प्रमुखा विकल्पसूचिः उद्घाट्यताम्

॥ श्रीबुच्चिवेङ्कटाचार्यकृता वेदान्तकारिकावली ॥सम्पाद्यताम्

( अथ प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम् )सम्पाद्यताम्

श्रीमद्रमाधवोपज्ञं नत्वाचार्यपरम्पराम् ।

कुर्वे लक्ष्मणसिद्धान्तकारिकां कारिकावलीम् ॥ १.१॥

मानमेयविभेदेन पदार्थो द्विविधो मतः ।

मानं प्रत्यक्षानुमानशब्दभेदात्त्रिधा भवेत् ॥ १.२॥

प्रमेयं द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः ।

जडाजडत्वभिन्नेऽत्र द्रव्ये तद्विविधं जडम् ॥ १.३॥

प्रकृति काल इत्याद्या चतुर्विंशतिधा मता ।

कालस्तूपाधिभेदेन त्रिविधः परिकीर्तितः ॥ १.४॥

अजडं तु पराक् प्रत्यगिति भेदाद्विधा मतम् ।

पराङ् नित्यविभूतिश्च धर्मभूतमतिस्तथा ॥ १.५॥

प्रत्यग्जीवेश्वरभिदाशाली जीवः पुनस्त्रिधा ।

बद्धो मुक्तो नित्य इति बद्धस्तु द्विविधो भवेत् ॥ १.६॥

बुभुक्षुश्च मुमुक्षुश्च बुबुक्षुश्च पुनर्द्विधा ।

अर्थकामपरो धर्मपरश्चेति विवेचनात् ॥ १.७॥

अन्यदेवपरो विष्णुपरो धर्मपरो द्विधा ।

मुमुक्षुरपि कैवल्यमोक्षयोगाद्विधा मतः ॥ १.८॥

भक्तप्रपन्नभेदेन स तु मोक्षपरो द्विधा ।

द्विधा प्रपन्न एकान्तिपरमैकान्तिभेदतः ॥ १.९॥

दृप्त आर्त इति द्वेधा परमैकान्त्युदाहृतः ।

ईश्वरः पञ्चधा भिन्नः परव्यूहादिभेदतः ॥ १.१०॥

पर एकश्चतुर्धा तु व्यूहः स्याद्वासुदेवकः ।

सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति भेदतः ॥ १.११॥

मत्स्यादयस्तु विभवा अनन्ताश्च प्रकीर्तिताः ।

अन्तर्यामी तु भगवान् प्रतिदेहमवस्थितः ॥ १.१२॥

अर्चावतारः श्रीरङ्गवेङ्कटाद्र्यादिषु स्थितः ।

केशवादि तु तत्त्वज्ञैर्व्यूहान्तरमुदाहृतम् ॥ १.१३॥

सत्त्वं रजस्तमः शब्दस्पर्शरूपरसास्तथा ।

गन्धः संयोगशक्ती चेत्यद्रव्यं दशधा मतम् ॥ १.१४॥

प्रमायाः करणं तत्र प्रमाणं परिकीर्तितम् ।

यथावस्थितवस्त्वेकव्यवहारानुगा प्रमा ॥ १.१५॥

सा संशयान्यथाज्ञानविपरीतधियो न हि ।

एकधर्मिकनानार्थविषया धीस्तु संशयः ॥ १.१६॥

धीस्तु धर्मविपर्यासेऽन्यथाज्ञानमुदाहृतम् ।

सैव धर्मिविपर्यासे विपरीतमतिर्मता ॥ १.१७॥

साक्षात्कारप्रमाहेतुः प्रत्यक्षं मानमीरितम् ।

सविकल्पो निर्विकल्पः साक्षात्कारो द्विधा भवेत् ॥ १.१८॥

ग्रहः प्रथमपिण्डस्य निर्विकल्पक उच्यते ।

द्वितीयपिण्डग्रहणं सविकल्पकधीर्भवेत् ॥ १.१९॥

एतदिन्द्रियसापेक्षमनपेक्षञ्च दृश्यते ।

अनपेक्षं स्वतः सिद्धं दिव्यं चेति द्विधा मतम् ॥ १.२०॥

योगजं तु स्वतः सिद्धमन्यत्स्वामिप्रसादजम् ।

अर्वाचीनमिदं सर्वमामनन्ति विचक्षणाः ॥ १.२१॥

नित्यमुक्तेश्वरज्ञानमनर्वाचीनमुच्यते ।

स्मृति प्रमैव प्राचीनानुभवाज्जायते हि सा ॥ १.२२॥

सदृशादृष्टचिन्ताद्यैः संस्कारोद्बोधने सति ।

स्मृतिवत्प्रत्यभिज्ञापि प्रत्यक्षेऽन्तर्भवत्यसौ ॥ १.२३॥

पुण्यपूरुषनिष्ठापि प्रतिभात्रैव सम्मता ।

यथार्थं सर्वविज्ञानमिति यामुनभाषितम् ॥ १.२४॥

भूतले तु घटाभावो भूतलात्मैव नेतरः ।

मृद्घटस्य प्रागभावो ध्वंसस्तस्य कपालकम् ॥ १.२५॥

स्वासाधारनधर्मो हि भेदशब्देन कीर्त्यते ।

शब्दस्वाभाव्यजा क्वापि प्रतियोगित्वधीः कृता ॥ १.२६॥

अन्तःकरणचैतन्यं तद्वृत्त्या विषयेण च ।

चैतन्यं समतापन्नं साक्षात्कारमजीजनत् ॥ १.२७॥

इत्यादिवचनं सर्वं परोक्तं नात्र सम्मतम् ।

सामान्यं समवायश्च विशेषो नात्र सम्मतः ॥ १.२८॥

सङ्ख्यादिगुणवर्गस्य गुणपार्थक्यकल्पनम् ।

सूत्रकारविरुद्धं यत्तत्सर्वं परिहास्यते ॥ १.२९॥

॥ इति वेदान्तकारिकावल्यां प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम् ॥

