उत्तररामचरितम् /षष्ठोऽङ्कः
(ततः प्रविशति विमानेनोज्जवलं विद्याधरमिथुनम्)
विद्याधरः-अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तविलसितानि । तथा हि प्रिये ! पश्य ।
झणज्झणितकङ्कणक्वणितकिङ्किणीकं धनु-
र्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।
वितत्य किरतोः शरानविरतं पुनः शूरयो-
र्विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥
जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि ।
स्तनयित्नोरिवामन्ददुन्दुभेर्न्दुन्दुमायितम् ॥ २ ॥
तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः ।
विद्याधरी-तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम् ।
आधारः-तत्किं नु खल्वद्य ?
त्वष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्जवलः ।
पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥
(विचन्त्य) आं ज्ञातम् । जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरुपमाग्नेयमस्त्रम्, यस्यायमग्निवच्छरसम्पातः । संप्रति हि ।
अवदग्धबर्बरितकेतुचामरैरपयातमेव हि विमानमण्डलैः ।
दहति ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥ ४ ॥
आश्चर्यम् ! प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलिङ्गगुरुरुत्तालतुमुललेलिहानोज्ज्वलज्वालासंभारभैरवो भगवानुषर्बुधः । प्रचण्डश्चास्य सर्वतः संपातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि ।(तथा करोति)
विधाधरी-दिष्ट्या एतेन विमलमुक्ताशैलशीतलस्निग्धमसृणमांसलेननाथदेहस्पर्शेनानन्दसंदलितघूर्णमानवेदनाया अर्धोदित एवान्तरितो मे सन्तापः ।
विद्याधरः- अयि ! किमत्र मया कृतम् ? अथवा ।
न किञ्चिदपि कुर्वाणाः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ ५ ॥
विद्याधरी-कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलैर्मत्तमयूरकण्ठश्यामलैरवस्तीर्यते नभोऽङ्गणं जलधरैः ?
विद्याधरः-कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथमविरलप्रवृतवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम् ।
विधाधरी- प्रियं मे, प्रियं मे ।
विद्याधरः- हन्त भोः ! सर्वमतिमात्रं दोषाय । यत्प्रलयवातोत्क्षोभगम्भीरगुलुगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवारविश्वग्रसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरद्धसर्वद्वारं नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो ! साधु ! स्थाने वायव्यमस्त्रमीरितम् । यतः ।
विद्याकल्पेन मरुता मेघानां भूयसामपि ।
ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृतः ॥ ६ ॥
विद्याधारी-नाथ ! क इदानीमेषे ससंभ्रममोत्क्षिप्तकरभ्रमदुत्तरीयाञ्चलो इतर एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोरन्तरे विमानवरमवतारयति?
विद्याधरः- (दृष्ट्वा) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
शान्तं महापुरुषसंगदितं निशम्य तद्गौरवात्समुपसंतसंप्रहारः ।
शान्तो लवः,प्रणत एव च चन्द्रकेतुः, कल्याणमस्तु सुतसंगमनेन राज्ञः ॥ ७ ॥
तदितस्तावदेहि । (इति निष्क्रान्तौ)
विष्कम्भकः ।
(ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च)
रामः-(पुष्पकादवतरन्)
दिनकरकुलचन्द्र ! चन्द्रकेतो ! सरभसमेहि दृढं परिष्वजस्व ।
तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः ॥८॥
(उत्थाप्य सस्नेहास्रं परिष्वज्य) अप्यनामयं नूतनदिव्यास्त्रायोधनस्य तव ?
चन्द्रकेतुः- अभिवादये । कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः ।
रामः- (लवं निरूप्य) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं वयस्यो वत्सस्य ।
त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः
क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै ।
सामर्थ्यानामिव समुदयः, सञ्चयो वा गुणाना-
माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥९॥
लवः-(स्वगतम्) अहो ! पुण्यानुभावदर्शनोऽयं महापुरुषः ।
आश्वास इव भक्तीनामेकमायतनं महत् ।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥१०॥
आश्चर्यम् !
