उत्तररामचरितम् (वीरराघवकृतटीकासहितम्)

उत्तररामचरितम् (वीरराघवकृतटीकासहितम्)
[[लेखकः :|]]

॥श्रीः॥

महाकविश्रीभवभूतिप्रणीतं

उत्तररामचरितम् ।

वीरराघवकृतया दीकया समेतम् ।


मूल्यं रूप्यकपादत्रयम् ।

THE

UTTARA-RAMACHARITA

OF

BHAVABHUTI

WITH

The Commentary of Viraraghava.


EDITED

BY

T.R RATNAM AIYAR, B. A.,

HORDIRLY PRONESSSOR OF MATHEMATICS & SANSKRIT

S. P.G COLLECE, TRICHINOPOLY,

AND

KASINATH PANDURANG PARAB.


SECOND EDITION.


PRINTED AND PUBLISHED

TUKARAM JAVAJI,

PROPPIRTOR OF JAVAJI DADAIt's NIRHAYA-SAGARA

Bombay:


1903


Price 12 Annas

पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३
उत्तररामचरितम्।

प्रथमोऽङ्कः।

  इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।
  वन्देमहि च तां वाणीममृतामात्मनः कलाम् ॥ १ ॥

तलस्पर्शिनी।

पुरि भुवि महितायां भूमिलाराभिषावामधिमुनिभृगुतीर्थोपान्तमाबद्धखेलम् ।
किमपि नतशरण्यं मङ्गल मावलीजगदधिपतिसंज्ञं द्वन्द्वमानन्दयेन्नः ॥

  ज्ञानं सर्वपराधीनं तद्धेतुश्चेद्धयाननः ।
  स चेद्भक्तपराधीनस्त विना कं ब्रजाम्यहम् ॥
  भूसारपुरवास्तव्यो वाधूलो वीरराघवः ।
  भवभूतिकृति हृद्यां व्याचष्टे करुणामयीम् ॥
  भवभूतेः कवीन्द्रस्य व गम्भीरो गिरां भरः ।
  क्व मन्मतिरतिस्थूला सहायोऽत हयाननः ॥
  आपल्यमथवा बाल्यं कृतावस्यां प्रवर्तकम् ।
  तथापि कृपया सन्तः संतन्वन्तां शुभां दृशम् ॥

 अथ तत्रभवान्भवभूति म कविकण्ठीरवः 'एकः शब्दः सम्यग्ज्ञातः सुघुप्रयुक्तः स्वर्ग लोके कामधुरभवति' इत्यादिश्रुत्या परिनिष्ठितशब्दप्रयोगस्य धर्मत्वमवगच्छन् , 'काव्य यशसेऽर्थकृते' इत्यादिना काव्यरूपस्य तस्य प्रकर्ष विभाव्य 'शैवा बच न खलु तत्र विचारणीय पञ्चाक्षरीजपपरा नितरां तथापि । चेतो मदीयमतसीकुसुमावभासं स्गेराननं सरति गोपवधूकिशोरम् ॥' इत्यादिन्यायेन अङ्करितभगवद्भक्तिकतया 'स वाग्विसौं जनतापविश्लदो यस्मिन्प्रतिश्लोकमबवत्सपि । नामान्यनन्तस्य यशोऽक्षितानि शृण्वन्ति गायन्ति गृणन्ति सन्तः ॥' इत्यादिन्यायेन 'प्रबन्धानां प्रबन्धणामपि कीर्तिप्रतिष्ठयोः । मूल विषयभूतस्य नेतुर्गुणनिरूपणम् ॥' इत्यादिन्यायेन च भगवद्गुणान्विवक्षुः, तत्रापि 'यदि क्षुग्ण पूर्वरिति जहति रामस्य चरितम्' इत्यादिन्यायेन रामकथा प्रतिपिपादयिषुः, ट्यस्य श्राब्यापेक्षया 'देवानामिदनामनन्ति मुनयः कान्तं क्रतुं चाक्षुषम्' इत्युक्तनाट्याश्रयत्वप्रयुक्तप्राधान्याप्रकरणादीनां यथायथं रसवस्तुनायकापकर्षात्तत्प्रकर्षानाटक चिकीर्षुः, पूर्वचरितस्य महावीरचरितत्वेन वर्णितस्वात उत्तर चरित वर्णचितुमभिसंधाय पूर्वरङ्गप्रधानाङ्गभूतां नान्दीमाह--इदं कविश्य इति । 'इद' 'कविभ्यः' इति पदद्यमिदम् । अतो द्वादशपदत्वसिध्या न नान्दीपदनियममङ्गः । इदमिति चोद्देश्यसमर्पक द्वितीयान्त विशेष्यवाचकम्, नमोवाक

मिति च विधेयसमर्पक विशेषणवाचकं च । तथा च इद प्रारिप्सितग्रन्थादी चिकीर्षितत्वेन बुद्धिस्थ मङ्गलं पूर्वेभ्यः कविभ्यो ननोवाकं प्रशास्महे । पूर्वकालप्रसिद्धनाचेतसादिकविविषयकनमउतिं निर्दिशामः-इति वाक्यार्थः । 'प्रशासनं तु निर्देशः' इति कोशः । आशासु इच्छायाम्' इति धातोः अपूर्वकत्वं प्रायिकमित्युक्तेः प्रपूर्वकस्वेनेच्छार्थकत्व च । 'नमउक्तिर्ननोवाक.' इति कोशः । भावे घञ् । कुत्वम् । एत मङ्गलोद्देश्यकपूर्वकविविषयकनमडक्ति विधेयकबोधजनकशब्दप्रयोगवानहम्, एतन्मगलोद्देश्यकपूर्वकविविषयकनमोवाकविधेयकेच्छावानहम्, इत्यन्वयबोधः । नमोवाकमिल्यतैकदेशनमःशब्दापेक्षया कविभ्य इति चतुर्थी । 'नमःखरित--' इत्याद्यनुशासनात् । अत्र नान्दीप्रभृतिप्रशस्तिरूपचरमाङ्कपर्यन्तस्य कर्तव्यस्य बुद्धिस्थत्वेऽपि प्रत्यासत्तिन्वायानमोवाकमिति विधेयानुसाराच मङ्गलसौव इदंपदेन विवक्षा । इदमिति त्र सामान्ये नपुंसकम् । नमोवाकमिति तु पुंलिङ्गम् । तथा च-शुक्ति रजतं जानातीयादाविव विशेष्यनिन्नत्वाभादेन समानलिहत्वाप्रसक्त्या न तद्वाधरूपदोषः । इदं नमोवाकमित्यत्र नमोवाकमित्वस्य विशेष्ववाचकत्वमभ्युपगम्य तद्विशेषणवाचकस्य

इदंपदस्य सामान्ये नपुंसकत्वाश्रवणे तु विशेष्यविशेषणवाचकपदयोः समानलिनत्वं बाधितव्यम् इत्यस्वारस्यम् । इदंपदप्रयोजनं च मृग्यं स्यात् । उक्तरीत्याश्रयणे तु मालतीमाधबादौ भन्यादृशमङ्गलेच्छायामपि एतनाटककर्तव्यमङ्गलं पूर्वकविविषयकमनोवाकमिच्छाम इत्यर्थलाभेन सप्रयोजनत्वम् । विशेष्यविशेषणवाचकयोः समानलिनत्ववाधाभावश्चेति न दोष इति बोध्यम् । अत्र पूर्वेभ्यः कदिभ्यो नमोवाकमिदं प्रशास्महे इति योजयित्वा पूर्वकविविषचकनमोवाकरूपमेतन्मालमिच्छाम इत्युद्देश्यभावविरहेण पक्षान्तरगपि । अत्रापि इदमिति सामान्ये क्लीबम् । नमोवाकमिति च पुलिङ्गमेव । 'राज्यश्रीप्रथमावतारपदवीमारुय सिहासनम्' इलादाविव विशेष्यनिम्नत्वाभावेन समागलिङ्गक्रत्वप्रसक्तः । अमालानुवर्तनपुरःसरराजदर्शनन्यायेन गुणकृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति । तत्र गुणोऽपि संस्कारमनुभवतीति न्यायेन, कविनमस्कारानन्तरं बाणी नमस्करोति-वन्देमहीति । एतेन अनुप्राहकवाणीनमस्कारात्पूर्वमनुप्राह्यमाचेतसादिनमस्कारायोगः इत्यपास्तम् । 'भगवद्वन्दनं त्वाद्यं गुरुवन्दनपूर्वकम्' इति विवेच । 'मधुमयफणितीनां मार्गदशी महर्षि.', 'काव्यज्ञशिक्षयाभ्यासः' इति च प्राचेतसादीनां गुरुत्वानपायाध । तां प्रसिद्धा पूर्वोजनमस्कारार्हत्वेन बुद्धिस्थामिति वा । अमृतां शाश्वतीम् । 'यज्ञशेषसुधामोक्षेध्वमृतं शाश्वते त्रिषु' इत्यभिधानात् । अत्र यज्ञशेषसुधामोक्षस्वरूपति कश्चित् । तन । अन्तामिति नीत्वालाभात् । तल्भेऽपि वरूपामित्यर्थालाभात् । आत्मनः परमात्मनः श्रियः पत्युः कलामंशभूताम् । विग्रहाध्याये तथा प्रतिपादनात् हयग्रीवांशत्वाच्च । तदुक्तमाचार्य:--'दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तब शक्तिलेशैः ॥ इति। वाणीं वन्देमहि च प्रणमाम च । वन्दतेर्लिंडयुत्तमपुरुषबहुवचनम् । पूर्वोक्तप्रशासनसमुचायकश्चकारः । अत्र पूर्वार्ध सर्वलोकनमस्कार्याः पूर्वकालासिद्धाः प्राज्ञाः केन्विा इति सूच्यते । लोकनमस्कार्या इत्यनेन धूर्तवण्यकमाणादिव्यावृत्तिः । पूर्वेत्यनेन कल्पितषर्यकप्रकरणादिव्यावृत्तिः । भरतस्य च न्काप्यव

नातू रामलक्ष्मणशत्रुघ्नानां त्रयाणामेत्र कथांशोपयोगित्वेनात्र बहुवचनस्य कपिजलाधिकरणन्यायेन नित्वपर्यवसानमव्याहतम् । कविभ्य इबनेन यथा कविषु बाल्मीकेराद्यत्वेन प्राधान्यम् । अन्येषामानन्तर्यादप्राधान्यम् । एवं तत्सूचितवण्यांनां मध्ये रामचन्द्रस्य वर्णनाया ज्येष्ठत्वेन प्राधान्चं लक्ष्मणादेश्चाप्राधान्यमिति सूचितम् । एव च नानेकनेतृत्वप्रयुक्तनाटकबहानिः । अतएव लक्ष्मणशत्रुघ्नयोरुवसर्जनत्वावगमात् । सीता- परित्यागे लक्ष्मणप्रेषणस्य लवणवधार्थ शत्रुघ्नप्रेषणस्य च ध्वननात्प्रथमावार्थः सूच्यते । उत्तराधै प्राज्ञी काचन स्त्री वर्धत इति सूचितम् । आत्मनः कलामित्यनेन तस्या देवतांशसंभवत्वं कस्यचिद्धर्मपत्नीत्वं च सूच्यते । 'अधौ वा एष आत्मनो यत्पत्नी' इति पत्न्या अवयवखोपचारात् । कलाशब्दस्यावयादवाचित्वात् । अतएव नायकस्यापि देवतांशसंभवत्वं सूच्यते । देवतांशसंभूतस्त्रियं प्रति तादृशस्यैव नाचकस्यौचित्लात् । अमृतामिति मरणस्य प्रसक्तिपूर्वकप्रतिषेधाद्गलापतनसंभावितस्य सीतामरणस्य गमाथिवीभ्यां सह तदागमनेन भावनिश्चयरूपो द्वितीयाप्रभृतिसप्तमाकान्तार्थः सूच्यते । नमस्कारसमुचयेन समप्राधान्यावगमाच्छाकुन्तलादाविव नासाध्याया वर्णत्वम् । अपि तु साध्याया एव वर्ण्यत्वमिति सूच्यत इति सुधियो विभावयन्तु । अस्य श्लोकस्य योजनान्तरमपि---इदमित्यादि । 'इदंकविभ्यः' इत्येक पदम् ! 'नमः' 'वाकम्' इति च पदद्वयम् । एतेन द्वादशपदत्यसिद्ध्या न नान्दीनियमहानिः । अयमर्थ:--पूर्वेभ्यः प्राचीनेभ्य इदकविभ्योऽस्या बुद्धिस्थरामकथायाः कविभ्यः । रामकथासंवन्धिकविभ्य इत्यर्थः । वाल्मीकिवसिष्ठादिभ्य इति तदर्थः । कथाया बुद्धिस्थत्वात् 'पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेय कथा' इत्युपसंहारे वक्ष्यमाणत्वाच्च इदंशब्देन परामर्श इत्युपपन्नम् । प्राथमिककथादर्शित्वरूपमुपकारं ख्यापयितुं पूर्वेभ्य इत्युक्तम् । कथान्त रकविनमस्कारे प्रयोजनाभावात् इदंकविभ्य इत्युक्तम् । उच्यतेऽनेनेति वाकमुक्तिसाधनीभूतम् । कवर्चश्यवाक्त्वेऽपि पारिप्सितग्रन्यसमाप्तौ कविनमस्कारस्य साधनत्वे तात्पर्यम् । करणे धञ् । तस्य चोपदेशाप्रवृत्तावित्यत्रैव बाहुलकत्वम् । अन्यथा ल्युटा भाव्यम् । 'संज्ञायामिति न्द प्राचिकम्' इत्युक्तत्वान्न दोषः । यद्वा उच्यते यत्तद्वाकम् । कर्मणि धन् । 'अकर्तरि च कारके' इत्यनुशासनात् । बाचिकं नमः प्रशास्महे इच्छामः

निर्दिशाम इति वा । तां पूर्वोपस्थितां प्रवृत्तिनिमित्तविधयायाः कविपदेनोपस्थितेः । अमृतामानुपूयौन्नित्याम् । शब्दस्य निलत्वपक्षे स्वरूपेण नित्यामित्यर्थः । यद्वा अमृत मोक्षस्तदस्या अस्तीत्वमृताम् । मत्वर्थीयोऽप्रत्ययः । तेन स्त्रीत्वोपपत्तिः। प्रयोजकलार्स'बन्धेन मोक्षवतीमित्यर्थः । रामायणादिना मोक्षप्रयोजकत्वं च 'एकैकमक्षरं प्रोक्तं महापातकनाशनम्' इति स्फुटम् । अत्र हेतुमाह-आत्मनः कलां परमात्मप्रतिपादकविद्याम् 'विद्यायां कालभेदे च मुक्तौ शिल्पे कलेति च' इति वैजयन्ती । रामाअगादिकं परमात्मप्रतिपादकत्वं च वेदवेद्ये परे पुसि' इत्यादी स्पश्टम् । रामायणाध्यात्मसमावणरूपां वन्देमहि प्रणमाम । विवयमङ्गलव्यसग्रहो विजयते' इति बालरामायणनाटके स्फुटम् । अस्या योजनायां पूर्ववत्काब्धार्थसूचन बोद्धव्यम् । केचिन-'इदम्' इति भिन्नपदम् 'नमः वा क' इति च पदत्रयम् । कदिभ्यः इदं नमःप्रशास्महे इत्यन्वयः । वाशब्दः समुच्चयार्थः । कमित्यस्य ब्रह्माणमित्यर्थः । एव च वाणी

सरखतीदेवी कं वा ब्रह्माण व वन्देमहि च प्रणमाम च । क्रियाद्वयसमुच्चायकश्च कारः चन्दनक्रियानिरूपितकमद्वयसमुच्चायकस्तु वाशब्दः--इलादि, तन्न । व्यवहितान्वयान् । 'चत्राष्टभिर्वादशभिरष्टादशभिरेव वा। द्वाविंशत्या पदैर्वापि सा नान्दीति प्रकीर्तिता ।।' इत्यत्र चतुर्दशपदानुक्तेश्च । अन्ये तु-'पूर्ववदेव पदानि । इदं नमो मा पूर्वेभ्यः, कविभ्यः कं प्रशास्महे । तां बाणी बन्देमहि' इत्यन्बयमुक्त्वा 'इदं नमो वा पूर्वेभ्यः, कविभ्यः अन्यं के प्रशास्महे । तामेव वाणी वन्देमहि । इतः प्राचीन नमः पूर्वकविभ्यः । अन्चं प्रति न कृतमेव । इदं वा तदन्यं वा के प्रति प्रशास्महे इत्यर्थः' इति वदन्ति, तदपि न । प्रतीत्यध्याहारापत्तेः । नच 'शासिदुहिरुधि-' इत्यादिना द्विकर्मकत्वं माणवक धर्म शास्तीत्तिवत् इति वाच्यम् । तत्र 'शासु अनुशिष्टौ' इत्यस्यैव ग्रहणाच्च । नच 'तदेवेदम्' इति वाच्यम् । तस्य परस्मैपदित्वात् अर्थासंगते च. कारखावधारणार्थकत्वाश्रचक्लेशाद् पदनियमासिद्धेश्च । यदप्युक्तम्-'पूर्वेभ्यः कविभ्यः इद नमः इत्येकं वाक्यम्, अन्यं वा कं प्रशाम्महे इत्यपरं वाक्यम्, प्रशास्महे वाचमि- च्छामः इत्यर्थः' इति, तदपि मन्दम् । एकवाक्यत्वसंभवे बाक्यभेदस्यान्याय्वत्वात्कवेयवाक्त्वेन वागिन्च्छाया असंभवाच त्रयोदशपदत्वापत्तेश्च । यदपि चोतम्'इदकविभ्यः इदानींतनकविभ्य पूर्वेभ्यो वा पूर्वकविश्वश्च नमः प्रणासं कं शिरसा प्रशास्महे । ‘क शिरोम्बुनोः' इति मान्ताव्ययत्वात् तृतीयार्थलाभ.' इति, तदपि न । पूर्वेभ्य इत्यत्र कविभ्य इत्यध्याहारापत्तेः कविभ्य इत्येताबन्मानोक्तौ उभयकविलाभे निदेशव्याश्रयणे प्रयोजनाभावात् । भात्रिकविद्वेषे मूलाभावात् । त्रयोदशपदत्वापत्तेश्च । थचोक्तम्-'पूर्वेभ्यो नमः इदकविभ्यः क वा सुखं वा प्रशास्महे प्राचीनकृविभ्यो नमः प्रशास्महे इदानींतत्तविभ्यः सुख प्रशास्महे' इति, तन्न । ऋमिकैकान्व्यालाभात् पूर्वोत्तदोपाच । यतूक्तम्-पूर्वेभ्यो वा पूर्वकविभ्य इव इदकविम्य इदानींतनकविभ्यः नम इत्येकं वाक्यम्, कं वा प्रशासहे इसपरम् , सुख इच्छामः इति तदर्थः' इति, तन्न । विघ्नध्वंसस्पैचापेक्षितत्वेन सुखप्रार्थनाया असांगत्यात् पूर्वदोषप्रसङ्गाय । केचित्तु-'पूर्वभ्य. वैदिकेश्वः कविभ्यः गजाननाय । 'गणानां त्वा गणपति हवामहे' इति श्रुते । 'कविः शुक्रगजाननौ इति, तन्न । बहुवचनस्वारस्यात् । पूजायां बहुत्वस्व गुरुपित्रादिषाचकशब्देभ्य एव दर्शनात् । किचात्र गजाननस्व प्राचेतसादिसाधारणकान्तदर्शित्वरूपकवित्वेन कविपदादुपस्थितिनं शक्या। सामान्यशब्दस्य चिशेपव्यवस्थापकाभावात् पूर्वेभ्यः इत्यस्य च साधारणत्वात् न तद्वयवस्थापकम् । 'कविः शुक्रगजाननौं' इति कोशाग जाननत्वेन तदुपस्थितिरपि न शंषया । पूर्वशब्दवैयर्थ्यापतेः । नापूर्वः कश्चिद्गजाननोऽस्ति येन तद्वथावृत्त्या तत्सार्थक्य स्यात् । 'संयोगो विप्रयोगश्च साहचर्य विरोधिता' इत्यारभ्य 'शब्दार्थस्यानबच्छेदे विशेषे स्मृतिहे-

तवः' इत्युक्तरीला शुकादिन्यवच्छेदकत्वपूर्वकं गजाननोपस्थापकप्रकरणाद्यभावाच । नच बकुरपि संयोगादिप्रमाणेच्वन्यतमत्वेन परिगणनात् भवभूतेश्च मालीनाथवे 'वैनायक्यश्चिरं वो वदनविधुतयः पान्तु' इत्युक्त्या विनायकभक्तत्वावगमात् अत्राणि तत्परत्व युक्तमिति वाच्यम् । तस्य महावीरचरिते परित्यागात् । अत्र औचित्यल्पदुर्वलप्रमाणमवष्टभ्य बहुवचनश्रुतेः पूजालाक्षणिकत्वस्यान्याथ्यत्याच । यत्तु तेनैवोक्त

(नान्यन्ते।)

 सूत्रधार:-अलमतिविस्तरेण । अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि-एवमत्रभवन्तो विदाकुर्वन्तु । अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलान्छनः पदवाक्यप्रमाणज्ञो भवभूति म जतुकणीपुत्रः।


म्- 'अनुग्राहक-' इत्यादि, तत्तु अमात्यानुवर्तनपुरःसरराजदर्शनादिन्यायविरोधादुपेश्यम् । तेनैव 'कवीन्द्राः कल्पन्ते खयमपि विरिश्चिप्रभृतयः' इत्यानन्दलहायुपटम्भेन चतुर्मुखपरत्वमुपक्षिप्य 'केतकीकुसुम-' इत्यादिना 'या ब्रह्माच्युतशंकरप्रगतिभिः' इत्यादिना च दूषितम् । तत्तुच्छम् । 'भवव्रतधरा चे च ये च तान्समनुव्रताः' इत्यादिभागवतप्रामाण्येन गजाननस्य नमस्कारान त्वशापदानात् । या ब्रह्माच्युतशंकरप्रभृतिभिः' इति । 'सय सुरैः सेविता' इति ब्रह्मशकरापेक्षया प्राधान्ये विनायकापेक्षया तस्य मुलसिलूत्वाचेति ग्रन्थगौरवभिया विरम्बत इालम् ॥ १॥ नान्दीलक्षण तु-- यत्राष्टभिवादशभिः' इत्यादि दशरूपकादिषु स्फुटम् । नाटकलक्षण च-चीरशारयोरेकः प्रधान यत्र बर्यते । प्रख्यातनायकोपेत नाटक तदुदाहृतम् ॥' इति । यद्यपि करुणरस एवास्सिनाटके प्रधानमिति सर्वजनीन सूचितम् , मरणस्य प्रसक्तिपूर्वक प्रतिषेधो नाटकप्रतिपाद्य इति सूचयता नान्दीस्थामृतपदेन करण एवासिन्नाटके प्रधान इति, तथापि वीरशृङ्गारौ प्रायिकौ इत्युक्ते न दोष इत्याहुः । पूर्वरजलक्षण तु--'यन्नाट्यबतुन' पूर्व रविघ्नोपशान्तये । कुशीलवा. प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥' इति । प्रस्तावनालक्षणं तु----सूत्रधारो नटी ते मारिष वा विदूवक्रम् । खकार्यप्रस्तुताक्षेपिचित्रोक्ल्या ग्रत्तदामुखम् ॥ प्रस्तावना का तत्र स्यात्' इति । नान्द्यन्त इति । नान्याः पूर्वोकाया अन्ते समाप्तौ सूत्रधारः । प्रविश्याहेति शेष. । तदुतम्'पूर्वर विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमासूत्रयेन्नरः ।" इति । प्ररोचनां प्रस्तोतु सामाजिकावधानायाह-अद्य खलु सगवत इति । भगदतो ज्ञानशक्त्यादिगुणवतः कालप्रियानाथस्त्र कालमियानामाम्बिकाया नाथ: शिवस्तस्य । इयं च कथा पौराणिकी वेदितव्या । यात्रायामुत्राचे आर्याः पूज्या मिश्रा ज्ञानिनस्तथाविधान्विज्ञापयामि । एवं वक्ष्यमाणप्रकारेण अत्रभवन्तः

पूज्या यूयम् । 'अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थी' इत्युक्तेः । यहा अत्रास्सिनगरे भवन्तः । थूयमित्यर्थः । विदाकुर्वन्तु । 'विदाकुर्वन्नित्यन्यतरस्याम्' इति सूत्रा“शिष्टोऽय शब्दः । यात्राथामिति काल उक्तः । अत्रेति देश उक्तः । 'निर्देशो देशकालयो.' इत्युक्तेः । अस्ति खल्विति । काश्यपः कदयपगोत्रोद्भवः । ऋष्यणप्रत्ययः । 'काश्यपः कश्यपो भवति' इति सर्वश्तया श्रुतिप्रसिद्ध कश्यपवश्यः । श्रीकण्ट शति पद शब्दः लाञ्छनं यस्य स तथोक्तः । श्रीकण्ठनामक इत्यर्थः । 'द्वादशेऽहनि पिता नाम कुर्यात्' इति पैतृक नामवेयमिदम् । पदवाक्यप्रमाणज्ञः । व्याकरणन्यायमीमांसापरिज्ञातेत्यर्थः । भवभूतिर्नाम भवभूतिरिति प्रतिद्धनामवान् । एतत्कृत'साम्वा पुनातु भवभूतिपवित्रमूर्तिः' इति श्लोकश्रवणसंतुष्टो राजा भवभूतिरित्येनं

  यं ब्रह्माणमियं देवी वाग्वश्यैवान्ववर्तत ॥
  उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥ २ ॥

एषोऽसि कविवशादायोध्यकस्तदानींतनश्च संवृत्तः । (समन्तादवलोक्य ।)


ख्यापयामासेति कथानानुसंधेचा । एवमन्यत्रापि कवितानुसारेण तत्तन्नामधेयम् । यथा--रत्नखेटका, कोटिसारः, इति । उदयरक्त चन्द्रबिम्ब रतिपतिरत्नखेटकत्वेनो. प्रेक्षितवानिवैतिह्यस्य, कामिनीस्तनमण्डलं प्रति 'कुलाचलेन्द्रादपि कोटिसारः' इत्युक्तवानित्यैतिद्यस्य च तन्मूलत्वात् । किचास्मै कवये ईश्वर एव भिक्षुरूपेणागत्य भूति दत्तवानिति बदन्ति । एव च भवाद्भगवतो भूतिर्यस्येति भवभूतिरित्यन्वयं इलाहुः । यमिति । ब्रह्माणम् । यजनादिषट्कर्मनिरतमित्यर्थः । लाक्षणिकोऽयं मुख्यार्थपरत्वे प्रयोजनाभावात् । तथाविध यं भवभूतिमिय देवताप्रसादादिना साध्यत्वेन प्रसिद्धा वाग्देवी वश्या सत्येव विधिप्रतिषेधाही सत्येवान्ववर्ततानुवर्तितवती । यद्वा ब्रह्माण यमेव वश्या सत्यन्ववर्तत । नत्वन्यमित्यर्थः । पूर्वस्मिन्नर्थे वयैवान्ववर्तत नववश्यान्ववर्तत। अलाभेन कालिदासादिषु खयमवश्यैव कालिदासप्रमृत्खनुरोधेनागताया वाग्देव्या पदनुवर्तन तन्यावर्तते । अत्र 'यं ब्रह्माणमियं देवी वाग्वश्येबान्ववर्तत' इति द्वितीयान्तब्रह्मशब्देन इवशब्देन च युक्त पान्तरमपि वचिदृश्यते । तत्रायमर्थः--इयं वाग्देवी यं भवभूति ब्रह्माणमिव स्वभारं चतुर्मुखमिव वक्ष्या सत्यन्ववर्ततानुवर्तितवती । देवस्य स्त्री देवी । दीव्यति प्रकाशयति प्रकाशते इति वा देवी । 'देवद' इति टित्त्वात् डीप् । यद्वा-च देवी बादशमवभूतिविषत्रकेच्छावती सती इय वाग्देवी ब्रह्माण वश्येवान्ववर्तत । वश्यानुवर्तगाभिनयमानं खभतारे, भावबन्धस्तु भवभूतावेवेति भावः । 'सावित्र्या. प्रथम यमुज्ज्वलगुणं वत्रे स्वयम्' इतिवत्स्वयंवरं कृतवतीत्यर्थः । दिबुधातोः 'कान्तिगतिषु' इत्युक्तेः इच्छायां वृत्तिः दीव्यति कामयत इति देवीति कृदन्तदेवीपदचोगेऽपि । 'तदहम् इति ज्ञापकात् । 'धयरामोदमुत्तमम् इति प्रयोगात्र कुद्योगषष्ट्या अनित्यत्वात् षष्ट्या अप्राप्त्या द्वितीया उत्तमपरिमलकर्मकपानकर्तरि तदा षष्ठीप्रसज्ञात् । परंत्वन पाठे व्यवहितान्वयो दोष इत्याहुः । 'उत्तर रामचरित बत्प्रणीतं प्रयोक्ष्यते' इति यच्छब्दपाठ इति मत्वा यं वाग्देव्यन्यवतेत । यत्प्रणीतं प्रयोक्ष्यतेऽभिनेष्यते स भवभूतिर्नास ायः अस्तीति पूर्वेणान्वयः । यत्तदोनियसंबन्धात्स इत्यस्य लाभः इति केचित् । परे तु तत्प्रणीतम्' इति तच्छब्दयुक्तमेव पाठमुपष्टभ्य इयं वाग्देवी यं भवभूतिमन्ववर्तत स भवभूति म कविरस्ति । तत्प्रणीतं उत्तरं रामचरित प्रचोक्ष्यत इत्यन्वयः ! अन्यथा विधेयस्य स्फुटप्रतीत्यनापत्तेश्च'. इति वदन्ति । इय प्ररोचना प्रस्तुता । तदुक्तम्-'निवेदन प्रयोज्यस्य निर्देशो देशकालयोः । कविकाव्यनदादीनो प्रशसा तु प्ररोचना ॥' इति ॥ २॥ एषोऽस्मीति । कविवशात्कम्पनुरोधेनायोध्यकः । अयोध्यासंबन्धिक इयर्थः । “धन्वयोपधा' इति सूत्रेण बुञ् । तस्याकादेशश्च । तदानींतनश्च रामपद्यभिषेककालीनश्च संवृत्तोऽस्मीति योजना । निष्पन्नोऽस्मीत्यर्थः । अयमाशयः यद्यपि भोजराजमतरीत्या सूत्रधारनटीप्रभृतिभिः प्रकृतदेशकालावलम्बिनी प्रस्तावनामुक्त्वा भो भोः, यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायं पट्टाभिषेकसमयो रात्रिंदिवमसंहलनान्दीकः, तत्किमिदानी विश्रान्तचा- रचरणानि चत्वरस्थानानि ।

(प्रविश्य )

 नटः भाव, प्रेषिता हि खगृहान्महाराजेन लङ्कासमरसुहृदो महात्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावना ब्रह्मा- यो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद आसीत् ।

 सूत्रधारः--आ, अस्त्येतन्निमित्तम् ।


सूत्रधारादीनिष्कास्य भूमिको प्रवेश्य प्रवर्तिध्वमाणकाव्याभिनयकथासूचकविष्कम्भो वक्तव्यः, तथापि सूत्रधारस्यैव काव्यकथाघटकदेशकालसंबन्धमङ्गीकृत्य बिस्कम्भवकथोपन्यासः सूत्रधारत्यापरित्यागाच प्रस्तावनात्वाहानिरिति कवेर्मतम् । तदनुसारे णाहमायोध्यकः संवृत्तोऽस्मीति । अयोध्यासंबन्धित्व च तस्यां कादाचित्कावस्थानरूपम् । तेन वैदेशिकोऽस्मीति उपरितनग्रन्थेन न विरोधः। यदा तावदिति । अत्रभवतः पूज्यस्य पौलस्त्यकुलस्य रावणवशस्य धूमकेतोरग्निवद्भस्मीकर्तुरुत्पातग्रहविशेषस्य वा । महाराजश्वासौ रामश्च इति विग्रहः तस्य । रात्रिंदिवमर्निशम् । 'अचतुर-सूत्रे निपातितोऽयं शब्दः । असंहृतनान्दीकोऽविच्छिन्नमङ्गलः । शेषाद्विभाषा' इति कम् । हखप्रतिषेधः । अयं पश्याभिषेकसमयः घडा पवाभिषेकमुहूर्तः यस्मिन्काले । यद्धा समय आचार: पहाभिषेकरूप चारो यदा यस्मिन्काले । इदानीमस्मिन्काले पदाभिषेकसमये चत्वरस्थानान्यङ्गणभागाः विश्रान्तमवसित चाराणामधिकारिपुरुषाणां चरणं संचरणं येषु तानि । विश्रान्ताश्चाराणामधिकारिपुरुषाणां चरणा अजयो येष्चिति वा । चारा निवृत्तव्यापाराः सन्तः चत्वरेषूपविश्य विश्राम्यन्तीति भावः । तत्किमिदानी पहाभिषेककाले चत्वरस्थानानि विश्रान्तच्चारचरणानीति यत् तत् किमिति चोजना । यस्मिन्दिबसे कलशतीर्थसेन्चनरूपपधभिषेकक्रियाधिकरणमुहूर्तस्तदिवसापूर्वोक्तादिनानां तदुत्सवकालत्वेन यथायमभिषेकसमय इत्युक्तिरविरुद्धा । सूक्ष्मकालं प्रति स्थूलकालस्याधारत्वात् । प्रासादखटापर्वकन्यायोऽत्रानुसंधेयः ॥ भाव, प्रेषिता इति । महात्मानो महाधैर्याः । सभाजनं सपर्यामुपतिष्ठन्ते प्राप्नुवन्तीति सभाजनोपस्थाथिमः । 'सुप्यआता' इति णिनिः । इदं च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति । ब्रह्मर्षयो गौतम्विश्वामित्रादयः, राजर्षयस्तु जनकप्रभृतयः । देवर्षीणां ऊर्यदिग्गमनानानादिगन्तेयुक्तिः । यत्समाराधनाय येषां प्लवङ्गमादीनां समाराधनाय पूजनाचैतावतो दिवसानेतावत्सु दिवसेषु । अत्यन्तसंयोगे द्वितीया । प्रमोदः । चारगतागतहेतुभूतपहर्ष इत्यर्थः । यत्समाराधनाय प्रमोद आसीत, ते प्रेषिता इत्लन्वयः । 'तत्समाराधनाय' इति तस्पयुक्तपाठे तु न विश्रान्तचारचरणत्वे हेतुरुको भवतीत्यत्राह-तत्समाराधनायेति । एवं चारचरणहेतुर्गत इति भावः ।। आ, अस्त्येतन्निमित्तम् । आ इति स्मरणया नटः-अन्यच्च ।

  वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः ।
  अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥ ३ ॥

 मूत्रधारः---वैदेशिकोऽस्मीति पृच्छामि । कः पुनर्जामाता ।

 नटा-

  कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् ।
  अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥ ४ ॥

विभण्डकसुतस्तामृप्यशृङ्ग उपयेमे । तेन द्वादशवार्षिकं सत्रमारब्धम् । तदनुरोधात्कठोरगर्भामपि जानकी विमुच्य गुरुजनस्तत्र यातः ।


चकम् । अतएव 'निपात एकाजनाइ' इति प्रगृह्यत्वात् आ अस्तीति संध्यभावः । 'वाक्यस्मरणयोरडित्' इत्यायुक्तेः । एतनिमित्तमस्ति । मया विस्मृतमिति भावः ॥ वसिष्ठाधिष्ठिता इति । अरुन्धती पुरस्कृत्य बत्तिष्टाधिष्ठिता इत्यन्वयः । गुरुपत्नीत्वप्रयुक्तप्राधान्यादरुन्धती मुख्यां कृला बसिष्टेन व्यापारिता इत्यर्थः । वसिष्ठः कर्तव्य अरुन्धतीमुखमवलोकमानोऽनुशास्ति । ततो देव्योऽरुन्धत्या सह कर्तव्यमनुतिष्ठन्तीति भावः । जामातुरित्येतन्मध्यमणिन्यायेन यज्ञाश्रमान्यामन्वेति । अझे यज्ञनिमित्तम् । 'निमित्तात्कर्मयोगे' इति सप्तमी । सतीत्य याहारेण यज्ञे सति आश्रम गता इति वार्थः॥३॥ वैदेशिको विदेशो देशान्तरं तत्रभवो वैदेशिक । अध्यात्मादित्वाइन । विदेशस्थास्यापि कदाचिदयोध्यास्थितिसंभवादित्याहुः ॥ कन्यामिति । व्यजीजनजनचत् । 'जनी प्रादुर्भावे' इति धातोणिच् । तां शान्तां रोमपादाय रोमपादनाम्नेऽपत्यस्य कृतियापारो यस्यास्तथाविधाम् । 'शेषाद्विभाषा' इति कम् । कन्यां ददावित्युत्ते कलत्रार्थमिति प्रतीतेस्तद्वारणायापत्यकृतिकामिति ददौ दत्तवान् ॥ ४ ॥ तेन ऋष्यशृङ्गेण । द्वादशवर्षाणि भविष्यन्तीति द्वादशवार्षिकम् । 'तमधीष्टो भृतो भूतो भावी' इत्यधिकृल्म विहितो ठञ् द्विगुः । 'वषोल्लुक च' इति पाक्षिको लुगभावः । अनुशतिकादित्वादुभयत्र वृद्धिः । नतूत्तरपदवृद्धिमात्रम् । 'अभविष्यति' इति प्रतिषेधात् । न च द्वादशवर्षाणि भूतमित्वर्थोऽस्त्विति वाच्यम् , आरब्धमित्युक्तेरसाहलापत्ते । तदनुरोधाकठोरगर्भामपीत्यादिना कटोरगति नानीता सीतेत्युकतया सीतायाः गर्भिणीदशायामेतत्सत्रमारधामति स्पष्टमवगम्यते । एवं द्वितीयाङ्कविष्कम्भे 'समनन्तरं च गर्भकादशे वर्षे क्षात्रेण कल्पेनोपनीच त्रयीमध्यापितो' इत्युक्त्वा 'संप्रति परिसमाप्तं द्वादशवार्षिकं सत्रम्' इति वक्ष्यमाणतया अप्रत्यद्वादशवार्पिकृशब्दस्य द्वादशवर्षाणि भूतमित्यत्रीभ्युपगमेन तद्विरोधापत्तेरिति ध्येयम् । तदनुरोधात्तदनुसरणाद्धेतोः कटोरगी पूर्णगर्भाम् । कठोर शब्दः पूर्णवाची । तदुतमुणादिषु वैयाकरणैः-'अयं पूर्णतायामपि' इति । यात इति । 'अनाहूतोऽधरं गच्छेत्' इति  सूत्रधारः-तत्किमनेन । एहि । राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः ।

 नट:-तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोन्नपद्धति भावः ।

 सूत्रधारः----मारिष,

  सर्वथा व्यवहर्तव्यं कुतो खवचनीयता ।
  यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥५॥

 नट:-- अतिदुर्जन इति वक्तव्यम् ।

  देव्या अपि हि वैदेह्याः सापवादो यतो जनः ।
  रक्षोगृहस्थितिमूलमग्निशुद्धौ त्वनिश्चयः ॥ ६ ॥


विधेः, किं पुनन्यायादिति भावः । तत्किमिति । त्रजातिसमयेन स्वजातिमर्यादया । उपतिष्ठावस्तोषयावः । रामस्य 'आत्मानं मानुष मन्ये राम दशरथात्मजम्' इति देवतात्वाभावात् 'उपादेवपूजा-' इत्यादिना नात्मनेपदम् । तथा च स्वजाखनुगुणरूप यत्रतोत्रं तत् कुर्व इति बोकः ॥ तेनेति । स्तोतव्यमिति यत्तेनेत्यर्थः । सुपरिशुद्धा इष्टु दोषरहिताम् । तुवन्सनेनेति स्तोत्रं ग्रन्थः तस्य पद्धतिरानुपूर्वी । उपस्थानाय गुणिनिष्टगुणाभिधानाय स्तोत्रपद्धतिमित्यर्थः । समासस्तु षड्यन्तस्येति बोध्यम् । निरूपयतत्पादयतु । वदत्वित्यर्थ, ॥ ननु चदुरु स्तुति निरूपयत्विति तदवगच्छामि, सुपरिशुद्धामिति नाभ्युपगच्छामि, दोषरहितत्वरूपपरिशुद्धत्वस्य प्रयोजनाभावात् । स्तुतिवचन तु कर्तव्यमेव खजातिनियतव्यापारत्वादित्याइसर्वथेति । सर्वेण प्रकारेण सर्वथा व्यवहर्तव्य व्यवहारः कर्तव्यः । भावे तन्यप्रत्ययः । व्यवहारशब्दः स्तुतिकरणारूपव्यापारपरः । अवन्दनीयता वचनीय दोषस्तद्रहितता 1 सुपरिशुद्धतेखधः । कुतः किमर्थम् । यदा कुतः कस्मै । 'सावविभक्तिकस्त सि.' इति चतुर्थ्यथै ततिः । अयमाशय:--दोषवत्तया वा दोषरहिततया बा गुणवन्नषा था स्तुतिकरणरूपव्यापारः कर्तव्यः । तस्य खजातीचधर्मवावदुक्त परिशुद्धतया तु किम् तस्या. फलाभावादिति । ननु जनाभिनन्दनमेव तत्फललतु, कुत. फलाभान इलाह-यथा मित्यादिना । पूर्वपादस्थहिशब्दस्यान संवन्धः । हि यत्माजनः स्त्रीणा साधुत्वे दुर्जनस्तरमादवचनीचता किमयेति पूर्वेण संवन्धः । जनः स्त्रीणां साधुत्वे यया पातिव्रत्याविषय इव वाचां साधुत्वे माधुर्याज्वल्यादिविषये दुर्जनो दोषदर्शी । दोषदर्शित्वमेव हि दोर्जन्यमिति भावः । यथा स्त्रीणां साधुत्वे जनो दुर्जनस्तथा वाचां साधुत्वेऽपि जनो दुर्जनः,हि यस्मात्तस्मादवचनीयता किमथैत्यर्थः ॥ ५ ॥ प्रकृतकथासगत यथा स्वीणामिति यति दृष्टान्त उक्तः । तदुपजीव्य प्रकृतमवलम्बते-लेट:--अतिदुर्जन इति वक्तव्यमिति। तत्र हेतुनाह-देवया इति। हि यत इत्यनयोर्यथाक्रम पूर्वोत्तरार्धयोरन्वयः ।

उ. रा. २  मूत्रधारः-यदि पुनरियं किंवदन्ती महाराज प्रति स्यन्देत ततः कष्टं स्वात् ।

 नटः-सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति । (परिक्रम्य ।) भो । भोः, केदानी महाराजः । (आकये ।) एवं जनाः कथयन्ति-

  स्नेहात्सभाजयितुमेत्य दिनान्यमूनि
   नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।
  देव्यास्ततो विमनसः परिसान्त्वनाय
   धर्मासनाद्विशति बासगृहं नरेन्द्रः ॥७॥

(इति निष्कान्तौ ।)

इति प्रस्तावना।

हि यस्माद्देव्या दीप्तिमत्या अपि । स्वभावतो दोषप्रतिभटाया अपीत्यर्थः । वैदेया विदेहराजपुत्र्याः । संबन्धसामान्ये षष्ठी । जनः सापवादः । अपवादो दोषकथनं तेन सहित इत्यर्थः । तथा च वैदेहीसंबन्ध्यषवादसहित इत्यर्थः । नित्यसापेक्षत्वात्समासः । तदुकम्----'संवन्धिशब्दः सापेक्षो निलं सर्वः समस्यते' इति । यतश्च रक्षोगृहस्थितिः राक्षसगृहावस्थानमात्रम् । नत्वन्यदिति भावः । मूलं दोषकथनहेतुः । अनिशुद्धौ अनिश्चयस्तु निश्चयाभावश्च । तुशब्दश्चार्थकः । अत्र देव्या इति दोषाभाव उक्तः । रक्षागृहस्थितिरिखनेन असाधारणहेलभाव उक्तः । अमिनुदावित्यनेन बाधकप्रमाणमुक्तम् । तथा च एतत्सर्वमपि नावलोकितमिति भावः । विषयमावमविगणय्य असतोऽपि दोपस्य कथन सुतरां दुर्जनकार्यम् । तत्राप्यसाधारणहेतुमप्यदृष्ट्वा विषयप्रभावमप्यविगणय्यासतोऽपि दोषस्व कथनम् , ततोऽपि दुर्जनकार्यम्, तत्रापि बाधकप्रमाणमप्यविश्वस्यासाधारणकारणमप्यदृष्ट्वा विषयप्रभावमप्यविगणय्यासतोऽपि दोषस्य कथनमू, ततोऽप्यतिदुर्जनकार्यमिति । अत्र हि यस्मात्सापत्रादः । अतश्च रक्षोगृहस्थितिमूलम् । अग्निशुद्धावनिश्चयश्च जनस्य । तस्माज्जनोऽतिदुर्जन इति वक्तव्यमित्येवं पूर्वेणान्वयः ॥ ६ ॥

यदि पुनरिति । किंवदन्ती लोकवादः स्यन्देत प्रस्रवेत् । श्रवणविषयीभवेदिति याबत् । अनेन प्रथमावार्थः सूच्यते । 'सर्वथा ऋषयः' इत्यादनेन शेषावार्थः सूचितः। एष ऋषिकर्तृकश्रेयोविधानरूपबीजन्यासादुपक्षेपो नाम संध्यमुक्तम् । यथा-बी.जन्यास उपक्षेप.' इति ॥ आकर्येति । इदमाकाशभाषितमुच्यते । तदुकम् 'अप्रविष्टैः सहालापो भवेदाकाशभाषितम्' इति । स्नेहादिति । सभातयितुं पुजयितुम् । उत्सवेन हर्षजनकव्यापारेण । विमनसो दुःखितहृदयायाः परिसान्त्वनाय तदुःखापनयनक्षममधुरवचनप्रयोगाय । 'तुमर्थाच्च' इति चतुर्थी। धर्मासनात् । क्षत्रियधर्मभूतराज्यपरिपालनार्यसिहासनादिलर्थः । वासगृह खावासगृहम् । विशति प्रवि

(ततः प्रविशत्युपविष्टो रामः सीता च ।)

 रामः-देवि बैदेहि, विश्वसिहि । ते हि गुरवो न शक्नुवन्ति न शक्रुवन्ति विहातुमस्मान् ।

  किं त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
  संकटा ह्याहिताग्नीनां प्रत्यवायेगेंहस्थता ॥ ८ ॥

 सीता-जाणामि अज्जउत्त, जाणामि । किंदु संदावआरिणो बन्धुजणविप्पओआ होन्ति ।

 रामः-एवमेतत् । एते हि हृदयमर्मच्छिदः संसारभागाः । येभ्यो बाभत्समानाः सत्यज्य सवान्कामानरण्ये विश्राम्यन्ति मनीषिणः।

(प्रविश्य।)

 कञ्चकी रामभद्र--(इत्यक्ति साशम् ।) महाराज-

 रामः--(सस्मितम् ।) आर्य, ननु रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य । तद्यथाभ्यस्तमभिधीयताम् ।


 १. जानामि आर्यपुत्र, जानामि । किंतु संतापकारिणो वन्धुजनविप्रयोगा भवन्ति ।


शांत ॥७॥ एवं प्रस्तावना प्रस्तुता।अथाङ्कः प्रस्तूयते-ततः प्रविशतीत्यादिना। अङ्कलक्षणं तु-'प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्को नानाप्रकारानंसंविधानरसाश्रयः ॥ इति । विश्वसिहि संतोषं प्राप्नुहि । 'समाश्वसिहि इति पाठान्तरम्। विहातुं त्यक्तुम् । किं त्विति । किंतु अनुष्ठानस्य नित्यनैमित्तिकादिकर्मकलापनिवर्तनस्य नित्यत्वं नियतता । अनुष्ठानाभावविरहरूपनियम इत्यर्थः । स्वातन्त्र्य खैरावस्थानमापक- धति न सहते । अपकर्षतीत्युक्त्याविकामदपि खैरावस्थानं निरुन्ध इति लाभेन, कदाचिदप्यङ्गीकृतमपि खैरचरित तदाननुष्टितकर्मानुष्ठापनेन, तदनुष्ठानाभावप्रायश्चित्तानुष्ठापनेन च लभ्यते । जनैरिति तदाशयः । तदाह-संकटा हीति । हि यस्मात् । आहितानीनां गृहस्थता गृहस्थाश्रमः प्रत्यवायैर्विहितानाचरणजन्यपातकैः संकटा निविडा दुःखरूपाचा । जाप्रत्प्रत्यवायेत्यर्थः ॥ ८॥ 'एवमिति येभ्य इति संसारभागेभ्यः । संसारेऽवश्यानुभाव्यभाग इत्यर्थः । संसारो हि शरीरसंबन्धानुबन्धिसुखदुःखरामुदाय तथा च गुरुबन्धुवियोगादीनां तदेकदेशत्व संगतम् । बीभत्समाना जुगुप्समानाः । एतद्दोषानुवन्धजनितचित्तवृत्तिनिवृत्तियुक्ता इत्यर्थः । बीभत्साया जुगुप्साबस्थायिकखादित्थं व्याख्यातम् । अतएव बीभत्समाना इत्यस्य 'जुगुप्साविराम-' इत्यादिना पञ्चमी । 'बन्ध बन्धने' इत्यस्मात्स्वार्थे सनि रूपमिदम् । 'बधेश्चित्तविकारे' इति  कञ्चकी-देव, ऋष्यशृङ्गाश्रमादष्टावक्र: संप्राप्तः ।

 सीता-अज्ज, तदो कि विलम्बीअदि ।

 राम:-त्वरितं प्रवेशय ।

(कझुकी निष्पक्षन्तः।)

(प्रविश्य।)

 अष्टावक्र:--स्वस्ति वाम् ।

 रामः—भगवन् , अभिवादये । इत आस्यताम् ।

 सीता--भैअवं, णमो दे। अवि कुसलं सजामातुअस्स गुरुअणम्स अजाए सन्ताए ।

 रामः-निर्विघ्नः सोमपीथी भाबुको मे भगवानृप्यशृङ्गः, आर्या च शान्ता।

 सीता—अम्हे वि सुमरेदि ।

 अष्टावक्र:—(उपविश्य ।) अथ किम् । देवि, कुलगुरुभगवान्चसिष्ठस्त्वामिदभाह

  विश्वंभरा भगवती भवत्तीमसूत
   राजा प्रजापतिसमो जनकः पिता ते ।


 १. आर्य, ततः किं विलम्ब्यते ।

 २. भगवन् , नमले । अपि कुशलं सजामातृकस्स गुरुजनस्वार्यायाः शान्तायाश्च।

 ३. अस्मानपि स्मरति ।


वार्तिकादस्य चित्तविकारे वृत्तिः । काम्यन्त इति कामाः । कर्मणि घन् । गृहक्षेत्रपुत्रादयस्तानित्यर्थः ।। उपचारो ब्यवहारः । यथा यस्तनभ्यस्तमनतिक्रम्य । यथार्थत्वात्समासः । अभिधीयताम् ॥ अथावस्तदाख्यः । अटो वका णि अस्येति विग्रह योगरूढशब्दः । 'अष्टनः संज्ञायाम्' इति दीर्घः । हास्यानुप्रवेशार्थमष्टावक्रमनेश.॥ अवि कुसलं सजामातुअस्खेति । सजामातुअस्स सजामातृकस्य । 'प्रायो - गचजतदपयवाम्' इति सूत्रेण ककारलोप । तस्सिन्नवशिष्टाकारस्प्रेषस्यूटयकारश्रुतिश्च प्राकृतव्याकरणसिद्धा॥ निर्विन इति । सोमपीथी । सोमपा इत्यर्थः । भाबुकः पूज्यः । शान्तापतिलादिति भावः ॥ विश्वंभरेति । नन्दिनि गुणपूर्ण । 'टुनदि समृद्धी' इलस्यात् भावे घणि 'अत इनिठनौ' इति इनिप्रत्ययः । एकाक्षरा

 तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां
  येषां कुलेषु सविता च गुरुर्वयं च ॥ ९ ॥

तत्किमन्यदाशास्महे । केवलं वीरप्रसया भूयाः ।

 राम:-- अनुगृहीताः स्मः।


स्कृतोऽजाताविति निषेधस्तु प्राचिकः । ग्रह्यादिणिगिर्वा । नान्तला डीए । मन्दिनि पुत्रि । संबोधनम् । इद च 'अस्माकं तु जनकसुता दुहितैव इति वक्ष्यमाणरीत्या दशरथमतानुसारेण भगवती षाडण्यपरिपूर्ण विश्वंभरा भूमिः । भूरिल्यावनुक्ला विश्वभरोक्तिः क्षान्तिप्रधानतासूचनाय । भवती पूज्यां त्वामसूत सूतवती । 'पूड् प्राणिप्रसचे' लड् । शपो लुक् । विश्वभराशब्दस्तु 'संज्ञाचा मृतृ-' इत्यादिमा खच्प्रत्ययमुमागमान्यां निष्पन्नः । प्रजापतिना ब्रह्मणा समः । स्वाध्यायादिना ब्रह्मतुल्य इलधः । 'मान्धातारमपारसंसदि महद्भावे यशोराशिघु' इत्युचारीत्या ब्रह्मवत माहात्म्यशालीति वा । राजा । राजते दीप्यते इति । 'कनिन् युवृषितक्षि-' इत्यादिना कनिन्प्रलयः । ब्रह्मज्ञानपरिपूर्णतया नैष्ठिकवनिरतिशयदीप्तियुक्त इत्यर्थः । इद चोकं मीमांसावाम् –'क्षत्रियत्वगतेश्च' इति सूत्रविषयवाक्यप्रकरणे जानश्रुतीना(8) क्षत्रियवृत्तान्ते स्पष्टम् । अदा ज्ञानभक्तिवैराग्यरत्मदादीनपि रज्जयतीति राजा धातूनामनेकार्थत्वादिति । जनकः पूर्वोकप्रकारेण श्रुतिषु प्रसिद्धः। 'जनको ह वैदेहः', 'कर्मणैव हि संसिद्धिमा- स्थिता जनकादयः' इत्यादिषु प्रसिद्ध इत्यर्थः । ते पिता येषां राज्ञां कुलेमिषति बहुत्वंपूजायाम् । उद्भूतावयविवक्षया, कुल झुत्पादकप्रबन्धः । सर्व जगत्सुवति कर्मानुष्ठाने प्रेरयतीति वा सविता सूर्यों गुरुः पिता वयमहम् 'अस्मदो द्वयोश्च' इति एकत्वे बहुवचनम् । 'सविशेषणस्य प्रतिषेध.' इति तु न बिधेयविशेषणविषये। ततोऽतु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः' इत्यादिप्रयोगात् । यद्वा 'वतिष्ठाङ्गिरसौ ऋषी प्राचेतसस्तथा' इति वक्ष्यमाणरीला बाल्मीके:, जृम्भकात्रसंप्रदायेन विश्वामित्रस्य, वामदेवादेव ग्रहणात् वयमिति बहुवचनम् । गुरुरित्यनुषक्तस्य वचनविपरिणामात गुरवो हितोपदेशारः । गृणातीति गुरुः । 'प्रोच' इत्यौणादिकसूत्रेण निष्पन्नोऽचं शब्द. । 'गुशब्दस्त्वन्धकारः स्यात् रशब्दस्तनिवर्तक.' इति निरक्या अज्ञाननिवर्तक इत्यर्थः । गुरवः पितर इत्येव वार्थः । स हि विद्यातस्तं जनयति' इति स्मृतेः 'पुत्रका इति होवाच' इत्यादि पुराणाञ्च । तेषां पार्थिवानाम् । 'सर्वा पूर्वमिव येवामासीत्कृत्स्ना वसुंधरा' इत्युक्तमुख्यपृथिवीपतित्वधर्माणां वपूरसि स्नुपासि ॥ ९॥ तदिति । तस्मात् अन्यकि वक्ष्यमाणादितरत्किमाशास्महे । 'आइशामु इच्छायाम्' इति धातोलन । अयं भायः तव गुणातिशयो नाशास्यस्तस्य 'विशेभरा भगवती' इत्युक्तमातृसंबन्धवशादेव तत्सिद्धेः । नापि ज्ञानभक्तिवैराग्यादिकम् , तस्य ब्रह्मवित्तमजनकसंबन्धादेव तल्लाभात् । न वा हितग्राहित्वमैश्वर्यं भर्तृसंवन्धप्रयुक्त निकर्षाभावश्च प्रार्श्वः । तेषां सहरुसंबन्धशालिमहाराजमहाकुलप्रसूतराजकुलस्नुषात्वादेव सिद्धत्वात् । अत एतेषां ना-

शस्यत्वम् , किंतु वीरप्रसवत्वस्येति । एष ऋषिश्रेयोविधानभूतबसिष्टानुनहरूपबीजस्य बहकरणात्परिकरः । तदुक्तम्-'बीजस्य बहूकरण परिकरः' इति । अनुगृहीता

  लौकिनानां हि साधूनामथै वागनुवर्तते ।
  ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते ॥ १० ॥

 अष्टावक्र:---इदं च भगवत्यारुन्धत्या देवीभिः शान्तया च भूयोभूयः संदिष्टम् । यः कश्चिदर्भदौहृदोदयो भवत्यस्याः सोऽवश्यमचि- रान्मानयितव्य इति ।

 रामः-क्रियते यद्येषा कथयति ।

 अष्टावक्र:-ननान्दः पत्या च देव्याः संदिष्टम्-'वत्से, कठोरगमति नानीतासि । वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः । तत्युअपूर्णोत्सङ्गामायुष्मती द्रक्ष्यामः' इति ।

 रामः- (सहर्षलज्जास्मितम् ।) तथास्तु । भगवता वसिष्ठेन न किंचिदादिष्टोऽस्मि ।

 अष्टावक्र:--श्रूयताम् ।

 जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् ।
 युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धन वः ॥११ ॥


इति । एतन्मनुष्यानुग्रहरूपचीजाजीकरणरूपं समाधान नाम संध्यङ्गमुकम् । तदुकम्-'बोजाङ्गीकरण समाधानम्' इति । लौकिकानामिति । लौकिकानामिलतो व्यतिरेकनिर्देशाल्लोकान्यस्य वेदस्यैव झरित्युपस्थितेः ऋषीणामित्युक्तम् । ऋषीणां पुनः । तपखिनामित्यर्थः । वाचमर्थोऽनुवर्तते वागधीनोऽर्थों भवति । तपस्विनामुक्तिहिं तपःप्रभावेनानासन्नमप्यर्थमुत्पादयतीति भावः । यद्वा 'ऋष गतौ' इत्यस्य बुध्वर्थत्वात्कालत्रयवर्तिवस्तुलाक्षात्कर्तृत्व नद्रषिपदप्रतिनिमित्तम् । तथा च भाविनमर्थ दृष्ट्वा ते वदन्ति । ततः स्वकाले प्राप्ते सोऽधरतामनुसरतीति भावः । हि यस्मात् एवं तस्मादनुग्रहीता वयमिलन्यत्रः । एतत् ऋषियोवितरणरूपबीजगुणवर्णनात् विलोभन नाम संध्यगमुक्तम् । यदुक्तम्---'बीजगुणवर्णनं विलोभनम्' इति ॥१०॥ इदं चेत्यादि । गर्भस्य दौहृद लक्षणम् ‘स की चारुतपूर्णरन्त्रैः' इतिधत् विशेष्यमानपरम् । अन्यथा दौहृदशब्दस्यैव गर्भचिहवाचित्वात् । तच्च विशिष्टवस्तुविषयाभिलाषादिरूपम् । तस्योदय आविर्भावः । मानयितव्यः संभावयितव्यः । तथा संपादनेन सफलीकार्य इति भावः ॥ क्रियत इति । एषा कथयति यदि क्रियत इत्यन्वयः ॥ ननान्दरिति । ननान्दुः । शान्ताया इलर्थः । देव्या इत्यस्य पूर्वोत्तराभ्यां संबन्धः । तथा च देवीसंबन्धिननान्तपतिना देव्याः संदिष्टम् । देवी प्रति संदिष्टमिलर्थः । पुत्रपूर्ण उत्सकोयो यस्या इति बहुव्रीहिः । यद्धात्र पूर्ण पदेन यमाविश्यपि सूच्यते, अन्यथा पुत्रवटुसङ्गामिति बक्कु शक्यत्वात् । द्रश्याम इति । एतत् बीजानुगुणप्रयोजनविभाधनारूपा युक्ति म संध्यममुक्तं भवति । तदुक्तम्-बीजानुगुणप्रयोजनविभावना युक्तिः' इति ॥ जामानिति । ऋष्यशृङ्गेति वक्तव्ये जामात्रित्युक्त पूज्यतास्फोरणाय । एवं व तदिक्षितं ज्ञात्वैवासाभिस्तत्रासितव्यम् । किं पुनस्तत्कृतबहुनिन्थे सतीत्वत आ  राम: यथा समादिशति भगवान्मत्रावरुणिः ।

  स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
  आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ १२ ॥


ह-निरुद्धा इति । अनेन सर्वप्रकारेणापि नगरं प्रत्यागमने त्वरातिशयो वसिष्टस्येति व्यज्यते । ननु कुत ईशस्त्वरातिशय इत्यत आह-त्वं बाल एवासीति । नतु राज्यतन्त्रविचारोपमर्दाभिश इत्यर्थः । किं च दशरथजामातरं ऋष्यशृङ्गं जामातेति निर्दिशन्वसिष्ठः खस्य दशरथस्थानीयतामभिप्रेति । तच्च रामबुद्ध्या स्वबुद्ध्या च । एवं मानल्यबालशब्दः पुत्रत्वाभिप्रायमूलकः । ततश्च ननु यद्यत्राचार्यक प्रस्तुतं स्यात् । इति तदागमने वरातिशय इति । न केवलमहह्माचार्यः, किं तु त्वगुळ्या दशरथस्थानीयश्च । तथा च त्वदीयराज्यत्तन्नविषयकास्थानानर्थशका मामसंनिकृष्टं बाधत इत्याह स्व बाल एवाति । नत्वन्यादृशरघुकुलराजचत् शिष्य इत्यर्थः । तथा च तव शिष्यमात्रत्वे पौरोहित्यादिकं वामदेवादयो निर्वत्यन्तीति तदर्थ नास्माक खरा । किंतु तत्पुत्रत्वात् त्वां युवराजीकृत्य महाराजस्थानीयेन मया राज्यतम्रो विचारयितव्यः । अन्यथा न मामतिशङ्का मुञ्चतीति भावः। नन्वस्त्येवम् , तथापि युद्धादिषु लब्धवर्णस्य याँवराज्यस्य पालने सहायापेक्षा नास्तीत्यत्राह-राज्यामिति । नवं च नवमेय । जतु युद्धादिवत् परिचितपूर्वमित्यर्थः । ननु तर्हि किं कर्तव्यमित्यत्राह—युक इति । युक्तः संनद्धः । 'योगः संनहने' इति कोशात् स्वस्मादात्मन आत्मीयाद्वा । परमं सर्वोत्कृष्ट प्रसिद्धधनस्य क्षयित्वमिति, तळ्यावृत्तिः परमशब्देन विवक्षिता । धन लब्धाशपरिपालनालब्धांशार्जनाभ्यां धनतुल्यमित्यर्थः ॥११॥ यथेति । मैत्रावरुणि: मित्रावरुणयोरपत्यमित्यर्थे बाह्नादित्वादिप्रत्ययः । देवताद्वन्द्वे च' इत्यानड् । इयं च कथा पौराणिकी वेदितव्या । समादिशत्याज्ञापयति । तथा करोमीति शेषः । स्नेहमिति स्नेहो हि मुखरूपः सुखान्तरहेतुश्च । किंच 'शरीरं वसु विज्ञान मित्रार्थे संपरित्यजेत्' इत्युक्तरील्या सर्वापेक्षया प्रशस्तश्च । अपि च 'अहेतुः पक्षपातो यन्तस्य नास्ति' इत्युक्तरीत्या दुर्निवर्त्यथ । तथा च तत्परित्यागोऽपि मम न दुःखायेति भावः । स्नेहस्य व्यवस्थितविषयत्व एवं गुणत्वम् , अन्यथा तु दोषत्वमस्तीति निष्कर्षःदया तु सर्वविषयापि गुणत्वं म मुञ्चति । यथा 'सर्वभूतेषु सर्वत्र संतुष्ट्या येनकेनचित् । सर्वेन्द्रियोपशान्त्या च तुयत्याशु जनार्दनः ॥' इत्युक्त्या धर्मरूपतया च । किच परदुःखाधीनसत्ततया तनियुक्ति विना दुर्निवा । तामपि मुश्चतो मम न व्यथेति भावः । एतेषां व्यतिरेकेऽप्यात्मनो न व्यतिरेक इत्यस्यापकर्षः । सीता तु 'प्राणेभ्योऽपि गरीबसी' इत्युक्तरीत्या जीवितं प्रत्यपि प्रथानभूता । किच 'अद्यावसितं रामस्य जीवितप्रयोजनम्' इति वक्ष्यमाणरीत्या मयतिरेकप्रयोजनव्यतिरेकवती । पूर्वोतलेहदयासौख्यैः संतुष्टोऽहं तामवलम्ब्च । तथाभूतामपि मुञ्चतो मम न व्यथति भावः । सीतामिलनुक्त्वा ज्ञानकीमित्युक्ति काराधनापेक्षया ब्रह्मवित्तमजनकानुरोधोऽप्याकिंचित्कर इति सूचयति । लोके हि अभिमतवतुपरित्यागात्पूर्वकाले तस्य संनिधानात् न दुःखभूयस्त्वम् । परिसांगात्परमपि तस्यातीतत्वात् न दुःखभूवस्त्वम् । तत्परित्यागकाले तु भवति दु: सीता--अदो जेब राहवधुरंधरो' अजउत्तो ।

 राम:----कः कोऽत्र भोः । विश्राम्यतादष्टाचक्रः ।

 अशावक्र:-(उत्थाय परिक्रम्य च 1) अये, कुमारलक्ष्मणः प्राप्तः (इति निष्कान्तः।)

(प्रविश्य ।)

 लक्ष्मणः-जयति जयत्यार्यः । आर्य, अर्जुनेन चित्रकरणास्सदुपदिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखितम् । तत्पश्यत्वार्यः ।

 रामः—जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम् । तत्कियानवधिः।

 लक्ष्मणः-~-यावदार्याया हुताशनशुद्धिः ।

 राम:--शान्तं पापम् । (ससान्त्ववचनम् ।)

  उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः ।
  तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ १३ ॥


१. अत एव राघवधुरंधर आर्यपुत्रः ॥


खभूयस्त्य ताबद्वर्तमानत्वात् । मन तु वर्तमानकालेऽपि न दुःखामेति वर्तमानार्थकमुक्त इति पदतो लभ्यते । व्यथेति सामान्यशब्देन मनोव्याधिरपि नेत्यर्थः ॥१२॥ राघवधुरंधरः । रधुवशश्रेष्ठ इत्यर्थः । राधवपदोपादान साभिप्रायकम् । शरणागतसंरक्षणभूतदयालोकाराधनकपररघुवंशजय तवेदमनुरूपमित्यभिप्रायः ॥ विश्राम्बताद्विश्रम प्राप्नोतु । आशिषि परस्मैपदलोटस्तातड् । 'विश्राम्यताम् इति पाठे तु परिजनैरिति शेषः । विधमवान्क्रियतामित्यर्थः । णिजन्तात्कर्मणि लोद ॥ अर्जुनेन तनाना । वीभ्यां चित्रमयशेण्याम् ॥ दुर्मनाचनानां दुःखितमनस्काम् । जनकस्य खदेशान्प्रति गमनादिति भावः । 'कर्तुः क्यङ्सलोपश्च' । डिस्वादात्मनेपदम् । शानच् । विनोदयितुं दु.खविस्मरणपूर्वक संतोष ग्राहयितुम् । 'नुद प्रेरणे' । उपसर्गबलेन उक्तार्थलाभः । तत्कियानवधिः । तदिसध्यनम् । तस्येत्यर्थः । अवधिरन्तः क्रियान् । किप्रमाणक इत्यर्थः । अनेकसंख्याकेषु मखापारेषु कीदृशसंख्यायुक्तोऽमस्यापारः । अस्य चित्रस्यायधिरित्यर्थ. ॥ यावदिति । हुताशनेन शुद्धिरिति विग्रहः । यावन्च्छब्दोऽधारणार्थकः । हुताशनशुद्धिर्थावत् । हुताशनशुद्धिरेवावधिरित्यर्थः । अवधिरिति पूर्वस्मादनपाः॥ शान्तं पापमिति। योऽथमलीकोपन्यासस्तस्य पीडाहेतुभूतपापशान्तिको भवस्विति तात्पर्यम् । लोकोक्तिरिय मिष्टजन प्रत्यनिष्टवचनाक्षमजनाशीर्वचनरूपा । ससान्त्ववचनम् । अत्यर्थमधुरवाक्स हितमित्यर्थः ॥ उत्पत्तीत्यादि । उत्पत्या परिपूतावाः परिशुद्धायाः । कृत्रिमत्वनिरासार्थमिदम् । स्वभावतो दोषप्रतिभटाया इसर्थः । अस्याः सीतायाः । पावयन्तीति पावनानि । मन्धादित्वाश्यप्रायः । अदेवि देवयजनसंभवे, प्रसीद । एष ते जीवितावधिः प्रवादः ।

  क्लिष्टो जनः किल जनैरनुरञ्जनीय-
   स्तन्नो यदुक्तमशुभं च न तत्क्षम ते ।
  नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
   मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥ १४ ॥


च्यानि पावनानि पावनान्तराणि । तैरित्यर्थः । किम् । न किमपीत्यर्थः । शुद्धिहि दोषनिर्हरणम् । अविद्यमानदोषायाः कथं शुद्धिरिति भावः । किच अन्तरशब्देन दोपरहितमात्रस्त्र पावकवस्त्वपेक्षा नास्ति । पावकस्य तु तन्नरपेक्ष्यं कैमुतिकम् । इयं च केवल दोषरहिता न । किंतु पावका चेति सूच्यते । 'अपि मां पावयेत्साध्वी स्नात्वे'तीच्छति जाह्नवी' इति न्यायात् । उक्तमर्थमुत्तराधैन दर्शयति---तीर्थोदकमिति । गङ्गादिपावनजलम् । तीर्थशब्दो विशेषणमात्रपरः । यथाश्रुते तीर्थशब्दस्यैव परिशुद्धोदकवाचित्वात् । या तीर्थानां गुरूणामुदकं पादावनेजनाम्भः । 'आपः पादाबनेजनीषिन्त निर्दहन्तु ने' इति श्रुते । बद्रिश्च । अन्यत्त शुद्धिमन्यहेतुकशुद्धि नार्हतः। यथा पावकत्वाविशेषात्तीर्थोदकबड्योरितरापेक्षा नास्ति तस्दस्या अपि पाबकत्वाविशेषेण तदपेक्षा मास्तीत्यतिस्फुटम् । किच विनिगमनाविरहात् बलेवी सीतासंबन्धत. शुद्धिः कि न स्यादिलाशयः । अग्निप्रवेशानुमतिमूढप्रत्यायनार्थी वा । अग्निप्राशस्त्यार्थी वा॥१३॥जीवितावधिरिति । जीवितस्यावधियस्येति बहुत्रीहिः । यदीयावधिः जीबितावधिः । स इमर्थः । प्रसीद । अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इत्युक्तरीत्या बहुतरापराधानां क्षिप्र क्षमापकोऽगमञ्जलिरपराधभूयस्त्वानुगुण्याच्छरीरपातपर्यन्तमनुष्टेयः । स चाशक्त्या तन्नेणानुष्ठीयत इति भावः । क्लिष्य इति। ययस्मात्कारणाक्लिष्टो जनो दुःखितो जनो जनैरनुरञ्जनीयः । क्लेशं विहार्य लालनीय इत्यर्थः । नतु पूर्वानुभूतदु.खस्मारणेन क्लेशयितव्य इत्यर्थः । तत्तस्मात् । अशुभममङ्गलम् । 'अशिवम्' इति पाठान्तरम् । ते त्वद्विषये । शेषे षष्ठी । न आवयोः । 'अस्मदो द्वयोश्च' इति द्वित्वे बहुवचनम् । यदुताम् । 'अस्मत्कर्तृक अदचनमित्यर्थः । 'नपुसके भावे क्त.' । 'यावदार्याया हुताशनशुद्धि.' इत्युक्तलक्ष्मणयचनमित्यर्थः। अत्र लक्ष्मणवचनस्य रामस्य खोक्तितैक्यामिसंधिना। 'रामस्य दक्षिणो बाहर्निस्य प्राणो बहिश्वर.' इत्युक्तेः । तत् । वचनमित्यनुषज्यते । नः । त्वदेकजीवितधोरतव निर्दोषतां च जानतोरित्यर्थः । नक्षम नोचितम् । अयं भावः-वन्धुत्व मित्रत्वानादरेण जनत्वरूवसामान्यधर्म एवानुरञ्जनीयानुरजक्रमावे पर्याप्तो हेतुः । तत्र 'प्रेयो मित्रं बन्धुता ना सनग्रा सर्वे कामाः संपदो जीवित वा । स्त्रीणां भर्ता धर्मदाराश्च पुमाम' इत्युक्तरीत्या सर्वप्रकारप्रियतमायास्तव विषये तथाविधानामस्माक पूर्वानुभूतदुःखलारणमहापराभो नोचित एव । तत्राप्यलोकनिर्वन्धतत्त्मारणं तु सुतराम् । किच निदोषता व जानतोरावयोस्तत्कथन तु दूरोत्सारितमिति । सुरभिणः कुसुमस्य सुगन्धप्रधानस्य पुष्पस्य मूर्ध्नि स्थितिनैसर्गिकी निसर्ग एव । विनयादित्वाखार्थे ठक्प्रत्ययः । सिद्धा  सीता--हो? अजउत्त, होदु । एहि । पेक्खा दाव दे चरिदम् । (इत्युत्थाय परिकामति ।)

