(ततः प्रविशति नदीद्वयम्) एका- सखि मुरले ! किमसि सम्भ्रान्तेव ? मुरला-सखि तमसे! प्रेषितास्मि भगवतोऽगस्त्यस्य पत्न्या लोपामुद्रया सरिद्वरां गोदावरीमभिधातुम् । जानास्येव यथा वधूपरित्यागात्प्रभृति-

अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः । पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥ १ ॥

तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्गदेन दीर्घशोकसन्तानेन सम्प्रति परिक्षीणो रामभद्रः । तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे दयम् । अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियतमेव पञ्चवटीवने वधूसहनिवासविस्रम्भसाक्षिणःप्रदेशा द्रष्टव्याः । तत्र च निसर्गधीरस्याप्येवंविधायामवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात्पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि । तद्भगवति गोदावरि ! त्वया तत्रभवत्या सावधानया भवितव्यम् ।’

वीचीवातैः सीकरक्षोदशीतैराकर्षद्भिः पह्मकिञ्जल्कगन्धान् । मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति ॥ २ ॥

तमसा-उचितमेव दाक्षिण्यं स्नेहस्य । सञ्जीवनोपायस्तु मूलत एव रामभद्रस्य सन्निहितः । मुरला-कथमिव ? तमसा-तत्सर्वं श्रूयताम् । पुरा किल वाल्मीकितपोवनोपकण्ठात्परित्यज्य निवृत्ते सति लक्षमणे सीतादेवी प्राप्तप्रसववेदनमतिदुःखसंवेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं च प्रसूता भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता । स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महर्षेर्गङ्गादेव्या समर्पितं स्वयम् । मुरला-(सविस्मयम्)

ईदृशानां विषाकोऽपि जायते परमाद्भुतः । यत्रोपकरणीभावमायात्येवंविधो जनः ॥ ३ ॥

तमसा- इदानीं तु शम्बूकवृत्तान्तेनानेन सम्भावितजनस्थानं रामभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव लोपामुद्रया स्नेहादभिशङ्कितं तदेवाभिशङ्क्य सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीमुपागता । मुरला-सुष्ठु चिन्तितं भगवत्या भागीरथ्या । ‘राजनीतिस्थितस्यास्य खलु तैश्च तैश्च जगतामाभ्युदयिकैः कार्यैर्व्यापृतस्य रामभद्रस्य नियताश्चित्तविक्षेपाः । अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ’ इति । कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात् ? तमसा - उक्तमेव भगवत्या भागीरथ्या - ‘वत्से देवयजनसम्भवे सीते ! अद्य खल्वायुष्मतोः कुशलवयोर्द्वादशस्य जन्मवत्सरस्य सङ्ख्यामङ्गलग्रन्थिरभिवर्तते । तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपतपाप्मानं देवं स्वहस्तापचितैः पुष्पैरुपतिष्ठस्व । न त्वामवनिपृष्ठवर्तिनीमस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत मर्त्याः ?’ इति । अहमप्याज्ञापिता ‘तमसे ! त्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमेवास्याः प्रत्यनन्तरीभव’ इति । साऽहमधुना यथाऽदिष्टमनुतिष्ठामि । मुरला -अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । रामभद्रोऽप्यागत एवेति तर्कयामि । तमसा-तदियं गोदावरीह्रदान्निर्गत्य-

परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकबरीकमाननम् । करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी ॥ ४ ॥

मुरला-इयं हि सा -

किसलयमिव मुग्धं बन्धनाद्विप्रलूनं दयकमलशोषी दारुणो दीर्घशोक ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ ५ ॥ (इति परिक्रम्य निष्क्रान्ते) इति शुद्धविष्कम्भकः ।

(नेपथ्ये) जात! जात!!- (ततः प्रविशति पुष्पावचयव्यग्रा सकरुणौत्सुक्यमाकर्णयन्ती सीता) सीता - अही जानामि ‘प्रियसखी वासन्ती व्याहरती’ति । (पुनर्नेपथ्ये) सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै- रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् । सीता-किं तस्य ? (पुनर्नेपथ्ये) वध्वा सार्धं विहरन् सोऽयमन्येन दर्पा- दुद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः ॥ ६ ॥

