उदानवर्ग
अनित्य.वर्ग
सम्पाद्यताम्- १.० : सिद्धम्
- १.१ स्तीनम्.इद्धम्.विनोद्येह.सम्प्रहर्ष्य.च.मानसम् ।[.स्तीनमिद्धम्.]
- १.१ शृणुतेमम्.प्रवक्ष्यामि उदानम्.जिन.भाषितम् ॥
- १.२ एवम्.उक्तम्.भगवता.सर्वाभिज्ञेन.तायिना ।
- १.२ अनुकम्पकेनर्षिणा शरीरान्तिम.धारिणा ॥
- १.३ अनित्या.बत.संस्कारोत्पाद.व्यय.धर्मिणः ।
- १.३ उत्पद्य.हि.निरुध्यन्ते.तेषाम्.व्युपशमः.सुखम् ॥
- १.४ को.नु.हर्षः.क;आनन्द;एवम्.प्रज्वलिते.सति ।
- १.४ अन्ध.कारम्.प्रविष्टाः.स्थ.प्रदीपम्.न.गवेषथ ॥
- १.५ यानीमान्य्.अपविद्धानि.विक्षिप्तानि.दिशो.दिशम् ।
- १.५ कपोत.वर्णान्य्.अस्थीनि.तानि.द्र्ष्ट्वेह.का.रतिः ॥
- १.६ याम्.एव.प्रथमाम्.रात्रिम्.गर्भे.वसति.मानवः ।
- १.६ अविष्ठितः.स.व्रजति.गतश्.च.न.निवर्तते ॥
- १.७ सायम्.एके.न.दृश्यन्ते.काल्यम्.दृष्टा.महा.जनाः ।
- १.७ काल्यम्.चैके.न.दृष्यन्ते.सायम्.दृष्टा.महा.जनाः ॥
- १.८ तत्र.को.विश्वसेन्.मर्त्यो.दहरो.अस्मीति.जीविते ।
- १.८ दहरापि.ंरियन्ते.हि.नरा.नार्यश्.च.न्.एकशः ॥[.अनेकशः.]
- १.९ गर्भ;एके.विनश्यन्ते.तथैके.सूतिका.कुले ।
- १.९ परिसृप्तास्.तथा.ह्य्.एके.तथैके.परिधाविनः ॥
- १.१० ये.च.वृद्धा.ये.च.दह्रा.ये.च.मध्यम.पुरुषाः ।[.पूरुषाः.]
- १.१० अनुपूर्वम्.प्रव्रजन्ति.फलम्.पक्वम्.व.बन्धनात् ॥
- १.११ यथा.फलानाम्.पक्वानाम्.नित्यम्.पतनतो.भयम् ।
- १.११ एवम्.जातस्य.मर्त्यस्य.नित्यम्.मरणतो.भयम् ॥
- १.१२ यथापि.कुम्भ.कारेण.मृत्तिका.भाजनम्.कृतम् ।
- १.१२ सर्वम्.भेदन.पर्यन्तम्.एवम्.मर्त्यस्य.जीवितम् ॥
- १.१३ यथापि.तन्त्रे.वितते.यद्.यद्.उक्तम्.समुप्यते ।
- १.१३ अल्पम्.भवति.वातव्यम्.एवम्.मर्त्यस्य.जीवितम् ॥
- १.१४ यथापि.व - - - - - - - - - - - - - - - - - ।
- १.१४ - - - घतनो.भवति;एवम्.मर्त्यस्य.जीवितम् ॥
- १.१५ यथा.नदी.पार्वतीया.गच्छते.न.निवर्तते ।
- १.१५ एवम्.आयुर्.मनुष्याणाम्.गच्छते.न.निवर्तते ॥
- १.१६ किसरम्.च.परित्तम्.च.तच्.च.दुह्खेन.सम्युतम् ।
- १.१६ उदके.दण्ड.राजीव.क्षिप्रम्.एव.विनश्यति ॥
- १.१७ यथा.दण्डेन.गोपालो.गाः.प्रापयति.गोचरम् ।
- १.१७ एवम्.रोगैर्.जरा.मृत्युः.आयुः.प्रापयते.नृणाम् ॥
- १.१८ अतियान्ति.ह्य्.अहो.रात्रा.जीवितम्.चोपरुध्यते ।
- १.१८ आयुः.क्षीयति.मर्त्यानाम्.कुनदीषु.यथौदकम् ॥
- १.१८ ........................ जीवितम्.चोपरुध्यते ।
- १.१८ ................................................ ॥
- १.१९ दीर्घा.जागरतो.रात्रिर्.दीर्घम्.श्रान्तस्य.योजनम् ।
- १.१९ दीर्घो.बालस्य.संसारः.सद्धर्मम्.अविजानतः ॥
- १.२० पुत्रो.मेऽस्ति.धनम्.मेऽस्तीत्य्.एवम्.बालो.विहन्यते ।
- १.२० आत्मैव.ह्य्.आत्मनो.नास्ति.कस्य.पुत्रः.कुतो.धनम् ॥
- १.२० मरणे ........................................... ।
- १.२० ................................................. ॥
- १.२१ अनेकानि.सहस्राणि.नर.नारी.शतानि.च ।
- १.२१ भोगान्.वै.समुदानीय.वशम्.गच्छन्ति.मृत्युनः ॥
- १.२२ सर्वे.क्षयान्ता.निचयाः.पतनान्ताः.समुच्छ्रयाः ।
- १.२२ सम्योगा.विप्रयोगान्ता.मरणान्तम्.हि.जीवितम् ॥
- १.२३ सर्वे.सत्त्वा.मरिष्यन्ति.मरणान्तम्.हि.जीवितम् ।[.सत्वा.]
- १.२३ यथा.कर्म.गमिष्यन्ति.पुण्य.पाप.फलोपगाः ॥
- १.२४ नरकम्.पाप.कर्माणः.कृत.पुण्यास्.तु.सद्.गतिम् ।
- १.२४ अन्ये.तु.मार्गम्.भाव्येह.निर्वास्यन्ति.निरास्रवाः ॥[.भाव्येह.]
- १.२५ नैवान्तरीक्.से.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य ।
- १.२५ न.विद्यतेऽसौ.पृथिवी.प्रदेशो.यत्र.स्थितम्.न.प्रसहेत.मृत्युह् ॥
- १.२६ ये.चेह.भूता.भविष्यन्ति.वा.पुनः.सर्वे.गमिष्यन्ति.प्रहाय.देहम् ।
- १.२६ ताम्.सर्व.हानिम्.कुशलो.विदित्वा.धर्मे.स्थितो.ब्रह्मचर्यम्.चरेत ॥
- १.२७ जीर्णम्.च.दृष्ट्वेह.तथैव.रोगिणम्.मृतम्.च.दृष्ट्वा.व्यपयात.चेतसम् ।
- १.२७ जहौ.स.धीरो.गृह.बन्धनानि.कामा.हि.लोकस्य.न.सुप्रहेयाः ॥
- १.२८ जीर्यन्ति.वै.राज.रथाः.सुचित्रा.ह्य्.अथो.शरीरम्.अपि.जराम्.उपैति ।
- १.२८ सताम्.तु.धर्मो.न.जराम्.उपैति.सन्तो.हि.तम्.सत्सु.निवेदयन्ति ॥
- १.२९ धिक्.त्वाम्.अस्तु.जरे.ग्राम्ये.विरूप.करणी.ह्य्.असि ।
- १.२९ तथा.मनो.रमम्.बिम्बम्.जरया.ह्य्.अभिमर्दितम् ॥
- १.३० यो.अपि.वर्ष.शतम्.जीवेत्.सो.अपि.मृत्यु.परायणः ।
- १.३० अनु.ह्य्.एनम्.जरा.हन्ति.व्याधिर्.वा.यदि.वान्तकः ॥
- १.३१ सदा.व्रजन्ति.ह्य्.अनिवर्तमाना.दिवा.च.रात्रौ.च.विलुज्यमानाः ।
- १.३१ मत्स्या;इवातीव.हि.तप्यमाना.दुह्खेन.जाति.मरणेन.युक्ताः ॥
- १.३१ .......... ।
- १.३१ .......... ।
- १.३२ आयुर्.दिवा.च.रात्रौ.च.चरतस्.तिष्ठतस्.तथा ।
- १.३२ नदीनाम्.वा.यथा.स्रोतो.गच्छते.न.निवर्तते ॥
- १.३३ येषाम्.रात्रि.दिवापाये.ह्य्.आयुर्.अल्पतरम्.भवेत् ।
- १.३३ अल्पोदके.व.मत्स्यानाम्.का.नु.तेषाम्.रतिर्.भवेत् ॥
- १.३४ परिजीर्णम्.इदम्.रूपम्.रोग.नीडम्.प्रभङ्गुरम् ।
- १.३४ भेत्स्यते.पूत्य्.असंदेहम्.मरणान्तम्.हि.जीवितम् ॥
- १.३५ अचिरम्.बत.कायो.अयम्.पृथिवीम्.अधिशेष्यते ।
- १.३५ शुन्यो.व्यपेत.विज्ञानो.निरस्तम्.वा.कडङ्गरम् ॥[.शून्यो.]
- १.३६ किम्.अनेन.शरीरेण.स्रवता.पूउतिना.सदा ।
- १.३६ नित्यम्.रोगाभिभूतेन.जरा.मरण.भीरुणा ॥
- १.३७ अनेन.पूति.कायेन.ह्य्.आतुरेण.प्रभङ्गुणा ।
- १.३७ निगच्छथ.पराम्.शान्तिम्.योग.क्षेमम्.अनुत्तरम् ॥
- १.३८ इह.वर्षम्.करिष्यामि.हेमन्तम्.ग्रीष्मम्.एव.च ।
- १.३८ बालो.विचिन्तयत्य्.एवम्.अन्तरायम्.न.पश्यति ॥
- १.३९ तम्.पुत्र.पशु.सम्मत्तम्.व्यासक्त.मनसम्.नरम् ।
- १.३९ सुत्पम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥[.महौघैव.]
- १.४० न.सन्ति.पुत्रास्.त्राणाय.न.पिता.नापि.बान्धवाः ।
- १.४० अन्तकेनाभिभूतस्य.न.हि.त्राणा.भवन्ति.ते ॥
- १.४१ इदम्.कृतम्.मे.कर्तव्यम्.इदम्.कृत्वा.भविष्यति ।
- १.४१ इत्य्.एवम्.स्पन्दतो.मर्त्यान्.जरा.मृत्युश्.च.मर्दति ॥
- १.४२ तस्मात्.सदा.ध्यान.रताः.समाहिता.ह्य्.आतापिनो.जाति.जरान्त.दर्शिनः ।
- १.४२ मारम्.ससैन्यम्.ह्य्.अभिभूय.भिक्षवो.भवेत.जाती.मरणस्य.पारगाः ॥
कामवर्ग
सम्पाद्यताम्- २.१ काम.जानामि.ते.मूलम्.संकल्पात्.काम.जायसे ।
- २.१ न.त्वाम्.संकल्पयिष्यामि.ततो.मे.न.भविष्यसि ॥
- २.२ कामेभ्यो.जायते.शोकः.कामेभ्यो.जायते.भयम् ।
- २.२ कामेभ्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥
- २.३ रतिभ्यो.जायते.शोको.रतिभ्यो.जायते.भयम् ।
- २.३ रतिभ्ह्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥
- २.४ मधुराग्रा.विपाके.तु.कटुका.ह्य्.अभिनन्दिताः ।
- २.४ कामा.दहन्ति.वै.बालान्.उल्केवामुञ्चतः.करम् ॥
- २.५ न.तद्.दृढम्.बन्धनम्.आहुर्.आर्या.यद्.आयसम्.दारवम्.बल्बजम्.वा ।
- २.५ संरक्त.चित्तस्य.हि.मन्द.बुद्धेः.पुत्रेषु.दारेषु.च.या;अवेक्षा ॥
- २.६ एतद्दृढम्.बन्धनम्.आहुर्.आर्याः.समन्ततः.सुस्थिरम्.दुष्प्रमोक्षम् ।
- २.६ एतद्.अपि.छित्त्वा.तु.परिव्रजन्ति.ह्य्.अनपेक्षिणः.काम.सुखम्.प्रहाय ॥
- २.७ न.ते.कामा.यानि.चित्राणि.लोके.संकल्प.रागः.पुरुषस्य.कामः ।
- २.७ तिष्ठन्ति.चित्राणि.तथैव.लोके;अथात्र.धीरा.विनयन्ति.छन्दम् ॥[.च्छन्दम्.]
- २.८ न.सन्ति.नित्या.मनुजेषु.कामाः.सन्ति.त्व्.अनित्याः.कामिनो.यत्र.बद्धाः ।
- २.८ तांस्.तु.प्रहाय.ह्य्.अपुनर्.भवाय.ह्य्.अनागतम्.मृत्यु.धेयम्.वदामि ॥
- २.९ छन्द.जातो.ह्य्.अवस्रावी.मनसानाविलो.भवेत् ।
- २.९ कामेषु.त्व्.अप्रतिबद्ध.चित्त;ऊर्ध्व.स्रोतो.निरुच्यते ॥
- २.१० अनुपूर्वेण.मेधावी.स्तोकम्.स्तोकम्.क्षणे.क्षणे ।
- २.१० कर्मारो.रजतस्यैव.निर्धमेन्.मलम्.आत्मनः ॥
- २.११ रथ.कार;इव.चर्मणः.परिकर्तन्न्.उपानहम् ।
- २.११ यद्.यज्.जहाति.कामानाम्.तत्.तत्.सम्पद्यते.सुखम् ॥
- २.१२ सर्वम्.चेत्.सुखम्.इच्छेत.सर्व.कामान्.परित्यजेत् ।[.कामाम्.]