( अथ अनुमाननिरूपणं नाम द्वितीयं प्रकरणम् )सम्पाद्यताम्

अनुमित्यात्मविज्ञानेऽनुमानं करणं स्मृतम् ।

तच्च लिङ्गपरामर्शस्तद्धेतुर्व्याप्तिधीर्मता ॥ २.१॥

साध्याभावाधिकरणावृत्तित्वं व्याप्तिरुच्यते ।

व्याप्यास्य पक्षवृत्तित्वधीः परामर्शनामभाक् ॥ २.२॥

तज्जा पक्षे साध्यमतिरनुमित्यात्मिका मता ।

भूयिष्ठसाहचर्यैकज्ञानेन व्याप्तिधीर्भवेत ॥ २.३॥

तत्सपक्षे सपक्षस्तु पूर्वं निश्चितसाध्यकः ।

सन्दिग्धसाध्यकः पक्षो विपक्षस्तदभाववान् ॥ २.४॥

अन्वयी व्यतिरेकी च किञ्च हेतुर्द्विलक्षणः ।

व्यभिचारी विरुद्धश्चासिद्धः सत्प्रतिपक्षकः ॥ २.५॥

बाधितश्चेति पञ्चैते हेत्वाभासा न साधकाः ।

एवं स्वार्थानुमानस्य प्रपञ्चस्तु निरूपितः ॥ २.६॥

न्यायजन्यः परामर्शः परार्थानुमितेः कृते ।

न्यायोऽवयववाक्यानि प्रतिज्ञादीनि पञ्च च ॥ २.७॥

प्रतिज्ञा साध्यनिर्देशो हेतुस्तद्वचनं मतम् ।

व्याप्त्युक्तिपूर्वदृष्टान्तवागुदाहरणं भवेत् ॥ २.८॥

व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः ।

उपसंहारवचनं भवेन्निगमनं पुनः ॥ २.९॥

॥ इति वेदान्तकारिकावल्यामनुमाननिरूपणं नाम द्वितीयं प्रकरणम् ॥

( अथ शब्दनिरूपणं नाम तृतीयं प्रकरणम् )सम्पाद्यताम्

अनाप्तानुक्तवाक्यं यत्तच्छाब्दकरणं स्मृतम् ।

वेदस्यापौरुषेयत्वात्तत्र लक्षणसङ्गतिः ॥ ३.१॥

सिद्धे व्युत्पत्तिसद्भावाद्वेदो निष्पन्नबोधकः ।

तत्कार्यपरताहानेरप्रामाण्यं न शङ्क्यताम् ॥ ३.२॥

कर्मब्रह्माभिधायित्वात्स च भागद्वयात्मकः ।

पूर्वभागः कर्मपर उत्तरो ब्रह्मगोचरः ॥ ३.३॥

तदैक्यात्पूर्वपरयोर्व्याख्येया ह्येकशास्त्रता ।

अध्यायभेदवद्भेदे शास्त्रैक्यं न विरुध्यते ॥ ३.४॥

विध्यर्थवादमन्त्रात्मा त्रिविधः स प्रतीयते ।

अनुष्ठेयार्थगमको मन्त्रः स्यादर्थवादगीः ॥ ३.५॥

प्रवृत्त्युत्तम्भिका या स्याद्विधिर्वाक्यं प्रवर्तकम् ।

स त्रिधापूर्वनियमपरिसङ्ख्याविभेदतः ॥ ३.६॥

नित्या नैमित्तिकाः काम्या इति ते बहुधा मताः ।

तेषां स्वरूपलक्ष्माणि मन्तव्यानि नयान्तरे ॥ ३.७॥

छन्दः कल्पश्च शिक्षा च निरुक्तं ज्यौतिषं तथा ।

व्याकृतिश्चेति वेदस्य षडङ्गानि प्रचक्षते ॥ ३.८॥

अनुष्टुबादिकं छन्दः कल्पः श्रौतादिबोधकः ।

वर्णनिर्णायिका शिक्षा निरुक्तं स्वार्थबोधकम् ॥ ३.९॥

अनुष्ठानादिकालस्य निर्णये ज्यौतिषं भवेत् ।

सौशब्द्याय व्याकरणमिति साङ्गे प्रमाणता ॥ ३.१०॥

एतन्मूलतया स्मृत्यादीनां प्रामाण्यमीरितम् ।

एतद्विरुद्धं यत्किञ्चिन्नाश्नुवीत प्रमाणताम् ॥ ३.११॥

आकाङ्क्षादिकमेतच्च शाब्दबोधैककारणम् ।

तद्विचारोऽत्र सङ्क्षिप्तो ग्रन्थविस्तरभीरुणा ॥ ३.१२॥

मुख्यौपचारिकत्वाभ्यां स शब्दो द्विविधो मतः ।

अभिधा मुख्यवृत्तिः स्याद्वृत्तिरन्यौपचारिकी ॥ ३.१३॥

शरीरवाचकाः शब्दाः शरीरिकृतवृत्तयः ।

सर्वशब्दैकवाच्यत्वं हरेरिति गदिष्यते ॥ ३.१४॥

॥ इति वेदान्तकारिकावल्यां शब्दनिरूपणं नाम तृतीयं प्रकरणम् ॥

(प्रमाणनिरूपणं समाप्तम्)