सीता-(ससंभ्रमं कतिचित्पदानि गत्वा) आर्यपुत्र ! परित्रायस्व परित्रायस्व मम पुत्रकम् । हा धिक् हा धिक् ! तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र ! (प्रविश्य) तमसा-समाश्वसिहि समाश्वसिहि (नेपथ्ये) विमानराज ! अत्रैव स्थीयताम् । सीता - (ससाध्वसोल्लासम्) अहो,जलभरभरितमेघमन्थरस्तनितगम्भीरमांसलः कुतो नु भारतीनिर्घोषो भ्रियमाणकर्णविवरां मामपि मन्दभागिनीं झटित्युत्सुकापयति ? तमसा-(सस्मितास्रम्) अयि वत्से ! अपरिस्फुटनिक्काणे कुतस्त्येऽपि त्वमीदृशी । स्तनयित्नोर्मयूरीव चकितोत्कण्ठितं स्थिता ॥ ७ ॥

सीता - भगवति ! किं भणस्यपरिस्फुटेति । स्वरसंयोगेन प्रत्यभिजानामि नन्वार्यपुत्रेणैवैतद्व्यातम् । तमसा- श्रूयते-तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा दण्डकारण्यमागत’ इति । सीता - दिष्ट्या अपरिहीनधर्मः स राजा । (नेपथ्पे) यत्र द्रुमा अपि मृगा अपि बन्धवो मे यानि प्रियासहचरश्चिरमध्यवात्सम् । एतानि तानि बहुकन्दरनिर्झराणि गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८ ॥

सीता - (इति तमसामाश्लिष्य मूर्च्छति) दिष्ट्या कथं प्रभातचन्द्रमण्डलापाण्डरपरिक्षामदुर्बलेनाकारेण निजसौम्यगम्भीरानुभावमात्रप्रत्यभिज्ञेय एवार्यपुत्रो भवति । भगवति तमसे ! धारय माम् । तमसा-वत्से ! समाश्वसिहि समाश्वसिहि । (नेपथ्ये) अनेन पञ्चवटीदर्शनेन - अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः । उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९ ॥

हा प्रिये जानकि ! तमसा-(स्वगतम्) इदं तावदाशङ्कितं गुरुजनेन । सीता-(समाश्वस्य) हा ! कथमेतत् ? (पुनर्नेपथ्ये) हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि ! (इति मूर्च्छति) सीता-(इति पादयोः पतति) हा धिक् हा धिक् ! मां मन्दभागिनीं व्यात्यामीलितनेत्रनीलोत्पलो मूर्च्छित एव । हा ! कथं धरणीपृष्ठे निरुद्धनिःश्वासनिःसहं विपर्यस्तः। भगवति तमसे ! परित्रायस्व परित्रयस्व । जीवयार्यपुत्रम् । तमसा- त्वमेव ननु कल्याणि ! सञ्जीवय जगत्पतिम् । प्रियस्पर्शो हि पाणिस्ते तत्रैष निरतो जनः ॥ १० ॥

सीता-यद्भवतु तद्भवतु । यथा भगवत्याज्ञापयति । (इति ससंभ्रमं निष्क्रान्ता) (ततः प्रविशति भूम्यां निपतितः सास्रया सीतया स्पृश्यमानः साह्लादोच्छ्वासो रामः) सीता-(किञ्चित्सहर्षम्) जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य । रामः- हन्त भोः ! किमेतत् ?