- २.१२ सर्व.काम.परित्यागी.ह्य्.अत्यन्तम्.सुखम्.एधते ॥
- २.१३ यावत्.कामान्.अनुसरन्.न.तृप्तिम्.मनसो.अध्यगात् ।
- २.१३ ततो.निवृत्तिम्.प्रतिपश्यमानास्.ते.वै.तृप्ताः.प्रज्ञया.ये.सुतृप्ताः ॥
- २.१४ श्रेयसी.प्रज्ञया.तृप्तिर्.न.हि.कामैर्.वितृप्यते ।
- २.१४ प्रज्ञया.पुरुषम्.तृप्तम्.तृष्णा.न.कुरुते.वशम् ॥
- २.१५ गृद्धा.हि.कामेषु.नराः.प्रमत्ता.ह्य्.अधर्मे.बत.ते.रताः ।
- २.१५ अन्तरायम्.न.ते.पश्यन्त्य्.अल्पके.जीविते.सति ।
- २.१६ दुर्मेधसम्.हन्ति.भोगो.न.त्व्.इहात्म.गवेषिणम् ।
- २.१६ दुर्मेधा.भोग.तृष्णाभिर्.हन्त्य्.आत्मानम्.अथो.परान् ॥
- २.१७ न.कर्षापण.वर्षेण.तृप्तिः.कामैर्.हि.विद्यते ।
- २.१७ अल्पास्वाद.सुखाः.कामा;इति.विज्ञाय.पण्डितः ॥
- २.१८ अपि.दिव्येषु.कामेषु.स.रतिम्.नाधिगच्छति ।
- २.१८ तृष्णा.क्षय.रतो.भवति.बुद्धानाम्.श्रावकः.सदा ॥
- २.१९ पर्वतो.अपि.सुवर्णस्य.समो.हिमवता.भवेत् ।
- २.१९ वित्तम्.तम्.नालम्.एकस्यैतज्.ज्ञात्वा.समम्.चरेत् ॥[.वित्तम्.तम्.नालम्.एकस्य.]
- २.२० दुह्खम्.हि.यो.वेद.यतो.निदानम्.कामेषु.जन्तु.स.कथम्.रमेत ।
- २.२० उपधिम्.हि.लोके.शल्यम्.इति.मत्वा.तस्यैव.धीरो.विनयाय.शिक्षेत् ॥
तृष्णावर्ग
सम्पाद्यताम्- ३.१ वितर्क.प्रमथितस्य.जन्तुनस्.तीव्र.रागस्य.शुभानुदर्शिनः ।
- ३.१ भूयस्.तृष्णा.प्रवर्धते.गाढम्.ह्य्.एष.करोति.बन्धनम् ॥
- ३.२ वितर्क.व्युपशमे.तु.यो.रतो.ह्य्.अशुभम्.भावयते.सदा.स्मृतः ।
- ३.२ तृष्णा.ह्य्.एष.प्रहास्यते.स.तु.खलु.पूति.करोति.बन्धनम् ॥[.एषा.]?
- ३.३ कामान्ध.जाल.प्रक्षिप्तास्.तृष्णयाच्छादिताः.प्रजाः ।
- ३.३ प्रमत्ता.बन्धने.बद्धा.मत्स्यवत्.कुपिना.मुखे ।
- ३.३ f: जरा.मरणम्.आयान्ति.वत्सः.क्षीरपक;इव.मातरम् ॥
- ३.४ मनुजस्य.प्रमत्त.चारिणस्.तृष्णा.वर्धति.मालुतेव.हि ।[.मालुतेव.हि.]
- ३.४ स.हि.संसरते.पुनः.पुनः.फलम्.इच्छन्न्.इव.वानरो.वने ॥
- ३.५ सरितानि.वै.स्नेहितानि.वै.सौमनस्यानि.भवन्ति.जन्तुनः ।
- ३.५ ये.सातसिताः.सुखैषिणस्.ते.वै.जाति.जरोपगा.नराः ॥
- ३.६ तृष्णाभिर्.उपस्कृताः.प्रजाः.परिधावन्ति.शशा.व.वागुराम् ।
- ३.६ सम्योजनैः.सङ्ग.सक्ता.दुह्खम्.यान्ति.पुनः.पुनश्.चिर.रात्रम् ॥
- ३.७ तृष्णया.ग्रथिताः.सत्त्वा.रक्त.चित्ता.भवा.भवे ।[.सत्वा.]
- ३.७ ते.योग.युक्त.मारेण.ह्य्.अयोग.क्षेमिणो.जनाः ।
- ३.७ f: जरा.मरणम्.आयान्ति.योगा.हि.दुरतिक्रमाः ॥
- ३.८ यस्.तु.तृष्णाम्.प्रहायेह.वीत.तृष्णो.भवा.भवे ।
- ३.८ तृष्णया.विभवद्.भिक्षुर्.अनिच्छुः.परिनिर्वृतः ॥
- ३.९ य;एताम्.सहते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् ।
- ३.९ शोकास्.तस्य.प्रवर्धन्ते.ह्य्.अववृष्टा.बीरणा.यथा ॥
- ३.१० यस्.त्व्.एताम्.त्यजते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् ।
- ३.१० शोकास्.तस्य.निवर्तन्ते;उद.बिन्दुर्.इव.पुष्करात् ॥
- ३.११ तद्.वै.वदामि.भद्रम्.वो.यावन्तः.स्थ.समागताः ।
- ३.११ तृष्णाम्.समूलम्.खनतोशीरार्थीव.बीरणाम् ।
- ३.११ f: तृष्णायाः.खात.मूलाया.नास्ति.शोकः.कुतो.भयम् ॥
- ३.१२ तृष्णा.द्वितीयः.पुरुषो.दीर्घम्.अध्वानम्.आशया ।
- ३.१२ पुनः.पुनः.संसरते.गर्भम्.एति.पुनः.पुनः ।
- ३.१२ f: इत्थम्.भावान्यथी.भावः.संसारे.त्व्.आगतिम्.गतिम् ॥
- ३.१३ ताम्.तु.तृष्णाम्.प्रहायेह.वीत.तृष्णो.भवा.भवे ।
- ३.१३ नासौ.पुनः.संसरते.तृष्णा.ह्य्.अस्य.न.विद्यते ॥
- ३.१४ यया.देवा.मनुष्याश्.च.सितास्.तिष्ठन्ति.हार्थिकाः ।
- ३.१४ तरतैताम्.विषक्तिकाम्.क्षणो.वो.मा.ह्य्.उपत्यगात् ।
- ३.१४ f: क्षणातीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥
- ३.१५ तृष्णा.हि.हेतुः.सरिता.विषक्तिका.गण्डस्य.नित्यम्.विसृतेह.जालिनी ।
- ३.१५ लताम्.पिपासाम्.अपनीय.सर्वशो.निवर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥
- ३.१६ यथापि.मूलैर्.अनुपद्रुतैः.सदा.छिन्नो.अपि.वृक्षः.पुनर्.एव.जायते ।
- ३.१६ एवम्.हि.तृष्णानुशयैर्.अनुद्धृतैर्.निर्वर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥
- ३.१७ यथापि.शल्यो.दृढम्.आत्मना.कृतस्.तम्.एव.हन्याद्.बलसा.त्व्.अधिष्ठितः ।
- ३.१७ तथा.त्व्.इहाध्यात्म.समुत्थिता.लतास्.तृष्णा.वधायोपनयन्ति.प्राणिनाम् ॥
- ३.१८ एतद्.आदीनवम्.ज्ञात्वा.तृष्णा.दुह्खस्य.सम्भवम् ।
- ३.१८ वीत.तृष्णो.ह्य्.अनादानः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
अप्रमादवर्ग
सम्पाद्यताम्- ४.१ अप्रमादो.ह्य्.अमृत.पदम्.प्रमादो.मृत्युनः.पदम् ।
- ४.१ अप्रमत्ता.न.ंरियन्ते.ये.प्रमत्ताः.सदा.मृताः ॥
- ४.२ एताम्.विशेषताम्.ज्ञात्वा.ह्य्.अप्रमादस्य.पण्डितः ।
- ४.२ अप्रमादम्.प्रमुद्येत.नित्यम्.आर्यः.स्व.गोचरम् ॥
- ४.३ अप्रमत्ताः.साततिका.नित्यम्.दृढ.पराक्रमाः ।
- ४.३ स्पृशन्ति.धीरा.निर्वाणम्.योग.क्षेमम्.अनुत्तरम् ॥
- ४.४ प्रमादम्.अप्रमादेन.यदा.नुदति.पण्डितः ।
- ४.४ प्रज्ञा.प्रसादम्.आरुह्य.त्व्.अशोकः.शोकिनीम्.प्रजाम् ।
- ४.४ f: पर्वतस्थैव.भूमिस्थान्.धीरो.बालान्.अवेक्षते ॥
- ४.५ उत्तानेनाप्रमादेन.सम्यमेन.दमेन.च ।
- ४.५ द्वीपम्.करोति.मेधावी.तम्.ओघो.नाभिमर्दति ॥
- ४.६ उत्थानवतः.स्मृतात्मनः.शुभ.चित्तस्य.निशाम्य.चारिणः ।
- ४.६ सम्यतस्य.हि.धर्म.जीविनो.ह्य्.अप्रमत्तस्य.यशो.अभिवर्धते ॥
- ४.७ अधिचेतसि.मा.प्रमद्यत.प्रततम्.मौन.पदेषु.शिक्षत ।
- ४.७ शोका.न.भवन्ति.तायिनो.ह्य्.उपशान्तस्य.सदा.स्मृतात्मनः ॥
- ४.८ हीनाम्.धर्माम्.न.सेवेत.प्रमादेन.न.संवसेत् ।
- ४.८ मिथ्या.दृष्टिम्.न.रोचेत.न.भवेल्.लोक.वर्धनः ॥
- ४.९ सम्यग्.दृष्टिर्.अधीमात्रा.लौकिकी.यस्य.विद्यते ।
- ४.९ अपि.जाति.सहस्राणि.नासौ.गच्छति.दुर्गतिम् ॥
- ४.१० प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः ।
- ४.१० अप्रमादम्.तु.मेधावी.धनम्.श्रेष्ठीव.रक्षति ॥
- ४.११ प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः ।
- ४.११ अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.आस्रव.क्षयम् ॥
- ४.१२ प्रमादम्.नानुयुज्येत.न.काम.रति.संस्तवम् ।
- ४.१२ अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.अचलम्.सुखम् ॥
- ४.१३ नायम्.प्रमाद.कालः.स्याद्.अप्राप्ते.ह्य्.आस्रव.क्षये ।
- ४.१३ मारः.प्रमत्तम्.अन्वेति.सिंहम्.वा.मृग.मातृका ॥
- ४.१४ स्थानानि.चत्वारि.नरः.प्रमत्त;आपद्यते.यः.पर.दार.सेवी ।
- ४.१४ अपुण्य.लाभम्.ह्य्.अनिकाम.शय्याम्.निन्दाम्.तृतीयम्.नरकम्.चतुर्थम् ॥
- ४.१५ अपुण्य.लाभम्.च.गतिम्.च.पापिकाम्.भीतस्य.भीताभिर्.अथाल्पिकाम्.रतिम्।
- ४.१५ निन्दाम्.च.पश्यन्.न्wपतेश्.च.दण्डम्.परस्य.दाराणि.विवर्जयेत ॥
- ४.१५_ अपुण्य.लाभश्.च.गतिश्.च.पापिका.भीतस्य.भीताभिर्.अथाल्पिका.रतिः ।
- ४.१५_ राजा.च.दण्डम्.गुरुकम्.ददाति.कायस्य.भेदाद्.नरकेषु.पश्यते ॥
- ४.१६ प्रतियत्येव.तत्.कुर्याद्.यज्.जानेद्द्.हितम्.आत्मनः ।
- ४.१६ न.शाकटिक.चिन्ताभिर्.मन्दम्.धीरः.पराक्रमेत् ॥
- ४.१७ यथा.शाकटिको.मार्गम्.समम्.हित्वा.महा.पथम् ।
- ४.१७ विषमम्.मार्गम्.आगम्य.छिन्नाक्षः.शोचते.भृशम् ॥
- ४.१८ एवम्.धर्माद्.अपक्रम्य.ह्य्.अधर्मम्.अनुवर्त्य.च ।
- ४.१८ बालो.मृत्यु.वशम्.प्राप्तश्.छिन्नाक्ष;इव.शोचते ॥
- ४.१९ यत्.कृत्यम्.तद्.अपविद्धम्.अकृत्यम्.क्रियते.पुनः ।
- ४.१९ उद्धतानाम्.प्रमत्तानाम्.तेषाम्.वर्धन्ति;आस्रवाः ।
- ४.१९ f: आस्रवास्.तेषु.वर्धन्ते;आरात्.ते.ह्य्.आस्रव.क्षयात् ॥
- ४.२० येषाम्.तु.सुसमारब्धा.नित्यम्.काय.गता.स्मृतिः ।
- ४.२० अकृत्यम्.ते.न.कुर्वन्ति.कृत्ये.सातत्य.कारिणः ।
- ४.२० f: स्मृतानाम्.सम्प्रजानानाम्.अस्तम्.गच्छन्त्यास्रवाः ॥
- ४.२१ न.तावता.धर्म.धरो.यावता.बहु.भाषते ।
- ४.२१ यस्.त्व्.इहाल्पम्.अपि.श्रुत्वा.धर्मम्.कायेन.वै.स्पृशेत् ।
- ४.२१ f: स.वै.धर्म.धरो.भवति.यो.धर्मे.न.प्रमाद्यते ॥
- ४.२२ सुबह्व्.अपीह.सहितम्.भाषमाणो.न.तत्.करो.भवति.नरः.प्रमत्तः ।
- ४.२२ गोपैव.गाः.संगणयन्.परेषाम्.न.भागवान्.श्रामण्यार्थस्य.भवति ॥[भागवान्.श्रामण्यार्थस्य.]
- ४.२३ अल्पम्.अपि.चेत्.सहितम्.भाषमाणो.धर्मस्य.भवति.ह्य्.अनुधर्म.चारी ।
- ४.२३ रागम्.च.दोषम्.च.तथैव.मोहम्.प्रहाय.भागी.श्रामण्यार्थस्य.भवति ॥
- ४.२४ अप्रमादम्.प्रशंसन्ति.प्रमादो.गर्हितः.सदा ।
- ४.२४ अप्रमादेन.मघवान्.देवानाम्.श्रेष्ठताम्.गतः ॥
- ४.२५ अप्रमादम्.प्रशंसन्ति.सदा.कृत्येषु.पण्डिताः ।
- ४.२५ अप्रमत्तो.ह्य्.उभाव्.अर्थाव्.अतिगृह्णाति.पण्डितः ॥
- ४.२६ दृष्ट.धार्मिक;एको.अर्थस्.तथान्यः.साम्परायिकः ।
- ४.२६ अर्थाभिसमयाद्.धीरः.पण्डितो.हि.निरुच्यते ॥
- ४.२७ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
- ४.२७ दुर्गाद्.उद्धरते.त्मानम्.पङ्क.सन्नैव.कुञ्जरः ॥[.आत्मानम्.][.पङ्कसन्नैव.]