( अथ प्रकृतिनिरूपणं नाम चतुर्थं प्रकरणम् )सम्पाद्यताम्

यत्प्रमाविषयं तत्स्यात्प्रमेयमिति तद्विधा ।

द्रव्यमद्रव्यमित्याद्यं तदुपादानकारणम् ॥ ४.१॥

अवस्थान्तरयोगित्वमुपादानत्वमुच्यते ।

गुणाश्रयं वा द्रव्यं स्यात्तच्च द्वेधा प्रकीर्तितम् ॥ ४.२॥

अमिश्रसत्त्वराहित्यं जडत्वमनुगद्यते ।

जडं प्रकृतिकालौ द्वौ सा सत्त्वादिगुणत्रया ॥ ४.३॥

प्रकृतिः सा क्षराविद्यामायाशब्दैर्निगद्यते ।

कार्योन्मुखत्वावस्था स्यादव्यक्तव्यपदेशनात् ॥ ४.४॥

अव्यक्तान्महदुत्पत्तिः सात्त्विकत्वादिभेदतः ।

अहङ्कारस्ततस्त्रेधा सात्त्विकत्वादिभेदभाक् ॥ ४.५॥

वैकारिकस्तैजसश्च भूतादिरिति भेदतः ।

नामान्तराणि सन्त्वेवमहङ्कारात्मना सताम् ॥ ४.६॥

तेषु वैकारिकात्सात्त्विकाहङ्कारादुपस्कृतात् ।

एकादशेन्द्रियाणि स्युर्ज्ञानकर्मेन्द्रियात्मना ॥ ४.७॥

ज्ञानप्रसरणे शक्तं ज्ञानेन्द्रियमुदाहृतम् ।

तन्मनःश्रोत्रचक्षुस्त्वग्घ्राणजिह्वात्मना मतम् ॥ ४.८॥

मनः स्मृत्यादिहेतुस्तद्बन्धमोक्षादिकारणम् ।

शब्दमात्रग्रहे शक्तमिन्द्रियं श्रोत्रमुच्यते ॥ ४.९॥

रूपमात्रग्राहि चक्षुस्त्वक् स्पर्शग्रहकारणम् ।

गन्धैकग्राहकं घ्राणं रसनं रसभासकम् ॥ ४.१०॥

एषां विषयसम्बन्धः संयोगादिः प्रकीर्तितः ।

उच्चारणादिकर्मैकशक्तं कर्मेन्द्रियं मतम् ॥ ४.११॥

पञ्चधा वाक्पाणिपादपायूपस्थप्रभेदतः ।

वर्णोच्चारणहेतुर्वाक् पाणिः शिल्पादिकारणम् ॥ ४.१२॥

सञ्चारकारणं पादः पायुर्मलनिवृत्तिकृत् ।

उपस्थः परमानन्दहेतुः स्त्रीपुंसयोर्मतः ॥ ४.१३॥

राजसाहङ्क्रियायुक्ततामसाहङ्कृतेः पुनः ।

जायते शब्दतन्मात्रादिकं भूतादिकारणम् ॥ ४.१४॥

भूतानामेव सूक्ष्मैकपूर्वावस्थाविशेषवत् ।

द्रव्यं तन्मात्रमित्याहुः पञ्चधा भूतपञ्चभिः ॥ ४.१५॥

तन्मात्रपञ्चकं शब्दाद्याश्रयत्वेन सम्मतम् ।

भूतानां स्यादुपादानं शब्दतन्मात्रमादिमम् ॥ ४.१६॥

स्पर्शतन्मात्रकं रूपरसतन्मात्रके अपि ।

गन्धतन्मात्रमेतेभ्यओ खानिलज्योतिरब्भुवः ॥ ४.१७॥

पञ्चभूतानि तन्मात्रस्वरूपं तु निरूप्यते ।

तामसाहङ्कृतिखयोर्मध्यावस्थायुगादिमम् ॥ ४.१८॥

शब्दतन्मात्रमस्माच्च वियदुत्पद्यते तथा ।

खमेव सूर्यस्पन्देन दिगिति व्यपदिश्यते ॥ ४.१९॥

द्रव्यं तदाकाशवाय्वोर्मध्यावस्थासुसंयुतम् ।

स्पर्शतन्मात्रमस्माच्च वायुरुत्पद्यते क्रमात् ॥ ४.२०॥

मध्यावस्थायुतं वायुतेजसोर्द्रव्यमुच्यते ।

रूपतन्मात्रमित्यस्मात्तेज उत्पद्यते क्रमात् ॥ ४.२१॥

मध्यावस्थायुतं तेजःपयसोर्द्रव्यमुच्यते ।

रसतन्मात्रमित्यस्मात्सलिलं खलु जायते ॥ ४.२२॥

मध्यावस्थायुतं वारिपृथिव्योर्द्रव्यमुच्यते ।

गन्धतन्मात्रमित्यस्मात्पृथिवी समुदेत्यसौ ॥ ४.२३॥

आद्यं शब्दवदन्यच्च शब्दस्पर्शवदुच्यते ।

रूपशब्दस्पर्शवत्स्यात्तृतीयञ्च तुरीयकम् ॥ ४.२४॥

रूपशब्दस्पर्शरसयुक्तं गन्धाधिकं परम् ।

तन्मात्रपञ्चकं भूतपञ्चकञ्चैवमीरितम् ॥ ४.२५॥

एवं प्रकृतिरव्यक्तमहदादिक्रमाद्भिदाम् ।

चतुर्विंशासङ्ख्यानां प्रापिता सुनिरूपिता ॥ ४.२६॥

भूतानि भगवान् सृष्ट्वा द्वेधैकैकं विभक्तवान् ।

एकमेकं विधायांशञ्चतुर्धान्यं विभक्तवान् ॥ ४.२७॥

चतुर्धा रचितानंशांस्तत्तदंशे युनक्ति सः ।

