ईश्वरशतकम् (अवतारप्रणीतम्)
ईश्वरशतकम् (प्रणीतम्) अवतारः |
काश्मीरिकश्रीमदवतारकविप्रणीतं ईश्वरशतकम् सटीकम्। सवः पायाद्येन निन्ये वासुकिर्निजहारताम् । तपोपायात्तनु कोपाद्यः सरस्य जहार ताम् ॥ १ ॥ स वः पायादित्यादिग्रन्थारम्भे त्रिविधविघ्नोपघातार्थं कविना नमस्कारवाक्यवदुचितं १. सटीकत्येश्वरशतकस्य प्रणेता श्रीमदवतारकविः कश्मीरेषु कदा समुत्पन्न इति न निश्चयः, किंतु स्तुतिकुसुमाञ्जलिटीकाकर्नू राजानकरत्नकण्ठस्य पितामहोऽप्यवतारनामा- सीदिति सकलविपश्चिद्वर्यः प्रज्ञाजितबन्नहामात्यः । अवतारोऽजनि तस्मात्याण्डित्यस्याव- तार इव ॥ इति स्तुतिकुसुमाञ्जलिटीकासमाप्तिस्थार्यातः प्रतीयते. रत्नकण्टेन च स्तु- तिकुसुमाञ्जलिटीका १७३८ मिते विक्रमाब्दे प्रणीतेति तत्रैव स्फुटम् , अतोऽवतारोऽपि १६२२ मितनिस्ताब्दासनकाल आसीतू. यदि स एव सटीकस्यास्य शतकस्य निर्माता- बतारकविः स्यात्तदा निर्णीत एव तत्सत्तासमयः, सटीकस्यास्य शतकस्य पुस्तकद्वयन- स्माभिरासादितम्. तनैकं श्रीयुतभाण्डारकरपण्डितैः पुण्यपत्तनस्थराजकीयपुस्तकालया- स्कृपया प्रहितम्. अपरं कश्मीरनंगराज्ज्योतिर्विदुपाहश्रीदयारामपण्डितैः प्रेषितम्. पुस्तकद्वयेऽपि प्रायो नास्ति भेदः, द्वयं च कश्मीरलिखितमिति समानमातृकमेवेति प्र- तीयदे. एतदाधारेणैवैतन्मुद्रणमुपक्रन्यत इति शिवम्. काव्यमाला । सूचितम् । येन भगवता स्वतश्रेण धराधराणयोग्यों वासुकिर्हारतां नीतः। एतेन वि. श्वाधारत्वं ध्वनितम् । तथा तपोपायात्संयमविघ्नविधायित्वात् न त्वीर्ष्य॑या कोपात्तां वि- श्वस्य प्रसिद्धां स्मरस्य तनुं जहार दिदाहेति प्रतीयते । तामित्यनुभवगोचराम् । अत एव यच्छब्दोपादानं न कृतम् । यदाहु:--'प्रकान्तप्रसिद्धानुभूतविषयस्तच्छन्दो यच्छब्दो- पादानं नापेक्षते । तत्र नमस्कारः स्वातन्त्र्यकर्तृत्वाद्भगवतः सर्वातिशायित्वादर्थादेवा- क्षिप्तः ॥१॥ रक्षावतारं गम्भीरं भवमुग्रं हरेश्वर । नय नीतिगुणं तं तु ममताप्रियतामिमाम् ॥ २ ॥ हे ईश्वर परमात्मन् , तदुक्तम्-'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। तत्संबोधनम् । भवं संसारं गम्भीरं त्वं हर निवारय । कथंभूतं भवम् । उग्रं कठिनम् । त्वं भक्तानामवतारमवतरणं भवात्पुन:पुनरागमनं रक्ष । कविना च अवतारमवतारना- मानं मां पाहीति स्वनाम ध्वनितम् । तु पक्षान्तरें । इमां प्रत्यक्षां सर्वेषां ममताप्रिय- तामहंकृतिहेवाकितां तं प्रसिद्धं लोकोत्तरं नीतिगुणं नय प्रापयः । अत्र च रक्ष अव, तारं गम्भीरं, भवं उग्रं, हर ईश्वर, नय नीति, गुणं तन्तुं, अमत अप्रिय, इति द्वयो- र्द्वयोः शब्दयोरर्थस्य पौनरुक्त्यभिधावभासते । भिन्नार्थत्वात्तु पुनरुक्तवदाभासः । मुखावभासनं तु पुनरुक्तवदाभासम्' इति ॥ २ ॥ वदामि ते स्वं रमयन्नमोऽहं वहामि संसारमयं न मोहम् । तनुर्मुदायोगवता स्मितेन मुक्तः स्फुरद्योग बतास्मि तेन ॥ ३ ॥ अहं ते तुभ्यं नमो वदामि नमस्कारं करोमि । अनेन कायवाक्चित्तानां प्रह्णीभावः सूचितः । अत एक स्वमात्मानं रमयन्नानन्दयन्संसारमयं मोहमज्ञानरूपं. न वहामि यदुक्तम्-'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इति । हे भगवन्स्फुरद्योग, बत आश्चर्यं । अहं तनुस्तुच्छोऽपि मानुषादज्ञानात मुदां हर्षाणां निरतिशयनीतिरूपाणाम् आसमन्तात् योग आयोगः तद्वता मुदायोगवता स्वानुभवैकगोचरेण स्मितेन अमिम- तप्राप्त्या हसितेनोपलक्षितः सन्मुक्तोऽस्मि । यमकम् ॥ ३॥ सृष्टिस्थिती प्रारभजता कृतापवर्गोंद्यमेनाथ भवान्धकारे। धृतं त्वया विश्वमतो हतारिवर्गोऽद्य मे नाथ भवान्धकारे ॥ ४ ॥ हे नाथ हे अन्धकारे अन्धकासुररिपो, प्राक् सृष्टिस्थिती भजता कुर्वता त्वया अ- थानन्तरं भवान्धकारे संसाररूपान्धकारे कृतापर्गोधमेन कृतो भक्तानामपवर्गार्थमुद्यमो येन तथाविधेन । त्रिविधकृत्यकारिणा त्वयैव विश्वं श्रुतम् । अतो ममापि अद्य हतारि- वर्गा भवः । हृता अरयो मुख्याः कामादयों येन तादृशः । पादयमकम् ॥ ४ ॥ सज्जातसज्जाततलोचनाग्रे संध्यात संध्यातपसा सुरौधैः । माधीनमाधीनपरिग्रहेण कालेन कालेन हृतं कृथा माम् ॥ ५ ॥ ईश्वरशतकम् । सत् अकृत्रिमं जातं जन्म यस्य स सज्जातः सज्जः संनद्ध आततो विस्तीर्णो विश्व- व्यापित्वालोचनाग्निर्यस्य तदामन्त्रणं सज्जातसज्जाततलोचनाग्ने । तथा सुरौधैर्बह्मविष्णुप्र- भृतिभिर्देवसमूहैः संध्यातपसा त्रिसंध्यं समाधानेन संध्यात सम्यग्ध्यातः । कालेन अ- सितवर्णेन । भयंकरेणेति यावत् । तथा आधीनपरिग्रहेण आधीनां मनःपीडानां ये इनाः स्वामिनो ज्वरादयो रोगास्तेषां परिग्रहः परिवारो यस्य स तादृशेन कालेन मृत्युना हतं सन्तं मां माधीनं कृथाः संपादय । (यद्वा) मायाः शोभाया आधीनमायत्तं माधीनम् । श्वेतराजर्षिवदित्यर्थः । आदियमकम् ॥ ५ ॥ भवोत्सुकानामसमाधिभिन्नः कश्चिन्मदन्यो न समाधिभिन्नः । ये त्वां प्रशंसन्ति सदा सभार्यास्त एव जीवन्ति सदासभार्याः ॥६॥ त्वं नोऽस्माकमुत्युकानां सोत्कण्ठानामसमाधिभित् असमा अनल्पा ये आधयो म. नोरुजस्तान्भिनत्तीति तादृक् भव संपद्यस्य । यतो मत्सकाशात् अन्यो जनः समाधिभि- न्नश्चित्तैकाग्र्यबहिष्कृतो नास्ति । ये त्वां सदा सर्वकालं सभासु मध्ये अर्या निष्पापा: प्रशंसन्ति स्तुवन्ति त एव सदासभार्याः सह दासैर्भार्यया च वर्तन्ते ये सपरिवारा रिणो नानाजन्मोपलव्ध्या जीवन्तोऽपि मृता एव । ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे ज- न्तवो जातनष्टाः' इति यावत् । आदियमकम् ॥ ६ ॥ दैत्यंद्विषां त्वच्चरणावलीनामिवाम्बुजे भग्नरणावलीनाम् । स्तुवन्त्यतो निःशरणा वलीनां त्वन्मूर्तिमीतेः सरणावलीनाम् ।। ७ ॥ दैयद्विषां देवानां त्वचरणौ अलीनां भ्रमराणामिवाम्बुजे पद्मे भवतः विश्रान्तिस्थानं मनोभिलषितप्राप्तेः स्त इत्यर्थः । कथंभूतानां दैत्यद्विषाम्, भग्नाः पराजिता रणावलयः संग्रामसमूहा यैस्तथाविधानाम् । अतो हेतोः निःशरणा मादृशा अपि ईतेः संसारोपद्र- वस्य सरणौ मार्गे अलीनामश्लिष्टां त्वन्मूर्तिं स्तुवन्ति । कथंभूताम् । वययोरैक्याद्वलि- नामिनां स्वामिनीम् । तदधिष्ठातृत्वात् । सर्वपादान्तयमकम् ।।.५॥ भवेतिभिन्नः कुलपामराणां भवेऽतिभिन्नः कुलपामराणाम् सदासकान्ताय न मोहराय सदा सकान्ताय नमो हराय ॥८॥ हे अमराणां देवानां कुलप, त्वं नोऽस्माकं कुलमध्ये पामराणामयोग्यत्वाद्वालिशाना- भीतिभित् दुर्गतिनिहन्ता भव । अतस्त्वमेव भवे संसारेऽतिभिन्न उत्तीर्णः । सह दासैर्व- र्तते कान्तश्च यः । सर्वाभिलाषदायित्वात् । सदासकान्तः । तस्मै । तथा मोहं राति ददाति मोहरः अज्ञानदायी । न मोहरः तस्मै न मोहरायः । सदा सर्वकालं सकान्ताय निजशक्तिपरिवृताय हराय नमः । संपुटयमकम् ॥ ८ ॥ नवगुक४ काव्यमाला। राजते विष्टपाकारा राकापाहिफणावरा । रावणाराधिताक्षारा राक्षाताम्राक्षि तेडजरां ॥ ९॥ पद्मबन्धः॥ तनुरद्रिसुताकान्त कान्तलावण्यवाहिनी । वाहिनीवामृतमयी मयीह विमलातनुः ॥ १० ॥ शृङ्खलायमकम् ।। (युग्मम्) हे अद्रिसुताकान्त पार्वतीश, तव संबन्धिनी तनुर्मूर्तिः राजदे। कथंभूता । विष्टपा- कारा विष्टपं जगत् तदाकारा। तथा राकाप: पूर्णचन्द्रः तथा अहिफणाः तामिर्वरा उ. त्कृष्टा । तथा रावणेनाराधिता सेविता । अक्षारा न क्षारा। (मधुरा) सौम्यस्वभावेत्यर्थः । तथा राक्षा लाक्षा तद्वताम्रमक्षि यत्रेति क्रियाविशेषणम् । राक्षाताम्राक्षि राजते इत्यर्थः । तथा अजरा जन्मादिरहितत्वात् । कान्तलावण्यवाहिनी अमृतमयी वाहिनी नदीव । अ. तनुर्बहला । युगलकम् । आधः श्लोकः पद्मवन्धः । द्वितीयः शृङ्खलायमकम् ॥९॥१०॥ दरवति वरदय भटभयदपणक्षणयथरथपर पुरशरसमरे । मदमयरणरय जय जय स्वमत क्षतमखसुरवरसुखद शिव ॥ ११ ॥ महादेवबन्धः । जागेश्वरबन्ध इत्यर्थः । हे शिव, त्वं जय जय । किंविध । दरवाति समये मादृशे वरदय बरा उत्कृष्टा दया यस्यः । अन्धकादीनां विश्वकण्टकानामपि पुनर्दयया गाणपत्यप्रतिपादकत्वात् । तथा भ- टानो भयदः पणो व्यवहारो यस्य तादृशः । तथा क्षणं पन्था यस्य तादृग्यो रथस्तत्र पर उयोगवान् तदामन्त्रणं भटभयदपणक्षणपथस्थपर। तथा पुराणां त्रिपुराणां शरसमरे बाणयुद्धे मदमयः साहंकारो रणरयः संग्रामवेगोः यस्य तदामन्त्रणम् । तथा खमत खा- नामिन्द्रियाणां मताभिप्रेत । तदधिष्ठातृवात्सर्वेन्द्रियाणाम् । तथा क्षतो मखो दक्षा. ध्वरो येन । तथा सुरवराणां सुखं ददातीति तत्संबोधनम् ॥ ११॥ क्रूरा नराणां भवता शोधनीयाविभागतिः । चराचराणां भवता बोधनीया शुभा मतिः ॥ १२ ॥ क्रूरा दुःसहा संसारे रता नराणां भक्तानां भवता स्वामिना - अविभागतिस्तामसी गतिः शोधनीया। चराचराणां जङ्गमस्थावराणां शुभा मतिर्भवतैव बोधनीया । अयं गोमूत्रिकाबन्धः ॥ १२॥ नरकं कालमालाभरणा हि तरसा श्रिताः । नरकङ्कालमालाभरणाहितरसाश्रिताः॥ १३ ॥ काञ्चीगोसूत्रिकाबन्धौ समुद्गयमकम् ॥ ईश्वरशतकम् । ततेतितति तातैता मम मा मामिमाममाः । ललल्लोलालिलीलालैरुरुरोराररैररम् ॥ १४ ॥ पादेकाक्षरः ।। यमवाराङ्गनाः कान्तैरवसादरतापदैः । समं त्रस्ता भवभक्तिरवसादरतापदैः ॥ १५ ॥ त्रिभिः श्लोकैर्वाक्यार्थतिलकम् ।। हे तात. पूज्य, तां यमवाराङ्गना मृत्युस्त्रियो भवद्भक्तिरवसादरतापदैः भवति विषये यानि भक्तिरवाणां सादरता तस्याः पदानि वाक्यानि तैः त्रस्ता भीताः कान्तैर्भर्तृभिः समं सह । कथंभूतैर्भर्तृभिः । अवसादरतापदैः अवसादं विनाश रान्ति ददति तापं च ददति तादृशैर्भतृभिः साकं त्रस्ता भीताः । भवदीयभक्तजनस्तुतिवाक्यं श्रुत्वैव त्रस्ता इत्यर्थः । इमां मम संबन्धिनीं मां लक्ष्मीं मा एतान प्राप्ताः माशब्दो निषेधार्थः । अमा अश्रीकाः । पुनः कथंभूताः । तरसा बलेन हि निश्चयेन नरकं श्रिताः । तता विस्तीर्णा या ईतिततय ईत्तीनां विघ्नानां ततयः समूहा यत्र तथाविधं कृत्वा कालमालाभरणा का- लस्य मा लक्ष्मीस्तल्लाभार्थं रणो यासां तथाविधाः । पुनः कथम् । नरकङ्कालमालाभर- णेहितरसाश्रिः नराणां कङ्कालमालाभिर्यान्याभरणानि तैराहितः रसाश्रिः रसपर्यन्तो यत्र तथा । पुनः कथंभूतैर्भर्तृभिः । ललल्लोलालिलीलालैः ललन्त उल्लसन्तो. लोलाश्च तेऽलय. स्तल्लीलो लान्ति कृष्णत्वात् ये तैः । उरूरोराररैः उरु बहुलं च तत् रोरं दारिद्र्यं उरूरोर- तथा अरीणां समूहं आरं उरूरोरं च आरं च तत् उरुरोरारं तं रान्ति ददति तथाविधैः अरमत्यर्थम् । अत्र वाक्यार्थतिलकेन प्रथमः समुद्गकयमकं काञ्चीगोमूत्रिकाबन्धौ च । द्वितीयः पादैकाक्षरः । तृतीयः पादयमकम् ॥ १३ ॥ १४ ॥ १५ ॥ प्रलापिनं मा रसेनाभयप्रद यमाकुलम् । आगत्य त्वरितं तीव्रप्रभावोचितविग्रहं ॥ १६ ॥ हे तीत्रप्रभ, तथा उचितविग्रह, अभयप्रद, त्वं मा कर्मभूतं अव रक्षः । केन । रसे- नादरेण ! मा कीदृशम् । यमाकुलं यमादाकुलम् । तथा प्रलपति तच्छील: प्रलापी तं प्रलापिनम् । त्वरितमागत्य । गूढकर्मक्रियोऽयं श्लोकः ॥ १६ ॥ चिरार्तिचित्तेतिचितैरिताराच्चराचराचारचरित्रचार । रैचारुता चित्रतराचिरार्चीरीतिं रतारैरुरुचौररोरैः ॥ १७ ॥ त्र्यक्षरः हे भगवन् चराचराचार चरित्रचार, चराचराणां जङ्गमस्थावराणां यदाचारचरित्रं तत्र चारश्चरणं यस्य तत्संबोधनम् । रैचारूतायां धनानां चारुता ऐश्वर्यं चित्रतरा साश्चर्या क्षकाव्यमाला णिकत्वादचिरार्चिषो विद्युतो रीतिमिता प्राप्ता कैः हेतुभूतैः । उरवो बहला ये चौरास्तथा रोराणि दारिद्याणि (तैः) उरुचौररोरैः । कैः । रतारैः रतस्य चित्तविश्रान्तेराराणि अरि- समूहा इव तैः । पुनः कथंभूतैः । चिरं या आर्तिस्तथा चित्तेतिश्चित्तबाधा च तया चि. तैर्व्याप्तैश्चिरार्तिचित्तेतिचितैः । आराद्दूरतः । त्र्यक्षरोऽयं श्लोकः ॥ १५ ॥ मुदात्तसारा धुसभासभाना सभासमानाङ्गमुदात्तसारा । विभावसुस्थान भव प्रभा ते भवप्रभाते रविभावसुस्थाः॥ १८॥ व्यावृत्त्यमकम् ॥ हे भगवन् भव, विभावसोर्नेत्राश्रयस्य वह्नेः स्थान आश्रय, भवप्रभाते संसारोदये सति ते तव संबन्धिनी प्रभा रविभाववत्सुस्था सामस्थ (स्वास्थ्य )वती । यतः मुदा हर्षेणात्तं सारं यस्याः मुदात्तसारा । धुसभायां देवसदसि समाना सह' मानेन पूजया वर्तते या। सभासमानानि रुचिराण्यङ्गानि यत्र तथाविधं कृत्वा उदात्तमुद्भटं बलं यस्याः।। व्यावृत्तयमकम् ॥१८॥ देहान्तकाले स्वरसेन पाहि यमात्प्रभो भास्वरलोचनाज । शमैकसर्वस्व सभूरिकामाः मां यच्छ देवेश जहीहि मां मा ॥ १९ ॥ वज्रबन्धः । भास्वरलोचन धामत्रयनेत्र, अज अनादे, शमैकसर्वस्व उपशमैकसाधन, त्वं मां देहान्तकाले मरणसमये स्वरसेन कृपया यमान्मृत्योः पाहि । तथा भूरयो बहला कामा मनोरथानि यस्यां सा तादृशीं सर्वाभीष्टप्रदां मां लक्ष्मी यच्छ वितर। मां च मा ज- हीहि मा परित्यजः ॥ वज्रबन्धः ॥ १९ ॥ तनुस्त्वदीया भगवन्स्मरारे रसासुखं मुक्तिमुखं सुसार। शुभावहा भक्तिपरायणानां सादान्तताकृत्तकृतान्तदासा ॥ २० ॥ हे भगवन् सुसार शोभनबल, स्मरारे, तव संबंधिनी तनुर्मूर्ती रसायो सुखं लक्षणया भूतलस्थानां जनानां सुखदायिनी। तथा मुक्तिसुखम् । भोगमोक्षप्रदेत्यर्थः । अत एव भ- क्तिपरायणानां शुभावहा । तथा सादस्यावसादस्यान्तताविच्छेदस्तेन हेतुना कृत्तादिछन्ना कृतान्तदासां यमभटा यया । त्वद्भक्तेभ्यस्ते निराशाः पलायन्ते नन्दिरुद्रवत् ॥ २०॥ स्थिरासुरापक्षपरा सुरास्थिमालावरासन्नसरावलामा । वादे हिता मन्त्रमताहिदेवातिभाविता नुत्यनुता विभाति ॥ २१ ॥ प्रतिलोमानुलोमपादः । युगलकम् ॥ त्वदीया तनुरित्यनेन पूर्वश्लोकस्थेनान्वयः त्वदीया तनुर्विभाति । कीदृशी । स्थिरा येऽसुरा अन्धकादयस्तेषामपक्षपरा प्रतिपक्षभूता। सुराणां ब्रह्मादीनां चास्थिमालादिभिईश्वरशतकम् । वरा उत्कृष्टा । तथा आसन्ना निकटा सरावा नादयुक्ता लामा उत्कृष्टरूपा देवता यस्यो सा आसन्नसरावलामा । तथा बादे चतुर्दशविद्यास्थानविशारद (विचार)विषये हिता । भक्तविद्वज्जनेभ्य इति शेषः । तथा मन्त्रैर्मननत्राणधर्मादिभिर्देवतोचारकपदैर्मता भाविता। यदाहुः मन्त्रमूर्तिस्तु देवता' इति । तथा अहिभिर्नागदेवैश्वातिभाविता अतिध्याताः । तथा तुला स्तुत्या ये ब्रह्मादयस्तैरपि नुता नुत्यनुता । एवंविधा त्वदीया तनुर्विभाति । 'अमत्रमता' [इति पाठे] अमत्रेभ्यः पात्रेभ्यो मता.अहयः सर्पा यस्यां तादृशी देवा- तिभाविता च । [इत्यर्थः) । युगलकम् । आद्यों युक्पादप्रतिलोमः। द्वितीयः प्रतिलो- मानुलोमपादः ॥ २१ ॥ तनोति ते तात नुतौ नितान्तं नूनं नतानां तनुतां न नीतिः । नेनेन नो नूतनतां तु नीता तेनोन्नतानन्ततनो ततेतिः ॥ २२ ॥
हे भगवन् , तात पूज्य, उन्नतानन्ततनो, उन्नता अनन्ताः पृथ्व्यादयस्तनवो मूर्तयो यस्य तत्संबोधनम् । ते तव संबन्धिीनी नीतिः नतानां भक्तानां नुती स्तुती सत्यां नूनं निश्चितं तनुतां लघुतां न तनोति । दार्ढ्यमेव पोषयति । तु पक्षान्तरे । तेन हेतुना इ- नेनार्थीद्भवता स्वामिना नोऽस्माकं तता विस्तीर्णा ईतिः संसारबाधा नूतनतां नवत्वं न नीता । भवन्नुतिमात्रेण वयं मुक्ता इति सूचितम् । श्लोकोऽयं व्द्यक्षरः ।। १६ ।। हर प्रभो परं बन्ध रक्षोभागेऽस्थिरो भव । प्रभावितदमो रोरं भोगातत्व सदस्थिप ॥ २३ ॥ अर्धभ्रमः॥ हे प्रभो भव,त्वं रोरं दारिद्रं हर निवारय । परमत्यर्थ वन्द्य वन्दनीय कथंभूतस्त्वम् । रक्षसां हिंसापराणामपि भागे संविभागेऽस्थिरश्चञ्चलः । दानादावपि. सर्वलो (प)कहित- हेतुना कीलितः । पुनः कथंभूतः । प्रभावितः सर्वजनोपलक्षितो दम इन्द्रियजयो यस्य । तथा प्रभो कथंभूत । भोगातत्व भोगा. अतत्त्वं यस्य । आभासमानखात् । पुनः कथंभूत प्रभो, सदस्थिप सन्ति शोभनांन्यस्थीनि भूषणतया पाति रक्षतीति तादृश ॥ अर्धभ्रमः ॥२३. कार्ष्ण्येन भगवन्नास्ति तव कण्ठच्छवेः समा कालिकाकालिकालालीलीलाका परवीरप ।। २४ त्रिशूलबन्धः ॥ परा उत्कृष्टा ये वीरास्तापः पाति तादृश परवीरप । 'वीतरागभयद्वेषो रहितः सर्व- संशयैः । सर्वभूतानुकम्पी च वीर इत्युच्यते बुधैः । इति । तव संबन्धिन्याः कण्ठच्छवेः कान्या समा अस्ति । कीदृशी। कालयः तथा काकानामालयः पतयः तथा कालाना- माली च तासामिव लीला विच्छित्तिर्यस्यास्तादशी कृष्णत्वेन ॥ २४ ॥ काव्यमाला । मरुमैरुरिर्मारोऽमरारामोऽरमोऽरिरः । मुरारिरामा रोरोऽरमुमारामी ममोरुराः ॥ २५ ॥ व्द्यक्षरः ।। मम मेरुः सर्वदेवताविश्रान्तिस्थानमपि मरुनिर्जलपायो देश इव' नावर्जकः । मारः कामोऽपि सर्वजनवल्लभोऽरिः शत्रुः । तथा अमराणां देवानामारामो विश्रान्तिप्रदो नन्द- नादिप्रदेशः सोऽपि अरमःशोभारहितः । अतएव अरिरः अरीन् रातीति असुखलाच्छत्रुद इव । मुरारेर्विष्णो रामा लक्ष्मीभगवती रोरो दारिद्यम् । अरमत्यर्थम् । उमारामी उमया सह योऽवश्यं रमते स पार्वतीवल्लभः स एव उरूराः महदुत्कृष्टं निधानभूतं धनम् ॥२५॥ विहाय सस्यसंपन्ना सेव्यः स्वामी शिवं भवेत् । येनाप्यो दिवि पन्थानो राजेनत्वं च तिष्ठति ॥ २६ ॥ अपशब्दाभासः ।। नोऽस्माकं सस्यसंपन्ना धान्यादिसमृद्धिमत्त्वं विहाय स्वामी विश्वेश्वरः सेवनीयः । येन हेतुना शिवं कल्याणं भवेत् । दिवि च यः पन्थाः सचाप्यः प्राप्यः । राजेनत्वं राज्ञां मध्ये इनत्त्वं प्रभुत्वं च तिष्ठति । अत्र विहासस्य, संपन्ना, शिवं, स्वामी, सेव्यः, पन्थानः, आप्या, राजेन, त्वं तिष्ठति इति सर्वेऽपि शब्दा अपशब्दा इवाभासन्ते अतोऽपशब्दा- भासोऽयम् । अर्थान्तरप्रतीतौ निर्दोषः ॥ २६ ॥ न भासते ते सभा न भाविताममता विभा। सता वदे देवतास ते मदेन नदेऽमते ॥ २७ ॥ सर्वतोभद्रः ।। भग्ना वयं भवमये नोद्धृताः पशवस्त्वया । यास्त्ववस्था रुजां भामामाभाजां रुद्र ता हर ॥ २८ ॥ परशुबन्धः ।। युगलकम् ॥ द्वयोष्टीका- हेभगवन् देवतास, देवतानां ब्रह्मविष्णुप्रभृतीनामासनं स्थितिः रक्षणं क्षेपणं विनाशो वा यस्मात् तत्संबोधनम् । ते तव सभा न न भासते । अपि तु सर्वोत्तमा भासते एव । किं विधा : भावितानां नन्दिप्रभृतीनां अममता निरहंकारता तया विभा दीप्तिर्यस्याम् । सता सत्यरूपेण ब्रह्मणा वदे । वदे इति 'संभासनोपसंभाषाज्ञानयत्नविम- त्युपमन्त्रणेषु वदः' इत्यात्मनेपदम् । ते तवं वयं मदेनाहंकारेण नदे भवमये अमते अनीप्सिते दुस्तरे तडाके भग्ना बुडिताः सन्तः पशव इत्यज्ञानपरत्वात् स्वया नोद्धृताः। हे रुद्र रुजां दुःखानां भामः क्रोधः अमा अलक्ष्मीस्तद्भाजां रुजां या अवस्थास्ता हर निवारय । इति युगलकम् । एकः सर्वतोभद्रो द्वितीयः परशुबन्धः ॥ २७ ॥ २८ ॥ कलिकालकलालीककेलिः कलकलाकुले । कालेऽलिकोकिलाकाले कोऽलं लोले कुले किल ॥ २९ ॥ व्द्यज्क्षरः ईश्वरशतकम् । को नामालं समर्थो भवति । अपि तु न कश्चित । कुले गृहे। शरीर इत्यर्थः । कुले शरीरे लोले अस्थिरे सति यतः कलिकाले याः कलास्ताभिर्यदलीकं तदेव केलिः खेलनं यस्य । तथा कलकलैनानाविधोत्कलिकाभिराकुले क्षुभिते । तथा काले मृत्यौ जाग्रती- त्यर्थः । तथा अलयो भ्रमरास्तथा कोकिलाश्च तद्वत्काले तामसे ॥ २९॥ आभातिभाति भवतस्तव कालमार्कि संचिन्तय स्मररोग्रतनुं कृशाङ्गम् । मां मास्य भुञ्च भव भीममलं कलङ्कं हन्तातिकष्टममराधिप देव तेन ।। ३० ॥ घुनरुक्तवदाभासः सर्वपदाश्रयः ।। हे स्मरहर, है देव, हे अमराधिप, हे भव, एतान्यामन्त्रणानि भीतोक्त्या च पुनरू- क्तानि तवाभा शोभा अतिभाति अतिशयेन भाति । आर्कि उग्रतर्नुं रौद्रशरीरं संचिन्तय । कथंभूतमार्किम् , कालमतिमलीमसम् । तथा भवतो जन्महेतोः मां कृशाङ्गमतिमीत्या क्षा- मतनुं संचिन्तय। अतिदयालुतयेति शेषः । तेन हेतुना हन्ता वधकः तादृशानामुग्रशरीरा- णामपीत्यर्थः । त्वमस्य कालस्य भीमं भयदायकमतिकष्टं कलङ्क मा मुञ्च । कलङ्कं सर्वथा जहीत्यर्थः । अत्र च आभाति भाति, भवतः तव, कालं आर्कि, संचिन्तय स्मर, हर उग्र, तनुं कृशाङ्गं, मां मा, अस्य मुञ्च, भव भीम, मलं कलङ्कं, हन्त अतिकष्टं, अमराधिप देव- तेन, इति सर्वपदाश्रयत्वं पुनरुक्तवदाभासस्य । देवतानासिनो देवतेनस्तदामन्त्रणम् ॥