 लक्ष्मण:-इदं तदालेख्यम् ।

 सीता--(निर्घ ।) के एंदे उवरिणिरन्तरद्विदा उक्त्थुवन्दि विष अजउत्तम् ।

 लक्ष्मणः-देवि, एतानि तानि सरहस्यानि जृम्भकास्त्राणि । यानि भगवतो भृशाश्वात्कौशिकमुपसंक्रान्तानि । तेन च ताटकावधे प्रसादीकृतान्यायस्य ।

 रामः--वन्दन देवि, दिव्यास्त्राणि ।

 ब्रह्मादयो ब्रह्महिताय तत्वा परःसहसं शरदां तपांसि ।
 एतान्यदर्शन्गुरवः पुराणाः खान्येव तेजांसि तपोमयानि ॥ १५ ॥


 १. भवत्वार्यपुत्र, भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् ।

 २. क एते उपरिनिरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ।


प्रसिद्धा । चेत्तनाचेतनसाधारण्येन प्रसिद्धा । चेतनैरवचूडरूपेणाचेतनैः शाखाने च धारणात् । चरणैरवताइनानि न । न दृष्टानीलर्थः । अयं भावः-विविधानि तावत्कुसुमान्यवगन्तव्यानि । यानि कान्तिप्रधानानि, सौरभ्यप्रधानानि, उक्तोभयप्रधानानि चेति । लन्न कान्तिप्रधानानि शाल्मलीकुसुमादीनि, सौरभ्यप्रधानानि दमनकादीनि, उभयप्रधानानि मालतीप्रभृतीनि । तन्त्र सौरभ्यमात्रप्रधानस्यापि न चरणावताडनाईत्वम् । तस्य प्राणैकनिरन्तरानुभाव्यत्वात् । एवं नायस्यापि । तस्य दर्शनकानुभाव्यत्वात् । उपप्रधानस्य तु सुतरीन चरणावताडनाइत्वमिति । सुरभिणः कुसुमस्येति पदद्वयोपादानादित्यं व्याख्यातम् । अत्र 'न मुसलैः' इति केचित्पठन्ति । अत्र प्राज्ञस्य पूजनीयस्य लक्ष्मणस्यैकस्य सकृत्किचिद्वचनमुपमेयमुक्त्वा निहीन बहुतरचरणकरणकानामुपमानतावचनात् तादृशताडनजन्य सुरभिकुसुमस्थ यावदत्याहित ताबल्ल- क्ष्मणबचनजन्यं सीताया अत्याहितमिति व्यज्यते ॥ ३४॥ प्रेक्षामहे । पदयाम इत्यर्थः ॥ आलेख्यं चित्रम् ॥ उपरिनिरन्तरस्थिताः । अविरलं स्थिता अनुपविष्टा इलाशयः । तेषां दिव्यास्त्रत्वादुपरिस्थितियुतित्युपरिलेखनम् । उपस्तुवन्ति स्तोत्र कुर्वन्ति ॥ सरहस्यानि । प्रयोगप्रतिसंहारौपग्रिकमन्त्रादयो रहस्यानि । तत्सहितानीत्यर्थः । जुम्भकात्राणि भृशाश्वात्तन्नाम्नो मुनेः कौशिक विश्वामित्रमुपसंक्रान्तानि प्राप्तानि । उपसंकान्तानीति कर्तृप्रत्ययेन खयमेव तानि कौशिक प्राप्तानीति लभ्यते । तथा च-भूशाश्वः परःसहस्रपरिवत्सरान्तेवासिने कौशिकाय' इति वक्ष्यमाणं परःसहस्रपरिवत्सरान्तेवातित्वं जृम्भकास्त्ररूपफलगुरुत्वमपेक्ष्यासत्कल्पमिति हृदयम् । तेन च विश्वामित्रेण प्रसादीकृतानि । प्रसादतकार्यजम्भकाचयोरभेदाध्यवसायादित्थमुक्तम् । केवलप्रसादेन दत्तानीत्यर्थः । ब्रह्मादय इति । पुराणा ब्रह्मादयश्चतुर्मुखप्रभृतयः । गुरवस्तप उपदे सीता-णमो एदाणम् ।

 रामः-सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति ।

 सीता-अणुगहीदलि।

 लक्ष्मण:----एष मिथिलावृत्तान्तः ।

 सीता-----अमहे, दलन्तणवणीलुप्पलसामलसिणिद्धमसिणसोहमाणमंसलेण देहसोहम्गेण विझअथिमिदताददीसन्तसोम्मसुन्दरसिरी अणादरत्थुडिदसंकरसरासणो सिहण्डमुद्धमुमण्डलो अजउत्तो आलिहिदो।


 १. नम एतेभ्यः ।

 २. अनुगृहीतास्मि ।

 ३. अहो, दलन्नवनीलोत्पलश्यामलस्निग्धमसूणशोभमानमांसलेन देहसौभाग्येन विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीरनादरत्रुटितशंकरशरासनः शिखण्डमुग्धमुखमण्डल आर्यपुत्र आलिखितः।


धारः । तमोनिवर्तका इत्यर्थः । 'शरदस्तपांसि' इति वा पाठः। तपास्यन्तःकरणनैमल्यापादनद्वारा भगवत्साक्षात्कारहेतुभूतकायशोषणव्रतानि । परःसहनम् । सहस्रात्परा इत्यर्थः । कर्तृकरणे कृता बहुलम् इति बहुलग्रहणात्समासः । सुप्सुपेति वा । परस्परादित्वात्सहस्रशब्दस्य सुडायमः । सहस्रसंख्याधिकसंख्याका इत्यर्थः । “विशवाद्याः सदैकत्चे सर्वाः संख्येयसंख्ययोः' इत्यनुशासनादेकत्वम् । शरदः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । तथा च सहस्र संख्याधिकसंवत्सरेषु निरन्तरं तस्वेत्यर्थः । ब्रह्म परमात्मा, प्रधानं च । तत्कार्यत्वाञ्जगत् ब्रह्मशब्देनोच्यते । तदुक्तम्'तादादुपचारोऽस्ति क्वचित्खखामिभावतः। अजाजीभावतात्काद्वैपरीत्यादपीष्यते ॥' इति । तस्य हिताय तदपेक्षितेष्टानिष्टप्राप्तिपरिहारसाधनाय तपःफलभूतज़म्भकोपदेशेन राजभिर्विरोधिनिरसनेन जगतः पुरुषार्थसाधननिर्वर्तनलिद्धेरिति भावः । अथवा ब्रह्म वैदस्तस्य हिताय धारणाय । धारणार्थकवाञ्धातोर्नपुंसके भावे क्तः । 'दधातेहिः' इति हिभावश्च । अतुत्सादायेति भावः । तपोमयानि तपःस्वरूपाणि । खार्थिको मपटू । खानि खकीयानि तेजांसि एतान्यदर्शझम्भकास्त्राण्यपश्यन् । कार्यकारणनिबन्धनमिदं सामानाधिकरण्यम् । 'दृशिर प्रेक्षणे' इति धातोः लुड् । तथा च बहुतरतपःकार्यभूतानामेतेषां केवलगुरुप्रसादसाध्यखम् । नतु शुश्रूषादिसाध्यत्वमिति भावः ॥१५॥ त्वत्प्रसूर्ति त्वत्प्रसवम् । त्वत्पुत्रावित्यर्थः । द्विवागर्भनन्धिस्तदनुदिवसैः' इति वक्ष्वमाणरीत्या धमलत्ववत्पुप्रजात्वमपि नितिमिति सूच्यते । अन्यथा स्त्रीप्रजात्वे जम्भकाभ्यनुज्ञानमसंगतं स्यात् । उपस्थास्यन्ति प्राप्स्यन्ति । मामिव स्तोध्यन्तीति वार्थः । अल्लाह इति । दलितनीलोत्पलबच्छयामलं स्निग्धं च चाकचक्या लक्ष्मण:-आर्ये, पश्य पश्य ।

  संबन्धिनो वसिष्ठादीनेष तातस्तवार्चति ।
  गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥

 राम:--सुश्लिष्टमेतत् ।

  जनकानां रघूणां च संबन्धः कस्य न प्रियः ।
  यत्र दाता ग्रहीता च खयं कुशिकनन्दनः ॥ १७ ॥


ताम् । मांसल स्फीत तेन । तथाविधेनेलर्थः। विशेषणसमासः। देहसौभाग्येन देहसौन्यग । किरिमता आश्चर्ययुक्ताः । अतएव स्तिमिता निश्चलास्तातासौर्दिश्यमाना सौम्या आह्लादकरी सुन्दरश्रीर्यस्य स तथोक्तः । प्राकृते आत्मनेपदाभावादीसन्तेत्युक्तिः । त्रुटितं भग्नं शरासन येन स तथोक्तः ॥ संबन्धिन इति । जनकानां जनकापत्यभूतानाम् । लाक्षणिकोऽयं शब्दः । पुरोहितो गौतमो गौतमपुत्रः । ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यणप्रत्ययः । शतानन्दस्तनामा । तथा च—एष तव तातो वत्तिष्ठादीन्संयन्धिनोऽर्चति पूजयति । जनकानां पुरोहितो गौतमः शतानन्दथ्वार्चतीलनुषाः । यथाक्रम तक तातो जनकः संबन्धिनो दशरथप्रभृतीनर्चयति । जनकानां पुरोहितो गौत्तमः शतानन्दश्च बसियादीनत्रयति चेत्यन्वयः ॥१६॥ सुश्लिष्टमिति । हेमारविन्दपरिमलन्यायादिति भावः । जनकानामिति । जनकानां जनवान शोद्भवाना रघूणां रघुवशोद्भवानां च । लाक्षणिकोऽय शब्दः । संयन्धोउपत्यसंबन्धः । कस्य न प्रियः । सर्वस्यापि प्रिय इत्यर्थः । यत्र संबन्धे कुशिकनन्दनो विश्वामित्रः खय दाता स्वयं प्रतिग्रहीता । दशरथं प्रति दाता, जनकं प्रति प्रतिप्रहीता चेत्यर्थः । अचं भाव.-तब मम च परिणयरूपोऽय संबन्धो जनकदशरथयोराबयोर्जनानां च मध्ये कस्यचिदपि नाप्रियः । तथा हि-जनकानां रधूणामित्यनेन रघुवइपाजनकवश्यान्प्रति नाप्रियत्वमिति लभ्यते । अन्न निमीनामित्यनुक्त्या जनकानामिति पदोपादानेन 'कर्मणैत्र हि संसिद्धिमास्थिता जनकादयः' इति जनके प्रसिद्ध कर्मयोगशीलत्वमिह स्फोर्यते । एव काबुल्स्थानामित्खनुक्खा रघूण्यामित्युक्त्या 'श्रुतस्य चायादवमन्तमभकरतथापरेषां युधि चेति पार्थिवः' इत्यादि कालिदासनिरुक्त्या 'ल. शिबयोनलोपश्च' इलनुशासनेन च लब्ध्या लहूते जानाति सर्वमिति व्युत्पत्त्या 'मनुरिक्ष्याकवेऽनावीन्' इत्यैवालय रघुकुलासाधारणज्ञानयोगशीलत्वं सूच्यते । तथाचान्यादृशजनकविषये जातोऽपत्यसंबन्धः संवन्धिनामित्यभिमतो भवति । लत्र क्षीरशर्करावदन्योन्यसंपर्करमणीचज्ञानकर्मशीलजनकविषयत्वे तु तस्य हेमारबिन्दपरिमलचायेनातिलाध्यत्वमिति तान्नखप्रियत्वब्यावृत्तिः । अतएव चावां प्रत्यपि नात्रिचत्वं चत्र दातेल्लादिनापि जनकदशरथौ प्रत्लनियत्यं व्यावखते तत्र दशरथं प्रत्ययाचितोपनतत्वाऽलनकं प्रति दुष्करधनुर्भाप्रतिज्ञानिवर्तनरूपमहोपकारकरणाच गुर्वनुशाप्राप्तत्वान्महर्षिकारितत्याच नावां प्रत्यप्रियत्वम् । स्वयमित्यनेनानहादिमूलकत्रिशकयाजनहारेवन्द्रोपलवचाधुत्तिः । अतएव जनान्प्रत्यप्रियवं निरस्तम् । शि सीता--एदे क्खु तत्कालकिदगोदाणमङ्गला चत्तारो भादरो । विआहदिक्खिदा तुझे । अझो जागामि तस्सि जेव्ध पदेशे सस्सि जेव्व काले वत्तामि।

 रामः

  समयः स वर्तत इवैष यत्र मां
   समनन्दयत्सुमुखि गौतमार्पितः ।
  अथमागृहीतकमनीयकङ्कण-
   स्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥

 लक्ष्मणः—इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः।

 सीता--वैच्छ, इअं वि अवरा का ।


 १. एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरः । विवाहदीक्षिता यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते ।

 २. वत्स, इयमप्यपरा का।


टानुमतस्य धर्मत्वे शिष्टकारिते तस्य कैमुतिकसिद्धत्वात् । तथा चापस्तम्वस्मृतिः-- 'यत्त्वार्याः क्रियमाणं तं प्रशंसन्ति स धर्मः' इति । ब्रह्मर्षिविश्वामित्रः इत्याधमुक्त्वा कुशिकनन्दन इति पदोपादानं विश्वामित्रः स्वब्रह्मर्षित्वमविगणय्य भूतपूर्वगत्या क्षत्रियवं खीकृत्य बन्धुभावेनास्मत्संबन्धिभावे नास्ति असतिसंबन्धे ब्रह्मर्षिकत्सानीति व्यन्जयति ॥१॥पदे क्खु इति। गोदानमङ्गलं क्षौरकर्म तस्य मङ्गलार्थत्वात्मालत्वम् । विवाहेन दीक्षिता विवाहदीक्षिता इति । विवाहहेतुकब्रतबन्त इत्यर्थः । 'दीक्ष मौरेज्योपनयनव्रतादेशेषु' इति दीक्षधातोः कतारे कः । तस्मिन्नेव प्रदेश इति प्रत्यभिज्ञादायमिति॥ समय इति । अन्न समये गौतभार्पितः पुरोधसा शतानन्देन प्रतिपादित आग्रहीतकमनीयकङ्कण; समन्तागृहीतकमनीयवलचः, तथापि मूर्तिमान् महोत्सव इव स्थितः समनन्दयत् , स एष समयो वर्तत इव स्मृतिवैशद्यमिदम् । अत्र सुमुखि 'आगृहीतकमनीयकङ्गणः' इत्युक्त्या सिद्धसा वसमभिव्याहारन्यायेनागृहीतकमनीयकङ्कणलं प्रति सीताया वदनकमलसौन्दयोतिशयो हेतुरित्यवगम्यते । अन्यथा "पाणि गृह्णीष्व पाणिना' इत्युक्तपाणिपीडनस्य प्रकोष्टवर्तिमणिवलयग्रहणासंगः । तथा च-सीतामुसचन्द्रदर्शनानन्दपारवश्येन सम्बकरग्रहणाभावात्संवृत्तः तथाव एवं स पाणिर्मूर्तिमान्महोत्सव इव स्थितः । सम्यक्स्पर्शे तु निःसीमानन्दकर इति ब्यज्यते । आयहोताः सम्यग्गृहीताः शृङ्गारमूलकसाविकभावविशेषरूपत्वेन स्पृहणीयाः कङ्कणाः स्वेदजलबिन्दवो यस्मिन्स तथोक इत्यप्याहुः । आगृहीतवैवाहिकप्रतिसर इत्यपि केचित् ॥ १८॥ इचमार्या माण्डवीति भरतभार्यात्वात् , इयमपि वधूरिति शत्रुन्नभार्या-

 उ० रा० ३  लक्ष्मणः—(सलबास्मितम् । अपवार्य ।) अये, ऊर्मिलां पृच्छत्यार्या । भवतु । अन्यतः संचारयामि । (प्रकाशम् ।) आर्ये, दृश्यतां द्रष्टव्यमेतत् । अयं च भगवान्भार्गवः ।

 सीता--(ससंभ्रमम् ।) ऋम्पिदह्मि ।

 रामः ऋषे, नमस्ते । लक्ष्मण:-आर्ये, पश्य । अयमार्येण (इत्यर्थोक्ते ।)

 रामः-(साक्षेपम् ।) अयि, बहुतरं द्रष्टव्यम् । अन्यतो दर्शय ।

 सीता-(सनेहबहुमानं निर्वयं । सुदु सोहसि अजउत्त, एदिणा विणअमाहप्पेण ।

 लक्ष्मणः-एते वयमयोध्यां प्राप्ताः ।

 रामः-(सास्रम् ॥ स्मरामि हन्त स्मरामि ।

  जीवत्सु तातपादेषु नूतने दारसंग्रहे।
  भातृनिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९॥


 १. कम्पितास्मि ।

 २. सुष्टु शोमसे आर्यपुत्र, एतेन विनयमाहात्म्येन ।


स्वात् सुषात्वेन ग्रहणम् ॥ अयमिति । भार्गवः परशुरामः ॥ कम्पितास्मि । येनेति शेषः । अयमायणेत्यादि । अन्न वैष्णव अनुरारोपवित्वा समाकृष्टतेजस्क इति वक्तुमुद्युतवान् लक्ष्मणः, तावदात्मप्रशसामसहमानो रामः प्रतिषिद्धवानिलाशयः ॥ साक्षेप सप्रतिषेधम् । 'क्षिपु निरसने' इत्यस्मात् भावे घञ्प्रत्ययः । अन्यतो दर्शच । अन्यत्र लिखितं दर्शयेति भावः ॥ विनयमाहात्म्येन विनयस्य खोत्कर्षतानाविष्करणरूपस्य खस्मिन्निकर्षानुसंधानरूपस्य वा माहात्म्य भूयस्ता तेनेत्यर्थः॥ एते वचमयोध्या प्राप्ताः । तथालिखिता इत्यर्थः ॥ जीवत्स्विति । तातपादेषु । पितरीत्यर्थः । पूजायां पादशब्दो बहुवचने । 'उत्तमानां स्वरूप तु पादशब्देन फण्यते' इति । जीवत्सु सप्राणेघु । 'यस्य च भावेन' इति सप्तगी । दारसंग्रहे नूतने सति मातृभिश्चिन्त्यमानानां नस्ते दिवसा गता इत्यन्वयः । गता दिवसास्ते हीति स्मरणाकार प्रदर्शन वा । अबन्धोरपि रक्षकस्य जीवनमानन्दाय । सर्वविधसंरक्षणशीलस्य पितुर्जीवर तु निरवधिकाहादजनकम् । किच दाराणां सत्ततपरिचयेऽपि प्रियकवेषत्वम्, नूतनसंग्रहे तु अमन्दानन्दहेतुत्वम् । खरूपसत्येव माता निरतिशयसौख्यकारिणी । तत्रापि सा लोकप्रसिद्धसर्वविधसंरक्षणानि कृत्वा ततोऽप्यधिकानि चिन्तयति चेत् निःसीमानन्दलाभः । एवमपरिच्छिन्नानन्दकन्दलहेतुत्वा निसानां तच्छब्देन निर्देशः । अन्न मातृभिरिति न यथाखसंबन्धः सर्चासां रामसर्वविषयहितचिन्तावत्वम् । संकोचे मानाभावात् । कैकेव्याः क्रौर्योपाधिकम् । एवं चेदयतिशथितानन्दहेतुः सपत्नीमातृइयमपि तदा जानकी

  पतनविरलैः प्रान्तोन्मीलन्मनोहरकुमलै-
   र्दशनकुसुमैर्मुग्धालोकं शिशुर्दधती नुखम् ।
  ललितललितैयॊत्साप्रायैरकृत्रिमविभ्रमै-
   रकृत मधुरैरङ्गानां मे कुतूहलमङ्गकैः ॥ २० ॥


प्रयुक्तोपप्लवस्थ सगरादिषु प्रसिद्धत्वेन तदभावस्याभिमतत्वात् । तातपादजीवनादीनां मध्य एकैकमेवानन्दहेतुः । समुदितानि तु सुतरामिति भावः॥१९॥'नूतने दारसंग्रहे' इत्युक्तं विशिष्टि-इयमपि तदेत्यादिना । पतनेति । शिशुः शैशवान्तवती । शिशुप्रायेत्यर्थः । 'पतिसंयोगसुलभ बयो दृष्ट्वा च मे पिता' इत्युक्तेः । पतनेन प्रस्थितदशनपतनेन । प्रान्तोन्मीलदित्युक्तेः बिरलैः सान्तरालैः । प्रान्तेत्याधत्र उन्मीलच्छब्दः प्ररोहद्दन्तपरः दशनकुसुमैरिति। रूपकसाहचर्यात् । तथा च उन्मीलदेव उद्यनूतनदशनाङ्कुर एव मनोहरकुमलमुन्मीलन्मनोहर कुझ्मलं प्रान्ते उन्मीलन्मनो- हरकुङ्मलं येषामिति बहुव्रीहिः । यद्धा कुड्मलशब्दो मुकुलसदृशदशनपरः । प्रान्तोग्मीलन्ति मनोहरकुड्मलानि येषामित्वधः । रूपकातिशयोक्तिरलंकारः । दशनकुसुमैरिति तु रूपकमुपमा घेति संकर इत्यपि वदन्ति । दशना एब कुसुमानि तैीवल्यशिखरित्वादिसादृश्यागुपणम् उपमा वा हेतुभिः । मुग्धः सुन्दर आलोको यस्य तत्तथोक्तम् । यद्वा दशनकुसुमैरिति इत्यंभूतलक्षणे तृतीया । दशनकुसुमैरुपलक्षितमित्यर्थः । मुग्धालोकं सुन्दरकटाक्षं मुखं दधती इयं सीता ललितादपि कुसुमादपि ललितैः सुकुमारैः । यद्वा ललितं नाम हासाद्यन्यतमविशेषः । तदुक्तम्'सुकुमाराजविन्यासो ललित परिकीर्तितम्' इति । तेन ललितैः । विलसितैरित्यर्थः । 'लड विलासे' कर्तरि कः । लडयोरेकत्वम् । ज्योत्स्नानायज्योत्स्नासदशैः । यद्वा ज्योत्स्ना क्रान्तिः । लावण्यमिति यावत् । तत्प्रायः । तत्प्रचुरैरित्यर्थः । प्रायशब्दः प्रचुरचाची। जलप्रायो देश इतिवत् । लावण्यस्वरूपं तु 'भूयिष्ठं तेज एवाद्भिर्बहुलाभिकृतम् । चक्षुरानन्दजननं लावण्यमिति कथ्यते ॥ इति । अकृत्रिमाः स्वाभाविका विभ्रमा बिलासा येषा तानि । तैरित्यर्थः । विभ्रमशब्दो गोबलीवदन्यायेन माधुर्यललितान्यपरः । चदा 'विश्रमस्त्वरचाकालभूषास्थान' इत्युक्तविभ्रमपरः । सोऽकृत्रिमः येषु तभोक्तरित्यर्थः । मधुरैः । नियरित्यर्थः । 'अभूषणेऽपि रम्यत्व माधुर्यमिति कथ्यते' इत्यु कमाधुर्वयुरित्यर्थः । अमुकम्प्रितैरजैरङ्गकैः । 'अनुकम्पायाम्' इति कन्प्रत्ययः । अतिसुकुमारतथा गाठालिङ्गनादिषु दयनीयरित्यर्थः । तदाह कालिदासः-'सदर्य सुन्दरि गृधते रसोऽस्य,' 'पीतं मथा सदयमेव रतोत्सवेधु' इति । उद्दण्डकविश्च 'इमां का ऽहमरभ्य उरसि सदयम्' इति । यद्वा अल्पैरङ्गैरकैः । अल्पे' इति सूत्रेण क्रन्प्रत्ययः । अल्पत्वं चेह तनुत्वमभिप्रेतम् । तदुक्तम्-स्वभावतनुका नूनम्' इति । अनेन 'मुश्लिष्टसैधिबन्धत्व सौन्दर्यमिति कथ्यते' इत्युक्तसौन्दर्यमप्युक्तं भवति । तेन विना तनुत्वस्य दोषत्यात् । मेऽङ्गानां कुतूहलमकृत कृतवती । 'टुकृञ् करणे' सिचो लोपः । कर्त्र लक्ष्मण:-एष मन्थरावृत्तान्तः ।

 राम:- (सत्वरमन्यतो दर्शयन् ।) देवि वैदेहि,

   इङ्गुदीपादपः सोऽयं शृङ्गिबेरपुरे पुरा ।
   निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥२१॥

 लक्ष्मण:-(विहस्य । खगतम् ।) अये, मध्यमाम्बावृत्तान्तमन्तरित. मायेण । सीता-अह्मो, एसो जडासंजमणवुत्तन्तो ।

 लक्ष्मण:---

   पुत्रसंक्रान्तलक्ष्मीकैयदृद्धक्ष्वाकुभिधृतम् ।
   धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ।। २२ ॥

 सीता—ऐसा पसण्णपुण्णसलिला भअवदी भाईरही।

 रामः-रघुकुलदेवते, नमस्ते ।


 १. अहो, एष जयासंयमनवृत्तान्तः!

 २. एषा प्रसन्नपुण्यसलिला भगवती भागीरथी।


भिप्राय आत्मनेपदेन रामाजकुतूहलकरणफलं सौताया इत्यवगम्यते । 'अद्वैतं सुखदुः- खयोः' इति वक्ष्यमाणत्वात् । केचित्तु 'अम्बानाम्' इति पाठ इत्याहुः ॥२०॥ मन्थरावृत्तान्तस्तत्वयलफलपट्टाभिषेकान्तरावरूपः ॥ इङ्गुदीति । लिग्थेन नेहवता निषादपतिना गुहेन समागमः संवन्धः ॥ २१॥ मध्यमाम्यावृत्तान्तमिति कीवत्वं प्रामादिकम् ।अन्तशब्दं त्यक्त्वा मध्यमाम्बावृत्तमन्तस्तिमिति पठनीयमिलाहुः ॥ जटासअमनं जटावन्धनम् ॥ पुत्रेति । पुत्रेषु संक्रान्ता खयमेवाश्रयशैथिल्यादागता । स्वत: संकान्वेलर्थः । गत्यर्थादिसूण कर्तरि तः । तथाविधा लक्ष्मीर्येषां ते तथो कास्तैः ।

उरःप्रभृतित्वात्कए । वृद्धाश्च ते इक्ष्वाकवश्चेति विग्रहः । इक्ष्वाकुर्वश्या इत्यर्थः । तैयद्गतं धृतं तत्पुण्यं व्रतमार्बेण बाल्ये 'वृतमिति योजना । आरण्यकानां व्रतम् । अरण्यचरमनुष्यसंबन्धि व्रतमित्यर्थः । अन्न पुत्रसंक्रान्तलक्ष्मीकरित्यनन पुनवत्वमु. पभुक्कराज्यत्यम् , संक्रान्वेति तप्रत्ययेन चाबच्छरीरदौथित्यमुपभुक्तराज्यवत्वम्, वृद्धत्यनेन वाधक चावगम्यते । एव चैतेषां समुदितानां सल एव पूर्वेषामारण्यकव्रतधारणं न तु यत्किचित्सत्वे । रामस्य तु एतेषां सर्वेषामभावेऽप्यारण्यक नराधारणम् । बाल्ये इलनेन पुत्रवत्वोपभुक्तराज्यकत्वशरीरशैथिल्यवार्थकाभावाना लाभात् । व्रतमित्यनेन असमज्जादिव्यावृत्तिः । व्रतस्य पुण्यत्याव्यभिचारात् पुण्यमिति विशेषणं प्रसिद्धव्यावृत्त्यर्थम् । तद्धि अनुष्ठातुरेव पुण्यफलसाधनम् । इद तु सकलभुवनाभीसाधनामिति । आयेणेत्यनेनासामध्यनियन्धनलोकवादभीत्यादिना म कृतम् । किंतु

 तुरगविचयव्यग्रानुवाभिदः सुगराध्वरे
  कपिलमहसा रोषालुष्टान्पितुश्च पितामहान् ।
 अगणिततनूतापस्तत्वा तपांसि भगीरथो
  भगवति तब स्पृष्टानद्भिश्विरादुदतीतरत् ॥ २३ ॥

सा त्वमम्ब, स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव ।

 लक्ष्मण:-एष भरद्वाजाचेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे बटः श्यामो नाम ।

(रामः सस्पृहमवलोकयति ।)

 सीता-सुमरेदि वा तं पदेसं अज्जउत्तो ।

 रामः--अयि, कथं विस्मयते ।

  अलसललितमुग्धान्यध्वसंपातखेदा-
   दशिथिलपरिरम्भैदत्तसंवाहनानि ।
  परिमृदितमृणालीदुर्बलान्यङ्गकानि
   स्वमुरसि मम् कृत्वा यत्र निद्रामवाप्ता ॥ २४ ॥


१. सरति वा ते प्रदेशमार्यपुत्रः ।


वैदिकश्रद्धामूलमित्यवगम्यते ॥२२॥ प्रसन्नपुण्यसलिला स्वच्छपरिशुद्धजला ॥ तुरगेति। सगराध्वरे तुरगस्येन्द्रापहृताश्वस्य विचयेऽन्वेषणे व्यग्रान्ससंभ्रमान् । अत एवोवीभिदो भूमिखानिनः । भिदेः विप् । कपिलमहसा तन्नामक नितेजता रोषाद्धेतोः प्लुष्टान्दग्धान् । 'शुष दाहे । कर्मणि क्तः। तवाद्भिः स्पृष्टानुदतीतरदुत्तारयति स्म।तरतेणिचि लुड् ॥ २३ ॥ शिवे मङ्गलेऽनुभ्यानं वस्या इति विग्रहः । एतेन बीजानुगुणप्रोत्साह- नरूपं भेदो नाम संध्यामुक्तम् । तदुक्तम्--बीजानुगुणप्रोत्साहन भेदः' इति ॥ वनस्पतिरपुष्पत्वे सति फलवान् । बटः श्यामो नाम तथा प्रतिद्धिमान् ॥ अलसेत्यादि । अध्वनि मार्गे संपातः सम्बगमनम्।रामलक्ष्मणापेक्षया चरितगमनमिति भाव.। अप्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकानू' इत्युक्तत्वात् । तेन यः खेद यासस्तस्माद्धेतोरलसललितमुग्धान्यलसानि प्रसरणाकुश्चनासमर्थानि ललितानि मृदूनि मुग्धानि सुन्दराणि । खभावतः सौन्दर्यसौकुमार्ययोः सत्वेऽभ्यध्वसंपातखेदादलसललितमुग्धानीखुक्त्या मार्गगमनायासेन तयोचिगुणीभाव इति भावः । तथापि दृशोः प्रिया' इत्युक्तेः । अशिथिलपरिरम्भैईटतरालिङ्गनैः । बहुवचनमालिशनावृत्त्यभिप्रायकम् , कामतअप्रसिद्धालिगनभेदबाहुल्याभिप्रायक वा । दत्तानि संवाहनानि येभ्व इति चतुर्थीबहुव्रीहिः । संवाहनं नामानानां गमनादिजनितायासशमनौपयिकदृढतमस्पर्शविशेषः । परितः साकल्येन मृदिता निष्पीडिता या मृणाली तद्वदुर्बलानि स्वखधारणसामर्थ्यरहिता लक्ष्मण:--एष बिन्ध्याटवीमुखे विराधसंवादः ।

 सीता--अलं दाब एदिणा । पेक्खम्मि दाब अज्जउत्तसहत्तधरिदतालवुन्तादवत्तं अत्तणो अच्चाहिदं दक्खिणारण्णपहिअत्तणम् ।

 रामः

  एतानि तानि गिरिनिर्झरिणीतटेषु
   वैखानसाश्रिततरूणि तपोवनानि ।
  येप्वातिथेयपरमा यमिनो भजन्ते
   नीवारमुष्टिपचना गृहिणो गृहाणि ॥ २५॥

 लक्ष्मण:--अयमविरलानोकहानियहनिरन्तरसिग्धनीलपरिसरारण्यपरिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेषमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम ।

 रामः -

  स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन
   प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।


१. अलं ताबदेतेन । पश्यामि ताबदार्यपुत्रस्वहस्तधृततालवृन्तातपत्रमात्मनोऽत्याहितं दक्षिणारण्यपथिकत्वम् ।


न्यङ्गकानि । 'अनुकम्पाचाम्' इति कन्प्रत्ययः । त्वं ममोरसि कृत्वा यत्र अस्मिन्प्रदेशे निद्रामवाप्ता स कथं विस्मयंत इति योजना । अयं भावः- पूर्वमभ्वसंपातखेदः, ततो ललितत्वसौकमार्चद्विगुणीभावः, ततस्तद्दर्शनवशादशिथिल्धलिङ्गनबाहुल्यम् , ततश्च तत्संवाहनता, ततः स्वभारणसामर्शविरहदौर्बल्यम् , ततो रामवक्षःस्थल एव लमता, ततस्तदीयसौकुमार्यपारवश्यात्तत्रैव निद्रावाप्तिरिति ॥२४ ॥ वहस्त वृततालपत्र-

मेव तालवृन्तं तदेवातपत्र यस्मिनिति विग्रहः । आत्मनोऽत्याहितं जीवितनिरपेक्षकिनारूपम् । दक्षिणारण्ये पथिकलमिति विग्रहः ॥ पतानीति । येषु तपोबनेषु । अतिथिषु विषये साधुरातिथेयोऽतिथिसत्कारः परमः येषां ते पुरुषा इत्यर्थः । यमिन इति द्वितीयान्तम् । पक्कामाधिकारिणो यतीन् भजन्ते सेवन्ते । किचनीबारमुष्टेः पचन यैस्ते गृहिणो गृहाणि भजन्ते । यद्धा यमिन इति हिविशेषणपदं प्रथमान्तम् । यमवन्तः । इद धर्मादीनामप्युपलक्षणम् । आतिथ्यपरमा गृहिणो गृहस्था गृहाणि भजन्त इत्यन्वयः । यद्वा आतिथेयपरमा आतिथ्यापेक्षिणो नीवारमुष्टः पचनं येभ्य इति तोक्का यामिनः पक्वान्नाधिकारिणः कर्तारो गृहिणो गृहस्थस्य गृहाणि भजन्ते । तानि वैखानसर्मुनिभिराश्रितास्तरवो येषु तथोक्तानि एतानीखन्वयः ॥ २५ ॥ अयमविरलेत्यादि । अरण्यपरिणद्धा गोदावरीमुखेषु येषां तानि कन्दराणि यस्य स तथोक्तः । पर्वतानां खतोऽपि नीलत्वान्मेदुरितेत्युक्तम् । स्मरसीति । हे सुतनु शोभना तजुर्यस्या इति विग्रहः । तनूरित्यूहन्ताद्वा संयुद्धौ इखः ।

  स्मरसि सरसनीरां तत्र गोदावरी वा
   स्मरसि च तदुपान्तेप्वावयोर्तनानि ॥२६॥

किं च ।

  किमपि किमपि मन्दं मन्दमासक्तियोगा-
   दविरलितकपोलं जल्पतोरक्रमेण ।
  अशिथिलपरिरम्भव्याप्तैकैकदोष्णो-
   रविदितगतयामा रात्रिरेव व्यरंसीत् ॥ २७ ॥


तस्मिन्पर्वते । प्रस्रवण इत्यर्थः । विहिताश्च ताः सपर्याश्च विहितसपर्याः । विहितसपासु विहितसपर्यासु प्रतिदिहितसपर्चम् । वीप्सायामव्ययीभावः । तत्र आसमन्तात्सुखेन स्थितयोरित्यर्थः । 'सुः पूजायाम्' इति कर्मप्रवचनीयत्वात् पवाभावः । बा प्रतिविहिताभिः । प्रत्युपकारीकृताभिरित्यर्थः । अस्मत्कृतवनानुगमनानुशामहोपकारस्येति शेषः । आवयोरित्याध्यते । सरसनीरां स्वाभाविकमधुररसयुकजलवतीम् । अनेन समुद्रसंगमसमीपस्थजलं व्यावयते । तत्रास्थाः क्षारप्रसिद्धर्वा किमित्यर्थः । अत एव पूर्वोत्तरयोः किमिति लभ्यते । अत्र प्राथमिकन्वाद्वाह्यत्वाच प्रथम तान्यहानीति दिनस्योक्तिः । आनन्तर्यादहस्यत्वाच्च आबचोर्वर्तनानीत्यस्यानन्तरोक्तिः तदुभयोपकारित्वाद्गोदावर्थी मध्वोक्तिरिति ध्येयम् ॥ २६ ॥ किमपीति । आसक्तिः रत्यभिनिवेशो विषयानुभूत्यानवस्थानलक्षणन्तस्याः योगात् संवन्धाद्धेतोः अविरलिती निरन्तरीकृतौ कपोलौ यस्मिन्कर्मणि तथोक्तम् । मन्द मन्दमतिसूक्ष्माक्षर चथा तथा अक्रमेणान्योन्यस्वभावविरुद्ध प्रक्रियया किमपि किमपि । इदं च गुप्तकथनम् । जल्पतोरशिथिळे गाढे परिरम्भे व्यापृतमेकैके दोः ययोरिति पूर्वस्मादनुषङ्गः । शेषे षष्ठीयम् । अविदितं यथा तथा गता यामा अस्यास्तथाविधा रात्रिरेब व्यरंसीतू विरमति स्म । नेवासक्तियोगविसम्भसंलापक्रीडाद्य इत्यर्थः । 'धाइपरिभ्यो रमः' इति परस्मैपदम्' । 'यम रम- इति सगिदौ । अत्र अविदितगतेति वाविदितगतनाडीति वा अकृत्वा यामपदोपादानादयमाशयोऽवगम्यते । 'व्रजति रतिसुखाथै चित्रिणीमग्रयाने ब्रजति दिनरजन्या हस्तिनों च द्वितीये । गमयति च तृतीये शशिनीमाईभाव रमयति रमणीयो पद्मिनी तुल्ययामे ॥' इत्युक्तप्रकारेण पभिन्यादीनां सुरवसौख्यातिशबाय यामविशेषा विधीयन्ते । तथा च पधिनीपाचालादीमां खखविहितयामप्रतीक्षणं विहितेतरयासानां कथंचिदतिवाहनं च सिद्धम् । एव च सीतारामयोः पधिनीपाञ्चालयोस्तुर्ययामस्वैव सुरतयोग्यत्नेन निरतिशयमुखावच्छेदककालत्वात्तस्याविदितगतत्वं किंतु तदुच्यमान तदितरयामेषु पर्यवस्यतीति । तद्वतेषामतिशयितसुखकालत्वं सिद्ध्यति । तेषामतिशयितकालत्वमान्तरसंभोगेनैवेति किमपि किमपीत्यादिभिरवगम्यते । तथाहि किमपि क्रिमपीत्यस्य सुरतकालीमवरुव्यजातमेवार्थः । गुप्तकथनादेवं च किमपि किमपि जल्पतौरित्यन मन्दमन्दमविरलितकपोलमित्युभयत्र जल्पनेऽन्वेति । अक्रमणेत्यपि तथा । एवं च सुरतकालीनजल्पनस्य  लक्ष्मण:-एष पञ्चवट्यां शूर्पणखाविवादः ।

 सीता हा अजउत्त, एत्तिकं दे दंसणम् ।

 रामः--अयि वियोगत्रस्ते, चित्रमेतत् ।

 सीता-जहा तहा होदु । दुजणो असुहं उप्पादेइ ।

 रामः- हन्त, वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति ।

 लक्ष्मण:-

  अथेदं रक्षोभिः कनकहरिणच्छाविधिना
   तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि ।
  जनस्थाने शून्ये विकलकरणैरार्यचरितै-
   रपि पावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ २८॥


 १. हा आर्यपुत्र, एतावत्ते दर्शनम् ।

 २. यथा तथा भवतु । दुर्जनोऽसुखमुत्पादयति ।


मान्यातिशयोक्तिकथनादावाक्त्व सीताथा गम्यत इत्युक्तावतिविशेषात्फुल्लजृम्भिताख्यबन्धविशेषौ सूच्यते । तदुक्तं काञ्चीनादेन–'उत्फुल जम्भितयोः स्त्रिया आईवचो न क्रोधः' इति । तहक्षणं तु अविरलितकपोलत्वमुपविष्टयोरेव सुलभमिति । अक्रमेणेति पुरुषायित सूच्यते । तच्च भ्रामरादिभेदाविविधमप्यत्र बोध्यम् । अत्र पुरुषाथितस्य 'स्वेच्छया भ्रमणीवल्लभ-' इत्युक्त्तत्वात्स्वेच्छैव निमित्तमिति बोध्यम् । अशिथिलेत्यादिना पार्श्वशायिनोः सुरतमिति लभ्यते । अन्यथा उभाभ्यामेव बाहुभ्यां किं न स्यात् । एवं कतिपयैरेव बन्धविशेषै रात्रेरेवावसितत्वाद्बहूनां क्रीडाविशेषाणां तद्धेतुभूतासक्तियोगस्य वाविरतत्वानात्रिरेव व्यरंसीदित्युक्तम् । इदमेवाभिसंधाय 'बिन्दुमात्र विशिष्यते' इति कालिदासेनोक्तम् । वस्तुतस्तु संलापादिबाह्यसंभोग एवं स्वारस्य मिति सुधियो विभावयन्तु ॥२७॥ एष इति । शूर्पणखाविवादः। रामेण लक्ष्मण प्रति तेन रामं प्रति प्रेषणादिरिति भावः । 'नखमुखालंज्ञायाम् इति डीपो निषेधः । पूर्वपदात् इति मत्वम् ॥ वियोगत्रस्तेति । वियोगात्रस्त इति विग्रहः । पञ्चमी' इति योगविभागात्समासः ॥ असुख दुःखम् ॥ अथेति । अथ विकलकरणैरार्चचरितैः । यथा प्रावापि रोदिति, वनस्यापि हृदयं दलति, तथा पापै रक्षोभिर्जनस्थाने शून्ये सति कनकहरिणच्छाविधिना वृत्तमिद क्षालितमपि व्यथयतीत्यन्वयः। अथ शूर्पणखाचित्रदर्शनानन्तरम् । यथा येन प्रकारेण विकलानि खखव्यापारशून्यानि करणानि चक्षुरादीनि येधु तथोक्तैरायंचरितैमूाप्रभृतिव्यापारैवापि शिलापि रोदिति रोदनं करोति । 'रुदादिभ्यः' इती । वज्रस्यापि वज्रादन्येनाभेद्यस्य वज्रस्यापि हृदयं मध्यप्रदेशो दलति विधा भिन्नं भवति, तथा तेन प्रकारेण वृत्तमिति संबन्धः । जनस्थाने पापै रक्षोभिः शून्ये सति । खरदूषणादिवधानन्तरमित्यर्थः । कनकहरिणच्छन्नविधिना खणेमारीचमाथिकमृगव्याज सीता—(सास्त्रमात्मगतम् । अझो, दिणअरकुलाणन्दगो एव्वंबि मह कालणादो किलन्तो आसि ।

 लक्ष्मणः—(राम निर्वर्ण्य साकूतम् ।) आर्य, किमेतत् ।

  अयं ताबद्धाप्पस्युटित इव मुक्तामणिसरो
    विसर्पन्धाराभिलुंठति धरणी जीरकणः ।
  निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया
   परेषामुन्नेयो भवति चिरमाध्मातहृदयः ॥ २९ ॥

 रामः-वत्स,

  तत्कालप्रियजनविप्रयोगजन्मा
   तीनोऽपि प्रतिकृतिवाग्छया विसोढः ।
  दुःखामिर्मनसि पुनर्विपच्यमानो
   हृन्मर्मत्रण इव वेदनां तनोति ॥ ३० ॥

 सीता--हंदी हद्धी । अहंवि अदिभूमि गदेण रणरणएण अन्जउत्तसुण्णं विअ अत्ताणं पेक्खामि ।


 १. अहो, दिनकरकुलानन्दन एवमपि मम कारणाक्लान्त आसीत् ।

 २. हा धिक् हा धिक् । अहमप्यतिभूमि गतेन रणरणकेनार्यपुत्रशून्यमिवास्मानं पश्यामि।


करणेन वृत्तं निष्पन्नमिदमिति सीताहरणादेश्चित्रस्वाकुल्या निर्देशः । क्षालितमपि प्रतिकृतमपि व्यथयति दु.खं जनयत्ति । शूर्पणखानन्तरं सीताहरण लिखितमिति भावः । अत्र ग्रावापि रोदितीत्यादिक नायोगे योगकल्पनम् । किंतु वास्तवमेव । 'अपि वृक्षाः परिम्लामाः' इतिवदुपपत्तेः । एवं स्मृत्वाद्यापि रोदितीत्यवगम्यते ॥२८॥ आर्येति । एतद्रक्ष्यमाणम् ॥ अयं तावदिति । त्रुटितरिछन्न आवेगो दुःखातिशयः । अधरश्च नासापुटश्चेति विग्रहः । तयोईन्दूश्च । अतो न नासाशब्देहखः । उन्नयोऽनुमेय आध्मातहृदयो गद्गदशब्दयुक्तकण्ठः। 'ध्मा शब्दे' इति धातोः कर्मणि क्तः। नेद चित्रकथनं किंतु तादात्विकवास्तवावस्थाकथनमेव । तत्कयचेखादि प्रतिवचनानुरूयात् ॥ २९॥ तत्कालेति । प्रतिकृतित्रु प्रतिक्रियासु वाञ्छयादरेण विपच्यमानः । स्वयमेव परिपाकमाधित्येलर्थः कर्मणः कर्तृत्वविवक्षया 'कर्मवत्कर्मणा' इत्यातिदेशिकयगात्मनेपदम् । इद च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति। तनोति । विस्तारयतीत्यर्थः ॥ ३०॥ भूमिमतिकान्तोऽतिभूमिः । 'अत्यादयः' इति समासः । भावप्रधानो निर्देशः । अतिभूमित्वं गतेनेत्यर्थः । बैपुल्यं प्राप्लेनेति यावत् । रणरणकेन भयसंभ्रमेण ॥ आक्षिपाम्यन्यतो मनः प्र लक्ष्मण:--(स्वगतम् ।) भवतु । आक्षिपामि । (चित्र विलोक्य प्रकाशम्।) अर्थतन्मन्वन्तरपुराणस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम् ।

 सीता--हा ताद, शिब्बूढो दे अवञ्चसिणेहो ।

 राम: हा तात काश्यप शकुन्तराज, क नु खलु पुनस्त्वादशस्य महतस्तीर्थभूतस्य साधोः संभवः । लक्ष्मण:-अयमसौ जनस्थानस्य पश्चिमतः कुञ्जवान्नाम पर्वतो दनुकवन्धाधिष्ठितो दण्डकारण्यभागः । तदिदममुण्य परिसरे मतङ्गाश्रमपदम् । तत्र श्रमणी नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसरः। सीता-जत्थ किल अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्ककण्ठं परुणणं आसि ।

 रामः-देवि, परं रमणीयमेतत्सरः।

  एतस्मिन्मदकलमल्लिकाक्षपक्ष-
   व्याधूतस्फुरदुरुदण्डपुण्डरीकाः।


 १. हा तात, नियूंढस्तेऽपत्यस्नेहः ।

 २. यत्र किलार्यपुत्रेण विच्छिन्नामरेधीरत्वं प्रमुक्तकण्ठं प्ररुदितमासीत् ।


वर्तनेन पूर्वोक्तं विस्मारयामि ॥ अथैतदिति । अन्यो मनुमन्वन्तरम् । मयूरन्यसकादित्वात्समासः। मन्वन्तरात्पुराणस्येति विग्रहः । सुम्सुपेति समासः । तातजटायुषः । पितृसखत्वात्तातपदव्यपदेशः । चरित्र वृत्तम् । विक्रमः शौर्यम् । उदाहरणम् । सदृशचित्रलेखनमिति भावः ॥ हा तातेति । काश्यपः कश्यपपुत्रः। तीर्थभूतस्य हितोपदेष्टुः॥ एलस्सिन्नित्ति । मदेन कलं कूजितं येषां ते तथा ताः । तथाविधानां मल्लिकाक्षाणां हसविशेषाणां पर्गरद्भिाधूताः कम्पिताः स्फुरन्त उरवो दण्डा येषां तानि पुण्डरीकाणि येषु ते तथोकाः । कुवलयिनश्च विभागाःप्रदेशा बापाम्पसः परिपतनोगमयोरन्तराले मया संदृष्टाः । निरन्तरं दृष्टा इत्यर्थः । तथा कुवलयिन इत्यत्र प्रशंसायाँ मापा प्रशस्तकुचलययुक्ता इत्यर्थलाभेन रात्रौ दृष्टा इति सूयते । केन्नित्तु-मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीका विभागा बाध्याम्भःपरिपतनोमान्सराले कुवलपिनो दृष्टा इत्यन्वयमुक्त्वा कापाम्भ:प्रसरणमलिनीकृतपुण्डरीकाः कुवलयवन्तो दृष्टा इत्य थैमाहुः । परे तु-मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः कुवलयिनश्च विभागाः । विभज्यन्त इति विभागाः । परस्परसंकीर्ण प्रदेशा बापाम्भापरिपतनोगमान्तराले संदृष्टा एकीकृत्य दृष्टाः । समित्येकीकारे । अविभागोम दृष्टा इत्याहुः । इतरे तु-'ननु रमणीयमेतत्पद्मसरः इत्युक्त त्वया तत्कश्चनुपपद्यते विरहोद्दीपककलकूजितयुक्तहंसाधिष्ठितपुण्डरीकयुक्तस्य सरसो द्रमशक्यत्वादित्यत्राह-एतस्मिन्मदकलेति । मत् अकलेति पदच्छेदः । मदिति पदम्येकवचनम् । पृथक्पदं समस्तं वा । मन्मन्निमित्तं

  बाप्पाम्मः परिपतनोद्रमान्तराले
   संदृष्टाः कुवलयिनो मया विभागाः ॥ ३२॥

 लक्ष्मण:-अयमार्यों हनूमान् ।

 सीता-एसो सो चिरणिव्यूढजीवलोअपच्चद्धरणगरूओवआरी महानुभावो मारुदी।

 राम:-

  दिष्टया सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
  यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥३२॥


 १. एष स चिरनियूंढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो सारुतिः।


विरहव्यथातुरमद्धेतोर्न विद्यते कल कूजित येषां ते तेषांमालिकाक्षाणां हसविशेषाणां पक्षलुंधूतानि । कम्पितानीति यावत् । अत एव स्फुरदुरुदण्डानि निवृत्ताधारतया चलदुरुदण्डानि पुण्डरीकानि गेषु तथोक्ताः त्रुघलयिनः पुण्डरीकवदिवा विकासाद्यभावेनाकिंचिकरत्वाद्धसैरन्याधूततया कुवलयसत्तामात्रवन्तः। एतस्मिन्विभागा बाष्पाम्भःपरिपतनोद्मान्तराले संदृष्टाः सम्यग्दृष्टाः । परिहाससंभावितत्वादवस्थितिव्यतिरेकनिश्चयपर्यन्त दृष्टा इत्यर्थः । नितोपलयतया सम्यग्दृष्टा इति भावः । मल्लिकाक्षाः खलु विरहोद्विग्नस्य मम कृते स्वयं विरहसभुद्दीपक कूजितं त्यक्त्वा तदुद्दीपकानि पुण्डरीकान्यप्वनाशयन् । ततोऽहं निवृत्तोपालवतया नान्तरीयकतथावस्थितिपर्यन्तं तान्विहंगान्दृष्टवानिति भावः । युक्तं चैतत् । विरखिन्नं रामं प्रति महिकाक्षाणाम् 'अपि भावा रोदिति' इति न्यायेन करुणायाः संभवात् । इलचक्रवाकशापदर्शनेन चक्रवाकशापदाता रामोऽस्माकमपि शापं दास्यतीति भीत्या शब्दासंभवात् । 'कण्ठेषु स्खलितं गतेऽपि शिशिरे पुस्कोकिलानां स्तम्' इत्यादिविषयविशेषैतिरश्चामपि विरहिजनानुरोधः प्रसिद्धश्शेति वदन्ति ॥३१॥ एष इति । चिरान्निव्यूंढ निष्पादित यजीबलोकप्रत्युद्धरणं तेन गुरु यथा भवति तथा । उपकरोतीत्युपकारी । दशभासपरिमितरावणगृहबासस्यातिभूयत्स्वाभिसंधिना चिरादित्युक्तम् । स्वसत्तयैव जीवलोकमन्नतासंभावनया स्वोद्धरणेन तदुदरणसंभावनया च जीवलोकप्रत्युद्धरणमित्युक्तम् ॥ दिष्टयेति । दिष्टयेत्यानन्दे । यस्य वीर्येणेत्यादि । वयम् । लक्ष्मणभरतशत्रुन्नसीताविभीषणसुग्रीववानराः अह चेलर्थः । कृतिनः सुकृतिनः । यद्वा कृतमुपकारस्तद्वन्तः । उपकृत इत्यर्थः । अन्योन्यवृत्तान्तकथनेन सीतारामयोः, खानवधानभवुक्तसीताविरहपरिहारेण लक्ष्मणस्य, वहिप्रवेशपरिहारेण भरतशत्रुघ्नयोः, शरणागतवपरिग्रहसिद्धान्तेन विभीषणस्य, सुखोत्पादनेन सुग्रीवस्य, मधुवनभशापराधबारणेन वानराणाम, वसंजीवनादिना भुवनानां च कृतित्वमिति यथायथमूहनीयम् ॥ ३२ ॥ अनुभावः प्रभावः । सौभाग्यं सौन्दर्यम् । प्रशदितेन रोदनका । 'आदिकर्मणि क्तः' । रोदनप्रारम्भ एव ।  सीता-वच्छ, एसो सो कुसुमिदकदम्बताण्डविअबंहिणो किंणामहेओ गिरी। जत्थ अणुभावसोहगमेत्तपरिसेससुन्दरसिरी मुच्छन्दो तुए परुष्णेण ओलम्बिओ तरअले अजउत्तो आलिहिदो।

 लक्ष्मण:-

  सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मि-
   नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः ।

 आर्येणास्मिन्

 राम:-

   विरम विरमातःपरं न क्षमोऽस्मि
  प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः ॥ ३३ ॥

 लक्ष्मण:--अतःपरमार्थस्य तत्रभवतां राक्षसानां चापरिसंख्यान्युत्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि विश्राम्यतामिति ।

 सीता--अजउत्त, एदिणा चित्तदसणेण पच्चुप्पण्णदोहलाए मए विण्णावणिज अस्थि ।

 राम:- नन्वाज्ञापय ।

 सीता-जाणे पुणोवि पसष्णगम्भीरासु वणराईसु विहरिज पवित्तणिम्मलसिसिरसलिलं भअवदि भाईरहिं ओगाहिस्सं ति ।


 १. वत्स, एष स कुसुमितकदम्बताण्डवितवर्हिणः किंनामधेयो गिरिः । यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरीद्र्छस्त्वया प्ररुदितेनावलम्बितस्तस्तल आर्यपुत्र आलिखितः।

 २. आर्यपुत्र, एतेन चिनदर्शनेन प्रत्युत्पन्नदोहलाया मम विज्ञापनीयमस्ति ।

 ३. जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहत्य पवित्रनिर्मलशिशिरसलिलां भगवती भागीरथीं अवगाहिष्य इति ।


अवलम्बित्तः पतन् यथा धारित इति ॥ शैल(सोऽयं) इति । ककुभा वृक्षविशेषास्तेषां पुष्पैः सुरभिः । 'पुष्पमूलेषु बहुलम् इति लुप् । विप्रयोग: वियोगः । प्रत्यावृत्तः पुनरागतः ॥३३॥ अपरिसंख्यानि परिसंख्या निषेधः ।अवधिरिति यावत् । तदहितानि संख्याशल्यानीति वा ॥ प्रत्युत्पन्नदोहलाचाः। उत्पन्नाभिलाषाया इत्यर्थः । उत्पन्नमनो  रामः----वत्स लक्ष्मण ।

 लक्ष्मण:- एषोऽस्मि।

 रामः-वत्स, अचिरादेव संपादनीयो दौहृद इति संप्रत्येव गुरुमिः संदिष्टम् । तदस्खलितसंपातं रथमुपस्थापय ।

 सीता-अज्जउत्त, तुझेहिं वि आअन्दव्वम् ।

 राम:----अतिकठिनहृदये, एतदपि वक्तव्यम् ।

 सीता-तेण हि पिअं मे पिझं मे ।

 लक्ष्मणः यदाज्ञापयत्यार्यः । (इति निष्कान्तः ।)

 रामः-प्रिये, वातायनोपकण्ठे संविष्टा भव ।

 सीता-एवं होदु । ओहरिदम्हि परिस्समणिहाए ।

 रामः तेन हि निरन्तरमवलम्बस मामनुगमनाय ।

  जीवयन्निव ससाध्वसश्रमस्वेदविन्दुरधिकण्ठमर्प्यताम् ।
  बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३४ ॥

 (तथा कारयन्सानन्दम् ।) प्रिये, किमेतत् ।

  विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
   प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।


 १. आर्यपुत्र, युष्मामिरप्यागन्तव्यम् ।

 २. तेन हि प्रियं मे प्रियं मे ।

 ३. एवं भवतु । अपहृतास्मि परिश्रमनिद्रया।


विकाराया इति वा ॥वत्स, अचिरेत्यादि । एष गूढप्रकाशनादुद्भेदः॥ जीवयन्निति । साध्वसं भयम् । अधिकण्ठम् । कण्ठ इत्यर्थः । इन्दोरिमे ऐन्दवाः। चन्द्रमणिश्चन्द्रकान्तशिला । जीवयन्नयतामिवेलन्वनः । इचशब्द ईषदर्थंकः । जीवयन्निति च 'लक्षणहेलोः' इति-शतृ । तथा च मत्संजीवनफलक यदीषदर्पण तत्कर्म क्रियतामित्यर्थः । अथवा एतद्विरहे 'न जीवेयं क्षणमपि' इत्युक्तम् । अत्र ऐन्दवेत्यादिना सादृश्यमुक्त्वा जीवयनिति विशेषस्योक्तः व्यतिरेकालंकारः । 'व्यतिरेको विशेषश्चेटुपमानोपमेययोः' इति ॥ ३४ ॥ तथा कारयनिति । 'सहजलज्जाजडदृशः' इति वक्ष्यमाणरीया लज्जयाविष्टायां तस्यां खयं तथा कारचन्नित्यर्थः । पूर्वोक्तश्रमवशाच स्वयमेव तथा कारयतीत्युकम् ॥ विनिश्चेतुमिति । अत्रत्यसुखदुःखशब्दौ प्रियाप्रियमित्रशत्रुसंश्लेषादिजन्यमानससुखदुःखपरौ शारीरसुखदुःखमदविषविसर्पयोः पृथग्ग्रहणात् । सुखदुःखयोः शारीरमानसत्वविभागस्तु 'कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् इति सूत्रतयाख्या-

 उ० रा० ४

 तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
  विकारश्चैतन्यं भ्रमयति च संमीलयति च ॥ ३५ ॥

 सीता---धीरप्पसादा तुझेत्ति एत्थ दाणिं अच्चरिअम् ।

 रामः

  म्लानस्य जीवकुसुमस्य विकासनानि
   संतर्पणानि सकलेन्द्रियमोहनानि ।


 १. धीरप्रसादा यूयमित्यत्रेदानीमाश्चर्यम् ।


नयोः स्पष्टः । अत्र सीत इति संवुध्यन्तमध्याहार्यम् । तवेत्युक्तेः।हे सीते, तव स्पर्श स्पर्श स्वदीययावस्पर्शेषु परिमूटः खखविषयग्रहणासमर्थ इन्द्रियगणश्चक्षुरादीन्द्रियसमूहः येन स तथोक्तो मम विकार आन्तरावस्थाविशेषः । चैतन्यमन्तःकरणावच्छिन्न चैतन्यम् । जीवचैतन्यमिति यावत् । अद्वैतमतप्रक्रिवयेदमुक्तम् । मदन्तरात्मानमिति फलितोऽर्थः । भ्रमवति प्रतिकूलतया भासमानः सन् क्षुब्ध करोति । संमीलयति च अनुकूलतया भासमानःसन् उल्लासयति च । अयमित्यध्याहार्यम् । अयं विकारः सुखमिति विनिश्चेतुं न शक्यः दुःखमिति वा विनिश्चेतुं न शक्यः । प्रमोहो वा प्रकृष्टमूछीत्वेन संशयितुं योग्यो निद्रा वा सुषुप्तित्वेन संशयितुं योग्यो विषबिसर्पः किमु । विषेण विसृप्यत इति विग्रहः । कर्मणि घन् । विषप्रसरणजन्यत्वेन संशयितु योग्य इत्यर्थः । मदः किमु । मदत्वेन संशयितुं योग्य इत्यर्थः । अस्य विकारस्य स्पर्शजन्नत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मक्षोभकरत्वाच तथाविधशात्रवादिस्पर्शजन्यमानसदुःखत्वेन संख्ययोग्यत्वम् । एवं स्पर्शजन्यत्वात्परिमू- हेन्द्रिचगणत्वादन्तरात्मोल्लासकारित्वाच तथाविधमित्रादिस्पर्शजन्यमानससुखत्वेन संशथाईत्व भवति च मित्रादिस्पर्शजन्यसुखं परिमूळेन्द्रियगणम् । 'नीवी प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि' इत्युक्तेः । एवं स्पर्शजन्यत्वात्परिमूटेन्द्रियगणत्वादन्तरात्मक्षोभकरत्वाचास्य दण्डाद्यभिवातजन्यपरिमूढेन्द्रियगणत्वान्तरात्मक्षोभकरख- विशिष्टसूक्ष्मप्राणसंचाररूपमूर्छात्वेन संभावनाहत्वम् एवमस्य विकारस्य सजिन्यत्वात्परिमूडेन्द्रियगणत्वादन्तरात्मानुकूलत्वाच्च मृदुतरतल्पादिस्पर्श- जन्यत्वनिवृत्तेन्द्रियव्यापारत्वपरमात्मसुपरिष्वङ्गप्रयुक्तसुखरूपत्वविशिष्टनिद्रात्वेन संशयाईत्वम् । एवमस्य स्पर्शजन्यत्वात्परिमूढेन्द्रि- यगणत्वादन्तरात्मप्रतिकूलत्वाञ्च तथाविधविषस्पर्शजन्यविकारत्वेन संशयाईत्वम् । एवमस्य स्पर्शजन्यत्वात्परिभूडेन्द्रिनगणत्वादन्तरात्मा- नुकूलत्वातथाविधमदत्वेन संशचयोग्यत्वम् । मदस्य क्षीरसुराबाप्यायकवस्वायत्तत्वात्स्पर्शजन्यत्वं परिमूढेन्द्रिचगणत्वमन्तरात्मानुकूलत्व च। तदुक्तम्-'भदिरादिकृतो मोहहर्षव्यतिकरो मदः' इति । सर्वमिदं सीताया भोग्यताप्रकर्षे तात्पर्यमाविष्करोति । हिशब्दः प्रसिदौ । तथा च मदीयोऽय विकारस्त्वयापि ज्ञायत इति ब्यज्यते ॥३५॥ म्लानस्येति । मलानस्य हर्षक्षयवतो जीवकुसुमस्य जीव एव कुसुमं तस्य विकासनानि विकासजनकानि हर्षोत्पादकानि संतर्पणानि तृप्तिजनकानि भोग्यान्तरापेक्षानुत्पादकानि अत एव

सकलानामिन्द्रियाणां मोहनानि खव्यापारनिरोधीनि कर्णयोरमृतानि । 'यथामृतस्य दृष्ट्या तृप्यन्ति' इति दर्शनमात्रेण तृप्तिजनकत्वम् । तद्वदेषामर्थपर्यालोचन विनापि रमणीय

  एतानि ते सुवचनानि सरोरुहाक्षि
   कर्णामृतानि मन्सश्च रसायनानि ॥ ३६॥

 सीता-पिवद, एहि । संविसम ।

 रामः-अपि संदेष्टव्यम् ।

  आविवाहसमथागृहे वने
   शैशवे तदनु यौवने पुनः।
  स्वापहेतुरनुपाश्रितोऽन्यया
   रामबाहुरुपधानमेष ते ॥ ३७॥

 सीता—(निद्रा नाटयन्ती ।) अस्थि एदम् । अजउत्त, अस्थि एदम् । (इति खपिति ।)

 रामः--कथं प्रियवचनैव मे वक्षसि प्रसुता । (निर्वर्ण्य )


 १. प्रियंवद, एहि । संविशावः।

 २. अस्त्येतत् । आर्यपुत्र, अस्त्येतत् ।


त्वमिति मावः । मनसश्च रसायनानि रसायनं नाम अनेकरसवस्तुसमुदायात्मकरसवस्तुविशेषो बाहटे प्रसिद्धः । बहुवचनेनानेकरसायनसदृशानीति व्यज्यते । किचानेकरसायनवस्त्वास्वादनेन सर्वेषां रसानां तत्रोपलम्भः । एवं शब्दान्तरश्रवणजन्यसुखानामेतद्वचनैलाभइति व्यज्यते । अपि च यथा रसायनस्य रसमयत्वाद्भोग्यत्त्रम् , औषधात्मकत्वाद्रोगनिवर्तकत्वं च, एवमेतेषामपि प्रिवत्व हितत्व चेति व्यजयितुं रसायनत्वोक्तिः । सरोरुहाक्षि आयामत्वविपुलत्वाभ्यां सादृश्यमभिप्रेतम् । एवं च खस्या अपि खवचनवैलक्षण्वप्रयुक्तविस्मयातिशबाचक्षुषोरायतत्वविपुलत्वद्विगुणीभाव इति भावः । ते सुवचनानि खकीयवचनवैलक्षण्यातिशयतः सीतायाः खवचनेषु वीयतासंशयः स्यादिति ते इत्युक्तिः । सुशन्देन सीताबचनेष्वपि एतादृशं सौभाग्यं नानुभूतपूर्वमिति व्यज्यते । 'क्षणे क्षुणे यभवतामुपैति तदेव रूपं रमणीयतायाः' इति न्यायेन न दोषः ॥ ३६॥ प्रियंवद प्रियवादिन् । 'प्रियवशे बदः खन् । संविधावः । 'स्वनः संवेश इत्लपि' इत्यमरः ॥ अपि संदेशव्यम् । 'संदेश उक्तिः । भृकुटीभटोऽचं सूचयितव्यः । किमर्थमुक्तिप्रयास इति भावः। यदा यथा शयनदशायामुपधानादीनामुपकरणत्वं तद्वन्ममापीति विधिवा किमर्थ इति भावः ॥ उपकरणत्वमेवाह-आविवाहेति । आविवाहसमयाद्विवाहसमयादारभ्येत्यर्थः । गृहे शैशवे चौवने च स्वापहेतुः । वने पुनयौवने खापहेतुरियन्वयः । न तु यथासंख्यम् । अन्ययानुपाश्रितः स्थापहेतुतयानुपाश्रित इत्यर्थः । अतः 'जुष्टं परममारीणां भुजैः परनसुन्दरैः' इत्यनेन न विरोधः । चेटीविधयासंवाने तात्पर्यात् 'म रामः परदारान्दै चक्षुभ्यागपि पश्यति' इत्युक्तेः । मदास्पधानमित्यनुक्त्वा रामबाहुरि

  इयं गेहे लक्ष्मीरियममृतवार्तनयनयो-
   रसाबस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।
  अयं बाहः कण्ठे शिशिरमसृणो मौक्तिकसरः
   किमस्या न प्रेयो यदि परमसधस्तु बिरहः ॥ ३८॥

(प्रविदय।)

 प्रतीहारी-देव, उवडिदो।

 रामः--अयि, कः।

 प्रतीहारी--आसण्णपरिआरओ देवस्स दुम्मुहो ।

 रामः-(स्वगतम् ।) शुद्धान्तचारी दुर्मुखः स मया पौरजानपदेष्वपसर्पः प्रहितः । (प्रकाशम् ।) आगच्छतु ।

(प्रतीहारी निष्कान्ता)

(प्रविश्य ।)

 दुर्मुख:-(स्वगतम् ।) ही कहं दाणि देवीमन्तरेण ईरिसं अचिन्तणिजं जणाववादं देव्वस्स कहइस्सं । अहवा णिओओ क्खु मह मन्दभाअहेअस्स एसो।


 १. देव उपस्थितः।

 २. आसन्नपरिचारको देवस दुर्मुखः ।

 ३. हा कथमिदानी देवीमन्तरेणेशमचिन्तनीयं जनापबाद देवस्स कथयिध्यामि । अथवा नियोगः खलु मम मन्दभागधेयस्यैषः ।


त्युक्तिः प्रसिद्धिद्योतनार्था। 'उपधाय भुजं तस्य' इत्यादिवचनात् ॥ ३५ ॥ इयमिति । इयं गेहे लक्ष्मीर्लक्ष्मीसदृशी । इयममृतवर्तिनयनयोः। तथा नयनानन्दकरीत्यर्थः । किमेतत्पर्यन्तानुधावनवचनेन । एतदीयमेव यत्किंचिन्मम पर्याप्तमित्याहअसावस्या इति । वपुषि प्रसिद्धचन्दनव्यावृत्तिः । अस्याः कि न प्रेयः । एतत्संबन्धि किन प्रियम् । सर्वमपि प्रियमेवेत्सर्थः । अत्र सीतापेक्षया तत्संबन्ध्यैव प्रियमिति रामचन्द्रमतमिति कवेराशयोऽवगम्यते । उपसंहारे किमस्या न प्रेय इत्युक्तत्वात् । इतरथा कथमेषेत्येव न वदेत् । भर्तृमीढश्च-'मनसिजरुजः सा वा दिव्या ममालमपोहितुं रहसि लघयेदारब्धा वा तदाश्रयणी कथा' इत्याह । अत्र रामबाहुरुपधानमिति सीता प्रति खबाह्रोरुपधानत्वमुषल्या 'अयं बाहुः कण्ठे शिशिरमहणो मौक्तिकसरः इत्युक्त रामेण । तदिदं वैलक्षम्यातिशयकार्यम् । अत्र 'इय गेहे लक्ष्मी.' इत्यादिभिरेकस्या एवं सीतायाः गृहविषये दीपकलिकाकार्यकारित्वं चक्षुर्विषये ज्योत्लादिकार्यकरत्वं कण्ठे हारकार्यकारित्वं च व्यज्यते । रूपकमुळेखो वा अलंकारः ॥ ३८ ॥ आसनपरिचारको दुर्मुख सीता-(उत्स्वप्नायते ।) अज्जउत्त, कहिंसि ।

 रामः--सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः खप्नोद्योगं करोति । (सस्नेहमङ्गमस्याः परामृशन् ।)

  अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य-
   द्विश्रामो हृदयस्य अन्न जरसा यस्मिन्नहार्यो रसः ।
  कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितं
   भद्रं तस्य समानुषस्य कथमप्येकं हि सत्प्रार्थ्यते ॥ ३९ ॥


 १. आर्यपुत्र, कुनासि ।


रतलामा ॥ अपसपो गूढचरः।प्रहितः प्रयुक्तः । न तु वास्तव्य इत्यर्थः ॥ रणरणकदायिनी विक्षोभकारिणी । विरहभावना वियोगध्यानम् । चित्रदर्शनादिति स्मरणहेतुरुक्तः । खने निद्रायामुद्योग वचनादिप्रयत्नम् । 'उद्वेगम्' इति पाठे भयसनममित्यर्थः । अङ्गमस्याः परामृशन् । एतेलोपरितनदलोकस्यापत्यविषयत्वकल्पना परास्ता, तथा सति उदरमस्याः परामशन्निति वक्तव्यतापत्तेः । न च 'मयैवादी ज्ञात: करतलपरामर्शकलया द्विधा गर्भप्रन्थि,' इति वक्ष्यमाणानुवादस्य पुरोवादसापेक्षतया अत्रत्याशब्दस्य तद्विशालोदरपरत्वं कवेः संमतमिति वाच्यम् । तत्र 'सहजलज्जाजडदृशः' इति जागरप्रतीतेः । अत्र च सुषुप्तिप्रतीतेस्तदयोगादिति ध्येयम् । अद्वैतमिति । यसर्वाखवस्थासु सुखदुःखयोरद्वैतमनुगतम् । जाप्रत्ननसुषुप्त्वादिसर्घावस्थासु ये सुखदुःखे तयोः संबन्धि यदद्वैतमभिन्नत्वं तदनुगतम् । तद्विशिष्टमित्यर्थः । सर्वाखवस्थास्वभिन्नसुखदुःखापादकमित्यर्थः । द्वचो वो द्वैतम् । इदमेवाद्वैत चक्रवाक्रमिथुनवर्णनव्यपदेशेन नवेन कविना व्याख्यातम्-'भुक्तं तद्विमृणालयोमिथुनयोः पीतं द्विराजीवयोः सुप्त तशिफलाशयोरविरल संश्लिष्टयोर्यद्यपि । पर्यायात्समयद्वयेन विस्तं भिन्नप्रयत्नेन वा मूर्तिद्वैतवशान्मतिमिथुनमित्यद्वैतमेवानयोः ॥ इति । पर्यायादिति पर्यायशब्दमन्तर्भाव्य न विरुद्धमिति ल्यब्लो पञ्चमी व्याख्येया नातः समयद्वय इत्यनेन पौनरुक्त्यम् । यत्र दाम्पत्ये हृदयस्य गुरुकुलशिश्मनस इत्यर्थ. । विश्रामः थमापनयनकसुखविशेषानुभवः । अत्र विश्राम इत्यपाणिनीयम् , नोदात्तेति वृद्धिप्रतिषेधात्' इति वैयाकरणाः । श्रीहर्षस्तु 'विश्वामी विश्रमश्च' इति द्विरूपकोश उक्तवान् । यस्मिन्दाम्पत्ये रसः स्पृहारूपो जरसा जरया अहार्यो हर्तुमशक्यः । यद्वा यस्मिन्सति रस आहादो जरसाप्वहायः। आवरणालयात् । पदद्वयमिदम् । वरण विवाहः, अत्ययः शरीरसंपातः, बरणं चात्ययश्चेति समाहारद्वन्द्वः । आवरणात्सवात् । बारणात्ययमभिव्याप्येत्यर्थः । वरणमारभ्य शरीरपातपर्यन्त वर्तमानेन कालेन परिणते उपचयं प्राप्ले प्रेमसारे उत्कृष्टप्रेमिण स्थितं स्थितिमत् । 'मालयाः प्रथमावलोकदिवसादारभ्य विस्तारिभिभूयः स्नेहविचेष्टितैमूंगदृशो नीतस्थ कोटि पराम्' । 'परां कोटि खेहपरिचयविकासात् अधिगते' इत्यादि समानार्थकम् । 'कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितम्'  दुर्मुखः—(उपसृत्व ।) 'जेदु देव्यो ।