चतुर्थांशयुतस्वांशैः पञ्चभूतान्यजीजनत् ॥ ४.२८॥

अन्यभूतांशसत्त्वेऽपि स्वांशभूयस्त्वतः कृतः ।

पृथ्व्यप्तेजोऽनिलव्योमव्यपदेशो जगत्यभूत् ॥ ४.२९॥

पञ्चीकरणमेतादृगुपलक्षयति श्रुतिः ।

भूतैर्महदहङ्कृत्योः सप्तीकृतिरुपस्कृता ॥ ४.३०॥

भूतपञ्चकमव्यक्तमेते महदहङ्कृती ।

उपादानानि देहस्येन्द्रियाणि प्रतिपूरुषम् ॥ ४.३१॥

भिन्नान्याकल्पकल्पानि शरीरं भूषयन्ति हि ।

चेतनैकनियाम्यं यच्छरीरं तन्निगद्यते ॥ ४.३२॥

शरीरं द्विविधं नित्यमनित्यमिति भेदतः ।

भगवन्नित्यसूरीणां नित्यं नैसर्गिकं तु तत् ॥ ४.३३॥

अनित्यमपि तद्वेधा कर्माकर्मकृतत्वतः ।

अकर्मकृतमीशादेरिच्छया परिकल्पितम् ॥ ४.३४॥

तच्च कर्मकृतं द्वेधा स्वेच्छासहकृतं तथा ।

कर्ममात्रकृतञ्चेति सौभर्यादेर्यथादिमम् ॥ ४.३५॥

द्वितीयमस्मदादीनां सामान्येन पुनर्द्विधा ।

स्थावरं जङ्गमञ्चेति शिलादि स्थावरं मतम् ॥ ४.३६॥

जङ्गमञ्च द्विधा प्रोक्तं स्याद्योनिजमयोनिजम् ।

योनिजं देवमानुष्यतिर्यगादिविभागवत् ॥ ४.३७॥

उद्भिज्जस्वेदजाण्डोत्थनारक्याख्यमयोनिजम् ।

एवं पञ्चीकृतानां स्यादण्डोत्पादकता स्मृता ॥ ४.३८॥

अण्डोत्पत्तेः पूर्वसृष्टिः समष्टिरत उत्तरा ।

व्यष्टिसृष्टिरिति द्वेधा सृष्टिर्वेदान्तिसम्मता ॥ ४.३९॥

अव्यक्तादेर्महत्त्वादिरवस्थान्तरमिष्यते ।

विजातीयान्तरावस्था चेत्तत्त्वान्तरमीर्यते ॥ ४.४०॥

इत्थमव्यक्तमहदहङ्कारेन्द्रियनामकैः ।

तन्मात्राणीति तत्त्वानि चतुर्विंशतिधाभवन् ॥ ४.४१॥

भोग्यभोगोपकरणभोगस्थानानि चेशितुः ।

जीवस्य च प्रकृत्यादीन्युद्भवन्ति यथायथम् ॥ ४.४२॥

विषयो भोग्यमक्ष्यादि भोगोपकरणं मतम् ।

भोगस्थानं तु भुवनं तद्वर्तीन्यण्डजानि हि ॥ ४.४३॥

एवं पञ्चीकृतैर्भूतैरारब्धं प्राकृतं भवेत् ।

कपित्थफलकाकारमण्डं नाम निगद्यते ॥ ४.४४॥

जम्बूद्वीपमिदं सर्वं लवणोदधिनावृतम् ।

प्लक्षद्वीपं ततोऽपीक्षुसमुद्रेण प्रवेष्टितम् ॥ ४.४५॥

ततस्तु शाल्मलिद्वीपं सुरासागरवेष्टितम् ।

कुशद्वीपं ततः सर्पिः समुद्रेण प्रवेष्टितम् ॥ ४.४६॥

क्रौञ्चद्वीपं ततः पश्चाद्दध्यर्णवसमावृतम् ।

शाकद्वीपं ततः क्षीरसमुद्रेण प्रवेष्टितम् ॥ ४.४७॥

पुष्करद्वीपमभितः शुद्धाम्बुधिसमावृतम् ।

सर्वमेतद्धैमभूम्या ततो वलयपर्वतः ॥ ४.४८॥

अन्धकारावृतः सोऽपि सोऽपि गर्भोदकेन च ।

ततोऽण्डमेकमेवं स्याद्भूमेरूर्ध्वमधोऽपि च ॥ ४.४९॥

अण्डान्येतादृशानि स्युरनन्तानि महाहरेः ।

जलबुद्बुदकल्पानि पुराणोक्तान्यनुक्रमात् ॥ ४.५०॥

॥ इति वेदान्तकारिकावल्यां प्रकृतिनिरूपणं नाम चतुर्थं प्रकरणम् ॥

( अथ कालनिरूपणं नाम पञ्चमं प्रकरणम् )सम्पाद्यताम्

गुणत्रयविहीनो यः स जडः काल उच्यते ।

अखण्डखण्डभेदेन स कालो द्विविधो मतः ॥ ५.१॥

आद्यो विभुर्भूतभाविवर्तमानत्वधीकरः ।

निमेषादिप्रभेदेन बहुभेदस्त्वसौ मतः ॥ ५.२॥

अखण्डकाल एवायं नित्य इत्यवगम्यते ।

कालः स्वकार्यं प्रति तु स्यादुपादानकारणम् ॥ ५.३॥

कार्यरूपस्ततो नैव नित्य इत्यवधार्यताम् ।

लीलाविभूतावीशानः कालमालम्ब्य कार्यकृत् ॥ ५.४॥

एष नित्यविभूतौ तु न कालमवलम्बते ।

क्रीडापरिकरः सोऽयं कालस्तु परमात्मनः ॥ ५.५॥

नित्यनैमित्तिकप्राकृतलयाः कालहेतुकाः ।

एवं प्रकाशितं कालस्वरूपस्य निरूपणम् ॥ ५.६॥

