उतथ्यगीता १
९१
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्म वित्तमः।
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत॥१॥
स यथानुशशासैनमुतथ्यो ब्रह्म वित्तमः।
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर॥२॥
धर्माय राजा भवति न कामकरणाय तु।
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता॥३॥
राजा चरति वै धर्मं देवत्वायैव गच्छति।
न चेद्धर्मं स चरति नरकायैव गच्छति॥४॥
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति।
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः॥५॥
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते॥६॥
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते।
तदेव मङ्गलं सर्वं लोकः समनुवर्तते॥७॥
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्।
भयमाहुर्दिवारात्रं यदा पापो न वार्यते॥८॥
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते॥९॥
वध्यानामिव सर्वेषां मनो भवति विह्वलम्।
मनुष्याणां महाराज यदा पापो न वार्यते॥१०॥
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्।
असृजन्सुमहद्भूतमयं धर्मो भविष्यति॥११॥
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते।
यस्मिन्विलीयते धर्मं तं देवा वेषलं विदुः॥१२॥
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम्।
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत्॥१३॥
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा।
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत्॥१४॥
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः।
अकार्याणां मनुष्येन्द्र स सीमान्त करः स्मृतः॥१५॥
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयं भुवा।
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रह कारणात्॥१६॥
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः।
स राजा यः प्रजाः शास्ति साधु कृत्पुरुषर्षभः॥१७॥
कामक्रोधावनादृत्य धर्ममेवानुपालयेत्।
धर्मः श्रेयः करतमो राज्ञां भरतसत्तम॥१८॥
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा।
ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी॥१९॥
तेषां ह्यकाम करणाद्राज्ञः सञ्जायते भयम्।
मित्राणि च न वर्धन्ते तथामित्री भवन्त्यपि॥२०॥
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः।
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी॥२१॥
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम्।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे॥२२॥
एतत्फलमसूयाया अभिमानस्य चाभिभो।
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी॥२३॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः।
तेन देवासुरा राजन्नीताः सुबहुशो वशम्॥२४॥
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव।
राजा भवति तं जित्वा दासस्तेन पराजितः॥२५॥
स यथा दर्पसहितमधर्मं नानुसेवते।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि॥२६॥
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः।
तदभ्यासादुपावर्तादहितानां च सेवनात्॥२७॥
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्॥२८॥
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत्।
अत्यायं चाति मानं च दम्भं क्रोधं च वर्जयेत्॥२९॥
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः॥३०॥
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात्।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः॥३१॥
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति।
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते॥३२॥
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान्।
अधर्माः सम्प्रवर्तन्ते प्रजा सङ्करकारकाः॥३३॥
अशीते विद्यते शीतं शीते शीतं न विद्यते।
अवृष्टिरति वृष्टिश्च व्याधिश्चाविशति प्रजाः॥३४॥
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः॥३५॥
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति।
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति॥३६॥
द्वावाददाते ह्येकस्य द्वयोश् च बहवोऽपरे।
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम्॥३७॥
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति॥३८॥