विरोधो विश्रान्तः, प्रसरति रसो निर्वृतिघन-
स्तदौद्धत्यं क्वापि व्रजति, विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमिति परवानस्मि, यदि वा
महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥११॥
रामः-तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम् ? अथवा ‘स्नेहश्च निमित्तसव्यपेक्ष’ इति विप्रतिषिद्धमेतत् ।
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥१२॥
लवः-चन्द्रकेतो ! क एते ?
चन्द्रकेतुः - प्रियवयस्य ! ननु तातपादाः ।
लवः- ममापि धर्मतस्तथैव, यतः प्रियवयस्येति भवतोक्तम् । किंतु चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथापुरुषाः । तद्विशेषं ब्रूहि ।
चन्द्रकेतुः - ज्येष्ठतात इत्यवेहि ।
लवः -(सोल्लासम्) कथं रघुनाथ एव ? दिष्ट्या सुप्रभातमद्य, यदयं देवो दृष्टः । (सविनयं निर्वर्ण्य) तात ! प्राचेतसान्तेवासी लवोऽभिवादयते ।
रामः-आयुष्मन् ! एह्येहि । (इति सस्नेहमालिङ्ग्य) अयि वत्स ! कृतमत्यन्तविनयेन । अङ्गेन मामपरिश्लथं परिरम्भस्व ।
परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः ।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥१३॥
लवः-(स्वगतम्) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मया पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः । (प्रकाशम्) मृष्यन्तांत्विदानीं लवस्य बालिशतां तातपादाः ।
रामः - किमपराद्धं वत्सेन ?
चन्द्रकेतुः - अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन ।
रामः- नन्वयमलङ्कारः क्षत्रियस्य ।
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते ।
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ? ॥१४॥
चन्द्रकेतुः- अमर्षोप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः ! प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि ।
रामः-(सविस्मयखेदं निर्वर्ण्य स्वगतम्) अहो ! वत्सस्य ईदृशः प्रभावः ? (प्रकाशम्) वत्स ! संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो ! निर्व्यापारतया विलक्षाणि सान्त्वय बलानि ।
(लवः प्रणिधानं नाटयति)
चन्द्रकेतुः- यथा निर्दिष्टम् (इति निष्क्रान्तः)
लवः-तात ! प्रशान्तमस्त्रम् !
रामः-सरहस्यप्रयोगसंहारजृम्भकास्त्रणि दिष्ट्या वत्सस्यापिसंपद्यन्ते ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रंशरदस्तपांसि ।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥
अथैतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्सरपरिचर्यानिरतायान्तेवासिने कौशिकाय प्रोवाच । स भगवान् मह्यमिति गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदायः ? इति पृच्छामि ।
लवः- स्वतःप्रकाशान्यावयोरस्त्राणि ।
रामः- (विचिन्त्य) किं न संभाव्यते ? प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ?
लवः- भ्रातरावावां यमौ !
रामः- स तर्हि द्वितीयः क्व ?
(नेपथ्ये)
दण्डायन !
आयुष्मतः किल लवस्य नरेन्द्रसैन्यै-
रायोधनं ननु किमात्थ ? सखे ! तथेति ।
अद्यास्तमेतु भुवनेषु च राजशब्दः
क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥१६॥
रामः-
अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम् ।
नवनीलनीरधरधीरगर्जितक्षणबद्धकुड्मलकदम्बडम्बरम् ॥१७॥
लवः- अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्प्रतिनिवृत्तः ।
रामः- (सकौतुकम्) तर्हि वत्स ! इत एवैतमाह्वयायुष्मन्तम् ।
लवः-यदाज्ञापयति । (इति निष्क्रान्तः)
(ततः प्रविशति कुशः)
कुशः- (सक्रोधं कृतधैर्यं धनुरास्फाल्य)
दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादा मनो-
र्दृप्तानां दमनाय दीपितनिजक्षत्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो
दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥१८॥
(विकटं परिक्रामति)
रामः-कोऽप्यस्मिन् क्षत्रियपोतके पौरुषातिरेकः । तथाहि-
दृष्टिस्तृणीकृतजगत्त्रयसत्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ १९ ॥
लवः-(उपसृत्य) जयत्वार्यः ।
कुशः - नन्वायुष्मन् ! किमियं वार्ता युद्धं युद्धमिति?
लवः- यत्किंचिदेतत् । आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन वर्तताम् ।
कुशः- किमर्थम् ?