॥ इति वेदान्तकारिकावल्यां कालनिरूपणं नाम पञ्चमं प्रकरणम् ॥

( अथ नित्यविभूतिनिरूपणं नाम षष्ठं प्रकरणम् )सम्पाद्यताम्

शुद्धसत्त्वे धर्मभूतज्ञानजीवेश्वरेषु च ।

अजडत्वं भवेल्लक्ष्म तत्पुनः स्वप्रकशता ॥ ६.१॥

पराक्त्वे सत्यजडता लक्ष्म प्रथमयोर्मतम् ।

परस्मै भासमानत्वं पराक्त्वमनुगद्यते ॥ ६.२॥

सत्त्वैकमूर्तिको देशः शुद्धसत्त्वमचेतनम्

परिच्छिन्नमघो देशेऽनन्तमूर्ध्वप्रदेशतः ॥ ६.३॥

स्वयम्प्रकाशरूपेयं पञ्चोपनिषदात्मिका ।

विष्णोर्नित्यविभूतिः स्यान्नित्यमानन्दरूपिणी ॥ ६.४॥

सेयं विभूतिरीशस्य नित्यमुक्तात्मनामपि ।

भोग्यभोगोपकरणभोगस्थानमयी मता ॥ ६.५॥

भोग्यमीश्वरदेहादि द्वितीयं चन्दनादिकम् ।

भोगस्थानं तु माणिक्यगोपुरादिकमुच्यते ॥ ६.६॥

देहा ईश्वरनित्यानां नित्येच्छाकल्पिता हरेः ।

मुक्तानां तु शरीरादिस्तत्सङ्कल्पकृतो मतः ॥ ६.७॥

श्रीपतेर्व्यूहविभवार्चावतारतया सतः ।

अप्राकृतशरीराणि प्रतिष्ठानन्तरं हरेः ॥ ६.८॥

प्रसादोन्मुखतापत्तौ प्रकटानि भवन्ति हि ।

तच्च प्रकटनं तस्य सङ्कल्पाधीनमीर्यते ॥ ६.९॥

प्राकृताप्राकृततनुसंसर्गः कथमित्यलम् ।

रामकृष्णावतारादौ दृष्टत्वात्तस्य भूयसा ॥ ६.१०॥

औज्ज्वल्यादिगुणे ये तु दिव्यमङ्गलविग्रहे ।

हरेस्तांस्तु विजानीहि गद्यत्रयविचारतः ॥ ६.११॥

मुक्तानामशरीरत्ववचनं यत्तु दृश्यते ।

तत्कर्मकृतशारीरसम्बन्धाभावगोचरम् ॥ ६.१२॥

निरूपयन्ति श्रीनाथदिव्यमङ्गलविग्रहम् ।

पुराणोक्तक्रमादस्मादाद्यवेदान्तदेशिकाः ॥ ६.१३॥

त्रिपाद्विभूतिवैकुण्ठपरव्योमादिशब्दिता ।

विभूतिरियमीशस्य महती सुमहीयते ॥ ६.१४॥

द्वादशावरणोपेतमनेकशतगोपुरम् ।

वैकुण्ठं नाम नगरमेतस्यां प्रविजृम्भते ॥ ६.१५॥

आनन्दनामकस्तत्र सुदिव्यनिलयः स्फुटः ।

तत्र रत्नमयस्तम्भसहस्रा भासते सभा ॥ ६.१६॥

अनन्तस्तत्र च फणामणितेजोविराजितः ।

तस्मिन् धर्मादिसहितसिंहासनमुपस्थितम् ॥ ६.१७॥

तत्र चामरवद्धस्तैर्विमलादिभिरर्चितम् ।

पद्ममष्टदलं भाति तत्र शेषोऽस्ति धीमयः ॥ ६.१८॥

तत्रानन्दमयः साक्षात्सर्ववाचामगोचरः ।

अद्भुतज्योतिराकारो भाति नारायणात्मना ॥ ६.१९॥

॥ इति वेदान्तकारिकावल्यां नित्यविभूतिनिरूपणं नाम षष्ठं प्रकरणम् ॥

( अथ धर्मभूतज्ञाननिरूपणं नाम सप्तमं प्रकरणम् )सम्पाद्यताम्

धर्मो भवति यज्ज्ञानं प्रभा दीपे यथात्मनोः ।

तद्धर्मभूतविज्ञानं नित्यं नित्येश्वरेषु तत् ॥ ७.१॥

बद्धेषु तत्तिरोभूतं मुक्तेषु प्राक्तिरोहितम् ।

सङ्कोचनविकासाभ्यां नाशोत्पत्तिविपाकभाक् ॥ ७.२॥

सङ्कोच इन्द्रियद्वारा ज्ञानं सङ्कोच्यते यदि ।

विकास इन्द्रियद्वारा ज्ञानप्रसरणाद्भवेत् ॥ ७.३॥

स्वप्रकाशं स्वतो मानमेतदित्यत्र सम्मतम् ।

स्वान्यनिर्वाहकत्वेन दीपवत्स्वप्रकाशता ॥ ७.४॥

तमोविशेषसान्निध्याज्ज्ञानं स्वापे तिरोहितम् ।

द्रव्यत्वमस्य ज्ञानस्य प्रभावद्गुणतापि च ॥ ७.५॥

धीभेदाः सुखदुःखेच्छाद्वेषयत्ना न ते पृथक् ।

द्वेष्मीच्छामीति वादस्तु स्मरामीत्यादिवन्मतः ॥ ७.६॥

स्मृत्यादयो ज्ञानभेदा अनन्ता जीववृत्तयः ।

ज्ञानशक्त्योर्विततयोऽनन्ताश्च भगवद्गुणाः ॥ ७.७॥

गद्यत्रये महाचार्यैरयमर्थ उदीरितः ।

तत्तत्स्वरूपविज्ञानं तद्भाष्येणावगम्यते ॥ ७.८॥

