यथोक्तम्

{षड्त्रिंशदात्मकं विश्वं शम्भोः प्राणादिशक्तयः ।}

इति ॥२०॥ आदितः १७१॥

इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेतायामागमाधिकारे प्रमातृतत्त्वनिरूपणाख्यं द्वितीयमाह्निकम् ॥ २ ॥

संपूर्णश्चायमागमाधिकारस्तृतीयः ॥ ३ ॥

तत्त्वसङ्ग्रहाधिकारे प्रथममाह्निकम्सम्पाद्यताम्

[विमर्शिनी]

{अनन्तमानमेयादिवैचित्र्याभेदशालिनम् ।
आत्मानं यः प्रथयते भक्तानां तं स्तुमः शिवम् ॥}

एवं स्वसंवेदनोपपत्त्यागमसिद्धं महेश्वररूपमात्मस्वरूपं यदधिकारत्रयेण वितत्य निर्णीतं तदेव संक्षेपेण शिष्यबुद्धिषु निवेशयितुमागमार्थग्रहं श्लोकाष्टादशकेन दर्शयति <स्वात्मैव सर्वजन्तूनाम्> इत्यादिना <उत्पलेनोपपादिता> इत्यन्तेनैकेनाह्निकेन । तत्र ’ल्सोकेन पारमार्थिकं रूपमुक्त्वा श्लोकनवकेन बन्धस्वरूपं प्रमातृप्रमेयतत्त्वदर्शनदिशा , सप्तकेन प्रत्यभिज्ञात्मकं मोक्षतत्त्वं , श्लोकेनोपसंहारं दर्शयति , ---- इति तात्पर्यम् । ग्रन्थार्थस्तु निरूप्यते ।

स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः ।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १ ॥

इह जडास्तावच्चेतननिमग्ना एव भान्ति ; इदमिति हि जडपरामर्शोऽहमिति संवित्परामर्श एव विश्राम्यति । ततश्च जडा निरात्मान इति जन्तव एव जीवाः सात्मानः , तेषां च महेश्वर एव स्वात्मा स एव महेश्वरो न त्वन्यः कश्चित् । यतः संवित्स्वभावोऽसौ , संविदश्च न देशेन न कालेन न स्वरूपेण कोऽपि भेदः , कामं देहप्राणादयो भिद्यन्तां , ते तु जडपक्ष्याश्चेतननिमग्ना एव , ---- इत्येक एव चिदात्मा स्वातन्त्र्येण स्वात्मनि यतो वैश्वरूप्यं भासयति , ततो महेश्वरोऽन्तर्नीतामिदन्तां कृत्वा परानुन्मुखस्वात्मविश्रान्तिरूपाहंविमर्शपरिपूर्णः , अत एव सर्वज्ञसर्वकर्तृत्वे नास्य यत्नोपपाद्ये , विचित्रबुद्धिकर्मेन्द्रियविषये हि यथा ज्ञातृत्वकर्तृत्वे एकस्यैवात्मनस्तयेन्द्रियस्थानीयरुद्रक्षेत्रज्ञसहस्रविषयस्य भावराशेर्जज्ज्ञानं करणं च तदेकत्र चिदात्मनि , ---- इति ॥१॥

ननु यद्येक एवायं महेश्वररूप आत्मा कस्तर्हि बन्धो यदवमोचनायायमुद्यमः ? इत्याशङ्क्याह

तत्र स्वसृष्टेदंभागे बुद्ध्यादि ग्राहकात्मना ।
अहंकारपरामर्शपदं नीतमनेन तत् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ २ ॥