- ४.२८ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
- ४.२८ धुनाति.पापकाम्.धर्माम्.पत्त्राणीव.हि.मारुतः ॥
- ४.२९ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
- ४.२९ सम्योजनम्.अणु.स्थूलम्.दहन्न्.अग्निर्.इव.गच्छति ॥
- ४.३० अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
- ४.३० स्पृशति.ह्य्.अनुपूर्वेण.सर्व.सम्योजन.क्षयम् ॥
- ४.३१ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
- ४.३१ प्रतिविध्यते.पदम्.शान्तम्.संस्कारोपशमम्.सुखम् ॥
- ४.३२ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
- ४.३२ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥
- ४.३३ उत्तिष्ठत.व्यायमत.दृढम्.शिक्षत शान्तये ।
- ४.३३ अस्मृतिश्.च.प्रमादश्.चैवानुत्थानम्.असम्यमः ॥
- ४.३४ निद्रा.तन्द्रीर्.अनायोग;एते.शिक्षान्तरायिकाः ।
- ४.३४ तद्.अङ्गम्.परिबुध्यध्वम्.स्मृतिर्.मान्तर्.अधीयत ॥
- ४.३५ उत्तिष्ठेन्.न.प्रमाद्येत.धर्मम्.सुचरितम्.चरेत् ।
- ४.३५ धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिंल्.लोके.परत्र.च ।[.अस्मिम्.लोके.]
- ४.३६ अप्रमाद.रता.भवत.सुशीला.भवत.भिक्षवः ।
- ४.३६ सुसमाहित.संकल्पाः.स्व.चित्तम्.अनुरक्षत ॥
- ४.३७ आरभध्वम्.निष्क्रमध्वम्.युज्यध्वम्.बुद्ध.शासने ।
- ४.३७ धुनिध्वम्.मृत्युनः.सैन्यम्.नडागारम्.इव.कुञ्जरः ॥[.नडागारम्.]
- ४.३८ यो.ह्य्.अस्मिन्.धर्म.विनये.त्व्.अप्रमत्तो.भविष्यति ।
- ४.३८ प्रहाय.जाति.संसारम्.दुह्खस्यान्तम्.स.यास्यति ॥
प्रियवर्ग
सम्पाद्यताम्- ५.१ प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् ।
- ५.१ प्रियेभ्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥
- ५.२ प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् ।
- ५.२ प्रियाणाम्.अन्यथी.भावाद्.उन्मादम्.अपि.गच्छति ॥
- ५.३ शोका.हि.ये.वै.परिदेवितम्.च.दुह्खम्.च.लोकस्य.हि.नैकरूपम् ।
- ५.३ प्रियम्.प्रतीत्येह.तद्.अस्ति.सर्वम्.प्रियेऽसति.स्यान्.न.कथंचिद्.एतत् ॥
- ५.४ तस्माद्द्.हि.ते.सुखिता.वीत.शोका.येषाम्.प्रियम्.नास्ति.कथंचिद्.एव ।
- ५.४ तस्माद्.अशोकम्.पदम्.एषमाणः.प्रियम्.न.कुर्वीत.हि.जीव.लोके ॥
- ५.५ मा.प्रियैः.संगमो.जातु.मा.च.स्याद्.अप्रियैः.सदा ।
- ५.५ प्रियाणाम्.अदर्शनम्.दुह्खम्.अप्रियाणाम्.च.धर्शनम् ॥
- ५.६ प्रियाणाम्.च.विना.भावाद्.अप्रियाणाम्.च.संगमात् ।
- ५.६ तीव्र;उत्पद्यते.शोको.जीर्यन्ते.येन.मानवाः ॥
- ५.७ प्रियम्.मृतम्.काल.गतम्.ज्ञातयः.सहिताः.स्थिताः ।
- ५.७ शोचन्ति.दीर्घम्.अध्वानम्.दुह्खो.हि.प्रिय.संगमः ॥
- ५.८ तस्मात्.प्रियम्.न.कुर्वीत.प्रिय.भावो.हि.पापकः ।
- ५.८ ग्रन्थास्.तेषाम्.न.विद्यन्ते.येषाम्.नास्ति.प्रियाप्रियम् ।
- ५.९ अयुगे.युज्य.चात्मानम्.युगे.चायुज्य.सर्वदा ।
- ५.९ अर्थम्.हित्वा.प्रिय.ग्राही.स्पृहयत्य्.अर्थ.योगिने ॥
- ५.१० प्रिय.रूप.सात.ग्रथिता.देव.कायाः.पृथक्.स्थिताः ।
- ५.१० आघादिनः.परिद्यूना.मृत्यु.राज.वशम्.गताः ॥
- ५.११ ये.वै.दिवा.च.रात्रौ.चैव;अप्रमत्ताः.प्रियम्.जहति.नित्यम् ।
- ५.११ ते.वै.खनन्ति.त्व्.अघ.मूलम्.मृत्यु-र्-आमिषम्.दुरतिवर्त्यम् ॥
- ५.१२ असाधु.साधु.रूपेण.प्रिय.रूपेण.चाप्रियम् ।
- ५.१२ दुह्खम्.सुखस्य.रूपेण.प्रमत्तानभिमर्दति ॥
- ५.१३ आत्मानम्.चेत्.प्रियम्.विद्यान्.नैनम्.पापेन.योजयेत् ।
- ५.१३ न.ह्य्.एतत्.सुलभम्.भवति.सुखम्.दुष्कृत.कारिणा ॥
- ५.१४ आत्मानम्.चेत्.प्रियम्.विद्यान्.नैनम्.पापेन.योजयेत् ।
- ५.१४ एतद्द्.हि.सुलभम्.भवति.सुखम्.सुकृत.कारिणा ॥
- ५.१५ आत्मानम्.चेत्.प्रियम्.विद्याद्.रक्षेद्.एनम्.सुरक्षितम् ।
- ५.१५ यथा.प्रत्यन्त.नगरम्.गम्भीर.परिखम्.दृढम् ।
- ५.१५ f: त्रयाणाम्.अन्यतमम्.यामम्.प्रतिजाग्रेत.पण्डितः ॥
- ५.१६ आत्मानम्.चेत्.प्रियम्.विद्याद्.गोपयेत्.तम्.सुगोपितम् ।
- ५.१६ यथा.प्रत्यन्त.नगरम्.गुप्तम्.अन्तर्.बहिस्थिरम् ।[.अन्तर्.बहिः.स्थिरम्.]
- ५.१७ एवम्.गोपयतात्मानम्.क्षणो.वो.मा.ह्य्.उपत्यगात् ।
- ५.१७ क्षणातीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥
- ५.१८ सर्वा.दिशस्.त्व्.अनुपरिगम्य.चेतसा.नैवाध्यगात्.प्रियतरम्.आत्मनः.क्वचित् ।
- ५.१८ एवम्.प्रियः.पृथग्.आत्मा.परेषाम्.तस्मान्.न.हिंस्यात्.परम्.आत्म.कारणम् ॥
- ५.१९ सर्वे.दण्डस्य.बिभ्यन्ति.सर्वेषाम्.जीवितम्.प्रियम् ।
- ५.१९ आत्मानम्.उपमाम्.कृत्वा.नैव.हन्यान्.न.घातयेत् ॥
- ५.२० चिर.प्रवासिनम्.यद्वद्.दूरतः.स्वस्तिनागतम् ।
- ५.२० ज्ञातयः.सुहृदो.मित्राश्.चाभिनन्दन्त्यागतम् ॥
- ५.२१ कृत.पुण्यम्.तथा.मर्त्यम्.अस्मांल्.लोकात्.परम्.गतम् ।[.अस्माल्.लोकात्.]
- ५.२१ पुण्यान्य्.एवाभिनन्दन्ति.प्रियम्.ज्ञातिम्.इवागतम् ॥
- ५.२२ तस्मात्.कुरुत.पुण्यानाम्.निचयम्.साम्परायिकम् ।
- ५.२२ पुण्यानि.पर.लोके.हि.प्रतिष्ठा.प्राणिनाम्.हि.सा ॥
- ५.२३ पुण्यम्.देवाः.प्रशंसन्ति.सम.चर्याम्.च.यश्.चरेत् ।
- ५.२३ इह.चानिन्दितो.भवति.प्रेत्य.स्वर्गे.च.मोदते ॥
- ५.२४ धर्मस्थम्.शील.सम्पन्नम्.ह्रीमन्तम्.सत्य.वादिनम् ।
- ५.२४ आत्मनः.कारकम्.सन्तम्.तम्.जनः.कुरुते.प्रियम् ॥
- ५.२५ परेषाम्.च.प्रियो.भवति.ह्य्.आत्मार्थम्.क्रियतेऽपि.च ।
- ५.२५ दृष्टे.च.धर्मे.प्राशंस्यः.साम्पराये.च.सद्.गतिः ॥
- ५.२६ अववदेतानुशासीत.चासभ्याच्.च.निवारयेत् ।
- ५.२६ असताम्.न.प्रियो.भवति.सताम्.भवति.तु.प्रियः ॥
- ५.२७ असन्तश्.चैव.सन्तश्.च.नाना.यान्ति.त्व्.इतश्.च्युताः ।
- ५.२७ असन्तो.नरकम्.यान्ति.सन्तः.स्वर्ग.परायणाः ॥
शीलवर्ग
सम्पाद्यताम्- ६.१ शीलम्.रक्षेत.मेधावी.प्रार्थयन्.वै.सुख.त्रयम् ।[.प्रार्थयं.]
- ६.१ प्रशंसा.वित्त.लाभम्.च.प्रेत्य.स्वर्गे.च.मोदनम् ॥
- ६.२ स्थानान्य्.एतानि.सम्पश्यन्.शीलम्.रक्षेत.पण्डितः ।
- ६.२ आर्यो.दर्शन.सम्पन्नः.स.लोके.लभते.शिवम् ॥
- ६.३ सुखम्.शील.समादानम्.कायो.न.परिदह्यते ।
- ६.३ सुखम्.च.रात्रौ.स्वपति.प्रतिभुद्धश्.च.नन्दति ॥
- ६.४ शीलम्.यावज्.जरा.साधु.श्रद्धा.साधु.प्रतिष्ठिता ।
- ६.४ प्रज्ञा.नराणाम्.रत्नम्.वै.पुण्यम्.चोरैः.सुदुर्हरम् ॥
- ६.५ कृत्वा.पुण्यानि.सप्रज्ञो.दत्त्वा.दानानि.शीलवान् ।[.दत्वा.]
- ६.५ इह.चाथ.परत्रासौ.सुखम्.समधिगच्छति ॥
- ६.६ शीले.प्रतिष्ठितो.भिक्षुर्.इन्द्रियैश्.च.सुसंवृतः ।
- ६.६ भोजने.चापि.मात्रज्ञो.युक्तो.जागरिकासु.च ॥
- ६.७ विहरन्न्.एवम्.आतापी.ह्य्.अहो.रात्रम्.अतन्द्रितः ।
- ६.७ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥
- ६.८ शीले.प्रतिष्ठितो.भिक्षुश्.चित्तम्.प्रज्ञाम्.च.भावयेत् ।
- ६.८ आतापी.निपको.नित्यम्.प्राप्नुयाद्.दुह्ख.संक्षयम् ॥
- ६.९ तस्मात्.सतत.शीली.स्यात्.समाधेर्.अनुरक्षकः ।
- ६.९ विपश्यनायाम्.शिक्षेच्.च.सम्प्रजान.प्रतिस्मृतः ॥
- ६.१० स.तु.विक्षीण.सम्योगः.क्षीण.मानो.निरौपधिः ।
- ६.१० कायस्य.भेदत्.सप्रज्ञः.संख्यान्.नोपैति.निर्वृतः ॥
- ६.१११ शीलम्.समाधिः.प्रज्ञा.च.यस्य.ह्य्.एते.सुभाविताः ।
- ६.११ सो.अत्यन्त.निष्ठो.विमलस्.त्व्.अशोकः.क्षीण.सम्भवः ॥
- ६.१२ सङ्गात्.प्रमुक्तो.ह्य्.असित;आज्ञातावी.निरौपधिः ।
- ६.१२ अतिक्रम्य.मार.विषयम्.आदित्यो.वा.विरोचते ॥
- ६.१३ उद्धतस्य.प्रमत्तस्य.भिक्षुणो.बहिर्.आत्मनः ।
- ६.१३ शीलम्.समाधिः.प्रज्ञा.च.पारिपूरिम्.न.गच्छति ॥
- ६.१४ छन्नम्.एवाभिवर्षति.विवृतम्.नाभिवर्षति ।
- ६.१४ तस्माद्द्.हि.छन्नम्.विवरेद्.एवम्.तम्.नाभिवर्षति ॥[.च्छन्नम्.]