आश्च्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीवितमनःपरितर्पणोऽयं सञ्जीवनौषधिरसो दि नु प्रसक्तः ॥ ११ ॥

अपि च- स्पर्शः पुरा परिचितो नियतं स एव सञ्जीवनश्च मनसः परितोषणश्च । सन्तापजां सपदि यः परित्य मूर्च्छा- मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥

सीता-(ससाध्वसकरुणमुपसृत्य) एतावदेवेदानीं मम बहुतरम् । रामः- (उपविश्य) न खलु वत्सलया देव्याभ्युपपन्नोस्मि ? सीता- हा धिक् हा धिक् ! किमित्यार्यपुत्रो मां मार्गिष्यति ? रामः- भवतु, पश्यामि । सीता- भगवति तमसे ! अपसराव तावत् । मां प्रेक्ष्याऽनभ्यनुज्ञातेन सन्निधानेन राजाऽधिकं कोपिष्यति । तमसा-अयि वत्से ! भागीरथीप्रसादाद्वनदेवतानामप्यदृश्याऽसि संवृत्ता । सीता-अस्ति खल्वेतत् ? रामः- हा प्रिये जानकि ! सीता-(समन्युगद्गदम्) आर्यपुत्र ! असदृशं खल्वेतदस्य वृत्तान्तस्य । भगवति ! किमिति वज्रमयी जन्मान्तरेष्वपि पुनरप्यसम्भावितदुर्लभदर्शनस्य मामेव मन्दभागिनीमुद्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि । अहमेवैतस्य दयं जानामि, ममैषः। रामः- (सर्वतोऽवलोक्य सनिर्वेदम् ।) हा ! न किंचिदत्र । सीता-भगवति ! निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कीदृशी मे दयावस्था ? इति न जानामि, न जानामि । तमसा-जानामि वत्से ! जानामि ।

तटस्थं नैराश्यादपि च कलुषं विप्रियवशाद् वियोगे दीर्घेऽस्मिञ्झटिति घटनात्स्तम्भितमिव । प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं- द्रवीभूतं प्रेम्णा तव दयमस्मिन् क्षण इव ॥ १३ ॥

रामः- देवि !
प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः ।
अद्याप्यानन्दयति मां, त्वं पुनः क्वासि नन्दिनि ? ॥ १४ ॥

सीता-एते खल्वगाधमानसदर्शितस्नेहसम्भारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । जाने, प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलाभः । रामः- अथवा कुतः प्रियतमा ? नूनं सङ्कल्पाभ्यासपाटवोपादान एष भ्रमो रामभद्रस्य । (नेपथ्ये !) अहो ! महान् प्रमादः प्रमादः (‘सीतादेव्याः स्वकरकलितैः’ इत्यर्धं पठ्यते ।) रामः- (सकरुणौत्सुक्यम्) किं तस्य ? (पुनर्नेपथ्ये ‘वध्वा सार्धम्’ इत्युत्तरार्धं पठ्यते ।) सीता-क इदानीमभियुज्यते ? रामः-काऽसौ दुरात्मा ? यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति। (इत्युत्तिष्ठाति) (प्रविश्य) वासन्ती-(सम्भ्रान्ता) देव ! त्वर्यताम् । सीता-हा, कथं मे प्रियसखी वासन्ती ? रामः- कथं देव्याः प्रियसखी वासन्ती ? वासन्ती-देव ! त्वर्यतां त्वर्यताम् । इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवर्तीय सम्भावयतु देव्याः पुत्रकं देवः । सीता-हा तात जटायो ! शून्यं त्वया विनेदं जनस्थानम् । रामः- अहह ! दयमर्मच्छिदः खल्वमी कथोद्घाताः । वासन्ती-इत इतो देवः । सीता- भगवति ! सत्यमेव वनदेवतापि मां न पश्यति । तमसा-अयि वत्से ! सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिन्याः । तत्किमिति विशङ्कसे ? सीता- ततोऽनुसरावः । (इति परिक्रामति) रामः-(परिक्रम्य) भगवति गोदावरी ! नमस्ते । वासन्ती-(निरूप्य) देव ! मोदस्व विजयिना वधूद्वितीयेन देव्याः पुत्रकेण । रामः-विजयतामायुष्मान् । सीता-अहो ! ईदृशो मे पुत्रकः संवृत्तः ।
रामः- हा देवि ! दिष्ट्या वर्धसे ।

येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण व्याकृष्टस्ते सुतनु ! लवलीपल्लवः कर्णमूलात् ।
सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥

सीता- अवियुक्त इदानीं दीर्घायुरनया सौम्यदर्शनया भवतु । रामः- सखि वासन्ति ! पश्य पश्य । कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन । लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः । सेकः शीकरिणा करेण विहितः कामं विरामे पुन- र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥

सीता- भगवति तमसे ! अयं तावदीदृशो जातः । तौ पुनर्न जानाम्येतावाता कालेन कुशलवौ कीदृशौ संवृताविति ? तमसा-यादृशोऽयं, तादृशौ तावपि । सीता-ईदृश्यस्मि मन्दभागिनी, यस्याः न केवलमार्यपुत्रविरहः, पुत्रविरहोऽपि । तमसा-भवितव्यतेयमीदृशी । सीता-किं वा मया प्रसूतया ? येनैतादृशं मम पुत्रकयोरीषद्विरलधवलदशनकुड्मलोज्ज्वलमनुबद्धमुग्धकाकलीविहसितं नित्योज्जवलं मुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण । तमसा-अस्तु देवताप्रसादात् । सीता-भगवति तमसे ! एतेनापत्यसंस्मरणेनोच्छ्वसितप्रस्नुतस्तनी इदानीं वत्सयोः पितुः सन्निधानेन क्षणमात्रं संसारिणी संवृत्तास्मि । तमसा-किमत्रोच्यते ? प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य । परं चैतदन्योन्यसंश्लेषणं पित्रोः ।

अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥ १७ ॥

वासन्ती-इतोऽपि देवः पश्यतु-

अनुदिवसमवर्धयत्प्रिया ते यमचिरनिर्गतमुग्धलोलबहम् ।
मणिमुकुट इवोच्छिखः कदम्बे नदति स एष वधूसखः शिखण्डी ॥ १८ ॥

सीता-(सकौतुकस्नेहास्रम्) एष सः । रामः- मोदस्व वत्स ! वयमद्य वर्धामहे ।
सीता- एवं भवतु ।
रामः- भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुः प्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या ।
करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि ।
हन्त ! तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते । कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् ।
सीता- (सास्रम्) सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण । रामः- स्मरति गिरिमयूर एष देव्याः स्वजन इवात्र यतः प्रमोदमेति ॥ २० ॥

वासन्ती- अत्र तावदासनपरिग्रहं करोतु देवः । एतत्तु देवस्याश्रमम् । (राम उपविशति ।) वासन्ती- नीरन्ध्रबालकदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते ।
अत्र स्थिता तृणमदाद्वनगोचरेभ्यः सीता ततो हरिणकैर्न विमुच्यते स्म ॥ २१ ॥

रामः- इदमशक्यं द्रष्टुम् । (इत्यन्यतो रुदन्नुपविशति ।)
सीता- सखि वासन्ति ! किं त्वया कृतमार्यपुत्रस्य मम चैतद्दर्शयन्त्या । हा धिक् हा धिक् ! स एवार्यपुत्रः, तदेव पञ्चवटीवनम्, सैव प्रियसखी वासन्ती, त एव विविधविस्रम्भसाक्षिणो गोदवरीकाननोद्देशाः, त एव जातनिर्विशेषा मृगपक्षिणः पादपाश्च । मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतन्नास्ति । ईदृशो जीवलोकस्य परिणामः संवृत्तः । वासन्ती-सखि ! सीते ! कथं न पश्यसि रामभद्रस्यावस्थाम् ।

नवकुलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं
सततमपि नः स्वेच्छादृश्यो नवो नव एव सः । विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥ २२ ॥

सीता- सखि ! पश्यामि । तमसा- पश्य प्रियं भूयः । साता- इति पश्यन्ती स्थिता । हा दैव ! एष मया विना अहमप्येतेन विनेति केन सम्भावितमासीत् ? तन्मुहूर्तमात्रं जन्मान्तरादपि दुर्लभलब्धदर्शनं बाष्पसलिलान्तरेषु पश्यामि तावद्वत्सलमार्यपुत्रम् । तमसा-(परिष्वज्य सास्रम्) विलुलितमतिपूरैर्बाष्पमानन्दशोक- प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा । स्नपयति दयेशं स्नेहनिष्यन्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः ॥ २३ ॥