तत्रैवं स्वात्मनि महेश्वरे स्थिते तस्मिन्नेव प्रकाशरूपे स्वात्मदर्पणे तेनैव परमेश्वरेण स्वातन्त्र्यात्तावत्सृष्टः संकोचपुरःसर इदंभागः , तन्मधे यदेतद्बुद्धिप्राणदेहरूपमिदन्तया वेद्यंतद्बुद्ध्यादिभिन्नस्य वेद्यस्य प्राहकतया समुचितमिदंभावाभिभवाप्रभविष्णुत्वात्कृतकेनापूर्णेनाहंभावेन परामर्शेन भासमानं चकास्ति <अहं देवदत्तोऽहं चैत्र> इति ॥२॥

नन्वेवमप्यस्तु , तथापि कस्य बन्धः ? ईश्वरव्यतिरिक्तो हि कोऽन्योऽस्ति ? तदेतत्परिहर्तुमाह ----

स स्वरूपापरिज्ञानमयोऽनेकः पुमान्मतः ।
तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ ३ ॥

सत्यम् , परमार्थतो न कश्चिद्बन्धः केवलंस्वस्मादनुत्तरात्स्वातन्त्र्यात्यदा स्वात्मानं संकुचितमवभासयति स एव , तदा स्वस्य पूर्णस्य रूपस्य यदपरिज्ञानं भासमानत्वेऽप्यपरामर्शरूपं तदेव कारणत्वेन प्रकृतं यस्य स पूर्णत्वाख्यातिमात्रतत्त्वः <पुरुषः> इत्युच्यते । अत एवानेकः तत्तद्देहप्राणबुद्धिविशेषेण संकोचग्रहणात् । स च पुमान् भोक्ता सम्बन्धनं भोगलक्षणमनुभवति । भोगश्च नाम तस्य यौ कल्पितौ क्रियानन्दौ , कल्पिता क्रिया दुःखम् , रजो हि प्रकाशाप्रकाशचाञ्चल्यरूपं दुःखमुच्यते ; प्रकाशरूपं च सत्त्वं सुखम् ; तमस्त्वप्रकाशरूपो मध्ये विश्रमः प्रलयस्थानीयः ॥३॥

ननु सृष्टावित्यनेन किं व्यवच्छेद्यं किं च संग्राह्यम् ? इत्याह ----

स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।
मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ ४ ॥

विश्वरूपस्य भगवतः स्वरूपभूत एव विश्वत्र यः प्रकाशो यश्च विमर्शः , ते तावज्ज्ञानक्रिये स्वरूपद्वयपरामर्श एव विश्रान्तमहमिदमितिसदाशिवेश्वरपरमार्थं सा भगवतो मायाशक्तिः , ता एतास्तिस्रः शक्तयो भगवति नैसर्गिक्योऽसृष्टाः । स्वरूपापरिज्ञाने तु भिन्नेषु भावेषु ज्ञानं क्रिया , शुद्धमेव भिन्नत्वं प्रकाशविमर्शशून्यम् , ---- इति पशोः प्रकाशः प्रकाशाप्रकाशावप्रकाशश्च इति क्रमेण सुखदुःखमोहलक्षणानि प्रकाशक्रियानियमशीलानि सत्त्वरजस्तमांसि ॥४॥

ननु चैवं सति यथा पर्मेश्वरस्य ज्ञानक्रियामाया अव्यतिरेकण्यः शक्तयः , ---- इत्युच्यन्ते , तद्वत्पशोः सत्त्वरजस्तमा।म्सि प्रसज्यन्ते , व्यतिरिक्तानि च तानि पुंस्त्त्वाद्गण्यन्ते , तदेतत्कथम् ? इति संशयं शमयति

भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते ।
एषां गुणानां करणकार्यत्वपरिणामिनाम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ ५ ॥