 रामः-ब्रूहि यदुपलब्धम् ।

 दुर्मुखः-उवदुवन्ति देवं पौरजाणपदा जहा विसुमरिदा अम्हेमहाराअं दसरहं रामदेव्वेणेत्ति ॥

 रामः---अर्थवाद एवैषः । दोषं तु मे कथंचित्कथय येन प्रतिविधीयते ।

 दुर्मुखः--(सास्रम् ।) सुणादु महाराओ। (कर्णे ।) एवं विज । इति।

 रामः-अहह, अतितीवोऽयं वाग्वनः । (इति सूर्च्छति ।)

 दुर्मुखः-आससदु देव्वो।

 रामः-(आश्वस्य ।)

  हा हा धिक्परगृहवासदूषणं य-
   द्वैदेह्याः प्रशमितमद्भुतैरुपायैः ।


 १. जयतु देवः।

 २. उपस्तुवन्ति देवं पौरजानपदा यथा विस्तारिता वयं महाराज दशरथं रामदेवेनेति ।

 ३. शृणोतु महाराजः । एचमिव ।

 ४. आश्वसितु देवः ।


इति वाक्य वेदितव्यम् । केचित्तु आवरणात्ययात्प्रतियन्धकनिवृत्तेरिति व्याचक्षते। प्रेम्ण उत्कृष्टत्व च परकीयावश्योपपत्यायविषयकलम् । तस्य समानुषस्य दाम्पत्यस्य । 'समानुष तु दाम्पत्यम्' इत्यभिधानात् । इति प्राच आहुः । अत एवैतद्रिकृतिभूतदाम्पत्सार्थकमनिच्छितिशब्दस्य द्रविडभाषाप्रतिद्धिरपि । अन्ये तु 'प्रकरणानुगुण्याद्विशेषणस्वारस्यात्तच्छन्देन दाम्पत्ये लब्धे सुमानुषस्यति तद्विशेषणतया योजनीयम् । शोभनो मानुषो येन' इत्याहुः । केचित्तु 'सुमानुषस्य सौजन्यस्य' इत्याहुः । कथमपि सर्वप्रकारेणापि तत्प्रसिद्धमेक मुख्च भद्रं क्षेम प्राय॑ते प्रकर्षण वाच्यते । अभिलष्यते वा । हि यस्मात्सुमानुषस्य भद्रमेकं प्रार्थ्यते तस्मात् सैव रणरणकदायिनीत्यादिपूबैणान्वयः । अनर्थशङ्कीनि बन्धुभित्रहृदयानीति न्यायेनेति भावः । प्रेमसारे स्थितमित्यनेन मधुकटाहनिक्षिप्तरसालफलसादृश्यं व्यज्यते । अत्र फलविषयकोसुक्यप्रतिपादनादारम्भ उक्तः । तदुत्तम्'औत्सुक्यसानमारम्भः फललाभाय भूयसे' इति ॥३९॥ कर्णे एचमिवेति । 'अर्थस्त्वेकेन विज्ञेयः पश्चाज्ज्ञात्वा प्रसङ्गतः । कर्णे एवमिवेत्युक्त्वा काव्यबन्धे प्रयुज्यते ॥' इत्युक्तत्वात् ॥ हा हेति । परग्रहवास

  एतत्तत्पुनरपि दैवदुर्विपाका-
   दाल विषमिव सर्वतः प्रसक्तम् ॥ ४० ॥

तत्किमद्य मन्दभाग्यः करोमि । (विमृदय सकरुणम् ) अथवा किमेतत ।

  सतां केनापि कार्येण लोकस्साराधनं परम् ।
  तत्प्रतीतं हि तातेन मां च प्राणांश्च मुञ्चता ॥४१॥

संप्रत्येव च भगवता वसिष्ठेन संदिष्टम् । अपि च ।

  यत्सावित्रैर्दीपितं भूमिपालै-
   लोकश्रेष्ठैः साधुचित्रं चरित्रस् ।
  मत्संवन्धात्कश्मला किंवदन्ती
   स्याच्चेदस्मिन्हन्त घिमामधन्यम् ॥ ४२ ॥

हा देबि देवयजनसंभचे, हा स्वजन्मानुग्रहपवित्रितवसुंधरे, हा मुनिजनकनन्दिनि, हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि, हा


एव दूषणम् । नान्यदिति भावः । आलक श्वसंबन्धि प्रसक्तम् । पाठान्तरे 'प्रसप्तम्' इति वा । एकत्र स्पर्शः कालान्तरेण सर्दतः प्रसरणमिति भाव ॥ ४० ॥ मन्दभाग्योऽल्पभाग्यः । सतामिति । केनापि कार्येण । 'स्नेह दयां च सौख्यं च यदि वा जानकीमपि' इत्युक्तरीत्या लोकस्याराधनं लोकल श्रीतिजनकव्यापारः । सता धर्मशास्त्रस्मृत्यादीनां परं धर्मः श्रेष्ठत्वेनाभिमतः । तथा चापस्तम्ब:-'यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः' इति । न चेदनननुष्ठानपराहतमित्याह-तत्प्रतीतमिति । 'अवश्यं पितुराचारः' इति स्फोरणार्थमिदम् । मां च मुख्यतममत्परित्यागानुषङ्गिकः तातस्य स्वप्राणत्याग इत्याह-प्राणश्चेिति । मुञ्चति हेतौ शत् । प्राणसागहेतुर्फ पूरणमित्यर्थः ॥ ४९॥संप्रत्येव संदिष्वमिति । 'युक्तः प्रजानामनुरकानेऽस्याः' इति संदिष्टमिति भावः । यदिति । सावित्रैः सवितुः पुत्रैः । 'तस्थापल्लम्' इत्यप्रत्ययः । अनेनाभिजन उक्तः । भूमिपालैरित्यनेन क्षत्रधर्मभूतभूमिपालनात्मकवृत्तमुकम् । परिशेषाशोकश्रेष्ठेरिलदेन विद्योता। एवमभिजनविद्यावृत्तैः सीभ्यईमनुप्रयतिराजभिदीपितं प्रकाशितं स्वयमनुष्ठितमनुष्ठापितं च चित्रमाश्चर्यभूतम् । कदमला हेचा । किवदन्ती लोकवादः ॥ ४२ ॥ खतो निर्देषित्याह-हा देवि । उत्पातिवंशदोषोऽपि नास्तीत्साह---देवयजनसंभवे । स्त्रोत्पत्तिभूमेरपि शुद्धिजननीलाहखजन्मोति । संपर्कवशदोषोऽपि नातील्लाह-मुनिजनकेति । नन्दिनीयनेन औरसकन्यापेक्षयाभिमतेति व्यज्यते । गुरुदेवताभिमतेल्याह-पावकवसिष्ठति । शीलेन वृत्तेन शाध्यते श्लाध्यत इति शीलशालिनि । 'शाड कापायाम इत्यस्माद्वाहुलकारकर्मणि णिनिः । डलयोरेकत्वम् । तद्विवृणोति--राममयेति । राममयजीविते, हा महारण्यवासप्रियसखि, हा तातप्रिये, हा स्तोकबादिनि, कथमेवंविधायास्तवायमीदृशः परिणामः ।

  त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः ।
  नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥ ४३ ॥

(दुर्मुख प्रति ।) दुर्मुख, ब्रूहि लक्ष्मणम् । एष नूतनो राजा रामः समाज्ञापयति । (कणे ।) एवमेक्म् । इति ।


अनेन रावणस्मरणमपि दूरोत्सारितमिति व्यज्यते । रामस्य रावणसारणगन्धासहत्वान्न विदमनुमेयम् । किं त्वनुष्ठानेन प्रकटितमित्याहमहारण्येति । प्रियत्वविशेषणम् । निर्बन्धलोकवादादिव्यावृत्तिः । सखीत्यनेन दण्डकारण्यगमने पत्नीत्वप्रयुक्तप्राधान्यं नाङ्गीकृतम् । किंतु पुरुषसिंहरामसमप्रधानत्वमेवेति । 'समान ख्यायते इति सखा' इति व्युत्पत्तेरुपलक्षणमिदम् । रामापेक्षया प्राधान्यस्यापि । 'अप्रतस्ते गमिष्यामि मृगन्ती कुशकण्टकात्' इत्युक्तत्वात् । तातस्य प्रिये अभिमते 'वधूचतुष्केऽपि' इत्यादिवश्वमाणरीत्येति भावः । स्तोकं मित्तं वदन्तीत्यर्थः । 'सखाय मितभाषिणाम्' इत्युक्तरीत्या । निमित्तलेशाभावेऽपि कथमयं परिणाम इति भावः । त्वयेति । त्वया जगन्ति पुण्यानि पुण्यवन्ति । मत्वायाच्प्रत्ययः 'पापानां बा शुभानां वा वधार्हाणां लवजम । कार्य करुणमार्येण न कश्चिन्नापराध्यति ॥ इति स्व. न्मतानुसारेण पापपुण्ययोरनुग्रहृतौल्यादिति भावः । जनानामुपजीव्यविरोध इत्याहत्वय्यपुण्या जनोक्तयः । अन्न त्वया जगन्ति पुण्यानीति भुवनानो पुण्यत्वमुक्त्वा जनोकय इति जनशब्दोपादानानैव लोकान्तरस्थानामुपजीव्यविरोध इति व्यज्यते । उक्तिपदेन वस्तुस्थित्वभावाद्विषयप्रभावाच्च । इत्थं मनसा संभावनमपि भोचितम् । सुतरा बहिस्तदुत्तिः सापि जातेति व्यज्यते । जनानामुक्तय इति विग्रहायः कश्चिदित्थं प्रलपतीत्यपि न कितु बहुजना एवं वदन्तीति व्यज्यते । षष्ठीबहुव बनेन विग्रहे प्रमाण तु-रेरे पौरजानपदाः, न खलु भवतां देव्याः स्थान गृहेऽभिमत ततः' इत्यादिवक्ष्यमाणरामवचनम् । तेऽपि कदाचिदित्युक्त्या विरमन्तीत्यपि न बहुकृत्वो वदन्तीति बहुवचनार्थः । अपुण्या इति व्यतिरेकोक्ला कश्चिदपि कदाचिदपि न यथार्थ प्रत्येति नापि वक्तीति व्यज्यते । नाथवन्त इति । अहं लोकानामधीशः, मम त्वं नाथा । तथा च–'यस्यैते तस्य तद्धनम्' इति न्यायेन लोकानामपि त्वमेव नायिकेलाशयः । यद्वा व मग्याल्मतचावस्थिता, अहं च त्वयि तथावस्थितः । आह च हनुमान'अस्या देव्या मनस्तमिस्तस्य चास्यां प्रतिष्ठितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥' इति । तथा च लौकिकैमाथि प्रतिपद्यमान लोकनाथत्वं त्वदीयमित्यर्थः । इत्याहनीयम् । त्वमनाथेति । वत्सत्तामात्र मम लोकनाथत्वे प्रयोजनम् । अहं तु स्वत्कृते व्यर्थ इति भावः । विपत्स्यसे विपना भविष्यति । पूर्ववियोगोऽपि रावणवधेप्सितत्वादसत्कल्प इति न तस्सिस्त्वं विपन्ना, अस्य तु वियोगस्य सौमित्रेरपि पनिणामविषये तत्र प्रिये क्वासि मे इति वक्ष्यमाणरीत्या पूर्वोपायाविषयत्वात् इतः परमेव  दुर्मुखः-हा, कहं अग्गिपरिसुद्धाए गभविदपवित्तसंताणाए देवीए दुजणदअणादो इदं बवसिदं देव्वेण ।

 रामः---शान्तं पापम् , शान्तं पापन् । दुर्जना नाम पौरजानपदाः ।

  इक्ष्वाकुवंशोऽभिमतः प्रजानां
   जातं च दैवाद्वचनीयबीजम् ।
  यच्चाद्भुतं कर्म विशुद्धिकाले
   प्रत्येतु कस्तधदिदूरवृत्तम् ॥ ४४ ॥

तद्गच्छ ।

 दुर्मुखः- हा देवि । (इति निष्क्रान्तः ।)

 रामः-हा कष्टम् । अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः ।

  शैशवात्प्रभृति पोषितां प्रियां
   सौहृदादपृथगाश्रयामिमाम् ।
  छमना परिददामि मृत्यवे
   सौनिके गृहशकुन्तिकामिव ॥ ४५ ॥

तत्किमस्पृश्यः पातकी देवी दृष्यामि । (इति सीतायाः शिरः समुन्नमध्य बाहुमाकृष्य।)


 १. हा, कथमग्निपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देया दुर्जनवचनादिदं व्यवसितं देवेन ।


विपना भविष्यसीति वा व्यज्यते । पूर्वार्धे विभावनाविशेषोऽलंकारः। "विरूद्धात्कायसंपत्तिष्टा काचिद्विभावना' इति लक्षणात् ॥ ४३ ॥ इक्ष्वाकुवंश इति । विशुद्धिकाले यदद्भुतं कर्म तयदि तदस्तीति ययुच्यते दूरवृत्तं कः प्रत्येति । न कोऽपीलर्थः ॥ ४४ ॥ हा कष्टमिति । नृशंसः क्रूरः । अतिबीभत्सकर्मेति प्रसिद्धनृशंसायावृत्तिः । शैशवादिति । शैशबात्मभूति पोषिता बाल्यमारभ्य वर्धिताम् । अनेन "विषवृक्षोऽपि संचय॑ स्वयं छेतुमसांप्रतम्' इति न्याचः स्फोर्यते । ननु स्वात्रियत्वे त्याज्यत्व मित्यत्राह-प्रियामिति । ननु तथापि दोषप्रसक्तो का गतिरित्यत्राहपृथगाश्रयामिति । पृथगाश्रयरहितामित्यर्थः । ननु तथापि मनोवृत्तिरन्यत्रेसत आह-सौहृदादिति । इमामितीदंपदेन तात्कालिकान्तर्वत्नीत्वनित्रावत्वादिक परामृश्यते । छद्मना व्याजेन । सीताभिलषितवनप्रस्थापनब्याजेनेत्यर्थः । मृत्यवे परिददामि देयसाकल्यादानसाकस्यम् । तदिमाम् । गर्भस्थ शिशुद्वयं चेत्यर्थः । सौनिके जीवहिंसाजीविनि । 'कर्मणा यमभिप्रैति स संप्रदानम्' इति चतुर्थ्यर्थे सप्तमी । प्रथमान्तपाठोऽप्यस्ति । गृहशकुन्तिकाम् ।

  अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् ।
  श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥ ४६॥

(उत्थाय 1) हन्त हन्त, संप्रति विपर्यस्तो जीवलोकः । अद्यावसितं जीवितप्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः।


'अनुकम्पायां कन्' ॥ ४५॥ अपूर्वेति । अत्र मुग्धे बिनुञ्च मामिति सिद्धसाध्यसमभिव्याहारन्यायेन अद्यतनमोचनप्रसञ्जकवतीत्यर्थो लभ्यते । मौग्यस्य मोचनप्रसज कत्वं च तदापादकलंपर्कापादनद्वारा । स च संवन्धो रावणप्रलाख्यानपूर्वको लङ्कादेशीय एव । तथाहि-भवितव्यः परगृहबासो जातः, तथापि नैतावता ममात्याहित प्रसजति । रावणो न मां बलात्कर्तुमर्हति । ततश्च तदभिगततदसंपादनेनैव कालयापर्न सुकरम् । प्रत्याशया च स मां न हनिष्यति । रामस्तु इदानी मां निषा परीक्ष्यानुमन्यमानोऽपि कदाचित्कस्यचिदूचनमनुसरंलोकाराधनश्रद्धया मामरण्ये परित्यजेत् इत्यादिको विचारः सीतायाः स्यात् । तदा नैवंविधदुःखानुभवप्रसक्तिरिति तविद मौग्ध्यस्याद्यतनविपत्प्रयोजकत्वमित्याशयः । सर्वमिदं निर्वेदातिशयद्योतकम् । अपूर्वश्चासौ कर्मचण्डालश्चेति विग्रहः । चण्डालो हि क्रूरतमः। कर्मचण्डालस्तु सुतराम् । यस्तत्रापूर्वो विलक्षणः अहं कर्मचण्डालो राक्गादपि क्रूर इति भावः । स हि रावणरे में सीतायाः प्राणहानिकरोऽभवत् । अहं तु तत्कारी भवामीति पूर्वोक्तमौढ्यहेतुकरामसं- अयणमेवाह---श्रित्तासीति । द्रुमत्वोक्तिभ्यस्त्वाभिप्रायात् । दुर्विपाकत्ववचनमत्यन्तक्रौर्यातिशयप्रतिपत्त्यर्थम् । चन्दनभ्रान्त्येत्येतदुःखभूयस्त्वावर्जनीयत्वख्यापनार्थः । अन्यभ्रान्तौ प्रवृत्तिमान्यादिकं स्यात् । असीलनेनाद्यापि न मुञ्चसीत्यपि व्यज्यते । श्रितेति कर्तृवाचकनिष्ठान्तम् । तेन श्रयणस्य लकादेशीयत्वलाभः । अचमाशय:- लोके हि फलवजातीयानामपि वृक्षाणामफलत्वे छेद एदोचितः । अनर्थावहत्वे तु सुतराम्। विषवृक्षस्य तु छेदे का प्रतिहतिः । तस्यापि दुर्विपाकत्वे सर्वथा छेद्यत्वमेव । तथापि 'विषवृक्षोऽपि संध्य स्वयं छेत्तुमसांप्रतम्' इति न्यायेन यदि छेदप्रतिषेधः, तर्हि तस्य परित्यागे का प्रतिहतिः । अत्र क्रुररामकर्मकसंश्यणप्रतिविम्यस्य सीताप्रस्तुतकर्तृकटु- विपाकविषहमाश्रयणस्य वर्णनालालतालंकारः । 'प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णनम् । ललितम्' इति लक्षणात् ॥४६॥ हन्तेति दुःखे। संप्रति सीताविरहे । विपर्यस्तोऽन्यथाभूतः । साहित्ये 'यस्तथा सह स खगों निरयो यस्तया विना' इति रामायणोक्तरीत्या जीवलोकस्य खर्गत्वम् । त्रियोगे तु नरकत्वमेवेति । स्वर्गान्यस्य नरकस्मैत्र खारसिकत्वात्प्राणिनां नरकप्राप्तायपि नात्मवस्तुनाशः । मम तु सीतामयजीवितत्वासन्नाशे जीवितनाश इति । अद्यावसितमिति समाप्तं जीवितमेव प्रयोजनम् । जीवितमिति वक्ष्यमाणमिहानुसंधेयम् । सीताविरहितजीवितं निष्प्रयोजनमित्यर्थः । यत एवं ततोऽधुना जीर्णारण्य जगत्स्वर्गादिक ह्यात्मनः स्थिरत्वे कालान्तरानुभाव्य स्मात् । 'अनादौ संसारे' इति न्यायात् । आत्मवस्तुनाशे तु स्वानुपभोगात् जीकरण्यत्वम् । सीतासाहित्ये हि अरण्यस्यापि पश्वव्याः 'यस्यां ते दिवसाः' इति रीत्या खगृहत्वात् तदकाष्ठप्राय शरीरम् । अशरणोऽस्मि । किं करोमि । का गतिः । अथवा ।

  दुःखसंवेदनायैव रामे चैतन्यमागतम् ।
  मोपघातिभिः प्राणैर्वज्रकीलायित्तं हृदि ॥४७॥

हा अम्ब अरुन्धति, भगवन्तौ वसिष्ठविश्वामित्रौ, भगवन्पावक, हा देवि भूतधात्रि, हा तात जनक, हा मातः, हा प्रियसख महाराज सुग्रीब, सौम्य हनूमन् , महोपकारिन् लङ्काधिपते बिभीषण, हा सखि त्रिजटे, परिमुषिताः स्थ परिभूताः स्थ रामहतकेन । अथवा को नाम तेषामहमिदानीमाहाने ।


योगे तु खगृहस्यापि जीारण्यत्वमिलाशयः । असारः शून्यः । काष्टप्राय शरीरम् । 'ज्योत्स्नेव हिमदीक्षितेः' इत्युक्त्या यथा चन्द्रस्य कौमुद्यभावे काष्ठप्रायता तत्वस्यति भावः । अद्य पूर्ववत् । 'सुग्रीवं शरण गतः', 'सागरं शरण गत.' इत्यादिकस्य नायकाश इत्याह---अशरणोऽस्मीति । पूर्ववत्सेतुबन्धनादि कर्तव्य नास्तीत्साह-कि करोमीति । अद्य पूर्ववद्रावणवधादिरूपप्राप्य नास्तीलाह---का गतिरिति । गम्यत इति गतिः । यतश्चैवं ततः क्व गच्छामि, किमरण्य गच्छामि, उत पातालविवरम् , किचा मरण गच्छामि इति विकल्पाशयः। न तूक्तः कल्पः सर्वोऽपि न कल्पत इलाह-अथवेति। पूर्वोक्तक्षेपकः । दुखेति । नैतन्यमात्मा ज्ञप्तिर्वा । दुःखसंबेदनायैव रामे आगतम् । आगतमित्यनेन दुर्मुखबाक्यश्रवणानन्तरं गत चैतन्य पुनरागतमिति व्यज्यते । यता शक्तिप्रहारादिषु गत पुनरागतमिति वा । पट्टाभिषेकादिनान्तरीयकसुखं तु असत्कल्पमिति हृदयम् । 'अर्पितम्' 'आहितम्' इति पाठयोस्तु आदितः प्रकृति ‘राज्याब्रशो वने वासः सीता नष्टा द्विजो हतः । ईदृशीय ममालक्ष्मीनिर्दहेदपि पावकम् ॥ इत्युक्तरीत्या दुःखानुभवायैव चैतन्यसद्भाव इति भावः । स्वर्गिणां चैतन्यं दुःखासंभिन्नसुखानुभवाय । जनाना दुःखमित्रसुखानुभवाय । मम सुखासमिन्नदुःखानुभवाय । तस्मात्पातालविवरगमनेऽप्यपरिहार्य दुःखमिति भावः । तर्हि मरणं गमिष्यामीति कल्पः कल्प्यताभित्याह-मभोंपधातिभिरिति । मम हृदयादिप्रदेशानुपनन्तीति विग्रहः । 'सुप्यजाती-' इति णिनिः । न केवल दुःखानुभवापादकाः कि तु स्वयमपि दुःखप्रदा इति भावः । वज्रकीलबदरुद्धरतया स्थिरीभूयते । अज्ञानहत्वेन वा सादृश्यम् । तथा च मरणमपि दुर्लभमिखर्थः ॥४॥ हेति । अरुन्धति । अरुन्धतीकृतसीतापातिवस्यानुमोदनं न प्रमाणीकृतमिति भावः । भगवन्ताविति । भवतां ज्ञानशक्तिमपि खैला न पश्यन्तीति भावः । पावकेति । तव वचनमबेशी व्यर्थाविति भावः । भूतधात्रि स्वत्युतायाननिमित्तदोषवादिनो जनान्कय बिमर्षि इति भावः । सौम्येति।

सीतावृत्तान्तकथनजनितानन्दप्रयुक्तमत्कृतालिजनमद्विज्ञातशरीरसौभग भवदीयप्रथा

  ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना ।
  मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥४८॥

योऽहम्

  विसम्भादुरसि निपत्य जातनिद्रा-
   मुन्मुच्य प्रियगृहिणी गृहस्य लक्ष्मीम् ।
  आतङ्कस्फुरितकठोरगर्भगुर्वी
   ऋव्याद्भयो बलिमिव दारुणः क्षिपामि ।। ४९॥

(सीतायाः पादौ शिरसि कृत्वा ।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः। (इति रोदिति ।)

(नेपथ्ये।)

अब्रह्मण्यमब्रह्मण्यम् ।

 रामः--ज्ञायतां भोः, किमेतत् ।

(पुनर्नेपथ्ये।)

  ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।
  लवणनासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥ ५० ॥

 रामः-कथमद्यापि राक्षसत्रासः । तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । (परिक्रम्य पुनर्निवृत्य।) हा देवि, कथमेवंविधा गमिष्यसि । भगवति बसुंधरे, सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् ।


सो व्यर्थ इति भावः । परिमुषिताः मुषितद्रव्यकाः । ते हीति । कृतं उपकारं हन्तीति कृतघ्नः । एतत्कृतपूर्वोपकारविस्मरणादिति भावः ॥ ४८॥ विस्त्रम्भादिति। विसम्भादन्तरजत इति ज्ञानादिति भावः । गृहस्य लक्ष्मी शोभा तलंकारभूताम् । कोरगर्भः पूर्णगर्भः । गुवामित्यनेन यमलत्व सूचयति । ऋव्यायो मांसभक्षकेभ्यः । ऋव्यं मांसमदन्ति खादयन्तीति विग्रहः । 'कव्ये च' इति विट् ॥ ४९ ॥ अब्रह्मण्यं ब्राह्मणानामलाहितम् । 'अब्रह्मण्यमवध्यो कौ' इत्यमरः ॥ ऋषीणामिति । लवणो नाम राक्षसस्तेन त्रासितो ऋषीणां स्तोम इत्यन्वयः॥५०॥ कथमित्यादि । निःशेषितराक्षसकुलत्वात् । खस्येति भावः । यद्वा कथमच राक्षसत्रासोऽपीयन्वयः । न केवलं सीताविश्लेषदुःखप्राप्तिः किं तु राक्षसमय चेति समुच्चयार्थः । कथमिति विस्मये । पूर्ववदेवोभयं मिलितमिदमाञ्चमिति भावः । दुरात्मनो दुर्बुद्धेः । माधुरस्य मधुरेश्वरस्य । कुम्भीनसी नाम तन्माता । उन्मूलनाय मूटेन सहोत्पाटनाय यावत् । प्रेषयामि प्रेषयिष्यामि । 'थावत्पुरानिपातयोले । एवंविधा भया पश्चिता गर्भिणी सती कथं

  जनकानां रघूणां च यत्कृत्वं गोत्रमङ्गलम् ।
  या देवयजने पूण्ये पुण्यशीलामजीजनः ।। ५१ ॥

(इति रुदनिष्क्रान्तः)

 सीता-हा सोह्म अजउत्त, कहिंसि । (इति सहसोत्थाय ।) हद्धी हद्धी । दुस्सिविणअरणरणअविप्पलद्धा अजउत्तसुण्णं विअ अत्ताणं पेक्खामि । (विलोक्य ।) हद्धी हद्धी । एआइणिं पसुत्तं मं उज्झिन कहिं गदो णाहो । होदु । से कुप्पिस्सं जइ तं पेक्खन्ती अत्तणो पहविस्सं । को एत्थ परिअणो।

(प्रविश्य )

 दुर्मुखः---देवि', कुमारलक्खणो विष्णवेदि-'सज्जो रहो । त आरुहदु देवि' त्ति।

 सीता-ईअं आरूढह्मि । (उत्थाय परिक्रम्य 1) फुरइ मे गब्ममारो । सणि गच्छस ।

 दुर्मुखः—इँदो इदो देवी।


 १. हा सौम्य आर्यपुत्र, कुत्रासि । हा विक् हा धिक् । दुःस्वप्मरणरणकविप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि । हा धिक् हा धिक् । एकाकिनी प्रसुप्ता मामुज्झित्या कुत्र गतो नाथः । भवतु । अस्मै कोपिष्यामि यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि । कोऽत्र परिजनः ।

 २. देवि, कुमारलक्ष्मणो विज्ञापयति-'सजो स्थः । तदारोहतु देवी' इति ।

 ३. इयमारूढास्मि । स्फुरति मे गर्भभारः । शनैर्गच्छामः ।

 ४. इत इतो देवी।


गमिष्यसीति भावः । भगवति सर्वते । सुश्लाध्यां निर्दोषां निरुपल्लवां वा । जनकानामिति । यत्कृत्स्नं गोत्रमङ्गलम् । यदिति विधेवापेक्षया क्लीबम् । अजीजनः । उत्पादितवत्यसीत्यर्थः । अत्र बिन्दु म संध्यगमुक्तम् । दाम्पत्यविशेषविच्छेदहेतुत्वात्पुनरच्छेदकारणत्वाञ्च । तटुक्तम्अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्' इति ॥५१॥ कोऽत्र परिजनः । परिजनस्य मध्ये कोऽत्र संनिहित इत्यर्थः । परिजनस्येति निर्धारणे षष्ट्येकवचनान्तम् । निर्धारणे षष्ठीप्रयोगोऽप्यस्ति ॥ सज्जो गमनाय

उ० रा० ५  सीता-मो रहुउलदेवदाणं ।

(इति निष्क्रान्ताः सर्वे ।)

इति महाकविश्रीभवभूतिविरचित उत्तररामचरिते

प्रथमोऽङ्कः।


१. नमो रघुकुलदवताभ्याम्

संनद्धः ॥ रघुकुलदेवते लक्ष्मीनाराय गाविति प्रसिद्धमेव । तनमस्कारो आनाकाले विहितः । 'आदित्यमण्डले विष्णु ध्यात्वा यात्रा प्रवर्तयेत्' इति स्मरणात् ॥

  दागरथिवंशजनुषो भूसारजवीरराबवार्यस्म ।
  उत्तररामचरित्रव्याख्याध्यादिमः प्रायात् ॥

इति श्रीपाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां प्रथमोऽङ्कः॥  खागतं तपोधनायाः ।

(ततः प्रविशत्यध्वगवेषा तापसी ।)

 तापसी--अये वनदेवता फलकुसुमगर्भेण पल्लवायेण दूरान्मामुपतिष्ठते ।

(प्रविश्य ।)

 वनदेवता—(अर्ध्व वितीर्य )

  यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः
   सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति ।
  तरुच्छाया तोयं यदपि तपसां योग्यमशन
   फलं वा मूलं वा तदपि न पराधीनमिह वः ॥ १ ॥

 तापसी-किमत्रोच्यते ।

  प्रियप्राया वृत्तिर्विनयमधुरो बाचिनियमः
   प्रकृत्या कल्याणी मतिरनवगीतः परिचयः ।

 नेपथ्य इति। 'कुशीलवकुटुम्बस्य स्थली नेपश्चमिष्यते' इत्युक्ततिरस्करिणीतिरोहितनर्तनभूमिकापरिग्रहोपविकस्थानविशेष इत्यर्थः ॥ वनदेवतेति । पल्लवायेण पल्लवयुक्तपूजाद्रव्येण दुरात् प्रविष्टा सती उपतिष्ठते पूजयति । देवतात्यारोपादात्मनेपदम् । दूरादिवपादाने पञ्चमी । यद्वा मामुपतिष्टते संगता भवति । गला बमुनामुपतिष्टते' इतिवत् उभयत्रापि 'उपाद्देवपूजा-' इत्यादिना तङ् ॥ अयं वितीर्य दत्त्वा । यथेच्छमिति । इदम् । मदीयमित्यर्थः । वनं वनमेव न तु स्पृहणीयपुरप्रासादादिकमिल्यपरितोषो व्यज्यते । तथापि 'अविद्यमानं कर्गोऽपि' इति न्यायेन यवाधिकार सभाजयितब्यमेवेलाह-वथेच्छाभोग्य इच्छामनतिक्रम्य यथेच्छम् । यथेच्छे आभोग्यमिति विग्रहः । इच्छानिवृत्तिपर्यन्तमसंकोचेनोपभोगाहमित्यर्थः । व इति पूजायाँ बहुवचनम् । अतिथिसामान्यामिप्राचक वा अयं मे सुदिवसः साधुजनसंपका दिति भावः । सतां विद्यमानानामेव, न तु प्रसादनादिकुर्वतामित्यर्थः । सद्भिः साधुभिः सह सङ्गः संपर्कः कथमपि कृच्छ्रेण पुण्येन भवति साधुजनसंपर्कलाभः प्रणिपातादिसाध्यो भवति । तदभाववा तु दृष्टहेत्वभावात् केवलादृष्टसाध्यो भवतीति भावः । यद्वा कथमपि सता येनकेनप्रकारेण वर्तमानानाम् । कामचारे स्थितानामित्यर्थः। सद्भिः। ब्रह्मविद्भिरित्यर्थः । 'अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुतेः । सङ्कः संपर्कः पुण्येन हि भवति । अयमाशयः-'तस्मादेवं विदा नासीत' इति श्रुत्या ब्रह्मज्ञानवतां तच्छून्यैः सहबासादिक प्रतिषिद्धम् । एवं च तेषां तैः सङ्गः पुण्यैकसाध्य इति । इद व खनिकर्षभावनाकार्चम् । फलं वा मूलं वा इतोऽन्यदपि तपसा योग्यमशनम् । नीवारपाण्डपत्रवातजलादिकमित्यर्थः । तदपि तच पराधीनं नेति ॥१॥प्रियेति । प्रियाया प्रिष

  पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
   रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥ २ ॥

(उपविशतः।)

 वनदेवता-कां पुनरत्रभवतीमवगच्छामि ।

 तापसी-आत्रेय्यस्मि ।

 वनदेवता—आयें आत्रेयि, कुतः पुनरिहागम्यते । किंप्रयोजनो दण्डकारण्योपवनप्रचारः।

 आत्रेयी--

  अस्मिन्नगस्त्यप्रमुखाः प्रदेशे
   भूयांस उद्गीथविदो वसन्ति ।
  तेभ्योऽधिगन्तुं निगमान्तविद्या
   वाल्मीकिपादिह पर्यटामि ॥ ३ ॥

 वनदेवता-यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषि ब्रह्मपारायणायोपासते । तत्कोऽयमार्यायाः प्रवासः ।


प्रचुरा युक्ता चेत्यर्थः। वृत्तिः काथिकव्यापारः । तथापि वाकौर्ये महाग्दोष इखत आहबिनयमधुरो वाचिनियमः विनयेन खनिकर्षभावनारूपेण खोत्कर्षानमुसंधानरूपेण वा मधुरः प्रिथः वाचिनियमः सत्याय मितभाषित्वम् । तथापि मनोवृत्तिदौथ्य स्यादत आह-प्रकृत्या कल्याणी मतिः प्रकृल्या स्वभावतः कल्याणी प्रेचखिनी । तथाप्यसत्सवशाद्वैपरील स्यादत आह--अनवगीतः ।अनिन्दित इत्यर्थः । तदिद वृत्तिवाचिनियमादिपरिचयसमुदायरूपं विजयते सर्वोत्कर्षेण वर्तते । तत्कथंभूतमित्याह-पुरो वा पश्चाद्वा भूतभविष्यत्कालयोः। तत्तत्पुरुषसंनिधानयोरिति वार्थः अविपर्चासितरसं अन्यूनखभायम्। रसपदेन प्रियख व्यज्यते । अनुपधि निर्व्याज विशुद्ध प्रामादिकदोषरहित रहस्यम् । 'शोलं संवसता ज्ञेयम्' इति न्यायेन चिरकालशुश्रूषादिभिरेव ज्ञातुं शक्यं न तु दाम्मिकत्तिवत्स्वयं प्रकटमित्यर्थः । तथाविध तदिद विजयत इति योजना ॥२॥ अवगच्छामि जानामि ॥ किप्रयोजन इति । प्रचारः संचारः ॥ अस्मिन्निति । अगस्लप्रमुखा अगस्त्यप्रभृतयो भूयांसो बहव उद्गीथविदः । 'ओमित्युद्गीथमुपासीत' इति परस्मिन् ब्रह्मणि उद्गीथदृष्टि कुर्वन्त इत्यर्थः । दहरविद्यादीनामुपलक्षणम् । सकलवेदान्ततात्पर्य- पर्यालोचनशीला इति भावः । तेभ्यः अधिगन्तु तत्कृतव्याख्यानेन ज्ञातुम् । आख्यातोपचोगे' इति पञ्चमी । पर्यटामि । 'अट गतौ ॥३॥ यदातावदिति। पुराणश्चासौ ब्रह्मवादी चेति विग्रहः । ब्रह्म परमात्मानं वेदान्वा वदतीति णिनिः। पुराणत्वे प्राचेतसमिति हेतुकथनम् । ब्रापारायणाय वेदान्तविद्याध्ययनाचा पारायण नाम आदित आरभ्यान्तादवि आत्रेयी-तस्मिन्हि महानध्ययनप्रत्यूह इत्येष दीर्घपदासोऽङ्गीकृतः।

 वनदेवता—कीदृशः।

 आत्रेयी-तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्वत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् । तत्स्खलु न केवलं तस्य, आप तु तिरश्चामप्यन्तःकरणानि तत्त्वान्युपसहयात ।

 वनदेवता-अपि तयोर्नामसंज्ञानमस्ति ।

 आत्रेयी-तयैव किल देवतया तयोः कुशलवाविति नामनी च प्रभावश्चाख्यातः।

 वनदेवता—कीदृशः प्रभावः ।

 आत्रेयी--तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति ।

 वनदेवता—अहो नु भोश्चित्रमेतत् ।

 आत्रेयी—तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च । निर्वृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधानेन परिनिष्ठापिताः । तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीविद्यामध्यापितौ । न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्याममदादेः सहाध्ययनयोगोऽस्ति । यतः।


च्छेदेनाध्ययनमुपासते । तदिति । प्रवासो देशान्तरगमनम् ॥ तस्मिन्निति । प्रत्यूहः विघ्नः ॥ तस्येति । स्तन्यत्यागमात्रं चस्सिमिति बहुव्रीहे: कम्प्रत्ययः । दारकद्वयं शिशुन्यम् । तदिति । तस्य वाल्मीके तिरश्चामपि मृगाणामप्यन्तःकरणानि हृदयरूपाणि तत्त्वानि पदार्थानुपन्नेहयति संनिधानीकरोतिथपीति । नान्नोऽभिलापकशब्दस्य संज्ञान संकेतसंबन्धकरणम् ॥ तयोरिति । जन्मसिद्धानि जन्मना ज्ञातानि, नतूपदेशेन ॥ तौ चेति । धात्रीकर्मत उपमातृव्यापारेण । पोषितौ क्षीरादिना वर्धिती। रक्षितौ । पिपीलिकादिभ्य इति भावः । निवृत्तेति । निर्धत्तं निष्पन्नम्। त्रयीवर्जे वर्जयिला । अङ्गान्यपीति शेषः । इतराः । आयुर्वेदो धनुर्वेदस्तथा गान्धर्वनामकः' इत्युक्ता इत्यर्थः । सावधानेन । बाल्मीकिनेति शेषः। परिनिष्ठापिताः सम्यड् निष्पादितातदनन्तरमिति। एकादसानां पूरणं एकादशम् । 'तस्य पूरणे' इति डटूप्रत्ययः । गर्मात् गर्भवर्षात् एकादश

गर्भकादश तस्मिन्नित्यर्थः । “गौंकादशेषु राजन्यम्' इति स्मृतेः । करुप्यतेऽनुष्टीयतेऽनेनेति कल्पः अनुष्ठानपरिपाटीप्रकाशकग्रन्थः । न त्वेताश्यामिति । दीप्तिः

  वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जड़े
   न तु खल्ल तयोर्ज्ञाने शक्ति करोत्यपहन्ति वा ।
  भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा
   प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥ ४ ॥

 वनंदेवता-अयमध्ययनप्रत्यूहः ।

 आत्रेयी--अन्यश्च ।

 वनदेवता-अथापरः कः।

 आत्रेयी-अथ स ब्रह्मर्षिरेकदा माध्यंदिनसवनाय नदीं तमसामनुप्रपन्नः । तत्र युग्मचारिणोः क्रौञ्चयोरेक व्याधेन वध्यमानं ददर्श । आकस्मिकप्रत्यवभासां देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत् ।

  मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
  यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ ५ ॥

 वनदेवता--आनायादन्यत्र नतनाच्छन्दसामवतारः ।

 आत्रेयी-तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमपिमुपसंगम्य भगवान्भूतभावनः पद्मयोनिरवोचत्.---'ऋषे, प्रबुद्धोऽसि


प्रतिभा । प्रज्ञा शानं उक्कार्यग्रहणम् । वितरतीति । तयोः प्राज्ञजडयोः हाने शकि न करोति, प्राज्ञस्य ज्ञाने अपूर्वा शक्ति न जनयति । जडस्य ज्ञाने शक्ति नापहन्ति जडस्य ज्ञाननिष्ट शक्ति न नाशयति । निम्वग्राहे प्रतिबिम्बज्ञानोत्पादने मणिः वर्ण रत्नसामान्यं वा । मृदादयः । आदिपदात् वृक्षपाषाणलोष्टग्रहणम् ॥ ४ ॥ अथेति प्रश्ने। अथेति । माध्यंदिनसवनाय मध्यंदिनसंबन्धिकर्मणे । अनुप्रपन्नः प्राप्तः । तनेति। युग्ने द्वन्द्वं यथा तथा चरत इति युग्मचारिणौ तयोः क्रौञ्चयोः पक्षिविशेषयोः । ध्याधेन पुलिन्देन । ददर्श अपश्यत् । आकस्मिकप्रत्यवभासां नि:तुकाविर्भावाम् आनुहुभेन छन्दसा । खाथिकोऽप्रत्ययः । मा निषादेति । प्रतिष्ठां तु अभ गमः इति पदचतुष्टयं निषादपक्षे बोध्यम् । एवं च माङ्योगेऽडागमनिषेध उपपद्यते । अमेलस्य न विद्यते मा लक्ष्मीः यत्त्येति विग्रहः । एवं च अलक्ष्मीकेति निषादं प्रति मन्युर्गम्यते । अत एव भगवन्तं प्रति रावणवधजनितप्रीत्यतिशयेन मानिषादेति सलक्ष्मीकलप्रतिपादनम् । भगवत्परत्वे मा लक्ष्मीः निषीदयस्मिन्निति मानिषादः । बाहुलकादधिकरणे घन् । तस्य संबुद्धिः निषेधार्थमाशब्देन अडागमसमर्थन तु लिष्टम् । प्रतिष्टां आस्पदम् । व्याधपक्षेमा गमः न गच्छेः। भगवत्पक्षे अगमः प्राप्तवानिति । समाः संवत्सरान् । अत्यन्तसंयोगे द्वितीया ॥५॥ आम्नायात् वेदात् ॥तेनेति । तेग समयेन कालेन । भूतेन प्रजाः भावयति उत्पादयतीति विग्रहायाभूतं सत्यम् , निर्निरोधमिति वा भावना अध्यवसायः चस्येति वा । पयोनिःभगवन्नामिकमलजातः । अनेन पूर्वोक्तभूतभावनत्वप्रयुक्तपरलशवागात्मनि ब्रह्मणि । तहि रामचरितम् । अव्याहतज्योतिराचे ते चक्षुः प्रतिभातु । आधः कविरसि' इत्युक्त्वान्तर्हितः । अथ स भगवान्पाचेतसः प्रथमं मनुप्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहास रामायणं प्रणिनाय ।

 वनदेवता हन्त पण्डितः संसारः।

 आत्रेयी-तस्मादेव हि ब्रवीमि तत्र महानध्ययनपत्यूह इति ।

 वनदेवता-युज्यते ।

 आत्रेयी-विश्रान्तास्मि भद्रे । संप्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि ।

 वनदेवता इतः पञ्चवटीमनुपविश्य गम्यतामनेन गोदावरीतीरेण ।

 आत्रेयी--(सास्रम् ।) अप्येतत्तपोवनम् । अप्येषा पञ्चवटी । अपि सरिदियं गोदावरी । अप्ययं गिरिः प्रस्रवणः । अपि जनस्थानवनदेवता त्वं वासन्ती।

 वनदेवता - तथैव तत्सर्वम् ।

 आत्रेयी हा वत्से जानकि।

  स एष ते वल्लभशाखिवर्गः
   प्रासनिकीनां विषयः कथानाम् ।
  त्वां नामशेषामपि दृश्यमानः
   प्रत्यक्षदृष्टामिव. नः करोति ॥ ६॥

 वासन्ती- (सभवम् । स्वगतम् ।) कथं नामशेषत्याह । (प्रकाशम् ।) किमत्याहितं सीतादेव्याः ।

 आत्रेयी-न केवलमत्याहितम्, सापवादमपि । (कर्णे।) एवमिति ।

 वासन्ती - हा दारुणो दैवनिर्धातः । (इति मूच्छति ।)

 आत्रेयी-भद्रे, समाश्वसिहि समाश्वसिहि ।


ङ्का निराकृता । प्रबुद्धोऽसि प्रकृष्टज्ञानवानसि । वागेव आत्मा यस्य तस्मिन् ब्रह्मणि शब्दब्रह्मणि । वाचो वैपुल्याभिप्रायकं ब्रह्मवरूपणं ब्रह्मतत्त्वमेव शब्दरूपेण भातीत्यर्थ इति कैवटमतानुसारेण वा । अव्याहतज्योतिः अप्रतिहतप्रकाशं आर्षे ऋषिसंबन्वि योगजन्यज्ञानं चक्षुः नेत्र ज्ञानमिति फलितोऽर्थः । 'तत्सर्व मत्प्रसादेन विदितं ते भविष्यति' इत्यादि रामावणे द्रष्टव्यम् । आद्यः कविरसीत्युक्त्वा अनुगृह्म । अन्तर्हितः परोक्षतां गतः ॥ स इति । दृश्यमानः दृष्टिविषयीभूतः । प्रासद्दिकीनां प्रसक्स्यनुप्रसक्त्या जातानां कथानां प्रश्नप्रतिवचनरूपाणां वाक्यसंदीणां विषयः प्रतिपाद्यः वालभशाखिना स्वयं चर्षितत्वात अत्यर्थनीतिविषयाणां वृक्षाणां शाखिनामिति वचन सीताकरस्पर्शप्रयुक्तस्फीतत्वाभिप्रायकम् ॥६॥ दैवनिर्धातः दैवप्रहारः । दारुणः तीव्रः॥  वासन्ती - हा प्रियसखि, ईदृशस्ते निर्माणभागः । हा रामभद्र । अथवा अलं त्वया । आर्ये आत्रेयि, अथ तस्सादरण्यात्परित्यज्य निवृत्त लक्ष्मणे सीतायाः किं वृत्तमिति काचिदासीत्प्रवृत्तिः।

 आत्रेयी-लहि नहि ।

 वासन्ती-कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु जीवन्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् ।

 आत्रेयी-ऋष्यशृङ्गासने गुरुजनस्तदासीत् । संप्रति परिसमाप्तं द्वादशवार्षिक सत्रम् । ऋष्यशृङ्गेण च संपूज्य विसर्जिता गुरबः । ततो भगवत्यरुन्धती नाहं बधूविरहितामयोध्यां गच्छामीत्याह । तदेव राममातृभिरनुमोदितम् । तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा वाल्मी- किवनं गत्वा तत्र वत्स्याम इति ।

 वासन्ती-अथ स रामभद्रः किमाचारः।

 आत्रेयी-तेन राज्ञा राजक्रतुरश्वमेधः प्रक्रान्तः ।

 वासन्ती-अहह धिक् । परिणीतमपि ।

 आत्रेयी-शान्तम् । नहि नहि ।

 वासन्ती-का तहि यज्ञे सहधर्मचारिणी ।

 आत्रेयी-हिरण्मयी सीताप्रतिकृतिहिणीकृता।

 वासन्ती– हन्त भोः।

  वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
  लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ७ ॥


हा प्रियसखीति । निर्माणभागः सृष्टिफलम् । अथवेति जनवापिधानस्य दुःशकत्यादिति भावः । किं वृत्तमिति निष्पन्न मिति । प्रवृत्तिः वार्ता । आसीत् अभूत । किमिति काका योजनीयम् ॥संप्रति परिसमाप्तमिति । इदमेवाभिसंधाय पूर्वोक्तव्याख्यानमिति न विस्मर्तव्यम् । बधूविरहितां मुषाविरहिताम् । तदन्विति । तदनुरोधात तदनुसरणात् । श्रद्धा निश्चयः । अथेति । किमाचारः कीदृशव्यापारवान् ॥ तेनेति । राजफतुः राज्ञां साधारणो यः क्रतुः ऋतुराजो वा अश्वमेधः । राजदन्तादित्वात् परनिपातः ॥ सीतेति । सीतायाः प्रतिकृतिः प्रतिमा । गृहिणीकृता धर्मपत्नीकृता ॥ बज्रादपीति । अथमाशयः --निर्दोषायां सीतायां रामहृदयस्य मृदुत्वमेव खाभाविकम् । कठोरत्वे तु मूर्खलोकानुसरणार्थत्वादागन्तुकमिति प्रतिकृतिकरणादवगम्यत इति । नच 'यस्य भार्या विदूरस्था चदि सा दूषितापि वा । अनिच्छुः प्रतिकूला च  आत्रेयी--विसृष्टश्च वामदेवानुमन्त्रितो मेध्याश्वः । प्रलप्ताश्च तस्य यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्तदि- व्यास्त्रसंप्रदायश्चतुरङ्गसाधनान्वितोऽनुमहितः।

 वासन्ती (सहर्षकौतुकास्त्रम् ।) कुमारलक्ष्मणस्यापि पुत्र इति मातर् , जीवामि ।

 आत्रेयी--अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडमब्रह्मण्यमुद्धोषितम् । ततो न राजापचारमन्तरेण प्रजानामकालमृत्युः संचरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचर-

  त्शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः।
  शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् ॥ ८ ॥

इत्युपश्रुत्य कृपाणपाणिः पुष्पक्रमधिरुह्य सर्वो दिशो विदिशश्च शुद्धतापसान्वेषणाय जगत्पतिः संचार समारब्धवान् ।

 वासन्ती -- शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति । अपि नाम रामभद्रः पुनरिदं वनमलकुर्यात् ।

 आत्रेयी-भद्रे, गम्यतेऽधुना।

 वासन्ती-आर्ये आत्रेयि, एवमस्तु । कठोरश्च दिवसः ।

  कण्डूलद्विपगण्डपिण्डकपणाकम्पेन संपातिभिः
   धर्मस्रसितवन्धनैश्च कुसुमैरर्चन्ति गोदावरीम् ।


तस्याः प्रतिकृतौ क्रिया ॥ इति स्मरणात् । प्रतिकृतिकरण मृदुत्वानुपपादकमिति वाच्यम् । तस्य परिणयान्तराशक्तनिरवाशक्रिया विषयत्वात् । अश्वमेधादेः सावकाशत्वात् परिगवान्तरशक्तत्वात् । किंच सीतासदशप्रतिमाकरणं मृदुत्वापादकमेव । एतादृशविचारसाध्यत्वात् 'को हि विज्ञातुमर्हति' इति तज्ज्ञानत्वपचोग्यतापि दुर्लभेत्युक्तम् । अत्राथान्तरन्यासालंकारः॥७॥वामदेवेन अनुमन्त्रितः अनुज्ञातः।वसिष्ठासंनिधानादिति भावः। मे ग्राश्वः बझीवाश्वः । अकुप्ता इति यश्चाशानं शास्त्रोक्तन्यायेन । तेषामिति 'चतुःशता रक्षन्ति यज्ञस्याघातये' इत्यादिश्रुतिमनुलसथ अधिष्यता नियामकः अनुप्रहितः । अत्रान्तर इति ।अब्रह्मण्यमिति वचनम् उद्घोषितं उवैरुचारितम् तित इति । राजापचार राजदोषम्। निरूपयति मीमांसमाने । करुणामये परदुःखदुःखित्वरूपानुकम्पाप्रचुरे उद्वरत् उगतवती ॥ शम्बूक इति । तपः तप्यते तपश्चरति । 'तप ऐश्वर्थे वा' इति तड् । दिवादित्वात् श्यन् । शीर्षच्छेद्यः शिरच्छेदाईः । 'शीर्षच्छेदाद्यन्' इति यत्प्रत्ययः । दिशः प्राच्यादयः, विदिशः आग्नेम्यादयः ॥ अपि नामेति अलंकुदित्यनेनान्वयः । संभावनायामपिशब्दः ॥ कण्डलेति । कण्डूलानां कण्डूमतां द्विपगण्डपिण्डाना

  छायापस्किरमाणविकिरमुखव्याकृष्ट कीटत्वचः
   कूजत्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥ ९ ॥

(इति परिक्रम्य निकान्ते ।।

इति शुद्धविश्कामः।


(ततः प्रविशति सदयोचतखको रामभद्रः।)

 राम:-

  हे हस्त दक्षिण मृतस्य शिशोद्धिजस्य
   जीवातवे विसृज शूद्रमुनौ कृपाणम् ।


पिण्डाकारगजकपोलानां कषणेन संघटनया आकम्पेन अत्यर्थचलनेन संपतन्तीति संपातिनः तथाविश्वैः । धर्मेण निदाघौघण्येन वसितबन्धनैः शिथिलितन्तैः । छायायां अनातपे अपस्किरमाणाः भक्षार्थ चच्या भूनि लिखन्तः । 'किरतेहपजीविकाकुलायकरोध्विति वाच्यम्' । 'अपाच्चतुष्पाच्छकुनिध्यालेखने' इति सूत्राभ्यां तड्सुटौ । तथाविधानां विकिराणां बायसादीनां मुखैः व्याकृष्टा कीटत्वक् येषामिति विग्रहः । कपोताः पारावताः कुकुटाः वरणायुधाश्च ते कूजन्तः क्लान्ताश्च येध्विति विग्रहः । कूले । तीरवर्तिन इत्यर्थः । कुलायनुमाः पक्षिनीडयुक्तद्रुमाः स्वकुसुमैः गोदावरी अर्चन्ति पूजयन्ति इति संबन्धः । अत्र वृक्षवर्णनया वैदिकशिरोमणीनां गृहमेधिनां मध्याहकालवतान्तः प्रतीयते । कण्डूलेल्यादिविशेषणेन द्रव्याणां दुल्हशास्त्रार्थसंदेहनिर्णयार्थमुपसन्नैः तैः तत्कृतोपदेशनिवृत्तसंशयतया संतुः भूमिप्रतिभिः समर्पितखे प्रतीयते । धर्मसंसितैरित्यनेन तेषां 'कषाये कर्मणि पक' इति निवृत्तकामलोभादितया द्रव्याणां देवताराधनतथा प्रतिहतप्रदान प्रतीयते । छायापस्किरमाणेलनेन तेषां गृहेषु अतिथयः स्वयमागल्स भोज्यानि भुअत इति प्रतीयते । कूजत्लान्तेलनेन तेषां मध्याहकालप्रयुक्तश्रान्तियुक्त- नानाशाखाध्येतनानाबटुसमाजकल्यं प्रतीयते । कुलायेसनेन तेषामनेककुटुम्बभरणं प्रतीयत इति सहृदया दयां कुर्वन्तु॥अत्र कुसुमपतनस्य गोदावरीपूजावोत्प्रेक्षा कृता । सा च गम्या वाचकशब्दप्रयोगाभावात् । तस्य भगवतः केनापि इल्यारभ्य 'अयमध्ययनप्रत्यूहः' इत्यन्तेन अष्टावक्रप्रवेशात् लक्ष्यस्य सीतावनप्रापणेनालक्ष्यस्य बीजस्सोद्भेदात् प्रतिमुन्नसंधिरिचम् । 'लक्ष्यालयसा बीजस व्यक्तिः प्रतिमुख मतम्'

इति लक्षणात् । 'अप्येतत्तपोवनम्' इत्यारस्य दृष्टनष्ट पदार्थानुसरणरूपपरिसर्प उक्तः । 'हा रामभद्र' इति प्रमुखनिघुरवचनरूप वज्रमुक्तम् । 'सीताप्रतिकृतिः' इत्यादिनानुरागप्रकाशनरूपप्रगम उक्तः । 'वज्रादपि' इत्यत्रारत्युपशमनात्मक शम उफः। 'विसृष्टश्च वामदेवानुमन्त्रितः' इत्यारभ्य 'जनस्थान एज तपश्चरति' इत्यन्तेन ब्रह्मक्षत्रियशूद्राणां कीर्तनात् वर्णसंकर उफः । इय चूलिका । तदुक्तम्-'नेपथ्यान्तःस्थितैः पाथलिकार्थस्य सूचनम्' इति॥९॥उद्यतः उन्नमितः॥ हे हस्तेति । दक्षिणहस्त अपसव्यहस्त, कृपाणं खनं शद्धमुनी विलज विमुञ्च ।निर्भरः पूर्णः । विवासनं निष्कासनम् । पटोरित्यनेन "छपना परिददामि' इत्येतद्विवक्षितम् । अत्र विश्वलंकारः॥१०॥प्रहल प्रक्षिप्येत्यर्थः ।

  रामस्य बाडुरसि निर्भरगर्भखिन्न-
   सीताविवासनपटोः करुणा कुतस्ते ॥ १० ॥

(ऋथचित्रहल।) कृतं रामसदृशं कर्म । अपि जीवत्स ब्राह्मणपुत्रः ।

(प्रविश्य )

दिव्यपुरुषः-जयतु देवः ॥

  दत्ताभये त्वयि यमादपि दण्डधारे
   संजीवितः शिशुरसौ मम चेयमृद्धिः ।
  शम्बूक एष शिरसा चरणौ नतस्ते
   सत्सङ्गजानि निधनान्यपि तारयन्ति ॥ ११ ॥

 रामः-द्वयमपि प्रियं नः । तदनुभूयतामुग्रस्य तपसः परिपाकः ।

  अत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः।
  वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥ १२ ॥

 शम्बृकः-स्वामिन् , युधमत्प्रसादादेवैष महिमा । किमत्र तपसा । अथवा मदुपकृतं तपसा ।

  अन्वेष्टव्यो यदसि भुचने लोकनाथः शरण्यो
   यामन्विप्यन्निह वृषलकं योजनानां शतानि ।


इद चिन्यम्-'दुरावानं वधम्' इसारभ्य एतान्युद्वेगकारित्वात प्रयोगानुचितानि' इति तनिषेधात् । अत्रानिष्टवस्तुविक्षेपात् विधूतम् । कृतमिति । रामसदृश कर्म, न 'तु दशरथसहशं कर्म । दशरथो ह्ययुद्धिपूर्वक शुगतापसवध कृतवान् । तथा च पितुः शतगुण पुत्रः' इति न्यायेन दोषविषय एव, न तु गुणविषय इति स्थोपालम्भ इह व्यज्यते । अपि जीवेदिति अपिः संभावनायाम्। अशरीरवाण्या शिशुजीवननिश्चयेऽपि 'पावकवचनेन सीतायाः निवत्वनिश्चयेऽपि फलाभाववत् खीयदैवविपर्वयेणात्रापि तथा स्थादिलाशयः॥ प्रविश्येति । दिव्यपुरुष. शम्बकशरीरे विहाय देवत्वेनेति भावः। दत्ताभय इति । यमादपि दत्ताभये त्वयि दण्डधारे सतीत्यन्वयः । ग्रमहेतुकभयनिवारणदातरि यमरासितरि त्वयि सति असौ शिशुः बुद्धिस्थो ब्राह्मणशिशुः । निधनानि "मरणानि तारयन्ति । संसाराविधमिति शेषः ॥ ११॥ तदिति । परिपाक; फलभूतः अनुभूयताम् । यत्रेति । आनन्दाः भात्मानुभवजन्याः हाः । मोदाच दिव्य विषयानुभवजन्या हपः। संपदः अणिमादिविभूतयः । वैराजा नाम राजा इति प्रसिद्धाः॥११॥

युनत्यूलादेति । धातुः प्रसादान्महिमानमीदृशम्' इति श्रुतिः प्रत्यभिज्ञायते । किन तपसा । तपस्ता क्रिमनेलधः । अथवेति । तपःकर्तृको महोपकार इति भावः । तदुपपादयतिवेपत्य इति । यदसीति प्रसिद्धवनिर्देशात् 'सोऽन्वेष्टव्यः' इति श्रुतिः प्रत्यभिज्ञायते । अनेन कारणत्वमायुतम् । 'कारण तु ध्येयः' इति श्रते. । न

  क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु
   कायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥ १३ ॥

 रामः-किं नाम दण्डकेयम् । (सर्वतोऽवलोक्य 1) हा, कथम्

  स्निग्धश्यामाः कचिदपरतो भीषणाभोगरूक्षाः
   स्थाने स्थाने मुखरककुभो झांकृतैर्निर्झराणाम् ।
  एते तीर्थाश्रमगिरिसरिद्गतकान्तारमिश्राः
   संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥ १४ ॥

 शम्बूका-दण्डकैवैषा । अत्र किल पूर्व निवसता देवेन

  चतुर्दश सहस्राणि चतुर्दश च राक्षसाः ।
  त्रयश्च दूषणखरत्रिमूधोनो रणे हताः ॥ १५ ॥

येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि जानपदानामकुतोभयः संचारः संवृत्तः ।


केवलं प्रधानहिरण्यगर्भादिवत् कारणत्वम्, किंतु निरुपाधिकखामित्वं खीकृतमित्याह-लोकनाथ इति । 'एष सर्वभूताधिपतिः' इति श्रुतिः प्रत्यभिज्ञायते । पूर्वोकान्वेष्टव्यत्वादिफलमाह-शरण्य इति । 'एष सर्वभूतपाल:' इति श्रुतिः प्रत्यभिज्ञायते । तेन हि पालनसामर्थ्यमृते सर्वेश्वरत्वहानिरित्युपब्रहणात् हरहिरण्यगर्भादीनां रक्षकत्वशङ्कानिरासः । इदं च घण्टाकर्णादिविषये स्पष्टम् । वृषलकं अज्ञातो वृषलो वृषलकः तम् । अज्ञाते कन्प्रत्ययः । अनेन प्रयासेनान्वेषणीयत्वं खस्य सूच्यते । अन्विष्यन् । न तु चारादिनान्वेषयन्निति भावः । योजनानां शतानि अयोध्यादण्डकयोः योजनेयत्सानिश्चयेऽपि एवमुक्तिः कृत्स्नभूमण्डलान्वेषणानन्तरं अत्र प्राप्त इति सूचयति । तन्मूलं तु 'पृथिव्यां तप्यते तपः' इति अशरीरवाण्या पृथिव्यामिति सामान्योक्तिः । प्राप्तः । नतु मां दूतैः प्रापितवानित्यर्थः । वृषलक इत्यत्र वृषं धर्म लुनातीति वृषल इति व्युत्पत्त्या 'शुश्रूषा शूद्रस्य' इत्युक्तखधर्मच्छेदेन खतश्रतपश्चरणरूपखदोषाधीनत्वं विवक्षितम् । तपसा सेप्रसादः तपःकृतानुग्रहः । पुनरित्यनेन अपूर्ववनविलोकनस्पृहयान्यथासिद्धिचारिता । वनपदं दण्डकायामपि गमनप्रदेशत्वसूचनार्थम् । एवं सर्वप्रकारेणापि दुर्वटभबदागमनसंघटकत्वात् तपसां प्रसाद इति भावः ॥१३॥स्निग्धेति । श्यामाः नीलाः। आभोगः विपुलावकाशः। रूक्षाः चित्तक्षोभकराः। गर्ताः अवटाः ॥१४॥ चतुर्दशेति। दूषणखरत्रिमूर्धान इति । समासान्तविधेरनित्यत्वात् “द्वित्रिभ्यां ष मूर्ध्नः' इति षप्रत्ययाभावः । केचित्तु दूषणखरत्रिमूर्धा नः इति पदद्वयं कृत्वा नः अस्माकं रणे दूषणवरत्रिमूर्धाः हृता इति षप्रलयान्तमेव समर्थयन्ते । अस्माक्रमिति रामेण समाधिना दिव्यपुरुपबचनं पक्षक्याभिप्रायकम् । वस्तुतस्तु नौशब्दः पृथक्पदमित्याश्रित्य अत्र निवसता देवेन दूषणखरत्रिमूर्धाः हताः । नो किमिति काका योजनीयम् । इय व प्रत्यभिज्ञापनशैली गौरव्यविषयेष्वनुभवसिद्धा ॥ १५॥येनेति । सिद्धक्षेत्र सिद्धिप्रदपुण्यक्षेत्रे अकुतो रामः-न केवलं दण्डकैव, जनस्थानमपि ।

 शम्बूकः बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्त चण्डश्वापदकुलाकान्तविकटगिरिगहराणि जनसानपर्यन्तदीरण्यानि दक्षिणा दिशमभिवर्तन्ते । तथाहि ।

  निप्कूजस्तिमिताः कचित्वचिदपि प्रोचण्डसत्वखनाः
   खेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्तामयः ।
  सीमानः प्रदरोदरेषु विरलवल्पाम्भसो या स्वयं
   तृप्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥ १६ ॥

 राम:-

  पश्यामि च जनस्वानं भूतपूर्वखरालयम् ।
  प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥ १७ ॥

(सर्वतोऽवलोक्य ।) प्रिया रामा हि वैदेह्मासीत् । एतानि नाम कान्ताराणि । किमतः परं भयानकं स्यात् । (सास्त्रम् ।)

  त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु ।
  इतीबारमते हासौ खेहस्तस्याः स तादृशः ॥ १८ ॥
  न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
  तत्तरय किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ १९ ॥

भयः नास्ति कुतो भयं यस्येति विग्रहः॥ एतानीति रोमहर्षणानि रोमाञ्चजनकानि। निष्कृजेति । निर्गताः कूजाः कूजिताने येभ्य इति विग्रहः । कूजितशून्या इत्यर्थः । 'कूज अव्यक्त शब्दे' इत्यस्माद् भावे घञ्प्रत्ययः । सत्त्वानां जन्तूनाम् ।प्रदरोदराणि गुहामध्याः । प्रतिसूर्यकैः वककलासकैः ॥ १६॥ पश्यामीति । भूतपूर्वो यः खरालयः तथाविधमित्यर्थः । भूतपूर्वः खरालयः खरगृहं बस्मिन्निति वा । प्रत्यक्षानिव पुरोवर्त'मानानिय । अनुभवामि स्मृतिवैशयेन प्रत्यक्षीकरोमि ॥ १७ ॥ कान्ताराणि दुर्गमबमानि । भयानकं भयजनकम् । त्वयेति । मथुगन्धः एषु अस्तीति मधुगन्धीनि तेषु बनेषु इह कान्तारेषु आरमते प्रीति प्राप्तवत्येव । कुत इत्यत आह-लेहस्तस्याः स ताटश इति । 'हृदयं त्वेब जानाति प्रीतियोगं परस्परम्' इत्युक्तरीया परिच्छेदातीत इत्यर्थः ॥१८॥ नेति ! यस्य प्रियः प्रीतिमान् प्रीतिविषयो वा यः जनः किंचिदपि न कुर्वाणः सन् किंचित्कारलेशेनापि शून्यः सन् सौख्यैः खीयसुखैः करणैः दुःखान्यपोइति नाशयति । तत् दुःखनाशहेतुभूतो जनः । विधेयप्राधान्यान् ममुसकत्वम् । तस्य  शम्बूकः-तदलमेभिर्दुरासदैः । अथैतानि मदकलमयूरकण्ठकोमलच्छविमिरवकीर्णानि पर्यन्तैरविरलनिविष्टनीलबहुलच्छायातरुषण्डमण्डिताः न्यसंभ्रान्तविविधमृगसूधानि पश्यतु महाभागः प्रशान्तगम्भीराणि श्वापदकुलशरण्यानि महारण्यानि।

  इह समदशकुन्ताक्रान्तवानीरमुक्त-
   प्रसवसुरभिशीतस्वच्छतोया वहन्ति ।
  फलभरपरिणामश्यामजम्धूनि कुञ्ज-
   स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ २० ॥

अपि च ।

  दधति कुहरभाजामत्र मकसूना-
   मनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
  शिशिरकटुकषायः स्त्यायते सल्लकीना-
   मिभदलितविकीर्णग्रन्थिनियन्दगन्धः ॥ २१ ॥

 राम-(सवापरतम्भम् ।) भद्र, शिवास्ते पन्थानो देवयानाः । प्रलीयस्व पुण्येभ्यो लोकेभ्यः ।

 शम्बका-यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाय शाश्वतं पदमनुप्रविशामि । (इति निष्क्रान्तः ।)


अपोहनीयदुःखवतः पुषस्य किमपि विलक्षणं द्रव्यं भव्यवस्तु । 'द्रव्य च भव्ये इयुनुशासनम् । यता सौख्यरिति इत्थभूतलक्षणे तृतीया । तथा च सौख्यः विशिष्टः सुखितः नियः इष्टः यः जनः यस्य न किंचिदपि कुर्वाणः खरूशतिरेकिव्यापारलेशशून्यः सन् दाखानि अपोहति तदित्यादि पूर्ववत् । दु:खनिवृत्तिहेतुव्यापारलेशशून्यः सन्नपि स्वीयमसनिलिरायः यः खरूपेणैव बहुःखनिवृत्ति प्रति कारण तं प्रति तस्य निस्तुलभव्यद्रव्यत्वमिति भावः । एवं चाह सीताविषये किचित्कारलेशशून्योऽपि सुखितः रान तहःखतिवर्तक इति कान्तारगमनं युक्तमेवेति हृदयस्थितोऽधः ॥१९॥ अथेति । पर्यन्तैः अभयर्णप्रदेशैः । छायाप्रधानाः तरचः छाचातरयः । प्रशान्तानि अजुद्वेगजननाति । इहेति । शकुन्ताः पक्षिणः । वानीराः वेतसविशेषाः । मुखराणि शब्दवन्ति भूरीणि सोतांति यासां ताः॥२०॥ दधतीति । कुहरभाजांगुहावर्तिनां भाकसूनां ऋक्षाणां अनुरसितेन अनुरणनेन गुरुणि महान्ति अम्बूकतानि निष्ठीवनशब्दानि स्त्यानं वृद्धि वैपुल्य या दधति भजन्ति । निष्यन्दः खरसद्रवः । स्वायते वर्धते विसरति वा॥२१॥ देधयानाः देवयामनामकाः । ते च 'अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम्' इत्युकाः। लोकेभ्यः राम:-

  एतत्पुनर्बनमहो क्रथम दृष्टं
   यस्मिन्नभूम चिरमेव पुरा वसन्तः ।
  आरण्यकाश्च गृहिणाश्च रताः स्वधर्मे
   सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥ २२ ॥

  एते त एव गिरयो विस्वन्मयूरा-
   तान्येव मत्तहरिणानि वनस्थलानि ।
  आमनुवचुलरुतानि च तान्यमूनि
   नीरन्ध्रनीपनिचुलानि सरित्तदानि ॥ २३ ॥

  मेघमालेव यश्चायमारादिव विभाव्यते ।
  गिरिः प्रसवणः सोऽयमत्र गोदावरी नदी ॥ २४ ॥

  अस्यैवासीन्महति शिखरे गृधराजस्य वास-
   स्तस्याधस्ताद्वयमपि रतास्तेषु पोटजेषु ।
  गोदावर्याः पयसि विततानोकहश्यामलश्री-
   रन्तः कूजन्मुखरशकुनो यत्र रम्यो बनान्तः ॥ २५ ॥

अत्रैव सा पञ्चवरी यन्त्र निवासेन विविधविसम्मातिप्रसङ्गसाक्षिणः प्रदेशाः प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता । किमिदमापतितमद्य रामस्य । संप्रति हि ।

  चिराद्वेगारम्भी प्रसृत इब तीब्रो विषरसः
   कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः ।


लोकाननुभवितुम् ॥ एतदिति । हिणः गृहमेधिनः । सांसारिकेषु जन्मफलभूतेषु ॥२२॥ एत इति । विरुवन्मयूराः कूजहिणः ॥२३॥ मेघमालेति ! मेघमालेद मेघमालासदृशः यः अय पुरोधर्तिपदार्थः आरादिच समीपस्थ इव विभाब्यते ज्ञायते । यत्र गिरौ गोदावरी नदी सः प्रस्रवणो गिरिः ॥२४॥ अत्यैवेति । मुखरशकुनः कूजत्यक्षियुक्तः अत एव अन्तः कूजन ख्य कूजन्निव स्थितः ॥२५॥ यत्रेति । विस्खम्भाः

खैरविलासाः । चिरादिति । तीवः स्पर्शदशायामपि दुःसहः । अनेन अज्ञातस्पशविषविशेषज्यावृत्तिः । चिरात् भूयांसं कालं शमित्वा । चेगा वेदनाशै घ्य आरम्भयति उत्पादयतीति वेगारम्भी । अनेन पूर्वोक्तविषविशेषव्यावृत्तिः। प्रसूतः यत्रामुल्यादौ स्पर्शः ततोऽन्यत्र सर्वाजेषु प्रसृतः दलनादिना दुःसहप्रसरणः यः विपरसः तत्सदृश इत्यर्थः । रसशब्देन विशेषोत्कर्षों विवक्षितः । कुतश्चित् यस्मात् कस्साचित संवेगात् संभ्रमा

  व्रणो रूढग्रन्थिः स्फुटित इव हमर्मणि पुनः
   पुराभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥

तथाविधानपि तावत्पूर्बसुहृदो भूमिभागान्पश्यामि । (निरूप्य 1) अनवस्थितो भूतसंनिवेशः । तथाहि ।