भक्तिप्रपत्तिसुप्रीत ईश्वरो मुक्तिदायकः ।

अतो भक्तिप्रपत्ती हि मुक्तौ परमकारणम् ॥ ७.९॥

कर्मयोगज्ञानयोगौ भक्तिसाधनमूचिरे ।

फलाभिसन्धिरहितं कर्माराधनमीशितुः ॥ ७.१०॥

विनिर्मलान्तःकरणे चिन्तनं ज्ञानयोगकः ।

साक्षादितरथा वापि भक्तौ कारणतानयोः ॥ ७.११॥

भक्तियोगोऽमष्टाङ्गोऽविच्छिन्ना स्मृतिसन्ततिः ।

विवेकादिभिरूत्पाद्या दर्शनाकारतां गता ॥ ७.१२॥

तत्तच्छरीरावसानसमये परिणामिनी ।

सेयं साधनभक्तिः स्यात्प्रपत्त्यङ्गवती मता ॥ ७.१३॥

फलभक्तिस्तु भगवदनुग्रहकृता भवेत् ।

अत एव हरिः साक्षात्सिद्धोपायत्वमश्नुते ॥ ७.१४॥

अन्तरादित्यविद्यादिभेदात्सा बहुधा मता ।

सर्वापि ब्रह्मविद्येयं ब्रह्मप्राप्त्युपयोगिनी ॥ ७.१५॥

न्यासविद्या प्रपत्तिः स्यादङ्गपञ्चयोगिनी ।

आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ॥ ७.१६॥

रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ।

आत्मनिक्षेपकार्पण्ये अङ्गपञ्चकमीरितम् ॥ ७.१७॥

गुरूपसदनादेषा विज्ञातव्या मनीषिभिः ।

इयमुत्तरपूर्वाघाश्लेषनाशकृदुच्यते ॥ ७.१८॥

अपचारान्विना ब्रह्मविदां नास्या विरोधकृत् ।

अन्योऽस्तीति महाचार्यशासनं व्यवसीयते ॥ ७.१९॥

॥ इति वेदान्तकारिकावल्यां धर्मभूतज्ञाननिरूपणं नाम सप्तमं प्रकरणम् ॥

( अथ जीवनिरूपणं नामाष्टमं प्रकरणम् )सम्पाद्यताम्

अणुत्वे सति चैतन्यं जीवलक्षणमुच्यते ।

स च देहेन्द्रियादिभ्यो विलक्षणतया मतः ॥ ८.१॥

जीवस्यानेकविषयानुभवोऽणोरपि स्फुटः ।

यद्धर्मभूतविज्ञानव्याप्तिस्तत्रोपयोगिनी ॥ ८.२॥

पूर्वानुभूतविषयप्रतिसन्धानयोगतः ।

नित्यः प्रतिशरीरं स भिन्नो भोक्त्रादिशब्दतः ॥ ८.३॥

प्रकृत्यपेक्षया देही देहः श्रीमदपेक्षया ।

तस्य स्वयप्रकाशत्वं प्रत्यक्षश्रुतिबोधितम् ॥ ८.४॥

देशान्तरफलादीनामुपलब्धिरणोरपि ।

कर्मजन्याददृष्टाख्यविज्ञानादिति सञ्जगुः ॥ ८.५॥

बद्धो मुक्तो नित्य इति जीवः स त्रिविधो मतः ।

ब्रह्मादिकीटपर्यन्ता बद्धाः संसारयोगिनः ॥ ८.६॥

त्रैवर्गिकार्थनिष्णाता बुभुक्षव उदाहृताः ।

अर्थकामपरास्तत्र स्वदेहात्माभिमानिनः ॥ ८.७॥

ते तु धर्मपरास्तत्र यागाद्यर्थानुषङ्गिणः ।

धर्मस्त्वलौकिकश्रेयःसाधनं चोदनोदितम् ॥ ८.८॥

रुद्राद्याराधनपरा अन्यदेवपरा मताः ।

आर्तो जिज्ञासुरर्थार्थीत्येवं भागवताः स्मृताः ॥ ८.९॥

मुमुक्षूणां च कैवल्यपराणां लक्ष्म कथ्यते ।

प्रकृतेस्तु वियुक्तस्य स्वात्मनोऽनुभवः परम् ॥ ८.१०॥

कैवल्यमर्चिर्मार्गेण गत्वापि परमं पदम् ।

रमणत्यक्तपत्नीवत् क्वचित्कोणेऽवतिष्ठते ॥ ८.११॥

कैवल्यमेतत्केषाञ्चिदार्याणामेव सम्मतम् ।

अस्मदार्यास्तु कैवल्यं न मन्यन्त इति स्थितम् ॥ ८.१२॥

भक्ताः पूर्वोक्तभक्त्यैव मुक्तिसम्प्राप्त्यपेक्षिणः ।

अपशूद्रनये भक्तौ शूद्रानधिकृतिः स्फुटा ॥ ८.१३॥

साध्यसाधनभक्तिभ्यां भक्ताः स्युर्द्विविधा मताः ।

पराङ्कुशादिकानाद्यान् व्यासादीनपरान् विदुः ॥ ८.१४॥

मुमुक्षवः प्रपन्नाश्चाकिञ्चन्यादिकयोगिनः ।

त्रैवर्गिकपरा मोक्षपराश्चेति च ते द्विधा ॥ ८.१५॥

धर्मार्थकामान् स्वाम्यर्थं येऽन्वतिष्ठंस्त आदिमाः ।

सत्सङ्गादर्थवैराग्ये मुमुक्षायां कृतादराः ॥ ८.१६॥