सत्यमेवं स्यात्यदि भेदग्रह न भवेत्, भेदस्त्वयं विचार्यते । तत्र च संकुचितचिन्मात्रस्वभावः पुरुषो , नास्य नैसर्गिकं भावविषयं प्रकाशनादि रूपं सर्वदा तत्प्रसङ्गात्, अपि त्वन्यसंबन्धकृतम् । ततश्च तस्मात्पशोः शक्तिमत्त्वेन शङ्क्यमानाद्भेदेन यत एतानि सत्त्वादीनि , ततः शक्तयो व्यतिरेकमुक्ताः ---- इति नोच्यन्ते किं तूपकरणत्वात्<गु आ> इत्युच्यन्ते । ननु पुरुषात्किमिति ते भेदेनोच्यन्ते ? , उच्यते , इह सुखदुःखमोहपरिणामरूपमेतत्करणत्रयोदशकं कार्यदशकं च सुखादिस्वभावत्वेनानुभूयते , ---- इति सुखदुःखमोहाः करणकार्यवर्गतादात्म्यवृत्तयो यदि पुरुषव्यापि तादात्म्यं भजेरन् तर्हि पुरुषः कार्यकरणपर्यन्तसृष्टिमयः संपन्नः , परिणामश्च दूषितः ---- इति स्वातन्त्र्यशक्त्या पुरुषो विश्वरूपः , ---- इत्यायातम् । तथा च न कश्चित्पुरुष ईश्वर एव , तस्मातप्रत्यभिज्ञानमयपुरुषस्वरूपविचारे सत्त्वादयो भिन्ना एव , ---- इति स्थितम् ॥५॥

ननु ज्ञानादीनि कथं सत्त्वादिरूपाणि पशुं प्रति ? इत्याह

सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोह् ।
द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ ६ ॥

इह तावत्परित्विश्वस्यावभासवैचित्र्यलक्षणेण सृष्ट्यादिना पालयिता स्वप्रकाशस्वभावः , तस्य विश्वपतेर्या सत्ता भवनकर्तृता स्फुरत्तारूपा पूर्वं व्याख्याता {सा स्फुरत्ता महासत्ता}(इप्व्_१,५ १४) इत्यत्र , सैव प्रकाशस्य विमर्शाव्यतिरेकात्विमर्शात्मकचमत्काररूपासती क्रियाशक्तिरुच्यते , परौन्मुख्यत्यागेन स्वात्मविश्रान्तिरूपत्वाच्च सैव आनन्दः , तदेवं भगवतश्चिदात्मतयैवेयद्रूपता । पशोस्तु सत्ता तदभावश्च आनन्दश्च तदभावश्च संकुचिततद्रूपत्वात्, तेन योऽसौ सत्तानन्दभागस्तत्प्रकाशसुखवृत्ति सत्त्वम् , यस्तदभावस्तदावरणमोहरूपं तमः , एते च ते सत्त्वतमसी नीलानीलवत्परस्परपरिहारेण यद्यपि वर्तेते कार्यकारणत्ववत्तयापि एकपरामर्शगोचरीकार्यधर्म्यपेक्षया चित्रपतङ्गसंगतनीलानीलात्मकरूपन्यायेनान्योन्यमिश्रतयापि भातः , अतो योऽयं <द्वयात्मा> मिश्रस्वभावः तद्रजोगुणः , अत एव प्रकाशाप्रकाशस्वरूपयोः सत्त्वतमसोरत्र श्लेषेणावस्थानमिति दुःखत्वम् ; प्रियपुत्रादेरेकघन एव हि प्रकाशः सुखम् ; एकघन एवाप्रकाशो मोहः । यस्तु कथञ्चित्प्रकाशो यथा सव्याधिकदेहरूपतयानभिमतया , कथञ्चिच्चाप्रकाशो यथा गतगदकल्याणधर्मयोगितयाभिमतया तदेव दुःखत्वम् ; अयमेव च पूर्वापरीभावसारः क्रियापरमार्थः । अत्रानुभयरूपत्वं तु नास्ति , प्रतीतौ कस्यांचित्कल्पिताकल्पितरूपायामामननुप्रवेशात्तस्य । तथा हि ---- नीलं तावदकल्पितरूपायां धियि भाति ; नीलाभावस्तु तुच्छोऽपि कल्पनाकल्पित आभासमानत्वात्तावद्व्यवहारपरमार्थः , तदुभयव्याभिश्रणात्तु नीलानीलं भातु नाम , यत्त्वनुभयरूपं तन्नीलप्रतीत्या तावदकल्पितया न विषयीकृतं चेत्तत्कल्पितामनीलधियमनुधावेत्, अथ तां कल्पितां धियं नाविशत्यकल्पितया विषयीकृतं नीलमेव स्यात्, ---- इति न पशोश्चतुर्थोऽस्ति गुणः । अपिशब्दश्चार्ये , पशोः सा सत्ता सत्त्वम् , तदभावस्तमः , द्वयात्मा रजश्च , ---- इति संबन्धः ॥६॥