  पुरा यत्र लोतः पुलिनमधुना तत्र सरितां
   विपर्यास यातो धनविरलभावः क्षितिरुहाम् ।
  बहोदृष्टं कालादपरमिव मन्ये बनमिदं
   निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥

हन्त हन्त । परिहरन्तमपि मां पञ्चवटी खेहाइलादाकर्षतीय। (सकरुणम् ।)

  यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
   यत्संबन्धकथाभिरेव सततं दीर्धाभिरास्थीयत ।
  एकः संप्रति नाशितप्रियतमरतामेव रामः कथं
   पापः पञ्चवटीं विलोकय वा गच्छत्वसंभाव्य वा ॥२८ ॥


दिजन्यात निर्यातात् प्रचल: शल्यस्य वाणाग्रस्य शकल: खण्ड इव स्थितः । स हि मरणभयादतुत एव तिष्ठति। स्टाः प्रादुर्भूताः ग्रन्थयः उपव्रणाः यस्मात् स तथोक्तः। स्फुटितः दलितः हन्सामणि ब्रण इव हृदचमर्मवर्तिवणसदृशः काचित्कस्पर्शसार्वत्रिकप्रसरणाभ्यां प्रथम दृष्टान्तः । प्रतिकार्यत्वशङ्काव्युदात्साय द्वितीयः । स्वल्पकालत्वव्यावृत्तये तृतीयः । विशेषमाह-नूतन इवेति । विकलयति शून्य करोति ॥२६॥ अन्नवस्थितो भूतसंनिवेशः अनियता पदार्थस्थितिः । पुरोति । बहोः कालात् दृष्ट बहुकालमदृष्ट्या दृष्टम् । ल्यब्लोपे पत्रमी । यद्वा पूर्वदर्शनकालयहुनिप्रकृष्टकाले दृष्टम् । सप्तमीपञ्चम्यौ' इति परमी । तदिदापति बुद्धि प्रत्यभिज्ञाम् । अत्र प्रस्तुतवृत्तान्तवर्णनात् अप्रस्तुत प्राणिकुटुम्योपच्यापचयपरिस्फूर्तिरिति कुवलयानन्दकृत् ॥ २७ ॥ यस्यासिति । स्त्रे गृहे यथा यस्तारं ते दिवसाः नीताः निरुपप्लवलरामणीयकादिभिः खगृहृतुल्यायो यस्यां पचवब्यां नीताः अतिवाहिताः । न केवलं रात्रयो भीताः किंतु दिवसा अपि जीता इति दिवसपदेन व्यज्यते । तेन स्वगृहापेक्षया बैलक्षण्यमपि पञ्च-: वट्याः । तत्र हि-राज्यतन्त्रादिना दिवसेषु न सहावस्थान घटते तथा सह मयेति वान्वयः। स्वगृहे गुरुसंनिथितिरोहितप्रणवचारतच्यासंकोचात् स्वगृहाद्विशेषः । यत्संवन्धकथाभिः कीभिः । आस्थीयत । तिष्ठतेभीवे लइ । एवकारेण वाग्व्यापारान्तरप्रतिषेधः। यत्कथाभिः इत्लनुक्रया यत्संबन्धकथाभिरित्युक्तेः पचवटीपरिसरवर्तिनामपि रामणीचना व्यज्यते । अत्र 'मरन्कमलपत्राक्षी रामः संध्यासुमागमत्' इत्युक्तरीत्या सर्वकाल बुद्धिस्थत्यात तथेत्युक्तम् । तामेव, न तु यां कांचिदित्यर्थः । वियोगे हि स्मगीयवस्तु

(प्रविश्य ।)

 शम्बूकः--जयतु देवः । भगवानगस्त्यो मत्तः श्रुतसंनिधानस्त्वाभाह---'परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा. सर्वे च महर्षयः । तदेहि । संभावयास्मान् । अथ प्रजविना पुष्पकेण स्वदेशमुपगत्याश्वमेधसज्जो भव' इति ।

 रामः-यथाज्ञापयति भगवान् ।

 शम्बृका-इत इतो देवः ।

 रामः- (पुष्पकं प्रवर्तयन् ।) भगवति पञ्चवटि. गुरुजनादेशोपरोधारक्षण क्षम्यतामतिक्रमो रामस्य ।

 शम्बूक: देव, पश्य ।

  गुञ्जत्कुञ्जकुटीरकौशिकघटाघुक्कारवत्कीचक-
   स्तम्बाडम्बरमूकमौकलिकुलः क्रौञ्चाभिधोऽयं गिरिः ।
  एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै-
   रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः ॥ २९ ॥


दर्शनमात्र दुःसहम् , किं पुनः सहानुभूतरमणीयदर्शन दुःसहमिति। एकः केवलः । सीतागन्य इति भावः । ननु राज्ञः शुद्धान्त एव स्थित्यहीयाः कथं सहगमनं घटते । पुरं प्रति गमने तु सुलभमेव तानामिति किमिहात्साहितमिति अनाह--नाशितप्रियतम इति । नाशितत्वमपि दैवाधीन चेन् कथंचित् सह्यत एव, न तु तथा । कितु मधीन एव नाश इति दुःखातिरायो व्यज्यते । ननु तर्हि यत्र सा तत्रैव गम्यतामिखत्राहपाप इति । मरणप्रतिबन्धकपापबानित्यर्थः । तथाप्येषः प्राणः स्फुरति न तु पापो विरमति' इत्युक्तः । असंभाव्य असंमान्य रामः पञ्चवटीं विलोकयतु । वसन्यादृशशैल्यात सर्वथा न मत्स्वरूपविलोकनमसंभाव्य गमन वेति व्यज्यते । संप्रति नाशितप्रियतम इत्यनेन आर्ददुःखख व्यज्यते। सर्वथा प्रियारामेयारभ्य एतच्होकपर्यन्तमनुरागप्रकाशनविशिष्टवचनरूपं पुष्प नाम संध्यमुरुम् ॥ २८॥ मगवानिति । मत्तः श्रुतं सैनिधानं त्वत्सामीप्य येन सः । मत्त इति समागमनाल्यातुः दिव्यपुरुषस्यागस्त्य प्रति गुरुप्रायत्व कवेरभिमतमिति व्यज्यते । 'आख्यातोपयोगे' इति पञ्चमीविधानात् । परिकल्पितेति । आवरणमङ्गलं नीराजनादिकम् । लोपामुद्रा अगस्त्यपत्नी प्रतीक्षते कृतक्षणा तिष्ठति । त्यक्तसर्चव्यापारा तिष्ठतीत्यर्थः । अथ प्रजविना प्रकृष्टवेगवता । एकदेशिनेति ज्ञापनात कर्मधारयादिनिः ॥ प्रवर्तयन् गमयन् । गुरुजनस्य अगस्त्यस्य आदेशोपरोधात् आज्ञानुसरणावेतोः। अतिक्रमः असंभाव्यगसनरूपः । अष्टजनानुनथात् पर्युपासनं नाम संध्यमुक्तम् ॥ गुञ्जदिति । कुजा एव कुटीरा: गुजन्तः अव्यक्ताशब्दवन्तः कुमकुटीराः येषां ते कौशिकघटाः धूकपतयः तासां धुकारा:  अपि च

  एते ते कुहरेषु गद्दनदगोदावरीवारयो
   मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः ।
  अन्योन्यप्रतिघातसंकुलचलत्कल्लोलकोलाहलै-
   रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः ।। ३०॥

( इति निष्कान्ताः सर्वे ।)

द्वितीयोऽङ्कः।


एषु सन्तीति तद्वन्तः कीत्रकाः तेषां रन्ध्रदतो वेणुविशेषाणां स्तम्बाः ऋाण्डाः तेषामाधम्बरः संत्रमः तेन मूकानि जोषमासीनानि मौकलिकुलानि यस्य स तथोक्तः । कोबाभिधोऽयं तन्नामकोऽयं गिरिः । प्रचलाकिनां मयूराणां रोहिणतरवः हरिचन्दन वृक्षाः कुम्भीनसाः सपीः रहिन्ति वेपन्ते। 'वेल्ल चलने' ॥२९॥ एत इति । कुहरेषु गुहासु गद्गद यथा तथा नदन्ति शब्दवन्ति गोदावरीवारीणि येषु तथोक्ता । शिखराम मौलिः । पर्वताम्र शिखरमिति इह भेदः । क्षोणीमृतः पर्वताः दाक्षिणा: दक्षिगदिशावर्तिनः एते ते पूर्व भवता इटाः । अन्योन्यप्रतिधातेन परस्परप्रत्यास्फालनेन संकुलाः निबिडाः चलन्तः कहोला: तरङ्गाः तेषां कोलाहलैः कलकलैः उत्तालाः उत्वशाः सरित्संगमाः गदीसंगमाः ॥ ३०॥

  वाधूलवंशजनुषो भूसारजवीरराघवार्यस्य ।
  उत्तररामचरित्रव्याख्यायामवसितो द्वितीयोऽङ्कः॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पशिनीसमाख्यायामुत्तररामचरितव्याख्यायां द्वितीयोऽङ्कः।

(ततः प्रविशति नदीद्वयम् ।)

 एका--सखि मुरले, क्रिमसि संभ्रान्तेव ।

 मुरला-सखि तमसे, प्रेषितास्मि भगवतोऽगस्त्यस्य पल्या लोपामुद्रया सरिद्वरां गोदावरीममिधातुम् । जानास्येव यथा बधूपरित्यागात्प्रभृति

  अनिभिन्नो गभीरत्वादन्तगूढधनव्यथः ।
  पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥१॥

तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्गदेन दीर्घशोऋसंतानेन संपति परिक्षीणो रामभद्रः । तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे हृदयम् । अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियतमेव पञ्चवटीवने वधूसहनिवासविलम्भसाक्षिणः प्रदेशा द्रष्टव्याः । तत्र च निसर्गधीरस्याप्येवंविधायामवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात्पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि । तद्भगवति गोदावरि, त्वया तत्रभवत्या सावधानया भवितव्यम् ।

  वीचीवातैः शीकरक्षोदशीतै-
   राकर्षद्भिः पद्मकिञ्जल्कगन्धात् ।


वधूपरित्यागात् नुषापरित्यागात् । अनिर्मिन्न इति । करुणो रसः इष्टजनबियोगजन्यदुःखातिशयात्मकरसः पुटपाकप्रतीकाशः लोहादिमयसंपुटान्तर्वर्तिसंतापनसदृश इत्यर्थः॥१॥ तेनेति । तथाविधेष्टजनस्य सीतायाः कष्ट विनिपातात् दुःखमयविक्षपात जन्म उत्पत्तिः यस्य तथोक्तन । प्रकृष्टोऽधिकः गद्गदः गद्गदशब्दः येन तथोक्तेन । 'प्रकर्षगद्गदेन' इति पाठे प्रकर्षण गद्गदो चस्मिन्निति विग्रहः । दीर्घशोकसंतानेन दीर्घदुःखपरिचाहेण परिक्षीणः कार्यदौर्बल्यादियुक्तः । कुसुमेन समै बन्धन यस्येति विग्रहः कुसुमसमबन्धनम् । तद्वत् सुच्छेदमित्यर्थः । अधुनेति । वधूसहनिधासे थे विनम्भाः खैरलीलाः तत्साक्षिणः तत् साक्षात्कारः प्रदेशाः वनोद्देशाः नियतमित्वसंदेहवाचि । तत्रेति । गम्भीरः आभोगः आयामः यस्य तथोक्तः यः शोकः तेन जातस्य क्षोभस्य प्रकृतिविपर्यासस्य संवेगात् वेगातिशयातू । महान् प्रमादः अनवधानता येषु तथोक्तानि । संझाच्छेदकारीणीत्यर्थः । शोकस्थानानि जगतां शोकनिमित्तानि । रामात्साहितानीति भावः। सावधानया अवधान मनसो विषयान्तरसंचारविमुखता तत्सहितया ॥ धीचीति । शीकराणां क्षोदैः सूक्ष्मांशैः । पद्मकिअल्कानां अरविन्दकेसराणां गन्धान सौरभ्याणि आकर्षद्भिः हरद्भिः । शीकरक्षोदेत्य

  मोहे मोहे रामभद्स्य जीव
   खैर खैरं प्रेरितैस्तपेयेति ॥२॥

 तमसा---उचितमेव दाक्षिण्यं स्नेहस्य । संजीवनोपायस्तु मूलत एव रामभद्रस्य संनिहितः ।

 मुरला--कथमिव ।

 तमसा-तत्सर्वं श्रूयताम् । अस्ति खलु वाल्मीकितपोवनोपकण्ठात्परित्यज्य निवृत्ते सति लक्ष्मणे सीता देवी प्राप्तप्रसववेदनमतिदुःखसंबेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं च प्रसूता भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता । स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महःगङ्गादेव्या समपितं खयम् ।

 मुरला--(सविस्मयम् ।)

  ईदृशानां विपाकोऽपि जायते परमाद्भुतः ।
  यत्रोपकरणीभावमायात्येवंविधो जनः ॥ ३ ॥

 तमसा-इदानीं तु शम्बूकवृत्तान्तेनानेन संभावितजनस्थानं रामभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव लोपामुद्रया लेहादभिशङ्कितं तदेवाभिशङ्कय सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीमुपागता।


नेन शैल्यमुक्तम् । पनकि मल्कगन्धानित्यनेन सौरभ्बमुक्तम् । आकर्षद्भिरित्यनेन भान्धमुक्तम् । वहनाशकावेव कर्षणसंभवात्। खैरं निःशङ्कम् । अन्न खैरमित्युक्त्या सुरभिशीतलमृदुवाता अपि विरहिणामनधकारिण इति न शङ्करम् । विरहिणां चैतन्यदशायामेव दुःसहा इमे । भूच्छितानांतु प्राणप्रतिष्ठापन करा एव । नातस्त्वयातिशङ्का कर्तव्येत्रि व्यज्यते ॥ २ ॥ उचितमिति । दाक्षिण्यं साथै ऊहापोहात्मकज्ञानबत्त्व वा। मूलतः । सीतारात् मूलमिति सीतोच्यते । मौलिक इति पाठेऽप्यर्थः प्रागिव ॥ वाल्मीकीति । प्राप्तप्रसववेदनं जातप्रसवदुःखम् । आत्मानं खम्। दारकद्वयं शिशुव्यम् । प्रसूता प्रसूतवती। अभ्युपपन्ना संगता । स्तन्यत्यागात् परेण स्तन्यत्यागानन्तरम् ॥ ईशानामिति । विपाकः दशा ।' उपकरणीभावमुरकरणत्वम् ॥३॥ इदानीं स्विति । उपश्रुत्याकZ । तत् सर्व श्रूयतामित्यारभ्य ऋषियोवितरणरूपबीजस्य अन्वेषणात् गर्भसंधिरयम् । 'गर्भस्तु दृष्टनष्टस्य धीजस्यान्वेषणं मुहुः' इत्युक्तेः । केनचिदिव गृहाचारब्धपदेशेनेत्यत्र प्रस्तुतोपयोगिच्छमाचरणरूपं अभूताहरण नाम  मुरला--सुष्टु चिन्तितं भगवत्या भागीरथ्या । राजनीतिस्थितस्यास्य खल तैश्च तैश्च जगतामाभ्युदयिकैः कार्यातस्य रामभद्रस्य नियता- श्चित्तविक्षेपाः । अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति । कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात् ।

 तमसा-भगवत्या भागीरथ्या 'वत्से देवयजनसंभबे सीते, अद्य खल्वायुप्मतोः कुशलबयोदशस्य जन्मवत्सरस्य संख्यामङ्गलग्र- न्थिरभिवर्तते । तदात्मनः पुरामश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तापचितैः पुप्पैरुपतिष्ठख । न त्वामवनिष्ठचर्तिनीमस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत माः' इति । अहमप्याज्ञापिता 'तमसे, स्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमेवास्याः प्रत्यनन्तरीभव' इति । साहमधुना यथादिष्टमनुतिष्ठामि ।

 मुरला-अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । रामभद्रोऽप्यागत एवेति तर्कयामि ।

 तमसा----तदियं गोदावरीहदान्निर्गत्य

  परिपाण्डुदुर्बलकपोलसुन्दरं
   दधती विलोलकबरीकमाननम् ।
  करुणस्य मूर्तिरथवा शरीरिणी
   विरहव्यथेव बनमेति जानकी ॥४॥


संध्यामुक्तम् । सुष्ठिति । राजनीतिस्थितस्य क्षत्रिवोचितराज्यपरिपालनात्मकधमैनिष्टस्य । अभ्युदयाय भवन्तीलाभ्युदनिकानि इति विग्रहः । तैः आम्युदयिकैः । चिसविक्षेपाः हृदचतोदाः । अव्यग्रस्य व्यापारान्तरशन्यस्य । अनर्थः तदुःखहेतुः । एष तत्वार्थानुकीर्तनरूपो मार्ग उक्तः ॥ द्वादशस्य जन्मवत्सरस्य संख्यामइलप्रन्थिरभिवर्तते संख्यापूर्तिहेतुकमङ्गलग्रन्थिः । वत्सरे वत्सरे शिशूनां जन्मनक्षत्र शान्त्युसचं कृत्वा मालार्थ करे पटसूत्रादिना स्त्रियो ग्रन्थि कुर्वन्ति । स तु करे वलयरूपेण तिप्रतीत्युपदेशः । मानवस्थ मनुसंवन्धिनः। प्रसवितार जनकम् । अपहृतपाप्मान निरस्तसमस्ताविधादिदोषगन्धम् । देवं जगत्दृष्टयादिलीलाशालिनम् । अत्र 'एष सर्वेभ्यः पाप्मभ्य उदेति' इत्यन्तरादित्यविच्चाप्रत्यभिज्ञापिता । तत्र च कप्यासश्रुत्या नारायण एवं प्रतिपाद्य इति स्पष्टमेव । उपतिष्ठख सेवस्त्र । अत इति । प्रत्खनन्तरीभव अनुचरीभव ॥ रामभद्र इति । तयामि अनुमिनोमि ॥ परिपाण्डिति। करणस्य इष्टवियोगजन्यदुःखातिशयस्य मूर्तिः आकारो वा । विरहव्यथा विरहजन्यसंता मुरला---इयं हि सा

  किसलयमिव मुन्धं बन्धनाद्विप्रलून
   हृदयकमलशोषी दारुणो दीर्घशोकः ।
  ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
   शरदिज इव धर्मः केतकीगर्भपत्रम् ॥५॥

(इति परिक्रम्ब निष्वान्ते)

इति शुद्धविष्कम्भः।


(नेपथ्ये ।)

जात जात।

(ततः प्रविशति पुष्पापचययना सकरुणौत्सुक्धमाकर्णयन्ती सीता)

 सीता अम्हहे, जाणामि पिअसही वासन्दी बाहरदित्ति ।

(पुनर्नेपथ्ये ।)

  सीतादेव्या स्वकरकलितैः सल्लकीपल्लवा…-
  रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् ।

 सीता - कि तस्स।

(पुनर्नेपथ्ये ।)

  वध्दा सार्ध पयसि बिहरन्सोऽयमन्येन दर्पा-
   दुद्दामेन द्विरदपतिना संनिपत्याभियुक्तः ॥ ६॥

 १. अहो, जानामि प्रियसी वासन्ती व्याहरतीति

 २. किं तस्य ।

पादिरूपा ॥ ४॥ किसलयमिति । परिपाण्डु उक्तरीत्या अतिम्लानत्वेऽपि लावगाविरोधिपाण्डतोला । ग्रीष्मविरहतापचोरयनेव विशेषः । यत् श्रीष्मस्य लावण्यनाशकखम् , विरहस्य तु तदभाव इति । तथा च कालिदासः---'समस्तापः कार्म मनसिजनिदाघप्रसरयोर्नतु ग्रीष्मस्यैवं सुभगदपराद्ध युदतिषु इति । एवं सुभगं न । एवं लावण्यापरित्यागेन रमणीयं न भवतीत्यर्थः । तथाह भगवान वाल्मीकि:-'ज्योत्ला तुषारमलिना पौर्णमास्था हि लक्ष्मण । सीतेव चातपश्यामा दृश्यते न च शोभते ॥' इति । श्रीमसातपश्यामेति लावण्यनाशकत्वम् । क्षामं कृशं ग्लपयति म्लान करोति । शरदिजः शरत्कालजः। 'प्रावृद्ध शरत्' इत्यादिसूत्रेणालुक् । अत्र लिझाद यूहनरूपं अनुमानं नाम संध्यगमुक्तम् ॥५॥ शुद्धविष्कम्भ इति । संस्कृतात्मकविष्कम्भ इत्यर्थः । विष्कम्भखरूपं तु.---'वृत्तवर्तिक्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्र प्रयोजितः ॥' इति । केबलसंस्कृतशयः शुद्ध इति ॥ व्याहरति वदति ॥ सीतेति । स्वकरकलितैः  सीता--( समेत्रमन् । कतिचित्पदानि गन्दा) अजउत्त. परित्ताहि परिचाहि मह पुत्तमम् । (विचिन्त्य) हद्धी हद्धी। ताई एव चिरपरिहदाई अक्खराइं पञ्चवटीदेसण में मन्दभाइगि अनुबन्धन्ति । हा अजउत्त । (इति मूर्च्छति ।)

(प्रविश्य।)

 तमसा- समाश्वसिहि समाश्वसिहि ।

(नेपथ्ये।)

 विमानराज, अत्रैव स्थीयताम् ।

 सीता---(समावसोलासम् ।) अम्हहे, जलभरभरिअमेहमन्थरस्थणिअगम्भीरमंसलो कुदो णु भारईणिग्योसो भरन्तकण्णविवर में वि मन्दमाइणि झत्ति उस्सुआवेइ ।

 तमसा-(सलितालम् ।) अयि बरसे,

  अपरिस्फुटनिकाणे कुतस्त्वेऽपि त्वमीहशी।
  स्तनयित्नोर्मयूरीव चकितोत्कण्ठित स्थिता ॥ ७ ॥

 सीता-भैअचदि, किं भणासि अपरिप्फुडेत्ति । सरसंजोएण पत्रहिजाणामि णं अज्जउत्तेण एव एदं वाहरिदम् ।


 १. आर्यपुत्र, परिचायख परित्रायख मम पुत्रकम् । हा धिकहा धिक् । नान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मा भन्दभागिनीमनुबन्नन्ति । हा आर्यपुत्र ।

 २. अहो, जलमर भरितमेघमन्धरस्तभितगम्भीरमांसलः कुतो नु भारतीनिर्घोषो नियमाणकर्णविवरा मामपि मन्दभागिनी शटित्युत्सुकापयति ।

 ३. भगवति, किं भणस्वपरिस्फुटेति । स्वरसंयोगेन प्रत्यभिजानामि नन्चार्यपुत्रेणैवैतबाहृतम् ।


खकराभ्यां दत्तारेत्यर्थः । वध्वा साबै स्त्रिया सह । उद्दामेन उत्कटेन लंनिपत्य खथमापत्य । अभियुक्तः प्रत्यथितया संगतः ॥६॥ आर्यपुत्रेति । परित्रायत्वेति । एष परकारिजनात् भीतिरूप उद्वेग उक्तः । तानीति । अक्षराणि आर्यपुत्रेति वर्णाः । अनुबध्नन्ति अनुसरन्ति । मन्दभागिनी अल्पपुण्य फलाम् ॥ जलेति । मांसलः स्फीतः । भारतीनिर्घोषः वचारणध्वनिः । उत्सुकापयात उत्कण्ठितां करोति ॥ खरसंयोगेन  तमसा-श्रूयते तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा दण्डकारण्यमारत

 सीता - दिडिआ अपरिहीणथम्भो सो राआ।

(नेपथ्ये ।)

  यत्र द्रुमा अपि नृगा अपि बन्धवो मे
   यानि प्रिवासहचरश्चिरमध्यवात्सम् ।
  एतानि तानि बहुकन्दरनिराणि
   गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८ ॥

 सीता--दिडिआ कहं पहादचन्दमण्डलापण्डरपरिक्खामदुब्वलेन आआरेण णिअसोम्हगम्भीराणुभावमेत्तपञ्चहिजाणिज्जो एच अजउत्तो होदि । भअवदि तमसे, धारेहि भम् । (इति तमसामाश्लिष्य मूर्छति ।)

 तमसा-वत्से, समाश्वसिहि समाश्वसिहि ।

(नेपथ्ये।)

अनेन पञ्चवटीदर्शनेन

  अन्तलीनस्य दुःखामेरद्योद्दाम ज्वलिप्यतः ।
  उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९ ॥

हा प्रिये जानकि ।


 १. दिष्ट्या अपरिहीनधर्मः स राजा।

 २. दिघ्या कथं प्रभातचन्द्रमण्डलापाण्डरपरिक्षामदुर्वलेनाकारण निजसीन्चगम्भीरानुभावमात्रप्रत्यभिज्ञेय एवार्यपुत्रो भवति । भगवति तमसे, धारय माम् ।


खरसंदर्मेण प्रत्यभिजानामि तदिदनिति वेधि ॥ श्रूयत इति । तपातः तपश्चरतः । कडादिरयम् । दण्डधारणा अपराधाहुगुणशिक्षगार्थम् । एक्वाकः इक्ष्वाकुवेश्यः । 'दाण्डिनायन--' इत्यादिसूत्रेग दिलोपः ॥ अपरिहीनवर्मः अन्यूनधर्मः ॥ यव्त्रेति । अध्यवात्सम् उषितवानस्लि: 'उपायथ्यावसः' इति कर्मत्वम् । एतानीति । गोदावरीपरिसरस्य गोदावरीसमीपवर्तिनः ॥ ८॥ परिक्षामदुर्बलेन दुर्बलायमानेन । पाठान्तरम् 'परिक्षामधूसरेण' इति । भतिकृशेन दुर्बलेन चेत्यर्थः ॥ अनुभावमात्रप्रत्यभिज्ञेयः प्रभावेन केवलं प्रत्यभिज्ञातुं शक्यः ॥ अन्तहीनस्येति । अन्तलीनस्य अन्तगूढस्य । उद्दाम उल्वणं यथा तथा अञ्च ज्वलिध्यतः एतदव्यवहितोत्तरक्षणमा तमसा-(खगतम् ।) इदं तावदाशङ्कितं गुरुजनेन ।

 सीता-(समाश्वस्य ।) हा, कहं एदम् ।

(पुनर्नेपश्चै ।)

 हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुनि । (इति मूर्च्छति ।)

 सीता--हेद्धी हद्धी । मं मन्दभाइणि बाहरिअ आमीलिदणेत्तणीलुप्पलो मुच्छिदो एच । हा, कहं घरणिपिट्टे णिरुद्धणिस्सासणीसहं विपन्हत्थो । भअवदि तमसे, परित्ताएहि परित्ताएहि । जीवावेहि अजउत्तम्। (इति पादयो. पतति।)

 तमसा--

  त्वमेव ननु कल्याणि संजीवय जगत्पतिम् ।
  प्रियस्पर्शी हि पाणिस्ते तत्रैष निरतो जनः ॥ १० ॥

 सीता--जै होदु तं होदु । जह भअवई आणवेइ । (इति ससंभ्रम निष्कान्ता ।)


 १. हा, कथमेतत् ।

 २. हा धिक् हा धिक् । मां मन्दागिनीं व्याहृत्यामीलितनेत्रनीलोत्पलो भूछित एव । हा, कथं धरणिपृष्ठे निरुद्धनिःश्वासनिःसह विपर्यस्तः । भगवति तमसे, परित्रायस्व परित्रायस्व । जीवयार्यपुत्रम् ।

 ३. यद्भवतु तद्भवतु । यथा भगवत्याज्ञापयति ।


विज्वलनवत. धूमस्या उत्पीड इव धूमसंबन्धिसंघात इव संमर्द इयेति वा । मोहः मूछी प्राक् ज्वलनात् पूर्वम् । आवृणोति संछादयति ॥ ९॥ इमिति । गुरुजनेन । लोपामुद्राप्रभृतिनेत्यर्थः । एष संचितार्थप्राप्तिरुपक्रम उक्तः ॥ हेति । बरणीपृष्टे भूतले निरुद्धनिःश्वासनिःसहं निरुद्धः प्रवृत्तिहीनः नि.श्वासः यस्मिन् कर्मणि तद्यथा भवति तथा निःसह दुर्बलं विपर्यस्तः ॥ त्वमेवेति । त्वमेव मनु कल्याणीत्यस्याय भावः । त्वयैघायं संजीवनीयः इति चिरंतनी प्रसिद्धिः । 'आनीदवात खधया तदेकम्' इति श्रुत्लायमर्थोऽवगम्यते । एक जगतां प्रलीनत्वादसहायम् । अतो निर्व्यापारम् । सत् परं ब्रह्म वधया 'त्व सिद्धिस्त्व स्वधा स्वाहा' इति खधाशब्दवाच्चया लश्या आनीदजीवत् इति । एव च अब कथमह बैदेशिकी जीवयामि त्वमेव जीक्येति । अत्र मां मन्वभागिनीमिलारभ्य परित्रायस्वेत्यन्ततंदर्भेण शङ्कात्रासरूपसंभ्रम उत्तः ॥ १०॥

३० रा० ७ (ततः प्रविशति भूम्यां निपतितः सास्त्रया सीतया स्पृश्यमानः साहादोच्छवासो रामः।)

 सीता- (किंचित्सद्दर्षम् ।) जाणे उण पञ्चाअदं विअ जीवि तेल्लोकस्स ।

 रामः- हन्त भोः, किमेतत् ।

  आश्च्योतनं तु हरिचन्दनपल्लवानां
   निष्पीडितेन्दुकरकन्दलजो नु सेकः ।
  आतप्तजीवितपुनः परितर्पणोऽयं
   संजीवनौषधिरसो हृदि नु असक्तः ॥ ११ ॥

अपि च ।

  स्पर्शः पुरा परिचितो नियतं स एवं
   संजीवनश्च मनसः परितोषणश्च ।
  संतापजां सपदि यः परिहत्य मूर्छा-
   मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥

 सीता-ससाध्वसकरुणमुपसृत्य ।) ऐत्तिसं एक दाणिं मह बहुदरम् ।

 रामः - (उपविश्य ।) न खलु वत्सलया देव्याभ्युपपन्नोऽस्मि ।

 सीता--हंदी हद्धी । किंति अजउत्तो मं णिन्दिस्मादि ।

 राय:---भवतु । पश्यामि ।


 १. जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य ।

 २. एतावदेवेदानी मन बहुतरम् ।

 ३. हा धिक् हा विक् । किमित्यार्यपुत्रो मां निन्दिष्यति ।


आदादः आनन्दः, उच्छासः श्वाससंचारः, ताभ्यां सहितं यथा तथा ॥ जान इति । प्रत्यागतं पुनरागतम् । प्रयाणामपि लोकानां राममयजीवितत्वात् रामजीवने तजीबनामिति भावः । तदुक्तम्- 'रामो रामो राम इति प्रजानामभवनकथाः । रामभूत जगदभूद्रामे राज्य प्रशासति ॥ इति ॥ आथ्योतनमिति । हरिचन्दनपल्लवाना आक्ष्योतने नु कल्पतरुकिसलयरसद्धरणावीकरता किम् । कन्दलजः अङ्गुरजः ॥११॥ 'स्पर्श इति । संजीवनश्च प्राणधारणहेतुभूतथ परितोषणश्च आहादजनकश्च मूच्छी प्रशाशून्यता आनन्दनेन जडतां आनन्दाधिक्यप्रयुक्तप्रज्ञाशून्यता आतनोति आ समन्तात् विस्तारयति ॥ १२॥ एतावदेव मत्पर्शे पुरा परिचितत्यकथननेथ । इदानी वियोगसमये ॥ वत्सलया प्रीतिमल्या मदीयदोषं सहमानया वा । अभ्युपमसोऽस्मि अनुगृहीतोऽस्मि । इद इएजनातिसंधानात्मकमतिबलं नाम संध्या सुक्तम् ॥  सीता- भअवदि तमसे, ओसरम्ह दाव । म पेक्खिा अणभणुग्णादेण संणिहाणेण राआ अहि कुप्पिस्सदि ।

 तमसा- अयि वत्से, भागीरथीप्रसादाद्वनदेवतानामग्यदृश्यासि संवृत्ता।

 सीता-अस्थि खु एदम्।

 राम: हा प्रिये जानकि ।

 सीता--(ससाध्वसगद्गदम् ।) अजउत्त, असरिस क्खु एवं इमस्स बुत्तन्दस्स । (सास्त्रम् ।) भअवदि, किंति वजमई जम्मन्तरेसु वि पुणो बि असंभाविअदुल्लहदसणस्स में एब मन्दभाइणि उद्दिसिअ एवं वच्छलस्स एवंवादिणो अज्जउत्तस्स उवरि णिरणुक्कोसा भविस्सम् । अहं एक एदस्स हिअभं जाणामि, मह एसो।

 रामः-(सर्वतोऽवलोक्य सनिवेदम् ।) हा, न किंचिदन्न ।

 सीता- भैअवदि, णिकारणपरिच्चाइणो वि एदस्स दसणेण एवंविघेण कीलिसी मे हिअआवत्था ।


 १. भगवति तमसे, अपसराव तावत् । मां प्रेक्ष्यानभ्यनुज्ञातेन संनिधानेन राजाधिक कोषिष्यति ।

 २. अस्ति खल्वेतत् ।

 ३. आर्यपुत्र, असइशं खल्वेतदस्य वृत्तान्तस । भगवति, किमिति वज्रभयी जन्मान्तरेष्वपि पुनरप्यसंभावितदुर्लभदर्शनस्य मामेव मन्दभाग्यामुद्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रसोपरि निरनुक्रोशा भविष्यामि । अहमेवैतस्स हृदयं जानामि, ममैषः।

 ४. भगवति, निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कीदृशी में । हृदयावस्था।


अनभ्यनुज्ञातेन अननुमतेन । संनिभानेन समीपस्थित्या ॥ आर्यपुत्रेति । एतत् प्रियेत्यामन्त्रणम् । अस्य वृत्तान्तस्य । परित्यागरूपस्येलर्थः । वज्रमची अत्यन्तकाठिन्ययुक्ता । मन्दभाग्यां मामुद्दिश्य वत्सलस्य निर्दोषत्वनिश्चयपूर्वक मयि प्रीतिमतः निरनुकोशा निर्दया । अनुक्रोशपदेन रामदशामिमां दृष्ट्वा मुक्तकण्ठं मया रोदितव्यम् । तत् किमेव कठिना भवामीति व्यज्यते । अनुक्रोशति मुक्तकण्ठं रोदित्यनेनेति अनुक्रोशः' इत्यमरव्याख्या ॥ कीदशी मे हृदयावस्था । आर्यपुत्र, परित्रायख मम पुत्रकमित्यारभ्य  तमसा-जानामि वत्से, जानामि ।

  तटस्थ नैराश्यादपि च कलुष विप्रियवशा-
   द्वियोगे दीर्धेऽस्मिञ्झटितिवटनात्स्तम्भितमिव ।
  प्रसन्नं सौजन्यायितकरुणैर्गाढकरुणं
   द्रुवीभूतं प्रेम्णा तब हृदयमस्सिन्क्षण इव ॥ १३ ॥

 राम:-देवि,

  प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः ।
  अद्याप्यानन्दयति मां त्वं पुनः क्कासि नन्दिनि ॥ १४ ॥

 सीता--एदे क्खु अगाधमाणसदसिदसिणेहसंभारा आणन्दणिस्सन्दिणो सुहामआ अज्जउत्तस्स उल्लाबा ! जाणे पच्चएण णिकालणपरिचाअसल्लिदोवि बहुमदो मह जम्मलाहो।


 १. एते खल्वगाधमानसदर्शितस्नेहसंभारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । जाने प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलामः।


ममाप्येष इत्यन्तेन संदर्भण प्रतिपादिता मम हृदयावस्था कीदृशीत्यर्थः ॥ तटस्थमिति । तब हृदयं अस्मिन् क्षणे नैराश्यात् तटस्थ मिवेलादिविभिन्नवाक्यतया योजना । नैराश्यात् प्रत्याशाभावात् तटस्थं प्रसादकालुष्यादिरहितम् । विप्रियवशातू कलुष परित्यागरूपादप्रियाद्धेतोः कलुषं क्रोधयुक्तम् । दीर्थे अस्मिन् वियोगे आमरणान्तभावित्वेन ज्ञातेऽस्मिन् विरहे झटितिघटनात् आकस्मिकसंघटनात् स्तम्भितमिव विस्मयस्तिमितमिव सौजन्यातू प्रकृत्या कल्याणत्वात् प्रसन्नं भविष्यतानुसंधानेन निवृत्तकालुष्यम्। दयितकरुणैः रामस्य दुःखात्मकावस्थाविशेषैः गाढकरुणं परदुःखदुःखित्वरूपकरुणासान्द्रम् । प्रेम्णा प्रणयेन द्रवीभूतं विलीनम् । अत्र तटस्थं नैराश्यादित्यनेन तान्येव चिरपरिचितान्यक्षराणीतिवाक्चाभिमता सीतावस्था प्रतिपादिता । अपि च कलुष विप्रियवशादित्यनेन असदृशे खल्वमुष्य वृतान्तस्येत्येतद्वाक्चाभिमतावस्था प्रतिपादिता । बियोगे दीर्वेऽस्मिन्नित्यनेन कथं प्रभातचन्द्रमण्डलेत्यादि विवक्षितावस्था प्रतिपादिता । कथमित्लस्य विस्वार्थकत्वात् । असत्र सौजन्यादित्यनेन अथ वा किमिति यज्रमयीवेत्यादिप्रतिपादितावस्था दर्शिता । दयितकरुणैनीढकरुणमित्यनेन हा धिक इद मां मन्दभागिनी व्याहृत्येत्यादिवाक्यविवक्षितावस्था प्रतिपादिता । द्रवीभूत प्रणेत्यनेन उत्सुक्रयति उत्कण्डित स्थितमित्यादिवाक्यप्रतिपादितावस्थोत्ता ॥ १३ ॥ प्रसाद इति । स्नेहाईशीतलः स्नेहाईश्चासौ शीतलश्चेति विग्रहः । स्नेहहेतुकत्वात् स्नेहात्वम् ॥ १४ ॥ प्रत्येन विश्वासेन । शाल्यितोऽपि शल्यवान्कृतोऽपि । 'सदस्य संजा रामः--अथवा कुतः प्रियतमा । नूनं संकल्पाभ्यासपाटवोयादान एष भ्रमो रामभद्रस्य।

(नेपथ्ये ।)

 अहो, महान्यमादः प्रमाद: । ('सीतादेव्याः खकरकलितैः' इत्यर्थ पठ्यते।)

 राम:- (सकरुणौत्सुक्यम् ।) किं तस्य ।

(पुनर्नेपथ्ये।)

('वध्वा सार्ध' इत्युत्तरा पम्यते ।)

 सीता--- को दाणि अभिजुज्जइ ।

 रामः---कासौ दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति । (इत्युत्तिष्ठति ।)

(प्रविश्य।)

 वासन्तिका-(संभ्रान्ता ) देव, त्वर्यतां त्वयंताम् ।

 सीता-हा, कहं मे पिअसही वासन्तिआ ।

 रामः-कथं देव्याः प्रियसखी वासन्तिका ।

 वासन्ती-देव, त्वयैतां त्वयताम् । इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य संभावयतु देव्याः पुत्रकं देवः । सीता-है। ताद जडाओ, सुण्णं तुए विणा इदं जणट्टाणम् ।

 रामः- अहह, हृदयमर्मच्छिदः खल्वमी कथोद्धाताः ।

 वासन्ती-इत इतो देवः ॥

 सीता--भैअवदि, सच्चे एव वणदेवदावि में ण पेक्खदि ।


 १. क इदानीमभियुज्यते ।

 २. हा, कथं मे प्रियसखी वासन्तिका ।

 ३. हा तात जटायो, शून्यं त्वया विनेदं जनस्थानम् ।

 ४. भगवति, सत्यमेव वनदेवतापि मां न पश्यति ।


तम्' इति सूत्रेणेतच् ॥ नूनमिति । संकल्पाभ्यासस्य स्मृतिसंतानस्य पाटव स्फूर्तिः तदेव उपादान कारण यस्य तथोक्तः प्रमः सीता स्पृष्टवतीत्याकारकान्यथाज्ञानम् ॥ अहहेति । हृदयमर्माणि छिन्दन्तीति विग्रहः । कथोद्धाताः पुरावृत्तोपन्यासा:॥  तमसा----अयि वत्से, सर्वदेवताभ्यः प्रकृष्टतमगैश्चर्य मन्दाकिन्याः । तकिमिति विशङ्कसे।

 सीता---तदो अणुसरम्ह । (इति परिक्रामति ।)

 रामः-भगवति गोदावरि, नमस्ते ॥

 वासन्ती - (निरूप्य ।) देव, मोदख विजयिना वधूद्वितीयेन देव्याः पुत्रकेण ।

 राम:--विजयतामायुष्मान् ।

 सीता-अम्हहे, ईदिसो मे पुत्तओ संवुत्तो।

 रामः-हा देवि, दिश्या वर्धसे ।

  येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण
   व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् ।
  सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता
   यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥

 सीता--अविउत्तो दाणिं दीहाऊ इमाए सोन्हदसणाए होदु ।

 रामः -- सखि वासन्तिके, पश्य पश्य । कान्तानुवृत्तिचातुर्थमपि शिक्षितं वत्सेन ।

  लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः
   पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः ।
  सेकः शीकरिणा करेण विहितः कामं विरामे पुन-
   र्यलेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥


 १. ततोऽनुसरावः ।

 २. अहो, ईदृशो मे पुत्रकः संवृत्तः ।

 ३. अवियुक्त इदानी दीर्घायुरनया सौम्यदर्शनया भवतु ।


अयीति । प्रकृष्टमुत्कृष्टम् । अत्र प्रस्तुतोत्कर्षाभियानरूपोदाहतिरुक्ता ॥ येनेति । तरुणे वयसि यत् कल्याणं अहनापरिष्वङ्गरूपं मङ्गले तस्य भाजन पात्रं जातः ॥१५॥ लीलेति । लीलया उत्खाताः उद्धताः मृणालकाण्डा एव कवला: ग्रासाः तेषां छेदेषु अवसानेषु पुष्यद्भिः वर्धमानैः पुष्करैः यौः वासितस्य सुरमितस्य पयसः जलस्य गण्डूषसमान्तयः पयःसंबन्धिगण्डूषसंक्रमणानि संपादिताः नियूढाः। अथवा पुष्यति  सीता--भअवदि तमसे, अयं दाव ईरिसो जादो दे उण पा आमामि एत्तिएण कालेण कुसलवा कीरिसा संयुत्तेत्ति ।

 तमसा - यादृशोऽयं तादृशौ तावपि ।

 सीता-ईरिसंम्हि मन्दभाइणी जाए ण केवलं अजउत्तविरहो पुत्तविरहो वि।

 तमसा--भवितव्यतेयमीदृशी।

 सीता-किंवा मए पसूदाए जेण एआरिसं मह पुत्तआणं ईसिविरलधवलदसणकुम्हलुज्जलं अणुबद्धमुद्धकाअलीविहसिदं णिचुज्जलं मुहपुण्डरीअजुअलं ण परिचुम्बि अजउत्तण ।

 तमसा-अस्तु देवताप्रसादात् ।

 सीता-भअवदि तमसे, एदिणा अवच्चसंसुमरणेण उस्ससिदपण्हुदत्थणी दाणि वच्चाणं पिदुणो संणिहाणेण खणमेत संसारिणी संयुत्तम्हि ।

 तमसा-किमत्रोच्यते । प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य । परं चैतदन्योन्यसंश्लेषणं पिलोः ।


 १. भगवति तमसे, अयं तावदीदृशो जातः । तौ पुनर्न जानाम्येतावता कालेन कुशलचौ कीदृशौ संवृत्ताविति ।

 २. ईदृश्यस्मि मन्दभागिनी यस्याः न केवलमार्यपुत्रविरहः पुत्रविरहोऽपि ।

 ३. किंवा मया प्रसूतया धेनैतादृशं मम पुत्रकयोरीषद्विरलधबलशनकुडालोज्ज्वलमनुबद्धमुग्धकाकलीविहसितं नित्योज्ज्वलं मुखपुण्डरीकयुगलं न परिचुम्बितनार्यपुत्रेण ।

 ४. भगवति तमसे, एतेनापत्यसंस्मरणेनोच्छसितप्रस्तुतस्तनी इदानी वत्सयो। पितुः संनिधानेन क्षणमानं संसारिणी संवृत्तासि ।


उपचयवति पुष्करे शुण्डाने बासितस्य संजातवासस्य पयसः जलस्य गण्डूषसंक्रान्तयः। लीलोत्खातमृणालकाण्डरूपकवलच्छेदेषु कवलार्धखण्डेषु । अधिकरणे सप्तमी । संपादिताः निब्यूँढाः । तत्र हि 'अच्छिद्राणि भूयासि' इति भावः । अनराकं अवकम् ॥१६॥ अनुबद्धमुग्धकाकलीबिहासित उत्पन्नसूक्ष्ममधुरास्फुटध्वनिमुग्धस्मितम् ॥ देवताप्रसाताहेवतानुग्रहात् ॥ प्रसव इति । पर्यन्तः परा कोटिः । अन्योन्यसंश्लेषणं अविना

  अन्तःकरणतत्त्वस्य दम्पत्योः सहसंश्रयात् ।
  आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥ १७॥

 वासन्ती - इतोऽपि देवः पश्यतु ।

  अनुदिवसमवर्धयत्प्रिया ते
   यमचिरनिर्गतमुग्धलोलबर्हस् ।
  मणिमुकुट इवोच्छिखः कदम्बे
   नदति स एष वधूसखः शिखण्डी ॥ १८ ॥

 सीता -- (सकौतुकनेहासम् ।) एसो सो।

 रामः-मोदख वत्स । वयमद्य वर्धामहे ।

 सीता—एव्वं होदु।

 रामः -

  भ्रमिषु कृतपुटान्तमण्डलावृत्तिचक्षुः-
   प्रचलितचटुलभूताण्डवैमण्डयन्त्या ।
  कराकेसलयतालमुग्धया नर्त्यमान ।
   सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥ १९॥

 १. एष सः ।

 २. एवं भवतु।

भावहेतुभूतम् । तदुभयमपीस्याह-अन्तःकरणेति । दम्पत्योः जायापत्योः अन्तःकरणतत्त्वस्य हृदयवस्तुनः स्नेहसंश्रयात् । स्नेहः प्रीतिः ।संनयः संश्रयणम् । अविश्लेष इति थावत् । स्नेहच संश्रयश्चेति समाहारद्वन्द्वः। तस्मानिमित्तादित्यर्थः । अन्नाद्धेतोसतीत्यत्र अन्नफलको वास इति बोधः। तद्वदनापि स्नेहसंश्रयणफलकानन्दग्रन्थिरिति ।आनन्दअन्थिः आनन्दमयप्रन्थिः । आनन्दपदेन ग्रन्थ्यन्तरव्यावृत्तिः । अपत्यमिति पठ्यते परिभाष्यते ॥ १७ ॥ अनुदिवसमिति । अचिरनिर्गतमुग्धलोलबह प्रत्यग्रोत्पन्नसुन्दरचलपिच्छ य अवर्धयत् स एष शिखण्डी वधूसखः सन् कदम्बे वृक्षे मणिमुकुट इव । आनुपूक्त पृथुकृशत्वात् नानावर्णत्वाच रत्नमयकिरीटसादृश्यम् । नदति केका करोति ॥ १८॥ भ्रसिध्धिति । मण्डलं यथा भवति तथा आवृत्तिः मण्डलावृत्तिः। पुटे अन्तः पुटान्तः ।पुटान्तः मण्डलावृत्तिः पुदान्तमण्डलावृत्तिः ।भ्रमिषु भ्रमणेषु।मयूरस्थ मण्डलाकारनाट्यचारिष्विति यावत् । कृता रचिता पुटान्तर्मण्डलावृत्तिः ययोस्तथोक्त चक्षुषी यैस्तथोक्तानि कृतपुटान्तर्मण्डलावृत्तिचक्षूषि । प्रचलितयोः चटुलयोः सुन्दरयोः भुवोः ताण्डवानि नर्तनानि कृतपुटान्तर्मण्डलावृत्तिचक्षुषि च तानि प्रचलितचटुलभूताण्डवानि चेति विग्रहः । तैः। तदुक्त कनक्रकविना---'किंचाधस्तादुपरि च नयन्त्यानतोहन्त, तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते । रामः -

  कतिपयकुसुमोद्गमः कदम्बः
   प्रियतमया परिवर्धितोऽयमासीत् ।

 सीता--(सास्त्रम् ।) सुड्ड पञ्चहिजाणिदं अजउत्तेण ।  रामः

  स्मरति गिरिमयूर एष देव्याः
   खजन इवात्र यतः प्रमोदमेति ॥ २० ॥

 बासन्ती--अत्र तावदासनपरिग्रहं करोतु देवः । एतत्तु देवस्याश्रमम् ।

(राम उपविशति ।)

 वासन्ती-

  नीरन्ध्रबालकदलीवनमध्यवर्ति
   कान्तासखस्य शयनीयशिलातलं ते।
  अत्र स्थिता तृणमदाद्वनगोचरेभ्यः
   सीता ततो हरिणकै विमुच्यते स्म ॥२१॥

 राम:-इदमशक्यं द्रष्टुम् । (इत्यन्यतो रुद्रुपविशति ।)

 सीता--सैहि वासन्ति, किं तुए किदं अज्जउत्तस्स मह अ एवं दंसअन्तीए। हद्धी हद्धी। सो एव्व अजउत्तो । तं एव्व पञ्चवडीवणम् । सा एव्व पिअसही बासन्दिआ। दे एव्व विविहविस्सम्भसक्खिणो गोदावरीकाणणुहेसा दे एव्व जादणिव्विसेसा मिअपक्खिणो पाअवाअ। मह उण मन्दभार


 १. सुष्टु प्रत्यभिज्ञातमार्यपुत्रेण ।

 २. सखि बासन्ति, किं त्वया कृतमार्यपुलस्य मम चैतदर्शयन्त्या । हा धिक हा धिक् । स एवार्यपुत्रः । तदेव पञ्चवटीवनम् । सैव प्रियसखी वासन्तिका । त एव विविधविसम्भसाक्षिणो गोदावरीकाननोद्देशाः । त एव जातनिर्विशेषा


निद्रपक्ष्मा चक्राकारं भ्रमयति मुहुर्विश्वमावर्तयन्ती' इति । करकिसलयतालैः करसंघटनजाततालध्वनिभिः। जातिभेदाभिप्राय बहुवचनम् । वत्सलेन सस्नेहेन ॥ १९ ॥ अनुरुधन्ते अनुसरन्ति । कतिपय इति । कतिपयकुसुमानामुद्गमः उत्पतिः यस्मिनिति विग्रहः । स्मरतीति । एष गिरिमयूरः गिरिप्रियो मयूरः गिरिमयूरः । शाकपार्थिववत्समासः । गिरेः प्रियवं उन्नतत्वनिरुपावत्वादिना । अक्ष अस्मिन् प्रियतमापरि . वर्धितकदम्बवृक्षे खजन इव खबन्धुविषय इव यतः यस्मात्कारणात प्रमोद प्रीति एति इणीए दीसन्तं वि सव्वं एव्व एदं णस्थि । ईरिसो जीवलोअस्स परिणामो संवुत्तो।

 वासन्ती-सखि सीते, कथं न पश्यसि रामभद्रस्यावस्थाम् ।

  नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं
   सततमपि नः स्वैच्छादृश्यो नयो नव एव सः ।
  विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः
   कथमपि स इत्युत्नेतव्यस्तथापि शोः प्रियः ॥ २२ ॥

 सीता-सहि, पेक्खामि ।

 तमसा-पश्य प्रियं भूयः ।

 सीता-हा देव्व, एसो मए विणा अहंवि एदेण विणेत्ति केण संभाविदं आसि । ता मुहुत्तमेत्तं जम्मन्तरादोषि दुल्लहलद्धदंसणं बाहसलिजन्तरेषु पेक्खामि दाव बच्चलं अजउत्तम् । (इति पश्यन्ती स्थिता ।)

 तमसा - (परिष्वज्य सास्त्रम् ।)

  विलुलितमतिपूरैर्बाष्पमानन्दशोक-
   प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा ।
  रूपयति हृदयेशं खेहनिष्यन्दिनी ते
   धवलमधुरमुग्या दुग्धकुल्येव दृष्टिः ॥ २३ ॥


मृगपक्षिणः पादपाश्च । मम पुनर्मन्दभाग्याया दृश्यमानमषि सर्वमेवैतन्नास्ति। ईदृशो जीवलोकख परिणामः संवृत्तः ।

 १. सखि पश्यामि ।

 २. हा दैव, एष मया विना अहमप्यतेन विनति केन संभावितमासीत् । तन्मुहूर्तमा जन्मान्तरादपि दुर्लभलब्धदर्शनं बाष्पसलिलान्तरेषु पश्यामि सावद्वत्सलमार्यपुतम् ।


प्राप्नोति । तत्लादेष देव्याः स्मरति । सीता मरतीत्यर्थः ॥ २० ॥ २१ ॥ नवेति । विकलकरणः शून्यचक्षुरादिकरणः शुचा दु:खेन परिदुर्बल: खधारणेऽग्यसमर्थः । बल हि धारणसामर्थ्यम् । उन्नेतव्यः अनुमेयः । तथापि दृशोः प्रियः । अनुपहतलावण्यकलादिति भावः ॥२२॥ हा इति। केन संभावितमासीत् केन हेतुना संभावित उत्पादितम् । स्वयेति शेषः । दुर्लभलब्धदर्शनं यहच्छयालन्धदर्शनमिति व्याख्यातारः ॥ चिलुलितमिति । 'विलठितम्' इति पाठान्तरम् । अतिपूरैःअतिशयितस्रोतोभिः विललितं विकीर्ण आनन्दशोकप्रभव आनन्दशोकहेतुकं बाप्पं अश्रु अवसृजन्ती उत्पादयन्ती । पश्मला च  वासन्ती-

  ददतु तरवः पुष्पैरध्यै फलैश्च मधुश्च्युतः
   स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।
  कलमविरलं रज्यत्कण्ठाः कणन्तु शकुन्तयः
   पुनरिदमयं देवो रामः स्वयं बनमागतः ॥ २४ ॥

 राम:-एहि सखि वासन्ति, नन्वितः स्थीयताम् ।

 बासन्ती--(उपविश्य सासम् । महाराज, अपि कुशलं कुमारलक्ष्मणस्य।

 रामः-(अनाकर्णनमभिनीच ।)

  करकमलवितीर्णैरम्बुनीवारशप्पै-
   स्तरुशकुनिकुरङ्गान्मैथिलीयानपुप्यत् ।
  भवति मम विकारस्तेषु दृष्टेषु कोऽपि
   द्रव इव हृदयस्य प्रस्रवोद्भेदयोग्यः ॥ २५ ॥

 वासन्ती-महाराज, ननु कुशलं पृच्छामि कुमारलक्ष्मणस्येति ।

 रामः--(आत्मगतम् ।) अये, महाराजेति निष्प्रणयमामन्त्रणपदम् ।

सा उत्ताना च सा दीर्घा च इति विग्रहे विशेषणसमासः। उत्तागविपुला । स्नेहस्व अनुरागहा निष्यन्दः यस्यारस्तीति विग्रहः । दुग्धकुल्येव सुधामयकलिमाल्पसारदिव स्नपयति स्नान करोति । आदन्तत्वात् पुगागमे 'ग्लानावनुवमा च' इति वैकल्पिको हसः॥२३॥ दत्विति । मधूनि मकरन्दानि श्चोतयन्ति क्षरन्तीति विग्रहः । 'श्रुतिर क्षरणे' इत्यस्मादन्त वित्तण्वर्थात् कर्तरि विष्प्रत्ययः । यद्वा मधुभिः मकरन्दैः ब्योतन्लि आदीकुर्वन्तीति विग्रहः । 'श्युतिर आसेचने' इत्यस्मात् किम् । इदं च वनानिलानां विशेषणम् । तृतीयान्तपाठे फलविशेषण पुष्पविशेषण वा । 'च्यु च्यवने इत्यस्मात् भावे क्तप्रत्यये मशूनां च्युतं च्यवन येभ्य इति पुष्पपक्षे । फलरक्षे तु कर्मणि क्तप्रत्ययेन मधुभ्यः च्युतैरेिति पञ्चमीतत्पुरुषः । पुष्परससमृद्रो तात्पर्यम् । तदेव पक्षनये-आद्यः शकारचकाराभ्यां युक्तः पाठः। द्वितीयः शकारचकारयकारैर्वृतः। तृतीयस्तु चकारचकाराभ्यामिति विवेकः । रज्यत्कण्ठाः रागयुक्तकण्ठाः कणन्तु गीतवाद्यभेदेन शब्द कुर्वन्तु । अत एव कुजन्विति लोकम् ॥ २४ ॥ अनाकर्णन आकर्णनाभावम् । करकमलेति । करकमलयितीजः करकमलदत्तैः अम्बुनीवारशष्पैः नीवारो धान्यविशेषः, शष्प बालतृण तै' अपुष्यत् अथर्धयत् । अनाम्बुना तरून् , अम्बुनीबाराभ्यां शकुनीन्, अन्धुनीवार शौ. कुरहानिति विवेकः । तेथु टेषु सत्सु प्रयोद्भेदयोग्यः प्रकरणोत्पत्तियोग्यः द्रव इव कोऽपि विकारः मम हृदयस्य भवति उत्पद्यते ॥ २५ ॥ महाराजेत्यामन्त्रणपदं संबोधगशब्दः॥ सौमित्रिमात्रके बाष्पस्खलिताक्षरः कुशलप्रश्नः । तथा मन्ये विदितसीतावृत्तान्तेयमिति । (प्रकाशम् ।) आः, कुशलं कुमारलक्ष्मणस्य ।

 वासन्ती-(रुदती 1) अयि देव, कि परं दारुणः खल्वसि।

 सीता-सहि वासन्दि, किं तुभं एव्वंचादिणी होसि । पूआरुहो सव्वस्स अजउत्तो विसेसदो मह पिअसहीए।

 वासन्ती -

  त्वं जीवितं त्वमसि मे हृदयं द्वितीय
   त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
  इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां
   तामेव शान्तमथवा किमतःपरेण ॥२६॥

(इति मुह्यति ।)

 तमसा-स्थाने वाक्यनिवृत्तिर्मोहश्च ।

 राम:--सखि, समाश्वसिहि समाश्वसिहि ।

 वासन्ती—(समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन ।

 सीता-सैहि वासन्दि विरम विरम ।

 राम:--लोको न मृष्यतीति ।

 वासन्ती- कस्य हेतोः ।

 १. सखि वासन्ति, किं त्वमेवादिनी भवति । पूजाहः सर्वस्यार्यपुत्रो विशेषतो मम प्रियसख्याः ।

 २. सखि वासन्ति, विरम विरम ।

आः इति सोपालम्भाशीकारे ॥ त्वमिति । त्वं जीवितं प्राणाः। त्व मे द्वितीय हृदयमसि । त्वं नयनयोः कौमुदी तद्वदानन्दिनी । को मोदन्तेजना चल्मात्तेनेयं कौमुदी मता' इति कौमुदीपदनिरुक्तेः । त्वमझे विषये अगृत पीयूषम् । तद्वजराप्रतिरन्धेन निल्लयौवनाबहेयर्थ । अल प्राणाः प्राणा एव, हृदय हृदयमेव, कौमुदी कौमुद्येव, अभृत अमृतमेव । त्व तु प्रागा हृदय कौमुद्यम्तमेतत् सर्वमिति प्राणावपेक्षया बैलक्षण्यमपि सूच्यते । देवतायाः खस्था अपि ज्ञातुं वत्सु चाशक्यत्वादाह--इत्यादिभिरिति । नियागां प्रियवचनानां शतैः । अनन्तवाची शतशब्दः । शत सहस्रमयुत सर्वमानन्यवाचकम् इम्युक्तेः । मुग्धां अनुरु य । 'उदयद्यौवना मुग्धा' इति लक्षणलक्षितां सुन्दरीम् । यत्कौर्यम जानन्दीमिति वार्थः । अनुरुध्य अनुनीय तामेव पूर्वोक्तानुनयविषयभूतामेवान कय त्यक्तवानसि । नाशितबानसीतिया। वाक्यशेषस्य हुःखातिबाचेन वक्तुमशक्यतया प्रकरणायनुग्रहेणा राम:--स एब जानाति किमपि ।

 तमसा-चिरादुपालम्भः।

 वासन्ती-

  अयि कठोर यशः किल ते प्रियं
   किमयशो ननु घोरमतःपरम् ।
  किमभवद्विपिने हरिणीदृशः
   कथय नाथ कथं बत मन्यसे ॥ २७॥

 सीता-सैहि वासन्दि, तुमं एव्य दारुणा कठोरा अ । जा एवं पलवन्तं पलावेसि।

 तमसा--प्रणय एवं व्याहरति शोकश्च ।

 राम:--सखि, किमत मन्तव्यम् ।

  त्रस्तैकहायनकुरङ्गविलोलदृष्टे-
   स्तस्याः परिस्फुरितगभरालसायाः।
  ज्योत्सामयीव मृदुबालमृणालकल्पा
   क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥२८॥

 सीता-अजउत्त, धरामि एसा धरामि ।

 रामः-हा प्रिये जानकि, कासि ।

 सीता-हैद्धी हद्धी । अण्णो विअ अजउत्तो पमुक्तकण्ठं पहष्णो होदि ।

 तमसा-वत्से, सांप्रतिकमेवैतत् । कर्तव्यानि खलु दुःखितैर्दु खनिर्धारणानि ।


 १. सखि वासन्ति, त्वमेव दारुणा कठोरा च । यैवं प्रलपन्तं प्रलापयसि ।

 २. आर्यपुत्र, धरान्थेषा धरामि ।

 ३. हा धिक हा धिक् । अन्य इबार्यपुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति ।

र्थच्याहारवादे विवक्षितार्थलाभासंभवाव शब्दाध्याहारवादे तस्य सुलभत्यात प्रयोग हेतुभूततस्मरणेन मूत्पित्तेश्वाह-मुख्यतीति । अथवेति पूर्वोक्ताक्षेपे । शान्त त्वामुपलभ्यालम् । अतः परेण किम् । अतिकान्तत्वादिति भावः॥२६॥२७॥ त्रस्तेति । ज्योस्लामयीच ज्योत्स्नाविकृतिरिव स्थिता व्याद्भिः विलुप्ता । नाशितेति भावः । नियतमिति संभावनायाम् । अत्र प्रकरणे उपायापायशङ्काभ्यां कार्यसंभवरूपप्रायाशा प्रतिपादिता

उ० रा ० ८

  पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।
  शोकक्षोभे च हृदयं प्रलापैरवधार्यते ॥ २९॥

विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः ।

  इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा
   प्रियाशोको जीवं कुसुममिव धर्मो ग्लपयति ।
  स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ-
   स्तदद्याप्युच्छासो भवति ननु लाभो हि रुदितम् ॥३०॥

 राम:-कष्ट भोः, कष्टम् ।

  दलति हृदयं शोकोद्वेगाविधा तु न भिवते
   वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
  ज्वलयति तनूमन्तर्दाहः करोति न भससा-
   महरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥

हे भगवन्तः पौरजानपदाः,

  न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत-
   स्तृणमिव बने शून्ये त्यक्ता न चाप्यनुशोचिता।
  चिरपरिचितास्ते ते भावास्तथा दवयन्ति मा-
   मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ ३२ ॥

 वासन्ती-(स्वगतम् ।) अतिगभीरमापूरणं मन्युभारस्य । (प्रकाशम् ।) देव, अतिक्रान्ते धैर्यमवलम्ब्यताम् ॥

 रामः-किमुच्यते धैर्यमिति ।

॥२८॥ अन्य इव पृथग्जन इव । पूरोत्पीड इति । पूरोत्पीडे स्रोतोभूयस्त्वे । परीवाह: जलनिःसारणम् । प्रतिक्रिया प्रतीकारः चिकित्सा । शोकक्षोभे शोकाधिक्यप्रयुक्तप्रकृति विपर्यासे । प्रलापैः परिदेवनैः ॥२९॥ बहुप्रकाराणि बटानि बहुविवानि दुःखानि यस्मिन् तथोक्तः । इदमिति । अभियुफेन तत्परेण विधिवत् यथाशास्त्र विलपन चासौ विनोदश्चेति विग्रहः । उच्वासः प्राणधारणम् ॥३०॥ 'दलतीति । दलति स्फुटदि ।

द्विधा न भिद्यते । पृथक्कारेण शकलद्वय न भवतीत्यर्थः । न कृन्तति न छिनत्ति ॥३१॥ न किलेति । देव्याः सीतायाः गृहे स्थान गृहस्थितिः न वाप्यनुशोचिता। तत्परित्यागहेतुकशोकोऽपि युष्माक नेति भावः । भावाः अभिप्राचाः तथा द्रवयन्ति वाचामगोचर यथा तथा विलापयन्ति । 'परिद्रवयन्ति' इलपि पाठः । रुब रोदन करोमि। भावे लट् । प्रसीदत्त प्रसादं कुरुत ॥ ३२ ॥ मन्बुभारस को गतिशयस्य आपूरणमाविष्करणम् ।

  देव्या शून्यस्य जगतो द्वादशः परिवत्सरः ।
  प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥

 सीता-ओहरामि अमोहिआ विअ एदेहिं अजउत्तस्स पिअबअणेहिं ।

 तमसा-एवमेव वत्से,

  नैताः प्रियतमा वाचः स्नेहा ः शोकदारुणाः ।
  एतास्ता मधुनो धाराः थ्योतन्ति सविषास्त्वयि ॥ ३४ ॥

 राम:-अयि बासन्ति, मया खल

  यथा तिरश्चीनमलातशत्यं
   प्रत्युप्तमन्तः सविषश्च दन्तः।
  तथैव तीव्रो हृदि शोकशङ्क-
   मर्माणि कृन्तन्नपि किं न सोडः ॥ ३५ ॥

 सीता-ऐवंचि मन्दभाइणी अहं जा पुणो आआसआरिणी अजउत्तस्स ।

 रामः-एवमतिगूढस्तम्भितान्तःकरणस्यापि मम संस्तुतवस्तुदर्शनादद्यायमावेगः । तथाहि ।

  बेलोल्लोलाभितकरुणोज्नृम्भणस्तम्भनार्थ
   यो यो यत्नः कथमपि समाधीयते तं तमन्तः ।


 १. अपहरामि च मोहितेव एतैरार्यपुत्रस्य प्रियवचनैः ।

 २. एवमपि मन्दमागिन्यहं या पुनरायासकारिणी आर्यपुत्रस्य ।


अतिगभीरमतिगूढम् । अवलम्ब्यता आश्रीयताम् । त्वयेति शेषः ॥ देच्या इति। द्वादशानां पूरण द्वादशः। तस्य पूरणे ड। परिवत्सरः संवत्सरारामः न जीवतीति न। जीवत्येवेलर्थः । जीवनाभावोऽन्याय्य इति व्यज्यते ॥ ३३ ॥ नेता इति । प्रियतमा: इष्टतमाः स्नेहादीः अनुरागशीतलाः शोकदारुणाः दुःखेन रूक्षाः एताः वाचः न । किंतु एताः सविषाः मधुनो धाराः छयोतन्ति सवन्ति । अनापद्धतिरलकारः ॥३४॥ यथेति । तिरश्चीनं तिर्यग्भूतं प्रत्युतं निखातं अलातशल्यं उल्कामयं लोहकीलानं सविषो. दन्तश्च यथा तीत्रः तथैव तीव्रः मर्माणि हृदयादीनि कृन्तन सन्नपि छिन्दन् सअपि हदि शोकशङ्कः दुःखात्मककीलं किं न सोढः न व्यषहयत किम् । सहृतेः कर्मणि क्तः ॥ ३५॥ वेलेति । वेलायाः मर्यादाचाः उल्लोल: उगतः ।अतिबेल इत्यर्थः । क्षुभितः प्रबाहभूयस्वचा नदीवत् क्षोभवांश्च यः करुणः प्रियजनविश्लेषजन्यदुःखातिशयः तस्य

  हित्वा भित्वा प्रसरति बलात्कोऽपि चेतोविकार-
   स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३ ॥

 सीता--अजउत्तस्स एदिणा दुव्वारदारुणारम्भेण दुःखसंजोएण परिमुसिअणिअदुःखं पमुक्कजीविरं मे हिअ फुडइ ।

 वासन्ती-(खगतम् ।) कष्टमत्यासत्तो देवः । तदाक्षिपामि तावत् । (प्रकाशम् ।) चिरपरिचितामिदानी जनस्थानाभोगानवलोकनेन मान- यतु देवः ।

 रामः—एवमस्तु । ( इत्युत्थाय परिकामति ।)

 सीता-संदीवण एव्व दुःखस्स पिअसहीए विणोदणोवाओ त्ति तकेमि।

 वासन्ती-देव देव,

  अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
   सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते ।
  आयान्त्या परिदुर्मनायितमिव त्यां वीक्ष्य बद्धस्तया
   कातर्यादरविन्दकुमलनिभो मुग्धः प्रणामाञ्जलिः ।। ३७ ॥


 १. आर्यपुत्रस्यैतेन दुर्वारदारुणारम्भेण दुःखसंयोमेन परिमुषितनिजदुःखं प्रमुक्तजीवितं मे हृदयं स्फुटति ।

 २. संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि ।


उज्जम्भणमभिवृद्धि तस्य स्तम्भनं प्रतिहतिः तदर्थम् । 'करणस्तम्भनार्थम्' इति पाठे वेलोलोलं बेलातिकान्तं क्षुमित क्षोभः यस्य तथोक्तस्य करणस्य । हृदयादेरित्यर्थः । कथमपि प्रयासेन समाधीयते उत्पाद्यते । चेतोविकारः संभ्रमातिशयः । ओधः दीर्घप्रवाहः ॥३६॥ आर्यपुत्रस्येति । दुर्वारः दुनिवर्सः दारुणानां करमूर्छा संतापादीनां आरम्भः उपादानं येनेति विग्रहः । परिमुषितं निजदुःख खीयदु.खं यस्येति यथोक्तम् । स्फुटति दलति । आक्षिपामि । अन्यत्र नयामीत्यर्थः ॥ संदीपन इति । विनोदनोपायः चिरपरिचितजनस्थानाभोगावलोकनरूपः दुःखस्य संदीपन एवं उद्दीपनहेतुरेवेति तर्कचाम्म जानामि ॥ अस्मिन्निति । अस्मिन्नेव लतागृहे त्वं अभवः स्थितवान् । तन्मार्गे सीताया आगमनमार्गे दर्त ईक्षणं नेलं येन तथोक्त: । हसैः कृतं उत्पादित कौतुकं हर्षः यस्यास्तथोक्का । गोदावरीसैकते पुलिनोचये । आयान्त्या आगच्छन्त्या तया सीतया पारदुर्मनायितमिव परिकुपितमनस्कमिव स्थितम् । नतु वस्तुतः कुपितहदित्यर्थः । त्वां वीक्ष्य कातर्यात् अपराधपतिसंधानजनितसाध्वसात् अरविन्दकुबल सीता--दालुणासि वासन्ति, दालुणासि । जा एदेहिं हिअअमम्मुग्घाडिअसल्लसंघट्टनेहिं पुणोपुणोवि मं मन्दभाइणि अजउत्तं असुमरावेसि ।

 रामः-- अयि चण्डि जानकि, इतस्ततो दृश्यसे नानुकम्पसे ।

  हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः
   शून्यं मन्ये जगदविरलज्वालमन्तवलामि ।
  सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
   विप्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥३८॥

(इति मूर्च्छति ।)

 सीता-हैद्धी हद्धी । पुणोवि मुद्धो अजउत्तो।


 १. दारुणासि वासन्ति, दारुणासि । या एतैर्हृदयमर्मोद्घाटितशल्यसंघट्टनैः पुनःपुनरपि मां मन्दभागिनीमार्यपुत्रं च स्मरयसि ।

 २. हा विक् हा धिक् । पुनरपि मूढ आर्यपुत्रः ।


निभः पद्मक्रोशसदृशः मुग्धः सुन्दरः प्रणामावलिः । मस्तकन्यस्तकरसंपुटादिप्रणामाङ्गभूताजलिरित्यर्थः । अथवा 'नामयत्यपि वा देव प्रतीभावयति ध्रुवम् । प्रवीभवति नीचे हि परो नैच्य विलोकयन् ॥ अतो वा नम उक्तीद यत्तं नामयति खयम् । वाचा नम इति प्रोच्य वपुषा मनसा च यत् ॥' इति भगवच्छात्रोक्तरीत्या प्रणामः कोपोद्धतरामहृदयनमनहेतुभूतोऽझलिरित्यथैः । उक्तं च–'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इति । अत एव रामायणे-'कृतापराघस्य हि वे नान्यत्तश्याम्यह क्षमम् । अन्तरेणाञ्जलि बद्धा लक्ष्मणस्य प्रसादनात् ॥' इति बद्धः घटितः ॥ ३७॥ दारुणेति । हृदयमोंदाटितशल्यस्य हृदयमर्मणि स्थितकीलामस्य संघटनैः संचलनैः एतैः पुरावृत्तान्त कथनैः आर्यपुत्रं मां च सरयसि । मद्विषयकस्मृति आर्यपुत्रस्य जनयसीत्यर्थः । चा स्मरबसि साल दारुणेति पूर्वेणान्वयः ॥ चण्डि कटिने जानकि जनकपुत्रि, नानुकम्पसे दया न करोषि । जानकीत्युक्त्या परमदयालुजनकराजपुत्र्यास्तवेद निर्दयल नोचितमिति व्यज्यते । हा हेति । हाहाशब्दो दुःखातिशयद्योतकः । हृदयं स्फुटति दलति । देहबन्धः शरीरावयवाना संधिः । जातावेकखम् । ध्वंसते विशीर्णो भवति । जगत् लोक अन्य असत्कल्पम् । अभावप्रतियोगीति यावत् । मन्ये जानामि । अविरलाः अविच्छिन्नाः ज्वाला: यस्मिन् कर्मणि तत्तथोक्तम् । अन्तः शरीरान्तः ज्वलामि । काष्टवत् ज्वलामीति यावत् । विधुरः ज्ञानादिशुन्यः सीदन् विशीभवन् अन्तरात्मा अन्धे अन्धयति लोकानिवन्धं तस्मिन् तमति मजति अवगादं भवति । मोह मूळ विष्वक् परितः स्थगयति संछादयति । कथं करोमि कि करोमि । किं हृदयस्फोटादि निवारयामि, उत खदागमनार्थ लोकाननुनयामि, अथवा तानिगृह्य खामानेष्यामि वेति भावः ॥३८॥  वासन्ती-देव, समाश्वसिहि समाश्वसिहि ।