३० यजने वर धीसाररसामानससारस ! सरसासनमासाररसाधीरवने जय ।। ३१ ।। दक्ष दासवरासारनद मत्तकृतारव। वरताकृत्तमदन रसाराव सदाक्षद ॥ ३२ ॥ युग्मम् ॥ हे भगवन् , त्वं जय । किंभूत यजने यज्ञे वर उत्कृष्ट । तथा धीसाराणां योगिनां या रसा भूमिः सैव' मानसं तत्र सारस हंस । तथा दक्ष निपुणः । तथा दासानां निजभक्तानां वरा एव आसारस्तत्र नद सरोविशेष । तथा मत्तेषु कामाद्युन्मादयुक्तेषु कृत आरावस्था- णवाग्रूपो येन । तथा वरतया उत्कृष्टतया कृत्तो मदनो येन तादृशः । तथा रसों रस- युक्तः । अर्शआदित्वादच् । आरावः संजल्पो यस्य तदामन्त्रणम् । तथा सदा सर्वदा अं- क्षान्भवपाशरूपान् धूतपाशकान् यति हन्तीति तादृश सदाक्षद् । कस्मिन् । सरसासन मासार रसाधीरवने । सरसमासनं स्थितिर्येषां ते माया लक्ष्म्याः साराः रसायां भूमौ ये धीरास्त्वदेकताना भावुकास्तेषां वनं समूहस्तत्र । युगलकम् ॥ ३१॥ ३२ ॥३ तवैव मूर्तिः शिव धर्मराजसुहृत्समानामसुहृंत्समाना । शुभावहा तत्त्वजुषां निरस्तधनादराणां निधनादराणाम् ।। ३३ काव्यमाला। हे भगवन् शिव, तवैव भूतिः असुहृद प्राणहृत् भवति । केषाम् । धर्मराजसुहृत्स- मानां यमसुहृत्सदृशानां तत्प्रियलोकानां तत्किंकराणां वा । कथंभूता समाना सह मानेन यूजया वर्तते या सा । पुनः किंविधा । निरस्तधनादराणां दूरीकृतधनाभिलाषाणां तत्त्व'- जुषां त्वदेकतानानां जनानां अराणामश्रिसमूहानां भवपाशरूपाणां निधनात्कर्तनाच्छु- भावहा शुभदा । युक्पादाद्यन्तयमकोऽयं श्लोकः ॥ ३३ ॥ भूयाद्भक्तिस्त्वय्युमाकान्त तीव्रासारा दक्षामोक्षादरा सा । नो चेन्नैषा जीयते कालसेना या कालिम्ना नित्यनिम्नालिकायाः ॥३४॥ युक्पादप्रतिलोमः॥ भगवन् उमाकान्त, त्वयि सा भक्तिर्मम तीब्रासारा अविच्छिन्ना भूयात् । पुनः किंभूतः । दक्षा निपुणा । पुनः किंभूताः। अमोघः सफलो मोक्षे आदरो यस्याम् । नो चेद्भक्तिस्तव स्यातू तर्ह्येषा कालसेना मृत्युचमूर्जन्ममरणादिरूपा न जीयते । केनापी- त्यर्थः । एषा कालसेना का । या कालिन्ना मलीमसत्वेन नित्यनिम्नोऽतिनीचोऽलिकायो भ्रमरकायो यस्याः सा । भ्रमरकायादप्यत्यन्तमलिनेत्यर्थः ॥ ३४ ॥ न नानान्नानि नूनं नो न ना नीनानना न नः । नानु नानेन नुन्नैना ननु नेनाननेन नौः ॥ ३५ ॥ एकाक्षरः दृष्टेन लभ्या भवता नयनानलसाधुना। मुक्तिरूपा भवाब्ध्यन्ता नयनानलसाधुना ।। ३६ ।। पादयमकम् ।। युग्मम् ।। नूनं निश्चये नोऽस्माकं नानानानि नानाविधानि अन्नानि न भवन्ति । यतः नीनाः नि- गर्त इनः स्वामी येषां ते नीनाः स्वामिरहिताः । अननाः अविद्यमाना अनाः आणा येषां ते अननाः । निष्प्राणा एवेत्यर्थः । नानुना इत्यादि । अनेन हेतुना अनु अविद्यमाना नौर्यस्मिन्कर्मणि तत् । अनु न भवति काका भवत्येवेत्यर्थः १. ना नरः स्वामी न भवति केषाम् । नः। ननु निश्चये। इनाननेन इनस्याननं मुर्ख यस्य स इनाननो लक्ष्मीवान् नेनाननो दरिद्रस्तेन नेनाननेन दरिद्रेणापि मुक्तिरूपा नौर्लभ्या । कदा । अधुना । केन हेतुना । भ- वता । कथंभूतेन दृष्टेन । पुनः कथंभूतेन । नयनानलसाधुना नयनानलेन साधुःप्रष्टास्याः(१) तेन । मुक्तिरूपा नौः कथंरूपा । भवाब्ध्यन्ता भवाब्धेरन्तो यस्याः सा ! पुनः कथंभूताः । नयनानलसानयने प्रापणे अर्थाद्भवोत्तारणे अनलसा सज्जा इति । मुक्तिरूपा नौः पुनः कथं- भूता। नुन्तैनाः नुनं नोदितमेनः पापं यया (युग्मम् ) इति भक्तजनं प्रति । आर्त्योक्तिः । धुना इदानीम् ) आद्य एकाक्षरः द्वितीयं पादयमकम् । इह शब्दपौनरुक्त्यभ्रान्तिर्भिन्न- लिङ्गत्वात्न ग्राह्या । माघकाव्यकिरातार्जुनीयादिकाव्येषु बहुष्वपि पदार्थानों पौनरूक्त्यं दृश्यते तत्र पूर्वांचार्यैः समर्थितम् । यथा--'यमकश्लेषचित्राणां नासिपदक्षोदः कार्यः इति । अस्य कवेः क्वचिद्पौनरूक्त्यादिचमत्कृतेः (१) । चित्रकाव्यस्य दुष्करत्वात् ॥ ३५ ॥ ३६ ॥ 1(अ. ईश्वरशतकम् । सुसुररससभाभा स्वस्वदादाववक्र- क्रममनुनुततत्त्वा त्वाततपप्रजाजाः । ननव वधधनानाञ्चञ्चला लामभव्य- व्यस सततममन्दान्दाससङ्गङ्गते ते ॥ ३७ । आवलिः मयि तनुमुचितां तां दर्शयस्येदृशीं या. रविजजविरणत्रा त्राणरक्तातिभाति । जय जय जगतस्त्वं तत्त्वतज्ज्ञोऽसि भासि- न्रसिक सदसदासस्ते भवे भर्ग भव्यः ।। ३८ ॥ एतस्य श्लोकस्य प्रथमार्धेन त्रिशूलबन्धः, द्वितीयार्धेन गदाबन्धः । मा- लिनीवृत्ताभ्यां युगलकम् ।। हे भगवन भर्ग, न (नव] नव्य आदि [भूत ] लाभभव्यव्यस्य लाभेन हेतुनोत्कृष्टो ब्यसो विशेषेणासनं त्यजनं यस्य हेतोः पदार्थानामनन्तफलदत्वात् । तथाविध । हे भा- सिन् भासनशील रसिक भक्त्तजनप्रिय, ईदृशीं तनुं मयि ते तव दास सङ्गं गते आशु त्वरितं दर्शयस्व । या तव तनुरेवंभूतातिभाति सातिशया शोभते । कथंभूताः । सुसुररससभाभ सुष्छु सुराणां रसा यस्यां तथाविधाया सभायामाभा यस्याः । आदावादावेव स्वस्वदा मरु- त्तादिभ्यो भक्तेभ्यः स्वमात्मीयं स्वं धनं ददातीति तथा । अवक्रक्रम कृत्वा अकौटिल्येन "अनु पश्चान्नुतं तत्त्वं यस्याः सा । तु पक्षान्तरे आतता विस्तीर्णा प्रकृष्ट प्रजा प्रप्रजा. सप्तर्षिप्रभृतिसकलनिर्माणं यस्यास्तथाविधा । स्वयं पुनरजा जन्मरहिता । तथा वधध- मानां हिंसाजीवनानामसुरादीनां चञ्चलास्थिरा । सततं सर्वकालममन्दा नित्योद्युक्ताम् । तां तनुमिति संबन्धः । तथा या च ते तनुः रविजस्य यमस्य ये जविनो वेगवन्तः । अर्थाद्भटाः । तैः सह यो रणस्ततस्त्रायते तथाविधा । अत एव सर्वेषां त्राणरक्ता । अत एव त्वं जगतां तत्त्वविषये तज्ज्ञोऽसि विचारनिपुणः । जय जय । सदसतोर्नित्यानि- त्ययोर्य आस आस्थारूपस्ते तव भवे संसारे भव्य उत्कृष्टः । सतः सत्त्वेन स्थितिर्भ - वता कल्पिता, असतोऽपि वपुष्पादेर्व्यंवधानायासत्वेन ! यंदाहुः- कस्तु भवतत्वा- न्यत्वेन नातिकामति इति । प्रमेयमनुरूपेण प्रमाणेन प्रमीयते प्रत्यक्षवत्प्रमाणमध्यपति- तत्वादसतोऽपि व्यवस्थानादिसिद्धेश्वरनिर्माणवैचित्र्यात् । अत्र युगलके एक आवलिः । द्वितीयश्लोकस्याद्यार्धेन त्रिशूलबन्धः। द्वितीयार्धेन च गदाबन्धः॥ ३४ ॥ ३८ सुखदोनवमत्वेन सुवर्णाकृतिविग्रहः । नागरागप्रथात्यक्तो गिरीशो जयतादसौ ॥ ३९ ॥ अर्थत्रयवाचकोऽयम् ।। ..... काव्यमाला। असौ गिरीशो महादेवः, गिरीणामीशो मेरुः, गिरि वाचि ईशो बृहस्पतिश्चेति. त्रय उक्ताः । तत्राद्येऽर्थे---गिरीशो महादेवो जयति । सु शोभनानि खानि ददातीति सुखदः । तथा अनवमत्वेनोत्कृष्टत्वेन सु शोभनानां वर्णानां ब्राह्मणादीनासक्षराणां वा आ सम- न्तात्कृतिः सृष्टिर्यस्यात्स सुवर्णाकृतिस्तादृशो विग्रहः शरीरसंनिवेशो यस्य । नागराजा- दीनां प्रथया प्रसिद्ध्या त्यको विरहितः सर्वाङ्गभुषणत्वात् । तत्सहितः । एकोऽर्थः । मे- रुरपि-तु शोभनाः खदा गह्वराणि यस्य स सुखदः । नवोत्कृष्टा मा लक्ष्मीर्यस्य तद्भा- वेनोपलक्षितः । सुवर्णमयी आकृतिर्यस्य । विविधानां वस्तूनां ग्रहो ग्रहणं यस्य च । न अगराजप्रथास्यक्तः पर्वतराज एव । द्वितीयोऽर्थः । बृहस्पतिः-नवमत्वेन सुखदः 'जीवः सप्तनवद्विपञ्चमगतः' इति । तथा सुवर्णा शोभनवर्णाकृतिर्यस्य तथाविधो विग्रहः संनिवेशो यस्य । भासमानाकृतित्वात् । 'बृहस्पतिर्भ्राजस्वं' इति श्रुतिः । विशिष्टों ग्रहो वा विग्रहः । नागराजस्य दन्तिनः प्रथंया त्यक्तः । गजवाहनत्वात् । प्रथया अति अक्तो वा सर्वोत्कर्षेण वर्तनात् । इति तृतीयोऽर्थः ॥ ३९ ॥ भवभव्य भवातीत तत्त्वतज्ज्ञ तमोहर । रंणे रक्त रसेनैहि हिताहिसहितार्थद ॥ ४०॥ दयादक्ष दहाघानि निन्द्यानि त्वं विरामय । यमायत्तं यतित्वाव वर वन्द्य वरेण्य माम् ॥ ११ ॥ द्वाभ्यां गदाबन्धः ।। युगलकम् ।। हे भवभव्य सर्वोत्कृष्ट । भवं संसारमतीत निर्मुक्त । तत्त्वेन परमार्थेन तज्ज्ञ सम्य- क्परमार्थज्ञ तय जानातीति तज्ज्ञ । तमोहर सर्वजनानामज्ञानध्वान्तघ्न । रणे विश्व- कण्टकोद्धरणार्थ रक्त हेवाकिन् । भैरवत्वात् । रसेन कृपाविशारद आदरेण एहि । हित- सर्वजनेस्या, अहिभ्यः शेषादिभ्यः, सहितमरुत्तादिभ्यो भक्तभ्योऽर्थद । दयायां दक्षः कुशल अघानि पापानि दह शान्ति नय। निन्द्यानि पापानि विरामय अधःकृतोरग यमस्यायत्तं मा मरणधर्मित्वान्मर्त्यानां यतित्वा प्रयत्नपूर्वं अव रक्ष । वर वन्द्य वरेण्य इत्यामन्त्रणपदानि ॥ ४० ॥ ४१ न तनुतां दधती तततोदिता तुदति नीतिनिधे निधने तनुम् । निधिदनाथ ततं ननु नूतनं नुतिधनं तदिदं निददानि ते ॥ ४२ ॥ तवर्गबन्धः ॥ हे निविदनाथ कुबेरस्य स्वामिन् , हे नीतिनिधे, तततोदिता तोदा रोगाः । तततो- दिता बहुलरोगिता निधनेऽन्तसमये तनुं देहं तुदति व्यथयति । यत्तस्तनुतां न दधती बहुलेयर्थः । ततोऽस्माद्धेत्तोरहं ते तुभ्यं नूतनमिदं इतिधनं स्तुतिरेव वित्त निददानि । नीतेर्विश्वस्थितिरूपाया निधे आस्पद । ततं विस्तीर्णम् । ननु संमुखीकरणे । द्रुतविल- म्बिताक्षराभ्यां तवर्गबन्धः ॥ ४२ ॥ ईश्वरशतकम् । सा राजते तनुरलं वरदा परासा- सारापदारहित सन्महासदासा । सादासहाहतभवोत्करकाविलासा सालाविकारपृथु साक्षततेऽजरासा ।। ४३ ॥ अष्टदलपद्मबन्धः ।।
हे भगवन् , असारायोग्या वासादापत्तमा रहित अतारापदारहित, तथा सह अक्ष-