एवं तावत्पतिपशुरूपं प्रमातृतत्त्वं संक्षेपेण निर्णीतम् ; अथ प्रमेयतत्त्वं निर्णेतुं पत्यौ तावत्<इत्यभिदं प्रमेयतत्त्वम्> इति निर्णेतुमाह ----

येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः ।
ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ ७ ॥

इहाभासा एव तावदर्थाः , ---- इत्युक्तम् , ते च परामर्शैक्येन कदाचिन्मिश्रीक्रियन्ते यदा विशेषरूपता , कदाचिदमिश्रा एव परामृश्यन्ते यदा समान्यरूपता , ते एते उभयात्मानोऽप्यर्था असामायिकेनाकल्पितेनेदंभावेन सहजपरामर्शरूपेणाङ्गुलिनिर्देशादिप्रख्येन गोचरीकार्याः प्रभोरपि न केवलं सद्योजातबालादेर्यावदीश्वरस्यापि , <तथा> तेन सामान्यविशेषप्रकारेण चित्रतयावभासन्ते । चित्रत्वं हि तयोः ---- यन्मिश्रत्वममिश्रत्वं च युगपदेकाहन्ताविश्रान्तं भाति , ---- इति ईश्वरदशायां भावोल्लासनान्तरीयकत्वेन संवित्संकोचरूपं निषेध्यानुपरक्तनञर्थमात्ररूपं शून्यं संवित्प्रकाशेनैव प्रकाशमानमहन्तानिषेधरूपामसामायिकीमिदन्तामुल्लासयति ॥७॥

एवं तावदीश्वररूपस्य पत्युरित्थं प्रमेयतत्त्वं , परमशिवे तु भगवति प्रमेयकथैव कथमुत्तिष्ठति , प्रमेयकथोत्थापकत्वमेव भगवतः सदाशिवेश्वरत्वम् ; अतोऽधुना पशुं प्रति कीदृक्प्रमेयस्य वृत्तान्तः , ---- इति सन्देहमपोहति श्लोकत्रयेण ----

ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः ।
तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ ८ ॥

तस्यासाधारणी सृष्टिरीशसृष्ट्युपजीविनी ।
सैषाप्यज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ ९ ॥

स्वविश्रान्त्युपरोधायाचलया प्राणरूपया ।
विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १० ॥

तुर्विशेषं द्योतयति , प्रत्यगात्मनस्तु इत्थं प्रमेयरूपा अर्थाः , न स्वीश्वरयदुक्तनयेनेति । <भिन्न> इति मिश्रामिश्रतया भिद्यमान आभासो येषामर्थानां ते विशेषसामान्यात्मानोऽर्थाः <प्रत्यगात्मनः> प्रतिपुरुषमव्यामिश्रस्वसंवेदनादगमस्वरूपस्यासंकीर्णाहंप्रकाशात्मनः प्रकल्प्याः कल्पनीयाः , प्रतिप्राणिस्ववासनानुसारेण तत्तद्विचित्रसुखदुःखाद्युपयुक्ताभिः स्मरणे उत्प्रेक्षणे संकल्पनेऽन्यत्रान्यत्र च विकल्पयोगे । एतदुक्तं बह्वति ---- ईश्वरस्य विकल्पात्मकतामन्तरेण शुद्धविमर्शविषयीभाव्या अर्थाः , पशोस्त्वन्योन्यापोहनहेयाकिनि विकल्पे समारूढास्तेऽर्था भवन्ति , सांसारिकहानादानादिव्यवहारोपयोगातिति ।