भगवद्भोगसम्प्राप्स्यै महाचार्यं समाश्रिताः ।

असामर्थ्येन भक्त्यादौ प्रपत्त्येकाश्रयाः परे ॥ ८.१७॥

सर्वाधिकारितां धीराः प्रपत्तेराचचक्षिरे ।

एकान्तिनः फलं मुक्त्या सहान्यद्य उशन्ति ते ॥ ८.१८॥

परमैकान्तिनस्त्वैच्छन् भगवत्प्रीतिमेव ये ।

प्रारब्धं कर्म भुक्त्वैव यो मोक्षमभिकाङ्क्षति ॥ ८.१९॥

दृप्त आर्तस्त्य संसारे वह्नाविव समुत्तपन् ।

प्रपत्त्यनन्तरे काले यो मोक्षमभिकाङ्क्षति ॥ ८.२०॥

सत्सङ्गादिति सुश्लोकद्वयोक्तगतिमान्नरः ।

आविर्भूतस्वस्वरूपो मुक्तो ब्रह्मानुभूतिभाक् ॥ ८.२१॥

मुक्तस्य भोगमात्रे तु साम्यं श्रुतिषु चोदितम् ।

स्वेच्छया सर्वलोकेषु सञ्चारोऽस्य न रुध्यते ॥ ८.२२॥

स्वेच्छा च हरिसङ्कल्पायत्ता मुक्तस्य लभ्यते ।

अनावर्तनशास्त्रं तु कर्मावर्तनिषेधकृत् ॥ ८.२३॥

नित्यासङ्कुचितज्ञाना नित्यं भगवदाज्ञया ।

तत्कैङ्कर्यरता नित्या अनन्तगरुडादयः ॥ ८.२४॥

एतेषामवतारादिरिच्छयैव हरेरिव ।

आधिकारिकतामीषामीश्वरेण निरूपिता ॥ ८.२५॥

॥ इति वेदान्तकारिकावल्यां जीवनिरूपणं नामाष्टमं प्रकरणम् ॥

( अथ ईश्वरनिरूपणं नाम नवमं प्रकरणम् )सम्पाद्यताम्

स्वेतराखिलशेषित्वमीश्वरस्य तु लक्षणम् ।

स सूक्ष्मचिदचिन्मिश्रो विश्वोपादानकारणम् ॥ ९.१॥

सङ्कल्पयुक्त एवैष निमित्तं कारणं मतम् ।

कालाद्यन्तर्यामितया सहकारि च कारणम् ॥ ९.२॥

कार्यरूपेण वैविध्ययोग्युपादानमुच्यते ।

परिणामयितृत्वेन निमित्तमपि तन्मतम् ॥ ९.३॥

कार्योत्पत्त्युपकारेण सहकारि च तद्भवेत् ।

एकविज्ञानसहितसर्वविज्ञानवादतः ॥ ९.४॥

उपादानत्वमेवोक्तं मृदादाविव चेश्वरे ।

तदैक्षतेति सङ्कल्पान्निमित्तत्वं कुलालवत् ॥ ९.५॥

सहकारित्वमप्यस्यान्तर्यामिब्राह्मणोदितम् ।

सद्ब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः ॥ ९.६॥

तत्र च्छागपशुन्यायान्नारायणपरा मताः ।

नामरूपविभागानर्हत्वावस्थासमन्वितम् ॥ ९.७॥

सुसूक्ष्मचिदचिद्युक्तमेकं ब्रह्मात्मकं मतम् ।

नामरूपविभागात्प्राङ् न हि भेदोऽवसीयते ॥ ९.८॥

मृद्घटादावपि ततस्तदेकमिति गीयते ।

नामरूपाद्यभावेन सच्छब्देनापि गीयते ॥ ९.९॥

तदेवान्तःप्रवेशेन नामरूपविभागकृत् ।

यथा जीवोऽन्तराविष्टो नामरूपविभागभाक् ॥ ९.१०॥

देवोऽहमिति शब्दैश्च मुख्यवृत्त्याभिधीयते ।

यथा नीलादयः शब्दा नीलाद्यव्यभिचारिणम् ॥ ९.११॥

विशिष्टमेव मुख्यार्थं वदन्ति निरुपाधिकम् ।

तथैव भगवानन्तर्यामी सन्नामरूपयोः ॥ ९.१२॥

विभागकृत्स तैः शब्दैर्मुख्यवृत्त्याभिधीयते ।

अमुख्यार्थत्वमेतेषां परैरुक्तं न युक्तिमत् ॥ ९.१३॥

शरीराद्यपृथग्भावाच्छब्दा निष्कर्षकेतरे ।

विशिष्टमेव श्रीमन्तमभिधास्यन्ति तत्त्वतः ॥ ९.१४॥

सर्वं ब्रह्मेत्यैतदात्म्यमित्यादिव्यपदिष्टयः ।

सामानाधिकरण्येन संयुज्यन्तेऽत एव हि ॥ ९.१५॥

स्वरूपभिदया भेदश्रुतयोऽस्मन्मते स्थिताः ।

विशिष्टाभेदतोऽभेदश्रुतयोऽपि सुनिर्वहाः ॥ ९.१६॥

कारणात्सूक्ष्मचिदचिद्युक्तात्स्थूलैतदाहितम् ।

कार्यं नान्यदिति व्यक्तमारम्भणनयादिषु ॥ ९.१७॥

निर्गुणत्वपराः काश्चिच्छ्रुतयः सन्ति ता इमाः ।

तद्धेयगुणराहित्यं बोधयन्ति ततो ध्रुवम् ॥ ९.१८॥

॥ इति वेदान्तकारिकावल्यामीश्वरनिरूपणं नाम नवमं प्रकरणम् ॥