- ६.१५ एतद्द्.हि.दृष्ट्वा.शिक्षेत.सदा.शीलेषु.पण्डितः ।
- ६.१५ निर्वाण.गमनम्.मार्गम्.क्षिप्रम्.एव.विशोधयेत् ॥
- ६.१६ न.पुष्प.गन्धः.प्रतिवातम्.एति.न.वाह्निजात्.तगराच्.चन्दनाद्.वा ।
- ६.१६ सताम्.तु.गन्धः.प्रतिवातम्.एति.सर्वा.दिशः.सत्.पुरुषः.प्रवाति ॥
- ६.१७ तगराच्.चन्दनाच्.चापि.वार्षिकायास्.तथोत्पलात् ।
- ६.१७ एतेभ्यो.गन्ध.जातेभ्यः.शील.गन्धस्.त्व्.अनुत्तरः ॥
- ६.१८ अल्प.मात्रो.ह्य्.अयम्.गन्धो.यो.अयम्.तगर.चन्दनात् ।
- ६.१८ यस्.तु.शीलवताम्.गन्धो.वाति.देवेष्व्.अपीह.सः ।
- ६.१९ तेषाम्.विशुद्ध.शीलानाम्.अप्रमाद.विहारिणाम् ।
- ६.१९ सम्यग्.आज्ञा.विमुक्तानाम्.मारो.मार्गम्.न.विन्दति ॥
- ६.२० एष.क्षेम.गमो.मार्ग;एष.मार्गो.विशुद्धये ।
- ६.२० प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥
सुचरितवर्ग
सम्पाद्यताम्- ७.१ काय.प्रदोषम्.रक्षेत.स्यात्.कायेन.सुसंवृतः ।
- ७.१ काय.दुश्चरितम्.हित्वा.कायेन.सुकृतम्.चरेत् ॥
- ७.२ वाचः.प्रदोषम्.रक्षेत.वचसा.संवृतो.भवेत् ।
- ७.२ वाचो.दुश्चरितम्.हित्वा.वाचा.सुचरितम्.चरेत् ॥
- ७.३ मनः.प्रदोषम्.रक्षेत.मनसा.संवृतो.भवेत् ।
- ७.३ मनो.दुश्चरितम्.हित्वा.मनः.सुचरितम्.चरेत् ॥
- ७.४ काय.दुश्चरितम्.हित्वा.वचो.दुश्चरितानि.च ।
- ७.४ मनो.दुश्चरितम्.हित्वा.यच्.चान्यद्.दोष.संहितम् ॥
- ७.५ कायेन.कुशलम्.कुर्याद्.वचसा.कुशलम्.बहु ।
- ७.५ मनसा.कुशलम्.कुर्याद्.अप्रमाणम्.निरौपधिम् ॥
- ७.६ कायेन.कुशलम्.कृत्वा.वचसा.चेतसापि.च ।
- ७.६ इह.चाथ.परत्रासौ.सुखम्.समधिगच्छति ॥
- ७.७ अहिंसका.वै.मुनयो.नित्यम्.कायेन.संवृताः ।
- ७.७ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
- ७.८ अहिंसका.वै.मुनयो.नित्यम्.वाचा.सुसंवृताः ।
- ७.८ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
- ७.९ अहिंसका.वै.मुनयो.मनसा.नित्य.संवृताः ।
- ७.९ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
- ७.१० कायेन.संवृता.धीरा.धीरा.वाचा.सुसंवृताः ।
- ७.१० मनसा.संवृता.धीरा.धीराः.सर्वत्र.संवृताः ।
- ७.१० f: ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
- ७.११ कायेन.संवरः.साधु.साधु.वाचा.च.संवरः ।
- ७.११ मनसा.संवरः.साधु.साधु.सर्वत्र.संवरः ।
- ७.११ f: सर्वत्र.संवृतो.भिक्षुः.सर्व.दुह्खात्.प्रमुच्यते ॥
- ७.१२ वाचानुरक्षी.मनसा.सुसंवृतः.कायेन.चैवाकुशलम्.न.कुर्यात् ।
- ७.१२ एताम्.शुभाम्.कर्म.पथाम्.विशोधयन्न्.आराधयेन्.मार्गम्.ऋषि.प्रवेदितम् ॥
वाचवर्ग
सम्पाद्यताम्- ८.१ अभूत.वादी.नरकान्.उपैति.यश्.चान्यद्.अप्य्.आचरतीह.कर्म ।
- ८.१ उभौ.हि.तौ.प्रेत्य.समौ.निरुक्तौ.निहीन.धर्मौ.मनुजौ.परत्र ॥
- ८.२ पुरुषस्य.हि.जातस्य.कुठारी.जायते.मुखे ।
- ८.२ यया.छिनत्ति.हात्मानम्.वाचा.दुर्भाषितम्.वदन् ॥
- ८.३ यो.निन्दियाम्.प्रशंसति.तान्.अपि.निन्दति.ये.प्रशंसियाः ।
- ८.३ स.चिनोति.मुखेन.तम्.कलिम्.कलिना.तेन.सुखम्.न.विन्दति ॥
- ८.४ अल्प.मात्रो.ह्य्.अयम्.कलिर्.य;इह्हाक्षेण.धनम्.पराजयेत् ।
- ८.४ अयम्.अत्र.महत्तरः.कलिर्.यः.सुगतेषु.मनः.प्रदूषयेत् ॥
- ८.५ शतम्.सहस्राणि.निरर्बुदानि.षट्.त्रिंशतिम्.पञ्च.तथार्बुदानि ।
- ८.५ यान्.आर्य.गर्ही.नरकान्.उपैति.वाचम्.मनश्.च.प्रणिधाय.पापकम् ॥
- ८.६ असतम्.हि.वदन्ति.पाप.चित्ता.नरकम्.वर्धयते.वधाय.नित्यम् ।
- ८.६ अनवद्य.बलस्.तितीक्षते.ताम्.मनसो.ह्य्.आविलताम्.विवर्जयित्वा ॥[.तितिक्षते.]
- ८.७ यः.शासनम्.ह्य्.अर्हताम्.आर्याणाम्.धर्म.जीविनाम् ।
- ८.७ प्रतिक्रोशति.दुर्मेधा.दृष्टिम्.निह्श्रित्य.पापिकाम् ।
- ८.८ कल्याणिकाम्.विमुञ्चेत.नैव.मुञ्चेत.पापिकाम् ।
- ८.८ मुक्ता.कल्याणिकी.श्रेयो.मुक्ता.तपति.पापिका ॥
- ८.९ न.च.मुक्ते.प्रमुञ्चेत्.ताम्.मुञ्चमानो.हि.बाध्यते ।
- ८.९ नैवम्.आर्याः.प्रमुञ्चन्ति.मुक्ता.बालैर्.हि.पापिका ॥
- ८.१० मुखेन.सम्यतो.भिक्षुर्.मन्द.भाषी.ह्य्.अनुद्धतः ।
- ८.१० अर्थम्.धर्मम्.च.देशयति.मधुरम्.तस्य.भाषितम् ॥
- ८.११ सुभाषितम्.ह्य्.उत्तमम्.आहुर्.आर्या.धर्मम्.वदेन्.नाधर्मम्.तद्.द्वितीयम् ।
- ८.११ प्रियम्.वदेन्.नाप्रियम्.तत्.तृतीयम्.सत्यम्.वदेन्.नासत्यम्.तच्.चतुर्थम् ॥
- ८.१२ ताम्.एव.वाचम्.भाषेत.ययात्मानम्.न.तापयेत् ।
- ८.१२ परांश्.च.न.विहिंसेत.सा.हि.वाक्.साधु.भाषिता ॥
- ८.१३ प्रियोद्यम्.एव.भाषेत.या.हि.वाचाभिनन्दिता ।
- ८.१३ नाददाति.यया.पापम्.भाषमाणः.सदा.प्रियम् ॥
- ८.१४ सत्या.स्याद्.अमृता.वाचा.सत्य.वाचा.ह्य्.अनुत्तरा ।
- ८.१४ सत्यम्.अर्थे.च.धर्मे.च.वाचम्.आहुः.प्रतिष्ठिताम् ॥
- ८.१५ याम्.बुद्धो.भाषते.वाचम्.क्षेमाम्.निर्वाण.प्राप्तये ।
- ८.१५ दुह्खस्यान्त.क्रिया.युक्ताम्.सा.हि.वाक्.साधु.भाषिता ॥
कर्मवर्ग
सम्पाद्यताम्- ९.१ एक.धर्मम्.अतीतस्य.मृषा.वादस्य.जन्तुनः ।
- ९.१ वितीर्ण.पर.लोकस्य.नाकार्यम्.पापम्.अस्ति.यत् ॥
- ९.२ श्रेयो.ह्य्.अयोगुडा.भुक्तास्.तप्ता.ह्य्.अग्नि.शिखोपमाः ।
- ९.२ न.तु.भुञ्जीइत.दुह्शीलो.राष्ट्र.पिण्डम्.असम्यतः ॥
- ९.३ स.चेद्.बिभेषि.दुह्खस्य.स.चेत्.ते.दुह्खम्.अप्रियम् ।
- ९.३ मा.कार्षीः.पापकम्.कर्म.त्व्.आविर्.वा.यदि.वा.रहः ॥
- ९.४ स.चेत्.पापानि.कर्माणि.करिष्यसि.करोषि.वा ।
- ९.४ न.ते.दुह्खात्.प्रमोक्षो.अस्ति.ह्य्.उत्प्लुत्यापि.पलायतः ॥
- ९.५ नैवान्तरीक्षे.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य ।
- ९.५ न.विद्यतेऽसौ.पृथिवी.प्रदेशो.यत्र.स्थितम्.न.प्रसहेत.कर्म ॥
- ९.५ कृष्ण.शुक्लानि.कर्माणि.न.प्रणश्यन्ति.देहिनः ।
- ९.५ कालम्.प्रा - - - इष्यन्ते.कृतान्य्.उप---नानि.च ॥
- ९.६ यत्.परेषाम्.विगर्हेत.कर्म.दृष्ट्वेह.पापकम् ।
- ९.६ आत्मना.तन्.न.कुर्वीत.कर्म.बद्धो.हि.पापकः ।
- ९.७ ये.कूट.मान.योगेन.विषमेण.च.कर्मणा ।
- ९.७ मनुष्यान्.उपहिंसन्ति.परतो.उपक्रमेण.वा ।[.परतोपक्रमेण.वा.]
- ९.७ ते.वै.प्रपातम्.प्रपतन्ति.कर्म.बद्धा.हि.ते.जनाः ॥
- ९.८ यत्.करोति.नरः.कर्म.कल्याणम्.अथ.पापकम् ।
- ९.८ तस्य.तस्यैव.दायादो.न.हि.कर्म.प्रणश्यति ॥
- ९.९ विलुम्पते.हि.पुरुषो.यावद्.अस्योपकल्पते ।
- ९.९ ततो.अन्ये.तम्.विलुम्पन्ति.स.विलोप्ता.विलुप्यते ॥
- ९.१० कुर्वन्.हि.मन्यते.बालो.नैतम्.माम्.आगमिष्यति ।
- ९.१० साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् ॥
- ९.११ कुर्वन्.हि.मन्यते.बालो.नैतम्.माम्.आगमिष्यति ।
- ९.११ पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥
- ९.१२ स.चेत्.पापानि.कर्माणि.कुर्वन्.बालो.न.बुध्यते ।
- ९.१२ कर्मभिः.स्वैस्.तु.दुर्मेधा.ह्य्.अग्नि.दग्धैव.तप्यते ॥[.अग्नि.दग्धैव.तप्यते.]
- ९.१३ चरन्ति.बाला.दुष्प्रज्ञा.ह्य्.अमित्रैर्.इव.चात्मभिः ।
- ९.१३ कुर्वन्तः.पापकम्.कर्म.यद्.भवति.कटुकम्.फलम् ॥
- ९.१४ न.तत्.कर्म.कृतम्.साधु.यत्.कृत्वा.ह्य्.अनुतप्यते ।
- ९.१४ रुदन्न्.अश्रु.मुखो.यस्य.विपाकम्.प्रतिषेवते ॥
- ९.१५ तत्.तु.कर्म.कृतम्.साधु.यत्.कृत्वा.नानुतप्यते ।
- ९.१५ यस्य.प्रतीतः.सुमना.विपाकम्.प्रतिषेवते ॥
- ९.१६ हसन्तः.पापकम्.कर्म.कुर्वन्त्य्.आत्म.सुखैषिणः ।
- ९.१६ रुदन्तस्.तस्य.वीपाकम्.प्रतिविन्दन्ति.दुह्खिताः ॥[.विपाकम्.]
- ९.१७ न.हि.पाप.कृतम्.कर्म.सद्यः.क्षीरम्.इव.मूर्छति ।[.मूर्च्छति.]
- ९.१७ दहन्.तद्.बालम्.अन्वेति.भस्माच्छन्न;इवानलः ॥
- ९.१८ न.हि.पाप.कृतम्.कर्म.सद्यः.शस्त्रम्.इव.कृन्तति ।
- ९.१८ साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् ।
- ९.१८ f: पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥
- ९.१९ अयसो.हि.मलः.समुत्थितः.स.तद्.उत्थाय.तम्.एव.खादति ।
- ९.१९ एवम्.ह्य्.अनिशाम्य.चारिणम्.स्वानि.कर्माणि.नयन्ति.दुर्गतिम् ॥
श्रद्धावर्ग
सम्पाद्यताम्- १०.१ श्रद्धाथ.ह्री.शीलम्.अथापि.दानम्.धर्मा;इमे.सत्.पुरुष.प्रशस्ताः ।
- १०.१ एतम्.हि.मार्गम्.दिव्यम्.वदन्ति;एतेनासौ.गच्छति.देव.लोकम् ॥
- १०.२ न.वै.कदर्या.देव.लोकम्.व्रजन्ति.बाला.हि.ते.न.प्रशंसन्ति.दानम् ।
- १०.२ श्राधस्.तु.दानम्.ह्य्.अनुमोदमानो.अप्य्.एवम्.ह्य्.असौ.भवति.सुखी.परत्र ॥
- १०.३ श्रद्धा.हि.वित्तम्.पुरुषस्य.श्रेष्ठम्.धर्मः.सुचीर्णः.सुखम्.आदधाति ।
- १०.३ सत्यम्.हि.वै.स्वादुतमम्.रसानाम्.प्रज्ञाजीवी.जीविनाम्.श्रेष्ठ;उक्तः ॥
- १०.४ श्रद्धा.धनो.ह्य्.अर्हताम्.धर्मम्.निर्वाण.प्राप्तये ।
- १०.४ शुश्रूषुर्.लभते.प्रज्ञाम्.तत्र.तत्र.विचक्षणः ।[.शुश्रुशुर्.]
- १०.५ श्रद्धया.तरति.ह्य्.ओघम्.अप्रमादेन.चार्णवम् ।
- १०.५ वीर्येण.त्यजते.दुह्खम्.प्रज्ञया.परिशुध्यते ॥
- १०.६ श्रद्धा.द्वितीया.पुरुषस्य.भवति.प्रज्ञा.चैनम्.प्रशासति ।
- १०.६ निर्वाणाभिरतो.भिक्षुश्.छिनत्ति.भव.बन्धनम् ॥
- १०.७ यस्य.श्रद्धा.च.शीलम्.चैवाहिंसा.सम्यमो.दमः ।
- १०.७ स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥
- १०.८ श्राद्धः.शीलेन.सम्पन्नस्.त्यागवान्.वीत.मत्सरः ।
- १०.८ व्रजते.यत्र.यत्रैव.तत्र.तत्रैव.पूज्यते ॥
- १०.९ यो.जीव.लोके.लभते.श्रद्धाम्.प्रज्ञाम्.च.पण्डितः ।
- १०.९ तद्द्.हि.तस्य.धनम्.श्रेष्ठम्.हीनम्.अस्येतरद्.धनम् ॥
- १०.१० आर्याणाम्.दर्शनः.कामः.सद्.धर्म.श्रवणे.रतः ।
- १०.१० विनीत.मात्सर्य.मलः.स.वै.श्राद्धो.निरुच्यते ॥
- १०.११ श्राद्धो.गृह्णाति.पाथेयम्.पुण्यम्.चोरैः.सुदुर्हरम् ।
- १०.११ चोरम्.हरन्तम्.वारयति.हरन्तः.श्रमणाः.प्रियाः ।
- १०.११ f: श्रमणान्.आगतान्.दृष्ट्वा;अभिनन्दन्ति.पण्डिताः ॥
- १०.१२ ददन्त्य्.एके.यथा.श्रद्धा.यथा.विभवतो.जनाः ।
- १०.१२ तत्र.यो.दुर्मना.भवति.परेषाम्.पान.भोजने ।
- १०.१२ f: नासौ.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥
- १०.१३ यस्य.त्व्.एते.समुच्छिन्नास्.ताल.मस्तकवद्द्.हताः ।[.मस्तकवद्.धताः.]