नन्वविकल्प्यन्ते यावआनेवार्थस्तावानेव यदि विकल्प्यत्वे तत्को विशेषः प्रमेयस्य पतिपशुरूपतायाम् ? उच्यते , तस्येति , पशुकर्तृका सृष्टिस्तेषामर्थानामीश्वरसृष्टानामुपरिवर्तिनी , अत एव तामीश्वरसृष्टिमुपजीवन्ती असाधारणी प्रतिप्रमातृनियता । तद्यथा <इदं हृद्यम्> इति येन सृष्टं तत्तस्यैव तदा नान्यस्य । ननु यदि पशोरपि सृष्टिशक्तिरस्ति तर्हीश्वर एव ? सत्यम् , ईश्वर एवासौ । नन्वेवं साधारणत्वं कस्मात्सृष्टेर्न भवति ? भवेत्यदि स्वशक्तिं परिजानीयात्, यावता सा तस्यापरिज्ञातापरवशस्यैव सतो विकल्पक्रिया विकल्पनशक्तिरुदेति । ननु केन सा तस्योत्थाप्यते ? आह ---- ईश्वरस्य परामर्शरूपतया शब्दराशिलक्षणस्य वा शक्तिः स्वरूपविश्रान्तिलक्षणपारमैश्वर्योपरोधप्रयोजनब्राह्म्यादिदेवताचक्रमयी तैस्तैः ककारादिवर्णवैचित्र्यैर्विचित्रा , तया यासौ विकल्पक्रिया तस्य पशोरेकत्र निरूढ्यभावात्चञ्चला , तेन <मित्रमिदं शत्रुरयम्> इत्यादिवर्णवैचित्र्यानुविद्धा , तया विकल्पनक्रियया <तदात्मन> ईश्वरस्वभावस्यैव पशोरसाधारणी सृष्टिः ।

{पञ्चवक्त्रश्चतुर्दन्तो हन्स्ती नभसि धायति ।}

इत्यपिविमिश्रतायां विकल्पसृष्टिः , तानाभासानीश्वरसृष्टानेयोपजीवति इति सर्वा पाशवी सृष्टिः प्रत्ययसृष्टिरीश्वरसृष्ट्युपजीविनीत्युक्तम् ॥१०॥

नन्वेयं यदि पाशवी सृष्टिः संसाररूपा तर्हि पारमेश्वरी सृष्टिः पशोः किं कुर्यात्? इति निर्णीयते ----

साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् ।
विकल्पहानैकाग्र्यात्क्रमेणेश्वरतापदम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ ११ ॥

ऐश्वरः सर्गो द्विधा , साधारणश्च घटादिरसाधारणश्च अन्यथा निर्दिष्टो द्विचन्द्रादिः ; तस्य च सामान्यलक्षणं स्पष्टावभासनं नाम । सोऽयं सर्गो यदा विकल्पहानक्रमेण तस्मिन्निर्विकल्पकपरिगृहीत एव स्पष्टाऽभेर्थ एकाग्रत्वमवलम्भ्य <अहमिदम्> इत्यैश्वर्यपरामर्शपदं भवति तदा अन्तर्लक्ष्यबैर्दृष्टिनिमेषोन्मेषपरिहारदिशा <क्रमेण> अभ्यासतारतम्येन पशोः पशुत्वं प्रतिहन्तीश्वरत्वं दर्शयति । किं च योऽयं विकल्पसर्गः पाशव उक्तः सोऽपि यदि <अन्यथा> इति पूर्विक्तरूपवैपरीत्येन परिज्ञातयेशशक्त्या परिज्ञाततादात्म्यस्य भवति तदा सोऽपि साधारण एवाप्यायनाभिचरणशान्त्यादिविकल्प इव न्यस्तमन्त्रस्य भावितान्तःकरणस्य ॥११॥