( अथ अद्रव्यनिरूपणं नाम दशमं प्रकरणम् )सम्पाद्यताम्

द्रव्यमेवं निरूप्याथ तदद्रव्यं निरूप्यते ।

शुद्धसत्त्वं मिश्रसत्त्वमिति सत्त्वं द्विधा मतम् ॥ १०.१॥

रजस्तमोभ्यामस्पृष्टमद्रव्यं पूर्वमुच्यते ।

रजस्तमोविमिश्रं तु मिश्रसत्त्वं प्रकीर्तितम् ॥ १०.२॥

अतीन्द्रियं प्रकाशादिनिदानं सत्त्वशब्दितम् ।

रजो लोभप्रवृत्त्यादिनिदानं कीर्त्यते तमः ॥ १०.३॥

प्रमादमोहादिहेतुस्त्रैगुण्यस्य निरूपणम् ।

लये समानि चैतानि विषमाण्युदयादिषु ॥ १०.४॥

श्रोत्रग्राह्यो गुणः शब्दो वर्णावर्णात्मना द्विधा ।

तालुभेर्यादिजत्वेन भूतपञ्चकवर्त्यसौ ॥ १०.५॥

स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्यादिचतुष्टये ।

शीतोष्णादिप्रभेदस्तु शास्त्रान्तरनिरूपितः ॥ १०.६॥

चक्षुरिन्द्रियनिर्ग्राह्यं रूपमेतच्चतुर्विधम् ।

श्वेतरक्ते पीतकृष्णे इति भेदाद्विधादिमम् ॥ १०.७॥

भास्वराभास्वरत्वाभ्यां भास्वरं तेजसि स्थितम् ।

पृथिवीजलयोश्चैतदभास्वरमुदाहृतम् ॥ १०.८॥

रसनेन्द्रियनिर्ग्राह्यो रसः षोढा स कीर्तितः ।

घ्राणग्राह्यो गुणो गन्धो द्विधा शास्त्रान्तरेष्विव ॥ १०.९॥

पृथिव्यामेव गन्धः स्यात्पृथिवीजलयो रसः ।

पृथिवीजलतेजःसु रूपं स्पर्शः सवायुषु ॥ १०.१०॥

शब्दः पञ्चसु भूतेषु प्राधान्येनैवमुच्यते ।

पञ्चीकरणरीत्या तु सर्वे सर्वत्र सङ्गताः ॥ १०.११॥

संयुक्तप्रत्यये हेतुः संयोग इति कथ्यते ।

कार्याकार्यप्रभेदेन स संयोगो द्विधा मतः ॥ १०.१२॥

मेषहस्तादिसंयोगः कार्योऽकार्यो विभोर्विभोः ।

विभुद्वयस्य संयोगः श्रुत्या युक्त्या च मन्यते ॥ १०.१३॥

तस्मात्कालस्येश्वरेण संयोगोऽपि सुसम्मतः ।

संयोगाभावरूपो हि विभागो न गुणान्तरम् ॥ १०.१४॥

सर्वहेतुषु हेतुत्वनिर्वोढ्री शक्तिरिष्यते ।

मणिमन्त्रादिकेष्वेषा प्रसिद्धा सा त्वतीन्द्रिया ॥ १०.१५॥

बुद्ध्यादयोऽष्टौ विज्ञाने भावना चान्तराविशन् ।

द्रवत्वस्नेहसङ्ख्यानपरिमाणानि वेगकः ॥ १०.१६॥

द्रव्यस्वरूपरूपत्वान्नाधिक्यं यान्ति केवलम् ।

स्थितस्थापकमेतस्मिन् संयोगेऽन्तर्भवत्यतः ॥ १०.१७॥

संयोगाभावरूपत्वात्पृथक्त्वस्य विभागवत् ।

गुरुत्वस्यापि शक्तित्वान्नाधिक्यं क्वापि विद्यते ॥ १०.१८॥

कर्मणामपि शक्तित्वं केचिदाहुर्मनीषिणः ।

पदार्थान्तरतामन्ये प्राहुर्वेदान्तवेदिनः ॥ १०.१९॥

प्राचीनग्रन्थपदवीमनुसृत्य यथामति ।

विशिष्टाद्वैतसिद्धान्तफक्किकेत्थं निदर्शिता ॥ १०.२०॥

अण्णयार्याध्वरीन्द्रस्य तार्तीयीकतनूभुवा ।

श्रीमद्वेङ्कटदासेन निर्मिता कारिकावली ॥ १०.२१॥

निरमायि रमायत्तपरमाद्भुततेजसः ।

मुदमाधातुकामेन मयेयं कारिकावली ॥ १०.२२॥

भक्तिप्रपत्त्योरधिदेवताभ्या-

मिवाब्जनाभस्य पदाम्बुजाभ्याम् ।

समर्पयेऽस्मन्मतकारिकावलीं

तदङ्गुलीसङ्ख्यनिरूपणाढ्याम् ॥ १०.२३॥

यः श्रीमच्छठमर्षणान्वयपयः सिन्धोः सुधांशुर्महा-

नण्णार्यः समभूद्विभूषितचतुस्तन्त्रो वचःकान्तिभिः ।

तस्यासौ तनयः समार्जितनयः श्रीवेङ्कटार्यः सुधीः

श्रुत्यन्तान्वयकारिकालिमकरोत्प्रीत्यै महत्यै सताम् ॥ १०.२४॥

॥ इति वेदान्तकारिकावल्यामद्रव्यनिरूपणं नाम दशमं प्रकरणम् ॥

(प्रमेयनिरूपणं समाप्तम्)

॥ इति श्रीबुच्चिवेङ्कटाचार्यकृता वेदान्तकारिकावली समाप्ता ॥