तत्याक्षमालया पाणिगया सह वर्दते यः स तदामश्रणं साक्षतते, ते तव संबन्धिनी सा तनुः राजते । वरान्ददातीति वरदा । परानस्यतीति परासा। परेषां शत्रूणामास: कोपो वा यस्याः सकाशात् । सन्मह उत्कृष्टोत्सदो हासः प्रमोदो येषां तथाविधा दासाः सेवका यस्याः सा सन्महहासदासा । तथा सादं न सहन्ते इति सादासहा मृदवस्ते- षामा समन्ताद्धतो भव एवोच्चैः करकाणां वर्षोपलानां विलासो बाहुल्यं यया सा सादा- सहाह्रतभवोत्करकाविलासा । कथम् । सालवदविकारपृथु निर्विकारप्रांशु कृत्वा । तथा अ. जरासा व विद्यते जराया आसा आस्था यस्याः ॥ पद्मबन्धोऽयं वसन्तकृत्तेन ॥ ४३१ वरा सारवरासारपराभवपरा भव । समुद्वृत्ता समुद्वृत्तातनुस्तव तनुस्तव ॥ 4४ ॥ यमकावली ॥ हे भगवन् भव, समुदृत्तातनुस्तव सम्यम् उचैर्वृत्तानि छन्दांति अनुष्टुप्प्रभृतीनि येषु तथाविधः । अतनवो बहलाः स्तवाः स्तोत्राणि यस्य तादृश, तव संबन्धिनी तनुर्वरो- स्कृष्टा । तथा सारा मुख्या ये बरास्तेषामासारो बहलवर्षणं तत्र परोद्युक्ता सारवरासा- रंपरां । तथा अभवं मोक्षं पिपर्ति पोषयति अभवपरा । तथा समन्तादुद्भुत्ता भैरवत्वा- दुत्कटा।।44।. साध्या मूर्तिर्गुणैर्या ते भावितत्वमतारसा । सारताबाधितविभा रविजस्य सदैव सा ॥ 4५ ॥ क्षुरिकाबन्धः ॥ सा तव मूर्तिर्यमनियमादिभिर्गुणैः साध्याराध्या । सा का । या भावितत्वेन मता प्रिया भावितत्वमता । तथा अरसा वीतरागा। तथा. सारतयोत्कृष्टत्वेन बाधितोपशमिता विभा यया । कस्य । रविजस्य मृत्योः । सदा सर्वदैव ।। इति क्षुरिकाबन्धः ॥ ४५ ॥ कुरवे काले साव यमारेऽरस सुकुमार सदानव देव । अनवदयाचित भव मदनारेऽचल मामुक्तियते मयि हेव ॥ ४६॥ संस्कृतकाश्मीरापभ्रंशश्लोकः ।। हे भव, कौ भूमौ रवे सूर्यवत्प्रकाशद कुरवे, मदनस्यारे मदनारे, काले समये हे साल सहावेन रक्षणेन वर्तते यस्तत्संबोधनम् । अहं स्मरामि मदभक्तं नयामि परमां गति- मिति यावत् । यमस्यारे यमारे ! अरस संसारवासनोज्झित । सदा नित्यं नव तरुण। देव दिवु क्रीडाव्यवहारादिधात्वर्थवाचक । अनवदयया कृपया चित व्याप्त । अचल स्थिर । उक्त्तिषु यते उद्युक्ते उक्तियुक्ते मयि विषये । अत एव मामव । इति पुराणपु- रुषसंस्कृतभाषार्थः । कुरवे काले कारनीरभाषया सर्वे मारिताः। रससुकुमाराः सदा नवा देवाः । अनवद भाषया निरवधीत्यर्थः । याचितभव प्रार्थितसंसार इति मदनारे इति मदवहिना मुक्ताः । ताशा अपि । इति कश्मीरभाषार्थः । एवं संस्कृतकाश्मी- रापभ्रंशभाषाश्लेषः ॥ ४६॥ सा रसावर सारम्भ तरसावरसारता। तारसाररसा भक्तिस्थिर सादरसामया ॥ ४७ ।। उल्लसद्विजरानन्द शिव सद्विजराज यत् । मूर्तिराभाति ते भव्या सा स्थिराभातितेजसः ।। ४८ ॥ अयं तूणबन्धः ॥ युग्मम् ॥ है शिव, सद्विजराज चन्द्रभूषण, रसायां भुवि वरो मुख्य सहारम्मेण वर्तते विश्व- कर्मण वर्तते यस्तदामन्त्रणम् । तया भक्तिस्थिर । तथा उल्लसन् विजरो जरारहित- स्तरुण आनन्दो निरतिशयप्रीतिलक्षणों मोक्षपर्यायो यस्य स तथाविध । तव संबन्धिनी सा मूर्तिर्भव्योत्कृष्टा आभाति । अतितेजसः परमानन्दस्याभा स्फुरत्ता ! यदाहुः---'देवः स कोऽपि जगतीप्रकाशः' इति, 'तदलं स्वात्मावबोधं पुष्णाति तेजोमयोऽमृतमयः पुरु- षोऽयमेव स इत्यादि, 'न'तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो- ऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ इति रीत्या 'सूर्यनिर्मलपरमेष्टिमिः' इत्यादिभिः संवादैः सर्वदर्शनेषु परमात्मनः सर्वतेजांस्वतिशय्य सर्वेश्वरत्वं विश्वकर्तृत्वमिति सुसिद्धम् । इह काव्यमात्रप्रस्तावेन किंचिद्धृनितम् । अत्र विस्तरभयात्प्रकृतानुपयोगाच्च न वितस्य प्रपञ्चितम् । दीप्तिः तरसा अव रसेष्ववगत्तर- सेषु बालिशप्रायेषु अरतासक्ता । तारे संसारोत्तारणे सारः समर्थों रसो यस्याः सा तथा- विधा । वरेषु साभया अभयदायिनी। एवंरूपा तदैवेति ॥ द्वितीयस्तूणबन्धः ॥४७॥४८॥ चर्चाशिक्षितमन्त्रतत्त्वविभवोदारप्रतीतिर्भृशं स्मर्ता वन्द्यभवप्रदोऽसि विदितस्त्वं कृत्तवैरिन्भुवि विश्वस्तुत्य हिताय ते दिवि नमो धूतार्यजेयध्वने नेत्राग्नौ च हुतस्मराय विभवे शर्वाय विद्यात्मने ।। ४९ ॥ कविनामगर्भश्चक्रबन्धः ॥ ईश्वरशतकम् । 'शिवस्तुतिरियमवतारकृता' इति श्लोकान्निर्गच्छति ॥ चर्चया पुनः पुनः पर्यालोचनया अन्यैः स्वतः शास्त्र इति नीत्या पारम्पर्यक्रमेण यः शिक्षितो मन्त्राणां तत्त्वस्य परमार्थस्य विभवः स्फाररूपो सहिमा तेनोदारा प्रतीतिर्यस्य तथाविधोऽसि । विश्वगुरोर्गुरोः कविना- मगर्भश्चक्रबन्धः शिवस्तुतिरियमवतारकृता' इति श्लोकान्निर्गच्छति स त्वं मानवि- शिष्ट-' इति माघचकबन्धनद्वहिस्तृतीयावर्ते "शिवस्तुतिः' इत्यादि द्वादशाक्षरी निर्ग- च्छति । भवान्सविमर्शो गुरुः । अतश्चर्चया, न तु शिक्षया । भृशं सरति मृशं स्मर्ता । भक्तजनानां वन्द्यं ज्ञानयुक्तं भवं जन्मभुक्तिमुक्तिसावकं ददाति यः स तथाविधः । म- नुष्यजन्मना हि बुद्धिबलेन सर्वं साध्यते । अत एव भुवि सर्वजनानां विदितः सम्य- ग्ज्ञातः । हे कृत्तवैरिन् , कृत्ता वैरिणः कामादय आन्तराः, बाह्याश्चान्धकासुरादयः । हे विश्वस्तुत्य विश्वस्मिन्सर्वोत्कृष्टत्वात्स्तुत्य तुभ्यं शर्वाय विभवे विश्वात्मने नमः । दिवि देव- भूमौ अर्थात स्थितेभ्यो हिताय । सुराः सत्त्वप्रधानास्तदुपरि भगवतः सकृपत्वमुचितम् । धूता आकम्पिता अरयो येन स धूतारिः । तथा अजेयो दुरवगाह्यो ध्वनिर्नादरूपो यस्य स तथाविधः । तथा नेत्राग्नौ हुतः स्मरो येनैवंविधाय सर्वोत्कर्षवते । विद्या सम्यग्ज्ञान- रूपाविद्यातिरस्कारिणी भगवतो रूपम् । “विद्ययामृतमश्नुते । सर्वागमेषु च 'महाविद्या ज्ञानयोगः' इति चतुष्टयं विद्या आत्मस्वरूपं यस्य तादृशाय ते नमः' ।। ४९ ॥ मारासुघ्नाबिपक्षादरवरवरदक्षापविघ्ना सुरामा सामासक्ता रणत्रा रिपुरसुरपुरि त्राणरक्तासमा सा शापाकृष्टामृदुस्वा बत सरस तव स्वादुमृष्टा कृपासा नामा सत्या कृतज्ञा तनुरजरनुतज्ञातकृत्या समाना ।। ५० ॥ प्रतिलोमानुलोमपादः ।। हे. भगवन् , सरस नित्यानन्दमय, अजर नित्यतरुण, बत आश्चर्ये तव संबन्धिनी तनुः मारस्य कामस्य असून्हन्तीति भारासुन्ना । अविपक्षा प्रतिपक्षवर्जिता । तथा अदरं निभयं कृत्ला स्वातख्येण वरेभ्य उत्तमेम्यो बरे दक्षा कुशला । अपविघ्ना निर्विघ्ना । सु शोभना रामा पार्वती यस्यां सा । साग्निवेदे आसक्ता संनिहिता रणात्रायते इति रणना ! असुराणां पुरि नगर्या रिपुः । अत एव त्राणे सकलरक्षणे रक्तानुरागवती असमा न विद्यते समस्तुल्यो यस्याः । सा विश्वप्रसिद्धा । शापेनाकृष्टः अमृदूना क्रूरा- त्मनां व आत्मा यया । खादुना मृष्टा सर्वजनरुचिदा स्वादुमृष्टा । कृपया आसः स्थि- तिर्यस्याः सा कृपासा ॥ अत्र चित्रकाव्ये शसयोरभेदः । न अमा अविद्यमाना मा यस्याः सा, अपि तु सश्रीका । सत्याविनश्वरा । कृतज्ञा भक्तानां सेक्यान्तरज्ञा । अजः राणां देवानां यनुतिः (तं) स्तुतिः तेन ज्ञातं कृत्यं यस्याः । अत एक सह. मानेन वर्तते या समाना ॥ धरा वृत्तं प्रतिलोमानुलोमपादतः ॥ ५ ॥ नव गुरु काव्यमाला। पिता सुराणां क्षपितासुराणां भवस्यनून विभवस्य नूनम् । स्वराजितानां मुखराजितानां सदाशिव त्वं तु सदा शिवत्वम् ॥ ५१ ॥ सर्वपादाद्यन्तयमकम् ॥ हे सदाशिव त्वमेवं तु सदा सर्वकालं क्षपितासुराणां मारितदैत्यानां सुराणां विष्णु- प्रभृतीनां संबन्धिनो विभवस्यैश्वर्यस्य पिता निर्माता भवसि । नून निश्चितम् । अनूनं कृत्वा खे आकाशे राजितानाम् । तथा मुखरैर्निन्दापरैर्वाचालैः प्रतिपक्षैरजितानां त्वमेव शिवत्वं शिवस्य भावः शिवत्वं कल्याणभावः ॥ सर्वपादाद्यन्तयमकम् ॥ ५१ ॥ अहीनभोगाम रणादराय सदानयज्ञान्त कविग्रहाय । सुभूति चेतो हरवीरकाय वरायते सज्ज नमोऽक्षदाय ॥ ५२ ॥ अहीनभोगाभरणादराय सदानयज्ञान्तकविग्रहाय । सुभूतिचेतोहरवीरकाय वराय ते संजनमोक्षदाय ॥ ५३ ।। महायमकम् ।। युग्मस् । हे हरवीरकाय, तथा वर उत्कृष्ट, अहीनभोगादिषु राज्यादिषु आभा यस्मा- त्सोऽहीनभोगाभस्तदामस्त्रणम् । तथाविध । सर्वत्र भवदीप्तेरेव- स्फुरणात् । तदु- क्तम्-न सा जीवकला काचित्संतानद्वयवर्त्तिनी । व्याप्त्री विश्वकला अस्सामधिष्ठात्री न विद्यते ॥ इति । तुभ्यं नमः । अक्षाणीन्द्रियाणि दयते पलायते । मनःप्रभृतीनां सर्वेन्द्रियाणां बाह्यपदार्थानां च तदधिष्ठानमन्तरेण ग्राहकत्वग्राह्यत्वासिद्धेः । यदाहुः-- "आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन' इति । रणादराय रणादैत्यसंग्रा- माददरो निर्भयस्तस्मै रणादराय सदालब्धजयस्वात् । सदानः सदक्षिणः यज्ञान्तः यस्य द्वेतोः । सर्पयज्ञसंपादनवेलायां रुद्रप्रीत्यर्थमेव दक्षिणादि यजमाना वितरन्ति । तावच्च यज्ञस्य पूर्णता न भवति । 'भृतो यशस्त्वदक्षिणः' इति नीत्या यजमानमूर्ते । कं जलं मूर्तिर्विग्रहो यस्य तथाविधाय, अष्टमूर्तित्वात् । शोभना भूतिरैश्वर्य यत्र तत् सुभूति ऐ- श्वर्येण भोगः समोक्ष ईश्वरेच्छया प्राप्यते तथाविधं कृता । वः समुच्चये। इतो. लोकात् । चेतः, इति पदच्छेदः । आयते मुक्तिमार्गे सज्ज भक्तजननिस्तारेण संनद्ध, ते नमः अक्षदाय । एकोऽर्थः ।। अर्थान्तरं यथा---वराय वरार्थं सज्जनानां मोक्षदाय तुभ्यं अहीनामिना नागराजास्तेषां ये भोगाः शरीरसंनिवेशास्त्रदाभरणे आदरो यस्य । सदा सर्वकालं नयं संसारस्थिति जानाति यस्तत्संबोधनम् । अन्तकं प्रति विग्रहो विरोधो यस्य सः। तथा सुभूत्या भस्माङ्गरागेण चेतोहरो वीरको लाम गणो यस्य स तथाविधाय । इति महायमकम् ॥ युग्मम् ॥ ५२ ॥ ५३ ॥ साध्यं सुकृतिभिर्यत्नैरमरैर्नुतमञ्जसा । साहसानां निधि गम्यं न दुरासदतेजसा ।। ५४ ॥ ईश्वरशतकम् । साध्यार्चितं स्तुवे येन वरेयं भूषिता रसा। साधुवृत्तं साररूपं त्रिनेत्रमंतिसादरम् ॥ ५५ ॥ द्वाभ्यां खङ्गबन्धः ।। युगलकम् ।। सुकृतिभिः सत्कर्ममिः साध्यं यत्नैर्ध्यानधारणात्तपोभिः अमरैर्ब्रह्मादिभिर्नुतं स्तुतम्- असा स्पष्टं साध्यैर्देवविशेषैरर्चितं पूजितम् । येन भगवता इयं रसा भूर्भूषिता । तथा साधु वृत्तं यस्य स तादृशम् । तथा सारं रूपं. यस्य तथाविधं त्रिनेत्ररूपं व्यक्तं मुक्त- जनेषु सादरं साहसाना त्रिपुरदाहादीनां निधिं स्थानम् । दुरासदेन तेजसा हेतुना. सर्वैः कैश्चिदेव भक्तैरगम्यमेवंविधं सर्वोत्तममहं स्तुवे ॥ इति लोकाभ्यां खङ्गबन्धः ॥ युगलकम्- सारज्ञं च सदाचारतापच्छिदमुमावरम् । रंहसा नौम्यधिपतारम्यं मुक्तिफलप्रदम् ॥ ५६ ॥ मुसलबन्धः । सारं मुक्तित्त्वं जानातीति तथाविधं सदाचाराणां समयिनां तापं त्रिविधं छिनत्ति यस्तमुमावल्लभलादुमावरं सर्वातिशायिनं रंहसा त्वरया अधिपतया सर्वेश्वरत्वेन रम्यम् । तथा मुक्तिफलं प्रददाति यस्तमहं नौमि । मुसलबन्धः ॥ ५ ॥ साधुचक्रनुतं वन्दे रेणुकोद्भवशौर्यदम् । दंष्टा विपाटिता येन गजस्य विजिता रसा ।। ५७ ॥ धनुर्बन्धः । साधुचक्रैर्नुतं नियमिसमूहैः स्तुतम् । रेणुकोद्भवो जामदग्न्यस्तस्य शौर्यदम् । शस्त्रास्त्र. कर्मशिक्षाप्रतिपादनेन । येन दुर्जयस्य गजासुरस्य दंष्ट्रा विपाटितोन्मूलिता । अत एवं रसा भूर्विजिता ॥ इति धनुर्बन्धः ॥ ५५ ॥ सावर्ता मित्रपरमाणवोऽपि कतमे स्थि(स्ति)सा ()। सा भा नैकस्य तेभ्योऽपि देव मत्तनुरञ्जसा ॥ ५८ ॥ शरबन्धोऽयम् ॥ संसारे पितृपुत्रभ्रातृसुहृत्प्रभृतयः सावर्ता भ्रमन्तो नवनवाः कतमे तावत् असंख्या विस्तारणायोग्यत्वादगण्याः, तेभ्यो मध्यान्मत्तनु- एकस्यापि न सा भा. सा दीप्तिः आ- स्मनो वा तेषां भवत्राणासमर्थेति (1) मित्रस्य वा परमाणवः ।। ५८ ॥ सामर्थ्यद सुमूर्तिस्ते सदा जीयात्प्रभोऽरसा। सा रसासार सारास्थिस्थिरासा विदिता भुवि ।। ५९ ॥ त्रिशूलबन्धः म काव्यमाला। सामर्थ्य संसारसागरतरणयोग्यं ददाति यस्तथाविध, तव मूर्तिस्ते सर्वकालं जीयात् । रसासार रसायां मध्ये सार उत्कृष्ट, अरसा वीतरागा सारास्थि कृत्वा स्थिर आसः स्थि- तिर्यस्याः । तथा भुवि विदिता । इति त्रिशूलबन्धः ।। ५९ ॥ सा विडम्बकतां नीत्वाप्तवती क्रूरतां विभो । विसारे कुरुते कालसेना दोषं मयि स्थिरा।। ६०॥ डमरुबन्धः ॥ कालसेना मयि विसारे दुर्बले विषये दोषं कुरुते । विडम्वकत्वं कृत्वा तामाप्तवती ।। डमरूबन्धः।। ६० सारा बन्धैर्नाज विभो मियार्ता मे मतिः परा । सा राजते विनैव त्वां भगवन्नेहि रहसा ॥ ६१ ॥ हलबन्धोऽयम् ॥ खड्गबन्धात्प्रभृतिभिः सप्तभिरमीभिर्बन्धैः कविनामगर्भश्चक्रबन्धः कृतं चक्रमिदं बन्धैरवतारेण सप्तभिः' इति निर्गच्छति ।। हे अज भगवन् , इयं मे मतिर्नैव विराजते । बन्धैराणवसायीयकार्मगैः (१) पाशै- र्यत उपलक्षिता । सारा दुर्लभमनुष्यजन्मप्राप्त्या भव्या सती भिया यमभीत्या आर्ता। परा उत्कृष्टा त्वं रंहसा त्वरितं एहि । मां पाहीत्यर्थः ॥ इति हलबन्धः । “कृतं - मिदं बन्धैरवतारेण सप्तभिः' इत्यक्षराणि चक्रादुच्चित्य निर्गच्छन्ति ।। ६१॥ सो हेममग्गसग्गो सोहारोहक्समो विसुद्धो सि । सिद्धो सुविमोक्खहरो हासोग्गो सम्गममहेसो ॥ ६२ ॥ प्रतिलोमानुलोमगाथा ।। एतस्याः संस्कृतीकरणम्- स हेममार्गसर्गः शोभारूपक्षमो विशुद्धोऽसि । सिद्धः सुविमोक्षहरो हासोग्ः संगममहेशः ।।' स हेममार्गसर्गः मरुत्तं प्रति शोभारूपा क्षमा यस्य । सुविमोक्षः। वरः (१) । यस्य संबन्धी अट्टहास उग्रः। सङ्गमेत्यामन्त्रणम् ॥ १२ ॥ पथेन साधुनां माय कुसुमेषुस्यदक्षते परमस्मै सतेजाय भोनमस्तेनमस्तव ।। ६३ ॥ अपशब्दाभासः ।। भो भगवन् , इन स्वामिन्, हे अनमस्तव न अमाअनमा सश्रीकाः स्तवा यस्य तादृ- ग्मिव । अविद्यमाना मा लक्ष्मीर्येषां तेऽभाः । तथा कुसुमेषोः कामस्य यः स्यदो दर्पातिईश्वरशतकम् । शयत्तस्य क्षतै हानौ अभाय निष्प्रपञ्च, सुकरत्वात् । साधुना पथा उपलक्षित, ते तुभ्यं नमः । अस्सै अनुभवगोचरत्वात्संविद्रूपेण वर्तमानाय 'पृथेन' इति, “साधुनाभाय' इति, 'कुसुमेषुस्य' इति, 'दक्षते' इति, 'परमस्मै इति 'नमस्ते नमस्तव" इति। एते आमुखे अपशब्दा भासन्ते इति अपशब्दामासाः ॥ ६३ १६ किन्ते कार्यं भर्गभयं कामद काला- च्चिन्तेयं में मन्युममेयं जनयित्री । व्यक्ते भालादग्निदलाभां तव दृष्टि- र्भुक्ते (नैनं मन्दमतिं] नैपुणतः किम् ॥ ६४ ॥ मत्तमयूरेण नन्दिकावर्तबन्धः ।। हे कामद सर्वाभिलषितदायिन् , इयं मम चिन्ता अमेयं बहुलं मन्युंजनयित्री। जन- यिष्यतीत्यर्थः । इयं का । यत्कालाद्भयं कार्य छिन्ते तव संबन्धिनी दृष्टिभालाङ्ललाटात् अग्निदलाभां वह्निखण्डद्युतिं व्यङ्क्ते प्रकाशयति सा दृष्टिरेनं मन्दमतिं तुच्छहृदयं नैपुणतो दार्ढ्येन किन भुङ्क्ते । क्रिमिति भस्मसान्न करोतीत्यर्थः । मत्तमयूरेण नन्द्यावर्तबन्धः ॥६॥ गिरिमिद्विधिजिद्विद्धि द्विषि च्छिन्द्धि स्थितिं गिरि। श्रियि सिद्धिर्धियि विधिर्विच्छित्तिरिति चिद्भियि ।। ६५ ।। इकारान्त एकस्वरः।।। गिरिभिद्विधिजित गिरिभिदिन्द्रः, विधिर्ब्रह्मा तौ भुजस्तम्भेन शिरश्छेदेन च जित: वान् । तत्संबोधनम् । त्वमिति विद्धि जानीहि । किम् । द्विषि वैरिणि या गीस्तस्यां स्थितिं संनिधिं छिन्द्धि विदारय । अत एवं नोऽस्माकं श्रियि सिद्धिः, धियि प्रज्ञायां विधिर्विधानम् । चिद्भयि चितोऽपरिमितज्ञानाद्या भितिः संसारभ्रमणाद् तस्यां विच्छि. तिर्विच्छेदः । भवतीति सर्वत्र योज्यम् । इकारान्तस्वरोऽयम् ॥ ६५ ॥ शर्व नयः शुभो वितरणे गुणे रत विभो तिष्ठति ते श्रियेऽजर पर चिरं परजये तत्कृपया सुचारूरव मा क्षमावररुचा दर्शय सद्धिते परसुखं सुखं सुरपते ।। ६६ ।। स्फुरबन्धः हे शर्व विभो, गुणे रत, अजर जरारहित, ते तव नयो नीतिराचारः शुभस्तिष्ठति । वि- तरणे दानाविषये परमत्यर्थ चिरं श्रिये भर उत्कृष्टों यो जयस्तस्मिन्सति । तस्मात् हे सुर- 7. आदर्शपुखकयोस्तु किन्ते' इत्येव पाठ उपलभ्यते; परंतु टीकायों छिन्ते' इति व्याख्यानस्थोपलभ्यमानत्वात् 'छिन्ते' इत्येव पाठः स्यात्, काव्यमाला । पते, त्वं कृपयां सुचारू रमणीयः । मा अव मामव रक्ष क्षमया सामर्थ्येन सा वरोत्कृष्टा या रुक्तया संन्यो हेते विषये यत्परमतिसौख्यं तथाविधं सुखं सुष्ठुं खानीन्द्रियाणि यत्र तद्दर्शय ! स्फुरबन्धोऽयं श्लोकः ॥ ६६ ॥ कालाक्रान्ता तनुरमरनुत त्रस्तेयं मे विदितहित दिवि नश्यत्यग्रे तव सरस बत ग्लानिः सेयं वशिदमद शिव ॥ ६७ ॥ प्रतिलोमानुलोमपादार्धः ।। हे अमरनुत, हे दिवि विदितहित, हे सरस लब्धात्मविश्रान्ते, हे वशिनां जितेन्द्रि- याणां दमद सर्वसहत्वदायिन् , मम संबन्धिनीयं तनुः कालेनाक्रन्ता त्रस्ता ।बत आश्चयें। तव प्रभोरग्रे नश्यति सेयं ग्लानिः शिवः सर्वेषां श्रेयस्कर ॥ भ्रमरविलसितं वृत्तम् ॥६॥ दानासन्ना पवित्रानुलजनितरणत्रा रिपुत्वे न जेया माराभिख्यासचर्याविरतकृदरमद्यापि दक्षा पराका । शापाकृत्यायनज्ञावनमनजनिमुक्तारंगत्यानपाया या सा रम्यागदत्वा शिवतनुरमदत्वातिहत्तापरासा ॥ ६८ ॥ सारापत्ताहृतित्वादमरनुतवशित्वादगम्यारसा या या पानत्यागरक्ता मुनिजनमनवज्ञा नयत्याकृपाशा । कारापक्षादपि द्यामरदकृतरविर्या च सख्याभिरामा याजेनत्वे पुरि त्राणरतनिजतनुत्राविपन्ना सनादा ।। ६९ ॥ प्रतिलोमानुलोमाभ्यां स्रग्धराद्वयम् ॥ (युग्मम् ) सा शिवतनुः एवंविधा सती मुनिजनं भक्तलोकं कारापक्षात्संसारबन्धादपि द्यां न- यति । यतः । दाने आसन्नाभ्यर्णवर्तिनी । तथा पवित्रा । आ समन्तान्नुतं स्तवनं येषां. तथाविधैरानतैर्भक्तजनैर्जनितो यो रणो विपक्षैः सह कलहस्ततस्त्रायते आनुतजनितरणत्रा। रिपुत्वे सति असुरादिभिर्न जेया । मारस्य कामस्य याभिख्या रूपलावण्यकान्तिमत्त्वा- च्छोभा तया समानचर्या । तद्युक्तेत्यर्थः । विरुद्धं यद्रत रमणं संसारासक्तिस्तत्कृन्तति छिनत्तीति विरतकृत् । अरमत्यर्थ अद्यापि अविच्छिनप्रवाहेण दक्षा पञ्चकृत्यकुशला । परान् शत्रून् अकति कौटिल्येनोलङ्घयति पराका । शापोऽकृत्यं यस्याः शापाकृत्या कृ. पया वरदायिनीत्वात् । अयनं मुक्तिरामनं जानातीति अयनज्ञा । अवनमनेन नमस्कारेण जनजन्मनो मुञ्चति अवनमननिभुक् । तारगत्या विस्तारकेणोपायेन अन्यायाविन- श्वरी । एवं विधा या प्रसिद्धा सा. रम्यमगदत्वमारोग्यं यस्याः सा रम्यागदत्वा । तथा अ- मदत्वं दीनतामतिशयेन हरति यस्तस्य भावोऽमदातिहत्ता तेजःप्रसादस्तेन परानस्यति क्षिपति परासा अमदातिस्तापरासा एवंविधा । सारा बहला या आपदस्तासां भावः ईश्वरशतकम् । सारापत्ता तस्या हतित्वं रणभावस्तस्मात्सारापाताहतित्वात्, तथा अमरनुतवंशित्वात्सु- रस्तुतजितेन्द्रियत्वादगम्या दुष्प्रापा । अरसा वीतरागा च या च पाने रक्षणे त्यागे च भक्तजनाय इष्टदाने रक्ता हेबाकिनी तथा अनवज्ञा न विद्यतेऽवज्ञा भक्तजनं प्रत्य: बहेला यस्याः। तथा आ समन्तात् कृपया आशा यस्याः सकाशात् । तथा--परदः कृतो रविर्यया पूष्णो दन्तदलनादरदकृतरविः । या च तनुः सख्या सेवयाभिरामा भ- क्तानभिरमयति । या कारापक्षादपि अर्थात्संसाररूपात्कारागृहाद् द्यां स्वर्गं नयति । या अजा आद्या. शकिः । इनत्वे सति प्रभुत्वे सति पुरि भवने त्राणरता पालनोद्युक्ता या निजतनुः क्षित्यादिरष्टविधा तामपि त्रायतें परेण रूपेणावितिष्ठते । अत एव अविपन्ना कल्पादावप्यनश्वरीं । सनादा सशब्दोल्लासा । यतः 'न सोऽस्ति प्रत्ययो लोके यः शब्दा- नुगमादृते । अनुविद्धमिव ज्ञानं.सर्वं शब्देन भासते. । इति वचनाच्छब्दात्मकं परं ब्रह्म- रूपम् ॥ युगलकम्॥६८॥१९॥ सुरद्विषां धामनिवारणाय तुभ्यं समिद्धामनि वारणाय । नमोऽस्तु भव्याय भवाकुलाय संसाररक्षाप्रभवाकुलाय !! ७० यमकम् ।। हे भगवन् , तुभ्यं नमोऽस्तु । सुरद्विषां दैत्यानां धामनिवारणाय तेजोग्लापनाय । तथा समिद्धामनि धारणाय समिद्धामनि दन्तिनो(?) क्षोभकत्वात् । भव्याय सर्वोत्कृ- ष्टाय । अकुलाय जन्मरहितत्वात् । संसाररक्षाप्रभवैराकुलाय व्यग्राय ॥ ७० ॥ रसारसासारसार सारसाररसार सा । रसां रसासारसारसारसाररसारसा ॥ ७१ ॥ मरुस्थलीत्वं त्वदृते मयीह सति धामनि । अतो मां यमसेनेर्प्यामही हसति धामनि ।। ७२ ॥ अत्राद्यो व्द्यक्षरो द्विस्नरोऽसंयुक्ताक्षरोऽर्धभ्रमः सर्वतोभद्रः, समुद्गय- मकम्, मालायमकम् , आवृत्तयमकम् , गूढचतुर्थः, गूढतृतीयः, गृढत्रिंश- दक्षरों वा, गोमूत्रिकादयश्च बहवो बन्धा अत्र श्लोके पृथकप्रस्तार्य प्रेक्ष- गीयाः। द्वितीयः पादयमकः ।। हे भगवन् , रसारस रसेभ्यः कारादिभ्योऽरसो विमुखस्तामन्त्रणं हे रसारस, तथा असारसार असारात्संसारात्सारः तादृश हे असारसार । अरीणां समूहमारम्, सह आरेण वर्तते यत्तत्सारम्, सारं च तत्सारं बलं तत्र रसो यस्य सः । तद्विधा सा लोको त्तरा रसां भूमिः आर जगाम । मरुस्थलीत्वं मयि विषये धामनि खे तेजति सत्यपि इह संसारे । यतः । कीदृशी भूः रसासारसारसारसाररसारसा। रसस्य जयस्य ये असारास्ते काव्यमाला। साराणि येषु तानि रसासारसाराणि, तथा सारसानां हंसानामारं रामनं राति ददाति एवंविधानि सारसानि सरःसमूहा यस्यां वारुण्या जलपूर्णा तथाविधापि मां तापयंतीति । अतो हेतोर्यमसेना ईर्ष्यामयी मां हसति । धामनि गृहे ॥ १॥ ७२ ॥ अक्षय्यं क्षीणसादं नृबुधहतमयं सत्फलं धीरचित्तं तुङ्गं श्रीसाररक्षोसुरहतिरभसं त्वां सगङ्गं श्रितं वा । चर्यालक्षेण लोकक्षममलयमहासंक्रमं स्वैरसज्जं स्थाणो स्वाबद्धसर्वाहबगरिमगुणं के तु नेह स्तुवन्ति ।। ७३ ॥ अयं श्लोको गाथागर्भः ।। हे स्थाणो, इह संसारे के त्वां न स्तुवन्ति, अपि तु सर्व एव । यतः अक्षय्यं क्षेतुं शक्यः क्षय्यःः1 न क्षय्यः अक्षय्यः, तादृशम् । जिक्षेः शक्ये' इति यः। तथा. क्षीणः सादः संसारावसादों यस्मात् , सादृशम् । तथा नृणां बुधानां देवानां च हतं भयं येन स तादृशं च । सतां फलं भुक्तिमुक्तिरूपं यस्मात् । धीरं स्थिरै भक्तानुग्रहं प्रति चित्तं यस्य । तुङ्गमत्युन्नतं सर्वोपरिवर्तित्वात् । श्रिया सारा ये रक्षोसुरास्तेषां हतौ रभस आ- दरो यस्मात् । चर्यालक्षेण बहुलचर्यामिः सर्वदर्शनानां पृथक्प्रस्थापनत्वादाचारभेदैः श्रितं सेवितम् । सगङ्गं गङ्गाधरम् । लोकेषु सप्तम मध्ये तु क्षमं सर्वसहम् । अलयोऽवि- नश्वरः महान् संक्रमो यस्यः । स्वैर स्वातख्येण सज्जं पञ्चकृत्यसंनाहम् । स्वेनात्मना आबद्धाः सर्वाह्ववेषु दैत्ययुद्धेषु गरिमगुणा येन दुरासदत्वात् । एवंविधम् ॥ गाथागर्भोऽ- यम् ॥ गाथा यथा--'अय्यं णदबुभहमलं रत्तङ्गं सारमुहरसासङ्गम् । तं चलणकमलभ- समं रज्जं णो वसहगमण तुह ॥ इति । अस्य संस्कृतीकरणम्-'आर्य नतबुधभ्रमरं रक्ताङ्गं सारशुभरसासङ्गम् । तव चरणकमलमसमं राज्यं नो वृषभगमन तव ।। इति । अस्या गाथायाः स्पष्टोऽर्थः ॥ ७३ । सुरासुराजये जयेऽदरादरादमादमा । सदा सदारतारता विभो विभोगता गता ॥७४ ।। आवलिः ।। सुरासुराणामाजये संग्रामाय जये विषये अदरो निर्भय आदरो यथा तथाविध अद- रादर हे विभो विभोगता। विशिष्ट भोगता इति यावत् । सदा सर्वकालं सदारतायां गार्हस्थ्ये रतासक्ता । अमा अविद्यमाना लक्ष्मीर्यस्याः नि: श्रीका म(१)... गता ॥ आवली ॥ ७४ ।। अयं प्रसन्न तत्त्वद स्वतन्त्रसर्गतत्पर । जगत्रयप्रवर्धन क्षतस्मर प्रहर्षद ।। ७५ ॥ अयमेकस्वरः श्लोकः ईश्वरशतकम् । हे हर हर रोरार्हा होरां रहोहरारिराहुहरे । रोहाहारैरहरहरहिहारेहाहरां हा हा ।। ७६ ।। अयं लोको द्अक्षरः ।। आर्यावृत्तम् ॥ हे हर, अहि (हार) वासुकिभूषण, त्वं होरां लग्नस्थितिं रोरार्हा दारिद्यावहां हर निवा- स्य । रंहोहर रणे वेगहारो योऽरिः शत्रुः स एव राहुस्तस्य त्वमेव हरिः शिरोहरत्वात् । तदामन्त्रणं रंहोहरारिराहुहरे, रोहाः कन्दमूलादयस्तेषामाहारैर्भक्षणैरहरहः प्रतिदिनम् हा कष्टे । ईहां चेष्टां हरति तथाविधा होरां हर ॥ द्यक्षरः॥ ७५ १३.७६ ॥ सारतास्थिरवरस्थिता रसाभारसौम्य गणराम्यसौरमा । राजते स्तुतिमतिस्तुतेऽजरा दक्ष मान्य धनधन्यमाक्षद ।। ७७ ।। स्वर्गमार्गद निरर्गलातनुः सा मतात्तकृतकृत्ततामसा । इन्दुमण्डितशिरःस्थजाह्नवीतीरभाव्यभयभव्य भारती ॥ ७८ ॥ प्रतिलोमानुलोमपादार्धः ।। युगलकम् ।। है स्वर्गमार्गद, तथा हे इन्दुमण्डितं च तच्छिरस्तत्र तिष्ठतीति तादृशी या जाह्नवी तस्यास्तीरभावि यदभयं तेन भव्यं उत्कृष्ट । तथा हे दक्ष सर्वत्र कुशल, हे मान्य पूज्य, तथा हे धनधन्यम धनेन मरत्तादिभ्यो दत्तेन धन्या मा शोभा यस्य तादृश, तथा हे अक्षद अक्षाणि दिव्येन्द्रियाणि दूरदर्शनश्रवणयोग्यानि ददाति यस्तादृश, तथा हे रसा. भारसौम्य रसाभारे भूभारोहहने सति' "असौ निर्विकारा ते तव भारती राजते । कीदृशी । सारतास्थिरवरस्थिता सारतया स्थिराश्च ते वरास्तेषु स्थिता । पुनः कीदृशी । गणगम्यसौरभा गणैनन्दिप्रभृतिभिर्गम्यं प्राप्यं सौरभं यशःपरिमलो यस्याः तथा किंभूता । स्तुति(मतिः) स्तुती मतिर्यस्याः । तथा निरर्गला निर्निरोधा। अजरा नित्यतरुणा । पुनः कथंभूता । मतात्तकृतकृत्ततामसा । मतेन आत्तं च तत् कृतं पुण्यं तेन कृतं छिन्नं तामसं यया । पुनः कीदृशी । अतनुरस्वल्पा ॥ रथोद्धता ॥ युग्मम् समाधिकारा सुरसारसादरा समाधिकारासुरसारसादरा । समाधिकारासुरसा रसादरासमाधिकारासुरसारसादरा ॥ ७९ ॥ सुदर्शनस्येव युधि द्विषां वधे मत्तिः सुतीक्ष्णा भवतो जयत्यसौ नमामि शंभो शमिमानवाभयं नयं भवानर्थजितं भवाततम् ।। ८० ।। आद्यः पादाभ्यासयमकम् । द्वितीयस्त्रिशूलबन्धः ॥ हे शंभो, कीदृश । समाधिकार समावि चित्तैकाग्र्यं करोति समाधिकारस्तादृश; भवतो. श्रीकोऽधिकारो यस्याः सा । तथा किंभूता । सुरसारसादरा सुरसारेषु, विष्णुप्रभृतिषु मतिरसौ सुतीक्ष्णा जयति। कथंभूता। समाधिकारा सह मया वर्तते यः स समः स- सादरा सानुग्रहा। पुनः कीदृशीं । समाधिकारासुरसारसादरा समाधिकाराः तुल्यबलवीर्यः, काव्यमाला। तथा अधिकः अरो गमनं बाणादौ येषां तादृशा येऽसुरास्तेषां सारस्य बलस्य सादं सादं राति ददाति तादृशी। तथा किंविधा । [आ]सुरसा नतेषु समन्तात् ] शोभनरसा। पुनः किंविधा । रसादरा रसायां भूमौ अदरा निर्भया । तथा असमाधिकारासुरसार- सात् असमा आधयः तथा कारा बन्धनगृहं येषु ते तादृशा ये असवस्तेषु यो रसो हेवाकस्तत्र आरं अरीणां समूह आरं सर्वसारसपत्र आरसात् द्विषां वधेन तेषामेव अरा धारा सुदर्शनस्येव । सा च अरिभटानां वधेः सुतीक्ष्णा संवास आरासरिसमूहा इव अहं तव नयं नमामि । वं किं शमिमानवा भयशमिनों मानवास्तेषां अभयमभयप्रदत्वात् । आयुधं तमिति न्यायेन यतो भवानिर्जितः । नयं कथंभूतम् भवानर्थजितं संसारानर्थभे- दिनम् । आततं विस्तीर्णम् ॥ ७९ ॥ ४० ॥ कृतानवतनुप्राज्ञ स्वाभासुरसमाधिकृत् । स्थिताज्ञाहिसितत्वाप्य दमासक्ताव मा व्यरि ।। ८१ ॥ सुरमात्य स्थितिसम संतताथाद्वयस्वन । सरसारमना माक्षामतिसारतमोद्यम ।। ८२ ॥ द्वाभ्यामष्टदलपद्मबन्धः ।। (कुलकम् ) हे कृतानवतनुप्राज्ञ कृता अनवा आद्यास्तनवः पृथ्व्यादयो येन तथाविधश्चासौ प्रा- ज्ञश्च तादृश ! तथा हे स्वाभ शोभनदीप्ते । तथा असुरसमाधिकृत् । असुराणां समाधि कृन्तति छिनत्ति तद्विघ्नकारित्वात् । तथा हे स्थिताज्ञाहिसितत्व स्थिता आज्ञाश्वाहयश्च सितत्वं च यस्य तद्विधः । आप्य भक्तजनैः प्राप्य । तथा हे दमासक्त दमे आसक्त, मा. मामित्यर्थः । स्वमव रक्ष । कथम् । व्यरि विगता अरयो यत्र तथाविध कृता । तथा हे सुरमास्थितिसम शोभनं यद्रमात्वमैश्वर्यं तस्य या स्थितिस्तस्यां सम अनुद्रिक । तथा हे संलत अविनश्वर । तथा हे अद्वयस्वन अद्वयः स्वन आज्ञारूपः शब्दो यस्य स "तादृश । तथा हे भाक्षामंतिसारतमोद्यम मया लक्ष्म्या तथा अक्षैरिन्द्रियैरा समन्तात् मंतिसारतम उद्यमः कर्तव्यता यस्य तादृश । स्वं कथंभूतः सन् । रससारमना आदौ सुराचित्तः सन् । युगलकम् ॥ ८१ ॥ ८२ ॥ वरतास्थिरसामन्त सारतातिसमाहित । सुकृताक्तासन स्वाज्ञादमाससुमतावसि ! ८३ ॥ त्वमद्य भव्य साज्ञत्वानुकृताप्राप्य सद्धर । नाम सुस्थिर मोक्षाय ममाधिरिति सा तथा ।। ८४ ॥ एतदुक्तचतुरङ्गाश्चपादपूरणश्लोकयुगलकम् ।। है शंभो, वरतया प्राधान्येन स्थिराः सामन्ताः सेबका यस्य स तादृश वरतास्थिरसा- मन्दः । तथा हे सारतातिसमाहित सारतमोत्कृष्टत्वेन अतिसमाहित । तथा हे सुकृता- समाधि क -ख ईश्वरशतकम् । क्तासन सुकृतेन धर्मणाक्तं सेवितमासनं यस्य तद्विधः। तया हे स्वाज्ञादमाससुमत शो- भनाश्च ते आज्ञादमाश्च तेषां य आसस्तेन शोभना मता यस्य तादृश । अद्य ! मामित्य- र्थात् । त्वमवसि रक्षसि । तथा हे [सा) ज्ञत्वानुकृतप्राप्य [सा) ज्ञत्वस्य यदनुद्धतमनुक- रणम् । नपुंसके भावे कः। तेन प्राप्य सतां वरं । नाम संभावनायाम् । इत्यतो हेतो मो- क्षाय मम । तथा य आधिर्मनोरुक् । नय स्वमवसीति स्पष्टीकृतं पुनः ॥ ८३ ॥ ८४ ॥ कृतानतज्ञसुरमाहितत्वाप्यवताद्वय । रसारक्षासार1तम कृतज्ञ सुर माप्यव ।। ८५ ॥ अष्टापदान्निर्गतसमञ्जसबोधो गूढचतुर्थः कृतमानतं जानन्ति ये तादृशाः कृतानतज्ञा देवा योगिनस्तेषां या सुरमा शोभना चासौ रमा लक्ष्मीस्तस्यै हितत्वं यस्य तथाविध हे कृतानतज्ञसुरमाहितत्व, तथा हे आप्य भक्तिगम्य । तथा हे अद्वय । तथा हे रसायां रक्षतया सारतम कृतज्ञ हे सुर देव म अपि मामपि त्वमव ।। ८५।। सुप्रज्ञानतसारज्ञ सकृतान्ततनुव्यय । रक्षावतारमद्य त्वमतिभासुर सुस्थिर ।। ८६ ॥ अष्टापदनिर्गतः कविनान्ना कुसुमोच्चयबन्धः ।। हे सुप्रज्ञ शोभनश्चासौ प्रज्ञस्तथाविध, तथा आनतसारज्ञ आनतानां भक्तानां सार- मुत्कर्ष जानाति यस्तद्विध, तथा हे सह कृतान्ततनुव्ययेन वर्तेते तद्विध, अवतारं