एवं विकल्पनिर्ह्रासेन निर्विकल्परूपसात्मीभावे विश्वात्मकसाक्षात्कारलक्षणः स्वप्रत्यय एव मोक्षो दर्शितः , अधुना विकल्पनिर्ह्रासाभावेऽपि तं दर्शयति ----

सर्वो ममायं विभव इत्येवं परिजानतः ।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १२ ॥

नहि सः प्रत्यगात्या नाम पशुः कश्चिदन्यो योऽहम् , अपि तु परिगृहीतग्राह्यग्राहकप्रकाशैकघनः परो यः स एवाहं स चाहमेव , न त्वन्यः कश्चित्; अतो विकल्पसृष्टिरपि <मम> स्वातन्त्र्यलक्षणो <विभवः> , ---- इत्येवं विमर्शे दृढीभूते सत्यपरिक्षीणविकल्पोऽपि जीवन्नेव मुक्तः । यथोक्तम् ----

{शङ्कापि न विशङ्क्येत निःशङ्कत्वमिदं स्फुटम् ।}

इति ॥१२॥

नन्वेवं बद्धमुक्तयोः प्रमेयं प्रति को भेदः ? , उच्यते ----

मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते ।
महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १३ ॥

श्रीमत्सदाशिवेश्वरपदादारभ्य क्रिमिपर्यन्तप्रमातृवर्गाधिष्ठातृ यदहमितिरूपं तदेवात्मतयाभिनिविशते मुक्तः , ततश्च विश्वस्यापि प्रमेयं ममापि , मम प्रमेयं विश्वस्यापि , प्रमेयं चेदं ममैवाङ्गभूतं प्रमेयान्तरमपि तथा , ---- इत्यनेन क्रमेण प्रमेयं प्रस्परतश्च प्रमातृवर्गाच्चाव्यावृत्तम् , ---- इत्येकरसाभेदविश्रान्तितत्त्वमस्य सर्वं परामर्शपदमुपैति । बद्धस्य तु सर्वमेतद्विपरीतम् , ---- इत्येकरसभेददविश्रान्त एषासौ ॥१३॥

ननु सदाशिवेद्श्वरभुवि जीवन्मुक्तिपदे बद्धरूपपशुप्रमातृविषये च प्रमेयवृत्तान्तः परीक्षितः , परमशिवे तु कथमसौ ? इत्याशङ्क्याह ----

सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः ।
शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १४ ॥

न खलु भगवति श्रीपरमशिवे प्रमेयकया काचिदस्ति , तत्त्वौघस्य सर्वथा तत्र चिद्रूपतामात्रविश्रान्तत्वेन लीनत्वात्, ततश्च सावस्था संवित्स्वभावेन स्वात्मविश्रान्त्यानन्देन अकृत्रिमनैसर्गिकपरामर्शात्मकस्वात्मचमत्कारलक्षणेमैकधना अविच्छिन्नतद्रूपा परमाक्षरेण विग्रहवती भगवतो विश्वमयस्यानवच्छिन्नानुत्तरधाम्नो नित्यशुद्धस्य गलितप्रमेयकथा सर्वोत्तीर्णा व्यपदिश्यते ॥१४॥

एवमधिकारचतुष्ट्योक्तं यद्वस्तु तत्फलितमाह ----

एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा ।
जानन्यथेप्सितान्पश्यञ्जानाति च करोति च ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १५ ॥

एवमिति , ईश्वररूपमात्मानं तस्य च स्वाव्यतिरिक्ते स्वातन्त्र्यमात्ररूपे ज्ञानक्रिये जाननेवंभूतोऽयमात्मा न तु काणादादिदर्शितः , इत्थं च ज्ञानक्रिये न तु तस्य व्यतिरिक्ते केचन इति परामृशन् , यद्यदिच्छति तत्तज्जानाति करोति च समावेशाभ्यासपरोऽनेनैव शरीरेण । अतत्परस्तु सति देहे जीवन्मुक्तस्तत्पाते परमेश्वर एवेति ॥१५॥