लवः- यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता ।
कुशः- आशंसनीयपुणयदर्शनः स महात्मा । किन्तु स कथमस्माभिरुपगन्तव्यः? इति संप्रधारयामि ।
लवः- यथैव गुरुस्तथोपसदनेन ।
कुशः- कथं हि नामैतत् ?
लवः- अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः ।
कुशः- संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः ।
(उभौ परिक्रामतः)
लवः- पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंभाव्यमानविविधलोकोत्तरसुचरितातिशयम् ।
कुशः-(निर्वर्ण्य)
अहो प्रासादिकं रूपमनुभावश्च पावनः ।
स्थाने रामायणकविर्देवीं वाचमवीवृधत् ॥२०॥
(उपसृत्य) तात ! प्राचेतसान्तेवासी कुशोऽभिवादयते ।
रामः- एह्येह्यायुष्मन् !
अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।
परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः ॥ २१ ॥
(परिष्वज्य स्वगतम्) तत्किमित्ययं च दारकः
अङ्गादङ्गात्सृत इव निजः स्नेहजो देहसारः
प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः ।
सान्द्रानन्दक्षुभितदयप्रस्रवेणावसिक्तो
गाढाऽऽश्लेषः स हि मम हिमच्योतमाशंसतीव ॥ २२ ॥
लवः-ललाटन्तपस्तपति धर्मांशुः । तदत्र सालवृक्षच्छायायां मुहूर्त्तमासनपरिग्रहं करोतु तातः ।
रामः- यदभिरुचितं वत्सस्य ।
(सर्वे परिक्रम्य यथोचितमुपविशन्ति ।)
रामः-(स्वगतम्)
अहो ! प्रश्रययोगेऽपि गतिस्थित्यासनादयः ।
साम्रज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २३ ॥
वपुरवियुतसिद्धा एव लक्ष्मीविलासाः
प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति ।
अमलिनमिव चन्द्रं रश्मयः स्वे यथा वा
विकसितमरविन्दं विन्दवो माकरन्दाः ॥ २४ ॥
भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि ।
कठोरपारावतकण्ठमेचकं वपुर्वृषस्कन्धसुबन्धुरांसयोः ।
प्रसन्नसिंहस्तिमितं च वीक्षितं ध्वनिश्च माङ्गल्यमृदङ्गमांसलः ॥ २५ ॥
(निपुणं निरुपयन्) अये ! न केवलमस्मद्वंशसंवादिन्याकृतिः-
अपि जनकसुतायास्तच्च तच्चानुरूपं
स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
रभिनवशतपत्त्रश्रीमदास्यं प्रियायाः ॥ २६ ॥
शुक्लाच्छदन्तच्छविसुन्दरीयं सैवोष्ठमुद्रा स च कर्णपाशः ।
नेत्रे पुनर्यद्यपि रक्तनीले तथापि सौभाग्यगुणः स एव ॥ २७ ॥
(विचिन्त्य) तदेतत्प्राचेतसाध्युषितमरण्यं, यत्र किल देवी परित्यक्ता इयं चानयोराकृतिर्वयोऽनुभावश्च । यत्स्वतः प्रकाशान्यस्त्राणीति च । तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासङ्गिकं शस्त्राभ्यनुज्ञानं प्रबुद्धं स्यात् । न ह्यसाम्प्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुम । अयं विस्मयसंप्लवमानसुखदुःखातिशयो दयस्य मे विप्रलम्भः । यमाविति च भूयिष्ठमात्मसंवादः । जीवद्वयायत्पचिह्नो हि देव्या गर्भिणीभाव आसीत् (सास्रम्)
परां कोटिं स्नेहे परिचयविकासादधिगते
रहो विस्रब्धाया अपि सहजलज्जाजडदृशः ।
मयैवादौ ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥
(रुदित्वा) तत्किमेतौ पृच्छामि केनचिदुपायेन ?
लवः- तात ! किमेतत् ?
बाष्पर्षेण नीतं वो जगन्मङ्गलमाननम् ।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥
कुशः- अयि वत्स !
विना सीतादेव्या किमिव हि न दुःखं रघुपतेः ?