वासन्ती- ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।
कलमविरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ २४ ॥

रामः-एहि सखि वासन्ति ! नन्वितः स्थीयताम् । वासन्ती-(उपविश्य सास्रम्) महाराज ! अपि कुशलंकुमारलक्ष्मणस्य ? रामः- (अनाकर्णनमभिनीय) करकमलवितीर्णैरम्बुनीवारशष्पै- स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत् ।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव दयस्य प्रस्रवोद्भेदयोग्यः ॥ २५ ॥

वासन्ती-महाराज ! ननु पृच्छामि कुशलं कुमारलक्ष्मणस्येति ? रामः-(आत्मगतम्) अये ! महाराजेति निष्प्रणयमामन्त्रणपदम् । सौमित्रिमात्रके बाष्पस्खलिताक्षरः कुशलप्रश्नः । तथा मन्ये विदितसीतावृत्तान्तेयमिति । (प्रकाशम्) आः ? कुशलं कुमारलक्ष्मणस्य । वासन्ती-(रोदिति) अयि देव ! किं परं दारुण: खल्वसि । सीता- सखि वासन्ति ! किं त्वमेवंवादिनी भवसि ? पूजार्हः सर्वस्यार्यपुत्रः विशेषतो मम प्रियसख्याः । वासन्ती- त्वं जीवितं, त्वमसि मे दयं, द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे । इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ? ॥ २६ ॥
(इति मुह्यति) तमसा-स्थाने वाक्यनिवृत्तिर्मोहश्च । रामः- सखि ! समाश्वसिहि समाश्वसिहि ।
वासन्ती- (समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन ?
सीता- सखि वासन्ति ! विरम विरम ।
रामः- लोको न मृष्यतीति ।
वासन्ती-कस्य हेतोः ?
रामः- स एव जानाति किमपि ।
तमसा-चिरादुपालम्भः ।
वासन्तीति- अयि कठोर ! यशः किल ते प्रियं, किमयशो ननु घोरमतः परम् ? किमभवद्विपिने हरिणीदृशः ? कथय नाथ ! कथं बत ! मन्यसे ? ॥ २७ ॥

सीता- सखि वासन्ति ! त्वमेव दारुणा कठोरा च । यैवं प्रलपन्तं प्रलापयसि । तमसा- प्रणय एवं व्याहरति शोकश्च । रामः- सखि ! किमत्र मन्तव्यम् ? त्रस्तैकहायनकुरङ्गविलोलदृष्टेस्तस्याः परिस्फुरितगर्भभरालसायाः । ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥
सीता- आर्यपुत्र ! ध्रिये एषा ध्रिये ।
रामः- हा प्रिये जानकि ! क्वासि ? सीता- हा धिक् हा धिक् ! अन्य इवार्यपुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति । तमसा- वत्से ! साम्प्रतिकमेवैतत् । कर्त्तव्यानि खलु दुःखितैर्दुःखनिर्धारणानि । पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च दयं प्रलापैरेव धार्यते ॥ २९ ॥
विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः ।
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियशोको जीवं कुसुममिव धर्मो ग्लपयति ।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ- स्तदद्याप्युच्छ्‌वासो भवति ननु लाभो हि रुदितम् ॥ ३० ॥
रामः- कष्टं भोः ! कष्टम् । दलति दयं शोकोद्वेगाद् द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलति तनूमन्तर्दाहः करोति न भस्मसा- त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥
हे भगवन्तः पौरजानपदाः ! न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत- स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता ।
चिरपरिचितास्ते ते भावास्तथा द्रवयन्ति मा- मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ ३२ ॥

वासन्ती-(स्वगतम्) अतिगभीरमापूरणं मन्युभारस्य । (प्रकाशम्) देव ! अतिक्रान्ते धैर्यमवलम्ब्यताम् । रामः-किमुच्यते धैर्यमिति ? देव्याः शून्यस्य जगतो द्वादशः परिवत्सरः ।
प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥

सीता-अपहरामि च मोहितेव एतैरार्यपुत्रस्य प्रियवचनैः । तमसा-एवमेव वत्से ! नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः । एतास्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि ॥ ३८ ॥
रामः- अयि वासन्ति ! मया खलु- यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दन्तः ।
तथैव तीव्रो दि शोकशङ्कुर्मर्माणि कृन्तन्नपि किं न सोढः ? ॥ ३५ ॥

सीता-एवमपि मन्दभागिन्यहं या पुनरायासकारिणी आर्यपुत्रस्य । रामः-एवमतिगूढस्तम्भितान्तःकरणस्यापि मम संस्तुतवस्तुदर्शनादद्यायमावेगः । तथा हि- वेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं यो यो यत्नः कथमपि समाधीयते तं तमन्तः । हित्वा भित्त्वा प्रसरति बलात्कोऽपि चेतोविकार- स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३६ ॥
सीता-आर्यपुत्रस्यैतेन दुर्वारदारुणारम्भेण दुःखसंयोगेन परिमुषितनिजदुःखं प्रमुक्तजीवितं मे दयं स्फुटति । वासन्ती-(स्वगतम्) कष्टमत्यासक्तो देवः । तदाक्षिपामि तावत् । (प्रकाशम्) चिरपरिचितानिदानीं जनस्थानभागानवलोकनेन मानयतु देवः । रामः-एवमस्तु (इत्युत्थाय परिक्रामति ।) सीता-संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि । वासन्ती-देव देव !
अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते ।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥ ३७ ॥

सीता-दारुणासि वासन्ति ! दारुणासि । या एतैदयमर्मोद्घाटितशल्यसंघनैः पुनः पुनरपि मां मन्दभागिनीमार्यपुत्रं च स्मरयसि । रामः-अयि चणिड जानकि ! इतस्ततो दृश्यसे, नानुकम्पसे । हा हा देवि ! स्फुटति दयं, ध्वंसते देहबन्धः, शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि ।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ? ॥ ३८ ॥
(इति मूर्च्छति ।)

सीता-हा धिक् हा धिक् ! पुनरपि मूढ आर्यपुत्रः । वासन्ती-देव ! समाश्वसिहि समाश्वसिहि । सीता-आर्यपुत्र ! मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमाङ्गलिकजन्मलाभस्य ते वारंवारं संशयितजीवितदारुणो दशापरिणाम इति हा ! हतास्मि । तमसा-वत्से ! समाश्वसिहि समाश्वसिहि । पुनस्ते पाणिस्पर्शो रामभद्रस्य जीवनोपायः । वासन्ती-कथमद्यापि नोच्छ्वसिति ? हा प्रियसखि सीते ! क्वासि ? सम्भावयात्मनो जीवितेश्वरम् । वासन्ती-दिष्ट्या प्रत्यापन्न-चेतनो रामभद्रः । (सीता ससम्भ्रममुपसृत्य दि ललाटे च स्पृशति ।) रामः- आलिम्पन्नमृतमयैरिव प्रलेपैरन्तर्वा बहिरपि वा शरीरधातून् । संस्पर्शः पुनरपि जीवयन्नकस्मादानन्दादपरमिवादधाति मोहम् ॥ ३९ ॥ (सानन्दं निमीलिताक्ष एव ।) सखि वासन्ति ! दिष्ट्या वर्धसे । वासन्ती-कथमिव ? रामः-सखि ! किमन्यत् । पुनरपि प्राप्ता जानकी । वासन्ती-अयि देव रामभद्र ! क्व सा ? रामः-(स्पर्शसुखमभिनीय) पश्य, नन्वियं पुरत एव । वासन्ती-अयि देव रामभद्र ! किमिति मर्मच्छेददारुणैरतिप्रलापैः प्रियसखीविपत्तिदुःखदग्धामपि मां पुनर्मन्दभाग्यां दहसि ? सीता-अपसर्तुमिच्छामि । एष पुनः चिरप्रणयम्भारसौम्यशीतलेन आर्यपुत्रस्पर्शेन दीर्घदारुणमपि झटिति सन्तापमुल्लाघयता वज्रलेपोपनद्ध इव पर्यस्तव्यापार आसज्जित इव मेऽग्रहस्तः । रामः- सखि ! कुतः प्रलापः ? गृहीतो यः पूर्वं परिणयविधौ कङ्कणधरः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः । सीता- आर्यपुत्र ! स एवेदानीमसि त्वम् । रामः- स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः ॥ ४० ॥ (इति गृह्णाति ।) सीता-हा धिक् हा धिक् ! आर्यपुत्रस्पर्शमोहितायाः प्रमादो मे संवृत्तः । रामः-सखि वासन्ति ! आनन्दमीलितः प्रियास्पर्शसाध्वसेन परवानस्मि । तत्त्वमपि धारय माम् । वासन्ती-कष्टमुन्माद एव । (सीता ससंभ्रमं हस्तमाक्षिप्यापसर्पति ।) रामः- धिक् ! प्रमादः । करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः । परिकम्पिनः प्रकम्पी करान्मम स्विद्यतः स्विद्यन् ॥ ४१ ॥