अस्यार्थस्य स्वप्रत्ययसिद्धस्यापि गुरुपरम्परोपदेश उपोद्वलको वक्तव्यः , शास्त्रदृष्टिर्हि दर्शितागमाधिकारेण । एवं गुरुतः शास्त्रतः स्वतः एतद्दृढीकृतं भवति , इत्यभिप्रायेण गुरुपारम्पर्यं दर्शयति

इति प्रकटितो मया सुघट एष मार्गो नवो
महागुरुभिरुच्यतेस्म शिवदृष्टिशास्त्रे यथा ।
तदत्र निदधत्पदं भुवनकर्तृतामात्मनो
विभाव्य शिवतामयीमनिशमाविशन्सिद्ध्यति ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १६ ॥

अस्मत्परमेष्ठिभट्टारकश्रीसोमानन्दपादैः शिवदृष्टिशास्त्रेऽयमभिनवः सर्वरहस्यशास्त्रान्तर्गतः सन्निगूढत्वादप्रसिद्धो बाह्यान्तरचर्याप्राणायामादिक्लेशप्रयासकलाविरहात्सुघटस्तावदुक्तः , स एवात्र प्रकटतां परवादकलङ्कशङ्कापसारणेन नीतः । यत एवं शास्त्रगुरुस्वप्रत्ययसिद्धोऽयमर्थः , तदिति तस्मादत्र प्रमेयपदे परामर्शं विश्रमयन् विश्वकर्तृत्वलक्षणमैश्वर्यमात्मनो विभाव्य दार्ढ्येन यदा परामृशति तर्हि तत्परामर्शमात्रादेव तावज्जीवन्मुक्तो भगवाञ्छिव एव । यथोक्तं परमेष्ठिपादैः

{ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनयापि वा ॥
सकृज्ज्ञाते सुवर्णे किं भावनाकरणादिना ।
सर्वथा पितृमात्रादि तुल्यदार्ढ्येन सत्यता ॥} (शि दृ )

इत्यादि । तां विभाव्य यद्यनिशमाविशति शरीरप्राणबुद्धिशून्येभ्योऽन्यतमं द्वयं सर्वं वा तत्रैव निमज्जयति , अनवरतं तत्तां तां विभूतिं महाविभूतिपर्यन्तां लभते ॥१६॥

ननु यद्यात्माख्यं वस्तु तदेव तर्हि तस्य प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरविशेषः , न हि बीजमप्रत्यभिज्ञाने निर्बन्धः ? उच्यते , द्विविधार्थक्रियास्ति , बाह्या चाङ्कुरादिका , प्रमातृविश्रान्तिचमत्कारसारा च प्रीत्यादिरूपा । तत्राद्या सत्यं प्रत्यभिज्ञानं नापेक्षते , द्वितीया तु तदपेक्षते एव । इह च <अहं महेश्वरः> इत्येवंभूतचमत्कारसारा परापरसिद्धिलक्षणा जीवन्मुक्तिविभूतियोगमय्यर्थक्रिया , इतीश्वरप्रत्यभिज्ञानमत्रावश्यापेक्षणीयम् । ननु प्रमातृविश्रान्तिसारार्थक्रिया प्रत्यभिज्ञानेन विना न दृष्टा , सति तत्र दृष्टा , इति क्वैतदुपलब्धमित्याशङ्क्याह ----

तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके
कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो
नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १७ ॥