- १०.१३ स.वै.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥
- १०.१४ वीत.श्रद्धम्.न.सेवेत.ह्रदम्.यद्वद्द्.हि.निर्जलम् ।
- १०.१४ स.चेत्.खनेल्.लभेत्.तत्र.वारि.कर्दम.गन्धिकम् ॥
- १०.१५ श्राद्धम्.प्राज्ञम्.तु.सेवेत.ह्रदम्.यद्वज्.जलार्थिकः ।
- १०.१५ अच्छोदकम्.विप्रसन्नम्.शीत.तोयम्.अनाविलम् ।[.अच्छोदकम्.]
- १०.१६ नानुरक्ता;इति.रज्येत.ह्य्.अत्र.वै.दीर्यते.जनः ।
- १०.१६ अप्रसन्नाम्.वर्जयित्वा.प्रसन्नान्.उपसेवते ॥[१० श्रद्धावर्गह्]
- १०_उद्दानम्_ अनित्य.काम.तृष्णा.च;अप्रमादस्.तथा.प्रियः ।[प्.१८४]
- १०_उद्दानम्_ शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः ॥[प्.१८४]
श्रमणवर्ग
सम्पाद्यताम्- ११.१ छिन्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.सर्वशः ।
- ११.१ नाप्रहाय.मुनिः.कामान्.एकत्वम्.अधिगच्छति ॥
- ११.२ कुर्वाणो.हि.सदा.प्राज्ञो.दृढम्.एव.पराक्रमेत् ।
- ११.२ शिथिला.खलु.प्रव्रज्या.ह्य्.आददाति.पुनो.रजः ॥
- ११.३ यत्.किंचित्.शिथिलम्.कर्म.संक्लिष्टम्.वापि.यत्.तपः ।
- ११.३ अपरिशुद्धम्.ब्रह्मचर्यम्.न.तद्.भवति.महा.फलम् ॥
- ११.४ शरो.यथा.दुर्गृहीतो.हस्तम्.एवापकृन्तति ।
- ११.४ श्रामण्यम्.दुष्परामृष्टम्.नरकान्.उपकर्षति ॥
- ११.५ शरो.यथा.सुगृहीतो.न.हस्तम्.अपकृन्तति ।
- ११.५ श्रामण्यम्.सुपरामृष्टम्.निर्वाणस्यैव.सो.अन्तिके ॥
- ११.६ दुष्करम्.दुस्तितीक्षम्.च.श्रामण्यम्.मन्द.बुद्धिना ।[.दुस्तितिक्षम्.]
- ११.६ बहवस्.तत्र.सम्बाधा.यत्र.मन्दो.विषीदति ॥
- ११.७ श्रामण्ये.चरते.यस्.तु.स्व.चित्तम्.अनिवारयेत् ।
- ११.७ पुनः.पुनर्.विषीदेत्.स.संकल्पानाम्.वशम्.गतः ॥
- ११.८ दुष्प्रव्रज्यम्.दुरभिरमम्.दुरध्यावसिता.गृहाः ।
- ११.८ दुह्खासमान.संवासा.दुह्खाश्.चोपचिता.भवाः ॥[.दुह्खासमान.संवासा.]
- ११.९ काषाय.कण्ठा.बहवः.पाप.धर्मा.ह्य्.असम्यताः ।
- ११.९ पापा.हि.कर्मभिः.पापैर्.इतो.गच्छन्ति.दुर्गतिम् ।
- ११.१० यो.असाव्.अत्यन्त.दुह्शीलः.सालवान्.मालुता.यथा ।
- ११.१० करोत्य्.असौ.तथात्मानम्.यथैनम्.द्विषद्.इच्छति ॥
- ११.११ स्थविरो.न.तावता.भवति.यावता.पलितम्.शिरः ।
- ११.११ परिपक्वम्.वयस्.तस्य.मोह.जीर्णः.स;उच्यते ॥
- ११.१२ यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् ।
- ११.१२ विश्रेणयित्वा.चरति.स.वै.स्थविर;उच्यते ॥
- ११.१३ न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् ।
- ११.१३ इच्छा.लोभ.समापन्नः.श्रमणः.किम्.भविष्यति ॥
- ११.१४ न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् ।
- ११.१४ शमितम्.येन.पापम्.स्याद्.अणु.स्थूलम्.हि.सर्वशः ।
- ११.१४ f: शमितत्वात्.तु.पापानाम्.श्रमणो.हि.निरुच्यते ॥
- ११.१५ ब्राह्मणो.वाहितैः.पापैः.श्रमणः.शमिताशुभः ।
- ११.१५ प्रव्राजयित्वा.तु.मलान्.उक्तः.प्रव्रजितस्.त्व्.इह ॥
मार्गवर्ग
सम्पाद्यताम्- १२.१ आर्य.सत्यानि.चत्वारि.प्रज्ञया.पश्यते.यदा ।
- १२.१ एष.मार्गम्.प्रजानाति.भव.तृष्णा.प्रदालनम् ॥
- १२.२ उद्धतम्.हि.रजो.वातैर्.यथा.वृष्टेन.शाम्यति ।
- १२.२ एवम्.शाम्यन्ति.संकल्पाः.प्रज्ञया.पश्यते.यदा ॥
- १२.३ श्रेष्ठा.हि.प्रज्ञा.लोकेऽस्मिन्.येयम्.निर्वेद.गामिनी ।
- १२.३ यया.सम्यक्.प्रजानाति.जाति.मरण.संक्षयम् ॥
- १२.४ मार्गेष्व्.अष्टाङ्गिकः.श्रेष्ठश्.चत्वार्य्.आर्याणि.सत्यतः ।
- १२.४ श्रेष्ठो.विरागो.धर्माणाम्.चक्षुष्मान्.द्विपदेषु.च ॥
- १२.५ अनित्यान्.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।
- १२.५ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
- १२.६ दुह्खम्.हि.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।
- १२.६ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
- १२.७ शुन्यतः.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।[.शून्यतः.]
- १२.७ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
- १२.८ सर्व.धर्मा;अनात्मानः.प्रज्ञया.पश्यते.यदा ।
- १२.८ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
- १२.९ आख्यातो.वो.मया.मार्गस्.त्व्.अज्ञायै.शल्य.कृन्तनः ।
- १२.९ युष्माभिर्.एव.करणीयम्.आख्यातारस्.तथा.गताः ॥
- १२.१० देशितो.वो.मया.मार्गस्.तृष्णा.शल्य.निकृन्तनः ।
- १२.१० युष्माभिर्.एव.करणीयम्.देष्टारो.हि.तथा.गताः ॥
- १२.११ एषो.हि.मार्गो.नास्त्य्.अन्यो.दर्शनस्य.विशुद्धये ।
- १२.११ प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥
- १२.१२ एषो.अञ्जसो.ह्य्.एष.च.वै.पराक्रमे.त्व्.एकायनो.हंस.पथो.यथा.ह्रदे ।
- १२.१२ यम्.अध्यगात्.शाक्य.मुनिः.समाहितस्.तम्.एव.चाख्याति.गणेष्व्.अभीक्ष्णशः ॥
- १२.१३ एकायनम्.जाति.जरान्त.दर्शी.मार्गम्.वदत्य्.एष.हितानुकम्पी ।
- १२.१३ एतेन.मार्गेण.हि.तीर्णवन्तस्.तरिष्यते.ये.प्रतरन्ति.चौघम् ॥
- १२.१४ अत्यन्त.निष्ठाय.दमाय.शुद्धये.संसार.जाती.मरण.क्षयाय ।
- १२.१४ अनेक.धातु.प्रतिषंविधाय.मार्गो.ह्य्.अयम्.लोकविदा.प्रकाशितः ॥
- १२.१५ गङ्गा.गतम्.यद्वद्.अपेत.दोषम्.संस्यन्दते.वारि.तु.सागरेण ।
- १२.१५ तथैव.मार्गः.सुगत.प्रदेशितः.संस्यन्दतेऽयम्.ह्य्.अमृतस्य.प्राप्तये ॥
- १२.१६ यो.धर्म.चक्रम्.ह्य्.अननुश्रुतम्.पुरा.प्रावर्तयत्.सर्व.भूतानुकम्पी ।
- १२.१६ तम्.तादृशम्.देव.नराग्र.सत्त्वम्.नित्यम्.नमस्येत.भवस्य.पारगम् ॥[.देवनराग्रसत्वम्.]
- १२.१७ सदा.वितर्कान्.कुशलान्.वितर्कयेत्.सदा.पुनश्.चाकुशलान्.विवर्जयेत् ।
- १२.१७ ततो.वितर्कांश्.च.विचारितानि.च.प्रहास्यते.वृष्टिर्.इवोद्धतम्.रजः ॥
- १२.१८ स.वै.वितर्कोपशमेन.चेतसा.स्पृशेत.सम्बोधि.सुखम्.ह्य्.अनुत्तरम् ।
- १२.१८ शुभम्.समाधिम्.मनसा.निबन्धयेद्.विवेकजम्.भावयित्वाप्रमाणम् ।
- १२.१८ f: प्रदालयित्वा.त्रिभिर्.आलयांस्.त्रीन्.जहाति.बन्धान्.निपकः.प्रतिस्मृतः ॥
- १२.१९ प्रज्ञायुधो.ध्यान.बलोपपेतः.समाहितो.ध्यान.रतः.स्मृतात्मा ।
- १२.१९ लोकस्य.बुद्ध्वा.ह्य्.उदय.व्ययम्.च.विमुच्यते.वेदकः.सर्वतो.असौ ॥
- १२.२० सुखम्.सुखार्थी.लभते.समाचरन्.कीर्तिम्.समाप्नोति.यशश्.च.सर्वतः ।
- १२.२० य;आर्यम्.अष्टाङ्गिकम्.आञ्जसम्.शिवम्.भावयति.मार्गम्.ह्य्.अमृतस्य.प्राप्तये ॥
सत्कारवर्ग
सम्पाद्यताम्- १३.१ फलम्.वै.कदलिम्.हन्ति.फलम्.वेणुम्.फलम्.नडम् ।
- १३.१ सत्कारः.कापुरुषम्.हन्ति.स्व.गर्भो.अश्वतरीम्.यथा ॥
- १३.२ यावद्.एव.ह्य्.अनर्थाय.ज्ञातो.भवति.बालिशः ।
- १३.२ हन्ति.बालस्य.शुक्लांशम्.मूर्धानम्.चास्य.पातयेत् ॥
- १३.३ असन्तो.लाभम्.इच्छन्ति.सत्कारम्.चैव.भिक्षुषु ।
- १३.३ आवासेषु.च.मात्सर्यम्.पूजाम्.पर.कुलेषु.च ॥
- १३.४ माम्.एव.नित्यम्.जानीयुर्.गृही.प्रव्रजितस्.तथा ।
- १३.४ मम.प्रतिवशाश्.च.स्युः.कृत्याकृत्येषु.केषुचित् ॥
- १३.५ इति.बालस्य.संकल्पा;इच्छा.मानाभिवर्धकाः ।
- १३.५ अन्या.हि.लाभोपनिषद्.अन्या.निर्वाण.गामिनी ॥
- १३.६ एतज्.ज्ञात्वा.यथा.भूतम्.बुद्धानाम्.श्रावकः.सदा ।
- १३.६ सत्कारम्.नाभिनन्देत.विवेकम्.अनुबृंहयेत् ॥
- १३.७ न.व्यायमेत.सर्वत्र.नान्येषाम्.पुरुषो.भवेत् ।
- १३.७ नान्याम्.निह्श्रित्य.जीवेत.धर्मेण.न.वणिक्.चरेत् ॥
- १३.८ स्व.लाभम्.नावमन्येत.नान्येषाम्.स्पृहको.भवेत् ।
- १३.८ अन्येषाम्.स्पृहको.भिक्षुः.समाधिम्.नाधिगच्छति ॥
- १३.९ सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् ।
- १३.९ अहिर्.मूषक.दुर्गम्.वा.सेवेत.शयनासनम् ॥
- १३.१० सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् ।
- १३.१० इतरेतरेण.संतुष्येद्.एक.धर्मम्.च.भावयेत् ॥
- १३.११ सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् ।
- १३.११ सांघिकम्.नावमन्येत.चीवरम्.पान.भोजनम् ॥
- १३.१२ अल्प.ज्ञातो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
- १३.१२ विद्वांसस्.तम्.प्रशंसन्ति.शुद्धाजीवम्.अतन्द्रितम् ॥[.शुद्धाजीवम्.]
- १३.१३ त्रैविद्यः.स्यात्.स.चेद्.भिक्षुर्.मृत्यु.हन्ता.निरास्रवः ।
- १३.१३ अल्प.ज्ञातम्.इति.ज्ञात्वा.ह्य्.अवजानन्त्य्.अजानकाः ॥
- १३.१३ स.चेद्.भवति.त्रैविद्यो.मृत्यु.हायी.निरास्रवः ।
- १३.१३ ज्ञात्वाल्प.ज्ञात;इति.तम्.अवजानन्त्य्.अजानकाः ॥
- १३.१४ स.चेत्.त्व्.इहान्न.पानस्य.लाभी.भवति.पुद्गलाः ।
- १३.१४ पाप.धर्मापि.चेद्.भवति.स.तेषाम्.भवति.पूजितः ॥
- १३.१५ बहून्.अमित्रान्.लभते.संघाटी.प्रावृतः.सदा ।
- १३.१५ लाभी.यो.ह्य्.अन्न.पानस्य.वस्त्र.शय्यासनस्य.च ॥
- १३.१६ एतद्.आदी.नवम्.ज्ञात्वा.सत्कारेषु.महा.भयम् ।[.आदीनवम्.]
- १३.१६ अल्प.ज्ञातो.ह्य्.अनुत्सुकः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
- १३.१७ नायम्.अनशनेन.जीवते.नाहारो.हृदयस्य.शान्तये ।
- १३.१७ आहारः.स्थितये.तु.विद्यते.तज्.ज्ञात्वा.हि.चरेत;एषणाम् ॥
- १३.१८ पङ्कस्.त्व्.इति.यो.हि.विन्दते.नित्यम्.वन्दन.मानना.कुले ।
- १३.१८ सूक्ष्मः.शल्यो.दुरुद्धरः.सत्कारः.कापुरुषेण.दुस्त्यजः ॥
द्रोहवर्ग
सम्पाद्यताम्- १४.१ अक्रुद्धस्य.हि.यः.क्रुध्येत्.कर्म.पापम्.अकुर्वतः ।
- १४.१ दुह्खम्.तम्.एव.स्पृशति.लोकेऽस्मिंश्.च.परत्र.च ॥
- १४.२ पूर्वम्.क्षिणोति.हात्मानम्.पश्चाद्.बाह्यम्.विहिंसति ।
- १४.२ स.हतस्.त्व्.इतरम्.हन्ति.वीतंसेनेव.पक्षिणः ॥
- १४.३ हन्तारम्.लभते.हन्ता.वैरी.वैराणि.पश्यति ।
- १४.३ अक्रोष्टारम्.तथाक्रोष्टा.रोषितारम्.च.रोषकः ॥[.आक्रोष्टारम्.]