 सीता--अजउत्त, मं मन्दभाइणि उद्दिसिभ सअलजीवलोअमङ्गलिअजम्मलाहस्स दे वारं वारं संसइदजीविअदालणो दशापरिणामो ति हा हदम्हि । (इति मूर्च्छति ।)

 तमसा-वत्से, समाश्वसिहि समाश्वसिहि । पुनस्ते पाणिस्पर्शी रामभद्स्य जीवनोपायः ।

 वासन्ती-कथमद्यापि नोच्छसिति । हा प्रियसखि सीते, कासि । संभावयात्मनो जीवितेश्वरम् ।

(सीता ससंभ्रममुपसृत्य हृदि ललाटे च स्पृशति ।)

 वासन्ती--दिष्टया प्रत्यापन्नचेतनो रामभद्रः ।

 रामः

  आलिम्पन्नमृतमयैरिव प्रलेपै-
   रन्तर्वा बहिरपि वा शरीरधातून् ।
  संस्पर्शः पुनरपि जीवयन्नकस्मा-
   दानन्दादपरमिवादधाति मोहम् ॥ ३९ ॥

(सानन्दमुन्मीलिताक्ष एव ॥ सखि वासन्ति, दिष्टया वर्धसे |


 १. आर्यपुत्र, मां मन्दागिनीभुद्दिश्य सकलजीवलोकमाङ्गलिकजन्मलाभस्य ते वारं वारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि ।


पुनरपि मूढो मूञ्छितः ॥ वारं वार पदे पदे संशयितजीवितः संशयित संशयविषयं जीवितं यस्मिस्तथोक्तः।मरणपर्यवसायोति भावः । अत एव दारुणः क्रूरः दशापरिणाम: दशापरिपाकः ॥ हा प्रियसखीति । जीवितेश्वर प्राणनाथ राम संभावय संभावितं कुरु । रामासंभवं परिहरस्वेत्यर्थः॥ हृदि ललाटे च स्पृशति । इदंच लोकेऽनुभवसिछम् ॥ दिष्टयेति । दिष्टयेत्यानन्दे । प्रत्यापन्ना पुनरागता चेतमा प्रज्ञा यस्य स तथोक्तः ॥ आलिम्पन्निति । अमृतमथैः अमृतखरूपैः । चिन्मयमित्यादाविव स्वार्थिको मयालयः । प्रकृष्टो लेपः यैस्ते । लेपसाधनद्रश्चैः अन्तर्वा बहिरपि वा अन्तर्वहिश्च शरीरै धातूश्च । नाडीश्च अन्तनांडी: बहिः शरीरमिति विवेकः । आलिम्पन्निव । सर्वाङ्गीण: लेपनकर्तेति संभावनीचः । जीवयन प्राणप्रतिष्टाहेतुभूतः अकस्मात् निर्हेतुकः संस्पर्शः पुनरपि आनन्दात् आनन्दमुत्पाद्यापर मोहं दुःखहेतुकपूर्वमूर्छातिरिक्त मूर्छाम, आनन्दादिति ल्यब्लोपे पञ्चमी । यद्धा आनन्दादिति हेतौ पञ्चमी । तथा च दुःखजन्यपूर्वमूर्छातिरिक्ताम् । आनन्दहेतुका मूर्छामादधतीय उत्पादयतीव । अन्ये तु परोन भवतीत्वपरः । अनन्य इत्यर्थः । आनन्दादपर मोहं आनन्दात्मकमूच्छामित्याहुः ॥३९॥  वासन्ती-कथमिव ।

 राम:-सखि, किमन्यत् । पुनरपि प्राप्ता जानकी ।

 वासन्ती---अयि देव रामभद्र, क सा ।

 रामः—(स्पर्शसुखमभिनीय ।) पश्य नन्विये पुरत एव ।

 वासन्ती-अयि देव रामभद्र, किमिति मर्मच्छेददारुणैरतिप्रलापैः प्रियसखीविपत्तिदुःखदग्धामपि मां पुनःपुनर्मन्दभाग्यां दहसि ।

 सीता--ओसरिदं इच्छम्मि । एसो उण चिरप्पणअसंभारसोम्मसीअलेण अज्जउत्तप्फरिसेण दीहदारुणंवि झत्ति संदावं उल्लाहअन्तेण वज्जलेहोवणद्धो विअ परिअद्धवादारो आसंजिओ विअ मे अग्गहत्थो ।

 राम:--सखि, कुतः प्रलापाः।

  गृहीतो यः पूर्वं परिणयविधौ कंकणधरः
   सुधासूतेः पादैरमृतशिशिरैः परिचितः ।

 सीता-अजउत्त, सो एव दाणिसि तुमम् ।


 १. अपसर्तुमिच्छामि । एष पुनः चिरप्रणयसंभारसौम्यशीतलेन आर्यपुत्रस्पर्शन दीर्घदारुणमपि झटिति संतापं उल्लाघयता वज्रलेपोपनद्धः इव पर्यस्तव्यापार आसजित इव मेऽग्रहस्तः ।

 २. आर्यपुत्र, स एवेदानीमसि त्वम् ।


सानन्दभुन्मीलिताक्ष एव उन्मीलिते लचमुकुसीमावे अक्षिणी यस्य तथोकः। अत्र हदि ललाटे चेत्यादिना इष्टार्थोपायानुसरणामकाक्षेप उक्तः ॥ अथीति । मर्मच्छेदबत् हृदयाघवयवक्षतिवत् दारणैः दुःसहैः प्रलापैः अनर्थकवचोभिः दहसीत्यत्रान्वयः । प्रियसख्याः सीतायाः विपत्त्या विपदा यहःख तेन दग्यां भस्मीक्रियमाणाम् ॥ अपसर्तुमिति । चिरस्य बहुम्सलरूढस्य प्रणयस्य स्नेहस्य संभारेण अतिशयेन हेतुना सौम्यः आहादकरः शीतलः शीतश्च तथाविधन । दीर्घश्चासौ दारुणवेति विग्रहः । राजकुब्जादिवत् समासः । तथाविध संतापं झटिति उल्लाघयता लघुकुर्वता आर्यपुत्रस्पर्शन वालेपेन उपनद्ध इव घटित इद पर्यस्तव्यापारः । निष्पन्द इत्यर्थः। मे अग्रहस्तः आसजित इव लभ इव । प्रलापैरिति वालन्तीवाश्यस्योत्तरमाह-'सखि, कुतः प्रलापा.' इति । गृहीत इति । यः परिणयविधी विवाहविधौ ककणधर: गृहीतः यः करः सुधाया अमृतस्य सूतित्यत्तिः यस्मात्तस्य चन्द्रस्य अमृतशिशिरैः सुधाशीतलैः पादैः किरणैः परिचितः संश्लिष्टः । उक्त विशेषणसाम्यादाह--'आर्यपुत्र, स एवेदानी त्वमसि' इति । यः करः कहणधरी गृहीतः यः सुधासूतेः पादैः परिचितः  राम:-

  स एवायं तस्यास्तदितरकरौपम्यसुभगो
   मया लब्धः पाणिर्ललितलवलीकन्दलनिभः ॥ ४० ॥

(इति गृह्णाति ।)

 सीता-हेद्धी हद्धी । अजउत्तप्फरिसमोहिदाए पमादो मे संवुत्तो।

 राम:-सखि वासन्ति, आनन्दमीलितः प्रियास्पर्शसाध्वसेन परवानस्मि । तत्त्वमपि धारयेमाम् ।

 वासन्ती-कष्टमुन्माद एव ।

(सौता ससंभ्रम हस्तमाक्षिप्यापसर्पति ।)

 रामः-हा धिक प्रमादः ।

  करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः ।
  परिकम्पिनः प्रकम्पी करान्मम विद्यतः विद्यन् ॥४१॥

 सीता-हैद्धी हद्धी । अजवि अणुबद्धबहुअघुम्मन्तवेअणं ण संठावेमि अत्ताणम् ।

 तमसा--(सप्लेहकौतुकस्सितं निर्वयं ।)

  सखेदरोमाञ्चितकम्पिताङ्गी
  जाता प्रियस्पर्शसुखेन वत्सा ।


 १. हा धिक् हा धिक् । आर्यपुत्रस्पर्शमोहितायाः प्रमादो मे संवृत्तः।

 २. हा धिक् हा धिक् । अद्याप्यनुबद्धबहुघूर्णमानवेदनं न संस्थापयाम्यात्मानम् ।


स एव त्वमिदानीमियर्थः । उभयत्रापि परिणयविधौ ककणधरत्व लावण्यसंश्लिष्टत्वरूपसुधासूतिकिरणपरिचितल्ल चाबशिष्टमिति कृत्वा सीतावाक्यं प्रवृत्तम् । राम आहस एवायमिति । ललिलेन सुकुमारेया लवलीकन्दलेन लवलीनामकलतारेण निमः सदृशः तदितरकरेण गृहीतान्यकरण औपम्येन सादृश्येन सुभगः मनोज्ञः । सव्यकरसादृश्यं दक्षिणकरस्य तथा दक्षिणकरसादृश्य सब्यकरस्येति भावः । तस्याः स एव पाणिः मया लब्धः ॥४०॥ गृह्णाति ग्रहणमभिनयति ।। प्रमादः अनवधानम् ।। प्रियास्पर्शसाध्वसेन प्रियायाः सीतायाः स्पर्शन यत् साध्वसं शृङ्गारज भय तेन परवान् परवशः। उन्मादः चित्तविभ्रमः ॥ हस्तमाक्षिप्य रामहस्तं निरस्य ॥ करपल्लव इति । प्रकम्पी चञ्चल: खिद्यन् स्वेदवान् तस्या. सः करपलवः परिकम्पिन: चञ्चलात् जडात् मम करात् अनवधानतो जडात्मनः मम करात् सहसा परिभ्रष्टः परिच्युतोऽभ. वत् ॥ ४५ ॥ अनुबद्धा उत्पन्ना बही घूर्णमाना उद्गच्छन्ती वेदना यस्य तमात्मानं

  मरुन्नवाम्भ:परिधूतसिक्ता
   कदम्बयष्टिः स्फुटकोरकेव ॥ ४२ ॥

 सीता--(स्वगतम् ।) अवसेन एदेण अत्ताणएण सज्जाविदलि मअवदीए तमसाए । किंत्ति किल एसा मण्णिस्सदि एसो परिच्चाओ एसो अहिसङ्कोत्ति।

 रामः---(सर्वतोऽवलोक्य ।) हा, कथं नास्त्येव । नन्वकरुणे वैदेहि ।

 सीता--अकरुणझि जा एवं विहं तुम पेक्खन्दी एव जीवेमि ।

 रामः-कासि प्रिये । देवि, प्रसीद प्रसीद । न मामेवंविधं परित्यक्तुमर्हसि ।

 सीता-अयि अजउत्त, विप्पदीवं विअ ।

 वासन्ती-देव, प्रसीद प्रसीद । खेनैव लोकोत्तरेण धैर्येण संस्तम्भयातिभूमि गतमात्मानम् । कुत्र मे प्रियसखी ।

 रामः--व्यक्तं नास्त्येव । कथमन्यथा वासन्त्यपि न पश्येत् । अपि खलु खाम एष स्यात् । न चामि सुप्तः । कुतो रामस्य निद्रा । सर्व-


 १. अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया । किमिति किलैषा मस्थत एष परित्याग एषोऽभिसङ्ग इति ।

 २. अकरुणास्मि यैवविध त्वां पश्यन्त्येव जीवामि ।

 ३. अयि आर्यपुत्र, विप्रतीपमिव ।


न संस्थापयामि न स्थिर करोमि ॥४२॥ कथं नास्त्येव नास्त्येवेति व्यक्तम् । स्फुटमित्यर्थः । कथमन्यथा वासन्ती न पश्येत् । अन्यथा सीताया अस्तित्वे वासन्ती कथ कस्माद्धेतोः न पश्येत् । खस्य भ्रान्तिशश्या वनदेवतायाः प्रमिति प्रकर्ष विभाच्च वासन्तीत्युक्तम् । एवं योग्यानुपलम्भेन सीताया नास्तिलं निश्चिय पूर्वोक्तस्पर्शनस्य अमरूपत्वं मीमांसते । अपि खलु खप्न एष स्यात् । एष सीतास्पर्शः खन्नः स्यात् । स्वानिकज्ञानविषयः स्यादिति संभावना । यद्वा एष सीतास्पर्शः खनः स्यात्खप्नावस्थोत्पादितः किमु । स्वप्नावस्थायां हि 'संध्ये सृष्टिराह हि इति सूत्रप्रामाण्यात् । तत्पुरुषानुभाव्यतत्तत्पदार्थसूधिः परमात्मकर्तृकाभ्युपगम्यते । विस्तरस्तूत्तरमीमांसायर्या द्रष्टव्यः । खप्नं प्रति सुप्तेः कारणत्वादाहन चास्मि सुप्त इति । तदुपपादयति ----कुतो रामस्य निद्रेति । 'अनिद्रः सततं रामः' इति सीतावियोगे रामस्य निद्रा नास्तीति प्रसिद्धमेवेति ननूपपत्तिरिति भावः । पर्यवसितमाह-सर्वथेत्यादिना । मम वासन्याश्चानुपलम्भाभिदाया अभावेन खप्नानुपपत्तेश्च सर्वप्रकारेणापि सीतास्पर्शनं भ्रमरूपमिति भावः । विप्रलम्भः भ्रमः । भगवानित्यनतिलकनीयत्वप्रयुक्तपूज्यताख्यापनार्थम् । अनुबन्नात्यनुसरति । दारुणया कठिथापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलग्भः पुनः पुनरनुबनाति माम् ।

 सीता-मए एव दारुणाए विप्पलद्धो अजउत्तो।

 वासन्ती-देव, पश्य पश्य ।

  पौलस्त्यस्य जटायुषा विघटितः कार्णायसोऽयं रथ-
   स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः ।
  खड्गच्छिन्नजटायुपक्षांतरितः सीतां चलन्तीं वह-
   नन्तातवियुदम्बुद इव द्यामभ्युदस्थादरिः ॥ ४३ ॥

 सीता--(सभयम् ।) अजउत्त, तादो बावादीअदि। ता परित्ताहि परित्ताहि । अहं वि अवहरिज्जामि ।

 रामः-सवेगमुत्थाय ।) आः पाप तातप्राणसीतापहारिन् लापते, क यास्यसि ।

 वासन्ती-अयि देव राक्षसकुलप्रलयधूमकेतो, किमद्यापि ते मन्युविषयः।

 सीता-अम्हहे, उन्मत्तम्हि ।


 १. मयैव दारुणया विप्रलब्ध आर्यपुत्रः ।

 २. आर्थपुत्र, तातो व्यापाद्यते । तस्मात्परित्रायस्थ परित्रायस्त्र । अहम-

 ३. अहो, उद्धान्तास्मि ।


नया । विप्रलब्धः बञ्चितः । भ्रान्त इति वा ॥ पौलस्त्यत्स्येति । अयं दृश्यमानः । उद्देश्यसमर्पकमिदम् । कृष्णायसविकारः कामयसः । लोहमय इत्यर्थः । जटायुषा विघटितः प्रध्वंसितः । पौलस्त्यस्य रावणस्य रथ: स्यन्दनम् । विधेयसमर्षकमिदम् । एते पुरतः पुरोवर्तमानाः कङ्कालशेषा शरीरास्थिरूपशिष्टांशाः । ते पिशाचवदनाः खराः रावणस्यन्दनीयाः पिशाचमुखाः रासभाः खड़ेन छिया कृत्ता च सा जटायुपक्षतिश्चेति समानाधिकरणसमासः । इतः अत्र । पक्षतिः पक्षमूलम् । अन्तामृता रन्तश्चलन्ती विद्युत्तडियस्य तथोक्तः । अनेन दृष्टान्तेन रावणस्पर्शवशदोषो नास्तीति सूचितम् । अरिः रावणः । द्यां खमभ्युदस्वाभ्युदतवान् । इत इत्यस्माद्देशादिति वा ॥४३॥ आः पापेत्यादि । अत्र रोषसंभ्रमवचनरूम तोटक नाम संध्यमुक्तम् ॥ प्रलयाचूमकेतो प्रलयसूचकधूमकेतुनामकबहसदृशेति भावसंबुद्धिः । यद्वा राक्षसकुलस्य प्रलये धूमकेतुरमिः । राक्षसकुलदाहे प्रलयाग्निसदृशेत्यर्थः । मन्युविषयः क्रोधविषयः ॥ अन्य एव पूर्वसीतावियोगाद्विलक्षण एव विपर्ययः सीतावियोग रामः----अन्य एवायमधुना विपर्ययो वर्तते ।

  उपायानां भावादविरलविनोदव्यतिकरै-
   विमर्दैवीराणां जनितजगदत्यद्भुतरसः ।
  वियोगो मुग्धाक्ष्याः स खल्लु रिपुधातावधिरभू-
   स्कदुस्तूष्णीं सद्यो निरवधिरयं तु प्रविलयः ॥ ४४ ॥

 सीता-बहुमाणिदम्हि पुत्रविरहे । णिरवधित्ति हा हदम्हि ।

 रामः---कष्टं भोः।

  व्यथै यत्र कपीन्द्रसख्यमपि मे वीर्य हरीणां वृथा
   प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि ।
  मार्ग यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
   सौमित्रेरपि पत्रिणामविषये तत्र प्रिये कासि मे ॥ ४५ ॥


 १. बहुमानितासि पूर्वविरहे । निरवधिरिति हा हतास्मि ।


रूपविपर्यासः । लक्ष ग्यमेवाह---उपायानामिति । उपायानां सेनासंनाहतेतुबन्धादिसाधनाना भावात्सल्यादविरलाः संतताः विनोदानां दुःखविस्मरणहेतूनां व्यतिकराः संबन्धा येषु तथोकाः तथाविधैः वीराणां सुग्रीवप्रभृतीनां विमः परस्परसंप्रहारै जनितः उत्पादितः जगतामत्यद्धृतरसो वीररसमयरसो येनेति तथोक्तः । वीररसादद्भुतरसस्योत्पत्तिरिति रसविदः । तदुप्तम्-'हास्यो भवति झारात्करुणो रौद्रकर्मणः । अद्भुतश्च तथा वीराद्वीभत्साच भयानकः॥ इति । मुग्धे सुन्दरे अक्षिणी यस्सा इति बहुओहिः । न त्वामिहस्थां आनीते रामः कमललोचने । तेन त्वां नानयत्याशु शचीमिव पुरंदरः । इत्युक्तम् । स वियोगः पूर्वकालिकविरहः । रिपुधातावधिरभूद्रावणसहारपर्यन्तोऽभूत् । कटुः क्रूरः । तूष्णी सह्यः उपायाद्यभावातू जोपभावेन सह्यः । अयं तु प्रविलयः इदानींतनावियोगः ! पुनदर्शनाभावाभिप्रायेण वियोगस्य प्रलयत्वोक्तिः । निरवधिर्यावजीवभावीत्यर्थः ॥४४॥ बहुमानितास्मि पूर्व विरहहेतुक्रबहुमानवत्वस्मि । रिपुधातावधिरिति रावणसंहारस्य तन्मूलकल्लोवेरिति भावः । 'न त्वदर्थ मया कृतम्' इति हि पूर्व रामेणोक्तम् । निरवधिरिति हा हतास्मि । अस्य वियोगस्य निरवधित्वोक्तेः प्रत्याशा छिमेति भावः ॥ व्यर्थमिति । चत्र प्रदेशे कपीन्दसत्वं सुग्रीवमैत्र्यम् । इदमुपलक्षणं सुग्रीवापेक्षयोपसर्जनत्वस्यापि । तदुक्तं रामायणे ---- लोकनाथ: पुरा भूत्वा सुग्रीव नाथमिच्छवि' इति, ‘स रामो वानरेन्द्रस्य प्रसादमभिकाङ्कते' इति च । व्यथै निरर्थकम् । हरीणां वानराणां वीर्य पराक्रमः । यत्र वृथा निष्प्रयोजकः । जाम्बवतः प्रज्ञा युक्तायुक्तकुशलता यत्र न साथिकेलध्याहारः। बायोः पुत्रस्य हनूमतः गतिरपिन साथिका मान सेतुम् । नक्षमः न योग्यः । सौमिरपिलमणस्य । अपिशब्दात स्त्रस्य । पत्रिणां वाणानामविषये अगोचरे तत्र तथाविधे क कस्मिन्देशे  सीता-बहुमाणिदम्हि पुत्रविरहे ।

 रामः-सखि वासन्ति, दुःखायैव सुहृदामिदानी रामदर्शनम् । कियचिरं त्वां रोदयिष्यामि । तदनुजानीहि मां गमनाय ।

 सीता--(सोद्वेगमोह तमसामाश्लिष्य ।) ही भअवदि तमसे, गच्छदि दाणिं अजउत्तो। किं करिस्सम् । (इति मूर्च्छति ।)

 तमसा-वत्सें जानकि, समाश्वसिहि समाश्वसिहि । विधिस्तवानुकूलो भविष्यति । तदायुप्मतोः कुशलवयोवर्द्धिमङ्गलानि संपादयितुं भागीरथीपदान्तिकमेव गच्छावः ॥

 सीता--भअवदि, पसीद । खणमेत्तं वि दुल्लहदसणं पेक्खामि ।

 रामः-अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे ।

 सीता--(साक्षेपम् । अजउत्त, का।

 वासन्ती--परिणीतमपि किम् ।

 राम:-नहि नहि । हिरण्मयी सीताप्रतिकृतिः ।


 १. बहुमानितास्मि पूर्वविरहे।

 २. हा भगवति तमसे, गच्छतीदानीमार्यपुत्रः । किं करोमि ।

 ३. भगवति, प्रसीद । क्षणमात्रमपि दुर्लभदर्शनं पश्यामि ।

 ४. आर्यपुत्र, का।


मसि भवसि॥४५ ॥सुहृदां मित्राणां रामदर्शनं दु.खाचैव दु खफलदमेव । रोदयिध्यामि रुदन्तीं करोमि । अनुजानीहि अनुमति कुरु ॥ वर्षमिङ्गलानि द्वादशवर्षपूर्तिमालानि देवतापूजादीनि शुभानि । आयुष्मतोः कुशलवयोः कुशलवोद्देशेन संपादयितुमुत्पादयितुम् । भागीरथ्याः संबन्धद्योतनायेचमुक्तिः ॥ अश्वमेवस्य सहधर्मचारिणीति विग्रहः । दम्पत्योः सहाधिकारत्वात् । अश्वमेघनिरूपितकर्तृकत्यवती जायास्तीति भावः ॥ साक्षेपम् । आक्षेपश्चोदन तेन सह वर्तत इत्यर्थ. । क्रियाविशेषणम् । आर्यपुत्र का । सहधर्मचारिणीति शेषः ॥ परिणीतमपि । भावे । परिणयोऽपि किमिति काक्वा योजनीयम् । सीतापरित्यागानन्तरं न केवल शरीरधारणं कितु परिणयोऽपि जातः किमिति समुवयार्थः । सीतावियोगे रामस्य शरीरधारणमाश्चर्य भिति प्रसिद्धम् । तदुक्त हनूमता 'दुष्करं कृतवान्रामो हीनो यदनया प्रभुः। धारयत्वात्मनो देह न शोकेनावसीदति ।' इति, 'दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् । विना सीतां महाबाहुर्मुहूर्तमपि जीवति ॥ इति च ॥ नहि नहि । परिणवप्रसक्तिरप्यनिष्टेति द्विरुक्या व्यज्यते ॥ इदाभीमसि त्वम् । 'खापहेतुरनुपाथितोऽन्यया' इत्युक्तरीत्या एकदारवतत्वं तवेदानीमेव  सीता—(सोच्छ्वासासम् ।) अजउत्त, दाणि सि तुमम् । अम्हहे, उक्खाइदं दाणि मे परिच्चाअसल्लं अज्जउत्तेण ।

 रामः-तत्रापि तावबाप्पदिग्ध चक्षुविनोदयामि।

 सीता-धण्णा स्नु सा जा एवं अज्जउत्तेण बहुमण्णीअदि । जा एवं अजउत्तं विणोदयन्दी आसाबन्धणं खु जादा जीअलोअस्स। तमसा (सस्सितस्नेहा परिष्वज्य) अयि वत्से, एवमात्मा स्तयते ।

 सीता--(सलज्जम् ।) परिहसिदम्हि भअवदीए ।

 वासन्ती-महानयं व्यतिकरोऽस्माकं प्रसादः । गमन प्रति यथा कार्यहानिने भवति तथा कार्यम् ।

 राम: तथास्तु ।

 सीता---पंडिऊला दाणिं मे वासन्दी संवुत्ता ।


 १. आर्यपुत्र, इदानीमसि त्वम् । अहो, उत्खातितमिदानी मे परित्यागशल्यमार्यपुत्रेण ।

 २. धन्या खलु सा यैवमार्यपुत्रेण बहुमन्यते । यैवमार्यपुत्रं विनोदयन्त्याशाबन्धनं खलु जाता जीवलोकस्य ।

 ३. परिसितास्मि भगवत्या ।

 ४. प्रतिकूलेदानी मे वासन्ती संवृत्ता ।


प्रकटितमिति भावः । परित्याग एव शल्य परित्यागशल्यम् । निष्कारणपरित्यागस्य प्रत्यवायहेतुत्वप्रयुक्तदुःखजनकत्वाच्छत्यत्वरूपणम् । ननु वास्तवदोषाभावेऽपि दोषवत्ता वृथारूपमित्यभिशस्तिमतां परिलागो धर्मशास्रसिद्ध इति चेन्मैवम् । अग्निप्रवेशादिना मिथ्याभिशस्तेरनवकाशात् । उत्खातितमुद्भुतम् । तत्रापि हिरण्मयीसीताप्रतिकृती बाष्पदिग्धमश्रुणा लिप्तम् । विनोदयामि विस्मृतदु.ख करोमि । एव च सीता प्रतिकृतेरश्वमेधसहधर्मचारिणीत्वमानुषतिकम् । मुख्य तु चक्षुर्विनोदनमिति सूचितम् । यैव बहुमन्यते चक्षुर्विनोदहेतुत्वप्रयुक्तबहुमानविषयीक्रियते सा प्रतिकृतिपन्या यैवमार्यपुत्रं विनोदयन्ती विस्मृतदुःखं कुर्वन्ती जीवलोकस्याशाबन्धनं रामजीवनप्रत्याशाहेतुस्वारस्लखविषयकाशाहेतुर्जाता सा धन्ये लन्वयः॥परिभ्यज्यालिञ्जय । एव 'वन्या खल सा' इत्यदिपूर्वोत्तरीत्या आत्मा स्तूयते स्तुतिविषयीकियते । त्वयेति शेषः ॥ भगवत्ला । तमसयेलर्थः ।। अयं व्यतिकरः एष समागमः । अस्माक महान्प्रसादः। अस्सद्विषयानुग्रहप्रयोजित इत्यर्थः । यथा येन प्रकारेण कार्यस्य कर्तव्यस्य हानिलोपो न भवति तथा तेन प्रकारेण गमन प्रति गमनोद्देशेन कार्य यत्नः कर्तव्यः ॥ इदानीं वासन्ती मे प्रतिकूलानिष्टकारिणी संघृत्ता जाता। रामगमनं प्रत्यनुज्ञाकरणादिति भावः॥

उ० रा० ९  तमसा-वत्से, एहि गच्छावः ।

 सीता---एवं करम्ह ।

 तमसा-कथं वा गम्यते । यस्यास्तव

  प्रत्युतस्येव दयिते तृष्णादीर्घस्य चक्षुषः ।
  मर्मच्छेदोपमैर्यनः संनिकर्षो निरुध्यते ॥ ४६॥

 सीता-णमो सुकिदपुण्णजणदंसणिज्जाणं अज्जउत्तचलणकमलाणम् ।

(इति मूर्च्छति।)

 तमसा-वत्से, समाश्वसिहि ।

 सीता--(आश्वस्य ।) कच्चिर वा मेहान्तरेण पुण्णचन्ददसणम् ।


 १. एवं करिष्याकः ।

 २. नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्थपुत्रचरणकमलाभ्याम् ।

 ३. कियचिरं वा मेधान्तरेण पूर्णचन्द्रदर्शनम् ।


एव कुर्वः । गच्छाव इत्यर्थः ॥ यस्यास्तव । प्रत्युत्तस्यवेति । तृष्णया अवलोकनस्पृहया दीर्घस्य आयतस्य । दयिते रामे प्रत्युत्तस्येव स्थितस्य कीलितस्येव स्थितस्य यस्यास्तव चक्षुषो नेत्रस्य संनिकर्षः दयिते संवन्धः । मर्मच्छेदोपमैहृदयादिप्रदेशकृन्तनसदृशैर्यन्नैर्निरुद्धयते निकलते । तथाविधया त्वया कथं गम्यत इति पूर्वशान्वयः । तृष्णादीर्घस्येत्युक्त्या दयिते प्रत्युप्तस्यैवेति दयितपदविवक्षितरामस्थामृतसादृश्य व्यज्यते ॥ ४६ ॥ नम इति । प्राकृते चतुर्थास्थाने षष्ठीद्विवचनस्य बहुवचनत्वम् । सुकृतानि पुण्यानि यैस्ते सुकृतपुण्याः । सुकृतपुण्याश्च ते जनाश्चेति विप्रहे कर्मधारयः। तथाविधैः दर्शनीयास्यां सेवितुं शक्याभ्याम् । न तु मादृशपापकृजनदर्शनाहोम्यामित्यर्थः । 'न ते मनुष्या देवास्ते थे चारुशभकुण्डलम्' इत्यादि दशरथोतरीत्या पुण्यकृद्दर्शनीयत्वं रामचरणयोरिति भावः । ममैव दुष्कृत किचिन्नहदस्ति न संशयः' इत्युक्तरीत्या खस्याः पापकृत्वमिति तात्पर्यम् । अत्र सुटु कृत यैस्ते सुकृताः । तथाविधाश्च ते पुण्यजना राक्षसाश्चेति ते विभीषणादयः इति कश्चित् । उक्तरील्याश्रयणे कृतस्यापि संग्रह इति धिकू । इति मूच्छति मूछामभिनयति ॥ कियचिरं मेधान्तरेण पूर्णचन्द्रदर्शनं मेघमध्ये पूर्णचन्द्रदर्शनम् ॥ वीरश्कारपोरेकः प्रधानं यत्र वयते' इत्यौत्सर्गिकस्य शृङ्गारवीरान्यतरप्राधान्यख वीरगृजारौ प्रायिकाविलपनादेऽपि करुणरसप्राधान्यकरणे मानाभावः । रसान्त राणां सत्वात् । नपत्र विनिगमकमस्ति येन करुणरसस्य प्राधान्यमुपपद्यते । किच करुणस्य दुःखात्मत्वेन रसत्वं नास्ति । येन रसप्रधाननाटके तस्मोक्तिसंभवः स्यादिति शहां कविस्तमसावाक्यच्याजेल परिहरति ॥  तमसा---अहो संविधानकम् ।

  एको रसः करुण एव निमित्तभेदा-
   द्भिन्नः पृथक्पृथगिव श्रयते विवर्तान् ।
  आवर्तबुहुदतरङ्गमयान्विकारा-
   नम्भो यथा सलिलमेव हि तत्समस्तम् ॥ ४७॥

 राम:-विमानराज, इत इतः ॥

(सर्वे रत्तिष्ठन्ति ।)


अहो संविधानकमिति । अपूर्वरूपक्रनिर्माणं विस्मयनीयमित्यर्थः । एक इति । रस्यते खाद्यत इति रसः काव्यानुशीलिनाभ्यासवशविशदीभूतवर्णनीयतन्मयीभवनयोग्यसामाजिकमनोमुकुरभाव्यमानतया निर्भरानन्दसंविद्रूपः । करुणः इष्टजनषियोगजन्यदुःखातिशयः । एक एव सत्रपि निमित्तभेदात् व्यञ्जकविभावादिविच्छित्तिविशेषाद्भिन्नः विलक्षणः । पृथक्पृथग्विवर्तान् परस्परविलक्षणशृक्षाराद्यात्मना परिणामान् । 'व्यत्यस्तपरिणामः स्याद्विवर्तः' इति कपिल' । श्रयते भजते । एकस्यानेकचा विकारमाने दृष्टान्तमाह--आवर्तेति । आवर्तः जलस्य भ्रमः, बुद्धदः कुमलाकारजलसंस्थानविशेषः, तरङ्गः भङ्गः, एतद्रूपान्विकारान् । अवस्थान्तराणीत्यर्थः । तत्समस्तमावादिकं सर्वे सलिलमेव जलमेव । तरङ्गादीनां जलविवर्तत्वाभावाद्विकारमाने दृष्टान्तार्थमिदम् । अत एव विवर्तानित्युक्तिः । इदमत्र कवेर्मतम्--'यद्यपि शृङ्गार एक एवं रस इति शङ्कारप्रकाशकारादिमतम्, तथापि प्राचुर्याद्रागिविरागिसाधारण्यात्करुण एक एव रसः। अन्ये तु तद्विकृतयः' इति । करुणस्यानुकाय रामादौ दुःखरूपत्वेऽपि सहृदयमानन्दात्मना परिणमतीत्युक्तरीत्या सामाजिके आनन्दरूपत्यमेव । तहि भावकानां करुणात्मककाव्यश्रवणे अश्रुधाराविर्भावः कथमिति चेदत्राहुः-संभोगसमये स्त्रीणामधरदशनादौ कृत्रिमदुःखानुभवसीत्कारवदत्राप्युपपत्तिः । सुखेऽपि दुःखवदुपचारः कुट्टमिति तल्लक्षणात्। यद्यस्य सहजदु:खात्मकत्वं स्यात्, न कोऽपि सामाजिकस्तत्र प्रवर्तेत, ततश्च करुणैकरसाना रामावणादीनामुच्छेदप्रसङ्गः स्यात् । तस्माइसान्तरवरकरुणस्याप्यानन्दात्मकत्वमेवेति । एवं च रसान्तरापेक्षया प्रकृतित्वमेव करुणस्य प्राधान्ये विनिगमकं शृङ्गारवीरयोः प्रायिकत्वोक्तेस्तदभावे अस्ौयोचितत्वादिति । यद्वा एको रसः रसशब्दवाच्यः । अत्र ओदनं पचति' 'अस्य सूत्रस्य पटो वातव्यः' इत्यादाविव भाविनी वृत्तिमाश्रित्य रसशब्दप्रयोगः । एवम् 'पुटपाकप्रतीकाशो रामस्य करुणो रसः' इत्यत्रापि वोध्यम् । करुणः अनुकार्यरामादिगतेष्टजनवियोगजन्यदुःखातिशयः । एक एव सन्नपि निमित्तभेदात्सखित्वपतित्वपत्नीत्वायुराधिभेदाद्भिन्नः विलक्षण इच पृथक्पृथग्विवर्तान श्रयते । वासन्तीसीतारामप्रभृतिषु परस्परविलक्षणावस्थाविशेषान्भजति । अत्र विवर्तशब्दो बिकारमात्रपरः । एवं दृष्टान्तसामञ्जस्यमुपपद्यते । शेषं पूर्ववत् । अस्मिन् पक्षे रतान्तरसत्वे करुणरसप्राधान्यं तूक्तयुक्त्या ग्रन्थावहिः समर्थनीयम् । तथाचैता दृशकरुणरसप्रधानत्वादपूर्वोऽयं कथासंनिवेश इति पूर्वेणान्वयः ॥ ४५ ॥ तमसा  तयसावासन्त्यौ-(सीतारामौ प्रति ।)

  अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः
   सच कुलपतिराद्यश्छन्दसां यः प्रयोक्ता ।
  सच मुनिरनुयातारन्वतीको वसिष्ठ-
   स्तव वितरतु भद्रं भूयसे मङ्गलाय ॥४८॥

(इति निष्कान्ताः सर्वे ।)

तृतीयोऽङ्कः।


यासन्यौ सीतारामौ प्रति यथासंख्य प्रति उद्दिश्य । अवनिरिति' । अवनिर्भूमिः । अमरत्तिन्धुः गहा । अस्मद्विधाभिः । तमसापक्षे मुरलागोदावरीप्रभृतिभिरित्यर्थः । वासन्तीपक्षे अन्याभिर्देवताभिः सहेत्यर्थः । यदछन्दसा प्रयोक्ता चेदानां प्रवक्ता आद्यः कुलपतिः स च सूर्यश्च । मुनिर्मननशीलः सः प्रसिद्धः । अनुयातानुगता अरुन्धती यमिति विग्रहे द्वितीयाबहुव्रीहिः। शेषाद्विभाषा' इति कप् । 'न कपि' इतिहखप्रतिषेधः। तथाविधो बसिष्टः। तब भूयसे प्रचुराय मङ्गलाय भद्रं मङ्गलं वितरतु ददातु । अत्र गभंबीजस्य ऋषिधयोवितरणरूपस्योद्भेदनादाक्षेपो नाम संव्यङ्गमुक्त भवति । 'यदनोच्छ्रसलं किंचित्कविनानेन वध्यते । निरकुशतया तत्तु समाधेयं मनीषिभिः ॥ भावस्य तु गभीरत्वात्स कश्चिदिह कथ्यते । कोशव्याकरणे प्रायेणोच्यते ग्रन्थगौरवात् ॥४८॥

         बाधूलवंशजनुषो भूसारनिवासराबवार्यस्य ।
         उत्तररामचरित्रव्याख्यायामवसितस्तृतीयोऽङ्कः ॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल

स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां

तृतीयोऽङ्कः।

(ततः प्रविशतस्तापसौ)

 एकः-सौधातके, दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्म समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथाहि ।

  नीवारोदनमण्डमुणमधुरं सद्यःप्रसूताप्रिया-
   पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति ।
  गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः
   कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीयते ॥ १ ॥


तत इति । तापसौ तपःशीलौ । एकः । तयोरन्यतर इत्यर्थः । सुधातुरपलं सौधातकिः । सुधातुरकइन्च' इत्यकड्टादेश इञ्प्रत्ययश्च । तस्य संबुद्धिः सौधातके इति। अद्य मध्याहे भूयिन्छ यथा भवति तथा सन्निधापितः निकटागामितः अतिथिजनो यस्मिन्निति तथोक्तस्य भगवतो वाल्मीकेः ज्ञानशक्वादिपूर्णस्य प्रचेतसस्य यदाश्रमपदं आश्रमस्थान तस्य समधिकारम्मेण अनुरतरमारभ्यमाणातिथि जनसत्कारादिना रमणीयता हृद्यता दृश्यतां चक्षुर्विषयीक्रियताम् । त्वयेति शेषः । नीवारेति । तपोवनमृगः तपोवनाश्रयो मुनिसंवर्धितहरिणः । सद्यः समानेऽलि । तसिन्दिन इत्यर्थः। प्रसूता प्रसववती । कर्तरि क्तः । तथाविधया प्रियया प्रियविषयहरिण्या पीतात पानं प्राप्य । भावे क्तः 1 स्यब्लोपे पञ्चमी । अभ्यधिकं अवशिष्ट प्रचुर वा हरिणीकर्तृकं वा पानं प्राप्यापि प्रचुरमित्यर्थः । ष्णं च तत् मधुरं च माधुर्यबुक्कं चेति विशेषणसमासः । तथाविध नीवारोदनमण्ड नीवारो धान्यविशेषः तत्संयन्थ्योदनस्य यन्मण्ड घनीभूतद्भवविशेषः तत्पर्याप्तं यावदिच्छानिवृत्ति आचामति पिबति । यद्वा सद्यःप्रसूतप्रियापीतादिति हेतौ पञ्चमी । सद्यःप्रसूतप्रियाकर्तृकपानाद्धेतो: अभ्यधिक यथा भवति तथा प्रचुरं यथा भवति तथा उष्णं मधुरं चेयर्थ, । अत्र सद्यःप्रसूतत्वमुष्पात्वे हेतुः । उष्णत्वं हि प्रसवविद्यालशरीरतोदपरिहारकम् । प्रियात्वं च मधुरत्वे हेतुः । अत एव मधुरत्वोक्तिः प्रयोजनबती । अन्यथा तस्य माधुर्याच्यभिचारात्तद्वैयचं स्पष्टमेव । इदमेवाभिसंधाय 'अम्बुनीवारशष्पैः' इत्यत्र अम्बुना तरूलू अम्बुनीवाराभ्यां शकुनीन् अम्बुनीवारशपः कुरक्षानिति विवेक उपक इति बोध्यम् । अत एवं पर्याप्त यावदिच्छानिवृत्ति आचामति पिबति । सर्पिमतः धृतवतः भरतस्यान्नस्य स्फुरता प्रसरता गन्धेन सौरभ्येण मनागीषद मुसृतः अनुगतः कर्कन्धूफलमिश्रस्य बदरीफलमिश्रस्य शाकपचनस्थ पच्यमानशाकस्य । बदरीफलानि हि आत्मरसार्थ शाकेन सह पच्यन्ते । आमोदः सौरभ्य परिस्तीयते विस्तीयेते विततीक्रियते । वाथुनेति शेषः । यद्वा परित्तीर्यवे विस्तीर्णो भवतीत्यर्थः । लूचते केदारः खयमेवेसादाविव कमेबद्भावायगात्मनेपदे । अथवा सर्पिष्मतो भक्तस्य स्फुरता गन्धेन का अनुसृतः अनुक्षणं असर्पन अर्कन्धूफलमिश्रशाकपचनामोदः कर्म  सौषातकिः--साअदं अणीअपिआराणं जिष्णकुच्छाणं अणज्झाअकालणाणं तपोधणाणम् ।

 प्रथम:----(विहस्य ।) अपूर्वः खलु बहुमानहेतुपुरुषु सौघातके ।

 सौधातकि:-भो दण्डाअण, किंणामहेओ दाणिं एसो महत्तस्स इत्यिआसत्थस्स धुरंधरो अज्ज अदिही आअदो।

 दण्डायन:--धिकमहसनम् । नन्वयमृष्यशृङ्गाश्रमादरुन्धती पुरस्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवान्वसिष्ठः प्राप्तः । तत्कि- मेवं प्रलपसि ।

 सौधातकिः-हुं वसिठ्ठो ।

 दण्डायन:--अथ किम् ।

 सौधातकि:-मए उण जाणिदं कोवि वग्धो विअ एसोत्ति ।


 १. स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्ययन कारणानां तपोधनानाम् ।

 २. भो दण्डायन, किनामधेय इदानीमेष महतः स्त्रीसार्थस्य धुरंधरोऽद्यातिथिरागतः।

 ३. हुं वसिष्ठः।

 ४. भया पुनीतं कोऽपि व्याघ्र इब एष इति ।


अभिव्याण्यत इति व्याख्येयम् ॥१॥ साअदमिति । खागतम् । सकारस्य न छुक् । गकारस्य प्रायो लुक् । 'कगचजतदपयवाम्' इति प्राकृतव्याकरणसूत्रेण लोपः। अकारस्य ईषत्स्पृष्ठतथा श्रुतिरपि । सूत्रे प्रायोग्रहणाहकारस्य न लक् । अनेकप्रकाराणाम् । बहुविधानामित्यर्थः । पूर्ववदेव लोपः । यः श्रुतिबोध्यम् । अत्र चकारशन्दस्य पवेति प्राकृतव्याकरणसुत्रेण पूर्वख वैकल्पिकचात् 'पिआर' इति दीर्घः । 'पाआराणा' इति लासुपोरिति सूत्रेणानुस्वारः । अनध्ययननिमित्तानामित्यर्थः । शिष्टानध्ययनस्य धर्मशास्त्रसिद्धलादिति भावः । जीर्णकूर्चानां शिथिलभ्रूमध्यानाम् । जीर्णशब्द 'संयोगे च' इति प्राकृतव्याकरणसूत्रेण हसः । गुरुयु बतिष्ठादिषु । भो दण्डाअणेति । नामधेयं तस्य संबुद्धिः । महतः प्रचुरस्य स्त्रीसार्थस्य अङ्गनासमूहस्य धुरंघरो निर्वापकोऽतिधिरागतः किनामधेय इलन्व्यः । दण्डाअणेति खरस्य बिन्दवमिति खः । किंणामहेय इत्यत्र 'खघथवभाम्' इति सूत्रेण धकारस्य हकारः। स्त्रीशब्दस्य "स्त्रीभगिनींदुहितृवनितानां इथिबहिणीधूआविला' इति प्राकृतसूत्रेण इस्थिआदेशे कप्रत्ययस्य कलोपः । सार्थस्त्यत्र 'संयोगे' इति इवः ॥ धिप्रहसनं हासहेतुभूतं खदीयं वयः । निन्दनीयं मिति भावः । दारान् कौसख्याप्रभृतीन् । अधि दण्डायनः-आः, किमुक्तं भवति ।

 सौधातकि:-जेण परावडिदेण एव सा वराई कबिला कल्लाणी बलामोडिअ सडसडाइआ।

 दण्डायन:--समांसो मधुपर्क इत्याम्नायं वहमन्यमानाः श्रोत्रियायाभ्यागताय वत्सतरी महोक्षं वा पचन्ति गृहमेधिनः । तं हि धर्म धर्म- सूत्रकाराः समामनन्ति ।

 सौधातकि:- भो, णिगिहीदोसि ।

 दण्डायन:---कथमिव ।

 सौधातकिः-जेण आअदेसु वसिमिस्सेसु बच्छदरी विससिदा । अन्ज एब्ब पच्चाअदस्स रापसिणो जणअस्स भअवदा बम्मीहणा धहिमहर्हि एव णित्तिदो महुवको। बच्छतरी उण विसज्जिदा ।

 दण्डायन:-अनिवृत्तमांसानामेवं कल्प व्याहरन्ति केचित् । निवृत्तमांसस्तु तत्रभवान् जनकः ।


 १. येन परापतितेनैव सा बराकी कपिला कल्याणी बलात्कृत्य मडमडायिता।

 २. भोः, निगृहीतोऽसि ।

 ३. येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता। अद्यैव प्रत्यागतस्य राजधैर्जनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वतितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता।


चाय । तन्नियामको भूत्वेत्यर्थः । प्रलपसि अनर्थक वदसि ॥ हुमिति प्रो ॥ अथ किमित्यजीकारे । एष कोऽपि व्याघ्र इति मचा ज्ञातमित्यन्वयः। 'संयोगे' इतिहखः। किमुक्तं भवति कुत एवमुक्तं भवति । हि तेन वसिष्ठेन हि । वराकी प्रतिकूलदैवा । कपिला नाम गवामवान्तरजातिः । कल्याणी वत्सतरी। विहायनीत्यर्थः । बलात्कृत्य मडमडाथिता। आलम्भनशब्दानुकरणमिदम्। तथाविधशब्दयुक्ता कृतेत्यर्थः । आलच्छति यावत् । मडायितेत्यर्थः । 'मृगातेर्मपरिहखडववन्नाजबडमलमडा' इति प्राकृतव्याकरणसूत्रेण मृदातोमंड इत्यादेशः । तेन व्याघ्र इति ज्ञातमिति पूर्वेण संबन्धः॥ आनाय धर्मशास्त्रम् । महांश्चासौ उक्षा चेति विग्रहः । निपातनादकारान्तत्वम् । पचन्ति श्रपयन्ति । समामनन्ति उपदिशन्ति । अत्र मया व्याघ्र इत्यादिना गुरुतिरस्कृतिरुपद्रव उक्तः ॥ भो निगृहीतोऽसि पराजितोऽति ॥ आगतेष्वेवेति । मिनशब्दः पूज्यताद्योतकः । 'एवार्थे एव्व' इति शाकृतसूत्रेण एव्यादेशः । दधिमधुम्यामित्यनेन दक्षिा मधुसंस्कृष्टमित्यापस्तम्बवचनमभिप्रेतम् । निर्वर्तितः निष्पादितः । वत्सतरी पुनरिति । विसर्जिता मुक्ता 1 न लालब्धेत्ययः ।। व्याहरन्ति केचिदिति । केचिद्धर्मशास्त्रकारा  सौधातकि:-किंणिमित्तम् ।

 दण्डायन:-यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तदस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य ।

 सौधातकिः-तंदो किंति आअदो।

 दण्डायनः-संप्रति च प्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम् ।

 सौधातकि:-अवि अज्ज संवन्धिणीहिं समं णिउत्तं दंसणं से णवेत्ति ।

 दण्डायन:-~संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता । यथा स्वयमुपेत्य खेहादयं द्रष्टव्य इति ।

 सौधातकिः---जह एदे दृविरा परप्परं एव मिलिदा, तह अम्हे बि बडुहिं सह मिलिअ अणज्झाअमहस्सवं खेलन्तो मणेम्ह । अह कुत्थ सो जणओ।

 दण्डायन:-तथायं प्राचेतसवसिष्ठाबुपास्य संप्रत्याश्रमस्य बहिवृक्षमूलमधितिष्ठति । य एषः

  हदि नित्यानुषक्तेन सीताशोकेन तप्यते ।
  अन्तःप्रसप्तदहनो जरन्निव वनस्पतिः ॥२॥

(इति निष्क्रान्तौ ।)

इति मिश्रविष्कम्भः।


 १. किंनिमित्तम् । २. ततः किमित्यागतः। ३. अप्यद्य संबन्धिनीभिः समं निवृत्तं दर्शनमस्स मवेति । ४. यौते स्थबिराः परस्परमेव

मिलिताः, तथावामपि बटुभिः सह मिलित्वानध्यायमहोत्सवं खेलन्तो मानयावः । अथ कुत्र स जनकः ।

आपस्तम्बादयः। एव कल्पं मांसवर्ज मधुपर्कानुष्ठानपरग्रन्थं व्याहरन्ति बदन्ति । नियु. त्तमांसो वजितमांसः। यद्देव्या इत्यादि । वैखानसः छानप्रस्थः । चन्द्रद्वीपतपोचने तपस्तप्यमानस्य तपश्चरतः कतिपयः संवत्तरः । गत इति शेषः । चन्द्रद्वीप इति कश्चिद्वीपविशेषः ॥ प्राचेतसं वाल्मीकिम् ॥ संबन्धिनीमिः दर्शनं निवृत्त नवेति ज्ञायते अपीति योजना अपि ॥ अयम् । जनक इत्यर्थः । नेहाद्रष्टव्यः प्रेम्णा दर्शनीयः ॥ स्थविराः वृद्धाः । अनध्यायः अध्ययनाभावः स एव महोत्सवः । आनन्दहेतुत्वादुत्सववरूपणम् ॥ उपास्य परिचर्च। हदीति य एषः। जनक इत्यर्थः

हृदि नित्यानुषक्तेन

(ततः प्रविशति जनकः।)

 जनक:--

 अपत्ये यत्ताग्दुरितम्भवत्तेन महता
  विषक्तस्तीवेण अणितहृदयेन व्यथथता ।
 पटुर्धारावाही नव इव चिरेणापि हि न मे
  निकृन्तन्ममर्माणि क्रकच इव मन्युविरमति ॥ ३॥

कष्टं एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसांतपनप्रभृतिमिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव महानद्यापि मम दुग्धदेहो न पतति । अन्धतामिस्रा ह्यसूर्या नाम ते लोका प्रेत्य तेभ्यः प्रतिविधीयन्ते य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यन इव न मे दारुणो दु:खसेवेगः प्रशाम्यति । अयि मातः देवयजनसंभवे, ईदृशस्ते निर्माणभागः परिणतः, येन लजया स्वच्छन्दमप्वाक्रन्दितुं न शक्यते ।

नित्यलग्नेन सीताशोकेन सीतानिमित्तदुःखेन तप्यते तप्तो भवति । जरन् वृद्धः अन्तः प्रज्वलद्वह्निः । वनस्पतिः पुष्पहीनफलवृक्षः॥ २ ॥ मिश्रविष्कम्भः। संस्कृतप्राकृतात्मकविकम्भ इत्यर्थः ॥ अपत्य इति यस्मात् अपत्ये । सीतायामित्यर्थः । तादृग्दुरितं कोलीनरूपपापं व्यसनं वाभवत् । तीब्रेणातिप्रचुरेण तेन दुरितेन व्यथयता दुःखं प्रापितेन अणितहृदयेन विषक्तः प्रतक्तः । पटुः तीक्ष्णः । धारया वहतीति धारावाही । अत्यन्तनैरन्तबैंण प्रवाहील्यर्थः । चिरेणापि चिरकालेनापि नव इव स्थितः मर्माणिहृदयादीनि निकृन्तन् छिन्दन् ककच इव कराल इव स्थितः। मन्युः शोकः कोप वा न विरमतिन शाम्यति॥३॥जरया वचोहान्या । दुरासदेन दुःसहेन । दुःखेन सीताविश्लेषजेन । पराको द्वादशदिनोपबासकृच्छ्रम् , सांतपनं चान्द्रावणविशेषः, एवमादिभिः कायशोषकनियमविशेषैः शोषितान्तःशरीरधातोर्मे कथमवष्टम्भ एव पातप्रतिबन्धकावलम्बनमेव । दग्धदेहः हतहृदयमितिवत् निन्दायां दग्धशब्दः । अद्यापि न पततीति योजना । अनेकसामग्रीसमवधानेऽपि पाताभाचो विस्मयनीय इति भावः । तर्हि भूगुपतनादिना त्यज्यतामित्यत्राह-अन्धतामित्रा इति । आत्मानं मन्तीति आत्मघातिन इति विग्रहः । 'सुष्यजातौं' इति णिनिः । ये बलास्क्रियन्ते तेभ्यः तान्' पातयितुं क्रियार्थे चतुर्थी । असूर्या सूर्यरहिता अन्धतामिस्रा अन्धतमसमयास्ते प्रसिद्धा लोका भरकविशेषाः प्रेल मरणानन्तरं प्रतिविधीयन्ते इत्येवमृषयो मन्यन्ते । 'असूर्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रेत्याभिगच्छन्ति चे के चात्महनो जनाः॥ इति श्रुतिः । इति धर्मशास्त्रकाराणां मतम् । प्रतिक्षणपरिभावनया संततविचारेण । भू अवकल्कने । अवकल्कनं चिन्तनम् । स्पष्ट्रनिर्भासः विशदप्रकाशः । प्रत्यग्र इव नव्य इव न प्रशाम्यति हा पुत्रि,

  अनियतरुदितस्मितं विराज-
   कतिपयकोमलदन्तकुमलायम् ।
  बदनकमलके शिशोः स्मरामि
   स्खलदसमञ्जसमच जल्पितं ते ॥४॥

भगवति बसुंधरे, सत्यमतिदृढासि ।

 त्वं वह्निर्मुनयो वसिष्ठगृहिणी गङ्गा च यस्या विदु-
  र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः ।
 विद्यां वागिव यामसूत भवती शुद्धिं गतायाः पुन-
  स्तस्यास्त्वहुहितुस्तथाविशसनं किं दारुणे मृष्यथाः ॥ ५ ॥


न नश्यति । निर्माणभागः सृष्टिफलम् । चेन निर्माणभागेनाकन्दितुमपि रोदितुमपि । अपिशब्दात्कियान्तरानहत्वं सूच्यते । दोषवादहेतुकत्वात्त्यागस्येति भावः । अनियतेति । अनियतहदितस्सितं अव्यवस्थितरोदनहासनम् । विराजन्तः कतिपये त्रिचतुराः कोमलाः ललिताः दन्ता एव कुमलाप्राणि यस्य तथोक्तम् । तेन कुनमलापशब्दस्य न पूर्वनिपातः । न वा दन्तशब्दस्य दतादेश: । स्खलदपूर्णमसमजसं पूर्वापरसंगतिरहितं मन मुन्दरं जस्पितं वचनं यस्य तथोक्तं ते वदनकमलकं वदनमेव कमलम् । अनुकम्पायां कन् । स्मरामि उत्कण्ठापूर्वकं चिन्तयामि । अनानियतरुदितस्मितं स्खलदसमञ्जसमिति विशेषणानुगुण्याद्वदनकमलकनित्यत्र परिणामालंकारः । केवलकमलस्य अकृतक्रियान्वयित्यानुपपत्तेः । 'परिणामः क्रियार्थद्विषयी विषचात्मना' इति लक्षणात् । दन्तकुमलाग्रमित्यत्रापि क्रियान्वयविचक्षायां परिणामः रूपकं वा॥४॥भगवतीति । अतिदृढासि अतिकठिनासीति सत्यम् । अत्र 'यो वा बिभर्ति काटिन्चं तस्मै भूम्यात्मने नमः' इति वचन द्रष्टव्यम् । तब वसुंधरात्थप्रयुक्तधैर्येण पुत्रीनाशोऽप्यकिंचित्कर एवेत्युपालम्भो व्यज्यते । त्वमिति । यस्याः सीताया माहात्म्यममानुषत्वं त्वं वेत्थ । विदुरित्यस्य विभक्तिवचनयोविपरिणामेन योजना। वहिर्वेद, मुनयो विदुः, नसिष्ठगृहिणी अरुन्धती वेद जानाति, गङ्गा च वेद जानाति । यदि वा किंच रघोः कुलगुरुः रघुवंशजनकस्तदाचार्यो वसिष्ठो वा । देवः दीप्तशील: भास्करः खयं बैद परानपेक्षं जानाति । अत्र भूम्यादीनामन्योन्यनिरपेक्षप्रामाण्यप्रतिपत्त्यर्थे कियैकशेषाकरणाद्विदुरित्यत्र न मध्यमपुरुषः प्रयुक्तः । अत एव पुरुषवचनविपरिणामेन भित्रानि वाक्यानि । यो प्रसूतवती तस्यास्तथाविधायाः पुनः शुद्धि गतायाः । अग्निप्रवेशादित्यर्थः । त्वदुहितुः सीतायास्तथाविशसनमन्यादृशहिंसनं किं मृष्यथाः कथं सोदवलसि ॥ ५॥ गृष्टिः दशरथकञ्चकी तेन । निरूप्य हेतुभिर्विचार्थ । इयं सैवेति एता का प्रत्येति प्रत्यभिजानाति । नाम प्रसिद्धौ । न कोऽपीत्यर्थः ।

(नेपथ्ये)

 इत इतो भगवतीमहादेव्यो।

 जनकः- अये, गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती । (उत्थाय ।) का पुनर्महादेवीत्याह । (निरूप्य ) हा हा, कथमय महाराजस्य दशरथस्य थर्मदाराः प्रियसखी मे कौसल्या । क एतां प्रत्येति सैवेयमिति नाम ।

 आसीदियं दशरथस्य गृहे यथा श्रीः
  श्रीरेव वा किमुपमानपदेन सैषा ।
 कष्ट बतान्यदिव देवक्शेन जाता।
  दुःखात्मकं किमपि भूतमहो विकारः ॥ ६ ॥

 य एव मे जनः पूर्वमासीन्मूतों महोत्सवः ।
 क्षते क्षारमिवासय जातं तस्यैव दर्शनम् ॥ ७ ॥

(ततः प्रविशत्यरुन्धती कौसल्या काचुकी च ।)

 अरुन्धती-ननु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वदेह इत्येवं यः कुलगुरोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महाननध्यवसायः ।

 कझुकी-देवि, संस्तभ्यात्मानमनुरुध्यस्त्र भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि।

 कौसल्या--'ईरिसे काले मिहिलाहिवो मए दिवबो ति समं एव सबदुःखाइ ओदरन्ति । ता ण सकृणोमि उचट्ठमाणमूलबन्धणं हिअ पज्जवत्थावेदुम् ।


 १. ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यबतरन्ति । तस्मान्न शक्नोम्युहर्तमानमूलबन्धन हृदयं पर्यवस्थापयितुम् ।


 आसीदिति । इयं कौसल्या दशरथस्य गृहे श्रीरिवासीदथवा श्रीरेवासीत् । उपमानत्वबोधकयथाशब्देन किम् । न किमपीलर्थः । अत्रोपमालकारः, रूपकालंकारः,आक्षेपालकारश्च । सैषा श्रीसदृशी श्रीभूता वा इयं कौसल्या दैववशेन देवेच्छया अन्यदिव जातान्यतमिव संवत्ता । अलक्ष्मीरिव जातेत्यर्थः । अनेवेति वर्तते । दुः-खात्मक दुःखैकरसं किमपि वाचामपरिच्छेद्यं भूतं प्राणिविशेषः जाता । साक्षादलक्ष्मी जातेत्यर्थः । यथा श्रीः धीरेव वेखनयोः प्रतिद्वन्द्वभूतमिदमहो विकारः प्राणिनामुपचयापचयरूवागन्तुको विस्मयनीय इत्यर्थः । कष्ट यत्तेति दुःखातिशये॥६॥य इति । य एष जनः कौसल्या ॥७॥ आदेशः आज्ञा । अनध्यवसायः संशयः ॥ आत्मानं  अरुन्धती-अत्र कः संदेहः ।

  संतानवाहीन्यपि मानुषाणां
   दुःखानि संबन्धिवियोगजानि ।
  दृष्टे जने प्रेयसि दुःसहानि
   स्रोतःसहरिव संप्लवन्ते ॥ ८ ॥

 कौसल्या-कहं णु खु बच्चाए मे वहुए वनगदाए तम्सा पिदुणो राएसिणो मुहं दसम्ह।

 अरुन्धती-

  एष वः श्लाघ्यसंबन्धी जनकानां कुलोद्वहः ।
  याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥ ९ ॥

 कौसल्या-एसो सो महाराअस्स हिअअणिबिसेसो वच्चाए मे वहूए पिदा विदेहराओ सीरद्धओ । सुमारिदम्हि अणिवेदरमणीय दिवहे। हा देव, सवं तं पत्थि ।


 १. कथं नु खल्ल वत्साया मे बवा बभगतायास्तस्याः पितू राजर्षेर्मुख दर्शयामः।

 २. एष स महाराजस्य हृदयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजो सीरध्वजः । सारितास्मि अनिदरमणीयान्दिवसान् । हा देव, सर्वे तन्नास्ति ।


 धृतिम् । संस्तभ्य प्रतिहतगति कृत्वा । अनुरुञ्चखानुतिष्ठेत्यर्थः। सम युगपत् । अवतरन्ति प्राप्नुवन्ति । उद्वर्तमानमुद्तं मूलबन्धनं मूलनियन्त्रणं यस्य तथोकम् । शिथि. लबन्धनमित्यर्थः । पर्यवस्थापयितुम् ॥ संतानेति । संतानेन अविच्छेदेन वाहीनि प्रवहन्त्यपि दुःखानि प्रेयसि जने दृष्ठे सतीत्लन्वयः । सोत.सहस्रैरनन्तैः स्रोतोभिः । उपलक्षणे तृतीया । संप्लवन्ते महोबीभवन्ति ॥८॥ वध्वाः मुषायाः ॥ एष इति । चस्मै य जनकं सार्थचितुम् । 'जियार्थ-' इति चतुर्थी । ब्रह्मपारावणं स्वरूपेण गुणैश्च अनदधिकाशयब्रह्मत्वयुक्तपरमात्मप्रतिपादकवेदान्तभाग जगौ उपदिदेश । स एष इत्ति चोजना ॥९॥ हृदयनिर्विशेषः । अन्तरा इत्यर्थः । सीरः वजो यस्य तथोकः । अनिबैदाश्च ते रमणीयाश्च । न विद्यते निवेदश्चित्तग्लानिर्वेषु तथोक्ताः । रमणीया आनन्दहेतवः । तथाविधान्दिवसान्सारितास्मि दिवसविषयकम्मरणवती कृतास्मि । सर्वमेतदु पलभ्यमानं सर्व नास्ति असत्कल्पम् । हा दुःल्यते ॥ अभिवादयते । प्रणामेनाशीवी जनकः-(उपसृत्य ।) भगवत्यरुन्धति, वैदेहः सीरध्वजोऽभिवादयते।

  यया पूर्तमन्यो निधिरपि पवितस्य महसः
   पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः।
  त्रिलोकीमाङ्गल्यामवनितललीनेन शिरसा
   जगद्वन्द्या देवीमुषसमिव वन्दे भगवतीम् ॥ १० ॥

 अरुन्धती-अक्षरं ते ज्योतिः प्रकाश्यताम् । स त्वां पुनातु देवः परोरजसा य एष तपति ।

 जनकः—आर्य गृष्टे, अप्यनामयमस्याः प्रजापालकस्य मातुः ।

 कञ्चकी--(खगतम् । निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः(प्रकाशम् ।) राजर्षे, अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम् । रामभद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः । न चामिद्धिमनल्पकाःप्र. तियन्तीति दारुणमनुष्ठितं देवेन .