सीता- हा धिक् हा धिक् ! अद्याप्यनुबद्धबहुघूर्णमानवेदनं न संस्थापयाम्यात्मानम् । तमसा- (सस्नेहकौतुकस्मितं निर्वर्ण्य) सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा । मरुन्नवाम्भः परिधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव ॥ ४२ ॥

सीता-(स्वगतम्) अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया । किमिति किलैषा मंस्यत ‘एष परित्याग एषोऽभिषङ्ग’ इति । रामः- (सर्वतोऽवलोक्य) हा ! कथं नास्त्येव । नन्वकरुणे वैदेहि ! सीता- अकरुणास्मि, यैवंविधं त्वां पश्यन्त्येव जीवामि । रामः-क्वासि प्रिये ! देवि ! प्रसीद प्रसीद । न मामेवंविधं परित्यक्तुमर्हसि । सीता-अयि आर्यपुत्र ! विप्रतीपमिव । वासन्ती-देव ! प्रसीद प्रसीद । स्वेनैव लोकोत्तरेण धैर्येण संस्तम्भयातिभूमिं गतमात्मानम् । कुत्र मे प्रियसखी ? रामः- व्यक्तं नास्त्येव । कथमन्यथा वासन्त्यपि न पश्येत् ? अपि खलु स्वप्न एष स्यात् ? न चास्मि सुप्तः । कुतो रामस्य निद्रा ? सर्वथापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलम्भः पुनः पुनरनुबध्नाति माम् । सीता- मयैव दारुणया विप्रलब्ध आर्यपुत्रः । वासन्ती-देव ! पश्य पश्य । पौलस्त्यस्य जटयुषा विघटितः कार्ष्णायसोऽयं रथ- स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः । खड्गच्छिन्नजटायुपक्षतिरितः सीतां चलन्तीं वह- न्नन्तर्व्यापृतविद्युदम्बुद इव द्यामभ्युदस्थादरिः ॥ ४३ ॥

सीता-(सभयम्) आर्यपुत्र ! तातो व्यापाद्यते । तस्मात् परित्रायस्व परित्रायस्व । अहमप्यपह्रये । रामः-(सवेगमुत्थाय) आः पाप ! तातप्राणसीतापहारिन् ! लङ्कापते ! क्व यास्यासि ? वासन्ती-अयि देव ! राक्षसकुलप्रलयधूमकेतो ! किमद्यापि ते मन्युविषयः ? सीता-अहो ! उद्भ्रान्तास्मि । रामः-अन्य एवायमधुना विपर्ययो वर्तते ।

उपायानां भावादविरलविनोदव्यतिकरै- र्विमर्दैर्वीराणां जनितजगदत्यद्भुतरसः । वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कटुस्तूष्णीं सह्यो निरवधिरयं तु प्रविलयः ॥ ४४ ॥

सीता-बहुमानितास्मि पूर्वविरहे । निरवधिरिति हा ! हतास्मि । रामः- कष्टं भोः !