- १४.४ अन्यत्राश्रवणाद्.अस्य.सद्धर्मस्याविजानकाः ।
- १४.४ आयुष्य्.एवम्.परित्ते.हि.वैरम्.कुर्वन्ति.केनचित् ॥
- १४.५ पृथक्.शब्दाः.समुत्पन्नास्.तम्.च.श्रेष्ठम्.इति.मन्यथा ।[.पृथक्.छब्दाः.]
- १४.५ संघे.हि.भिद्यमानेऽस्मिन्.श्रेष्ठम्.इत्य्.अभिमन्यथा ॥
- १४.६ अस्थि.छिदाम्.प्राण.हृताम्.गवाश्व.धन.हारिणाम् ।[.अस्थिच्छिदाम्.]
- १४.६ राष्ट्रम्.विलुम्पताम्.चैव.पुनर्.भवति.संगतम् ।
- १४.६ f: युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥
- १४.६ अस्थि.छिन्नाः.प्राण.हरा.गवाश्व.धन.हारकाः ।[.अस्थिच्छिनाः.]
- १४.६ राष्ट्राणाम्.च.विलोप्तारस्.तेषाम्.भवति.संगतम् ।
- १४.६ f: युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥
- १४.७ पण्डिताभा.परामृष्टा.वाग्.या.गोचर.भाषिणी ।
- १४.७ व्यायच्छन्ति.मुखम्.वामा.यया.नीता.न.ते.बुधाः ॥
- १४.८ परे.हि.न.विजानन्ति.वयम्.अत्रोद्यमामहे ।
- १४.८ अत्र.ये.तु.विजानन्ति.तेषाम्.शाम्यन्ति.मेधकाः ॥
- १४.९ आक्रोशन्.माम्.अवोचन्.माम्.अयोजन्.माम्.अजापयेत् ।
- १४.९ अत्र.ये.ह्य्.उपनह्यन्ति.वैरम्.तेषाम्.न.शाम्यति ॥
- १४.१० आक्रोशन्.माम्.अवोचन्.माम्.अजयन्.माम्.अजापयेत् ।
- १४.१० अत्र.ये.नोपनह्यन्ति.वैरम्.तेषाम्.प्रशाम्यति ॥
- १४.११ न.हि.वैरेण.वैराणि.शाम्यन्तीह.कदाचन ।
- १४.११ क्षान्त्या.वैराणि.शाम्यन्त्येष.धर्मः.सनातनः ॥
- १४.१२ वैरम्.न.वैरेण.हि.जातु.शाम्येत्.शाम्येद्.अवैरेण.तु.वैर.भावः ।
- १४.१२ वैर.प्रसङ्गो.ह्य्.अहिताय.दृष्टस्.तस्माद्द्.हि.वैरम्.न.करोति.विद्वान् ॥
- १४.१३ स.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव ।
- १४.१३ अभिभूय.सर्वाणि.परिस्रवाणि.चरेत.तेनाप्त.मना.स्मृतात्मा ॥
- १४.१४ नो.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव ।
- १४.१४ राजेव.राष्ट्रम्.विप्लुअम्.प्रहायैकश्.चरेन्.न.च.पापानि.कुर्यात् ॥
- १४.१५ चरंश्.च.नाधिगच्छेत.सहायम्.तुल्यम्.आत्मनः ।
- १४.१५ एक.चर्याम्.दृढम्.कुर्यान्.नास्ति.बाले.सहायता ॥
- १४.१६ एकस्य.चरितम्.श्रेयो.न.तु.बालः.सहायकः ।
- १४.१६ एकश्.चरेन्.न.च.पापानि.कुर्याद्.अल्पोत्सुको.अरण्य.गतैव.नागः ॥
- १४.१६_ एकस्य.चरितम्.श्रेयो.न.तु.बाल.सहायता ।
- १४.१६_ अल्पोत्सुकश्.चरेद्.एको.मातङ्गारण्ये.नागवत् ॥
स्मृतिवर्ग
सम्पाद्यताम्- १५.१ आनापान.स्मृतिर्.यस्य.परिपूर्णा.सुभाविता ।
- १५.१ अनुपूर्वम्.परिजिता.यथा.बुद्धेन.देशिता ।
- १५.१ f: स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
- १५.२ स्थितेन.कायेन.तथैव.चेतसा.स्थितो.निषण्णो.अप्य्.अथवा.शयानः ।
- १५.२ नित्यम्.स्मृतो.भिक्षुर्.अधिष्ठमानो.लभेत.पूर्वापरतो.विशेषम् ।
- १५.२ f: लब्ध्वा.च.पूर्वापरतो.विशेषम्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
- १५.३ स्मृतिः.काय.गता.नित्यम्.संवरश्.चेन्द्रियैः.सदा ।
- १५.३ समाहितः.स.जानीयात्.तेन.निर्वाणम्.आत्मनः ॥
- १५.४ यस्य.स्यात्.सर्वतः.स्मृतिः.सततम्.काय.गता.ह्य्.उपस्थिता ।
- १५.४ नो.च.स्यान्.नो.च.मे.स्यान्.न.भविष्यति.न.च.मे.भविष्यति ।
- १५.४ f: अनुपूर्व.विहारवान्.असौ.कालेनोत्तरते.विषक्तिकाम् ॥
- १५.५ यो.जागरेत्.स्मृतिमान्.सम्प्रजानः.समाहितो.मुदितो.विप्रसन्नः ।
- १५.५ कालेन.धर्मान्.मीमांसमानः.सो.अतिक्रमेज्.जाति.जराम्.सशोकाम् ॥
- १५.६ तस्मात्.सदा.जागरिकाम्.भजेत.यो.वीर्यवान्.स्मृतिमान्.अप्रमत्तः ।
- १५.६ सम्योजनम्.जाति.जराम्.च.हित्वेहैव.दुह्खस्य.करोति.सो.अन्तम् ॥
- १५.७ जागरन्तः.शृणुध्वम्.मे.सुप्ताश्.च.प्रतिबुध्यत ।
- १५.७ सुप्तेषु.जागरम्.श्रेया.न.हि.जागरतो.भयम् ॥
- १५.८ जागर्यम्.अनुयुक्तानाम्.अहो.रात्रानुशिक्षिणाम् ।
- १५.८ अमृतम्.चाधिमुक्तानाम्.अस्तम्.गच्छन्त्यास्रवाः ॥
- १५.९ लाभस्.तेषाम्.मनुष्याणाम्.ये.बुद्धम्.शरणम्.गताः ।
- १५.९ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥
- १५.१० लाभस्.तेषाम्.मनुष्याणाम्.ये.धर्मम्.शरणम्.गताः ।
- १५.१० येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥
- १५.११ लाभस्.तेषाम्.मनुष्याणाम्.ये.संघम्.शरणम्.गताः ।
- १५.११ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥
- १५.१२ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१२ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥
- १५.१३ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१३ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥
- १५.१४ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१४ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥
- १५.१५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१५ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.काय.गता.स्मृतिः ॥
- १५.१५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१५ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.समाधयः.स्मृताः ॥
- १५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.शील.गता.स्मृतिः ॥
- १५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.त्याग.गता.स्मृतिः ॥
- १५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.देव.गता.स्मृतिः ॥
- १५.१७ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१७ येषाम्.दिवा.च.रात्रौ.चैवाहिंसायाम्.रतम्.मनः ॥
- १५.१८ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१८ येषाम्.दिवा.च.रात्रौ.चैवाव्यापादे.रतम्.मनः ॥
- १५.१९ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.१९ येषाम्.दिवा.च.रात्रौ.च.नैष्क्रम्येऽभिरतम्.मनः ॥[.नैष्कर्म्ये.?]
- १५.२० सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.२० येषाम्.दिवा.च.रात्रौ.च.नित्यम्.ध्यान.रतम्.मनः ॥
- १५.२१ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.२१ येषाम्.दिवा.च.रात्रौ.च.विवेकेऽभिरतम्.मनः ॥
- १५.२२ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.२२ येषाम्.दिवा.च.रात्रौ.च.शुन्यतायाम्.रतम्.मनः ॥[.शून्यतायाम्.]
- १५.२३ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.२३ येषाम्.दिवा.च.रात्रौ.चैवानिमित्ते.रतम्.मनः ॥
- १५.२४ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.२४ येषाम्.दिवा.च.रात्रौ.च;आकिंचन्ये.रतम्.मनः ॥
- १५.२५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.२५ येषाम्.दिवा.च.रात्रौ.च.भावनायाम्.रतम्.मनः ॥
- १५.२६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
- १५.२६ येषाम्.दिवा.च.रात्रौ.च.निर्वाणेऽभिरतम्.मनः ॥
प्रकीर्णकवर्ग
सम्पाद्यताम्- १६.१ पूर्वम्.हि.कृत्यम्.प्रतिजागरेत.मा.मे.कृत्यम्.कृत्य.काले.विहन्यात् ।
- १६.१ तम्.नित्य.काले.प्रतियत्य.कारिणम्.नैव.कृत्यम्.कृत्य.काले.विहन्ति ॥
- १६.२ व्यायमेतैव.पुरुषो.यावद्.अर्थस्य.निष्पदः ।
- १६.२ पश्येद्.असौ.तथात्मार्थम्.यथैवेच्छेत्.तथा.भवेत् ॥
- १६.३ उत्तिष्ठत.व्यायमत.कुरुध्वम्.द्वीपम्.आत्मनः ।
- १६.३ कर्मारो.रजतस्यैव.हरध्वम्.मलम्.आत्मनः ॥
- १६.३ f: निर्धान्त.मला.ह्य्.अनङ्गणा.न.पुनर्.जाति.जराम्.उपेष्यथ ॥
- १६.४ अलज्जितव्ये.लज्जन्ते.लज्जितव्ये.त्व्.अलज्जिनः ।
- १६.४ अभये.भय.दर्शीनो.भये.चाभय.दर्शिनः ।[.भय.दर्शिनो.]
- १६.४ f: मिथ्या.दृष्टि.समादानात्.सत्त्वा.गच्छन्ति.दुर्गतिम् ॥
- १६.५ यस्.तु.पूर्वम्.प्रमाद्येह.पश्चाद्.वै.न.प्रमाद्यते ।
- १६.५ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
- १६.६ यस्.तु.पूर्वम्.प्रमाद्येह.पश्चाद्.वै.न.प्रमाद्यते ।
- १६.६ स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
- १६.७ दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने ।
- १६.७ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
- १६.८ दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने ।
- १६.८ स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
- १६.९ यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते ।[.पिधीयते.]
- १६.९ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
- १६.१० यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते ।[.पिधीयते.]
- १६.१० स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
- १६.११ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः ।
- १६.११ स.वै.दृष्ट.पदो.धीरो.मरणान्ते.न.शोचति ॥
- १६.१२ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः ।
- १६.१२ स.वै.दृष्ट.पदो.धीरः.शोक.मध्ये.न.शोचति ॥
- १६.१३ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः ।
- १६.१३ स.वै.दृष्ट.पदो.धीरो.ज्ञाति.मध्ये.विरोचते ॥
- १६.१४ कृष्णान्.धर्मान्.विप्रहाय.शुक्लान्.भावयत.भिक्षवः ।
- १६.१४ ओकाद्.अनोकम्.आगम्य.विवेकम्.अनुबृंहयेत् ।
- १६.१४ f: तत्र.चाभिरमेतार्यो.हित्वा.कामान्.अकिंचनः ॥
- १६.१५ शुद्धस्य.हि.सदा.फल्गुः.शुद्धस्य.पोषथः.सदा ।
- १६.१५ शुद्धस्य.शुचि.कर्मणः.सदा.सम्पद्यते.व्रतम् ॥
- १६.१६ क्षेत्राणि.तृण.दोषाणि.राग.दोषा.त्व्.इयम्.प्रजा ।
- १६.१६ तस्माद्.विगत.रागेभ्यो.दत्तम्.भवति.महा.फलम् ॥
- १६.१७ क्षेत्राणि.तृण.दोषाणि.द्वेष.दोषा.त्व्.इयम्.प्रजा ।
- १६.१७ तस्माद्.विगत.द्वेषेभ्यो.दत्तम्.भवति.महा.फलम् ॥
- १६.१८ क्षेत्राणि.तृण.दोषाणि.मोह.दोषा.त्व्.इयम्.प्रजा ।
- १६.१८ तस्माद्.विगत.मोहेभ्यो.दत्तम्.भवति.महा.फलम् ॥
- १६.१९ क्षेत्राणि.तृण.दोषाणि.मान.दोषा.त्व्.इयम्.प्रजा ।
- १६.१९ तस्माद्.विगत.मानेभ्यो.दत्तम्.भवति.महा.फलम् ॥
- १६.२० क्षेत्राणि.तृण.दोषाणि.लोभ.दोषा.त्व्.इयम्.प्रजा ।
- १६.२० तस्माद्.विगत.लोभेभ्यो.दत्तम्.भवति.महा.फलम् ॥
- १६.२१ क्षेत्राणि.तृण.दोषाणि.तृष्णा.दोषा.त्व्.इयम्.प्रजा ।
- १६.२१ तस्माद्.विगत.तृष्णेभ्यो.दत्तम्.भवति.महा.फलम् ॥
- १६.२२ षष्ठ;अधिपती.राजा.रज्यमाने.रजस्वलः ।
- १६.२२ अरक्ते.विरजा.भवति.रक्ते.बालो.निरुच्यते ॥
- १६.२३ नगरम्.ह्य्.अस्थि.प्राकारम्.मांस.शोणित.लेपनम् ।
- १६.२३ यत्र.रागश्.च.द्वेषश्.च.मानो.ंरक्षश्.च.बाध्यते ॥
- १६.२४ हेतु.प्रभवम्.सदा.हि.दुह्खम्.तद्.अपश्यन्.स.हि.तेन.तत्र.बद्धः ।
- १६.२४ तस्य.तु.समयाज्.जहाति.सङ्गम्.न.हि.बाह्या.प्रजहन्ति.तम्.महौघम् ॥[.महौघम्.]