 जनकः-(सरोषम् ।) आः, कोऽयममि मास्मात्प्रसूतिपरिशोधने । कष्टमेववादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे ।


चयतीत्यर्थः ॥ ययेति । पूर्तमन्यः आत्मविषयकपूतत्वप्रकारकशानवान् । त्रिलोकीमाङ्गल्या लोकत्रयमङ्गलहेतुभूतामुषसमिव प्रातःसंध्यादिदेवतामिव स्थिताम् । अवनितललीनेन शिरसेत्युपलक्षणमष्टाङ्गप्रणामस्य ॥ १०॥ अक्षरं प्रकृतिपुरुषवत्खरूपखभावविकाररहितं ज्योतिः स्वयंप्रकाशं प्रकाश्यतां प्रतिभासत्ताम् । 'अक्षरमम्बरान्तघृतेः' ज्योतिश्चरणाभिधानात्' इत्यधिकरणद्वयार्थः प्रत्यभिज्ञापितः। देवः जगत्सष्टथादिलीलावान् । रजसा समस्तदोषजावेभ्यः परः । संवन्धसामान्ये षष्टी । 'परोरजा' इति वा पाठः । रजसः पर इति विग्रहः । वाहुलकात्समासः । पृषोदरादित्वादोकारश्च । य एषस्तपति स त्वां पुनातु । अनेन 'अन्तस्तद्धर्मोपदेशात्' इत्यधिकरणार्थः सूचितः । परोरजसामित्यनेन 'उदेति ह वै सर्वेभ्यः पाप्मभ्यः' इति श्रुतिश्चोदिता ॥ अना मयमारोग्यम् । प्रजापालकस्य मातुः राममातुः कौसल्यावाः । इदं च साभिप्रायम् । अनामयमित्यनेन एवं दुःखिनी कियचिरं जीवयिष्यतीत्युपालम्भो व्यज्यते ॥ निरवशेष निःशेषमतिनिष्टर अतिरूक्षम् । अनेनेषमन्युना 'अप्यनामयं प्रजापालकस्य मातुः- बनेन व्यज्यते न क्रोधेन । देवस्य भवितव्यतायाः दुर्योगः दुःखजननसनाहः । पस्किल यस्माद्धेतोः प्रवृत्ता प्रसूता बीभत्सा जुगुप्सनीया किवदन्ती जनश्रुतिः येषां तथोकाः । 'किंवदन्ती जनश्रुतिः' इत्यमरः।पौराः पुरेभवा ।तस्मादेवटुयोगः कोऽपीति पूर्वेणान्वयः। अनल्पकाः अत्यल्पाः । अग्निशुद्धि न च प्रतियन्ति न विश्वसन्ति च । इति पूर्वोक्ताद्धतो: दारुणं परित्यागात्मकं रौक्ष्यम् ॥ अभिशुद्धिरिति क इति योजना । प्रस्ताव इति शेषः ।

  उ. रा. १०  अरुन्धती--(निश्वस्म ।) एवमेतत् । अमिरग्निरिति वत्सां प्रति लधून्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वत्से,

  शिशुर्वा शिष्या बा यदसि मम तत्तिष्ठतु तथा
   विशुद्धेरुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति ।
  शिशुत्वं स्त्रैणं वा भवतु ननु वन्द्यासि जगतां
   गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ॥ ११ ॥

 कौसल्या-अहो, समुन्मूलअन्ति विज वेअणाओ। (इति मूर्च्छति ।)

 जनक:- हन्त, किमेतत् ।

 अरुन्धती- राजर्षे, किमन्यत् ।

  स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः
   स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम् ।
  विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी
   पुरंध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥ १२ ॥


 १. अहो, समुन्मूलयन्तीव वेदनाः।


एवंवादिना अमिशुद्धिरिति वादिना जनेन परिभूयामहे अवमन्यामहे । उपसर्गवशेन भवतेः कर्मणि लकारः ॥ एतत्परिभूयामहे इत्येतत् । एवं जनकोक्तदशासद्भाव एव । लघून्यक्षराणि लाघनापादकशब्दाः । सीतेत्येव पर्याप्तम् । वहिसीतयोः पावनस्वे समकक्ष्यत्वात्प्रत्युत सीतायाः प्रकर्षात्सीताशब्द एव परिपूर्ण इति भावः । शिशरिति । रवं मम शिशुर्वा शिष्या वासीति यत् तसिष्टविति योजना । विशुद्धः निर्दोषताया: उत्कर्षः अतिशयः । तथा भक्ति अन्यादृशीं पूजनीयताप्रतिपत्ति त्वयि मम द्रढयति स्थिरां करोति । शिशुत्वं स्त्रैणं स्त्रीत्वं वा । 'स्त्रीपुंसाभ्यां नलजी' इति नन्प्रत्ययः । भवतु स्यात् । न तु सावता वन्द्यावहानिः । जगतां वन्द्यासि अभिवादनीयासि । नचित्यवधारणे । गुणाः गुणिषु अहिंसाशौचमस्तेयमिलायुक्तगुणवत्सु पूजास्थानमन्वयव्यतिरेकाभ्यां पूजाप्रयोजकाः । लिङ्गजटोपवीतादिकं न पूजाप्रयोजक्रम् ॥११॥ वेदना दुःखानि । समुन्मूलयन्ति मूलमुत्पाटयन्ति । इति मूच्छति भू मभिनयति ॥ हन्त' किमेतत् । शस्त्राभिषातादिकमन्तरा मूछो विस्मयनीयेत्यधः ॥अन्यत्किम् । वक्ष्यमाणादन्यन्न किमपीत्यर्थः । स राजेति । स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसा इति यत्तदखिल सुहृदि त्वयि दृष्टे सति स्मृतावाविर्भूतं कस्याप्यंशस्य प्रतोषेण स्मृतिविषयीभूतम् । 'सदृशा दृष्टचित्तायाः स्मृतिबीजस्य बोधकाः' इत्युक्तेः। पोरे भयकरे अस्मिन्निपाके प्रकृतसीतात्यागरूपदैवपर्यवसाने तब सखी कौसल्या विमूढा नेति न ! अप्यनामयमस्या इत्यादिभवद्वचनमङ्गथाविष्कृतो भवन्मतरीत्या योऽस्थाः कठिनचित्त जनकः-हन्त सर्वथा नृशंसोऽस्मि । यञ्चिरस्य दृष्टान्प्रियमुहृदो प्रियदारानस्निग्ध इव पश्यामि ।

  स संबन्धी श्लाव्यः प्रियसुहृदसौ तच्च हृदयं
   स चानन्दः साक्षादपि च निखिलं जीवितफलम् ।
  शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं
   महाराजः श्रीमान्किमपि मम नासीद्दशरथः ॥१३॥

कष्टमियमेव सा कौसल्या।

  यदस्याः पत्युर्वा रहसि परमं त्रायितमभू-
   दभूयं दम्पत्योः पृथगमुपालम्भविषयः ।
  प्रसादे कोपे वा तदनु मदधीनो विधिरभू-
   दुलं वा तत्स्मृत्वा दहति यदवस्कन्ध हृदयम् ॥ १४ ॥


ताप्रयुक्तमू भावो वा नेत्यर्थः । पुरंध्रीणां चित्तं हि यस्मारकुसुमपन्मृदु तस्माद्विमूढानेतिन॥१२॥ एवमरुन्धत्या बोधितोऽतुतपति- हन्तेति। योऽह चिरस्य दृष्टयन चिराहशान्प्रियसुहृदो दशरथस्य विप्रान्मत्प्रीतिविषयान्मयि प्रीतिचुक्तान हि दारान कौसल्यामस्निग्ध इव शत्रुरिव पश्यामि शत्रुकर्तृकदर्शनसदृशदर्शनवानसि । सोऽहं सर्वप्रकारेण क्रूरोऽस्मि । हन्त अनुतप्यते । स संबन्धीत्यादि । श्रीमान् लक्ष्मीवान्महाराजः सावैभौमः स दशरथः मम इलाध्यः संबन्धी अभूत् । असौ संबन्धीभूतो दशरथः प्रियसुहृदभूत् प्रीतिमान् शोभनहृदयवांश्चाभूत् । 'सुहद्द हृदौ मित्रामित्रयोः' इति हृदयशब्दस्य हृदादेशः । तदन्तरङ्गत्वेन प्रसिद्ध हृदयं चाभूत् । चकारेण संबन्धिसुहत्वसमुच्चयः । तदिति दशरथपरं विधेयप्राधान्याक्लीवत्वम् । एवं च तत् संवन्धिसुहद्भूतदशरथः हृदयं चाभूदिति वा । स पूर्वोक्तत्रयात्मा दशरथः साक्षादानन्दश्च । साक्षाच्छन्देनानन्दहेतावानन्दत्वात्कोपो व्यावर्तते । साक्षान्मुख्य इत्यर्थः । निखिलं जीवितफलमपि च कर्मशानभक्तिरूपं जीवनप्रयोजनं च । चकारः पूर्वसभुच्चायकः । शरीरमभूदुर्लभो मानुषो देह इत्युक्तं शरीरं चाभूत् । सकलधर्मसाधनत्वात् ।जीवो वाभूत्। जीवश्चाभूतस्य हि ज्ञानानन्दमयत्वात्प्रेमास्पदत्वम् । अतो जीवादधिक समस्तकल्याणगुणामृतोदधित्वेनानन्दमयत्वेन च प्रकृष्ट प्रियतरं प्रियो जीवः प्रियतरं ब्रह्म तथाविध थापरं वृक्ष तदभूत् । अत एव ततः कि नाभूत् । सर्वमप्यभूदित्यर्थः । लोके संबन्धि सुहृदादीनां तत्तन्मात्रत्वमस्य तु सर्वदा सर्वविधत्वमिति भावः ॥ १३॥ यदस्या इति। अस्या वा पत्युर्दशरथस्य वा यत्परम नायितमभूदहसि गुप्तभाषण विचारो वा जातः । आचारणिजन्तात्कर्तरि क्तः । तत्राद्द दम्पत्यो यापलोः पृथगुपालम्भविषयोऽभूवं परस्परपरिहारेण परस्परविषये अयमेवमुक्तवानयमेवं कृतवानियमेवमुक्तवती इयमे कृतवतीलादिपरस्परापराधकथनपात्रमासम् । 'परमत्याहितमभूव' इति पाठोऽपि दृश्य ते। प्रणयकलहरूपजीवानापेक्षकमेति तदर्थः । शेष पूर्ववत् । तदनु उपालम्मानन्तरं  अरुन्धती-हा कष्टम् । अतिचिरनिरुद्धनिःश्वासनिप्पन्दहृदयमस्याः ।

 जनक:--हा प्रियसखि । (इति कमण्डलूदकेन सिम्बति ।)

 कचकी-

   सुहृदिव प्रकटय्य सुखप्रदा
    प्रथममेकरसामनुकूलताम् ।
   पुनरकाण्डविवर्तनदारुणः
    परिशिनष्टि विधिर्मनसो रुजम् ॥ १५ ॥

 कौसल्या--(आश्वस्य ।) हो वच्छे जाणइ, कहिं सि । सुमरामि दे णवविवाहलञ्चीपरिग्गहेक्कमङ्गलं संप्फुल्लमुद्धमुहपुण्डरीअं आरुहन्तकौमुदीचन्दसुन्दरम् । एहि मे पुणो वि जादे, उज्जोएहि उच्चङ्गम् । सञ्चहा महाराअ एवं भणादि । एसा रहुउलमहत्तराणं वहू अम्हाणं दु जणअसुदा दुहिदेव ।


 १. हा वत्से जानकि, कुत्रासि । मरामि ते नवविवाहलक्ष्मीपरिग्रहेकमङ्गलं संकुल्लमुग्धमुखपुण्डरीकमारुहत्कौमुदीचन्द्रसुन्दरम् । एहि मे पुनरपि जाते, उद्योतय उत्सङ्गम् । सर्वदा महाराज एवं मणति । एषा रघुकुलमहत्तराणां वधूरस्माकं तु जनकसुता दुहितैब।


प्रसादानुष्ठाने कोपानुष्ठान वा । मदधीनमभूदित्यर्थः । स्मृत्वालम् । तत्स्मरणेन सा अं नास्तीत्वर्थः । यदृदयमबस्कन्धाक्रम्य दहति भरलीकरोति । तस्मृत्वाल कोपत्रसादयोरन्यविषयत्वं च पाठद्वये क्रमाद्विवक्षितम् । तत्र हि परस्परेत्युक्तिरुपलक्षणार्थी ॥१४॥ निरुद्धाः संचाररहिताः श्वासाः प्राणवायवो यस्मिन् तथोक्त निष्पन्दं च ॥ मुहदिति । विधिः प्रथममादौ सुहृदिव मित्रमिव सुखप्रदामेकरसामेकप्रकारामनुकूलतां योगक्षेमहेतुभूतां प्रकटय्ब प्रकाशयित्वा पुनरनन्तरमकाण्डेन निनिमित्तेन विवर्तनेन ब्यत्यस्तपरिपाकेन दारुणः सन् क्रूरः सन्मनसो रुजं हृदयपीडा परिशिनष्टि परिशिष्टां करोति । अकाण्डनिवर्तनेन दारणोऽकाण्डनिवृत्तो भू.वेलच्याहुः । सुहृदपि त्यक्त्वा गतश्चन्मन:- पीडां करोतीति साम्यम् ॥ १५॥ नवविवाहलक्ष्याः परिग्रहेण एक मुख्य माल बस्य तथोक्तम् । कौमुद्यां कृत्तिकापौर्णमास्यां भवश्चन्द्रः कौमुदीचन्द्रः । आरोहन्ती प्राटुभवन्ती या कौमुदीचन्द्रचन्द्रिका तद्वत्सुन्दरमहं यस्यास्तथोका । उत्सझममुद्योतय उपवेशेन प्रकाशय । सर्वदा सर्वस्मिन्काले महाराजो दशरथः । एषा सीता रघुकुले महत्तारा ये मनुप्रभृतयस्तेषां वधूः स्नुषा । जनकमुना सीता अस्माकं तु मम तु दुहितैव मदभिप्रायेण दुहितैवेत्येवं भणति ॥ देवी कौसल्या यथाह । तथैवेति शेषः ।  कक्षुकी—यथाह देवी ।

  पञ्चप्रसूतेरपि तस्य राज्ञः
   प्रियो विशेषेण सुबाहुशत्रुः ।
  वधूचतुकेऽपि तथैव नान्या
   प्रिया तनूजास्य यथैव सीता ॥१६॥

 जनक:- हा प्रियसख महाराज दशरथ, एवमपि सर्वप्रकारहृदयंगमः कथं विस्मयते ।

  कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं
   संबन्धे विपरीतमेव तदभूदाराधनं ते मयि ।
  त्वं कालेन तथाविधोऽप्यपहृतः संबन्धबीजं च त-
   दोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम् ॥१७॥

 कौसल्या-जादे जाणइ, किं करोमि । दिवजलेवपडिबद्धणिञ्चलं हदजीविदं मं मन्दभाइणी ण पढिन्चअदि ।


१. जाते जानकि, किं करोमि । दृढवज्रलेपप्रतिबन्धनिश्चलं हतजीवितं मां भन्दभागिनी न परित्यजति । पञ्चमसूतेरिति । पञ्च प्रसूतयः पुत्राः यस्य तथोकस्यापि । तस्य राज्ञः पशिरवस्य सुबाहुशत्रुः रामः विशेषेण प्रियः इष्टः । पञ्च प्रसूतयो यस्मिन् वन्दे इति वा निग्रहः । निर्धारणे षष्ठी । 'तृतीयादिषु भाषितपुंस्कं पुंबगालवस्य' इति पाक्षिकः पुंवद्भावः । पञ्चानां मध्ये रामः प्रिय इत्यर्थः। रामादयश्चत्वारः शान्ता चेति पञ्च । वधूचसुष्केऽपि सीतादिनुषाचतुषयेऽपि अस्य जनकस्य तनूजा सौता यथा तस्य राज्ञो दशरथस्य प्रिया तथा अन्या ऊर्मिलाप्रभृतिः रानः प्रिया न । अस्य तनूजा सीतेत्यनेन सीताया एव जनकाभिसंधिना तनूजाले नान्चासामिति व्यज्यते । वधूवतुकेऽपीति निर्धारणे सप्तमीदर्शनात् ॥१६॥ सर्वैःप्रकारैर्धमः हृदयंगमः। कन्याया इति। संबन्धे कन्यावरतंयन्धे। कन्यायाः पितरो जनन्यः जनकाच जामातुर्वरस्याप्त संनिहितवन्धुं जनंपूजयन्ति किल स्वभावयन्तीति प्रसिद्धम् । तदाराधनं पूजनं ते मयि विपरीतमभूत् । त्वत्कर्तृकमद्विषयकपूजनं सत् प्रतिलोमं जातमित्यर्थः । तथाविधोऽपि त्वं कालेनापहृतः । मया पूज्यमानं भवन्तं भ्रष्टुमन्याय्यं तावद्भाग्याभावेऽपि केदलं ना भवन्तं द्रष्टु मदीयदैबदुर्विपाको नाक्षम्यतेति भावः । संबन्धबीजं सीता चापहतं लिडविपरिणामः । पूर्वोकन्दोरभावेऽपि तादृशभवदभिमता सीतापि दैवेन नाक्षम्यतेति भावः । घोरे भयंकरे अस्मिन्नेवविधबहुदुःखभाजने जीवलोकबिले पापस्य पूजनविपर्यासादिहेतुभूतदुरितप्रचुरस्य मम जीवितं प्राणधारणं धिक् । तत्कार्मिका िन्देत्यर्थः । अत्रेदानी भवत्पू अरुन्धती----आश्वसिहि राज्ञि 1 बाप्पविश्रामोऽप्यन्तरेषु कर्तव्य एव । अन्यच्च किं न स्मरसि ! यदयोचदृष्यशृङ्गाश्रमे युष्माकं कुल- गुरुः । भवितव्यं तथेत्युपजातमेव । किंतु कल्याणोदक भविष्यतीति ।

 कौसल्या- कुंदो अदिक्कन्दमणोरहाए मह एदम् ।

 अरुन्धती-तत्कि मन्यसे राजपत्रि, मृधोद्यं तदिति । न हीदं क्षत्रिये मन्तव्यम् ।

  आविर्भूतज्योतिषां
   ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् ।
  भद्दा ह्येषां वाचि लक्ष्मीनिषक्ता
   नैते बाचं विष्ठतार्थी वदन्ति ॥१८ ॥

(नेपथ्ये कलकलः । सर्वे आकर्णयन्ति ।)

 जनक:---अये, शिष्टानध्ययन इत्यस्खलितं खेलतां बटूनां कोलाहलः ।


१. कुतोऽतिक्रान्तमनोरथाया ममैतत् ।


जाद्यभावेऽपि यत्र तलाभो लोकान्तरे तत्र गमनस्यापि मदीयजीवनयोनिदुरितप्रतिबन्धकामेति भावः ॥१७॥ दृढेन वमलेपेन बन्धकद्रव्यलेपेन यः प्रतिबन्धो विश्लेषानुत्पादस्तेन निश्चलं हतजीवितं निन्धजीवितम् ॥ आश्वत्तिहि आश्वासं दुःखलधूकरण प्रामुहि । बाष्पस्य दुःखाश्रुणः विश्रामो विच्छेदोऽपि । अपिशब्देन बाष्पादिकं समुन्चीयते । अन्तरेषु मध्ये मध्ये। अन्यच्च बाष्पवित्रामादन्चदपि । यत्कुलगुरुर्वसिष्ठः अवोचत्तन स्मरसि किम् । भवितव्यं तथेति परित्यागरूपेण भवनं परिहार्यमिति हेतोः । उपजातमापाततो जातम् । न त्वन्ततस्तथेत्यर्थः । कल्याणोदक मालपर्यवसायि भविष्यतीति चदवोचतन्त्र स्मरसि किम् ॥ अतिक्रान्तमनोरथाया असंभाव्याभिलाषविषयायाः ॥ सृषोद्यमिति मिथ्यावचनामिति । आविर्भूतेति । आविर्भूतज्योतिषां परज्योतिर्विषयकापरोक्षज्ञानवतां ब्राह्मणानां विप्राणां ये व्याहारा उक्तयस्तेषु संशयः प्रामाण्यसंदेहो माभूत् नोत्पत्त्यः । हि यस्मादेषां ब्राह्मणानां वाचि भद्रा मङ्गलकरी लक्ष्मी अर्थोपधायकत्वातिशयः । निषका निससङ्गिनी भवति । एते आविर्भूतज्योतिषो भाह्मणाः विलुतार्थामसदों वावमेकामपि चिरं न वदन्ति नोचारयन्ति । पूर्वत्र बहुवचनं तदीयसर्ववानामपि प्रामायबोधनार्थम् , अत्रैकवचन तु तदीययत्किन्चितचोऽप्यप्रामाण्यं नेति बोधनार्थमिति दृष्टव्यम् । अत्र श्लोके 'सत्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकत । अत्रा सखायः सख्यानि जानवे भदैषां लक्ष्मीनिहिताधिवाचि ॥'  कौसल्या मुलहसोक्खं दाणि बालत्तणं होदि । (निरूप्य ) अम्हहे, एदाण मज्झे को एसो रामभद्दस्स कोमारलच्छीसावट्ठम्मेहिं मुद्धललि- देहि अङ्गेहिं दारओ अम्हाणं लोअणे शीअलावेदि ।

 अरुन्धती--(स्वगतम् । सहर्षोत्कण्ठम् ।) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम् । नत्वेवं विद्मः कतरोऽयमायुप्मतोः कुशलवयोरिति । (प्रकाशम् ।)

  कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो
   बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ।
  पुनरपि शिशुभूत्वा वत्सः स मे रघुनन्दनो
   झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ १९ ॥

 कञ्चकी-नून क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये ।

 जनकः--एवमेतत् । अस्य हि

 चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो
  भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ।


 १. सुलभसौख्यमिदानी बालत्वं भवति । अहो, एतेषां मध्ये क एष रामभद्स्य कौमारलक्ष्मीसावष्टम्भैर्मुग्धललितैरङ्गैरिकोऽस्माकं लोचने शीतलयति ।


इति श्रुतिः स्फोरिता॥१८॥शिष्टागमनप्रयुकाध्ययनाभावः शिष्टानध्ययनः॥सुलभ सौख्य यस्मिस्तथोक्तम् । अनेन 'वृद्धो जनो दुःखशतानि मुझे इत्युक्तवार्द्धकनिन्दा न्यज्यते । रामभद्रस्य कौमारलक्ष्मया चन्द्रवदाहादकारिरामशैशवस्य योऽयमवष्टम्भ: आलम्भनं तत्सहितैः । लक्ष्मीपदेन शैशवस्य स्पृहणीयत्वं व्यज्यते । संबन्धशब्दत्वात्साक्षेपस्वेऽपि समासः । मुग्धललितैः सुन्दरसुकुमारैः ।। हर्षः इष्टागमात्प्रीतिः । उत्कण्ठा आकारादिविषयाभिलाषः । भागीरथीनिवेदितं गड्डया कथितं रहस्यं गूटं बत्कर्णयोरमृतबद्भोग्यम् । तदिदं नामायुष्मतोः कुशलवयोर्मध्ये कतरोऽयमिति कुश इति वा लब इति वा न विद्यः न जानामि । 'अस्मदो योश्च' इत्येकत्वे बहुवचनम् । कुघलयेति । शिखण्डकमण्डनः कामपक्षधरो बटूनां ब्रह्मचारिणां परिषद सदः श्रिया कान्त्या सभाजयन्नलकुर्वन् । अमृताजनसमृतमयमजन शीतलत्वादिभिः । तद्धि रमणीयमिति कविसमयप्रसिद्धिः॥१९॥ मन्ये अनुमिनोसि ॥ एतद्भवता संभाव्यमानमेवं वस्तुभूतम् । चूडाचुम्बितेति । चूडाचुम्बितानि संयुक्तामाणि कङ्कपत्राणि बाणपक्षा यस्मिस्तथो'साम् । पृष्टतोऽभितः पृष्ठे। दूयोर्भागयोरित्यर्थः । भस्ममय स्तोकमल्पं पवित्रं पावनं लाञ्छन पुण्ड्रं यस्य स तथोक्तम् । उरः रौरवीं ऐणेयी त्वचं धत्ते । मौात्मकरश

 मौा मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं
  पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २० ॥

भगवत्यरुन्धति, किमित्युत्प्रेक्षसे कुतस्त्योऽयमिति ।

 अरुन्धती-अद्यैष व्यमागताः ।

 जनकः-आर्य गृष्टे, अतिकौतुकं वर्तते । तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ। इमं च दारकं ब्रूहि । वत्स, केऽप्येते प्रवयसस्त्वां दिदृक्षव इति ।

 कञ्चुकी यदाज्ञापयति देवः । (इति निष्कान्तौ ।)

 कौसल्या-कि मण्णेध । एवं मणिदो आअमिस्सदि वा ण वेति ।

 जनक:-भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य ।

 कौसल्या–(निरूप्य )) कहें सविणअणिसमिदगिट्टिवअणो विसजिदासेससरिसदारओ एत्तोमुहं अवसारिदो एव स बच्छो ।

 जनक:---(चिरं निर्वर्ण्य 1) भोः, किमप्येतत् ।

  महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो
   विदग्धैर्नियाह्यो न पुनरविदग्धैरतिशयः ।


 १. किं मन्यध्ये । एवं भणित आगमिष्यति वा न घेति ।

 २. कथं सविनयनिशमितगृष्टिवचनो विसर्जिताशेषसशदारक इतोमुखमपसरित एव स वत्सः।


नया नियन्त्रितं माअिष्ठं मनिष्ठरकं वासः अधः उरसोऽधस्तात् । क्षत्रियब्रह्मचारिणा मेखलेत्युक्तं माजिष्टं राजन्यस्य इति च । पाणौ कार्मुकं धनुरक्षसूत्रवलयं जपमालिकाबलयम् । अस्तीति शेषः । 'अपरे पैप्पलः' इति पाठे अपरे पाणौ अश्वत्थदण्डः । 'अपरः पैप्पलः इति पाठे धनुर्दण्डादपरः । अन्य इत्यर्थः ॥२०॥ कुतस्त्यः कस्माद्भवः ॥ अतिशथितं कौतुकं विशिष्टचस्तुजिज्ञासौत्कण्ठ्यम् । प्रबयसो वृद्धाः । दिदृक्षवः द्रष्टुमिच्छवः ॥ थदाज्ञापयतीत्यत्र तदनुतिष्ठामीति शेषः ॥ एव भणितः प्रवयसस्त्वां दिदृक्षव इत्युक्तः सन् आगमिष्यति किमिति मन्यध्दे । कि संदिग्धे ॥ ईदृशस्य लोकोत्तरस्य निर्माणस्थाकारस्य । निर्मीयते यनिर्माणम् । कर्मगि ल्युट । 'कृत्यल्युटो बहुलम् इत्युक्तेः। सद्वृत्तं सदाचारो भिद्यते या। छिन्नं भवति किमित्यर्थः। कर्मवत्कर्मणा' इति यगात्मनेपदे॥ सविनयं निशमितं श्रुतं गृष्टिवचनं येन तथोक्तः ॥ एतद्वक्ष्यमाणं किमपि अपूर्वमिवर्षः । तदाह- महिनामित्यादि। विनयेन ज्ञानवृद्धशीलवृद्धसन्निधौ खनिकर्षपर्यवसाव्यवस्थानेन शिशिरः शीतलः मौग्ध्येन वाल्येन मसूणः पौरुष्यरहितः । बिदग्धैः सूक्ष्मदर्शिभिर्निग्रीह्यो निणेयः । अविदग्वैः पुनर्न प्राह्यो निर्णेतुमशक्यः । एतस्मिन्महिमामतिशयः लवनिष्ठप्रकृष्टज्ञानतेजःप्रकृतिगुणादिमाहात्म्यानामुत्कर्षः। संमो

  मनो मे संमोहस्थिरमपि हरत्येष बलवा-
   नयोधातुं यद्वत्परिलधुरयस्कान्तशकलः ॥ २१ ॥

 लव:--(प्रविय ।) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथमभिवादयिष्ये । (विचिन्व) अयं पुनरविरुद्धमकार इति वृद्धेभ्यः श्रूयते । (सबिनयमुपसल ।) एष वो लवसा शिरसा प्रणामपर्यायः ।

 अरुन्धतीजनकौ-कल्याणिन्, आयुष्मान्भूयाः ।

 कौसल्या-जाद, चिरं जीव ।

 अरुन्धती--एहि वत्स । (लवमुत्सझे गृहीत्वा । आत्मगतम्) दिष्टया न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः ।

 कौसल्या-जाद, इदो वि दाव एहि । (उत्सङ्गे गृहीत्वा ।) अम्हहे, ण केवलं दरविप्पटकन्दोट्टमंसलुज्जलेण देहबन्धणेण कवलिदारविन्दकेसरकसाअकण्ठकलहंसघोसघाघराणुणादिणा सरेण अ रामभई अणुसरेदि । णं कठोरकमलगभप्फम्मलसरीरप्पस्सो वि तारिसो एव्य । जाद,


 १. जात, चिरं जीव।

 २. जात इतोऽपि तावदेहि । अहो न केवलं दरांवेस्पष्टकुवलयमांसलोज्ज्वलेन देहबन्धनेन कवलितारविन्दकेसरकषायकण्ठकलहंसघोषधर्घरानुनादिना स्वरेण च रामभद्मनुसरति । ननु कठोरक्रमलगर्भपक्ष्मलशरीरस्पर्शी-


हेन मूच्र्छया स्थिरमपि काष्ठवनिष्पन्दमपि मे मनश्चित्तं परिलबुरल्पः अयस्कान्तशकल: अयस्कान्तखण्डः अयोधातुं यद्वलोपिण्ड मिव हरति कर्षति । अत्र विनयशिशिरो मौग्ध्यमसृण इत्याभ्यां सलिलहिमोपष्टम्भेन ज्योत्नीभवतां सूर्यतेजसा सादृश्यं व्यज्यते ॥२१॥क्रमः सत्काराद्यानुपूर्ये वयः स्थाविरादिकं वचःकमस्तस्यौचित्य प्राप्तवता । ज्ञात च तद्वयःमौचित्य तस्याभावः अज्ञातवयःक्रमौचित्यम् । अर्थाभावे अव्ययीभावः । अ. पक्षम्या इति प्रतिषेधादम्भावो न । तथा च वयःक्रमौचित्यज्ञानाभावादित्यर्थः । क्र. यमभिवादचिध्ये केन क्रमरूपप्रकारेण नमस्करिष्ये । अविरुद्धः अविपरीतः प्रकारोऽनुष्टानविशेषः । सामान्यवृद्धविषयकप्रणामकरणरूप इति भावः । सभायां प्रत्येक न नमस्कुर्यादिति गौतमस्मरणमिहाभिप्रेतम् ॥ उत्सके अङ्के । दिष्टयेत्यानन्दे । उत्सङ्गः केवलं न पूरितः किंतु मनोरथोऽपि पूरित इत्यर्थः ।। जातेति संबोधनम् । विपटमिति विस्तृतवाचकम् । कन्दोडशब्दः कुवलयवाची । घरच कांस्यध्वनिस्तद्वदनुकरणं तथाविधेन । अनुसरति अनुकरोति । कठोरस्य समप्रस्य कमलस्य गर्भवदान्तरपत्रवत्पश्मलः स्फीतः तादश एव राभद्रस्पर्श सदृश एव । चुबुकनवराधोदेशम् । निपुणं निरूप्यमाणः हेतुभिः पटुतरं विचार्यमाणः । अयमिति शेषः । मुख पेक्खामि दे मुहपुण्डरीअम् । (चुबुकमुन्नमय्य निहाय साध्याकूतम् । राएसि, किण पेक्वसि । णिउणं णिरूवज्जन्तो वच्छाए मे बहुए मुहच- न्देण वि संवददि एव ।

 जनकः-पश्यामि सखि, पश्यामि ।

 कौसल्या-अम्हहे, उम्मत्तीभूदं विअ मे हिअअं कुदोमुहं क्लिवदि।

 जनकः-

 बरसायाश्च रहस्य च शिशायस्मिन्नभिव्यज्यते
  संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः ।
 सा बाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ
  हा हा देवि किमुत्पधैर्मम मनः पारिप्लवं धावति ॥ २२ ॥

 कौसल्या-जाद, अस्थि दे मादा, सुमरसि वा तादम् ।

 लव-नाहि ।

 कौसल्या-तेंदो कस्स तुमम् ।


ऽपि तादृश एव । जात, पश्यामि ते मुखपुण्डरीकम् । राजर्षे, किं नपश्यसि । निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवत्येव ।

 १. अहो, उन्मत्तीभूतमिव मे हृदयं कुतोमुख विलपति ।

 २. जात, अस्ति ते माता, स्मरसि वा तातम् ।

 ३. ततः कस्य त्वम् ।

चन्द्रेण संवदस्येव । सीतामुखचन्देति यौगिकसादृश्यप्रमाणविषयो भवति ॥ पश्यामि सखि पश्यामीति आदराद्विरुक्तिः ॥ उन्मत्तीभूतमिव विभ्रान्तमिव कुतोमुख यत्र क्वापि असंभाव्यविषये लममिति यावत् । विलपति परिदेवयति । 'विकलते' इति च पाठः ॥ बत्साया इति । अस्मिन् शिशौ लवे वत्सायाः सीताया रहस्य रामचन्द्रस्य च संवृत्तिः संपर्कः । संबन्ध इत्यर्थः । प्रतिविम्बितेवाभिव्यज्यते अभिव्यका भवति । दर्पणादौ बिम्बवदृश्यत इत्यर्थः । निखिला कृत्स्ना आकृतिरवचवस्थानविशेषः सैव सीता रघुबहसंबन्धिन्येव । द्युतिर्लावण्यं तयोरेव संबन्धिनी । वाणी लवस्य वाक् सा तयोरेव संबन्धिनी । विनयः प्रश्रयः स एव सहजः स्वाभाविकः । पुण्यश्वासी पावनवासी अनुभावः समीचीनव्यवसायः । असौ सीतारधूद्रहसंबन्ध्येव । अदूरविप्रकृष्टवान्च्चोऽदःशब्दः । 'अनुभावः प्रभावै च सतां च मतिनिश्चये' इत्यमरः । देवि सीते, मम मनः पारिप्लवं सत् चञ्चलं सत् उत्पथैरमार्ग: धावति अनवस्थितं भवति । हा हा। दुःख्यत इत्यर्थः । देवीत्यनेन देवभूयगतायास्तव क्रथामिद संगच्छत इति व्यज्यते । अत एव द्युत्पथैरित्युक्तम् । अत्र च 'ऋक्पूरब्धःपथामा--' इति समासान्तः ॥२२॥ कस्म  लव:-भगवतः सुगृहीतनामधेयस्य वाल्मीकेः ।

 कौसल्या-अयि जाद, कहिदश्वं कहेहि ।

 लवः--एतावदेव जानामि ।

(नेपथ्ये।)

भो भोः सैनिकाः, एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या इति ।

 अरुन्धतीजनको-अये, मेध्याश्वरक्षाप्रसन्नादुपागतो वत्सश्चन्द्रकेतुर्द्रष्टव्य इत्यसौ सुदिवसः।

 कौसल्या-वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमिदबिन्दुसुन्दराई अक्खराई सुणीअन्दि ।

 लबा-आर्य, क एष चन्द्रकेतुर्नाम ।

 जनकः-जानासि रामलक्ष्मणौ दाशरथी ।

 लवः–एतावेव रामायणकथापुरुषो ।

 जनक:-अथ किम् ।

 लव:-तत्कथं न जानामि !

 जनक:-तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः ।

 लवः--ऊर्मिलायाः पुत्रस्तहि मैथिलस्य राजदौहित्रः ।

 अरुन्धती-आविष्कृत कथाप्रावीण्यं वत्सेन ।

 जनकः--(विचिन्त्य) यदि त्वमीदृशः कथायाम


 १. अथि जात, कथितव्यं कथय ।

 २. वत्सलक्ष्मणस पुत्रकः आज्ञापयतीत्यमृतविन्दुसुन्दराण्यक्षराणि श्रूयन्ते ।


त्वम् । कस्माजात इत्यर्थः । सुगृहीत सुष्टु प्रतिपादितं नामधेयं यस्य तथोक्तस्य वाल्मीकेस्तस्माज्जातः॥ सैनिकाः सेनासमवायिनः । अभ्यर्णभूमयः समीपदेशाः । ता: नाक्रसितव्या न केनापि स्प्रष्टव्या इति । आज्ञापयतीत्यर्थः॥मेध्याश्वस्य यज्ञाशाश्वस्य प्रसङ्गादवझ्यानुरोव्यत्वाद्धेतोः द्रष्टव्य इति सुदिवसः । चन्द्र केतुदर्शनाच्छोभनदिवसोऽयं विस्मयनीय इत्यर्थः ॥ अमृतबिन्दुसुन्दराश्वक्षराणि सुधापृषत इव भोग्याः वर्णाः ॥ दाशरथी दशरथपुत्रौ जानाति किमिति काका योजनीयम् ॥ रामायणकथायाः रामायणमामकवाक्यप्रबन्धस्य पुरुषौ प्रतिपाद्यौ ॥ अश्व किमिलङ्गीकारे । तहिं ऊर्मिलापुत्रत्वे मैथिलस्य मिथिलाधिपतेः ॥ आविष्कृत प्रकाशितम् । वत्सेन लवेन ॥ कथायानभिज्ञस्तश्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किनामधेयान्यपत्यानि केषु दारेषु प्रसूतानि ।

 लव-नायं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः ।

 जनक:--किं न प्रणीतः कविना ।

 लव-प्रणीतो न प्रकाशितः । तस्यैव कोऽप्येकदेशः प्रबन्धान्तरेण रसवानभिनेयार्थः कृतः । तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजद्भगवतो भरतस्य तौर्यत्रिकसूत्रधारस्य ।

 जनकः किमर्थम् ।

 लव:–स किल भगवान्भरतस्तमप्सरोभिः प्रयोजयिष्यतीति ।

 जनक: सर्वमिदमाकूततरमस्माकम् ।

 लवः-महती, पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषांचिदन्तेवासिना हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम् । तेषामनुयात्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मदाता प्रेषितः ।

 कौसल्या-भादावि दे अस्थि ।

 लवः-अस्त्यायः कुशो नाम ।

 कौसल्या-जडेत्ति भणिदं होदि ।


 १. भ्रातापि तेऽस्ति ।

 २. ज्येष्ठ इति भणितं भवति ।


त्प्रतिपाद्यार्थज्ञानवान् । किंनामधेयानीलारभ्य केषु प्रसूतानीत्यन्तस्य ब्रूहीत्यनेनान्चयः । पश्यामः अस्मज्ञातविषयकवचनं शृणुम इत्यर्थः । कथाविभागः कथकदेशः ॥ प्रणीतः किं न प्रवन्धः कि नोक्तः किमिति वा न प्रकाशितः न श्रावितो नाध्यापितश्च ।। तस्य रामायणस्य कोऽपि अनिर्वारितः एकदेशोंऽशः । स च सप्तमे वक्ष्यमाणान्तनीटकार्थक इति ज्ञेयम् ॥ अनन्धान्तरेण श्राव्यप्रवन्धातिरिक्तदृश्यप्रबन्धरूपकरूपेण वा रसवान् करुणाद्भुतरसप्रतिपादकः सर्वोकर्णनादितररसप्रतिपादक: अभिनेयः सत्वाशिकादिचतुर्विधाभिनयप्रकाश्योऽर्थः अभिधेयः यस्य तथोकीकृतः।" मुनिर्याल्मीकिः । तौर्यत्रिकसूत्रधारस्य नृत्तगीतवादित्रशास्त्राचार्यस्य भरतस्य भावरागतालशास्त्राचार्यरवमूलकृत्तदायक्षरघटितभरतनामकस्य ॥ तं प्रबन्धं अंप्सरोभिः प्रयोज्यकर्तृभिः प्रयोजयिष्यतीखेतदर्थम् ॥ सर्वमिदं प्रणीतस्याप्रकाशनं प्रबन्धान्तरेण करण भरतं प्रति प्रेषणं चाकूततरं गूढार्थकम् ॥ आस्था आवश्यकत्वप्रकारकेच्छा । अनुयात्रिकोऽनुवरः । प्रमादस्यानवधानप्रयुक्तप्रतीतस्य च्छेदनार्थ निवृत्त्यर्थमसभाता मसहजः ॥ आर्यः पूज्यः ॥ ज्येष्ठ इति भणितं भवति अग्रज इति ध्वनितं भवति ॥  लव:-एवमेतत् । प्रसवानुक्रमेण स किल ज्यायान् ।

 जनक:-किं यमावायुप्मन्तौ ।

 लव:--अथ किम् ।

 जनक:-बत्स, कथय कथाप्रपञ्चस्य कियान्पर्यन्तः।

 लव:-अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवी देवयजनसंभवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति ।

 कौसल्या-हा वच्छे मुद्धमुहि, को दाणि दे सरीरकुसुमस्स झत्ति देवदुबिलासपरिणामो एकाइणीए निवडिदो।

 जनकः---हा वत्से,

  नूनं त्वया परिमवं.च वनं च घोरं
   तां च व्यथां प्रसवकालकृतामवाप्य ।
  क्रव्याद्गणेषु परितः परिवारयत्सु
   संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥ २३ ॥

 लवः-आर्ये, कावेतौ।

 अरुन्धती--इयं कौसल्या । अयं जनकः । (लवः सबहुमानखेदकोतुक पश्यति ।)

 जनकः---अहो निर्दयता दुरात्मनां पौराणाम् । अहो रामभद्रस्य क्षिप्रकारिता।


 १. हा वत्से मुग्धमुखि, क इदानी ते शरीरकुसुमस्स झटिति दैवटुबिलासपरिणाम एकाकिन्या निपतितः ।


प्रसवानुक्रमेणोत्पत्तिरकारेण । ज्यायान् ज्येष्ठः । चमसाधारणपूर्वजानुजत्वन्यवस्थापकजननानुपूज्यण ज्येष्ठ इति भावः॥अत एव पृच्छति-कि यमाविति ॥ कथाप्रपञ्बस्य कथाविस्तरस्य । पर्यन्तोऽवसानम् ।यद्वाप्रपञ्चनं प्रकाशनं प्रपकस्तस्य कोऽवधिः । कियत्पबन्तं प्रकाशित इलाशयः ॥ भीको मिथ्याभूतः पौरापवादः पौरकर्तृकदोषकथन तेनोद्विमन संभ्रान्वेन राज्ञा रामेण निर्वासितां गृहाच्याविता देवयजनसंभवां यागभूमिजातां परित्यज्य लक्ष्मणः प्रतिनिइत्त इति यत् एष पर्यन्त इति योजना ॥ शरीरकुसुमस्य कुसुमसदृशशरीरस्य । दैवदुर्विलासस्य दैवदुश्चेष्टितस्य परिणामः फलोपधानम् । क इति दु.ख्यते ॥ नूनमिति । क्रव्यागणेषु व्यावादिषु परितः समन्तात्परिचारयत्सु सत्सु मण्डलीकृस व्याप्नुवत्सु सत्ल । संत्रस्तया त्वयाहं शरणमिति स्मृतः नूनं संभावये ॥ २३ ॥ दुरात्मनां दुर्बुद्धीनाम् । क्षिप्रकारिता असमीक्ष्यकारित्वम् ॥

  उ. रा. ११

  एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः
   क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा ।

 कौसल्या-(सभयकम्पम् ।) भैअवदि, परित्ताअदु । पसादेहि कुविदं राएसिम् ।

 लव:-

  एतद्धि परिभूतानां प्रायश्चित्त मनखिनाम् ।

 अरुन्धती-

  राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥ २४ ॥

 जनकः

  शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे
   भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः ॥ २५ ॥

(प्रविश्य संभ्रान्ता बटवः ।)

 कुमार कुमार, अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनास्माभिः खयं प्रत्यक्षीकृतः ।

 लयः-अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते । तद्भूत कीहसः।


१. भगवति, परित्रायताम् । प्रसादय कुपितं राजर्षिम् ।


 पतझैशसेति । एतद्वैशसमेव महाव्यसनमेव वनस्साशने?र पतन तीक्ष्णपातन शश्वदुत्पश्यतो मम क्रोधस्य शापेनानिष्टोपधायकसंकल्पेन चापेन च मारकधनुषा च झटिति ज्वलितुमवसरः प्राप्तकालता । राजर्षित्वादिति भावः । प्रसादय प्रसन्नं कुरु ॥ एतदिति । परिभुतानामतमतानां मनस्विनां महामनसां प्रायश्चित्तं कोपप्रतीकार: एतत् प्रसादनमित्यर्थः ॥ अपत्यं रामः कृपणजनाश्च ते पाल्याश्च रक्षणीयाः ॥ २४ ॥ शान्तं बेत्यादि । वा अथवा । शापेन चापेन च ज्वलनामात्रे इलर्थः । यद्यस्मात्पुत्रमाण्ड पुत्र एव भाण्डं मूलधन पुत्रभूतरामात्मकमूलधनम् । भूयिष्ठानि भूयासि द्विजाः बालाः शिशवः बुद्धाः स्थविराः विकला: अन्धवधिरादयः नेणं स्त्रीसमूहः यस्य तथोक्तः पौरो जनश्च मे हि मदीयाः किल । तस्मात्तदुभयं शापश्चापश्च शान्त भवतु निवृत्त भवतु । रुषं न दधे कोष न धारयामि । यद्वा यद्यस्माद्भयिद्विजबालबविकलौणः पौरो जनः । चकारेण रामः समुचीयते । तदुभयं पौरजनरामात्मकोभयं मे पुत्रमाण्ड पुत्रात्मकमूलधनवन्मम संरक्षणीयं तत्तस्मात् शान्तं क्रोधेन ज्वलित्वा अलं रुषं न दधे क्रोवं न धारयामि । स्थैयद्योतनार्थ द्विःकथनम् ॥ २५॥ बटवः प्रविश्य । अत्र आहुरिति शेषः । भूतविशेषः प्राणिविशेषः । जनपदेषु कोसलादिदेशेषु आरण्यकत्वादेवमुक्तिः । श्रूयते शब्दबोधविषयो भवति । प्रत्यक्षीकृतः चक्षुर्विषयी वटवः-अये, श्रृयताम् ।

  पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्त्रं
   दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव ।
  शप्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रा-
   न्किं व्याख्यानैर्बजति स पुन(रमेोहि यामः ॥ २६ ॥

(इलजिने हस्तयोश्चाकर्षन्ति ।)

 लवः--(सकौतुकोपरोधविनयम् ।) आर्याः, पश्यत । एभिनीतोऽस्मि । (इति त्वरित परिकामति ।)

 अरुन्धतीजनकौ-महत्कौतुकं वत्सस्य ।

 कौसल्या----अरण्णगब्भरूवालावेहिं तुम्हे तोसिदा अम्हे अ । भअबदि, जाणामि तं पेक्खन्ती वञ्चिदा विअ । ता इदो अण्णदो भविष पेक्खम्ह दाव पलावन्तं दीहाउम् ।

 अरुन्धती-अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ।

 कञ्चकी-(प्रविश्य !) भगवान्वाल्मीकिराह ज्ञातव्यमेतदवसरे भवद्धिरिति ।


१. अरण्यगर्मरूपालाप!य तोषिता वयं च । भगवति, जानामि तं प्रेक्ष्यन्ती बञ्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे' तावत्पलायन्तं दीर्घायुषम् ।


कृतः पशुसमानाये पशुद्रव्यकयागप्रतिपादकवेभागे, साशामिके युद्धकाण्डे व । कीदृशः किलक्षणः ॥ पश्चादित्यादि । सः अश्व इत्युच्यमानः विपुलं पुच्छं पश्चाद्वहति । वनमहिषः कोऽयमुभयतःपुच्छ इत्यारण्यवासनानुरूपेण व्यावृत्त्यर्थः । पश्चास्पदम् । अन्यथा पुन्च्छस्य पश्चाद्वहनाव्यभिचारात् । विपुलमित्यनेन खरव्यावृत्तिः तस्य हि पुच्छं गोवद्रज्जूकृत भवति । एवं च वक्ष्यमाणविशेषणाना तत्साधारणत्वेऽपि न दोषः। धूनोति चालयति । दीर्घग्रीवो भवति आयतकण्ठो भवति । तस्य खुराश्चत्वार एव । 'नाधिका इत्यर्थः । शष्पाणि वालतृणानि अत्ति खादति । शत्पिण्डकान्' पुरीषपिण्डकानानमान्नान् रसालशलाटुपरिमितान् प्रतिरति विक्षिपति । स पुनर्दूर जति गच्छति ॥ २६ ॥ कौतुक हर्षः, उपरोधः बलानियमाणत्वम् ॥ अरण्याओणां अरण्यचरशिशूनां रुपैरालापैश्च तोषिता यूयम् । अह त पश्यन्ती वञ्चितेति जानामि । रामभद्रसंवादेन प्रलोभिताहमिति भावः । कझुकी । गृष्टिरित्यर्थः । अवसरे प्राप्तकाले ॥ एतद्वाल्मीकिवाक्यमतिगम्भीरं गूडाशय किमपि अपूर्वम् ॥ वृद्धानामरुन्धती जनकः---अतिगम्भीरमेतत्किमपि । भगबत्यरुन्धति, सखि कौसल्ये,आर्य गृष्टे, खयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः ।

(इति निष्कान्तो वृद्धवर्गः।।

(प्रविश्य बदवः ।)

 पश्यतु कुमारस्तावदाश्चर्यम् ।

 लवः-दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः ।

 बटव:-कथं ज्ञायते ।

 लघः-ननु मूर्खाः, पठितमेव हि युष्माभिरपि तत्काण्डम् । किं न पश्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः। तत्प्रायमेवान्यदपि दृश्यते । यदि च विप्रत्ययस्तत्पृच्छथ ।

 बटव:-भो भोः, किंग्रयोजनोऽयमश्वः परिवृतः पर्यटति ।

 लवा--(सस्पृहमात्मगतम् ।) अश्वमेध इति नाम विश्वजयिनां क्षत्रियाणामूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः ।

(नेपथ्ये।)

  योऽयमश्वः पताकेयमथवा वीरघोषणा।
  सप्तलोकैकचीरस्य दशकण्ठकुलद्विषः ॥२७॥

 लव:-(सगर्वमिव ।) अहो संदीपनान्यक्षराणि ।

प्रभृतीनां वर्गः समूहः ॥ दृष्ट चक्षुर्विषयीकृतम् । नूनमाश्वमेधिकोऽयमश्व इत्सवगतम् अनुमितम् । अश्वमेधाव प्रभवस्खाश्वमेधिकः ॥ तत्काण्डमश्वमेधप्रतिपादकश्रुतिभागः । बालकाण्ड वा तत्रापि ह्यश्वमेधः प्रसक्तः । काण्डोऽस्त्रीत्युक्तेः क्लीबत्वम् । शतं कवचिनः शतं निषङ्गिणः शरविवन्तः। शतमित्यर्थः शतं दण्डिनः शतं रक्षितार इत्येनग्न पश्वथ किमिखर्थः । तत्प्रायमेवान्यदपि कवचिप्रभृतिसुसदृशं चान्यदपि । अनीकमित्यर्थः । विप्रलयो यदि संशयश्चेत् । किप्रयोजनः किंफलकः । परिवृतः । रक्षितृभिरिति शेषः । पर्यटति परिवृतः संचरति परिगतो गच्छति ॥ अनागते वस्तुनीच्छा स्पृहा । सर्वक्षत्रपरिभात्री सकलराजकुलपरिभवजनकः । उत्कर्षनिकषः उपादेयकैलक्षधज्ञापकपद्विशेषः । अर्जखलः बलिष्ठः । अत्रिचा ल्यनिकष इत्यर्थः ॥ योऽयमिति । योऽयमाचमेश्विकोऽश्वः । इयम् । अश्व इलय विधवप्राधान्यात्त्रीत्वं पताकात्व विधेयम् । सप्तावचवेषु लोकेषु एकवीरस्य एकेषु प्रथानेषु वीरयति पराक्रमत इत्ये कधीरः तस्य । सप्तलोकेलन मध्यमपदलोपवत्समासः । पात्रादित्वं बा वीरैक इत्यापत्तिवारणाय एकेषु वीरयतीति विग्रहोऽजीकृतः । दशकण्ठकुलस्य रावणवंशस्य द्विद् शासिता । तस्य राघवस्य पताका विजयध्वजोऽथवा पूर्वोक्तातिरेकेण वीरघोषणा वीर इति जगदाकर्णनानुकूलब्यापारः ॥२७॥ गईः परोकनादरः । संदीपनानि क्रोषजनक्रानि ।  वटवः-किमुच्यते । प्राज्ञः खल कुमारः ।

 लवः-भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्धोष्यते ।

(नेपथ्ये)

 रे रे, महाराज प्रति कुतः क्षत्रियाः ।

 लक:--धिग्जाल्मान् ।

  यदि नो सन्ति सन्त्येव केयमद्य विभीषिका ।
  किमुक्तैरेभिरधुना तां पताकां हरामि वः ॥ २८ ॥

हे बटवः, परिवृत्य लोष्ठेरभिघ्नन्त उपनयतैनमश्चम् । एष रोहितानां मध्येचरो भवतु ।

(प्रविश्य सक्रोधः)

 पुरुषः-धिश्चपल, विमुक्तवानसि । तीक्ष्णतरा ह्यायुधश्रेणयः शिशोरपि दृतां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः सोऽप्यपूर्वारण्यदर्शनाक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगहनेनापसर्पत ।

 वटवः-कुमार, कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः । दूरे चाश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे ।


'मन.प्रज्वलनं क्रोधः' इति युक्तम् । एवं पूर्वोक्तरीत्या उद्घोष्यत इति थावत्त ससारिकमक्षत्रिया पृथिवील्यन्वयः ।। महाराज प्रति तदौमुख्येन कुतः कल्माद्धेतोः क वा ॥ विरजालमानसमीक्ष्यकारिणः । भवद्विषयका निन्देत्यर्थः । अक्षश्रिया इखनुषज्यते । क्षत्रिया न सन्तीति भवद्भिरच्यते चदि सन्त्येवेत्यवगन्तव्यम् । अद्य क्षत्रियसत्ताविकरणे अस्मिन्दिवसे इच विभीषिका भोपादनं का । कीदृशीलयर्थः । एभिरुक्तैरधुना कि । न किमपीत्यर्थः । तां व पताका हराम्बन्यत्र प्रापयामि ॥ २८॥ अभिन्नन्तरार्जयन्तः। रोहितानां मृगविशेषाणाम् ॥ आयुधश्रेणयः शञपलवस्तीश्यातरा हि। त्वत्तोऽपि क्रूरा इत्यर्थः । दृप्ता दर्पयुत्ता वाच न सहन्ते । शिक्षणाभाववन्तो न भवन्तीत्यर्थः । सोऽपि चन्द्रकेतुरिति योजना । दुर्दान्तोऽमर्षशीलः । अपूर्वारण्यदर्शनेन अननुभूतविपिनावलोकनेनाक्षिप्तहृयो व्यासक्तमनाः । तरूणां गहनेन दुर्गमसंनिवेशेनापसर्पत पलायध्वम् ॥ कृतं कृतमश्वेनेति । अश्वेन साध्यं किमपि नास्तीत्यर्थः । गर्हायां द्विरुक्तिः । अज्ञानादेच वयमत्र प्रवृत्ता इति भावः । विस्फारितशरासनाः घोषवद्धनुषः तर्जयन्ति भवमुत्पादयन्ति । आश्रमपद चाश्रमस्थान च दूरे । विप्रकर्ष इत्यर्थः । हरिणानां यानि हतानि अभूस्पर्शगमनानि । तत्सदृशगमनैरित्यर्थः । पलायामहे परागता भवामः । 'अय गतौ तस्य परेत्युपसर्गपूर्वकत्वम् उपसर्गस्यायतौ' इति लत्वम् ॥ विस्फु लव:--किं नाम विस्फरन्ति शस्त्राणि । (इति धनुरारोपयन् ।)

  ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र-
   मुद्भरिघोरधनधर्धरघोषमेतत् ।
  पासप्रसक्तहसदन्तकवक्तयन्त्र-
   जम्भाविडम्बि विकटोदरमस्तु चापम् ॥ २९ ॥

(इति यथोचित परिक्रम्य निष्कान्ताः सर्वे ।)

चतुर्थोऽङ्कः।


रन्ति घोषयुक्तानि । धनुरारोपथन् । ज्यामिति शेषः । ज्याजिह्वयेत्यादि । ज्या मौवीं सैव जिह्वा रसना तया वलयिता वेष्टिता । उत्कटकोटिरेवोत्तुङ्गाग्रभाग एव दा यस्य तथोक्तम् । उद्भरयोऽसंख्याता घोरा भयजनकाः धनाः सान्द्राः धर्धरघोषा बस्य तथोक्तम् । एतचापम् । क्लीवत्व विचारयितव्यम् , सामान्ये नपुंसकत्वं वा । अथवा भवामृतसकृदनचापाभरणलाञ्छनामिति नपुसंकशेषोते लीबत्वम् । प्रासे कवलने असतं उद्युक्त हसत् हासयुक्तमन्तववक्त्रयनं व्याघ्रादिमारणचन्छसशकतान्तस्य कुहरं तस्य जृम्भाविडम्बि जृम्भानुकारि त्रिकट विषमं उदरं मध्य यस्य तथाविधमतु । अस्य चापस्य तथाभवन प्राप्तकालमित्यर्थः । जिहेब ज्या ज्यामिष्लेत्युपमालकारो व्याख्येयः । कोटिदंष्ट्रमित्यत्र तु कोव्यात्मक यष्ट्रासशमिति व्याख्येयम् । विशेष्यविशेषणभावस्य च कामचारत्वान्न दोष इत्यप्याहुः ॥ २९ ॥

   बाथूलवशजनुलो भूसारनिवासराघवार्यस्य ।
   उत्तररामचरित्रव्याख्यायामवसितस्तुरीयानङ्क ॥


  इति श्रीवाधूलवीररावविरचितायां भवभूतिभावतल -
   रूपर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां
     चतुर्थोऽङ्कः।

(नेपथ्ये।)

मो भोः सैनिकाः, जातं जातमवलम्बनमस्साकस् ।

   नन्वेष त्वरितसुमन्ननुद्यमान-
  प्रोद्वल्पत्प्रजवितवाजिना रथेन।
   उत्सातप्रचलितकोविदारकेतुः
  श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥

(ततः प्रविशति सुमनसारथिना रथेन धदुष्पाणिः साइतहर्षसंभ्रमश्चन्द्र केतुः।)

 चन्द्रकेतु:---आर्य सुमन्त्र, पश्य पश्य ।

  किरति कलितकिंचित्कोपरज्यन्मुखश्री-
   रविरतगुणगुञ्जत्कोटिना कार्मुकेन ।
  समशिरसि चश्चरपञ्चचूडश्चमूना-
   मुपरि शरतुषारं कोऽप्ययं बीरपोतः ॥ २ ॥

आश्चर्यम् ।

  मुनिजनशिशुरेकः सर्वतः संप्रकोपा-
   नव इव रघुवंशस्थाप्रसिद्धिप्ररोहः ।


नेपथ्ये इत्यादि । भो भोः सैनिकाः सेनासमवाधिनः, आतमवलम्बनम् । आश्रयो लब इत्यर्थः । नन्विति । सुमन्ननुचमाना. सुमन्द्रेण प्रेयमाणाः प्रोद्वल्गाः प्रकर्षण बञ्चलाः प्रजविताः प्रष्टवेगयुक्ताः बाजिनोऽवाः यस्मित्तथोक्तेन । उत्खातेषु निन्नोन्नतप्रदेशेषु प्रचलितकोविदारयुक्तध्वजवान् । प्रधन बुद्ध श्रुत्वा उपैति । ननु किल चूलिका । 'नेपथ्यान्तास्थतैः पानशूलिबास सूचनम्' इत्युक्तेः ॥१॥ किरतीति । कलितेनाहतेन किचित्कोपेन ईषन्मन्युना रज्यन्ती रक्कीभवन्ती मुखश्रीराननशोभा यस्य तथोक्तः । अत्र प्रत्यर्थिनाभकिचित्करत्वात्किचित्कोपेत्युक्तम् । चञ्च त्पञ्चचूडश्चलितशिखण्डकः कोऽप्यपूर्वोऽय वीरपोतः वीरशिशुः अविरतं विश्रान्तिरहित यथा तथा गुणे ज्यायां गुजन्यौ अव्यक्तशब्दवलौ कोटी अग्रे यस्य तथोक्तेन कार्मुकेन । करणत्वात्ततीचा । समरशिरसि युद्धरणे चमूनामुपरि शरतुषार वाणवाएं किरति । तुषारो हि अतिसूक्ष्मसलिलवृष्टिः । अत्र रज्यन्मुखश्रीः कार्मुकेण चञ्चत्पञ्चचूड इत्येतैः शरतुषारमिलनेन व तडित्वतः शक्रवापयुक्तस्य चलिताग्रस्य मेघकिशोरस्य च साम्य व्यज्यते ॥२॥ मुनिजनेत्यादि । एक. असहायः संप्रकोपात्प्रकटमन्युना । लवकोपस्य तवृष्टयाल्पत्वेऽपि चन्द्रकेतुबुद्ध्या महत्वादोषः। सर्वतः समन्ताइलितानां करिकमोलमन्थिना संधीनां टकारेण दलनवनिना घोरं भयजनक ज्वलितं

  दलितकरिकपोलग्रन्थिटंकारपोर-
   ज्वलितशरसहस्रः कौतुकं मे करोति ॥३॥

 सुमन्त्र:----आयुप्मन्,

  अतिशवितसुरासुरग्रभावं
   शिशुमवलोक्य तथैव तुल्यरूपम् ।
  कुशिकसुतमखद्विषां प्रमाणे
   धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥

 चन्द्रकेतु:--मम त्वेकमुद्दिश्य भूयसारम्भ इति हृदयमपत्रपते ।

  अयं हि शिशुरेकको मदभरेण भूरिस्फुर-
   स्करालकरकन्दलीजटिलशस्त्रजालैबलैः ।
  कणकनककिङ्किणीझणझणायितस्यन्दनै-
   रमन्दमदददिनद्विरदडामरेरावृतः ॥ ५ ॥

 सुमन्त्रः-वत्स, एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः ।

 चन्द्रकेतुः-आर्य, त्वर्थतां त्वर्यताम् । अनेन हि महानाश्रितजनअमारोऽस्माकमारब्धः । तथा हि ।

  आगर्जगिरिकुञ्ज कुञ्जरपटानिस्तीर्णकर्णज्वर-
   ज्यानि?षममन्ददुन्दुभिरबैराध्मातमुज्जृम्भयन् ।


शराणां सहस्र यस्ता तथोक्तम् । आनन्यबाची सहस्रशब्दः । नवः प्रत्याः रघुवशस्य अप्रसिद्धिप्ररोह इव स्थितः अपल्याखड्डुरवस्थितः मुनिजनशिशुः । मुनिजनाः शमप्रथानास्तेष्वपि वाल इत्यर्थः । मे कौतुक हप करोत्युत्पादयति ॥३॥ अतिशयितेति । तथैव तुल्यरूपम् । यथा रामेण तुल्यप्रभावस्तथैव तुल्याकार इत्यर्थः । तथाविध कुशिकसुतमखद्विषो सुबाहुप्रभृतीनाम् । अत्र स्मृतिमदलंकारः ॥ ४॥ अपनपते लज्जते । अयं हीति । अयमेकक. शिशु: एकाकी बालः । मदभरेण वीरपानेन समुपजनितमदातिशयेन भूरि अधिकं स्फुरन्ति चलितानि करालानि फराणि करकन्दलीयु करशाखाग्रेषु जटिलानि निविडानि शस्त्रजालानि येषां तथोकैः । कणन्तीभिः शब्दवतीभिः कनककिङ्किणीभिः हेममयक्षुधष्टिकाभिः झणझणायितः शब्दविशेषयुहरमन्दमदैरतिशयितदानवारिभिर्दुर्दिनैरन्धकारितैरिदैगजैः कारणैः डामरैः भचकरैबेलैः सैन्यैरावृतः ॥ ५ ॥ समस्तैः सहितैर्व्यस्तैः पृथस्थितैर्नालम् । न पर्याप्तिरित्यर्थः । आश्रितजनानामुपजीविजनानां प्रमार: मारणम् । आगजदिति । वीरः अयं लवः अमन्ददुन्दुभिरवैरतिशयितभरिशब्दैराध्मातं द्विगुणीकृतम् । आगर्जता भयवशादाढगर्जनं कुर्वतां गिरि कुञ्जकजराणां पर्वतगुहावर्तिगजानां घटायै पतये निस्तीर्णो दत्तः कर्णज्वरो

  वेल्लभैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं
   तृप्यत्कालकरालबत्रविधसब्याकीर्यमाणामिव ॥६॥

 सुमन्त्रः- (खगतम् ।) कथमीदृशेन सह वत्सस्य चन्द्रकेतोद्वन्द्वसंप्रहारमनुजानीमः । (बिचिन्छ ।) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे का गतिः ।

 चन्द्रकेतुः--(सविस्मयलज्जासंभ्रमम् ।) हन्त धिक् । अपावृत्तान्येव सर्वतः सैन्यानि मम ।

 सुमन्त्रः-(रथवेगं निरूप्य।) आयुग्मन् , एष ते वाग्विषयीभूतः स वीरः ।

 चन्द्रकेतुः---(विस्कृतिमभिनीय । आर्य, किं नामधेयमाख्यातमाह्वायकैः। सुमन्त्र:-लव इति ।

 चन्द्रकेतु:--

  भो भो लव महाबाहो किमेभिस्तव सैनिकैः ।
  एषोऽहमेहि मामेव तेजतेजसि शाम्यतु ॥ ७ ॥

 सुमन्त्र:-कुमार, पश्य पश्य ।

  विनिवर्तित एष वीरपोतः
   पृतनानिर्मथनात्त्वयोपहूतः ।
  स्तनयिनुरवादिभावलीना-
   मवमोदिव दृप्तसिंहशावः ॥ ८ ॥

(ततः प्रविशति धीरोद्धतपराक्रमो लपः।)

 लवः-साधु राजपुत्र, साखु । सत्यमैट्याकः खल्वसि । तदहं परागत एवास्सि।


येन तथोक्तश्चासौ ज्यानिषत्तम् । उज्जम्भयनुल्वणयन्सन् । वेद्भिर्खठगिभैरवैभयकरैः । रुण्डखण्डानां शिर.कपालानां निकः समूहैर्भुवम् । तृध्यतः कालस्य पिपासितस्य कालस्य मृत्योः करालयकस्य विधसैर्भुक्तशिष्टैः। “वित्रसो यशशेषभोजनशेषयोः' इत्यमरः । व्याकीर्यमाणामिव संस्तीमागामित्र विधत्ते करोति । तृष्यदित्यनेन पिपासयान्यपरेण मृत्युना अर्धजग्धानि मुक्तानीति व्यज्यते ॥६॥ द्वन्द्वसंप्रहार द्वन्द्वयुद्धमनुजानीमः अनुज्ञा करोमि । इक्ष्वाकुलवृद्धाः खस्वित्यनेन विमृश्यकारित्वमवक्ष्यमिति व्यत्यते । अत्र प्रकाशानुक्तिचिन्या ॥ अपावृत्तानि परामुखीभूतानि ॥ आलायकैः आह्वानं कुर्वद्भिः ॥ भो भो इति । तेज शौर्च तेजसि शाम्यतु निर्वाण भवतु ॥ ७ ॥ विनिवर्तित इति । पृतनानिर्मथनात्सेनाप्रहारात् । आयदाने पश्वनी । उपडूतः आहूतः । स्तनयित्नुरवात् मेबध्वनेः सिहशावः सिहशिशुरिव विनिवर्तित इत्येतत्पश्येत्यर्थः ॥ ८ ॥ ततः प्रविशतीति। धीरोद्धतस्य युध्युटस्य

(नेपथ्ये महान्कलकलः)

 लष:-(सावष्टम्भ परावृत्य।) कथमिदानी भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः । धिग्जाल्मान् ।

  अयं शैलाघातक्षुभितवडवाक्क्त्रहुतभु-
   क्प्रचण्डक्रोधार्चिनिचयकवलत्वं बजतु मे।
  समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः
   पयोराशेरोधः प्रलयपवनास्फालित इव ॥९॥

(सोगं पारऋामति ।)

 चन्द्रकेतुः--भो भोः कुमार,

  अत्यद्भुतादपि गुणातिशयात्रियो मे
   तस्मात्सखा त्वमसि यन्मम तत्तवैव ।
  तत्किं निजे परिजने कदनं करोषि
   नन्वेष दर्पनिकपरतव चन्द्रकेतुः ॥१०॥

 लवः-(सहर्षसंत्रमं परावृत्य ।) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्बिकर्तनकुलकुमारस्य । तत्किमेभिरेनमेव तावत्संभा- वयामि।

(पुनर्नेपथ्ये कलकला।

 लव:.(सकोधनिर्वेदम्) आः, कदर्थीकृतोऽहमेभिर्वीरसंवादविनकारिभिः पापैः । (इति तदभिमुखं परिकामति ।)

 चन्द्रकेतुः—आर्य, दृश्यतां द्रष्टव्यमेतत् ।


पराक्रमो यस्येत्यर्थः । धीरोदात्तादयश्चत्वारो नायकाः प्रसिद्धाः, तेषु प्रायेण भटानामेव धीरोद्धतत्वमायाति ॥ सर्वे भमा अपि पराजिता अपि पर्यवष्टम्भवन्ति समीपस्थिता भवन्ति । 'अवामालम्बनाविदूर्वयोः' इति षत्वम् । अयं शैलेत्यादि । अयमोघः युधमाकं समूहः शलाघातेन मन्दरसंघटनेन क्षुभितो विपर्यस्तः यः वडवावकहुतभुरबाडवमुखाग्निस्तद्वत्प्रचण्डस्य तीक्ष्णस्य क्रोधाचिनिचयस्य कोपानिज्वालासमूहस्य कवलत्व

भश्वत्वं व्रजतु । क इवेत्यत्राह-पोराशेरोषःप्रवाह इवेत्यर्थः ॥ ९॥ अत्यद्भतादिति । गमले सखा तस्मान्मदीयं यदुस्तु तत्तवैव त्वदीयमेव । तन्निजे परिजने किमर्थमेवं कदन युद्धं करोषि । तव दर्पपरीक्षास्थानमेष चन्द्र केतुरित्यर्थः ॥ १० ॥ प्रसादवती कर्कशा च कठिना च । आपाततो हृया पर्यालोचने तु कठिनेत्यर्थः । वीरवचनप्रयुक्तिः वीरवादप्रयोगः । संभाश्यामि पुरस्करोमि ॥ कदांकृतः अनुचितव्यापा

  दर्पेण कौतुकवता मयि बद्धलक्ष्यः
   पश्चादलैरनुसृतोऽयमुदीर्णधन्वा ।
  द्वेधा समुद्धतमरुत्तरलस्य धत्ते
   मेघस्य माधवतचापधरस्य लक्ष्मीम् ॥११॥

 सुमन्त्रः-कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो विस्मयेन ।

 चन्द्रकेतुः--भो भो राजानः,

  संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता-
   बनेकस्सिन्कवचनिचितैनद्धचर्मोत्तरीये ।
  कालज्येष्ठेरपरवयसि ख्यातिकामैर्भवद्भि-
   योऽयं बद्धो युधि समभरस्तेन धिग्वो धिगस्मान् ॥ १२ ॥

 लवः-(मोन्माणम् ।) आः, कथमनुकम्पते नाम । (रासंभ्रम विचिन्त्य ) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि ।

(इति चानं नाटयति ।)

 सुमन्वःतत्किमकसादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति ।

 लव:-पश्याम्येनमधुना प्रगल्भम् ।

 सुमन्त्र:-(ससंभ्रमम् ।) वत्स, मन्ये कुमारकेणानेन जृम्भकास्त्रमामन्त्रितमिति ।


रवान्कृत - । वीरसंवादस्य चन्द्रकेतोरुक्तिप्रत्युचिकायाः युद्धस्य वा ॥ दणेति । कोतुकवता सामर्थ्यदर्शनेच्छाचुत्तोन दर्पण यलेन मयि बद्धलक्ष्यः दत्तचक्षुर्मयि व्यवसितलक्ष्यत्ववान् । उदीर्णधन्वा उत्क्षिप्तचापः। द्वेधा मचि बले चाभिमुखोऽयं लकः द्वेधा सनुद्धतस्य चलितस्य मघवत्सबन्धिचापधरस्य वर्षाकालमेघस्य लक्ष्मी त्रिय धत्ते ॥११॥ संख्येति । संख्यातीतैरसंख्येषैः । द्विरदतुरगस्यन्दनेषु तिष्ठन्तीति द्विरदतुरगस्य- न्दनस्थास्तथाविधैः कवचनिचितर्वारवाणपिहितैः । अपरवयसि वार्धके ख्यातिकानेः विजयप्रशस्तिकामनावद्भिः कालज्येष्ठैवयोधिकैः । न तु शावणेत्यर्थः। भवद्भिरेकरिमन्नसहाये पदाती पादचारिणि नद्धचर्मोत्तरीयेऽस्मिन् शिशौ विषये योऽय समभरः एकीघमारः नद्धः तेन वः धिक। युष्माकमव्यवधानेन निन्दा, अस्माकं तु युष्मद्वारा ॥ १२ ॥ अनुकम्पते मस दौर्बल्यमाशङ्ग्य मदुःख परिजिहीर्षति । कालहरणप्रतिषेधाच कालयापननिवृत्तये संस्तम्भयामि निवृत्तव्यापाराणि करोमि ॥ प्रशाम्यन्ति विरम्यन्ति ॥ प्रगल्भं प्रौढम् ॥ आमन्त्रितमाहूतम् ॥ कः संदेहः । आमन्त्रित इत्यत्र संशयः क इत्यर्थः । मन्ये इत्यस्य संभावनावाचित्वात्तस्याश्चोत्कटैकतरकोटिकसंशयरूपत्वात् ।  चन्द्रकेतुः-अत्र कः संदेहः ।

  व्यतिकर इव भीमस्तामसो वैद्युतश्च
   प्रणिहितमपि चक्षुस्तमुक्तं हिनस्ति ।
  अथ लिखितमिवैतत्सैन्यमस्पन्दमारते
   नियतमजितवीर्य जृम्भते जृम्भकास्त्रम् ॥ १३ ॥

आश्चर्यमाश्चर्यम् ।

  पातालोदरकुञ्जपुञ्जिततमश्यामै भो जम्मकै
   रुत्तप्तस्फुरदारकूटकपिलज्योतिर्वलद्दीप्तिभिः ।
  कल्पाक्षेपकठोरभैरवमरुढ्यस्तैरभिस्तीर्यते
   लीनाम्भोदतटित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥

 सुमन्त्र:-कुतः पुनरस्य अम्भकाणानागमः स्यात् ।

 चन्द्रकेतुः-भगवतः प्राचेतसादिति मन्यामहे ।

 सुमन्त्रः-वत्स, नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः ।

  भृशाश्वतनया लेते भृशाश्चात्कौशिकं गताः ।
  अथ तत्संप्रदायेन रामभद्रे स्थिता इति ॥ १५॥

 चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्व मन्त्रदृशः पश्यन्ति ।


तिकर इति । तमःसंबन्धी तामसः, विद्युत्संबन्धी वैशुतश्च । तथाविधो व्यतिकरः संपर्कः प्रणिहितमपि प्रयत्नेन निक्षिप्तनपि । अस्तं च तन्मुक्त च । खन्नकुब्जादिवसमासः । तमसा असं ज्योतिषा मुक्तम् । तमस्य सत्कल्पत्वाइस्तत्वम्, ज्योतिषि च कार्यकरत्वात्ततो मुक्तत्वम् । चक्षुर्हिनस्ति वायते । नियतं निश्चितन् ॥ १३॥ आश्चयमभूतपूर्वम् । पातालेति । पातालोदरमेव कुमः गुहा तस्मिन्पुनितानि संहतभावं प्राप्तानि यानि तमांसि तद्वत् श्यामैः। उत्तप्त हफुरत्तेजिष्टं च यदारकूट नपुधातुविशेपस्तस्य यत्कपिलं पिशङ्ग ज्योतिस्तद्वज्ज्वलद्दीप्तिभिः । अत एव कल्पाक्षेपे कल्पावसाने कटोरेण दृढेन भैरवेण भीतिजनकेन नरुताव्यस्तैर्वियोजितैलीताम्भोदानितरित्कडाराणि न्च कुहराणि एषां तथोक्तैः । कडारः कपिलः । विन्ध्याचलरिव स्थितैः जम्भकैनमः अभिस्तीर्यते आच्छाद्यते ॥१४॥ कृतः पुनः कस्मात्पुरुषात्पुनरस्य लवस्थ ॥ मन्तेषु विषये एतदागमनमेवे न त्वन्मतरीला न घटते । जृम्भकात्रेषु विषये एतत्प्राचेतसादधिगम इत्येतद्विशेषत एव तु न घटते । भृशाश्वेति । भृशाश्वतनया होते एते अस्त्रदेवताविशेषाः भृशाश्वमुनिना आदौ अनिताः । हीति प्रसिद्धौ । कौशिकं विश्वामित्रम् । अथानन्तरं तत्संप्रदायेन विश्वामित्रोपदेशेन ॥१५॥ अप सुमन्त्रः-वत्स, सावधानो भव । परागतस्ते प्रतिवीरः ।

 कुमारौ-(अन्योन्यं प्रति ) अहो प्रियदर्शनः कुमारः । (सन्नेहानुराग निर्वगे ।)

  यहच्छासंवादः किमु गुणगणानामतिशयः
   पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः ।
  निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो
   ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥ १६ ॥

 समन्व:-भूयसां जीविनामेव धर्म एष यत्र स्वरसमयी कस्यचित्कचित्पीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षुराग इति । तदप्रतिसंख्येयनिबन्धनं प्रमाणमामनन्ति ।

  अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
  स हि लेहात्मकस्तन्तुरन्तभूतानि सीव्यति ॥ १७ ॥


रेऽपि भवदुक्तेभ्चोऽन्येऽपि प्रचीचमानसत्त्वप्रकाशाः व्याप्नुवत्संचित्प्रकाशाः । मन्त्रदृशः खयमेव संप्रदायेन विनापि ॥ सावधानोऽनन्यमनाः भव ॥ कुमारी लबचन्द्रकेतू । प्रिय मुखजनक दर्शन यस्य तथोक्तः । स्नेहः मैत्री । अनुरागो भोग्यताज्ञानम् । यहच्छेति । यहच्छया दैवेन संवादः समागमः यस्य तथोक्तः । यदृच्छ्या देवेन सेवाद एकरूपं यस्य तथोक्तो वा । रामादिगुणगणैरेकरूप इति हृदयम् । तथाविधी गुणगणानामतिशयः किमु । पुराणः पुरापि भवः । जन्मान्तरेवन्येषु जन्मसु निविडबद्धः दृढारूढः परिचयो वासना किसु । विधिवशाईवेच्छया अविदितः कोऽपि निजः संबन्धः जननसंबन्धः किमु । यत एव ततो हृदयं कर्तृ अवधानं व्यापारान्तररहितता रवयति करोति । अथवा एतस्मिन्दृष्टे सति मम हृदयं कर्म गुणातिशयादिघु त्रिघु अन्यतमावधानता अवधान अवहित करोतीति । द्विकर्मणि च ल्युडिल्यग्याहुः ॥१६॥ भूयसामित्यादि । यत्र यस्यां प्रीतौ । तारामैत्री मैत्री तारा कनीनिका तत्प्रेम वा । चक्षुरागः आदराद्वीक्षणम् । चक्षुःप्रीतिर्भवेद्यत्र' इत्युक्तचक्षुराग इति च लौकिकानां जनानामुपचारो व्यवहारस्तादृशी कस्यचित्पुरुषस्य ऋचित्पुरुषे स्वरसमयी अक्रूररसा अकृत्रिमा या प्रीतिरिति यत् एषः । विधेयप्राधान्यात्पुंस्त्वम् । भूयसां महीयलां जीविनां प्राणभृतां धर्मः स्वभावः । अप्रतिसंख्येयनिवन्धनम विचारणीयमूलं तत्प्रेम प्रमाण अवार्थानुभवविषयमामनन्ति असद्वदन्ति । अहेतुमिति । यः अहेतुनिष्कारणकः पक्षपातः आत्मीयत्वप्रतिसंधानमूलकानुकूलज्ञानरूपस्तस्य अहेतुकपक्षपातस्य प्रतिक्रिया निवर्तकथ्यापारः नास्ति न संभवति । खेहात्मकः प्रेममयः सः तन्तुः भूतानि

उ. रा. १२  कुमारौ - अन्योन्यमुद्दिश्य ।)

  एतस्मिन्ममृणितराजपट्टकान्ते
   थमिव सायकाः शरीरे
  यत्प्राप्तौ मम परिरम्भणाभिलाषा-
   दुन्मीलत्पुलककदम्बमङ्गमास्ते ॥ १८ ॥

  किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना
   शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येशः ।
  किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
   वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥

 सुमन्त्रः-(लव निर्वर्ण्य सास्रनात्मगतम् ) हृदय, किमन्यथा परिप्लबसे ।

  मनोरथस्य यहीजं तदैवेनादितो हृतम् ।
  लतायां पूर्वलनायां प्रसवस्योद्भवः कुतः ॥ २० ॥