यदा नायकगुणसंश्रवणप्रवृद्धानुरागा कामिनी तद्दर्शनमेव परमुपादेयमाकाङ्क्षन्ती दिवानिशमवशहृदया देवतोपयाचितानि दूतीसंप्रेषणानि मदलेखद्वारकात्मावस्थानिवेदनानि कुर्वाणा विरहक्षामीभवद्गात्रलतिका तिष्ठति , तदा तदुपयाचितवशातशङ्कितमेव सविधवर्तिनि प्रियतमेऽवलोकिते तैस्तैरुत्कर्षविशेषैः परामर्शपदवीमगच्छद्भिर्जनसाधारणतामापादिते संपन्नमपि प्रियतमावलोकनं न हृदयं पूर्णीकरोति ; तथा स्वात्मनि विश्वेश्वरे सततं निर्भासमानेऽपि तन्निर्भासनं न हृडयस्य पूर्णतामाधत्ते ; यतः सोप्यात्मा विश्वज्ञत्वकर्तृत्वाद्यप्रतिहतस्वशक्तिलक्षणपारमैश्वर्योत्कर्षयोगेन न परामृष्टः ---- इति भासमानघटादितुल्यवृत्तान्तो जातः । यदा तु दूतीवचनाद्वा तल्लक्षणाभिज्ञानाद्वोपायान्तराद्वा तानुत्कर्षान् हृदयङ्गमीकरणेनामृशति , तदा तत्क्षणमद्भुतफुल्लन्यायेनैव तावत्कामपि पूर्णतामभ्येति , परिभोगाभ्यासरसे तु विश्रान्त्यन्तराण्यपि लभते ; तद्वदात्मनि गुरुवचनाज्ज्ञानक्रियालक्षणशक्त्यभिज्ञानादेर्वा यदा पारमैश्वर्योत्कर्षहृदयङ्गमीभावो जायते , तदा तत्लक्षणमेव पूर्णतात्मिका जीवन्मुक्तिः ; समावेशाभ्यासरसे तु विभूतिलाभः ---- इति तस्य प्रत्यभिज्ञैव परापरसिद्धिप्रदायिनी भवति ॥१७॥

सर्वोपकारकं महाफलमिदं शास्त्रं प्रसिद्धान्वययोगेन नामधेयप्रसिद्ध्या च तदुत्कर्षस्मरणद्वारजनितसंभावनाप्रत्ययलक्षणप्रवर्तकसंवेदनया जनं प्रअव्र्तयितुं पितुर्नाम्ना चोपसंहारं दर्शयति

जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना ।
ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता ॥ ईश्वरप्रत्यभिज्ञाकारिका ४ १८ ॥

यस्य कस्यचिज्जन्तोरिति नात्र जात्याद्यपेक्षा काचित्---- इति सर्वोपकारित्वमुक्तम् । अयत्नेन सिद्धिः परापररूपा यथा स्यात्---- इति महाफलत्त्वम् । उदयाकरपुत्रः श्रीमानुत्पलदेवोऽस्मत्परमगुरुरिदं शास्त्रमकार्षीत्---- इति तत्प्रसिद्द्या जनः प्रवर्तते ---- इति प्रवर्तनाद्वारेण सोऽनुगृहीतो भवति ---- इत्युभयनामनिर्देशः । इयमिति हृदयङ्गमतामुपपत्तिशतैरानीता । इति शिवम् ॥१८॥ आदितः १९०॥

{एषाभिनवगुप्तेन सूत्रार्थप्रविमर्शिनी ।
रचिता प्रत्यभिज्ञायां लघ्वी वृत्तिरभङ्गुरा ॥}
{वाक्यप्रमाणपदतत्त्वसदागमार्थाः स्वात्मोपयोगमुपयान्त्यमुतः स्वशास्त्रात् ।
भौमान् रसाञ्जलमयांश्च न सस्यपुष्टौ मुक्त्वार्कमेकमिह योजयितुं क्षमोऽन्यः ॥
आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति ।
तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन्को भवानिति ॥}

इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेतायां तत्त्वसङ्ग्रहाधिकारः । समाप्ता श्रीमदीश्वरप्रत्यभिज्ञा ॥