उदकवर्ग
सम्पाद्यताम्- १७.१ स्मृतिमन्तः.प्रयुज्यन्ते.न.निकेते.रमन्ति.ते ।
- १७.१ हंसवत्.पल्वलम्.हित्वा.ह्य्.ओकम्.ओघम्.जहन्ते.ते ॥[.जहन्ति.ते.]
- १७.२ हंसादित्य.पथे.यान्त्याकाशे.जीवितेन्द्रियाः ।
- १७.२ निर्यान्ति.धीरा.लोकान्.मार.सैन्यम्.प्रमथ्य.ते ॥
- १७.३ अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् ।
- १७.३ जीर्ण.क्रौञ्चैव.ध्यायन्तेऽल्प.मत्स्य;इव.पल्वले ॥
- १७.४ अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् ।
- १७.४ शेन्ति.चापाति.कीर्णा.वा.पौराणान्य्.अनुचिन्तिताः ॥
- १७.५ नाल्पम्.मन्येत.पापस्य.नैतम्.माम्.आगमिष्यति ।
- १७.५ उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते ।
- १७.५ f: पूर्यन्ति.बालाः.पापैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥
- १७.६ नाल्पम्.मन्येत.पुण्यस्य.नैतम्.माम्.आगमिष्यति ।
- १७.६ उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते ।
- १७.६ f: पूर्यन्ति.धीराः.पुण्यैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥
- १७.७ ये.तरन्त्य्.आर्णवम्.नित्यम्.कोलम्.बद्ध्वा.जनाः.शुभम् ।
- १७.७ न.ते.तरन्ति.सरिताम्.तीर्णा.मेधाविनो.जनाः ॥
- १७.८ उत्तीर्णो.भगवान्.बुद्धः.स्थले.तिष्ठति.ब्राह्मणः ।
- १७.८ भिक्षवः.स्नान्ति.चैवात्र.कोलम्.बध्नन्ति.चापरे ॥
- १७.९ किम्.कुर्याद्.उद.पानेन.यत्रापः.सर्वतो.भवेत् ।
- १७.९ तृष्णाया.मूलम्.उद्धृत्य.कस्य.पर्येषणाम्.चरेत् ॥
- १७.१० उदकेन.निजन्ति.नेजका;इषु.कारा.नमयन्ति.तेजसा ।
- १७.१० दारुम्.नमयन्ति.तक्षका.ह्य्.आत्मानम्.दमयन्ति.पण्डिताः ॥
- १७.११ यथा.ह्रदः.सुगम्भीरो.विप्रसन्नो.ह्य्.अनाविलः ।
- १७.११ एवम्.श्रुत्वा.हि.सद्धर्मम्.विप्रसीदन्ति.पण्डिताः ॥
- १७.१२ पृथिवी.सदृशो.न.लिप्यते.तायी.कीलवद्.अप्रकम्पयः ।
- १७.१२ ह्रद;इव.हि.विनीत.कर्दमो.निष्कलुषा.हि.भवन्ति.पण्डिताः ॥
पुष्पवर्ग
सम्पाद्यताम्- १८.१ क;इमाम्.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् ।
- १८.१ को.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥
- १८.२ शैक्षः.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् ।
- १८.२ स.हि.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥
- १८.३ वनम्.छिन्दत.मा.वृक्षम्.वनाद्.वै.जायते.भयम् ।
- १८.३ छित्त्वा.वनम्.समूलम्.तु.निर्वणा.भवत.भिक्षवः ॥
- १८.४ न.छिद्यते.यावता.वनम्.ह्य्.अनुमात्रम्.अपि.नरस्य.बन्धुषु ।[.अणु.मात्रम्.]?
- १८.४ प्रतिबद्ध.मनाः.स.तत्र.वै.वत्सः.क्षीरपक;इव.मातरम् ॥
- १८.५ उच्छिन्द्धि.हि.स्नेहम्.आत्मनः.पद्मम्.शारदकम्.यथोदकात् ।
- १८.५ शान्ति.मार्गम्.एव.बृंहयेन्.निर्वाणम्.सुगतेन.देशितम् ॥
- १८.६ यथापि.रुचिरम्.पुष्पम्.वर्णवत्.स्याद्.अगन्धवत् ।
- १८.६ एवम्.सुभाषिता.वाचा.निष्फलासाव्.अकुर्वातः ॥
- १८.७ यथापि.रुचिरम्.पुष्पम्.वर्णवत्.स्यात्.सुगन्धवत् ।
- १८.७ एवम्.सुभाषिता.वाचा.सफला.भवति.कुर्वतः ॥
- १८.८ यथापि.भ्रमरः.पुष्पाद्.वर्ण.गन्धाव्.अहेठयन् ।
- १८.८ परैति.रसम्.आदाय.तथा.ग्रामान्.मुनिश्.चरेत् ॥
- १८.९ न.परेषाम्.विलोमानि.न.परेषाम्.कृताकृतम् ।
- १८.९ आत्मनस्.तु.समीक्षेत.समानि.विषमानि.च ॥
- १८.१० यथापि.पुष्प.राशिभ्यः.कुर्यान्.माला.गुणान्.बहून् ।
- १८.१० एवम्.जातेन.मर्त्येन.कर्तव्यम्.कुशलम्.बहु ॥
- १८.११ वर्षासु.हि.यथा.पुष्पम्.वगुरो.विप्रमुञ्चति ।[.वागुरो.]?
- १८.११ एवम्.रागम्.च.दोषम्.च.विप्रमुञ्चत.भिक्षवः ॥
- १८.१२ यथा.संकार.कूटे.तु.व्युज्झिते.हि.महा.पथे ।
- १८.१२ पद्मम्.तत्र.तु.जायेत.शुचि.गन्धि.मनो.रमम् ॥
- १८.१३ एवम्.संकार.भूतेऽस्मिन्न्.अन्ध.भूते.पृथग्.जने ।
- १८.१३ प्रज्ञया.व्यतिरोचन्ते.सम्यक्.सम्बुद्ध.श्रावकाः ॥
- १८.१४ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
- १८.१४ सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥
- १८.१४ ...............................................नरम् ।
- १८.१४ सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥
- १८.१५ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
- १८.१५ अतृप्तम्.एव.कामेषु.त्व्.अन्तकः.कुरुते.वशम् ॥
- १८.१६ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
- १८.१६ अनुत्पन्नेषु.भोगेषु.त्व्.अन्तकः.कुरुते.वशम् ॥
- १८.१७ कुम्भोपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
- १८.१७ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
- १८.१८ फेनोपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
- १८.१८ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
- १८.१९ कुम्भोपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
- १८.१९ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
- १८.२० फेनोपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
- १८.२० छित्त्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
- १८.२१ यो.नाध्यगमद्.भवेषु.सारम्.बुद्ध्वा.पुष्पम्.उदुम्बरस्य.यद्वत् ।
- १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- १८.२१ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
- १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- १८.२१ यो.द्वेषम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
- १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- १८.२१ यो.मोहम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
- १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- १८.२१ड् यो.मानम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
- १८.२१ड् स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- १८.२१ यो.लोभम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
- १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- १८.२१ तृष्णाम्.य;उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
- १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.त्व.त्वचम्.पुराणम् ॥
अश्ववर्ग
सम्पाद्यताम्- १९.१ भद्रो.यथाश्वः.कशयाभिस्पृष्ट.ह्य्.आतापिनः.संविजिताश्.चरेत ।[.अभिस्पृष्टो.]?
- १९.१ श्राद्धस्.तथा.शील.गुणैर्.उपेतः.समाहितो.धर्म.विनिश्चयज्ञः ।
- १९.१ f: जितेन्द्रियः.क्षान्ति.बलैर्.उपेतो.जहाति.सर्वान्.स.भवान्.अशेषान् ॥
- १९.२ भद्रो.यथाश्वः.कशयाभिताडित.ह्य्.आतापिनः.संविजिताश्.चरेत ।[.अभिताडितो.]?
- १९.२ श्राद्धस्.तथा.शील.गुणैर्.उपेतः.समाहितो.धर्म.विनिश्चयज्ञः ।
- १९.२ f: सम्पन्न.विद्या.चरणः.प्रतिस्मृतस्.तायी.स.सर्वम्.प्रजहाति.दुह्खम् ॥
- १९.३ यस्येन्द्रियाणि.समताम्.गतान्यश्वो.यथा.सारथिना.सुदान्तः ।
- १९.३ प्रहीण.दोषाय.निरास्रवाय.देवापि.तस्मै.स्पृहयन्ति.नित्यम् ॥
- १९.४ अप्रमत्तः.प्रमत्तेषु.सुप्तेषु.बहु.जागरः ।
- १९.४ अबलाश्व;इव.भद्राश्वम्.हित्वा.याति.सुमेधसम् ॥
- १९.५ ह्री.निषेवी.हि.पुरुषः.प्राज्ञो.यः.सुसमाहितः ।
- १९.५ सर्व.पापम्.जहात्य्.एष.भद्राश्वो.हि.कशाम्.इव ॥
- १९.६ दान्तो.वै.समितिम्.याति.दान्तम्.राजाधिरोहति ।
- १९.६ दान्तः.श्रेष्ठो.मनुष्याणाम्.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.]
- १९.७ यो.ह्य्.अश्वम्.दमयेज्.जान्यम्.आजानेयम्.च.सैन्धवम् ।
- १९.७ कुञ्जरम्.वा.महा.नागम्.आत्मा.दान्तस्.ततो.वरम् ॥
- १९.७_ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
- १९.७_ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
- १९.८ न.ह्यसौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
- १९.८ आत्मना.हि.सुदान्तेन.क्षिप्रम्.शान्तिम्.निगच्छति ॥
- १९.८_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
- १९.८_ याम्.आत्मना.सुदान्तेन.दान्तो.दान्तेन.गच्छति ॥
- १९.८ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्दवम् ।
- १९.८ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
- १९.९ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
- १९.९ आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥
- १९.९_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
- १९.९_ याम्.आत्मना.सुदान्तेन.सर्वान्.त्यजत्य्.दुर्गतिः ॥
- १९.९ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
- १९.९ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
- १९.१० न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
- १९.१० आत्मना.हि.सुदान्तेन.सर्वम्.छिनत्ति.बन्धनम् ॥
- १९.१०_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
- १९.१०_ याम्.आत्मना.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥
- १९.१० यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
- १९.१० कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
- १९.११ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
- १९.११ आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥
- १९.११_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
- १९.११_ याम्.आत्मना.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥
- १९.११ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
- १९.११ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
- १९.११ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
- १९.११ याम्.आत्मना.सुदान्तेन.सर्वाम्.जहाति.सम्पदम् ॥
- १९.११ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
- १९.११ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
- १९.१२ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
- १९.१२ आत्मना.हि.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥
- १९.१२_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
- १९.१२_ याम्.आत्मना.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥
- १९.१३ आत्मानम्.एव.दमयेद्.भद्राश्वम्.इव.सारथिः ।
- १९.१३ आत्मा.हि.सुदान्तेन.स्मृतिमान्.दुह्ख.पारगः ॥
- १९.१४ आत्मैव.ह्य्.आत्मनो.नाथः.आत्मा.शरणम्.आत्मनः ।
- १९.१४ तस्मात्.सम्यमयात्मानम्.भद्राश्वम्.इव.सारथिः ॥
क्रोधवर्ग
सम्पाद्यताम्- २०.१ क्रोधम्.जहेद्.विप्रजहेच्.च.मानम्.सम्योजनम्.सर्वम्.अतिक्रमेत ।
- २०.१ तम्.नाम्ने.रूपे.च;असज्यमानम्.अकिंचनम्.नानुपतन्ति.संगाः ॥
- २०.२ क्रोधम्.जहेद्.उत्पतितम्.रागम्.जातम्.निवारयेत् ।
- २०.२ अविद्याम्.प्रजहेद्.धीरः.सत्याभिसमयात्.सुखम् ॥
- २०.३ क्रोधम्.हत्वा.सुखम्.शेते.क्रोधम्.हत्वा.न.शोचति ।
- २०.३ क्रोधस्य.विष.मूलस्य.मधुर.घ्नस्य.भिक्षवः ।
- २०.३ f: वधम्.आर्याः.प्रशंसन्ति.तम्.च.हत्वा.न.शोचति ॥
- २०.४ यत्.तु.रोचयति.क्रुद्धो.दुष्कृतम्.सुकृतम्.त्व्.इति ।
- २०.४ पश्चात्.स.विगते.क्रोधे.स्पृष्ट्वाग्निम्.इव.तप्यते ॥
- २०.५ अह्रीकश्.चानवत्रापी.चाव्रतश्.चैव.रोषणः ।
- २०.५ क्रोधेन.ह्य्.अभिभूतस्य.द्वीपम्.नास्तीह.किंचन ॥
- २०.५_ अह्रीक्यो.अप्य्.अनवत्रापी.भवति.क्रोधनो.अव्रतः ।
- २०.५_ क्रोधेन.चाभिभूतस्य.न.द्वीपो.भवति.कश्चन ॥
- २०.६ अबलम्.हि.बलम्.तस्य.यस्य.क्रोधे.बलम्.बलम् ।
- २०.६ क्रुद्धस्य.धर्म.हीनस्य.प्रतिपत्तिर्.न.विद्यते ॥
- २०.७ यस्.त्व्.अयम्.बलवान्.भूत्वा.दुर्बलस्य.तितीक्षति ।[.तितिक्षति.]
- २०.७ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥
- २०.८ यः.परेषाम्.प्रभूः.संस्.तु.दुर्बलान्.संतितीक्षति ।[.तितिक्षति.]
- २०.८ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥
- २०.९ अत्युक्तो.हि.परैर्.यो.वै.बलवान्.संतितीक्षति ।[.तितिक्षति.]
- २०.९ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥
- २०.१० आत्मानम्.च.परम्.चैव.महतो.रक्षते.भयात् ।
- २०.१० यः.परम्.कुपितम्.ज्ञात्वा.स्वयम्.तत्रोपशाम्यति ॥
- २०.११ उभयोश्.चरते.सो.अर्थम्.आत्मनस्य.परस्य.च ।
- २०.११ यः.परम्.कुपितम्.ज्ञात्वा.स्वयम्.तत्रोपशाम्यति ॥
- २०.१२ उभार्थे.चरमाणम्.तम्.ह्य्.आत्मनस्य.परस्य.च ।
- २०.१२ अबलम्.मन्यते.बालो.धर्मेष्व्.अवविचक्षणः ॥
- २०.१३ जयम्.हि.मन्यते.बालो.वचोभिः.परुषैर्.वदन् ।
- २०.१३ नित्यम्.इव.जयस्.तस्य.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.]