 चन्द्रकेतु:---अवतराम्यार्य सुमन्त्र, स्यन्दनात् ।

 सुमन्त्रः-कस्य हेतोः।

 चन्द्रकेतुः--एकस्तावदयं वीरपुरुषः पूजितो भवति । अपि च


प्राणिनः अन्तः सीव्यति अन्तःस्यूतानि करोति ॥ १७ ॥ एतस्मिन्निति । राजपहनीलर कपश्वस्त्रे तत्कान्ते कमनीये एतस्मिन् लवे चन्द्रकेतौ वा । परिरम्भणाभिलाषादालिङ्गनेच्छया । उन्मीलत्पुलककदम्बमुद्यद्रोमाञ्चनिकुरम्बम् ॥१८॥ किं चेति । किंच पूर्वोक्तादन्यत् । आक्रान्तकठोरतेजसि आक्रान्त प्राप्त कठोरं पूर्ण तेजः पराभिभवनसामर्थ्य यस्य तस्मिन्विषये शस्त्रं विना का गतिः शस्त्रसाधनकयुद्धाहते कि कर्तव्यम् । न किमपीत्यर्थः । तर्हि शरीरसौभाग्यानुरोधेन शस्त्रन्यासः क्रियतामिलनाह-शस्त्रेणेति । यस्य शस्त्रस्य ईदृशः महावीरःन जायेत तेन शस्त्रेणापि किम् । न किमपीत्यर्थः। तह सौकुमार्यवीर्ययोः प्राबल्यदौर्बल्यविचारेण सौकुमार्यानुसारेण शस्त्रन्यासः क्रियताम्यत्राह-उद्यतेऽप्यायुधे युद्धविमुखं मामयमेव किं वक्ष्यति । यत एवं ततः दारुणरसः कौ.कवेषः शूराणां समयः आचारः स्नेहकसं नेहव्यापारपरिपाटी याचते निवर्नयति ॥ १९ ॥ अन्यथा संभाव्यविषयानुसारेण परिलबसे चञ्चलीभवति । रामसादृश्यात्तदपत्यं लब इति कि शङ्कसे इति भावः । मनोरथस्येति । मनोरथस्य अभिलष्यमाणलवनिष्टरामापत्यत्वस्य यद्वीज सीतारूपं तदादितो हृतं गर्भिणीदशायामेव नटम् । 'लूनपूर्षायाम्' इति पाठे पूर्व लूना छिन्ना तथाविधायाम् । भूतपूर्वनिर्देशात् लूनशब्दस्य पूर्वनिपातः । 'पूर्चलूनायाम् इति पाठे तु पूर्वस्मिन् काले लूनेयर्थः । प्रसवस्य पुष्पस्य ॥ २० ॥ वीरपुरुषः लवः पूजितस्तावाद्भवति । योरवतरणप्रयोजनयोः खल्यार्य, क्षत्रधर्मः परिपालितो भवति । न रश्रिनः पादचारमभियुञ्जन्तीति शास्त्रविदः परिभाषन्ते ।

 सुमन्त्र:-(स्वगतम्) आः, कष्टां दशामनुप्रपन्नोऽसि ।

  कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु ।
  कथं वाभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥

 चन्द्रकेतु:-यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृच्छन्ति तत्किमार्यों विमृशति ।

 सुमन्त्रः-आयुष्मन्, एवं यथाधर्ममभिमन्यसे ।

  एष साङ्ग्रामिको न्याय्य एष धर्मः सनातनः ।
  इयं हि रघुसिंहानां.वीरचारित्रपद्धतिः ॥ २२ ॥

 चन्द्रकेतुः-अप्रतिरूपं वचनमार्थस्य ।

  इतिहासं पुराणं च धर्मप्रवचनानि च ।
  भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥२३॥

 सुमन्त्र:-(सस्नेहालं परिष्वज्य।)

  जातस्य ते पितुरपीन्द्रजितो निहन्तु-
   र्वत्सस्य वत्स कति नाम दिनान्यमूनि ।


प्रथम वीरपुरुषजा भवति । क्षत्रश्नः खल्पपि परिपालितोऽनुष्ठितो भवति । पादचार पदाति रथिनो नाभियुञ्जन्तीति न युञ्चन्तीति ज्ञानविदः क्षत्रधर्मप्रतिपादकार्थशास्त्रज्ञाः परिभाषन्ते निवच्छन्ति ॥ कथं हीति । इदमनुष्ठानं राजपुत्रस्य रथादवतरणं प्रतिषेधतु निषिद्ध्यात् । निवर्तयेदित्यर्थः । साहलेकरसां साहसशकृत्येकवेषां क्रिया अनुष्टानमभ्यनुजानातु अनुमन्येत ॥ २१॥ तातमिश्रा अपि । मिनशब्द. पूज्यवाची

रामादयोऽप्ति अर्थसंशयेषु अनुष्टयाननुछेवसंदेहेषु पितुः प्रियसखं दशरथप्रियसखं त्वां पृच्छन्ति जिज्ञासा बोधयन्ति ॥ यथाधमै क्षत्रधर्मावतिकमेण । एष इति । सङ्ग्रामे भवः साङ्गामिकः एषः वीरपुरुषपूजारूपः न्याय्यः उचितः । एष धर्मः क्षत्रधर्मपरिपालनरूपा रानातनश्चिरंतनः । इचं पूर्वोक्तदुयी वीरचारित्रपद्धतिः वीरव्यापारपरिपाटी ॥ २२ ॥ अप्रतिरूप निस्तुलम् । इतिहासमिति । इतिहासं रामायणभारतादिकम् । पुराण 'सर्गश्च प्रतिसर्गश्च इत्याद्युक्तलक्षणकम् । धर्माः निल्सनैमित्तिकादयः प्रोच्यन्ते प्रकाश्यन्ते एभिरित्यथै 'करणाधिकरणयोश्च' इति ल्युट । मन्वादिस्मृतयस्ता इत्यर्थः । कुलस्थिति कुलमर्यादाम् ॥ २३ ॥ जातस्येति । यत्ल चन्द्रकेतो, पितुर्जातस्य त्वत्पितरस्मच्छिशोरिन्द्रजितो निहन्तुर्वत्सस्य लक्ष्मणस्य अमूनि दिनानि । एतावान् जीवितकाल इति यावत् । कति नाम किवन्ति नाम । बदा वत्सस्य जातस्यामू

  तस्याप्यपत्यमनुतिष्ठति वीरधर्म
  दिष्टयागतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २५॥

 चन्द्रकेतुः- (सकष्टम् ।)

  अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः ।
  इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥ २५ ॥

 सुमन्त्रः----हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।

 लवः-हन्त, मिश्रीकृतक्रमो रसो वर्तते ।

  यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी
   तथैवास्सिन्दृष्टिर्मम कलहकामः पुनस्यम् ।
  रणत्कारक्रूरकणितगुणगुगद्गुरुधनु-
   धूतप्रेमा बाहुर्विकचविकरालवणमुखः ॥ २६ ॥

 चन्द्रकेतु:--(अवतरणं निरूपयन् ।) आर्य, अयमसावैक्ष्वाकश्चन्द्रकेतु रभिवादयते ।

 सुमन्त्रः---अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपि च ।


नि दिनानि कति नामेत्यन्वयः । वत्सस्य लक्ष्मणस्य यजात जन्म तत्संबन्धिदिनानि। जन्मप्रभृतिदिनानीत्यर्थः । तस्याप्चपत्ल कर्तृ बीरधर्ममनुतिष्ठति अनुष्ठित करोति । प्रतिष्ठामागतमास्पदं प्राप्त माहात्म्य प्राप्तम् । 'प्रतिष्ठा स्थितिमाहात्म्ये' इति यादवः । दिष्टयेत्यानन्दे ॥ २४ ॥ अप्रतिष्ठे इति। कुलज्येष्टे राने अप्रतिष्ठे अनास्पदे । अनपत्ये सतीति चावत् । त्रयः पित्तर. लक्ष्मणभरतशत्रुघ्नाः ॥ २५ ॥ हृदयममा हृदयमध्यप्रदेशानां दारणाने छेदकानि । दुःखजनकानील्यर्थः । यथेति । कुमुदिनी कुमुद्वती सरस्योपधियों इन्दौ चन्द्रे समुपोडे सति समुपागते सति यथानन्दं संतोष ब्रजति तथा भम दृष्टिरमिन् चन्द्रकेतो समुपोटे सति आनन्द बजति । एवकारः साहृदयद्योतनार्थः । रणत्कारेण रणदिति शन्देन क्रूरं भयकर क्वणितं घण्टादिरणित येन तथोक्तेन गुणेन ज्यया गुजदव्यक्त गुरु महद्यद्धनुस्तस्मिन्धृतः प्रेमा कृता प्रीतिर्थेन तथोक्तः । विकचानि विस्तृतानि, विकरालामि अतिढानि ब्रणानि मुखे अग्रे यत्य तथोकः । अय मम बाहुः पुनः बाहुस्तु । दृष्टिवैषम्यार्थः पुनःशब्दः । कलहकाम: युद्धकाली । भवतीत्यर्थः । अतो रतिक्रोधस्थाधिकयोः गृहारचीरयोमेलनानिमश्रितयोः रसयोः क्रमः परिपाटिवर्तत इति पूर्वेण संवन्धः । 'भावं मनसा ययुः' इति न्यायेन कुमुदिनीदृष्टान्तात् शाररसोत्पत्तिरिति द्रष्टव्यम् ॥ २६ ॥ अहितस्यैवानभिमतस्यैव पराभवायावमानायादिवराहः प्रलयार्णवनमभूमेरुद्धता बराहरूपेणायती भगवान्

  देवम्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति-
   स्त्यां मैत्रावरुणोऽभिनन्दतु गुरुय॑स्ते गुरूणामपि ।
  ऐन्द्रावैष्णवमामिमारुतमथो सौपर्णमोजस्तु ते
   देयादेव च रामलक्ष्मणधनाघोषमनो जयम् ॥ २७ ॥

 लवः-- अतीव हि नाम शोभसे रथस्थ एव । कृतं कृतमत्यादरेण ।

 चन्द्रकेतुः- तर्हि महाभागोऽप्यन्यं रथमलंकरोतु ।

 लव:-आर्य, प्रत्यारोपय रथोपरि राजपुत्रम् ।

 सुमन्त्र:-त्वमप्यनुरुद्धयस्त्र वत्सस्य चन्द्रकेतोर्वचनम् ।

 लव:-को विचारः खेधूपकरणेषु । किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः ।

 सुमन्त्र:---जानासि वत्स, दर्पसौजन्ययोर्यदाचरितम् ! यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन हृदयमभिप्यन्दयेत् ।

 लव-अन्यच्च चन्द्रकेतो, सुजनः स राजर्षिः श्रूयते । (सलजमिव ।)

  यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ
   क इब न गुणैस्तं राजानं जनो बहु मन्यते ।


कल्पता तस्मिन् समर्थो भवतु । देव इति । देवः सविना सूर्यः धिनोतु प्रीणयतु । मैनावरुण' वसिष्ठस्त्वामभिनन्दतु । इन्द्रस्य विष्णोश्च इदं ऐन्द्रावैष्णवम् । देवताद्वन्द्वे च' इति आनड् । अग्ने रुतस्य चेदमानिमारुतम् । 'इौ ' इति इत् । सौपर्ण गरुडदैवत्यमोजः पराक्रमः । ज्याघोष एव मन्त्रः । जयं पराभिभवं देयाद्दयात् । एतेलिटि' इत्येत्वम् ॥ २७ ॥ शोभरी हृयो भवसि । अत्लादरेण कृतम् । अबरोहण न कार्यस्पिति भावः । तहिं मदवरोहणे अनिष्टे । प्रत्यारोपय आरोपय । राजपुत्रं चन्द्रकेतुम् ॥ त्वमप्यनुरुध्यस्व चथा चन्द्रकेतुस्त्वद्वचनं रथादनचरोहणेनानुरोधितवान् तथा त्वमपि तद्वचन रथारोहणेनानुसर ॥ स्वेषु स्त्रीयेधूपकरणेषु स्थादिषु । अरण्ये सीदन्ति वसन्तीपरण्यसदः । 'सत्सूद्विष-' इखादिना किम् । अनभ्यस्तरथवर्याः अपरिचितरथगतयः॥ दर्पसौजन्ययोः यदाचरितं पराक्रमसख्यगत्योरनुगुणोऽयमाचारस्तम् । जानासीत्यर्थः । अयं लबः अस्य रामभद्रस्य हृदयमभिष्यन्दयेत् द्रवयेत् ॥ यदि चेति । वयमह क्रतुद्विषतां यज्ञादि धातुकानानरौ शासितरि रामभद्रविषये एवंप्राया यदि प्रेमपात्रभू-

ताश्चेत्क इव को वा त राजान रजक त रामभद्रं गुणैः शीलादिभिः हेतुभिः न बहु मन्यते।

  तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां
   विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत् ॥ २८ ॥

 चन्द्रकेतुः--किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ।

 लव:--अस्त्विहामर्षों माभूद्वा । अन्यदेतत्पृच्छामि दान्तं हि राजानं राघवमनुशुश्रुमः । स किल नात्मना दृष्यति नाप्यस्य प्रजा वा दृप्ता जायन्ते । तत्कि मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ।

  ऋषयो राक्षसीमाहुर्वाचमुन्मत्तहप्तयोः ।
  सा योनिः सर्ववैराणां सा हि लोकस्य निष्कृतिः ॥ २९ ॥

इति ह स्म तां निन्दन्ति । इतरामभिष्टुवन्ति ।

  कामं दुग्धे विप्रकर्षत्यलक्ष्मी
   कीर्ति सूते दुईदो निष्पलान्ति ।
  शुद्धां शान्तां मातरं मङ्गलानां
   धेनुं धीराः सूनृतां वाचमाहुः ॥ ३०॥

 मुमन्त्र:--परिभूतोऽयं बत कुमारः प्राचेतसान्तवासी। बदत्ययमभ्युपपन्नामर्षेण संस्कारेण ।

 लव: यत्पनश्चन्द्रकेतो. वदसि किन भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति ।


सर्वोऽपि तं संभावयतीत्यर्थः । सौजन्यस्य को विरोध इत्यत्राह-तदपि तथापि अखिलक्षत्राक्षेपः सकलराजतिरस्कारस्तेन प्रचण्डतया क्रूरतया तुरङ्गमरक्षिणामश्वमेधाश्वरक्षकानां विकृति मन्यु स व्याहारच 'तां पताकां हरामि वः' इत्यादिकः । अथवा तुरगमरक्षिणो व्याहारः 'सप्तलोकैकवीरस्य इत्युक्ति: मे विकृति मन्यु अकरोत् ॥ २८ ॥ दान्तमनहंकारमनुशुधुमः श्रुतवानस्मि । आत्मना खयं न दृप्यति नाहकरोति, प्रजा वा हप्तान जायन्ते । राक्षसी वावं दृप्तवाचम् । तदाह-ऋषय इति । योनिः कारणम्। निष्कृतिः परिभवहेतुः ॥ २९॥ इतरां वक्ष्यमाणाम् । काममिति । काममभिलपितं दुग्थे प्रपूरयति । अलक्ष्मी विप्रकर्षति दूरीकरोति । कीर्ति गुणवत्ताप्रथा सूते जनयति । दुहृदः शत्रून् निष्पलान्ति अतिशयेन नाशयति । सूनृता बागिति शेषः । शुद्धा दोषशून्यां शान्ता कार्कश्यरहिता मगलानां मातरं हेतुं धेनुं खरूयेणाभोग्या धीराः ध्यानशीलाः सूत्ता शुद्धामाहुरिति योज्यम् । इतीतरामभिष्टुवन्तीति पूर्वणान्वयः ॥ ३० ॥ अभ्युपपन्नामर्षेण उत्पन्नासहनेन संस्कारेण वासनया । तातप्रतापो- त्कर्षेऽयम इति यद्वदसि अनोच्यते इति शेषः । व्यवस्थितविषयः रामभद्रमात्रनियताधिकरणकः क्षन्नधर्मः क्षनियासाधारणपराक्रमातिशयादिः । अतिप्रसादनिष्टप्रस सुमन्त्रः-नैव खलु जानासि देवमैक्ष्वाकम् । तद्विरमातिप्रसङ्गात् ।

  सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
  जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥ ३१ ॥

 लव:---(सहासम् ।) आर्य, जामदग्न्यस्य दमनः स राजेति कोऽयमुच्चैर्वादः।

  सिद्धं खेतद्वाचि वीर्य द्विजानां
   बाह्वोवीर्य यत्तु तत्क्षत्रियाणाम् ।
  शस्त्रयाही ब्राह्मणो जामदत्य-
   स्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ॥ ३२ ॥

 चन्द्रकेतुः-(सोन्साथमिव ।) आर्य सुमन्त्र, कृतमुत्तरोत्तरेण ।

  कोऽप्येष संप्रति नंवः पुरुषावतारो
   वीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
  पर्याप्तसप्तसुक्नाभयदक्षिणानि
  पुण्यानि तातचरितान्यपि यो न वेद ॥ ३३ ॥

 लव:---को हि रघुपतेश्चरितं महिमानं च न जानाति । यदि नाम किंचिदस्ति वक्तव्यम् । अथवा शान्तम् ।

  बृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हूं वर्तते
   सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।


अनाद्विरम विरतो भव । 'जुगुप्साविराम-' इति पञ्चमी । सैनिकानामिति । प्रमाथेन प्रकृष्टविलोडनेन ओजायितमोजस्तीभूतम् । भावे कः । जामदग्न्यस्य दमने परशुरामस्थ जेतरि रामभन्ने विषये । निर्बन्ध रूक्षवादम् ॥३१॥ सिद्धमिति । द्विजानां विप्राण दाचि वीर्च पराभिभवनसामर्थ्यामिति यत् । क्षत्रियाणां बाहोवीर्यमिति यत् । एतत्सिद्ध प्रसिद्ध किल । जामदग्न्यः शस्नग्राही ब्राह्मणः । तस्मिन्दान्ते तस्य राज्ञः तद्दमनकरामभद्रस्य स्तुतिः गुगाभिधानिका का । न किमपीत्यर्थः ॥३२॥ कोऽपीति । यस्य परशुरामश्च वीरो न । यज्ज्ञानविषयावीरलवान् भृगुनन्दनः । यः पुरुषः सप्तानां भुवनानां समाहारः सप्तभुवनं तस्याभयं भयनिवारणं तदेव दक्षिणा प्रत्युपकारनिरपेक्ष स्वाभ्यु-

यमुद्दिश्य दान सा पर्याप्ता पूर्णा येषु तथोक्तानि तातचरितानि पुण्यानि रामभद्रवृत्तलक्षणगुम्फकर्माणि शुभकर्माणि तथा तु न वेद न जानाति । एषः नवः पुरुषावतारः कोऽपि । क्षेपेऽय किशब्दः । अत्र रामचरितलक्षणऋतूनां जगदभयदानमेव दक्षिणेति वर्णनाद्रूपकालंकारः ॥ ३३ ॥ बदि नाम किचिदस्ति वक्तव्यम् । बक्तव्यं किंचिदरित क्रिमित्यर्थः । वृद्धा इति । अविचारणीयचरितास्ते वृद्धास्तियन्तु । वयोमात्र तेष

  यानि त्रीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने
   यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥

 चन्द्रकेतुः-आः तातापवादिन् , भिन्नमर्याद, अति हि नाम प्रगल्भसे।

 लव:-अये, मय्येव श्रृकुटीमुखः संवृत्तः ।

 सुमन्त:--स्फुरितमनयोः क्रोधेन । तथा हि ।

  क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः
   किंचित्कोकनदच्छदस्य सदृशे नेत्रे खयं रज्यतः ।
  धत्ते कान्तिमिदं च वक्रमनयोभद्रेन भिन्न दो-
   श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्धान्तभृङ्गस्य च ॥ ३५ ॥

 लवः---कुमार, कुमार, एलेहि । विमर्दक्षमा भूमिमवतरावः ।

(इति निष्कान्ताः सर्वे )

इति पञ्चमोऽङ्कः।


गौरवहेतुरिति भावः । सुन्दनीमथने ताटकावधेऽपि अकुण्ठयशस: अप्रतिइतकीर्तयः। कुतोमुखानि पराङ्मुखानि पदानि पादन्यासपराङ्मुखानीति वाचा वामपि जुगुप्सयाकुतोमुखानीत्युक्तम् । तदिदं शौर्यातिशयकार्यम् । अत्रात्यन्तमासन्नो भूला खरः स्थितः तदा रामभद्रश्चापकर्षणार्थ पदन्नय निवृत्य तं जयानेति प्रसिद्धिः । इन्द्रसूनुनिधने वालिवधे यत्कौशल नैपुण्यमन्तर्धानपूर्वकल्वरूपं तत्राप्यभिज्ञो जनः वर्तते। हुमिति परिहासे ॥ ३४॥ तातापवादिनू रामभद्रविषयदोषवादिन् । भिन्नमर्याद अतिक्रान्तसमुदाचार ॥ भृकुटीमुखः क्रोधप्रयुक्तभनयुक्तवदनः ॥ अनयोलेवचन्द्रकेलोः । क्रोधेनेति । उद्धताः धूताश्वलन्तः कुन्तलाः केशभराः यस्मिन् स तथोक्तः । कोकनदच्छदस्य रक्तारबिन्दपत्रस्य रज्यतः रक्तीभवतः । भुवोमजेन भीमम् । थनयोरिदं वक्र च । उद्भटलाञ्छनस्य प्रकटलक्ष्मण: चन्द्रस्य उद्धान्तभृङ्गस्य कमलस्य च कान्ति धसे । वक्रमित्येकवचनोक्तिः संतानैक्यप्रयुक्तात्यन्तसारूपयद्योतनाच । निदर्शनालंकारः॥ ३५ ॥ एखागच्छ । विमर्दक्षमा युद्धयोग्या भूमिमवतरावः । इति निष्कान्ताः सर्वे ॥

  वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य ।
  उत्तररामचरित्रव्याख्यायामवासितः पञ्चमोऽङ्कः ॥

  इति श्रीचाधूलवीररावविरचितायां भवभूतिभावतल-
  स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां
    पञ्चमोऽङ्कः।

(ततः प्रविशति विमानेनोवल विद्याधर मिथुनम् ।)

 विद्याधरः-अहो नु खल्वनयोविकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्धान्तदेवासुराणि विक्रान्तविलसितानि । तथाहि प्रिये, पश्य ।

  रणरकरणझञ्झणकणितकिङ्किणीकं धनु-
   वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।
  वितत्य किरतोः शरानविरतं पुनः शूरयो-
   विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥

  जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि ।
  स्तनयित्नोरियामन्ददुन्दुभेर्दुन्दुमायितम् ॥ २ ॥

तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः ।

 विद्याधरी---ताकिं ति पुरो आआसं दुइंसतरलतडिच्छडाकडारं अवरं विअ झत्ति संवुत्तम् ।

 विद्याधरः-तत्किं नु खल्वद्य।


 १. तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम् ।


युद्धस्य 'दूरावानवधम्' इति दृश्यत्वप्रतिषेधाद्विष्कम्भेन तदाह-विद्याधरमिथुनमित्यादिना ॥ विकर्तनः सूर्यः । अकाण्डकलहेन उभयोरग्येकत्वेन वास्तवहेतुरहितबैरेण प्रचण्डयोः क्रूरचोरुद्योतिता क्षत्रलक्ष्मीः ययोत्तथोक्तयोः । अबद्धतेनातिविस्मयेन उदान्ता देवासुराः यैस्तथोक्तानि विक्रान्तस्य विक्रम स्य विलसितानि । अहो विस्मयनीथानीत्यर्थः । रणदिति । रणकरणेन रणदिति शब्दहेतुव्यास्फालनेन झणझणरकार कणितयुक्तम् । ध्वनन् गुरुगुणः ज्या बचा तथोक्ता अटन्या धनुष्कोट्या कृतः करालो भीषणः कोलाहलो यस्य तथोक्तं धनुर्वितत्य मण्डलीकृस्य विस्तार्य शरानविरत किरतोर्षतोः लवचन्द्रकेखोः ॥ १॥ स्तनायित्नोरिव गर्जन्मेघस्येव । अमन्ददुन्दुभेदुन्दुमाचित दुन्दुमशब्दः जृम्भितं प्रवृत्तम् ॥ २ ॥ अनयोलवचन्द्रकेखोस्तादर्सेन अविरलमिलिता कसूलकमनीयसंहतिर्येन तथोक्तः पुष्पनिपातः पुष्पवृष्टिः । तडिच्छटया विधुजालेन कडारे कपिल आकाशमन्यदिव जातमित्यर्थः । तत्किनु खलु नु किमिति

  त्वष्टृयन्त्रभ्रमिभ्रान्तमार्ताण्डज्योतिरुज्ज्वलम् ।
  पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥

आं ज्ञातन् । जातक्षोभेन चन्द्रकेतुना प्रयुक्तमप्रतिरूपमाग्नेयमस्त्रम् , यस्यायमग्निकच्छरसंपातः संप्रति हि ।

  अवदग्धवर्वरितकेतुचामरै-
   रपयातमेव हि विमानमण्डलैः ।
  दहति ध्वजांशुकपटावलीमिमां
   नवर्किशुकद्युतिसविनमः शिखी ॥ ४ ॥

 आश्चर्यम् । प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलिङ्गगुरुरुचालतुमुललेलिहानोज्ज्वलज्ज्वालासंभारभैरवः भगवानुषर्बुधः । प्रचण्ड श्वास्य सर्वतः संपातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि ।

(तथा करोति ।)


पदद्वयनस्य च वक्ष्यमाणवाक्यद्वचेनान्वयः । त्वष्ट्रिति । स्पष्टशाणचक्रमित्रान्तमाण्डज्योतिः किम् । उज्ज्वल: ललाटस्थनीललोहिदचक्षुषः रुद्रललाउनेत्रस्य पुटभेदो नु उन्मीलनु । अथवा कि न्वित्येकगेव पदम् । मार्ताण्डज्योतिरुज्ज्वल इत्येकपद पुटभेदविशेषणम् । ज्योतिरिवोज्ज्वलतीति तदः ॥३॥ जातक्षोभेन प्रकृतिविपर्यासता । आमेयमभिदैवल्यम् । शरसंपातः इषुधारा । अवदग्धेति । अवदग्धानि प्रायेण दुग्धानि यर्वरितानि यानि दाहजबर्बरवानेयुक्तानि केतवः शुदध्वजाचामराणि वालव्यजनानि येषां तथोकैः । अपयातम् । भावे क्तः । नवपलाशकुसुमकान्तिसदृशाः शिखी अग्निः । ध्वजाः महाकेतवः तेषामंशुकालि चीरांशुकानि तान्येव पटाः । सामान्यविशेषशब्दवोः कर्मधारयः । 'उत्तरीये वस्त्रमात्रे सूक्ष्मवन्त्रेऽपि चांशुकम्' इति रत्नमाय । अंशुकपदं सूक्ष्ममात्रपरं नोबलीव न्यायेन । नेपामावलीम् । ध्वजलक्षणकान्तिव्याजपुतानीति वार्थः । अत्र ध्वजाच अंशुकपाश्चेति विग्रहः।न्याजपर्यायः कपटशब्दः । अशव एव ध्वजव्याजेन वर्तन्त इति लाभात्तेजिष्ठव ध्वजाला लभ्यते । किचायमामेयाग्निरग्निमपि दहतीति असंवन्धेऽपि संबन्धादतिशयोक्तिरिति अपद देन सह संकरः ॥४॥ वनखण्डस्याशनिशकलस्य अवस्कोटः स्फुटनं तद्वत्पटु तीक्ष्ण रथा तथा रटन् स्फुलिङ्गगुरुः कणबहुलः । उत्तालतुमुलं यथा तथा अतिशयितसंकुलं यथा तथा लेलिहानः शं कवलनपरः । लिहधातोर्यड्लुकि चान । उउज्वलज्ज्यालासंभारेण ज्वालातिशयेन भैरवः भयकरः । उबर्बुधः अग्निः । अस्याने संपात : सम्यक्पतनम् । प्रचण्ड: अतितीक्ष्णः ॥ विमलमुक्ताशैलबद निदोषमौक्तिकपर्यंतवत् शीतलेन निग्धेन  विद्याधरी-दिडिआ एदेण विमलमुत्तासेअसीअलसिणिद्धमसिणमंसलेण पाढेहप्पंसेण आणन्दसंबलिदधुण्णमाणवेअणाए अद्धोदिदो एव . अन्दरिदो मे संदावो।

 विद्याधरः-अयि, किमत्र मया कृतम् । अथवा ।

  न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
  तत्तस्य किमपि द्रव्यं यो हि अस्य प्रियो जनः ॥ ५ ॥

 विद्याधरी-कहं अविरलविलोलधुण्यमाणविज्जुल्लदाविलासमंसलेहि मत्तमहूरकण्ठसामलेहिं ओत्थरीअदि गभोङ्गणं जलहरेहिं ।

 विद्याधरः--कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथमविरलप्रवृत्तवारिधारासंपातैः प्रशान्तमेव पावक्रास्त्रम् ।

 विद्याधरी पिअं मे पिकं मे।

 विद्याधरः-हन्त भोः, सर्वमतिमात्रं दोषाय । यत्प्रलयवातोत्क्षोभगम्भीरगुलुगुलायमानमेवमेरितान्धकार नीरन्धनद्धमिव एकवारविश्वअसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानि-


 १. दिष्टया एतेन विमलमुक्ताशैलशीतलस्निग्धमसूणमसालेन नाथदेहस्पर्शनानन्दसंदलितपूर्णमानवेदनाया अर्धोदित एवान्तरितो मे संतायः ।

 २. कथमविरलविलोलघूर्णमानविद्युल्लताबिलासमांसलैमत्तमयूरकण्ठश्यामलैरवस्तीर्यते नभोगणं जलधरैः।

 ३. प्रियं मे प्रियं मे।


नेहयुक्तेन भरहणेन चाकचक्यक्ता मासलेन स्फीतेन । सर्वत्र विशेषणसमासः । आनन्देन संदलिता वर्तिता बेदन बलिस्तथोक्तः । अन्तरितस्तिरोहितः ॥ मया विमत्र कृतम् । न किमपीयर्थः । न किंचिदपीत्यादि । पूर्व व्याल्यातम् ॥५॥ बिलोलाः वेपमानाः घूर्णमानाः वेष्टमानाः । अवतीर्यते आच्छाद्यते । 'अवतीर्यते' इति च पाठः ॥ आग्नेयास्त्रप्रतिद्वन्द्वलावरुणात्र प्रयुक्तम् । धारासंपातैधीरासम्यक्पतनै प्रशान्त निर्वापितम् ॥ अतिमात्र प्रमाणातिकान्त दोषाथ । कल्पत इति शेषः । प्रलयवातेन कल्पान्तमारुतेन उत्क्षोभाः अतिशयितक्षोभयुक्ताः गम्भीराः अनल्पाः गुलगुलायमानाः गुलगुलु इलाकारकवर्णध्वनियुष्का ये मेधास्तमैदुरितेन सान्द्रितेन अन्धकारेण नीरन्ध्रमविरलं नद्धमिव बद्धमिव । एकेन वारेण क्षणेन विश्वस्म प्रपञ्च स्य रुद्धसर्वद्वार नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो, साधु । स्थाने वायव्यमस्त्रमीरितम् । यतः ।

  विद्याकल्पेन मरुता मेघानां भूयसामपि ।
  ब्रह्मणीब विवर्तानां वापि प्रविलयः कृतः ॥६॥

 विद्याधरी-माध, को दाणि एसो ससंभमोक्खित्तकरम्भमदुत्तरीअञ्चलो दूरदो एच महुरसिणिद्धवअणपडिसिद्धजुद्धश्वाधारो एदाणं अन्दरे विमाणवरं ओदरावेदि।

 विद्याधर :-----(दृष्ट्वा ।) एष शम्बूकबधात्प्रतिनिवृत्तो रघुपतिः ।

  शान्तं महापुरुवसंगदितं निशम्य
   तगौरवात्समुपसंहृतसंप्रहारः ।


 १. माथ, क इदानीमेष सनिमोरिक्षप्तकरभ्रमदुत्तरीयाञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापारो एतयोरन्तरे विमानबरमवतारयति ।


असनेन कबलनेन । एकबारः इहानावृत्तिा । विकट निम्नोन्नत विकरालं विशेषेण भीषण कालमुख मृत्युवकं तस्मिन्विवर्तमानमिव विकुर्वाणमिव । युगान्ते कल्पान्ते योगनिद्रया ध्यानात्मकस्खापन निरुद्धानि सर्वाणि द्वाराणि यस्य तथोक्तम् । यनारायणोदरं समस्तवस्लाबारभूतलक्ष्मीनायकोदरम् । तस्मिभिविष्टमिव भूतन् । जात्येकवचनम्। प्राणिन इत्यर्थः । विपद्यते विपदं प्राप्नोति । वायव्य वायुदेवत्यम् । वास्तु--' इति यत्प्रखयः । ईरित प्रेरितमिति यत्तत्स्थाने युक्तम् । यतः यस्मात् । विद्येति । विद्याकल्पेन तत्त्वमस्यादिवाक्यविहिततत्त्वज्ञानसशेन मरुता वायुना को भूयसा बहुतराणां मेघानां ब्रह्माणि निर्विशेषसन्माने कूटस्थे चैतन्ये विवर्तानामिव अधिष्ठानविषयसत्ताकव्यावहारिकपटपठादिबिकल्पानामिव प्रविलयः निवृत्तिः कृतः । इदं वाद्वैतप्रक्रियया व्याख्यातम् । परमार्थतस्तु विद्याकल्पेन दर्शनसमानाकाराविच्छिन्नस्मृतिसंतानात्मकसद्विद्यादिसहशेन महता ब्रह्मणि निखिलचेतनाचेतनशरीरके समस्तकल्याणगुणाकारे श्रीमति नारायणे विवर्तानामिय विशेषणीभूतचिदन्चिारकविलक्षणविकारभूतदेहेन्द्रियादीनामिव प्रविलयः कृतः जगदुपादानस्य ब्रह्मणः कार्यलनियतमामरूपप्रहाणलक्षणात्यन्तिकलय एव तदपृथक्सिद्भविशेषणभूतजीवस्य मोक्षः । स च 'तमेव विविला-' इत्यादि श्रुतिभिर्भक्तसाध्य इति । एवमुक्ति: ब्रह्मैव सन् ब्रह्माप्येति इत्युक्तेः ॥६॥ प्रतिषिद्धः नित्रर्तितः युद्धव्यापारो येन तथोक्ताः । अन्तरे मध्ये । प्रतिषेधवाक्येन तयोत्तत्प्रतिघाताय मध्ये रथस्थापनेन तन्निवर्तयतीति भावः ॥ शम्बूकवधात् शम्बूकबधं निर्वस । ल्यलोपे पञ्चमी । शान्तमिति । शान्तं कार्कश्यरहित महापुरुषस्य रामस्य संगदितं बचनं निशम्य तद्रौरवादामविषयकगरीयस्वबुद्ध्या समुपसं

  शान्तो लवः प्रगत एव च चन्द्रकेतुः
   कल्याणमस्तु सुतसंगमनेन राज्ञः ॥ ७॥

तदितस्तावदेहि । (इति निष्क्रान्ती ।)

मिश्रविष्कम्भः ।


(ततः प्रविशति रामो लदः प्रगतश्चन्द्रकेतुश्च ।)

 रामः-(पुष्पकादवतरन् ।)

  दिनकरकुलचन्द्र चन्द्रकेतो
   सरभसमेहि दृढं परिप्वजस्त्र ।
  तुहिनशकलशीतलैस्तवाङ्गैः
   शममुपयातु ममापि चित्तदाहः ॥ ८ ॥

(उत्थाप्य सन्नेहान परिष्वज्य ।) अप्यनामयं नूतनदिव्यास्त्रायोधनस्य तव ।

 चन्द्रकेतु:-कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि मामिव विशेषेण स्निग्धन चक्षुषा पश्यत्व, वीरमनरालसाहस तातः ।

 राम:-(लवं निरूप्य ।) दिष्टया अतिगम्भीरमधुरकल्याणाकृतिरय वयस्यो वत्सस्य।

  त्रातुं लोकानिव परिणतः कायवाननवेदः
   शात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै ।


हृतः निवृत्तः संप्रहारः बुद्ध येन तथोक्तः । लवः शान्तः निवृत्तव्यापारोऽभूत् । चन्द्रकेतुश्च प्रणत एव । यत एवं ततः सुताभ्यां लवचन्द्रकेतुभ्यां संगमनेन समागमेन राज्ञः रामस्य कल्याणमस्तु । विद्याधरेण ज्ञातत्वात्सुतेत्युक्तिः ॥ ७॥ दिनकरेति । दिनकरकुलचन्द्र सूर्वेण सह तदीयस्थामाईशस्थ आहादकप्रसिद्धचन्द्र । सूर्य प्रति चन्द्रवामावेनास्य तं प्रचपि चन्द्रत्वमाधिक्ये पर्यवस्यति । अत एव ममापि चित्तदाह इत्युक्तिः संगच्छते । ममापि एवमवन्ततप्तस्यापि मम । अनेन सहनभानुतापापेक्षयापि खतापस्य भूयस्वं गम्यते । शम निर्वाणनुपचातु प्राप्नोतु ॥ ८॥ नूतनदिव्यास्नायोधनस्य नूतनामानुष्यान्नकरणकयुद्धस्त्र । नूतनं दिव्यासरायोधन यस्येति बहुव्रीहिः । तवेति शेषः । अनामबमारोग्यम् ॥ अत्यद्भुतस्य आश्चर्यकरस्य प्रियवयस्यस्य लाभ एवाभ्युदयरतेन । स्निग्धेन स्नेहवता चक्षुषा अनरालसाहलमकुटिलबुद्धादिव्यापारम् । अमु लवम् । अतिगम्भीरा अक्षोभ्या कल्याणी मङ्गलावहा आकृतिराकारो यस्य तथोक्तः। दिष्टचा आनन्दहेतु: । त्रातुमित्यादि । लोकान् चतुर्दशभुवनानि त्रातु रक्षितु काथवान्मूर्तिमान् सन् परिणतः जातः अस्त्रवेदः अनमत्रभागस्तद्वस्थितः । ब्रह्मकोशस्य ब्रह्माण्डव गुप्दै रक्षणाय तनु मूर्ति श्रितः प्राप्तः क्षात्रो धर्म इव

उ० रा. १३

  सामर्थ्यानामिव समुदयः संचयो वा गुणाना-
   माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ९ ॥

 लवः--(स्वगतम् ।) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः ।

  आश्वास इव भक्तीनामेकमायतनं महत् ।
  प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ १० ॥

आश्चर्यम् ।

  विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन-
   स्तदौद्धत्यं क्वापि जति विनयः प्रह्वयति माम् ।
  झटित्यस्मिन्दृष्टे किमिति परवानस्मि यदि वा
   महार्धस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥ ११ ॥

 रामः--तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपसोहयति


स्थितः शौचंबीर्यादिरूपक्षत्रियस्वभाव इव स्थितः । सामर्थ्यानामारब्धकार्यनिर्वहणशक्तीनां समुदय इच स्थितः । गुणानां धैर्यादीनां संचयो वा समूह इव स्थितः। 'वा स्थाद्विकल्पोपमयोः' इति कोशः । जगत्पुण्यनिर्माणानां जगत्पुण्यानुष्ठानानां राशिरिव स्थितोऽयं घत्सस्य बयस्य इति पूर्वेण संबन्धः । आविर्भूय प्रलक्षीभूय स्थितः जगत्पुण्यनिर्माणराशिरिव स्थितः । अभूतोपमा ॥९॥ पुण्ये अनुभावदर्शने यस्य तथोक्तः । अनुभावः प्रभावः दर्शनं साक्षात्कारः । आश्वास इति । भक्तीना नेहपूर्वानुध्यानानामाश्वास इव स्थितः दुःखविस्मरणपूर्वकाहाद इव स्थितः। भक्तयोऽन्यत्र हि क्रियमाणा विषयदोषेण दुःस्यन्ति । तासां रामे क्रियमाणानां विषयसौष्ठवेनासादो जायते । तद्धेतौ तत्त्वारोषः। एकमद्वितीय नहद्विपुलं भक्तीनामायतनं स्थान च । 'आश्वासस्नेहभत्तीनामेकमालम्बनं महत्' इति च पाठान्तरम् । आश्वास: द्वेषाभावः । स्नेहः प्रणयः भक्तिः स एव भावनाप्रकर्षण प्रलक्षसमानाकारतामापन्न एव तासां मुख्यविषयभूत इत्यर्थः । प्रकृष्टस्थ लोकोत्तरस्य धर्मस्य सुकृतस्य मूर्तिसुन्दर: प्रसाद इव स्थितः महापुरुष इति पूर्वेणान्वयः । उक्तं च 'रामो विग्रहवान्धमः' इति । प्रसाद इह फलप्रदानोन्मुखता ॥ १० ॥ विरोध इति । विरोधः वैरम् । निधान्तः विरतः निवृतिघनः आनन्दसान्द्रः । रस्यते चर्च्यते इति रसः । अपरोक्षावभासन रूपः प्रसरति प्राप्नोति । तद्विपुलमौद्रलं दर्पहेतुकसंभावनारूपं वापि ब्रजति । विनयः महाजनसंनिधी खोत्कर्षाननुसंधानरूपः मा प्रड्डयति नमयति । अस्मिन्महापुरुषे दृष्टे सति साक्षात्कृते सति किमिति परवानसि कस्माद्धेतोः परतन्त्रोऽसि । यदि वा अथवा तीर्थानामिव गङ्गादिपावनसलिलानासिव महतां पुरुषाणां महाघः अमूल्यः । इलाध्य इति यावत् । अतिशय उत्कर्षः कोऽपि । अन्याश इत्यर्थः । इमंच श्लोकं बहवो बहु मन्यन्ते ॥ ११ ॥ एकरद एव एकक्षण एवं उखविश्राम दुःखच कुतोऽपि निमित्तान्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत् ।

  व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
   ने खलु बहिरुपाधीप्रीतयः संश्रयन्ते ।
  विकसति हि पतङ्गस्योदये पुण्डरीकं
   द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥ १२ ॥

 लवः-चन्द्रकेतो, क एते ।

 चन्द्रकेतु:--प्रियवयस्य, ननु तातपादाः।

 लव: ममापि धर्मतस्तथैव यतः प्रियघयस्येति भवतोक्तम् । किंतु चत्वारः किल भवन्त्येवंव्यपदेशभागिनतत्रभवन्तो रामायणकथापु- रुषाः । तद्विशेषं ब्रूहि ।

 चन्द्रकेतुः-ज्येष्ठतात इत्यवेहि ।

 लवः-(सोल्लासम् ।) कथं रघुनाथ एव । दिष्टचा सुप्रभातमद्य यदयं देवो पृष्टः । (सविनय निर्वर्ण्य ।) तात, प्राचेतसान्तेवासी लवोऽमिवादयते।

 रामःआयुष्मन् , एहि । (इति सस्नेहमालिङ्गय ।) अयि वत्स, कृतमत्यन्त विनयेन । अङ्गेन मामपरिश्लथं परिरम्मस्व ।


नित्ति ददाति । कुतोऽपि निमित्तावनिर्धारिताद्धे तोरन्तरात्मानमुपस्नेहृयति खेहयुक्तकरोति । अथवा पूर्वोक्तपक्षाभावे निमित्तसव्यपेक्षः हेतुसापेक्षः स्नेहश्च निमित्तसापेक्षश्चेति यत् स्नेहस्वनिमित्तसापेक्षत्वरूपं विप्रतिषिद्धं व्याहतम् । व्यतिषजतीति ! कोऽपि हेतु: भवितव्यदारूएः तस्यान्वरत्नमलौकिकत्वं पदार्थानन्तःकरणप्रभृतिवतुजात व्यतिषजति अन्योन्यलाकरोति । अन्तर्भाबितण्यर्थोऽथ धातु: कतरि कर्मव्यतिहाराभावाचात्मनेपदम् । प्रीतयः अत्यन्तानुकूलरदज्ञानरूपस्नेहः बहिरुपान् बायहेतून संश्रयन्ते खलु स्वोत्पादकत्वेन नापेक्षन्त इति प्रतिद्धम् । दृष्टान्तमाह----विकसतीत्यादि । पतङ्गस्य सूर्यख । चन्द्रकान्तः शिलाविशेषः । अत्र मार्दवस्थाप्रयोजकत्वसूचनाय द्वितीयदृष्टान्तः ॥ १२ ॥ धर्मतः पुण्यात् । मित्रस्य पिता स्वस्य पितेति शास्त्रस्यायमर्थ । स्वपितृविषये यादशमनुवर्तन ताशं मित्रपितृविषयक महटे श्रेयसे कल्पत इति । एवं च मधुर्महेतु कपितृत्ववानित्यर्थः । एवंव्यपदेशस्य तातपादशब्दस्य मानिनः खामिनः । भागो हि खं भागी खामी तातपादशब्दस्य वाच्यतवा खामिनः अर्थप्रत्यायनार्थत्वाच्छब्दस्य वाच्यशेषत्वं वाचकस्य । तत्रमयन्तः पूजनीयाः रामायणकथापुरषोंः रामायणनामकवाक्यप्रवन्धप्रधाननाचाः । तद्विशेष तेनु विशेष

  परिणतकठोरपुष्करगर्भच्छदपीनमतृणसुकुमारः । .
  नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥ १३ ॥

 लव:--(स्वगतम् ।) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मय पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः । (प्रकाशम् ।) मृप्यन्तां त्विदानी लवस्य बालिशतां तातपादाः।

 राम:--किमपराद्धं वत्सेन ।

 चन्द्रकेतुः- अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन ।

 राम:- नन्वयमलंकारः क्षत्रियस्य ।

  न तेजस्तेजस्वी प्रसतमपरेषां विषहते
   स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
  मयूखैरश्रान्तं तपति यदि देवो दिनकरः
   किमानेयो ग्रावा निकृत इव तेजांसि वमति ॥ १४ ॥

 चन्द्रकेतुः--अमर्षोऽप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः । प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि।

 रामः—(सविस्मवखेदं निर्वर्ण्य । स्वगतम् ।) अहो, वत्सस्स ईदृशः प्र


तातपादत्वब्याप्चरामस्वाद्यन्यतमधर्मविशिष्टत्वं ब्रूहि बोधय ॥ प्राचेतसान्तेवासी बाल्मीकिशिष्यः । 'परीति।परिणतस्त्र विकसितस्य कठोरस्व समग्रस्य पुष्करस्य पद्मय गर्मच्छदवदातपायनमितान्तरपत्रवत् पीनः मांसल ममृणः दन्तुरतारहितः सुकुमारः मृदुल: चन्दननिष्यन्दवत् चन्दनद्रववत् जडः शीतलः । अत्र एकमात्राधिक्यम् । 'चन्दननिचन्दज' इति संबुद्धयन्तपाठोऽपि ॥ १३॥ अमीषाम् । रामस्येत्यर्थः । एभ्यः अभिद्रोग्धुमेतद्विषये अपकर्तुम् । 'किया-'इति चतुर्थी आयुषपरिग्रहः कृतः । वालिशतां मूर्खता नृभ्यन्ता सहन्ताम् ॥ क्रिमपराद्धं कोऽनिष्टाचारः अश्वस्त मे याश्वस्य आनुवात्रिकाः अनुयात्रायां नियुक्तास्तेभ्य इति पनमी । आविष्करण प्रकाशनमुपश्रुत्साकर्ण वीरायित वीरबदाचरितम् ॥ अय वीरावित विधेयप्राधान्यात्पुरत्वम् । अलंकार: शोभाकरः । न तेज इति । प्रसृतमपरेषां तेषां तेजः पराभिभवनसामर्थं न विषहते न सद्दत इति यत् सः प्रकृतिनियतत्वादुपादानकारणव्यात्तत्वादकृतकः अनागन्तुकः । खो भावः धर्म. सत्कार्यवादे कारणगुणाः काथै उपलभ्चन्ते। मयूरः किरणैरश्रान्तमबिरतमानेयो नावा अग्न्युत्पादकसूर्यकान्लशिला निकृत इन परिभूत इव तेजांसि बमति रहिरति । दृष्टान्तालंकारः ॥ १४ ॥ अमर्षोऽपि न केवल तेजः कितु मन्युरपि शोभते  भावः । (प्रकाशम् ।) वत्स, सहियतामस्थम् । त्वमपि चन्द्रकेतो, निापारतया विलक्षणानि सान्त्वय बलानि ।

(लदः प्रणिधान नाटयति।।

 चन्द्रकेतुः-यथा निर्दिष्टम् । (इति निष्क्रान्तः ।)

 लव:- तात, प्रशान्तमस्त्रम् ।

 रामः-सरहस्यप्रयोगसंहारजृम्भकास्त्राणि दिष्टया वत्सस्यापि संपद्यन्ते।

  ब्रह्मादयो ब्रह्महिताय तत्त्वा
   परःसहलं शरदस्तपांसि ।
  एतान्यदर्शन्गुरवः पुराणाः
   स्वान्येव तेजांसि तपोमयानि ॥१५॥

अथैतामस्त्रमन्त्रोपनिपदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्लरपरिचानिरतायान्तेवासिने कौशिकाय प्रोवाच । स भगवान्ममिति गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदाय इति पृच्छामि ।

 लव:-----स्वतःप्रकाशान्यावयोरस्त्राणि ॥

 राम:------(विचिन्त्य) किं न संभाव्यते । प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ।

 लव-प्रातरावावां यमौ ।

 राम:--स तर्हि द्वितीयः छ ।


हृयो भवति । स्तम्भितानि नियापाराणि ॥ संदियतामाकृष्यताम् । जृम्भकास्त्रप्रयुकपीडाया अननुभूतत्वात् , नियापारतया विलक्षणानि विस्मयान्वितानि । सान्त्वय मधुरोक्तिभिर्मोदय । प्रणिधान ध्यानम् ।। प्रयोग नियोजनम् , संहार आकर्षणम् । सरहस्सों अहन्यासाद्यनुष्ठानसहितौ प्रयोगसंहारौ षा तथोक्तानि । संपद्यन्ते स्थितानि भवन्ति । ब्रह्मादय इति । व्याख्यातम् ॥ १५॥ अनमश्नोपनिषद् अस्त्रमन्त्रनयीमुपनिषदम् । पर:सहस्राधिकसंवत्सरं परिचर्या निरताय कौशिकाय विश्वामिनाय । भगवान् कौशिकः । पूर्वेषां गुरूणामनुक्रमः परम्परासंप्रदायः गुरुमुखोपदेशः । कुतकस्मात् ।। स्वतःप्रकाशानि गुरूपदेशेन विना ज्ञाताने ॥ कि न संभाव्यते । सर्व सभावितमेवेति भाषा प्रकृष्ट पुण्योशदानक. प्रभूतसुकृतादिकरणकः । द्विवचनं तु आवयो

(नेपथ्ये ।)

दाण्डायन,

  आयुष्मतः किल लबस्य नरेन्द्रसैन्यै-
   रायोधनं नतु किमात्थ सखे तथेति ।
  अद्यास्तमेतु भुवनेषु च राजशब्दः
   क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १६ ॥

 रामः-

  अथ कोऽयमिन्द्रमणिमेचकच्छवि-
   निनैव बद्धपुलकं करोति माम् ।
  नवनीलनीरधरधीरगर्जित-
   क्षणबद्धकुमलकदम्बडम्बरम् ॥ १७ ॥

 लव:----अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्मतिनिवृत्तः।

 रामः-(सकौतुकम् ।) तर्हि वत्स, इत एवैतमायायुष्मन्तम् ।

 लब:यदाज्ञापयति । (इति निष्कान्तः।)

(ततः प्रविशति कुशः)

 कुश:--(सक्रोध कृतधैर्य धनुरास्फाल्य।)

  दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादा मनो-
   हप्तानां दमनाय दीपितनिजक्षत्रप्रतापानिभिः ।
  आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो
   दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥ १८॥


रिति पष्टीद्विवचन तु ॥ आयुष्मत इति । आयुष्मतः अनुजतया तथोक्तिः । नरेन्द्र सैन्यैः राजनिकैरायोधन ननु युद्धं किम् । तथेत्यात्थ किम् । भुवनेषु राजशब्दः अस्त नाशमेनु प्राप्नोतु । क्षत्रस्य क्षत्रियजातेः शस्त्राग्वेब शिखिनः वायः शमं निर्वाण यान्तु प्राप्नुवन्तु ॥ १६ ॥ अथेति । इन्द्रमणिमेचकच्छविः इन्द्रनीलवनीलच्छविः ॥ अषेति प्रक्षे। कदम्बस्येव डम्बर विश्रमो यस्येति विग्रहः ॥ १७ ॥ ज्यायानग्रजः ॥ इत एव अनैव । एतं कुशम् ॥ सक्रोध कृतधैर्य च यथा तथा । इत्तेति । अभयगेव दक्षिणा अभयदक्षिणा । इन्द्रस्य अभयदक्षिणा दत्ता मैरिति बहुव्रीहिः । भगवतः पाकुण्यवतः वैदखताद्विवखतपुत्रादा मनोआ मनुमारभ्य दृप्तानां दसमाच शिक्षणाय दीपितः ज्वलित: निजः असावारणः क्षत्रप्रताप एवाग्निचैस्तथोकैः । 'दहनाय' इत्यपि च पाठः । आदित्यैः सूर्यवश्यैः । दित्यदित्या--' इति यः । नृपतिभिः विग्रहो यदि विरोधश्चेत्ततः तदा

(विकट परिकामति)

 रामः कोऽप्यस्मिन्क्षन्नियपोतके पौरुषातिरेकः । तथाहि ।

  दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा
   वीरोद्धता नमयतीव गतिधरित्रीम।
  कौमारकेऽपि गिरिवद्गुरुतां दधानो
   वीरो रसः किमयमेत्युत दर्प एव ॥ १९ ॥

 लव:-(उपसल ।) जयत्वार्यः ।

 कुश:---नन्वायुप्मन् , किमियं वार्ता युद्धं युद्धमिति ।

 लपः-यत्किंचिदेतत् । आर्यस्तु ढसं भावमुल्लूज्य विनयेन वतताम् ।

 कुश:--किमर्थम् ।

 लव:-यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोता।

 कुशः--आशंसनीयपुण्यदर्शनः स महात्मा । किंतु स कथमम्माभिरुपगन्तव्य इति संमधारयामि ।


दीसानामबाणां रकुरन्त्यस्तरलाः रसास्तीक्ष्णाः या दीधितयस्तासां शिखया कोट्या नीराजिता आतांकृता ज्या मौवौं यस्य तथोकम् । मतद्धनुः। धन्यं प्रशस्तम् ॥१८॥ विकटं विषमं परिकामति ॥ दृष्टिरिति । तृणीकृतः अनाहतः जगत्रयसत्त्वसारः लोकत्रयबलोत्कर्षों यया सा । धीरोद्धता धीरा चासौ उद्धता चेति विग्रहः । कौमारेऽपि वास्येऽपि गिरिवत्पर्वत इव । गिरिहि उत्पत्तिप्रभूतिगुरुत्वयान् वृक्षादयस्तु नैवम् । कितु परिणामविशेषेण गुरुत्वं भजन्ति किं वीरो रस एति शत्रुकृतापराधादिना प्रज्वलनरूपकोवस्थायिकस्वसंवेद्यः प्रकाशविशेषः किमेति । रसालम्चने रसत्वारोपाद्धत्वलकारः । दर्पः बुद्धकण्डूलता ॥ १९ ॥ आयुष्मन् लबं प्रति संबोधनम् । युद्ध युद्धमिति वार्ता प्रवृत्तिः युद्धमासीदिदि जनबादः श्रूयते स कि सत्य इत्यर्थः ॥ एतयुद्धं यस्किचिदल्पकम् । न प्रश्नाहमित्यर्थः । आर्यस्तु । ज्येष्ठ प्रातृप्रयुक्तपूजाद्योतनाय आर्यशब्दप्रयोगः । दृप्तं भाव दात्मकखभावमुत्सृज्य त्यक्त्वा । दृप्तमित्यत्र भावे क्तः । विनयेन निकर्षप्रति संधानेन । उपलक्षणे तृतीया । देवः पूज्य: रघुनन्दनः रामः अत्र स्थित इति यत्तस्माद्विनयेन वर्नतामिति पूर्वेणान्वयः । ब्रह्मकोशन्य ब्रह्माण्डस्य गोप्ता रक्षकः ॥ स महात्मा अनन्यसामान्यत्रभावः रामः । आशंसनीयमभिलक्षणीय पुण्य सुकृतमूल दर्शनं साक्षात्कारः यस्य तथोक्तः । भवतीति शेषः। 'अस्तिभवन्तीपर.' इत्युक्तेः । प्राप्तस्य प्रयोजनस्य प्राप्तुमिच्छा आशंसा । कितु एव सत्यपि अस्माभिर्मया कथापगन्तव्य इति संधारयानि केन प्रकारेण उपस्थातव्यमिति  लवः--यथैव गुरुस्तथोपसदनेन ।

 कुशः-कथं हि नामैतत् ।

 लव:---अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः ।

 कुश:---संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः।

(उभौ परिकामतः ।)

 लवः पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंमाव्यमानविविधलोकोत्तरसुचरितातिशयम् ।

 कुश:-(निर्वर्ण्य ।)

  अहो प्रासादिक रूपमनुभावश्च पावनः ।
  स्थाने रामायणकविर्दैवीं वाचमवीवृधत् ॥ २०॥

तात, प्राचेतसान्तेवासी कुशोऽभिवादयते ।

 रामः-एलेह्यायुष्मन् ।

  अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।
  परिप्वङ्काय वात्सल्यादयमुत्कण्ठते जनः ॥ २१ ॥

(परिष्वज्य । स्वगतम् ।) तत्किमित्ययं च दारकः ।


मीमासे ॥ यथैवेति । यथा गुरुः पिता उपसदनेन समीपानुभजनेन । प्राप्य इति पूरणीयम् । तथैव उपसदनेनानापि प्राप्य इत्यध्याहारः ॥ एतद्गुरुवदुपसदनीयत्व कथ कस्सा तोः ॥ अत्युदात्तः अत्युचस्वभावः सुजनः समीचीनजनः । सौजन्यवानिति यावत् । औमिलेय. अमिलापुत्रः। स्त्रीभ्यो डक् । सख्येन सखित्वेन मामुपतिष्टते संश्लिष्यते । 'उपादेव-' इति आत्मनेपदम् । तेन संवन्धेन चन्द्रकेत्वन्युपगतमैत्रीरूपसंबन्धन ॥ संप्रति धर्मतस्तातत्वे राजन्ये रामेऽपि प्रश्रयो विनयः अवचनीयो निर्दुष्टः॥ आकारः महापुरुषलक्षणयुक्त विग्रहसन्निवेशः, अनुभावः प्रभावः, गाम्भीर्यमक्षोभ्यत्वम्, एतैः संभाव्यमागोऽनुमीयमान, विविध: नानाप्रकारः लोकोत्तरो विश्वातिशायी सुचारताना सुकर्मणामतिशयः उत्कर्षः यस्य तथोक्तम् ॥ अहो इति । प्रसादः पारुष्यराहिलं तस्मिन् भवं प्रासादिकम् । प्रसाद्गुण एवास्य रूपस्य उपादानकारणमिति भावः । रूपं विग्रहः । पावनः वसंबन्धानामन्येषामपि शुद्धिहेतुः । अनुभावः व्यवसायविशेषश्च । अहो विस्मयनीयावित्यर्थः । रामायणकविः रामायणप्रणेता वाल्मीकिलक्षणकविः देवीं वाच वाग्देवीमवीवृधत् इति स्थाने युक्तम् । वृधधातोणिचि लुडि चडू द्वित्वम् ॥ २०॥ अमृताध्मेति । अमृतामातजीमूत इव सुधापूरितकालमेघवत् स्निग्धं संहनन गात्रं यस्य तथोक्तस्य । 'गत्रं वपुः संहननम्' इत्यमरः । ते तर परिष्वशाय आलिक्षितमुत्कण्ठते । 'सर्वेन्द्रियसुखाखादो यत्रास्तीत्यभिमन्यते । तस्त्राप्तीच्छा ससंकल्पामुत्कण्ठां कवयो विदुः ॥' इत्युक्ताभिलाषबान्भवति । अयं जन इत्युक्तेः दय

  अङ्गादङ्गात्सृत इव निजलेहजो देहसारः
   प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः ।
  सान्द्रानन्दक्षुभितहृदयप्रस्रवेणावसिक्तो
   गाढाश्लेषः स हि मम हिमच्योतमाशंसतीच ॥ २२ ॥

 लवः-ललाटंतपस्तपति धांशुः। तदत्र सालवृक्षच्छायायां मुहसेमासनपरिग्रहं करोतु तातः ।

 रामः-यदभिरुचितं वत्सस्य ।

(परिक्रम्य यथोचितमुत्रविशन्ति ।)

 राम:--(स्वगतम् ।)

  अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः ।
  साम्राज्यशसिनो भावाः कुशस्य च लवस्य च ॥२३॥

  वपुरवियुतसिद्धा एव लक्ष्मीविलासाः
   प्रतिकलकमनीयां कान्तिमुद्देदयन्ति ।


नीयवरूपवस्तुध्वनिः ॥ २१ ॥ किमिलय च दारकः । अङ्गादङ्गादित्यादि । अत्र गद्यस्थावपदस्य पद्यस्थसशब्देन संबन्धात् दारकविशेषणलम् । एवं च सोऽयं समस्तविलक्षणो बुद्धिस्थश्च दारकः बालकः । अङ्गादडात् सर्वेभ्योऽभ्यः सृतः क्षरितः स्नेहजः स्नेह एव मैत्र्येव स्नेहः द्रवद्रव्यं तस्मिन् जातः निजः नैसर्गिकः । देहे रूप लावण्यसौन्दर्यसमुदयात्मके शरीरे यः सारः उस्कृष्टरूपलावण्यसौन्दर्यसमुदाय इव स्थितः । स्वरसग्राहिणो जलादिद्रवद्रव्य संयोज्यैव खरसं गृह्णन्ति । तद्वत्प्रकृष्टेऽपि स्नेहलक्षणद्रवद्रव्यसंवन्धेन गाढाश्लेषरूपसंचनदशाहि.मृतः स्वदेहसार इवेयुत्प्रेक्षा । स्नेह्ज इति दिलष्टरूपकानुप्राणिता च । अत्र 'अजादारसंभवति हृदयादधिजायसे' इति श्रुतिः प्रत्यभिज्ञायते । एक चेतनावातुश्चैतन्यैकरसे आत्मवस्तुनि एकदेश: बहिः प्रादुर्भूय स्थित इय साक्षात्कारार्हः सन् स्थित इव । सान्द्रानन्दक्षुभितस्य घनतरानदेन क्षोभ त्रातस्य हृदयस्य प्रस्त्रबेण प्रकृष्टसेकेनावतित: आनीकृतः गाढः दृढ श्लेष आश्लेषो यस्य तथोक्तः सन् सोऽय दारक. गाढाक्षेपः सन् हिमच्योतं हिमवर्षमाशसतीन सूचयतीव । किमिति विस्मये ॥ २२॥ ललाटतपः ललाट तपतीति विग्रहः । खच्यत्यये मुनागमः । मध्याह्नसूर्य इति भावः । तदा हि सर्वासु दिक्षु ललाटातपसंयोगोअपरिहार्यः । अन्यदा तु न तथा ॥ यथोचितं पितृलपुत्रलानुगुणम् ॥ अहो इति । प्रश्श्यचोगेऽपि विनयसंवन्धेऽपि । साम्राज्यशसिनः सार्वभौमखसूचकाः गतिस्थित्यासनादयः । आदिशब्देनोक्तिवीक्षणादिपरिग्रहः । भावाः क्रियाः सन्ति । अहो विस्मयनीयम् ॥ २३ ॥ वपुरिति । अवियुततिद्राः अपृथक्सिद्धाः लक्ष्नीविलासाः लावण्यातिशयाः प्रतिक्रलकमनीयामनुक्षणरनणीयां शान्ति चारुतां वपुः शरीरं कर्म । वपुः कान्तिमुद्भेदयन्ति । द्विकर्मकोऽच धातुः । उत्पादयन्तीत्यर्थः । स्वे स्वीयाः रश्मयः

  अमलिनमिव चन्द्रं रश्मयः खे यथा वा
   विकसितमरविन्दं बिन्दवो माकरन्दाः ॥२४॥

भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि ।

  कठोरपारावतकण्ठमे चर्क
   वपुषस्कन्धसुबन्धुराँसयोः ।
  प्रसन्नसिंहस्तिमितं च वीक्षित
   ध्वनिश्च माजल्यमृदङ्गमांसलः ॥ २५ ॥

(निपुण निरूपयन् । अये, न केवलमस्मद्धशसंवादिन्याकृतिः ।

  अपि जनकसुताबास्तच तच्चानुरूपं
   स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
  ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
   रभिनवशतपत्रश्रीमदास्यं प्रियायाः ॥२६॥

  शुक्लाच्छदन्तच्छविसुन्दरेयं
   सैबोष्ठमुद्रा स च कर्णपाशः ।
  नेत्रे पुनर्यद्यपि रक्तनीले
   तथापि सौभाग्यगुणः स एव ॥ २७ ॥


मयूखाः अमलिन निष्कलङ्कं चन्द्रमित्र । नाकरन्दाः मकरन्दसंवन्धिनः बिन्दवः कणाः विकसितं त्यक्तमुकुलीभावमरविन्दसिव च वपुःकान्तिमुद्भेदरन्ति ॥ २४ ॥ अनयोः कुशलव्योः भूमिष्टं अतिसयेन बहु रघुकुलकौमार रधुवशसंबन्धिबालखम् । कठोरेति । कठोरपारावतकात् प्राप्त यौवनक्रमोनकण्ठवन्येबक नीलम् । वृषस्कन्धवढ्षभककुदिव सुबन्धुरं सुन्दरमन्तं भुजशिखरं ययोस्तथोक्तयोः । प्रसन्नसिहवत्याकश्यरहितसिहदीक्षितवत् स्तिमितमतरलम् । माअल्यमृदावन्मङ्गलार्थमृदहध्वनियमांसलः स्फीतः । हितादिलाबप्रत्यये सति प्रज्ञाद्याणि च आदिवृद्धौ माजल्यशब्दसिद्धिः ॥२५॥ निपुणं निरूपयन् सम्बपिबद्धारयन् । आकृतिरस्मद्वंशसंवादिनी केबल न भवति समदंशसंवादः असमत्कुलसादृश्यं सोऽस्सास्तीति विग्रहः । अपीति । तच्च तचाववादिक गुणजातमेवं च जनकसुनायाः सीताचा: अनुरूपं सदृशं तचावयवादिकमिह शिशुयुग्मे कुशलवचोः स्कुटं व्यक्तम् । तच गुण जातं च नैपुणेनावहिततया उनेय निश्चयाईनस्ति विद्यते । क्रियाद्वयाग्नैकशेषः । अभिनवशतपत्रस्य नूतनकमलस भीरिव श्रीर्थरस तथोक्तमास्यं पुनरक्ष्योर्गोचरीभूतमिच ननु भूयोऽपि त्राविषयीभूतमिव ननु संभाव्यते । द्वादशसु संवत्सरेषु चक्षुर गोचरमय गोचरतां गतमिति विप्रत्ययेन लभ्यते ॥ २६ ॥ शुक्राच्छदन्तच्छविसुन्दरेयं ओष्टमुद्रा अधरोत्तरोष्टसंनिवेशः सैर सीताचा एव । कर्णाशः स एव सीतासंबन्धेव । नेत्रे (विचिन्त्य ।) तदेतत्याचेतसाध्युषितमरण्यं यत्र किल देवी परित्यक्ता । इयं चानयोराकृतियोऽनुभावश्च । यत्स्वतःप्रकाशान्यस्त्राणीति च । तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासनिकं शन्त्राभ्यनुज्ञानं प्रबुद्ध स्यात् । न ह्यसंप्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुमः । अयं विस्मयसंप्लवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः । यमाविति च भूयिष्ठमात्मसंवादः । जीवद्वयापत्यचिह्नो हि देव्या गर्भिणीभाव आसीत् । (सास्त्रम् ।)

  परां कोटिं स्नेहे परिचयविकासादधिगते
   रहो विस्रब्धाया अपि सहजलज्जाजडदृशः ।
  मयैवादी ज्ञातः करतलपरामर्शकलया
   द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥

(रुदिखा।) तत्किमेतौ पृच्छामि केनचिदुपायेन ।


पुनः अनयोः सीतायाश्च दृशौ तु रक्तनीले यद्यपि अनयोः रके सीताया नीले एव । तथापि सौभाग्यगुणः सौन्दर्यगुगः स एष एकरूप एवं ॥ २७ ॥ प्राचेतसाध्युषित बाल्मीकिकर्तृकवासाधिकरणम् । चत्रारण्ये । आकृतिरवयवसंस्थानविशेषः । इयमीहशम् । बयः द्वादशवत्सरपरिमितमित्यर्थः । अनुभावश्च प्रभावश्च । ईदृश इति शेषः । अनाणि जृम्भकाणि स्वतःप्रकाशानि गुरूपदेशेन विना ज्ञातानीति यत् । तत्रापि चित्रदर्शने प्रा- सनिक प्रसमानुप्रसक्तं शस्त्राभ्यनुज्ञान सर्वथा त्वत्प्रसवमुपस्थास्यन्तीखत्र कृतं प्रबुद्ध स्यात्तथा संपादनेन प्रकटं भवेदिति स्तरामील्यन्वयः । हि यस्मादसंप्रदायकानि गुरूपदेशक्रमरहितानि अस्वाणि पूर्वेषामपि मनुप्रभृतीनामपि नेति शुश्रुमस्तस्यात्मबुद्ध स्यादिति तत्रापि सरामीति पूर्वेण संबन्धः । विस्मये संपवमानः अमज्जन् सुखदुः- खातिशयः हृदयस्य विप्रलम्भः विप्रयोगशहारः । प्रायेण हि खरूपसंतापेन प्रियजनसंयोगविप्रयोगौ मुखदुःखहेतू भवतः । विस्मयसंप्लवमानेलनेन विस्मयस्य प्रवाहात्मकल चन्यते । अजले प्लवनासंभवात् । यमाविति द्वाविति । आत्मसंवादः प्रकृतानुभूयमानयमत्वानुरूपस्लपूर्वानुभवः । भूशिष्ठम् । बहुतम इत्यर्थः । सामान्ये क्लीबलम् । जीवद्धय यदपत्यं तस्य चिदं सूचितं यस्मिस्तथोक्तः । परामिति । हे परिचयस्य सततसाक्षात्कारस्य विकासादतिशयात्परां कोटिमपकर्षांसमानाधिकरणोत्कर्षमविगते प्राप्ते सति । रहो बिनब्धाया अपि लक्षाविरोधिखैरस्थिलापादकदशाविशेषाहींग अपि । अहे तः । सइजलजाजडदृशः अपरिहरणीयलज्जागुणेनाधीरलोचनायां आदी प्रथमं करतलपरामर्शकलया पाण्युदरपरिमार्जनविद्यया । कलाशब्देन सूक्ष्मदर्शनं ध्वन्यते । अन्थिः भस्त्रिका द्विधा अपत्यद्वयरूपप्रकारचयुक्तः शातः निश्चितः । तन्तु मनानानन्तक कैर्दिवसः कतिपचदिवसैस्तथापि ज्ञातः सीतया यवगतः ॥ २८ ॥  लक:-तात, किमेतत् ।

  बाप्पवर्षेण नीतं वो जगन्मङ्गलमाननम् ।
  अवश्थायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥

 कुश:-अयि वत्स,

  विना सीतादेव्या किमिव हि न दुःखं रघुपतेः
   पियानाशे कृत्सं किल जगदरण्यं हि भवति ।
  स च स्नेहस्ताबानयमपि वियोगो निरवधिः
   किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥

 रामः---(खगतम् ।) अये, तटस्थ आलापः । कृतं प्रश्नेन । मुग्धहृदय, कोऽयमाकस्मिकस्ते संप्लवाधिकारः । एवं निर्मिन्त्रहृदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि । भवतु ताबदतरयामि । (प्रकाशम् ।) वत्सौ रामायणं रामायणमिति श्रूयते भगवतो बाल्मीके: सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य । तत्कौतूहलेन यत्किंचिच्छ्रोतुमिच्छामि ।

 कुश:-कृत्स्न एव संदर्भोऽस्माभिरावृत्तः । स्मृतिप्रत्युपस्थितौ तावदिमौ वालचरितस्यान्ते द्वौ श्लोकौ ।

 रामः-उदीरयतं वत्सौ ।


केनचिदुपायेन अनिर्धारणीयेन व्याजेन ॥ बापवर्षेणेति । जगन्महलं जगदम्युयहेतुभूतं वः आननमवश्यायेन हिमेनावसिकस्य पुण्डरीकस्य सिलाम्भोजस्य । विरहपाण्डिन्ना पुण्डरीकलोक्तिः । चारुतां शोभा नीत प्रापितम् । निदर्शनालंकारः ॥ २९ ॥ बिनेति । सीतादेव्या विना सीतावियोगो रघुपतेः किं वा दुःख न । सर्व दुःखात्मकम् । कृत्नं जगत्प्रिचानाशे प्रियाचा अदर्शने अरण्य भवति हि । स च स्नेहः सीताविषयकः प्रणयः स तावानपरिमितः । वियोगः निरवधिरवसानशून्यः । अनधिगतरामायण इवानधीतरामायण इव पृच्छसि।। ३० । तटस्थः अस्मजिज्ञा- सितसीतापुचलास्पर्शनेन उक्तमित्यर्थः । आकस्मिकः निष्कारणिकः संहवाधिकार: लतगमनान्वयः दुर्लभविषयमनोरथायासः किमर्थ इति यावत् । अन्तरयामि छादयामि । सरस्वत्याः वाण्याः तिध्वन्दः द्रवः । आदित्यवशस्य प्रशस्तिः प्रख्यातिहेतुः । रामावण रामायणनिति श्रूयते । श्रवणबहुलाभिप्राय द्विरुक्तम् । तत्र तदेकदेशं यत्किंचिच्च्ट्रोतुं इच्छामि । कौतूहलं हर्षः ॥ कृत्व एव सकल एव संदर्भः अन्यः सावृत्तः उपाध्चाचासहकारेण खमाणोच्चारणानुकूलावृत्तिविशेषः कृतः । स्मृति प्रत्युपस्थितौ अव स्मृतिविषयभूतौ । बालचरितस्य बालकाण्डस्यान्ते सर्गान्ते द्वौ श्लोको द्वे पद्ये ॥ वत्सौ संबोधन द्विवचनम् । उदीरवतं बदतम् । विधौ लोमध्यमद्विवचनम् ॥  कुशः