र-
क्षेति कविराशास्ते आत्मनि । हे अतिभासुर दीप्तिमन् । हे सुस्थिर अविनश्वर ॥ अष्टा- पदात्रिर्गतकविनाम्ना कुमुमोच्चयबन्धः ॥ ८६ ।। वेद वेदविदां वादविद्देवो दिवि दावदः । वादो वादेवदेवादिविद्यो वादिवदे विदम् ॥ ८७ ।। एकान्तरितव्द्यक्षरः ॥ हे देवदेव, अहं वदे व्यक्तं वदामि । देवः देवादिवस्तुभावि वेद जानातीत्यर्थः। वेदविदां मध्ये वादवित् दिवि दावमुपतापं दैत्यकृतं द्यति खण्डयति यः स दावदः आदि वित् सर्वज्ञत्वात् । देवीविदं अहं न झटित्यविदम् ।। ८७:। कथाभोगजडो मूढवया आरोषणामुखः । आद्या फलायदिशतो नाहं झटिति चाबुधः ।। ८८ ।। अपुनरुक्तव्यञ्जनः ।। अहं कथाभोगजडः, मूढं व्यर्थ क्यो यस्य, आसमन्तात् रोषणतया आमुखः, अचै रफलायासापदिशतः । अबुधश्च ॥ ८८।। १. 'सारकृत' क-ख काव्यमाला। स्थिर सुरवरसुप्रसाद क्षमोपेत हा मोधमोहातपे मोक्षद त्वामजं दिवि भुवि च विभुं कृपादे (वे) शहीनाविभौ कालकामौ निनाहीशदेहाङ्गदम्। वितरणगुणरत्न तौ रौरवीयाधिदौ मा किमादौ धिया वीररौद्रौ यतः किमु भव भवभङ्गदोषागते पाशवे साधुसावेशपाते गदा घ्नन्त्यलम्।।८९॥ चण्डव्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्धः ।। स्थिर अविनश्वर, सुरवरेषु ब्रह्मविष्णुप्रभृतिषु शोभनः प्रसादो यस्य तथाविध, क्षमो- पेत क्षान्तियुक्त, हा कष्टम् । मोघे निष्फले मोहातपे अज्ञानतापे मोक्षद, त्वामजं हि दिवि भुवि च विभुं द्यावापृथिव्योः स्वामिनम् , अहीशानां नागराजानां देहा अङ्गदा यस्य तथाविधम् , विभा इमौ तो कालकामौ विना रौरवीयाधिदौ रौरवीया आधिः पीडा तत्प्रदौ, धिया प्रज्ञया वीररौद्रौ कि मा मादोयत्ताः (१) खण्डयतः । किमु तव वितरण- गुणरत्न हे भव भवभङ्गदोषागते पाशवे पशोरयं पाशवस्तस्मिन्पाशवे, तथा साधुसावे. शपाते सति गदा रोगा जरादयो घ्नन्त्यलं तत्सर्वं देवदेव देवो देवी वा इति ॥ चण्ड- व्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्धः ॥ ८९ ॥ तुभ्यं जगत्रयत्नाणससंपज्जयते नमः । शिव संयत्सभाशील जय सज्जनयत्सल ।। ९०॥ 'जय सज्जनवत्सल' इति चतुर्थः पादः समञ्जसेन प्रतिलोमेनैव पाठेन निर्गच्छति भ्रान्तिसमञ्जसबोधो गूदचतुर्थः ।। हे शिव, जगत्रयत्राणे सह संपद्भिरष्टाभिर्द्धिमयीभिर्वर्तते यस्तत्संबोधनम् । जगत्र- यत्रांससंपद् तुभ्यं जयते सर्वोत्कृष्टाय नमः ॥ संयत्सभाशील संग्रामपर्यत्परायण स- त्पुरुषवत्सल त्वं जयः । तुभ्यमियस्मात् 'जय सज्जनवत्सल' इति चतुर्थः पादः समञ्ज- संप्रतिलोमेनैव पाठेन निर्गच्छति ॥ समञ्जसबोधो गूढचतुर्थः ॥ ९ ॥ सुधीसारज्ञताभव्यजय मासामगक्षम् । सुसाज्ञ भज मामक्षधीरताव्यय सागम ॥ ९१ ॥ प्रथमार्धादेकान्तरितात्यक्षराण्युञ्चित्य तृतीयपादः, शिष्टाक्षरैस्तथैव चतुर्थपादः ॥ सुधिया शोभनप्रज्ञया या सारज्ञता तया हेतुभूतया भव्य उत्कृष्टो जयो यस्य तद्विध मा शोभा तथा सामगा सान्त्वगा क्षमा यस्य तद्विध, सर्वसहेत्यर्थः । सुसाज्ञ शोभनन्चासौ साझव तदामन्त्रणम् । अक्षैर्यो धीरता तया अव्यय । सागम सर्वागमसम (मां भज) प्रथमादिकान्तमत्तान्यक्षरातण्युचित्य तृतीयपादः, शिष्टाक्षरैस्तथैव चतुर्थपाद: ।। ११ ॥ ईश्वरशतकम् । नूनं नमन्मेनमनिम्नमेनमुमामनोमाननमुन्नमौनम् । मानं मिमानं मुनिमानिनीनामनूननामाममिनं नमामि ॥ ९२ ॥ अहमेनमिनं स्वामिनं अनूननामानं नमामि । अनन्ताभिधानम् । 'असंख्यातः सह- स्त्राणि' इति वेदश्रुतेः । तथान्यनागमेऽपि--'नवकोट्यस्तु चामुण्डा तावद्रूपाणि शंकरः। कृतवांस्तांश्च भजते पतिरूपेण भैरवः ॥' इति नीत्या. भगवतोऽनूनानि नामानि । नूनं निश्चितम् । [ नमन् प्रणमन् । माया इनो मेनः: लक्ष्मीपतिर्यस्य तथा । अनिन्नमत्यु न्नतम् । तथा उमाया मनोमाननार्थं चेतोरञ्जनाय नुन्नं निवारितं मौनं येन तम् । मुनि- भानिनीनां मान भर्तृविषय (कं] संयमं मिमानं हिंसन्तम् । देवदारुवनप्रवेशात् ।। ६२ ।। हृदि लसमान समा नो ह्रियते (ति] शाश्वती समान समानः । कान्न समानसमानः करोष्यत्तस्त्यान्धकास मानसमा नः ॥ ९३ ।। पादान्तयमकम् ॥ सर्वेषां हृदि लसमान, तथा स्थानं हृत्पङ्कजसमुद्गकम्' इति नीत्या । हे अन्धकास, अन्धकदेत्यनस्यति यस्तत्संबोधनम् । कैश्चिदपि ते तव संबन्धिनी समान पूज्य शाश्वती समा अनन्तकालं न(नो) ह्रियते नापलप्यते । समः आनः आननं जीवनं यस्य ] तथाविधः । कान् न समान् सश्रीकान् करोषिः । यतः [अ]समानः अतुल्यः । नः] अस्माकं मानसमा मानसस्य चेतसः मा शोभा मानसमा चेतःशोभा अतस्त्या अतः आ. पाता ।। सर्वपादान्तयमकम् ।। ९३ ॥ चित्ते सद्धांसमत्ते समिदपरमहोऽजो गदासंकरोसा- वाहेमासारवाही कदवरसमहामोहसत्तापहारी । पातादोजोगसत्तोऽविरलसुरणदोऽसच्चलासोऽकलङ्को- काले कामेऽन्तको वोऽवितरततरसासजसंपत्तिदो वा ॥ ९४ ।। अयं श्लोकः संस्कृतप्राकृताभ्यां भाषाश्लेषः ।। असौ अकाले असमये । असंग्रामे इत्यर्थः । कामे विषये अन्तको को युष्माकं पाताद्र- क्षतु । अवितरः, विगतः तरः तरणं यस्मात् स वितरः, न वितरः, ततः अवितरततः अर्थ व रसायां भूमौ सज्जा चासो संपत्तिश्च, तां ददाति रसासज्जसंपत्तिदः । तथा ओ- जोगसत्तः । ओजोगानां तेजोगामिना सत्ता अस्तित्वं यस्य । परप्रकाशरूपत्वात् । तथा अविरलसुरणदः । अविरल कृत्वा सुष्टु शोभनान् सुखदायिनो रणान्ददाति । तथा अस- च्चलासः । असत्सु वेद्यादिषु चला अस्थिरा आसा आस्था यस्य । अत एव अकलङ्क 'समूर्ते' क 'ससत्ते' ख. नक गु०६ काव्यमाला। चित्ते चेतति सद्धासमत्ते सति सन् हासो विकासः तेन मत्ते सति । समिदपरमहः। समित्सु संग्रामेषु अपरः मह उत्सवः । भगवतः स्मरणाद्रणे सर्वेषां सकृल्लब्धजयत्वात् । अजः जन्मरहितः । तथा गदासंकरः । न विद्यते गदैः सह संकरो यस्य । तथा आ समन्तात् हेम्नः सुवर्णस्य वर्षणं वहति । आहेमासारवाही । कदवरसमहामोहसत्ताप- हारी । कत् कुत्सितः अवरसो महामोहः तस्य सत्तां स्थितिमपहरतीति । संस्कृतभाषाश्लेषः- चित्रे श्रद्धासमाप्तौ शमितपरमखो यो गताशङ्करोषा- द्बाधे मासारबाहिः कृतवरसुमहामोधसत्ताप्रथारिः । पाताद्यो योगसको विरलसुरनतः सत्यलास्यः कलाङ्कः काले कामेऽन्तको वा वितरतु तरसा सदृशं प्राप्तिदो वा ॥ चित्रे आश्चर्यवति श्रद्धासमाप्तौ आदरनिवृत्तौ । शमितपरमखः । शमितः परमखो] दक्षाध्वरो येन । तथा गताशङ्करोषात् । बहिवाधे सति मासारवाहिः, मया शोभया उप- लक्षिताः सारवा अहयः वासुक्यादयो यस्य । तथा कृतवरसुमहामोधसत्ताप्रथारिः । कृतवरः सुमहा आत्मोत्सवात् मोघसत्ता या प्रथा तस्या अरिः । पातादो(दु)पनताद्धेतोः विरलैः कतिपयैः सुरैः ब्रह्मादिभिर्नतः सम्यक्प्रार्थनया नमस्कृतः । यदाहुः---पूजका बहवः सन्ति भक्ताः सन्ति सहस्रशः। प्रसादपात्रमाश्वस्ता द्वित्रा एवं न 'पञ्चषाः । इति नीत्या योगसक्तः । सखलास्यः । सत्यं लास्यं नटनं यस्य स सत्यलास्यः । क. ल्पान्तादौ नृत्यतिः । तथा कलाङ्कः १. कला चान्द्री अङ्को यस्य सः. काले कामेन्तको वा । काले क्रमेण कोपः । वितरतु । तरसा वेगेन । सज्ज1सदृशं प्राप्तिदो वा. । इति प्रा. कृतभाषाश्लेषेण संस्कृतप्राकृतभाषाभ्यां श्लेषोऽयम् ॥ १४ ॥ कमलभ्यमलीकविधौ कमलं वय आननशोकमलं कमलम् । कुरुषे न विशङ्कमलं कमलं सवितेव लसत्कमलं कमलम् ॥ ९५ ।। सर्वपादान्तयमक तोटकवृत्तेन ।। त्वं कं जलं गाझ्मलभ्यं दुस्तरं अलीकविधौ मुकुटचन्द्रे, न तु नैर्मल्यात् । कं व्र. ह्याणं आननशोकमलं वयः सुखभगा (!) तथा कं न [कमलं ] जलं कुरुषे । अपितु तु सर्व सुखयसि । अलं विशङ्कं कत्वा । कमिव । सविता रविः कमलमिव । कथंभूतम् । लसन्ती कमला लक्ष्मीर्यत्र तथाविधम् ॥ ९५ ॥ १. "( सञ्चसं ) सदृश' इति पाठो भवेत्. १. इतः प्राइ विभो प्रसन्नास्य निता- तदीप्सयोऽजा अपश्यस्यतुलप्रताप । चिया दरिद्रस्य कृतावसाद दया, विश्वाधिपते प्रसाद । इति श्लोको देयते स बीचमत्कारतथा क्षेपक इति प्रतिभाति. ईश्वरशतकम् । भीमारारा रामा मारा मारारारा मारारामा ! [रामारारारारामा मारारारामामा मा मारा ॥ ९६ ॥ मारारातेराघाते सातेऽद्यासातेसा मा सेना । नादे नासादेनामानानादे सानाशादेशा ते ॥ ९७ ॥ आधः श्लोकस्तुरगपदख्यक्षरः । द्वितीयो गजयदुबन्धः । गजपदबन्ध- स्थासंयुक्तद्विस्वरत्वम् ।। हे भीम भगवन् , रामा नायिका ! अरा कुटिला आरा गतिर्यस्याः तथाविधा सती. मारा मारणं मारस्तत्सहितेत्यर्थः । मारपपरैव यतः । तथा मारस्य आराश्चक्रधाराः ता राति तादृशी मारारारा इत्यर्थः । मारारामा मारस्यारामा विश्रान्तिस्थानं रामा भवति धनेनेति यतः आरामा । भीम कोश । रामारार । रामस्य जामदग्न्यस्य आरं शत्रुस- मूहः तस्स आरः भौमः । नाशकत्वात् तत्संबोधनम् । मा लक्ष्मीस्तां रातीति तादृशी (मारा ] इत्यर्थः ॥ हे अनादे, तब संबन्धिनी सा मा दीप्तिः भासुरता मे मम मारा । अरातेर्वैरिण आधाते गते सति । अनाश: अविनाश: आदेश आज्ञा यस्याः सा। तथा सेना नादे सति सासास्था अद्यासा अद्यति(?) अस्यति निवारयति सह(?) आशया आदेशः तस्य आशा दिक् ! तवादेशेन मुक्तिरित्याशयस्थानम् ॥ विद्युन्मा. लाभ्यां युगलकम् ३१ ९६ ॥ ९७ ।। स्फूर्जन्महाः प्रसन्त्रास्ते क्षणादेव त्वयि स्तुते । स सन्महानमुत्रास्ते यस्त्वां देव नमोऽस्तु ते ॥ १८ ॥ काञ्चीबन्धः ।। स्पष्टोडर्थः ॥ ९८॥ निजजानिं नुन्नानाजी नूनं नानाजनानजान्नानि(?) । निजानेनजानिनानुजजानूनानिजजनैः(१) ॥ ९९ ॥ हे इन स्वामिन् , ननु ऊनान् जनेर्जन्मनः हेतोः एतान् । कान् निजजनि स्वां भायाँ, तथा नुनानीन (१) नाना जनान् सुभटान् अजाश्चन्द्रागा(१) अन्नानि च अननं जीव- नम् । अजिनानि राङ्कवादीनि प्रावरणानि । अनुजाः स्वपरादयः निजा मित्रादयः । (नूनं] निश्चितम् । ननु प्रश्ने । एतानि जनेः पुनः पुनः संसार भ्रमणात् । ऊनानुजनेनिः सरतीत्यर्थः (१) त्वत्पादसेवां विनेति प्रतीतिः ॥ ९९ ।। केन क्रौञ्चो विभिन्नः कमवनतगताः के दिनेशस्य तीक्ष्णा अन्तस्थाअक्षरं किं द्विजकुलमधिकां वक्ति कां जातिमग्र्याम् । १. 'निजजानिं ननु निजान्नून नानाजनानिन न। आनेननाजिनान्नानि नुन्नेनो जननीजने ॥ इति स्यात् काव्यमाला। भृत्यानां कुत्र भक्तिः किमुचितमजयन्क्ष्मां नरेन्द्राः किमर्थ कस्मै भक्ता अजस्रं प्रविदधति नमः स्वामिने शंकरायः ॥ १० ॥ प्रहेलिकान्तर्लापिकाख्येनेति स्वामिने शंकरायेति पदच्छेदेनोत्तरम् ।। यथा-केन क्रौञ्चः शैलो विभिन्नः । अत्रोत्तरम्---स्वामिना इति कुमारेण । कं अ- वनतगताः । कं नत्वा गताः । लोकाः इति शेषः । अत्रोत्तरम्-ईशं महादेवम् । के दिनेशस्य स्वेस्तीक्ष्माः । अत्रोत्तरम् कराः रश्मयः । अन्तस्थानों आद्यक्षरं किम् । अत्रोत्तरम-य इति । द्विजकुलं ब्राह्मणवर्गः अधिकां श्रेष्ठामग्र्यां कां जातिं वक्ति । अत्रोत्तरम्-स्वाम् । भृत्यानां कुत्रभक्तिः । अत्रोत्तरम्-इने स्वामिनि । किमुचितं युक्तम् । अत्रोत्तरम् शं कल्याणम् । राजानः क्ष्मां भूमिं किमर्थमजयन् । अत्रोत्त- रम्-कराय प्रजाभ्यो ग्राह्यवल्यर्थम् । भक्ताः कस्मै नमः अजस्रं प्रविदधति । अत्रो- त्तरम्-शंकराय महादेवाय । इति स्पष्टः प्रहेलिकार्थः ॥ १०॥ रिपुरोषारोपपर प्रोरुपापपरैररम् । रोरैरपाररूपैरापपे पुररिपो पुरा ॥ १०१ ॥ व्द्यक्षरः।। हे पुररिपो । कथंभूत । रिपुरोपारोपपर शत्रुकुन्तारोपणे उद्युक्त । पुरा पूर्वं प्राग्ज- न्मनः प्रभृति अपाररूपैः अनन्तैः दौर्गत्यक्लेशैः प्रोरूपापपरैः प्रकर्षेण उरूणि यानि पा- पानि तान्येव परं परमार्थों यत्र तथाविधैः पापैः प्राक्कर्मवैचित्र्यादेव जन्मादिदौर्गत्योप लब्धेः । अरमत्यर्थम् ॥ ९०१॥ अपरुषो गतनिर्विभवासवः स्वयमिनः श्रितसत्यकलादयः । क्षततमा असुहृत्कलितापदस्त्वमसि नाथ वयं च तवार्थिनः।। १०२॥ हे नाथ, त्वं अपरुषः, न परुषः अपरुषः । पारुष्यरहितः । व्यं च संसारं प्रति अपगतरुषः । तेनैव बाधितत्वात् । त्वं गतनिर्विभवासवः, गतो निर्विभः निष्कान्तिः वासव इन्द्रो यस्मात् । त्वत्सकाशाद्वासवः... स्तम्भनानिष्प्रतिमत्वं गतः । इन्द्र' इ. त्यर्थः । वयं च गतनिर्विभवासवः, गता अस्मभ्यं पशुभ्य इव इति शेषः। निर्विभवाः असवः प्राणाः येषां ते । तथा त्वं स्वयमिनः सर्वेश्वरः । वयं स्वयमिनः । त्वं श्रित- सत्यकलादयः, सत्यकला च दया च [श्रि)ते सत्यकलादये येन सः । वयं च श्रिताः सत्यकलादयः क्वचियद्वहारार्थं सत्यं क्वचिच्च कलादयो यैः तादृशाः । तथा त्वं क्षत- तमाः, क्षतं तमो येन सः । वयं च क्षततमः, अतिशयेन क्षताः। त्वं अमुहृतां बम- भटानां युद्धरूपेण कलितापदं ददाति सः। वयं च असुह्रद्भिरमित्रैः कलिता आपदो येषां तादृशाः वयं च तवार्थिनः याड्याचाराः सेवकाः पालनीयाः इति प्रार्थयमाना... वि. ज्ञप्तिः । इत्येकवचनबहुवचनश्लोकः । उक्तं चालंकारिकैः श्लेषलक्षणे---'वर्णपदलिङ्गभा- षाप्रकृतिविभक्तिवचनानामष्टविधः श्लेषः । १०२॥ ईश्वरशतकम् । भाविदासहिते साररसा ते हि रमामयः । यममारतनुत्यागगत्या नुत सदा विभा ॥१०३ ।। हे रमामय लक्ष्मीमय तव संबन्धिनी विभा सातिशया दीप्तिः भाविदासेभ्यः भा- विभ्यो दासेभ्यो हिते सारः उत्कृष्टो रसों [यस्याः सा यममारयोः तनुत्यागेन या गति- र्विच्छित्तिस्तया हेतुभूतया : सर्वैनुत स्तुत ॥ भद्रकावर्तबन्धः ॥ १०३॥ सादासन्ना रिपूणां परमुखसुरपक्षोतितस्वस्थिरासा सारास्थिस्वच्छभावा विभवनवभवित्राणभन्योत्तमासा । सामात्तव्योमरूपा तनुरमरनुतत्वात्पुरस्ताद्विलासा सालाद्विस्तारलाभातियजन जयति स्वःप्रसन्ना सदासा ॥ १०४ ॥ भद्रकावर्तबन्धः अष्टदलपद्मबन्धः, षोडशदलश्च हे अतियजन, तव तनुर्जयति । अतिशयितानि सर्वोत्कृष्टानि यजनानि यस्य ता. दृश । सर्वयज्ञेषु रुद्रस्य मुख्यत्वात् । कीदृशी । रेपूणां सादे विनाशे आसन्ना सादा- सन्ना । पुनः कीदृशी । परमुखे सुरपक्षे च तत्स्वन्तेन (१) स्थिरासा । सारः अस्तिः (स्थि) स्वच्छभावो यस्याः तथा विभवेन ऐश्वर्येण नवभविनां नूतनसंसारिणां त्राणे रक्षणे भव्या उत्कृष्टा अपरुषा ! सामात्ता(?) आत्तं व्योमरूपं यया । अमरनुतत्वात् सर्वदेवस्तुतत्वात् । पुरस्तान्निहिता विलासा यस्याः । तथा सालाद् देवदारोरपि स्तृता, सालप्राशुः । स्वः देवानां प्रसन्ना । सह दासैर्वतते या सदासा १३ १०४ ॥ भव जलवायुनभोजनरुचिकर- म(मृ)दनलराजरमा(सा)मयदेह । अव मामतिमोहकमारसहर हर नम इह ते पुरभयदेह ॥ १०५ ॥ हे भव, जलवायुनभोजनरुचिकर, म(मृ)दनलराज र[सा) मयदेह । जलधि (लादि) रसान्तानां चार्थे द्वन्द्वः । तेषामष्टानां मूर्तिरूपा या प्रकृतिस्तन्मयदेह । जनशब्दो यज- मानवाचकः । तद्रूपशरीर । त्वं मामव रक्ष । यतः कीदृश । अतिमोहकोऽयं मारसो लक्ष्म्यभिलाषः तन्निवारक । हे हर, इह सर्वत्र भुवनान्तरे ते तुभ्यं नमः । तथा कथं- भूतः । पुरभयदेह, पुराणों मयं ददाति । तथा ईहा यस्य तत्संबोधनम् । इति संस्कृत- कश्मीरापभ्रंशाम्या श्लेषः ॥ १०५३ "विविधधररसासाभ भव्य व्यसासा- धुधुततनन सासादद ज्ञज्ञ सासा । मालिनीवृत्तन्धि वृत्तान्तरमेततू. काव्यमाला ततसुसुर रसासारर स्वस्व सासा- ववननररसासावव न्यन्यसासा ।। १०६।। जयसि जलमनन्तं नन्दनं चाम्बुधेर्वा नवमनमत्व धृत्वा देवदेवेशभृत्यः । जयसि जनमनन्तं नन्दयश्चाविधेये अनवन नत कस्ते देवदेवेश भृत्यः ॥ १०७ ॥ आवली । युग्मम् । एकेन एकावली द्वितीयेन च्छन्नबन्धः ।। विविधधररसायां सर्वमयबहुरूपपर्वतभूमौ साभ सदीप्ते । भव्य उत्कृष्ट । त्यस वि- शेषेण असो गमनं यस्य । असाधूनां धुतं धूत हननं येन तथाविध । असादं समुद्ध- रणं ददाति तथाविध देवास्तेषां मध्ये त्वमेव ज्ञः । देवदेव इति । सासा । सह आसेन आस्थया वर्तते सासा सास्था । एवंविधा तनुर्जयति । ततसुसुराः [तताः] शो- भन देवा येन हेतुना तद्विध । रसायां भूमौ सारं सुवर्णवर्षणं राति । सासौ सप्राणे । स्वस्व आत्मधन । अवनेन रक्षणेन नरेषु विषये रसो यस्याः । असौ। इयमेवेत्यर्थः । अवनौ भूमौ अन्येषु दैत्येषु विषयेषु विरुद्धेषु सासासासा सास्था ॥ हे अनवम उत्कृष्ट, देवानां मध्ये देव, स त्वं जयसि । गङ्गाजलमनन्तं यथा अम्बुधेः समुद्रस्य नवं नन्दनं चन्द्रं धृत्वा धारयित्वा अनन्तं जनं च नन्दयन् । अविधेये दैत्यखार्थे अनवन अरक्षण, नत । सर्वे त्वां नताः । त्वं न कंचित् । इह हि तेनैव देवदेवेश. भृत्यः ॥ छत्रबन्धो मोमूत्रिकाबन्धश्च ॥ १०६॥ १० ॥ यमादजावद्भयमादिदेव वदेयमे यद्भवितार्थिनोडव । जनोऽर्थिताविद्भविता ततो हि हितोऽव तावद्भवजादमाय ॥ १०८ ॥ यमागताकृत्यमवेहि येन नयेन के सत्यसदासमेत । तमे सदासत्यनुते मिमान नमामि ते नुत्यकृतागमाय ।। १०९॥ यदा तमोपेततया ज्ञ चारुरुचाज्ञया तत्त्वमतोवधान । न धावतोऽमस्तनुमोनतेन नते नमोनुत्तममोक्षदाय ॥ ११ ॥ यताकृते पर्वतजे निवासे सेवा निजेतर्वशताकृतेन । म ते कृताशंस(मान)मदा मयाभिभिया सदा सर्वपते कृताय ।। १११ ॥ चतुर्भिः श्लोकः प्रस्तारः ।। हैं आदिदेव, मम यमाद्धयमस्ति । अजावच्छागलीवत् । दुर्बलवत्' दुर्बलस्वात् । अ- र्थिनत्वामर्थयन्ते इति भावः । हे अज, यतः रणन्तो जनः अर्थिताविद्भविता ममत्वं ईश्वरशतकम् प्रति अर्थित्वस्य अन्तरङ्गो भविष्यतीति । भवजासंसारजात् । ततः तमव रक्ष ।हितः सन् । अमाय मायावर्जित । सत्यानुतिर्यस्य तत्संबोधनम् । यमं मिमान हिंसन् । यमा- दागतं यदकृत्यं तदहि । येन नयेति, विचारयेत्यर्थः । तुभ्यं नमामि । नुत्याकृता आ- गमाः सर्वजनोपदेशार्थं शास्त्राणि येन तस्मै । वै सत्ये चैश्वर्यै च । एत कचरवर्ण, हे भगवन् , ज्ञ अनन्त स्वामिन् । ततः सात्वतं(?) आज्ञया चाररुचा मणिप्रदीप्त्यात्यर्थव- धान । यमनियममयेत्यर्थः । अतो हेतोर्यदा समुक्त्या यत्कारित्वेन क्षमैमत् () सतः सकाशाद्धावतः श्रमणात् अन्यः तनुमः अल्पश्रीकः नास्ति । तुभ्यं (न) ते नम्रे विषये अनुत्तममोक्षदाय उत्कृष्टमोक्षदायिने एवंविधाय नमः । हे शर्व (सर्वपते) यताकृते सं. युतात्मन्, निजेतः निःशेषेण जयनशील, इन स्वामिन् , मया वशताकृता आपत्तता- कारिणा, पर्वतजे निवासे सेवा न कृता । अभितः समन्तात् भीर्यस्य तथाविधेन ! सदा कृताय पुण्यसंचयायार्थम् । न विद्यते मदो यस्यां तादृशसे(व)कमपि मां कृपया अवेति पूर्वोक्तवाक्यार्थः । चतुर्भिः कुलकम् (कालापकम् ) ॥ १०८ ॥ १०९ ११0 महामते मन्त्रपते परं पदं विना विभुं विन्दति कोऽतिभूतिमान् । कृपाकृते कृत्तयमाव मायते नमो नमो नम्रहिते हि पाहि माम् ॥ ११२॥ हे महामते विशुद्धरणे दक्ष, तथा मन्त्रपवे ससप्ततिकोटींना मन्त्राणां प्रभुरव्ययः' इत्यागमे । त्वां प्रभुं विना परिहत्य को जनः परं पदं मुक्तिरूपं विन्दति लभते । अति- शयेन भूतिमान् । अष्टविधैश्वर्ययुक्तः । नम्रहितप्राण... यदा त्वेव मां पाहि रक्ष (मा) यते, तुभ्यं कृपाकृते करुणापराय । कृत्त(य]माय छिन्नकालाय नमः । चतुर्महा- देवस्वस्तिकबन्धः । ११२ ॥ भो भो भविभुमावीभविभावैभव भीभुवः । भवाव भवया भाविभवामिभवभावभित् ।। ११३ ॥ भो भो भव महेश्वर, भानां नक्षत्राणां विभुः चन्द्रः । जूटेन्दुरित्यर्थः । तस्य [आ] भा दीप्तयः, ताभिर्विगता इभस्य गजासुरस्य विभा वैभवं यस्मातादृश, त्वमव रक्ष। मामित्यर्थः ।..... अर्थः प्रकरणं लिङ्गम्' इत्यलंकारज्ञः । भावीयः भवाभिभवः संसा- रखलीकारतस्य यो भावः सत्ता तद्भित् । भव वाशब्दो विकल्पे । 'भो भोः' इति - धानामन्त्रो । अव (र]क्ष । कृतान्तात् । मियो भयस्य (भवस्य) भूरुत्पत्तिस्थानम् ॥ द्यक्षरोऽयं श्लोकः ॥ ११३ ॥ इति श्रीमहाकव्यवतारकृतमीश्वरशतकं सटीकं समाप्तम्