व्यर्थ यत्र कपीन्द्रसख्यमपि मे, वीर्यं हरीणां वृथा, प्रज्ञाजाम्बवतो न यत्र, न गतिः पुत्रस्य वायोरपि । मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः, सौमित्रेरपि पत्त्रिणामविषये तत्र प्रिये ! क्वासि मे ? ॥ ४५ ॥

सीता- बहुमानितास्मि पूर्वविरहे । रामः- सखि वासन्ति ! दुःखायैव सुदामिदानीं रामदर्शनम् । कियच्चिरं त्वां रोदयिष्यमि । तदनुजानीहि मां गमनाय । सीता- (सोद्वेगमोहं तमसामाश्लिष्य) हा ! भगवति तमसे ! गच्छतीदानीमार्यपुत्रः । किं करोमि ? (इति मूर्च्छति) तमसा-वत्से जानकि ! समाश्वसिहि समाश्वसिहि । विधिस्तवानुकूलो भविष्यति । तदायुष्मतोः कुशलवयोर्वर्षर्द्धिमङ्गलानि सम्पादयितुं भागीरथीपदान्तिकमेव गच्छावः। सीता-भगवति ! प्रसीद । क्षणमात्रमपि दुर्लभदर्शनं पश्यामि । रामः-अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे । सीता-(साक्षेपम्) आर्यपुत्र ? का ? वासन्ती-परिणीतमपि किम् ? रामः- नहि नहि । हिरण्मयी सीताप्रतिकृतिः । साता-(सोच्छ्‌वासास्रम्) आर्यपुत्र ! इदानीमसि त्वम् । अहो ! उत्खातितमिदानीं मे परित्यागशल्यमार्यपुत्रेण । रामः-तत्रापि तावद् बाष्पदिग्धं चक्षुर्विनोदयामि । सीता-धन्या खलु सा, यैवमार्यपुत्रेण बहु मन्यते । यैवमार्यपुत्रं विनोदयन्त्याशाबन्धनं खलु जाता जीवलोकस्य । तमसा-(सस्मितस्नेहार्द्रं परिष्वज्य ।) अयि वत्से ! एवमात्मा स्तूयते । सीता-(सलज्जम्) परिहसितास्मि भगवत्या । वोसन्ती-महानयं व्यतिकरोऽस्माकं प्रसादः । गमनं प्रति यथा कार्यहानिर्न भवति तथा कार्यम् । रामः-तथाऽस्तु । सीता-प्रतिकूलेदानीं मे वासन्ती संवृत्ता । तमसा-वत्से ! एहि गच्छावः । सीता- एवं करिष्यावः । तमसा-कथं वा गम्यते । यस्यास्तव- प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः । मर्मच्छेदोपमैर्यत्नैः सन्निकर्षो निरुध्यते ॥ ४६ ॥ सीता-नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्यपुत्रचरणकमलाभ्याम् । (इति मूर्च्छति) तमसा-समाश्वसिहि । सीता-(आश्वस्य) कियच्चिरं वो मेघान्तरेण पूर्णचन्द्रदर्शनम् ? तमसा-अहो ! संविधानकम् । एको रसः करुण एव निमित्तभेदा- द्भिन्नः पृथक्पृथगिव श्रयते विवर्तान् । आवर्तबुद्बुदतरङ्गमयान्विकारा- नम्भो यथा, सलिलमेव हि तत्समस्तम् ॥ ४७ ॥

रामः-विमानराज ! इत इतः । (सर्व उत्तिष्ठन्ति) तमसावासन्त्यौ-(सीतारामौ प्रति) अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता । स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्तव वितरतु भद्रं भूयसे मङ्गलाय ॥ ४८ ॥
(इति निष्क्रान्ताः सर्वे) इति महाकविभवभूतिविरचिते उत्तररामचरिते छाया नाम तृतीयोऽङ्कः ॥ ३ ॥