  प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
  गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥ ३१ ॥
  तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।
  हृदयं स्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥

 रामः-----कष्टमतिदारुणो हृदयमर्मोद्धातः । हा देवि, एवं किलैतदासीत् । अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः।

  क तावानानन्दो निरतिशयविनम्भबहुलः
   क्रवान्योन्यप्रेम के च तु गहनाः कौतुकरसाः ।


प्रिया विति। सीता पितृकृता दारा इत्येव रामस्य गुणैः शीलादिभिः । रूपगुणैरभूषितेष्वायझेविति लक्षणलक्षितरूपप्रभृतिगुणैश्च प्रीतिर्भूयोऽप्यवर्धत ॥३१॥ तथैवेति । तथैव यथा रामस्य सीता प्रिया तथा रामः सीतायाः प्रियोऽभवत् । हृदय स्वेव । एवकारेण सीतारामयोरपि स्वप्रीतिज्ञानव्यावृत्तिः । प्रीतियोग प्रीतेरुत्तरोत्तरवृद्धिसंनाहम् । 'योगः संनहन-' इत्युक्तेः । जानाति ॥३२॥ हृदयमेव मम मर्मस्योद्धातः प्रहारः दारुणः दुःसहः । हा देवील्यादि । एतद्वक्ष्यमाणमेवमासीद्वक्ष्यमाणप्रकारेणासीत् । यद्वा 'प्रिया तु-' इत्यादिलोकद्वयोक्तमेवमासीद्यथोक्तमभूत्। हा दुःख्यते। अहो इत्यादि। निरन्वयविपर्चासे निरन्वयविनाशे । 'अयं तु विप्रलम्भः' इत्युक्केः विश्लेषस्य निरन्ययविनाशत्वोक्तिः । दीपस्य निर्वाणजन्यो श्वराः निरन्दयविनाशः । तस्यैव उत्तरोत्तरदशासंक्रमणलिङ्गानुमेयो ध्वंसोऽन्यः । सीताचा मरणरूपेऽस्मिनिरन्वयविनाशे विप्रलम्भस्मृतिपर्यवसाचिनः । विगलम्भव स्मृतिश्च बिनलम्भस्मृती । विप्रलम्भो वचन तन्त्र परेच्छाधीननमः । स्मृतिर्भूतपूर्व विषयकं ज्ञानम् । तत्पर्यवसाधिनस्तद्विषयतामात्रयन्तः देवववनात्मरणमानविषचाः संसारवृत्तान्ताः प्रणयभोगादयः । नतु वस्तुसत्तावन्त इति भावः । यदा । निरन्वयविपर्यासात्मको विप्रलम्भः अन्यतरनाशात्मकविरहहेतुकविप्रलम्भ शृङ्गारस्तस्मिन् स्मृतिपर्यवसायिनः स्मृतिविषचतामात्रवन्तो भवन्तीत्यर्थः । अभिलाषाप्रवासकलहविरहहेतुत्वेन विप्रलम्भशृङ्गारस्य पथविधलात् । संभोगो विप्रलम्भश्च नारो द्विविधो मतः । संयुक्तयोस्तु संभोगो विग्रलम्भो वियुक्तयोः ॥ इत्यादिकमिहानुसंधेयम् । युक्तश्चायमर्थः । नाटकस्थाविप्रलम्भशहारपरस्त्रस्वारस्यात् । केचित्त अन्वयश्च विपर्यासव अन्वयविपर्यासौ । अन्वयव्यतिरेकाविल्यर्थः। तौ न विद्यते येषां ते निरन्वयविपर्यासाः। अन्वयव्यतिरेकशून्या इत्यर्थः । बिप्रलभ्यन्ते भ्राम्चन्ते एभिरिति विप्रलम्माः । बाहुलकः करणे प्रत्ययः । अन्वचव्यतिरेऋशून्यत्वेन सद्विलक्षणतया तुच्छत्वेन विषयतासंबन्धेन भ्रममानहेतवः स्मृतिपर्यत्रसायिनः स्मृतिमात्रै विषयातीतघटादेिवदर्थक्रियाकारिलबिधुरा इति ब्याचक्षते ॥ केति

उ. रा. ५४

  सुखे वा दुःखे वा क नु खलु तदैक्यं हृदययो-
  स्तथाप्येष प्राण; स्फुरति न तु पापो विरमति ॥३३॥

भोः, कष्टम् ।

  प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः ।
  य एव दुःसहः कालस्तमेव मारिता वयम् ॥ ३४ ॥

  यदा किंचित्किंचित्कृतपदमहोमिः कतिपयै-
   यदेतद्विस्तारि स्तनमुकुलमासीन्मृगदृशः।
  वयःस्नेहाकूतव्यतिकरघनो यत्र मदनः
   प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्व वपुषि ॥ ३५ ॥

 लव:--अयं तु चित्रकूटवर्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः।

  त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः।
  यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६॥


निरतिशयेनानपकृष्टेन विनम्मेण भोगदशायां खैरस्थित्युपपादकलज्जाविरोधिज्ञानविशेपेण बहुलः स्फारः सः ताबानपरिमेयः आनन्दः । गत इति शेषः । अन्योन्यस्य प्रेम परस्परविषयक परस्पराधिकरणकं च प्रेम प्रणयः क्व । गहनाः अगाधाः कौतुकरसाः भोगाभिलाषाः क । हृदययोः मम तस्याश्च मनसोः सुखे वा दुःखे चा सुखदुःखानुभवकाले तदैक्यमभिन्नत्वं क । तच्छब्देन हृदयैश्यस्य दौर्लभ्यं घोलते। तथापि एतेषु सर्वेषु गतेष्वपि पापः मरणप्रतिवन्धकपापवान् ।पापगुणसारलात्पापलव्यपदेशः । एपः प्राणः आत्मा स्फुरति न बिरमति न नश्यति ॥ ३३ ॥ प्रियेति । प्रियागुणसहस्राणा सौन्दर्यशौजन्यायनन्तगुणानाम् । 'संख्यायां द्विबहुत्वे स्तः' इत्युक्तेः बहुवचनम् । क्रमेण उन्मीलनतत्परः प्रकाशनासक्तः यः काल: दुस-हस्तमेव कालं बय समारितास्तद्विषयकस्मरणवन्तः कृताः ॥ ३४ ॥ यदेति । कृतपदं सूचितरेखाकारसंनिवेश तत् मृगद्दशः सीतायाः स्तनमुकुलं कतिपयैरहोभिर्दिवसैरीषद्विस्तारि यस्मिन् काले अभवत् । यतः स्नेह-' इति पाठे स्नेहाकूतयोः अनुरागाभिलाषयोयतिकरस्य संपर्कस्य पतः नेडुरता यतः । यादृशकालहेतुक इत्यर्थः । 'वयःस्नेहाकूत-' इति पाठे तु-यत्र काले वयसस्तारुण्वस्त्र स्नेहस्यानुरागस्य आकूतस्याभिप्रायस्य च व्यतिकरण घनः सान्द्रः। धर्मपरो थर्मिपरश्चार्य शब्द: मदनविशेषणम् । मदनः मन्मयः कर्ता हदि प्रगल्भन्यापारःसन् मनस्यतिशयितशरपातनादिचेष्टायुकः सन्वपुषि मुग्धश्च सनप्रकटः सन् स्फुरति वर्तते । तमेव कालं स्मारिता वयमिखन्वयः । अनेन श्लोकेन मुग्धालक्षणं स्फोरितम् । पादत्रयेण 'उदयद्यौवना मुग्धा' इति दलमुक्तम् । तुरीयपादेनच 'लज्जाविजितमन्मथा' इति दलमुक्तम् ॥३५॥ त्रकूटवर्मनि चित्रकूटपर्वतमार्गे मन्दाकिनीविहारे गङ्गातीरनीरक्रीडायो सीतामुद्दिश्य सीताबोधेच्छया । त्वदर्थमिति । अयं  रामः- (सलन्जास्मितस्नेहकरुणम् ।) अति हि नाम मुग्धः शिशुजनः । विशेषतस्त्वरण्यचरः । हा देवि, स्मरसि वा तस्य तत्समयविसम्भातिप्रसङ्गस्य ।

  श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी-
   मरुत्तरलितालकाकुलललाटचन्द्रद्युति।
  अकुङ्कमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते
   निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७॥

(स्तम्भित इव स्थित्वा । सकरुणम् ।) अहो नु खलु भोः,

  चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः
   प्रवासे चाश्वासं न खलु न करोति प्रियजनः ।
  जगजीर्णारण्यं भवति च कलत्रेऽप्युपरते
   कुकूलानां राशौ तदनु हृदयं पच्यत इव ॥ ३८ ॥


केसरः बकुलवृक्षः यस्याभितः यदीयेषु चतसुषु पार्श्वेषु प्रवृष्ट इव पुष्पकरणकप्रवणकर्तेत्युत्प्रेक्षते । सोऽयमायतः शिलापट्टस्वदर्थ विन्यस्त इथ । उत्प्रेक्षाद्वयम् । अयमभितः केसरः परितो वर्तमानः केसरवृक्षः । अस्य प्रवृष्ट इव भविष्यत्त्वदुपदेशमूलकयदधिकरणकपुष्पवृष्टिकर्तेत्युत्प्रेक्षते । अयं बदथै विन्यस्त इव । अय श्लोको रामायणलेखकैः प्रचशित इति वदन्ति ॥३६॥ लज्जा रहस्यप्रकाशनात् हृदयसंकोचः । स्मित विस्सवात् । शिशुजनः अतिमुग्धो हि नामेति योज्यम् । अरण्यचरस्तु विशेषतो मुग्धः । तस्य पूर्वानुभूतस्य तस्सिन्समये 'त्वदर्थम्-- इत्यादिलोकार्थसमये यो विलम्भः लज्जाप्रतिघाटन खैरस्थित्लापादकज्ञान विशेषः तेन योऽतिप्रसङ्गः भोगातिमात्रता तस्यामित्यर्थः । स्मरसि । 'अधीगर्थदयेशां-' इति कर्मणि षष्ठी । श्रमान्विति । श्रमाम्बुशिशिरीभवत, इदं भिन्नं पदं मुखविशेषणम् । सुरतकालजस्नेदसलिलेन शीतलीभवत् । अलकाकुला चूर्णकुन्तलैर्व्यक्ता । चन्द्रसदृशललाट्युतिः यस्य तथोक्तम् । संजातः कलङ्को यस्मिन् कलङ्कितः । कुडमेन कलङ्कितो न भवतीत्यकुङ्कुमकलहितः। अत एवोऊज्वल लावण्यातिरोधानेन प्रकाशमानः कपोलो यस्य तथोक्तम् । कुशुमस्य कलकलोक्त्या न केवलमाभरणस्याभरणं किंतु आभरणासहमिति व्यज्यते । निराभरणस्वाटकमौक्तिकगुच्छादिभूषणरहितोऽपि सुन्दरः यः श्रवणपाशः पाशसदृशकर्णसंनिबेशस्तेन मुग्धं सुन्दरमुत्प्रेक्ष्यते संभाव्यते ॥ ३७॥ चिरंध्यात्वेत्यादि । अत्र श्लोके स्थितस्य जनस्येत्यध्याहार्यम् । प्रियजनः कर्ता प्रवासे देशान्तरगमने चिरै ध्यरखा न्याखा स्थितस्य पुरतो निर्माय निहित इव । अनवरतमाचनाप्रकर्षयुक्तस्य जनस्व पुरस्तावत्तेन भावनाप्रकर्षेण दृष्ट्या स्थापित इव । आश्वासं न करोतीति न स्वस्य पुनरागमनेन संतोष करोल्येव । प्रियजने प्रोषितं ध्यायति सति तदानीमागतः प्रोषितस्तेन ध्यानेन सृष्ट इत्युत्प्रेक्षाई इति भावः । कलन्ने धुपरते च कलत्रनाशे तु

(नेपथ्ये ।)

  बसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः
   सहैवारुन्धत्या शिशुकलहमाकये सभयाः ।
  जरामस्तैर्गात्रैरथ खलु सुदूराश्रमतया
   चिरेणागच्छन्ति त्वरितमनसो विक्षथजटाः ॥ ३९॥

 राम:-कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चान्नैव । कथं खलु ते द्रष्टव्याः । (सकरुण विलोक्य ।) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽसि मन्दभाग्यः ।

  संबन्धस्पृहणीयताप्रमुदितैज्येष्ठैर्वसिष्ठादिभि-
   दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तालयोः संगमम् ।
  पश्यन्नीदृशमीदृशः पितृसखं वृत्ते सहावैशसे
   दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥ ४० ॥

(नेपथ्ये ।)

भो भोः, कष्टम् ।

  अनुभाबमात्रसमवस्थितश्रियं
   सहसैव वीक्ष्य रधुनाथमीदृशम् ।


जगत्कर्तृ जीारण्यं शून्यकल्पं भवति । प्रवासव पुनरागमनकलङ्काभावेन भावनाप्रकर्षस्पालीकलानाश्वासहेतुरिति भावः । तदनु जगचीारण्यकानन्तरं हृदयं कर्तृ कुकूलानां राशौ तुषानीनां समुदाय पच्यत इव पक्कं भवति । कर्मकर्तृलकारोऽयम् । आतिदेशिकयगादयः ॥ ३८ ॥ दशरथमहिध्यः कौशल्यादयः शिश्वोर्लवचन्द्रकेत्रोः कलहं युद्धमाकर्ण्य जरया वार्धकप्रयुक्तशैथिल्येन अस्वैयाप्तैर्गात्रैरुपलक्षिताः । सुदूर आश्रमो

यस्माद्रणरङ्गात्तथोकम् । तस्य भावः सुदूराश्रमता । तया चिरेण बहुकालेन ॥ ३९॥ कथं दृष्टल्याः केन प्रकारेण द्रष्टव्याः । तातजनकोऽपि भार्यापितृवात्खपितृलोपन्चारः । वजे णेव अशनिघातेनेच ताडितोऽस्मि व्यथितोऽस्मि ।संबन्धेति । संबन्धस्यापत्यसंवन्यस्य स्पृहणीयतया श्लाप्यतया प्रमुदितैः प्रकृष्टमोदयुक्तैः वसिष्ठादिभिः । आदिशब्देन गौतमकौशिकादिपरिग्रहः । अपत्यविवाहमालविधौ मम तस्याश्च पाणिग्रहणकमणि । तसातयोस्वथाविधजनकदशरथयोः संगम संगेलन दृष्ट्या महावैशसे वृत्ते सीतात्यागरूपमहाहिंसायां पितृसखं जनकमीदृशमत्यन्तदुःखितमीदृशः पश्यन् वैशसनिमित्तभूतः पश्वनहं किं कुतः सहस्रधा अनन्तभागतया न दीय विदारितो न भवामि । अथवा विदारणाभावे रामेण दुष्करे किं न किमपि । रामेण दुष्करं दारणाभावी वा इतोऽग्यन्यद्वा सवै सुकरमिति भावः॥४०॥ अनुभावमात्रेति । अनुभावमात्रेण अनितरसाधारणमहापुरुषत्वेन समबस्थिता समवस्थाहा निश्चयाही श्रीरैश्वयं यस्य तथो

  प्रश्रमप्रवुद्धजनकप्रबोधिता
  विधुराः प्रमोहमुपयान्ति मातरः ॥ ४१ ॥

 राम:--

  जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
  तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥ ४२ ॥

वत्संभावयामि । (इत्युत्तिष्ठति ।)

 कुशलधौ-इत इतस्तातः ।

(सकरुण परिझम्य निष्कान्ताः सर्वे)

इति षष्ठोऽङ्कः।


कम् । प्रथमप्रबुद्धेन कौसल्याद्यपेक्षवा पुर्वोत्पन्नप्रत्यभिज्ञापन जनकेन प्रबोधिताः प्रत्यभिज्ञापिताः मातरः अनुभावमात्रसमवस्थितश्रियमीदशं रघुनाथ बौक्ष्य विधुराः सत्यः शून्यकरणाः सत्यः प्रमोह प्रकृष्ट मूमुपयान्ति प्राप्नुवन्तीत्यन्वयः ॥४१॥ जनकानामिति । जनकानां रघूणां च कृल्नं गोत्रमनलमखण्डं कुलश्रेयः । तत्रापि तथाविधसीतायामपि अकरुणे तहुःखाधीनदुःखवत्त्वरूपकरुणारहिते मयि वः युध्माकं करुणा महुःखाधीनदुःखवत्ता वृथा । यया सर्वभूतेषु इत्युक्तादृष्टविशेषमात्ररूपप्रयोजनेनापि शून्येत्यर्थः ॥ ४२ ॥ यावत्संभावयामि अभ्युत्थानाभिवादनादिभिः पुरस्करिष्यामि । चावत्पुरानिपातयोः भविष्यदर्थ लट् । इत्युत्तिष्ठति उत्थानमभिनयति ॥इत इतस्तातः। अत्रागच्छलिति शेषः । मार्गदर्शनपरमिदं वाक्यम् ॥ निष्क्रान्ताः रङ्गस्थानादिति शेषः । सर्वे । वसिष्ठायेतदवाभिनेवभूमिकाधारिण इत्यर्थः ॥

    दाशरथिबशजनुषो भूसारनिवासवीरराघवार्यस्य ।
    उत्तररामचरितनाटकव्याख्याग्रामवतितोऽङ्कः षष्ठः ॥

इति श्रीवाधूलबीररावविरचितायां भवभूतिभावतल-

स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां

षष्ठोऽङ्कः।

(ततः प्रविशति लक्ष्मणः।)

 लक्ष्मणः-भोः, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजानपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यनिकायः सचराचरो भूतग्रामः स्वप्रभावेन संनिधापितः । आदिष्टश्चाहमार्येण 'वत्स . लक्ष्मण, भगवता वाल्मीकिना खकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः सः । गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसंनिवेशः' इति । कृतश्च मामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया । अयं तु-

  राज्यानमनिवासोऽपि प्राप्तकष्टमुनिव्रतः ।
  वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥


अथ समप्रप्रयोजनकोडीकाररूपनिर्वहणसंधि सप्तमेन बक्ष्यन् चमत्कृतिविशेषलाभाय परित्यागानन्तरभाविनी सीतायाः दशामन्तर्नाटकेन विवक्षुस्तदुपक्षेपिकां लक्ष्मणप्रवेशवती रहरचनामाह-ततः प्रविशति लक्ष्मण इति । ततः षष्ठाइप्रयोगादनन्तरम् । भोः किं नु खल्वित्यादि।भो इति हृदयं प्रति सबुद्धिः । किं नु संनिधापित इति योजना । भगवता पाहुण्यवता । ब्रह्म ब्राह्मणाः, क्षत्रं क्षत्रियाः, पौराः अवशिष्टाः पुरवासिजनाः, जानपदाः देशवासिजनाः, एतैः सहिताः । अस्माभिः सह प्रजा आहूथ कृत्र एवाखण्डल एव देवाः इन्द्रादयः, असुराः निऋतिप्रभृतयः, तिर्यचः नागादयः, एतेषां निकायो वर्गस्तेन सहितः भूतानां प्राणिनां प्रागः समूहः । सचराचरः सस्थावरजङ्गमः । वप्रभावेन खतपःशक्त्यतिशयेन किं नु संनिधापितः । किं न्विति विस्मये। आचेंण रामेणादिष्टः आज्ञप्तः । स्वकृति खग्रन्थमू । आसरोभिव उर्वशीप्रभृतिभिः प्रयुज्यमानाममिनीयमानां द्रष्टुमुपनिमन्त्रिताः सः आवश्यकत्येनाहूता भवामः । गङ्गातीरं गमाकूलम् । आतोद्यस्य नृत्तगीतवाद्यसमुदायस्य स्थान प्रवर्तनाधिकरणमुपगम्य

प्राप्य समाजस्य सदसः संनिवेशः यथोचितस्थानविभागः क्रियतामित्यादिष्टश्चाहमिति पूर्वेणान्वयः । सीताया गङ्गाजलादुद्गमनसौकर्याय गङ्गातीरस्य रङ्गत्वकल्पनम् । सलिलादुपैति हि वक्ष्यते । मलः मरणाहः, अमर्त्यः तदनईः । मत्यश्चासावमत्यश्चेति विशेषणयोः समालः । नित्यानित्यात्मकस्येत्यर्थः । भूतग्रामस्य पृथिव्यादिभूतसमुदायस्य समुचितस्थानस्याधिकारानुरूपस्थानस्य सैनिवेशं प्रतिष्ठापनम् । पूर्वमाज्ञापनप्रकारकथनमद्य खनुष्ठानकथनमिति पुनरुक्तिः । अयं तुराज्येति । राज्यं भूमिपरिपालनात्मकराजकर्म । तदेवाश्रमः खैराचारप्रतिबन्धकनियमविशेषः । सुखाल्पत्वदुःखभूयस्त्वाभ्यामाश्रमत्वरूपणम् । प्राप्त कष्टं दुरन्तरूपं मुनिव्रतं येन तथोक्तः । वाल्मीकी

(ततः प्रविशति रामः ।)

 राम:-वत्स लक्ष्मण, अपि स्थिता रङ्गप्राश्निकाः।

 लक्ष्मण:-अथ किस् ।

 रामः-इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमा प्रतिपत्ति लम्भयितव्यौ ।

 लक्ष्मण:---प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्ण राजासनम् । तदुपविशत्वार्थः ।

 रामः--(उपविश्य ।) प्रस्तूयतां भोः।

 सूत्रधार:-(प्रविश्य ।) भगवान्भूतार्थवादी प्राचेतसः स्थावरजहम जगदाज्ञापयति-न्यदिदममाभिरारेण चक्षषा समुद्धीक्ष्य पावन वचनामृतं करुणाद्भुतरसं च किंचिदुपनिबद्धम् । तत्र काव्यगौरवादवघातव्यमिति ।


वाल्मीकेवी गौरवागुरुत्वप्रतिपत्त्या पूजनीयवानुसंधानेन ॥१॥रहस्य नाट्यस्थानस्थ प्राश्निका. सामाजिकाः । रगस्थले राज्ञा सह द्रष्टार इत्यर्थः । प्रश्नं ज्ञातव्यार्थजिज्ञासामहन्तीति प्राधिकाः । तदर्हाधिकारीयञ् । समस्तशास्त्रनिष्णातहृदया इति भावः ॥ अथ किमिलङ्गीकारे । इमौ वत्सौ । कुशलवावित्यर्थः । कुमारश्चासौ चन्द्रकेतुश्च तेन समां प्रतिपत्ति लालनीयवादिधियं लम्भवितव्यौ प्रापयितब्यौ ॥ प्रभो राज्ञः स्नेहेन कुशलवविषयप्रीत्या यः प्रत्ययस्तथैव कार्यमिति व्यवसायः । तस्मादिदं चात्तीर्णं राजासन सिहासनस्यास्तीगासंभवेऽपि अन्यत्तयोग्यमासनमास्तीर्णमिति मन्तव्यम् । कृत्स्त्र एव सदेवासुरेति ब्रह्मेन्द्रादीनामपि तत्र संनिधारितत्वोक्त्या तदैकरूयाच सिहासनातिरेकेणास्तीर्णाहासनस्यैव युक्तत्वात् । एतेनात्र कवेः प्रमादवचनं प्रत्युक्तम् , अत एव 'स चापि रामः परिषद्गतः शनैर्बुभूषचासकमना बभूव है' इति बालकाण्ड टोके परिषद्गत इति सिहासनादवरुह्य परिषदि जनानामुत्थानाशङ्कया शनैः स्थित इति ब्याख्यातमस्मदाचार्यैः । स रामादय इत्यर्थः । प्रस्तूयत्तामभिनय आरभ्यतामित्यर्थः ॥ प्रविश्य सूत्रधारः । अन्तनाटकीयसूत्रधारः प्रविश्याहेत्यर्थः । भगवान् ज्ञानादिषाच- ण्यपूर्णः । भूतार्थ सत्यमभिधेय वदतीति भूतार्थवादी । 'सुष्यजातौ' इति णिनिः । युक्त क्ष्मादावृते भूतम्' इति कोशः। प्रचेतसो वरुणस्थापत्य पुमान् प्राचेतसः । स्थावरं च तब्बअमं च विशेषणयोः समासः । आज्ञापयति अकरणदण्डप्रयोजकविधिराज्ञा तां करोतीत्यर्थः । आर्षेणालौकिकेन चक्षुषा दृष्ट्या योगजप्रत्यासत्तिसहकृतपरिशुद्धान्तःकरणेन समुवीक्ष्य सम्यगतिशयेन साक्षात्कृत्य । अत्र रहस्यं च प्रकाश च यथावत्संभप- इयसि' इत्यादिक द्रष्टव्यम् । पावनं स्वदर्शनादन्येषां शुद्धिजननम् । अनेन 'काव्यालायांश्च दर्जयेत्' इति निषेधोऽन्यपर इति सूचितम् । वचनरूपममृतं सुधा यस्सिस्तथोकम् । भोग्यत्वेन सादृश्यरूपणम् । करुणश्चाद्भुतश्च करुणाद्भुतौ रसौ यस्मिंस्तथोक्तम् । इष्टजनविधीगजन्यदुःखातिभूमिरूपः शोकः सहकारिभूतविशिष्टदेशकालकाध्यनि रामः-एतदुक्तं भवति । साक्षात्कृतधर्माणो महर्षयः । तेषाममृतं भराणि भगवतां परोरजांसि प्रज्ञानानि न कचियाहन्यन्त इति नहि शङ्कनीयानि ।

(नेपथ्ये।)

हा अजउत्त कुमार लक्खण, एआइणिं असरणं आसण्णप्पसववेअणं अरणे हदास सावदा अहिलसन्दि । हा दाणिं मन्दभाइणी भाईरईए अत्ताण णिक्खिविस्सम् ।


 १. हा आर्यपुत्र कुमार लक्ष्मण, एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा अभिलषन्ति । हा इदानी मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि ।


पुणनटचेष्टादिवशात्सामाजिकैर्भाव्यमानो निरतिशयखप्रकाशानन्दमयरसता प्रतिपाद्यत इति रसविदा संप्रदायः । अद्भुतश्च तथाविधो विस्मयः । गङ्गाप्रवाहपतन तत्रत्यप्रसववर्णनादिनामृतरसयुक्तत्वम् । किचिन्मार्गरूपकमित्यर्थः । उपनिबद्ध अथितम् । तत्र रूपके काव्यगौरवात्काव्यस्य रूपकरूपस्य तगौरवान्महनीयत्वावधातव्यं मनसो विषयान्तरसंचारराहित्यरूपमवधानं कर्तव्यमित्लाज्ञापयतीति संबन्धः ॥ साक्षात्कृतो धर्मोऽलौकिकधेयःसाधनरूपो यैस्तथोक्ताः । महान्तश्च ते ऋषयः महर्षयः । 'ऋषयः सत्यवचसः' इत्यमरः । 'अमृतं मराणि' इति क्वचित्पाठः । इदं च पदद्वयम् । विमतीति भरम् । पचाछन् । त्रिलिङ्गत्वान्नपुंसकवहुवचनोत्पत्ती भराणीति भवति । अमृतमिति कर्मणि द्वितीया। अमृतकर्मकभरणकर्तृणीत्यर्थः । 'कर्तृकर्मणोः कृति' इत्यस्यानित्यत्वान्न षष्ठी। तज्ज्ञापकं तु तदहम्, 'अन्तधौंयेनादर्शनम्' इति निर्देशद्वयमिति स्पष्ट व्याकरणपरिशीलनशालिनाम् । 'धयैरामोदमुत्तमम् इति भडिप्रयोगाना प्रयुक्तत्वशङ्का । एतेन 'अमृतंभराशि' इति कवेः प्रमाद इति वदन व्याख्याता निरस्तः । अमृतभरणकर्तृत्वं चेह मोक्षसाधनत्वरूपम् । यद्वा । ऋतंभराणीति दारमर्थवन्ति । 'ऋतभरां च मां प्राहुः' इत्युक्तेः संज्ञाशब्दत्वात्संज्ञायां खच्प्रत्ययः । 'ऋतंभराभिधानम्' इत्युक्तेश्च । रजसः पराणि परोरजांसि । परिशुद्धानीत्यर्थः । 'शुद्धमरजस्क परोरजः' इति कोशः । तेषां भगवत प्रज्ञानानि प्रमादरहितानि ज्ञानानि न व्याहन्यन्ते। अयथार्थानि न भवन्तीत्येतदुक भवतीति पूर्वेणान्वयः । नहि शङ्कनीयानि अप्रामाण्यसंशयानहींणीत्यर्थः । नेपथ्ये इति । इदं चाङ्गाभिनेयसीताप्रवेशायुपक्षेपकम् । एकाकिनीमेकाम् । आसन्नप्रसववेदनां समी पागतप्रसूतिव्यथाम् । हताशां व्यर्थमनोरथाम् । श्वापदाः दुष्टमृगाः अभिलषन्ति भक्षितु लक्ष्मण:-कटं बतान्यदेव किमपि ।

 मूत्रधारः-

  विश्वंभरात्मजा देवी राज्ञा त्यक्ता महाबने ।
  प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥

(इनि निष्कान्तः।)

प्रस्तावना

 रामः----(सावेगम् ।) देवि देवि, लक्ष्मणमवेक्षख ।

 लक्ष्मण:--आर्य, नाटकमिदम् ।

 राम:-- हा देवि दण्डकारण्यवासप्रियसखि, एष ते रामाद्विपाकः ।

 लक्ष्मण:-आर्य, आश्वस्य दृश्यताम् । प्रबन्धस्त्वार्षः ।

 रायः--एष सज्जोऽसि वज्रमयः।

(ततः प्रविशति उत्सजितकैकदारकाभ्यां पृथिवीगजाभ्यामवलम्बिता प्रमुग्धा सीता ।)

 रामः-वत्स, असंविज्ञातपदनिबन्धने तमसीवाहमद्य प्रविशामि । धारय माम् ।

देव्यौ -

  समाश्वसिहि कल्याणि दिष्ट्या वैदेहि वर्धसे ।
  अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥


मिच्छन्ति । भागीरथ्यां गङ्गायामात्मानं निक्षिपामि पातयामि ॥ विश्वभरेति । विश्वमरात्मजा भूमेः सुता । देवी कृताभिषेका । राज्ञा लक्ष्मणेन । प्राप्तः प्रसवः यं प्राप्तप्रसवस्तम् । गझा च सा देवी च तस्याम् ॥२॥ प्रस्तावनेति । अन्तर्नाटकीयप्रस्ताबना वृत्तेत्यर्थः ॥ सावेगं सभयम् । लक्ष्मणमवेक्षख मयि सापराधेऽपि त्वत्तुत्रं लक्ष्मणं दृष्ट्वा गङ्गायां न पतितब्यमित्यर्थः ॥ नाटकमिदमुच्यमानगङ्गापतनं नाटकं नाटकप्रयोज्याभिनयात्मकम् ।न वास्तवमित्यर्थः ॥ रामाद्विपाक: रामहेतुका दुःखानुभष इत्यर्थः । दण्डकेति विशेषणं तु साभिप्रायम् । मत्सुख त्वदधीनं त्वदुःस्त्रं तु मददीनमित्यर्थः ॥ आर्य, आश्वस्य दुःखं लघूकृत्य । आर्षः ऋषिप्रणीतः । दर्शनाभावे मुनिः कुल्येदिति हृदयम् ॥ बज्रमयः अत्यन्तकठिनः । सज्जोऽस्मि सीताविपत्तिनाटकं टुं बद्धपरिकरोऽस्मि ॥ उत्सशितः उत्सझेन गृहीतः एकैको दारको याभ्यां तथोक्ताभ्यामवलम्बिता धारिता प्रमुग्धा प्रकृष्टमूविती ॥ असंविज्ञातमविदित पदनिबन्धनं स्थानसंबन्धो यस्मिस्तधोक्ते । पदनिबन्धनः पादन्यासो वा । मां धारय पतनप्रतिघातं कुरु ॥ समाश्वसिहीति । हे कल्याणि मङ्गलवति । संवुद्धिरियम् । वर्धसे श्रेयखिनी भवसि । दिष्ट्या आनन्देऽय शब्दः । अन्तर्जले जले अन्तः । प्रसूतासि उत्पादितवत्यसि । रघुवंशधरौ रघुसंतानैकदेशौ दिष्टया दैवेन दुष्टसाधनसंपत्यभावात्प्रसूतिप्रतिवन्धकसद्भाबादेवमेवात्र कारणमिति भावः ।सुन्दरकाण्डस्थदिष्टयेति  सीता----(आश्वस्य ।। दिविआ दारए पसूदम्हि । हा अजउत्त ।

 लक्ष्मणः--(पादयोर्निपत्य ।) आर्य, दिष्टया वर्धामहे । कल्याणप्ररोहो रघुवंशः । (विलोक्य ।) हा कथं क्षुभितबाप्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः (वीजयति ।)

 देव्यौ---वत्से, समाश्वसिहि ।

 सीता--(समाश्वस्य 1) मैअवदीओ, का तुम्हे । मुञ्चह ।

 पृथिवी--इयं ते श्वशुरकुलदेवता भागीरथी ।

 सीता---मो दे भअवदि ।

 भागीरथी-चारित्रोचितां कल्याणसंपदमधिगच्छ ।

 लक्ष्मणः-अनुगृहीताः स्मः ।

 भागीरथी---इयं ते जननी विश्वंभरा ।

 सीता--हों अम्ब, ईरिसी अहं तुए दिवा ।

 पृथिवी--एहि पुत्रि वत्से सीते।

(उभी आलिजय मूर्छतः।)

 लक्ष्मण:- (सहर्षम् ।) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना ।

 राम:---दिष्टया खल्वेतत् । करुणान्तरं तु वर्तते ।

 भागीरथी----अत्रभवती विश्वंभरा व्यथत इति जितमपत्यस्लेहेन ।


 १. दिष्टया दारको प्रसूतासि । हा आर्यपुत्र ।

 २. भगवत्यौ के युवाम् । मुश्चतम् ।

 ३. नमस्ते भगवति ।

 ४. हा अम्ब, ईदृश्यहं त्वया दृष्टा ।


पदस्य देवेनेत्युत्तानार्थों वर्णितः॥३॥ कल्याण: शुभकरः प्ररोहोऽङ्कुरो यस्य तथोक्तः ॥ मुञ्चत खजतम् । लोटमध्यमद्विवचनम् । मामिति शेषः ॥ श्वशुरकुलस्य पत्युः पितृवंशस्य देवता योगक्षेमनिर्वाहिका भागीरथी ! साभिप्रायं नामेह निर्दिष्टम् ॥ चारित्रस्य पातिवल्यसच्चरितस्य उचितामनुरूपां कल्याणसंपदं श्रेयःसंपत्तिम् ॥ अनुगृहोताः सः । रामः सौता अझ् च क्षेमोपधायिका आशीविषयीकृता इत्यर्थः । सीताक्षेमें सर्वक्षेम इति हृदयम् ॥ जननी माता । विश्वभरेति साभिनायम् । पुत्र्यां त्वयि एवमलीकवादिनोऽपि जनान् विभतांति क्षमातिशयव्यञ्जनात् ॥ ईदृशी एवमलीकपोरवादेन त्यक्ता विपञ्चमाना सती दृष्टा ॥ उभौ सीतापृथिव्यौ ॥ अभ्युपपन्ना अनुगहीता ॥ एतन्मातापुच्योरालिजय मूर्छारूपं करुणान्तरं मदुःखातिरिक्त 'दुःखम् ॥ अत्रयदा सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसारतन्तुः । सखि भूतधात्रि वत्से वैदेहि, समाश्वसिहि ।

 प्रथिवी-(आश्वस्य देवि, सीतां प्रसूय कथमाश्वसिमि ।

  सोढश्चिरं राक्षसमध्यवास-
   त्यागो द्वितीयस्तु सुदुःसहोऽस्याः।

 गङ्गा -

  को नाम पाकाभिमुखस्य जन्तु-
  द्वाराणि देवस्य पिधातुमीष्टे -॥ ४ ॥

 प्रथिवी-भगवति भागीरथि, युक्तमेतत्सर्व बो रामभद्रस्य ।

  न प्रमाणीकृतः पाणिल्ये बालेन पीडितः ।
  नाहं न जनको नाग्निर्न तु वृत्तिर्न संततिः ॥ ५ ॥

 सीता-हा अजउत्त, सुमरेसि ।

 पृथिवी-आ:, कस्तवार्यपुत्रः।


 १. हा आर्यपुत्र, सरसि ।


भवती पूज्या विश्वभरा क्षमाप्रधाना भूमिः व्यथत इति दुःन्यत इति हेतोरपत्यम्नेहेन जितमभिभवः कृतः । अपत्यस्नेहो बलवान्धीरानप्यभिभवतीत्यर्थः । अद्वेति पूर्यकरुपातिरिक्तकल्पद्योतकम् । मनसः हृदयस्य मूहअन्थिः मोहात्यको विभागाभावप्रयोजकसंपर्कजनकः । चेतनावतां प्रेक्षायतामान्तरः उपलवः अभ्यन्तर उपद्रवः संसारतन्तु: संसारलंधायकः एषः अपत्यस्नेहः सर्वसाधारणः । न केवल विश्वभरायाः किं तु सर्वेषां समानः । दधातीति धात्री पोषयित्री । यद्वा दधत्येतामिति धात्री । प्राणिनां वर्षभित्रीत्यर्थः । इद च संबोधनं पृथ्वी प्रति अभिप्रायगर्भम् ॥ सीता प्रसूय कथमाश्वसिमि कथ केन प्रकारेणाश्वसिमि क्षीणदुःखा भवामि । मत्सुता संपन्नप्रजेतिया स्वाधीनपति केति वा केन हेतुना क्षीणदुःखा भवामीत्यर्थः । सोढ इति । राक्षसमध्यवासः चिरं सोढः । भूयांसं कालमनुभूत इत्यर्थः । सुदुःसह इति । अस्याः द्वितीयस्त्यागस्तु अलीकजनवादप्रयुक्तत्लागस्तु सुदुःसहः पूर्ववत्सहनानह इत्यर्थः । इदमन्त पृथ्वीबाक्थमनन्तरं गावाक्यम् ॥ गङ्केति । आहेति शेषः । को नाम जन्तुः प्राणी पाकाभिमुखस्य फलोपधानप्रवृत्तस्य देवस्य सुकृतदुष्कृतात्मकभाग्यस्य द्वाराणि अनुभबमार्गान, पिथातुं रोद्भुमीष्टे समर्थों भवति ॥ ४ ॥ वः रामभद्रस्य युधमईश्वस्य रामभद्रस्य । अनेन स्वसंबन्धः परिहृत इति ध्वनितम् । एतद्रक्ष्यमाणम् । युक्त संगतम् । न प्रमाणीकृत इति । वाल्ये बालभावे । पालेन स्वेनेति शेषः । पीडितः उदाहकर्मणि गृहीतः पाणि: न प्रमाणीकृतः युक्तायुक्तविचारे निर्णयहेतुर्न कुतः । गृहीत इत्यनुक्या पीडित इत्युक्तेरयं भावः । सामुदिकतन्त्रवेत्ता स्वयं रामो मत्सुतापरणिस्थसाध्वीत्वनिश्वायकं रेखाविशेष वा निदोषेचं चिरानुभवाति सूचनाय दृढ पाणिं गृह्णनय तद्विसस्मारेति । अन्यथा पाणिग्रहणस्य दोषवत्यास्त्यागाप्रतिबन्धक्रत्या सीता--(सलज्जास्रम् । जह अम्बा भणादि।

 राम: --अम्ब पृथिवि, ईदृशोऽसि ।

 गङ्गा--भगवति वसुंधरे, शरीरमसि संसारस्य । तल्किमसंविदानेव जामाने कुप्यसि ।

  धोरं लोके विततमयशो या च वही विशुद्धि-
   र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्धधातु ।
  इक्ष्वाकूर्णा कुलधनमिदं यत्समाराधनीयः
   कृत्स्नो लोकस्तदिह विषमे किं स वत्सः करोतु ॥ ६॥

 लक्ष्मण:-अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु ।

 गङ्गा–तथाप्येष तेऽञ्जलिः।

 रामः-अम्ब, अनुवृत्तस्त्वया भगीरथकुले प्रसादः ।

 प्रथिवी-नित्यं प्रसन्नास्सि तव । किं वसावापातदुःसहः स्नेहसंवेगः । न पुनर्न जानामि सीताम्लेहं रामभद्रस्य ।


 १. यथाम्बा भणति ।


दिति मन्तव्यम् । प्रमाणीकृत इत्येतदुत्तरत्र यथालिझं विपरिणमयितव्यम् । वृत्तिः शीलम् । संततिबंशः ॥ ५ ॥ यथाम्बा भणति अत्र तथैवेति शेषः ॥ ईदृशोऽस्मि अनार्यपुत्रोऽस्मि ॥ संसारस्य दम्पतिमातपुत्रस्व दुहित्रादिकुटुम्बसंबन्धस्य शरीरममि शरीरवत्प्रवृत्तिनिवृत्तिनिवन्धनभूतासि । जामात्रे कुप्यसि जामातृविषयकाप्रति कूलपतिसंधानरूपमनःप्रज्वलनवती भवसि । 'क्रुधद्वह-' इति चतुर्थी । घोरमिति । अयशः दोषवत्ताप्रथा । लङ्का चासौ द्वीपश्च लङ्काद्वीपस्तस्मिन् । द्विर्गता आपो यस्मिन्स द्वीपः । “अन्तः' इति अकारस्य ईकारः । लङ्काद्वीपे या बदौ विशुद्धिस्तामिह जनः कथ श्रधातु प्रत्येतु । कृल्लो लोकः समाराधनीय इति यदिदमिक्ष्वाकूणां कुलधन कुलक्रमागतं धनम् । तत्तस्मादिह विषने एतस्मिन्धर्मसंकटे स वत्सः रामः कि करोतु ॥ ६॥ अव्याहृतः अकुण्ठितः अन्तःप्रकाशः परोक्षज्ञानरूपः यासां तथोक्ताः । सत्वेषु पदार्थेषु । पृथिव्यपि जानात्येवेति भावः । तथापि एवं सत्यपि एषोऽजलिस्ते । 'अशलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इति प्रसादन इत्यर्थः ॥ अम्ब भागीरथीति संबुद्धिः । अनुवृत्तः भगीरथप्रभृतिमत्पर्यन्तं संबन्धित इत्यर्थः । तत्र नित्य प्रसन्नास्मि नित्यं त्वदीयविषयकमनःकालण्यरहितास्मि । किमर्थोऽअलिरित्यर्थः । कित्वेवं प्रसन्नत्वेऽपि स्नेहस्य संवेगस्त्वरा आपाते श्रवणोत्तरक्षणे दुःसहः सोहमशक्यः । 'दर्शनक्षण आपातस्तथैवाकर्णनक्षणे' इति कोशः । स्नेहन पुत्रीविषयप्रेम्णा संवेगस्तरलत्वं भयं वा । 'मोविजी भयचलनयोः' इत्यस्साझा प्रत्ययश्च ।

  दह्यमानेन मनसा देवाद्वत्सां विहाय सः ।
  लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥

 राम:--सकरुणा हि गुरवो गर्भरूपेषु ।

 सीता--(रुदती कृताञ्जलिः) णेद में अत्तणो अङ्गेसु बिलअं अम्बा।

 गङ्गा-किं ब्रवीषि । अविलीना वत्से, संवत्सरसहस्राणि भूयाः ।

 पृथिवी-वत्से, अवेक्षणीयौ ते पुत्रौ ।

 सीता-कि एहिं अगाहिं ।

 राम:--हृदय, वज्रमसि ।

 गङ्गा--कथं वत्सौ सनाथावप्यनाथौ ।

 सीता-कीरिसं मे अभग्गाए सणाहत्तणम् ।

 देव्यो-

  जगन्मङ्गलमात्मानं कर्थ त्वमवमन्यसे ।
  आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृप्यते ॥ ८ ॥

 लक्ष्मण:-- आर्य, श्रूयताम् ।

 रामः-लोकः शृणोतु ।

(नेपथ्ये कलकलः।)

 राम:-अद्भुततरं किमपि ।


 १. नयतु मामात्मनोऽङ्गेषु विलयमम्बा ।

 २. किमेताभ्यामनाथाभ्याम् ।

 ३.कीदृशं मे अभाग्यायाः सनाथत्यम् ।


'स्तोः' इति कुत्व च । रामभद्रख सीताविषयकं स्नेह पुनः प्रेम तुन जानाभीति न जानाम्बेव । दह्यमानेनेति । दह्यमानेन भस्मीक्रियमाणेन मनसा करणेन दैवाखेतोः वत्सा सीतां विहाय त्यक्त्वा लोकोत्तरेण सत्त्वेन धैर्येण प्रजानां पुग्दैः सुकृतेश्च जीवति प्राण धारयति ॥ ७ ॥ गर्भाणासिव रूप येषां तथोकेषु । अस्मास्थिति शेषः । गर्मस्य वथा खरक्षणीयानहत्वं मन्त्ररक्षणीयलं तद्गुरूणां वयमित्यर्थः ॥ विलयमदर्शनम् ॥ किं ब्रदीपि । किमिति क्षेपे । संवत्सरसहस्राणि । सहवराच्दोऽनन्तवाची । अत्यन्तसंयोगे द्वितीया ॥ अवेक्षणीयौ कटाक्षणीयौ । तदर्थ स्थातव्यमिति भावः ॥ अभाग्यायाः पुण्यरहितायाः सनाथत्वं नाथवत्त्वम् ॥ जगन्मङ्गलमिति । जगन्मङ्गलं जगता महल यस्मादिति बहुव्रीहिः । अनेन मङ्गलदेवतेति समाख्या स्मारिता। अदमन्यसे परिभवसि । यस्य त्वदात्मनः सङ्गात्संपर्कादाक्योरपि जगत्पवित्रत्वेन प्रसिद्धयोरचि पवित्रत्व खसंबन्धादन्येषामपि दोषापनोदकत्वं प्रकृष्वते पूर्धापेक्षया अतिशयित भवति । कर्मकर्तरि तड् ॥ ८॥ लोकः कृणोतु । मम हि सीतायाः शुद्धता व्यक्ता । कौलीनवादिजन एव शृणोत्वित्यर्थः ॥ नेपथ्ये इति । जम्भकास्त्राणां प्रयोगायोग्य-

उ ० रा. १५  सीता-कित्ति आबद्धकलकलं पज्जलिअं अन्तरिक्खम् ।

 देव्यौ-ज्ञातम् ।

  भृशाश्वः कौशिको राम इति येषां गुरुक्रमः।
  प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥ ९ ॥

(नेपथ्ये।)

  देवि सीते नमस्तेऽस्तु गतिर्नः पुत्रको हि ते ।
  आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥

 सीता-दिविआ अत्थदेवदाओ एदाओ। अज्जउत्त, अजावि दे पसादा पडिप्फुरन्दि।

 लक्ष्मणः----उक्तमासीदार्येण सर्वथैतानि त्वत्प्रसवमुपस्थास्यन्तीति ।

 देव्यौ ----

  नमो वः परमास्त्रेभ्यो धन्याः सो वः परिग्रहात् ।
  काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥

 रामः-

  श्रुभिलाः कामपि दशां कुर्वन्ति सम संप्रति ।
  विस्मयानन्दसंदर्भजर्जराः करुणोर्मयः ॥ १२ ॥


 १. किमित्यावद्धकलकलं प्रज्वलितमन्तरिक्षम् ।

 २. दिष्टया अस्त्रदेवता एताः । आर्यपुत्र, अद्यापि ते प्रसादाः परिफुरन्ति ।


त्वेन तदागमनसूचनार्थ नेपथ्ये इत्युक्तम् ॥ प्रज्वलितं प्रकाशवत् ॥ भृशाश्व इति । गुरुकमः आचार्यानुपूर्वी । जम्भकैः सह शस्त्राणि वारुणादीनि प्रादुर्भनन्ति प्रकाटीभवन्ति॥९॥ देवीति । पुत्रको नो गतिः अस्माकं प्राप्यौ । आलेख्यदर्शनात्प्रथमाझोक्तचित्रदर्शनात् ॥ १० ॥ दिष्टयेति । एताः अस्त्रदेवताः । आनन्दहेतव इत्यर्थः । अद्याप्येवं दोषवादप्रयुक्तपरित्यागकालेऽपि ते प्रसादाः त्वदनुग्रहाः परिस्फुरन्ति प्रकाशन्ते ।। उक्तमासीत् । प्रथनाङ्क इति शेषः॥नम इति । वः परिग्रहायुष्मत्कर्तृकखीकारात् धन्याः स्मः क्षेमलाभयुका भवागः।काले युद्धादिसम्ये ध्यातैरागन्तव्यमिति चिन्तितैः । काले बुद्धादिसमये वत्सयोस्पस्थेयं संनिधातव्यम् ।युष्माभिरिति शेषः ॥ ११ ॥ क्षुभिता इति। क्षुभिताः क्षोभ प्राप्ताः । विस्मयः अपूर्ववस्तुसंदर्शनजन्यान्तःकरणविकारविशेषः । स चात्र गडापतनतत्रत्यप्रसवजृम्भकप्राप्त्यादिमूलकः । आनन्दः खसंबन्धसंभावनाहताप्रयुक्तप्रीतिविशेषः । ताभ्यां जर्जराः व्याकुलिताः। करुणस्य सीतावियोगअन्यदुःखातिशयस्य ऊर्मयः तरङ्गाः मम कामपि दशामनिर्वाच्यामवस्यों कुर्वन्त्युत्पाद देव्यो-मोदख यत्से, मोदख । रामभद्रतुल्यौ ते पुन्नकाविदानीं संवृत्तौ।

 सीता-भअवदीओ, को एदाणं खत्तिओइदविहिं कारइम्सदि ।

 रामः

  एषा वसिष्ठशिप्याणां रघूणां वंशनन्दिनी ।
  कष्टं सीतापि सुतयोः संस्कतोरन बिन्दति ॥१३॥

 गङ्गा-भद्रे, किं तवानया चिन्तया । एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यामि ।

  बसिष्ठ एव ह्याचार्यो रघुवंशस्य संप्रति ।
  स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति ॥ १४ ॥
  यथा बसिष्ठाङ्गिरस ऋषिः प्राचेतसस्तथा ।
  जनकानां रघूणां च बंशयोरुभयोर्गुरुः ॥ १५ ॥

 रामः---सुविचिन्तितं भगवत्या ।

 लक्ष्मणः---आर्य, सत्यं विज्ञापयामि । तैस्तैरुपायैरिमौ वत्सौ कुशलवावुत्प्रेक्षे ।

  एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ ।
  आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दकौ ॥ १६ ॥


 १. भगवत्यौ, क एतयोः क्षत्रियोचितविधि कारयिष्यति ।


यन्ति । ऊर्मिपदेन करुणस्य समुद्रलं व्यज्यते ॥ १२ ॥ मोदख मोदं प्राप्नुहि । इदानी जम्भकास्त्रलामे । संवृत्तौ संजातौ ॥ क्षत्रियोचितं क्षत्रियजात्यनुरूपं विधिभुपनयनसंस्कारादिशास्त्रार्थ कः कारयिष्यति ॥ एषेति । वसिष्ठशिष्याणां रघूणां वंशनन्दिनी संततेरानन्दहेतुः एषा सीतापि सुतयोः संस्कारमुपनयनादिसंस्कारकाचार्य न विन्दति न लभते। कष्टम् ।दुःख्यत इत्यर्थः ॥ १३ भद्रे मङ्गलवति । एतौ वत्ती । द्वितीयान्तम् । स्तन्यत्यागात्परेण स्तन्यत्यागकालान्तरकाले । अर्पयिष्यामि विद्यादिप्रदानार्थमिति शेषः । एतेन द्वितीयाविष्कम्भस्थं केनापि देवताविशेषेणेति वाक्य व्याख्यातम् । वसिष्ठ इति । ब्रह्म च क्षयं च ब्रह्मक्षत्रे । तयोरुचितं कुर बामणव जात्यनुगुणत्रय्यध्यापनं क्षत्रियत्वोचितधनुर्वेदाध्यापनं च करिष्यति ॥१४॥ यथेति। अनकानां रघूणां च उभयवंशयोः यथा वसिष्ठाङ्गिरसौ वसिष्ठशतानन्दौ गुरू तथा प्रा- चेतसः ऋषिगुरुः । इदं गङ्गावचनम् ॥१५॥ तैस्तैरुपायैः बहुभिः हेतुभिः वत्सौ कुशलवौ उत्नेक्षे वत्सकुशलवत्तेन अभिनेयशिशुद्वयं संभावयामि । हेतूनाह-पतौ हीत्यादिना । तन्नेणायं श्लोकचतुष्टयपरः अभिनेशिश्वोः कुशलवयोश्च जन्मसिद्धा राम:---वत्सावित्येवाहं परिप्लवमानहृदयः प्रमुग्धोऽस्मि ।

 पृथिवी-एहि वत्से, पवित्रीकुरु रसातलम् ।

 राम:--प्रिये, लोकान्तरं गतासि ।

 सीता---णेदु मं अत्तणो अङ्गेसु विलअं अम्बा । ण सहिम्स ईरिसं जीअलोअस्स परिभवं अणुभविदुम् ।

 लक्ष्मण:-किमुत्तरं स्यात् ।

 प्रथिवी-मन्नियोगतः स्तन्यत्यागं यावत्पुत्रयोरवेक्षख । परेण तु यथा रोचिष्यते तथा करिष्यामि ।

 गङ्गा एवं तावत् ।

(इति निष्क्रान्ते देव्यौ सीता च ।)

  रामः-कथै प्रतिपन्न एव तावत् । हा चारित्रदेवते, लोकान्तरे पर्यवसितासि । (इति मूर्छति ।)

 लक्ष्मण:-भगवन्वाल्मीके, परित्रायस परित्रायस्व । एष ते काव्यार्थः।

(नेपथ्ये ।)

  अपनीयतामातोद्यम् । भो जङ्गमस्थाचरा प्राणभृतो मामाः, पश्यन्त्विदानी वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम् ।


 १. नयतु मामात्मनोऽङ्गेषु बिलयमम्बा । न सहिण्यामीदृशं जीवलोकस्य परिभवमनुभवितुम् ।


स्वखादिकं समान योज्यम् । वयसा जीवनकालेन हेतुना । द्वादशाब्दको द्वादशसंख्याकसंवत्सरयुक्तौ । अभिनेयशिश्वोरप्यभिनयकालापेक्षया द्वादशाब्दकल बोध्यम् ॥१६॥ वत्साविति । परिप्लवमानहृदयस्तरलहृदयः । प्रमुग्धोऽस्मि प्रमूढोऽस्मि रसातलमधोभुवनम् ॥ लोकान्तरमन्यं लोकम् ॥ विलयं तिरोहितत्वम् । जीवलोकस्य परिभवं जीवलोककर्तृकतिरस्कारम् ॥ उत्तरं पृथिव्याः प्रतिवचनं किं स्यात् । उत्तरमनन्तरभावि वा ।। मन्नियोगतः मदादेशेन स्तन्यत्याग यावत्स्तन्यबागमभिव्याप्य पुत्रयोरवेक्षख पुत्रौ पश्येत्यर्थः । परेण तु परस्तात्तु यथा रोचिष्यते येन प्रकारेण रुचिर्भविष्यति ते तथा करिष्यामीत्यर्थः ॥ एवं तायदेवमेव । देव्यौ गङ्गापूथिन्यौ। निष्कान्ते । रजस्थानादिति शेषः ॥ लोकान्तरे पर्यवसितासि । पर्यवसानं विश्रान्तिः। लोकान्तरमेव गतासीति प्रतिपन्नं निश्चितम् । स्तन्यत्यागात्परन रसातलगमनस्य पृथिव्याम्चनुज्ञातत्वात द्वादशानां वत्सराणामतीतत्वाच लोकान्तरं गतासीत्येतावनिश्चितमिति भावः ॥ एष ते काव्याथैः । पर्याप्तं दृष्ट इति शेषः । इतः परं निवर्तितव्यमिति हृदयम् ॥ आतीथं मृत्तगीतसमुदायः । अपनीयतां निवर्त्यताम् । मामा देवमनुष्यात्मकाः जङ्गमस्था लक्ष्मण:----(विलोच्य)

  मन्थादिव क्षुभ्यति गाङ्गमम्भो
   व्याप्तं च देवर्षिभिरन्तरिक्षम् ।
  आश्चर्यमार्या सह देवताभ्यां
   गङ्गामहीभ्यां सलिलादुपैति ॥ १७ ॥

(नेपथ्ये ।)

  अरुन्धति जगद्वन्द्ये गङ्गापृथ्व्यौ जुषस्व नौ ।
  अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥ १८ ॥

 लक्ष्मणः- अहो आश्चर्यमाश्चर्यम् । आर्ये, पश्य पश्य । कष्टम्द्यापि नोच्छुसित्यार्यः।

(ततः प्रविशत्यरुन्धती सीता च)

 अरुन्धती-

  त्वरस्व वत्से बैदेहि मुश्च शालीनशीलताम् ।
  एहि जीवय मे वत्सं सौम्यम्पर्शेन पाणिना ॥ १९॥

 सीता--(ससंत्रमं स्पृशति ।) समस्ससदु समस्ससदु अज्जउत्तो।

 रामः-(समावस्त्र सानन्दम् । भोः, किमेतत् । (दृष्टा सहर्षाद्रुतम् ।) कथं देवी जानकी । (सलनम् ।) अये, कथमम्बारुन्धती । कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः। अरुन्धती-वत्स, एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना।


 १. समाश्वसितु समाश्वसित्वार्यपुत्रः ।


वरात्मकाश्च प्राणभृतः । वृक्षादीनामपि प्राणवत्त्वात्स्थावरोक्तिरविरुद्धा । वल्मीकिनाभ्यनुज्ञातं करुणाद्भुतरसमित्यत्राद्भुतपदेन प्रकाश्यत्वेन बोधितं पवित्रं निर्दोषमाश्चर्य पश्यन्तु ॥ मन्थादिधेति । गाइसम्भः मन्यादिव मथनादिव क्षुभ्यति क्षोभं प्राप्नोति। अन्तरिक्ष देवैः ऋषिभिश्च व्याप्तम् । कौतुकादिति भावः ।आर्या सीता देवताभ्यां गङ्गामहीभ्यां सह सलिलादुपैति प्राप्नोति ॥ १७ ॥ नपथ्ये । अरुन्धतीति । नौ द्वितीयाद्विवचनम् । गङ्गापृथ्व्यौ जुषस्व जानीहि नौ । जुषख प्रीयस्व । तव वधूः स्नुषा इचं सीता आवाभ्यां तवार्पिता ॥ १८॥ आर्ये । अरुन्धती प्रति संयोधनम् ।

नोच्छुसिति उच्छासं न प्राप्नोति ॥ त्वरस्वेति । शालीनशीलतामशृष्टस्वभावत्वं मुश्च त्यज । सौम्यस्पर्शेन चन्द्रवच्छीतलेन पाणिना मे वसं जीवय सप्राणं कुरु॥१९॥ एतत्सीतास्पर्शरूप किं किहेतुकम् । कथ देवी जानकी । विस्मयद्योतकः कथंशब्दः ।

(नेपथ्ये ।)

 जगत्पते रामभद्र, स्मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम् । सा त्वमम्ब स्नुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति । तदनृणामि ।

 अरुन्धती-इथं ते श्वश्रूभगवती वसुंधरा ।

(नेपथ्ये)

उक्तमासीदायुष्मता वत्सायाः परित्यागे 'भगवति वसुंधरे, श्लाघ्यां दुहितरमचेक्षस्व जानकीम्' इति । तदधुना कृतवचनास्मि ।

 राम:---कृतापराधोऽपि भगवति, वयानुकम्पयितव्यो रामः प्रणमति।

 अरुन्धती-भो भोः पौरजानपदाः, इयमधुना वसुंधराजाबीभ्यामेवं प्रशस्यमाना मया चारुन्धत्या च समर्पिता पूर्व भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्च देवैः स्तुता सावित्रकुलवधूदेवयजनसंभवा जानकी परिगृह्यताम् । कथमिह भवन्तो मन्यन्ते ।

 लक्ष्मणः--आर्य, एवमम्बयारुन्धत्या निर्भसिताः पौरजानपदाः कृत्तश्च भूतग्राम आयो नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृ- ष्टिभिरुपतिष्ठन्ते ।

 अरुन्धती-जगत्पते रामभद्र,

  नियोजय यथाधम प्रियां वं धर्मचारिणीम् ।
  हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥ २० ॥


लजा मनःसंकोचः । स चेहारुन्धतीदर्शनात् ॥ भागीरथी भगीरथनीता रघुकुलदेवता देवी दीप्तिशालिनी । सुप्रसन्ना अनुग्रहं कृतवती ॥ आलेख्यदर्शने चित्रदर्शने । आत्मवचनं त्वद्वचनम् । अनृणालि निर्यातितऋणास्मि । ऋणं ह्यवश्यप्रतिविधेयमिति साहश्यादेवमुक्तम् ॥ आयुष्मता । त्वयेति शेषः । वसुंधरायै वसुंधरा बोधयितुमुकमासीदिति वचनं जातम् । श्वाध्या दुहितरमवेक्षख जानकी मितीदं वसु उक्तमासीदिति कर्मणि को वा ज्ञेयः। कृतवचनास्मि । उच्यत इति वचनः उक्तार्थः । कृतः अनुष्ठित: उकाओं वया तथोक्तास्मि ॥ अनुकम्पयितव्य इति दयाविषयः कर्तव्य इति प्रणमति प्रकर्षण नमस्थति ॥ पौराः पुरवासिनः । जानपदाः देशवासिनः। एवं प्रशस्यमाना 'भावयोरपि यत्सङ्गात्पवित्रत्व प्रकृध्यते' इत्यभिष्टुता । पूर्व रावणवधानन्तरकाले। वैश्वानरेजामिना । निर्णीतपुण्यचारित्रा निश्चितपातिव्रत्या। परिगृयता राशीत्वेन स्वीक्रियताम् । इहास्मिन्नर्थे कथं मन्यन्ते किं वो मतमिति भावः । भूतप्रामः गोबलीवदन्यायेन पौरजानपदातिरिक्ता ग्राह्याः । आर्यों सीतां नमस्कुर्वन्ति । लोकपालाः इन्द्रादयः । सप्तप्रय अन्यादयः । पुष्पवृष्टिभिः करणैरुपतिष्ठन्ते पूजयन्ति । आयोमित्यनुवः ॥ नियो सीता-(खगतम् ।) अवि जाणादि अजउत्तो सीदाए दुक्खं पडिमज्जिदुम् ।

 राम:-यथा भगवत्यादिशति ।

 लक्ष्मणः-कृतार्थोऽस्मि ।

 सीता---पंचुज्जीविदन्हि ।

 लक्ष्मण:---आर्ये, अयं लक्ष्मणः प्रणमति ।

 सीता-वैच्छ, ईरिसो तुमं चिरं जी ।

 अरुन्धती-भगवन्वाल्भीके, उपनयेदानी सीतागर्भसंभवौ रामभद्रस्य कुशलवौ । (इति निष्क्रान्ता ।)

 रामलक्ष्मणौ-दिष्टया तथैवैतत् ।

 सीता-हिं ते पुत्तआ।

(ततः प्रविशति वाल्मीकिः कुशलवी च।)

 वाल्मीकि:-वत्सौ, एष वां रघुपतिः पिता । एष लक्ष्मणः कनिष्ठतातः । एषा सीता जननी । एष राजर्षिर्जनको मातामहः ।

 सीता-(सहर्षकरुणाद्भुतं विलोक्य ।) कॅह तादो । कहं जादा ।


 १. अपि जानात्यार्यपुत्रः सीताया दुःखं परिमार्दुम् ।

 २. प्रत्युज्जीवितासि ।

 ३. वत्स, ईदृशस्त्वं चिरं जीव ।

 ४. क तौ पुत्रको।

 ५, कथं तातः । कथं जाती।


जयेति । प्रिया वद्विषयकप्रीतियुक्ताम् । धर्मचारिणी धर्मानुष्टानशीलाम् ! अध्वरे याने। हिरण्मय्याः प्रतिकृतेः प्रतिमायाः प्रकृतिपावनी प्रकृति प्रतिमा सीतां यथाधर्म नियोजयाज्ञापन । पुण्यामित्यनेन 'यस्य भाची विदूरस्था पतिता दूषिताथवा । अनिच्छु: प्रतिकूला वा* इत्याधुदासः ॥ २० ॥ यथा भगवत्यादिशति । तथास्विति शेषः । कृतार्थोऽस्मि सीतारामयोः समागमरूपप्रयोजनसिद्धिमानस्मि । त्यागस्य खद्वारकत्वादेवमुक्तम् ॥ प्रत्युज्जीवितारिस 'यस्त्वया सह स खर्गः' इत्युक्तरामसमागमात्मकपुनरुज्जीवनवती कृतास्मि । ईदृशः सन् चिरं जीव मम पत्युश्च समागमं परमं श्रेयो मन्वानः सन् चिरं जीव ॥ रामभद्रस्य उपनय रामभद्रसमीपं प्रापयदिष्टया तथैचैतत् । एतत्कुशलवोत्पत्त्यादिकं तथैव पूर्वमस्मचिन्तितप्रकारेणैव । आसीदिति शेषः॥ क तौ पुत्रौ । द वाल्मीकिप्रवेशसूचकम् ॥ मातामहः मातुः पिता । 'मातृपितृभ्यां  वत्सौ हा तात, हा अम्ब, हा मातामह ।

 रामलक्ष्मणौ—(सहर्षमालिङ्गय ।) ननु वत्सौ, युवां प्राप्तौ स्थः ।

 सीता-एहि जाद कुस, एहि जाद लव, चिरस्स में परिम्सजह लोअन्दरादो आअदं जणणिम् ।

 कुशलवी--(तथा कृत्वा ।) धन्यौ स्वः ।

 सीता--भअवं, एसा हं पणमामि ।

 वाल्मीकिः-वत्से, एवमेव चिरं भूयाः ।

(नेपथ्ये।)

 उत्खातलवणो मधुरेश्वरः प्राप्तः।

 लक्ष्मण:---सानुराङ्गाणि कल्याणानि ।

 रामः----सर्वमिदमनुभबन्नपि न प्रत्येमि । यद्वा प्रकृतिरियमभ्युदयानाम् ।

 वाल्मीकि:--रामभद्र, उच्यतां किं ते भूयः प्रियमुपहरामि ।

 रामः-अतः परमपि प्रियमस्ति । किं विदं भरतवाक्यमस्तु-


 १. एहि जात कुश, एहि जात लव, चिरस्य मां परिष्यजेथा लोकान्तरादागतां जननीम् ।

 २. भगवन् , एषाहं प्रणमामि ।


पिलर डामहृच् ॥ कथ जातौ कुशलवौ । जातौ कथमिति चित्तविकासे ॥ हा तातेत्यादि । सर्वत्र हाशब्दो हर्षद्योतकः । ननु यत्सौ युवां प्राप्ती स्थः । ननु वत्साविति संबोधनम् ॥ चिरस्य परिष्वजेथा बहुकालमालिश्यतम् । न तु यत्किंचित्क्षणालिशानेन तृप्तिरिति भावः । परिष्वजेथामिति लोट्मध्यमद्विवचनम् ॥ लोकान्तराद्रसातलात् ॥ तथा कृत्रा आलिमथ । धन्यौ स्वः प्रशस्तौ भवावः । एवमेव चिरं भूयाः एममेव पत्यपत्याभ्यां संगतैव भूयाः ॥ नेपथ्ये । उत्खातः उन्मूलितः लवणः लवणनामकासुरो न तथोक्तः । मधुरायाः तन्नाश्याः नगर्याः ईश्वरः स्वामी । शत्रुघ्न इत्यर्थः । अस्यापि प्रथमाङ्कारन्धप्रयोजनलानिर्वहणे निवेशः ॥ कलत्रपुत्रसमागमादिश्रेयांसि सानुषत्राणि । अनुषज्यन्ले अनुसंबध्यन्ते यदित्यनुषड़ मजलान्तरम् । कर्मणि घन् । संबन्धमनुवतिष्यत इत्याचार्यभगवत्पतञ्जलिप्रयोगेण नपुंसकलम् । संपत्संपदमनुबन्नातीति मगलान्तरसहितानीत्यर्थः 1 शत्रुक्तद्राज्यप्राप्योष श्रेयस्वादनुभवन्नपि साक्षात्कुर्वनपि न प्रत्येमि नियतमिति न विश्वसिमि । यद्वेति । न मोष इति भावः । इयमनियतमित्ययं प्रत्ययः । अभ्युदयानां श्रेयसां प्रकृतिः खभावः । विधेयप्राधान्यानीलम् । भूयः पुत्रकलत्रसमर्पणात्परमिष्टं किमुपहरामि उपहारीकरोमि । इदमेच सर्वथी ऋषयः श्रेयो

  पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सयं कथा
   माङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ।
  तामनां परिभावयन्त्वभिनयविन्यस्तरूपां बुधाः
   शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य बाणीमिमाम् ॥ २१ ॥

(निष्कान्ताः सवें।)

इति सममोऽङ्कः


विधास्यन्तीति प्रथमाके सूचितः ॥ अतः परमपि उक्तादन्यदपि । कि विदं भरतवाक्यमलु । एव सत्यपि वक्ष्यमाणं भरतवचनमस्तु भवनाहम् । अहे लोट् । पाप्मभ्य इति । इयं च प्रशस्तिः । सा प्रसिदा इयं बुद्धिस्था कथा रामायणात्मकवाक्यप्रबन्धरूपा कथा । 'कथ वाक्यप्रबन्धे' इति धातुः । सा च वाल्मीकीयचतुर्वशतिसहस्त्रिका । पाप्मन्यः दुरितेभ्यः जगत्पुनाति विभाजयति । जगत इति षष्ठ्यन्त विपरिणम्य योजनीयम् । पूद धातुः यद्यपि दुरितविभजनात्मकदोषनिहरणवाची तथापि पाप्मभ्यः पुनातीति 'सकीचकारुतपूर्णरन्त्रैः' इतिवधाख्येयम् । जगतः श्रेयांसि पुत्रमित्रादीनि वर्धयति मोक्षपर्यन्तानि उत्तरोत्तरमधिकानि करोति । अन्न कुटुम्बवृद्धि धनथान्यवृद्धि इत्यादिश्लोकद्वयमनुसंधेयम् । मातेर गझेव मानल्या मनोहरा च ।माता हि दुःखविस्मारिणी सुखदा च भवति । गङ्गा च पापनाशनी मोक्षदा च भवति । तदामायणमरीति भावः । शब्दब्रह्मविदः शब्द एव ब्रह्म परिच्छिन्नत्वापरिच्छिन्नत्वाभ्यां परब्रह्मसाम्याद्रूपणम् । तद्विदन्तीति शन्दब्रह्मविदः । बुधाः सहृदयाः । अभिनया: सात्विकालिकाहार्यवाचिकभेदेन चतुर्विधाः । अभिनयैरिवीत्थभूतलक्षणे तृतीया । अभिनयविशिष्टो यो विन्यासः रचनावैशिष्ट्य च प्रतिपादकत्वरूप विन्यस्तं विन्यासेन निष्पनं यस्यास्तथोचाम् । शरीरं त्रेहानुपूर्वी । प्राज्ञस्य सर्वज्ञशिरोमणे: कवेः भवभूतिकवेः इमां वाणी परिणतामेनामुत्तररामचरितनाटकरूपभवभूतिवागात्मना यः परिग्रामः तद्वतीमेगां श्रीरामायणात्मककथां परिभावयन्तु परितश्चिन्तयन्तु । 'भू अबक- कने । अवकल्कनं चिन्तनमित्युतम् । इय कथा श्रेयांसि वर्धयति एनां परिभावथन्वित्यन्वादेशादेनादेशः । वाल्मीकिवागेव भवभूतित्रागात्मना परिणतेत्युक्तिः । उत्तररामचरितस्य गाम्भीर्यगाधुर्यं लभ्यते । परिभावयन्त्वित्यनेन बद्धायदर्पगरसेन बिमपूर्वम्' इति श्लोकार्थों ध्वनितः। परिपूर्वकस्य 'भू सत्तायाम्' इति पठितस्यैवावज्ञानार्थकत्वमिति नास्य तत्प्रसक्तिः । शब्दब्रह्मविदो बुधाः अभिनयैः सह विन्यस्तरूपां प्राज्ञस्य

कवेरिमा वाणी परिणतामेनां परिभावयन्त्विति चोजना । एवेन 'एनाम्' 'इमाम् इत्यनयोन पौनरुपयम् । अभेदलंबन्धेमान्वयवाचक्योरिव प्रकृतिविकृतिवाचकयोरपि समानविभक्तिकत्वनियमाडुभयोर्द्वितीयान्तत्वम् । एवं साह नाटक वृत्तम् ॥ २१ ॥


   यदम्यत्राखिलं किचित्कविनानेन बध्यते।
   निरङ्कुशतया तत्तु समाधेयं मनीषिभिः ॥
   कोशव्याकरणे नात्र लिखिते ग्रन्थगौरवात् ।
   भावस्य तु गभीरत्वात्स कश्चित्कथितो मचा।
   भवभूतेः कवीन्द्रस्य क गम्भीरो गिरां भरः।
   क मे मतिरतिखल्या सहायोऽत्र हयानमः ॥
  अनवरतभावनामियोऽर्थः क्लेशान्मया लब्धः।
  तस्य प्रकाशनीय व्याख्या विदधातु कौतुक सुधियाम् ॥

इति श्रीचाधूलवीररावविरचितायां भवभूतिभावतल-

स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां

सप्तमोऽङ्कः।



समाप्तमिदं नाटकम्।