प्रियानाशे कृत्यस्नं किल जगदरण्यं हि भवति ।
स च स्नेहस्तावानयमपि वियोगो निरवधिः
किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥
रामः-(स्वगतम्) अये, तटस्थ आलापः । कृतं प्रश्नेन । मुग्धदय ! कोऽयमाकस्मिकस्ते संप्लवाधिकारः ? एवं निर्भिन्नदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि । (प्रकाशम्) वत्सौ रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य तत्कौतूहलेन यत्किंचिच्छ्रोतुमिच्छामि ।
कुशः-कृत्स्न एव सन्दर्भोऽस्माभिरावृत्तः, स्मृतिप्रत्युपस्थितौ तावदिमौ बालचरितस्यासाते द्वौ श्लोकौ ।
रामः-उदीरयतं वत्सौ ।
कुशः-
प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥ ३१ ॥
तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।
दयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥
रामः-कष्टमतिदारुणो दयमर्मोद्घातः । हा देवि ! एवं किलैतदासीत् ! अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः ।
क्व तावानानन्दो निरतिशयविस्रम्भबहुलः ?
क्व वाऽन्योन्यप्रेम ? क्व च नु गहनाः कौतुकरसाः ? ।
सुखे वा दुःखे वा क्व नु खलु तदैक्यं दययो-
स्तथाप्येष प्राणः स्फुरति, न तु पापो विरमति ॥ ३३ ॥
भोः कष्टम् ।
प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः ।
य एव दुःसहः कालस्तमेव स्मारिता वयम् ॥ ३४ ॥
तदा किंचित्किंचित्कृतपदमहोभिः कतिपयै-
स्तदेतद्विस्तारि स्तनमुकुलमासीन्मृगदृशः ।
वयःस्नेहाकूतव्यतिकरघनो यत्र मदन
प्रगल्भव्यापारः स्फुरति दि मुग्धश्च वपुषि ॥ ३५ ॥
लवः- अयं तु चित्रकूटवर्त्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः-
त्वदर्थमिव विन्यस्तः शिलापऽयमायतः ।
यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६ ॥
रामः-(सलज्जास्मितस्नेहकरुणम्) अति हि नाम मुग्धः शिशुजनः विशेषतस्त्वरण्यचरः । हा देवि ! स्मरसि वा तस्य तत्समयविस्रम्भातिप्रङ्गस्य ?
श्रमाम्बुशिशिरीभवत् प्रसृतमन्दमन्दाकिनी-
मरुत्तरलितालकाकुलललाटचन्द्रद्युति ।
अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते
निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७ ॥
(स्तम्भित इव स्थित्वा, सकरुणम्) अहो नु खलु भोः !
चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः
प्रवासे चाश्वासं न खलु न करोति प्रियजनः ।
जगज्जीर्णारण्यं भवति च कलत्रे ह्युपरते
कुकूलानां राशौ तदनु दयं पच्यत इव ॥ ३८ ॥
(नेपथ्ये)
वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः
सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः ।
जराग्रस्तैर्गात्रैरथ खलु सुदूराश्रमतया
चिरेणागच्छन्ति त्वरितमनसो विश्लथजटाः ॥ ३९ ॥
रामः- कथंभगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कथं खलु ते द्रष्टव्याः ? (सकरुणं विलोक्य) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः ।
सम्बन्धस्पृहणीयताप्रमुदितैर्ज्येष्ठैर्वसिष्ठादिभि-
र्दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः सङ्गमम् ।
पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे
दीर्ये किं न सहस्रधाऽहमथवा रामेण किं दुष्करम् ॥ ४० ॥
(नेपथ्ये)
भो भोः ! कष्टम् ।
अनुभावमात्रसमवस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम् ।
प्रथमप्रबुद्धजनकप्रबोधिता विधुराः प्रमोहमुपयान्ति मातराः ॥ ४१ ॥
रामः-
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥ ४२ ॥
यावत्संभावयामि । (इत्युत्तिष्ठति)
कुशलवौ-इति इतस्तातः ।
(सकरुणं परिक्रम्य निष्क्रान्ताः सर्वे)
इति महाकविभूतिविरचिते उत्तररामचरिते कुमारप्रत्यभिज्ञानं नाम षष्ठोऽङ्कः ॥ ६ ॥