- २०.१४ श्रेष्ठस्य.वाक्यम्.क्षमते.भयेन.संरम्भ.हेतोः.सदृशस्य.चैव ।
- २०.१४ यो.वै.निहीनस्य.वचः.क्षमेत.ताम्.उत्तमाम्.क्षान्तिम्.इहाहुर्.आर्याः ॥
- २०.१५ क्रुद्धो.वाचम्.न.भाषेत.परिषत्स्व्.अथ.वा.मिथः ।
- २०.१५ क्रोधाभिभूतः.पुरुषः.स्वम्.अर्थम्.हि.न.बुध्यते ॥
- २०.१६ सत्यम्.वदेन्.न.च.क्रुध्येद्.दद्याद्.अल्पाद्.अपि.स्वयम् ।
- २०.१६ स्थानैर्.एभिस्.त्रिभिर्.युक्तो.देवानाम्.अन्तिकम्.व्रजेत् ॥
- २०.१७ शान्तस्य.हि.कुतः.क्रोधो.दान्तस्य.सम.जीविनः ।
- २०.१७ सम्यग्.आज्ञा.विमुक्तस्य.क्रोधो.नास्ति.प्रजानतः ॥
- २०.१८ तस्यैव.पापम्.भवति.यः.क्रुद्धे.क्रुध्यते.पुनः ।
- २०.१८ क्रुद्धेष्व्.अक्रुद्धमानस्.तु.संग्रामम्.दुर्जयम्.जयेत् ॥[.अक्रुधमानस्.]?
- २०.१९ अक्रोधेन.जयेत्.क्रोधम्.असाधुम्.साधुना.जयेत् ।
- २०.१९ जयेत्.कदर्यम्.दानेन.सत्येन.त्व्.अनृतम्.जयेत् ॥
- २०.२० अक्रुद्धस्य.कुतः.क्रोधो.दान्तस्य.सम.जीविनः ।
- २०.२० सम्यग्.आज्ञा.विमुक्तस्य.क्रोधस्.तस्य.न.विद्यते ॥
- २०.२१ अक्रोधश्.चाविहिंसा.च.वसत्य्.आर्येषु.सर्वदा ।
- २०.२१ सदा.पाप.जने.क्रोधस्.तिष्ठति.पर्वतो.यथा ॥
- २०.२२ यस्.त्व्.इहोत्पतितम्.क्रोधम्.रथम्.भ्रान्तम्.इव.धारयेत् ।
- २०.२२ वदामि.सारथिम्.तम्.तु.रश्मि.ग्राहो.अयम्.अन्यथा ॥
उद्दानम्
सम्पाद्यताम्- २०: श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः ।
- २०: उदकम्.पुष्पम्.अश्वश्.च.सह.क्रोधेन.ते.दशः ॥
तथागत.वर्ग
सम्पाद्यताम्- २१.१ सर्वाभिभूः.सर्वविद्.एव.चास्मि.सर्वैश्.च.धर्मैः.सततम्.न.लिप्तः ।
- २१.१ सर्वम्.जहः.सर्व.भयाद्.विमुक्तः.स्वयम्.ह्य्.अभिज्ञाय.कम्.उद्दिशेयम् ॥
- २१.२ कम्.उद्दिशेयम्.त्व्.असमो.ह्य्.अतुल्यः.स्वयम्.प्रवक्ता.ह्य्.अधिगम्य.बोधिम् ।
- २१.२ तथागतो.देव.मनुष्य.शास्ता.सर्वज्ञताम्.प्राप्य.बलैर्.उपेतः ॥
- २१.३ अहम्.हि.लोकेष्व्.अरहन्न्.अहम्.लोकेष्व्.अनुत्तरः.सदेवकेषु.लोकेषु.चाहम्.माराभिभूर्.जिनः ॥
- २१.४ आचार्यो.मे.न.वै.कश्चित्.सदृशस्.च.न.विद्यते ।
- २१.४ एको.अस्मिन्.लोके.सम्बुद्धः.प्राप्तः.सम्बोधिम्.उत्तमाम् ॥
- २१.५ जिना.हि.मादृशा.ज्ञेया.ये.प्राप्ता.ह्य्.आस्रव.क्षयम् ।
- २१.५ जिता.मे.पापका.धर्मास्.ततो.अहम्.उपगा.जिनः ॥
- २१.६ बाराणसीम्.गमिष्यामि.हनिष्येऽमृत.दुन्दुभिम् ।
- २१.६ धर्म.चक्रम्.प्रवर्तयिष्ये.लोकेष्व्.अप्रतिवर्तितम् ॥
- २१.७ न.हि.सन्तः.प्रकाश्यन्ते.विदित्वा.लोक.पर्यायम् ।
- २१.७ आदेशयन्तो.विरजः.पदम्.शान्त.मनीषिणः ॥
- २१.८ नदन्तीह.महा.वीरः.सद्.धर्मेण.तथागताः ।
- २१.८ धर्मेण.नदमानानाम्.के.त्व्.असूयेद्.विजानकाः ॥
- २१.९ ये.ध्यान.प्रसृता.धीरा.नैष्क्रम्योपशमे.रताः ।
- २१.९ देवापि.स्पृहयन्त्य्.एषाम्.बुद्धानाम्.श्रीमताम्.सदा ॥
- २१.१० तेषाम्.देवा.मनुष्याश्.च.सम्बुद्धानाम्.यशस्विनाम् ।
- २१.१० स्पृहयन्त्य्.आशु.बुद्धीनाम्.शरीरान्तिम.धारिणाम् ॥
- २१.११ ये.चाभ्यतीताः.सम्बुद्धा.ये.च.बुद्धा.ह्य्.अनागताः ।
- २१.११ यश्.चाप्य्.एतर्हि.सम्बुद्धो.बहूनाम्.शोक.नाशकः ॥
- २१.१२ सर्वे.सद्.धर्म.गुरवो.व्याहार्षु.विहरन्ति.च ।
- २१.१२ अथापि.विहरिष्यन्ति;एषा.बुद्धेषु.धर्मता ॥
- २१.१३ तस्माद्.इहात्म.कामेन.माहात्म्यम्.अभिकाङ्क्षता ।
- २१.१३ सद्.धर्मो.गुरु.कर्तव्यः.स्मरता.बुद्ध.शासनम् ॥
- २१.१४ न.श्रद्धास्यन्ति.वै.ये.तु.नरा.बुद्धस्य.शासनम् ।
- २१.१४ व्यसनम्.ते.गमिष्यन्ति.वणिजो.राक्षसीष्व्.इव ॥
- २१.१५ श्रद्धास्यन्ति.तु.ये.नित्यम्.नरा.बुद्धस्य.शासनम् ।
- २१.१५ स्वस्तिना.ते.गमिष्यन्ति.वालाहेनैव.वाणिजाः ॥
- २१.१६ तथागतम्.बुद्धम्.इह.स्वयम्भुवम्.द्वौ.वै.वितर्कौ.बहुलम्.समुदाचरेते ।
- २१.१६ क्षेमस्.तथैव.प्रविवेक.युक्तस्.तमो.नुदम्.पार.गतम्.महर्षिम् ॥
- २१.१७ प्राप्तः.स.चार्यो.वशिताम्.अशेषाम्.विश्वोत्तरः.सर्व.भयाद्.विमुक्तः ।
- २१.१७ तृष्णा.प्रहीणो.विमलो.निराशश्.चालोकयन्.लोक.हिताय.सत्त्वान् ॥
- २१.१८ शैले.यथा.पर्वत.मूर्धनि.स्थितो.यथैव.पश्येज्.जनताम्.समन्तात् ।
- २१.१८ तथा.ह्य्.असौ.धर्म.मयम्.सुमेधाः.प्रासादम्.आरुह्य.समन्त.चक्षुः ।
- २१.१८ f: शोकाभिभूताम्.जनताम्.अशोको.अद्राक्षीद्.इमाम्.जाति.जराभिभूताम् ॥
श्रुतवर्ग
सम्पाद्यताम्- २२.१ साधु.श्रुतम्.सुचरितम्.साधु.चाप्य्.अनिकेतता ।
- २२.१ प्रदक्षिणम्.प्रव्रज्या.च.श्रामण्यस्यानुलोमिकम् ॥
- २२.२ बाला;इहाविजानन्तश्.चरन्ति.ह्य्.अमरा;इव ।
- २२.२ विजानताम्.तु.सद्.धर्मम्.आतुरस्यैव.शर्वरी ॥
- २२.३ यथा.ह्य्.अगारम्.सुच्छन्नम्.प्रविश्य.तमसा.स्फुटम् ।[.सु.छ्हन्नम्.]
- २२.३ विद्यमानानि.रूपाणि.चक्षुष्मान्.हि.न.पश्यति ॥
- २२.४ तथैवेह.नरो.नित्यम्.ज्ञानवान्.अपि.यो.भवेत् ।
- २२.४ अश्रुत्वा.न.विजानाति.धर्मान्.कल्याण.पापकान् ॥
- २२.५ प्रदीपेन.तु.रूपाणि.चक्षुष्मान्.पश्यते.यथा ।
- २२.५ एवम्.श्रुत्वा.विजानाति.धर्मान्.कल्याण.पापकान् ॥
- २२.६ श्रुत्वा.धर्मान्.विजानाति.श्रुत्वा.पापम्.न.सेवते ।
- २२.६ श्रुत्वा.ह्य्.अनर्थम्.वर्जयते.श्रुत्वा.प्राप्नोति.निर्वृतिम् ॥
- २२.७ बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः ।
- २२.७ शीलतस्.तम्.विगर्हन्ति.नास्य.सम्पद्यते.श्रुतम् ॥
- २२.८ अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
- २२.८ शीलतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.श्रुतम् ॥
- २२.९ अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः ।
- २२.९ उभयतस्.तम्.विगर्हन्ति.नास्य.सम्पद्यते.व्रतम् ॥
- २२.१० बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
- २२.१० उभयतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.व्रतम् ॥
- २२.११ बहु.श्रुतम्.धर्म.धरम्.प्राज्ञम्.नित्यम्.समाहितम् ।
- २२.११ निष्कम्.जाम्बुनदस्यैव.कस्.तम्.निन्दितुम्.अर्हति ॥
- २२.१२ ये.मे.रूपेण.मिन्वन्ति.ये.मे.घोषेण.चान्वगाः ।
- २२.१२ छन्द.राग.वशोपेता.न.माम्.जानन्ति.ते.जनाः ॥
- २२.१२_ ये.रूपेण.प्रमिण्वन्ति.माम्.घोषेणानुयान्ति.च ।
- २२.१२_ छन्द.राग.वशोपेता.न.माम्.जानन्ति.ते.जनाः ॥
- २२.१३ आध्यात्मम्.च.न.जानाति.बहिर्धा.तु.विपश्यति ।
- २२.१३ बहिर्धा.फल.दर्शी.तु.स.वै.घोषेण.नीयते ॥
- २२.१४ आध्यात्मम्.तु.प्रजानाति.बहिर्धा.च.न.पश्यति ।
- २२.१४ आध्यात्म.फल.दर्शी.तु.स.वै.घोषेण.नीयते ॥
- २२.१५ आध्यात्मम्.च.न.जानान्ति.बहिर्धा.च.न.पश्यति ।
- २२.१५ उभयेऽफल.दर्शी.तु.स.वै.घोषेण.नीयते ॥
- २२.१६ आध्यात्मम्.च.प्रजानाति.बहिर्धा.च.विपश्यति ।
- २२.१६ स.तु.निह्सरण.प्रज्ञो.न.वै.घोषेण.नीयते ॥
- २२.१७ बहु.शृणोति.श्रोत्रेण.बहू.पश्यति.चक्षुषा ।
- २२.१७ न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥
- २२.१७_ श्रोत्रेण.श्रूयते.बहु.दृश्यते.बहु.चक्षुषा ।
- २२.१७_ न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥
- २२.१८ विज्ञान.साराणि.सुभाषितानि.ज्ञातम्.श्रुतम्.चैव.समाधि.सारम् ।
- २२.१८ न.तस्य.विज्ञान.श्रुतम्.महार्थम्.यः.साहसो.भवति.नरः.प्रमत्तः ॥
- २२.१९ धर्मे.तु.ये.ह्य्.आर्य.निवेदिते.रतास्.तदा.चरन्ते.वचसा.यदाहुः ।
- २२.१९ ते.क्षान्ति.सौरत्य.समाधि.गोचराः.श्रुतस्य.बुद्धेर्.अपि.सारम्.अध्यगुः ॥
आत्मवर्ग
सम्पाद्यताम्- २३.१ सुभाषितस्य.शिक्षेत.श्रमणोपासनस्य.च ।
- २३.१ एकासनस्य.च.रहश्.चित्त.व्युपशमस्य.च ॥[.एकासनस्य.]
- २३.२ एकासनम्.त्व्.एक.शय्याम्.एक.चर्याम्.अतन्द्रितः ।
- २३.२ रमयेच्.चैकम्.आत्मानम्.वनेष्व्.एकः.सदा.वसेत् ॥
- २३.३ यः.सहस्रम्.सहस्राणाम्.संग्रामे.द्विषताम्.जयेत् ।
- २३.३ यश्.चात्मानम्.जयेद्.एकम्.संग्रामो.दुजयः.स.वै ॥
- २३.४ आत्मा.ह्य्.अस्य.जितः.श्रेयान्.यच्.चेयम्.इतराः.प्रजाः ।[यच्.चेयम्.]
- २३.४ आत्म.दान्तस्य.पुरुषस्य.नित्यम्.संवृत.चारिणः ॥
- २३.५ न.देवा.नापि.गन्धर्वा.न.मारो.ब्राह्मणा.सह ।
- २३.५ जितस्यापजितम्.कुर्युस्.तथा.प्राज्ञस्य.भिक्षुणः ॥
- २३.६ आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् ।
- २३.६ ततो.अन्यम्.अनुशासीत.............यथा.ह्य्.अः. ॥
- २३.७ आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् ।
- २३.७ ततो.अन्यम्.अनुशासीत.न.क्लिश्येत.हि.पण्डितः ॥
- २३.८ आत्मानम्.हि.तथा.कुर्यात्.शासीतान्यम्.यथा.स्वयम् ।
- २३.८ सुदान्तो.बत.मे.नित्यम्.आत्मा.स.हि.सुदुर्दमः ॥
- २३.९ आत्मानम्.हि.तथा.कुर्यात्.शासीतान्यम्.यथा.स्वयम् ।
- २३.९ आत्मा.दान्तो.मया.नित्यम्.आत्म.दान्तो.हि.पण्डितः ॥
- २३.१० आत्मनो.अर्थम्.परार्थेन.बहुनापि.न.हापयेत् ।
- २३.१० आत्मार्थम्.परमम्.ज्ञात्वा.स्वकार्थ.परमो.भवेत् ॥
- २३.११ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.११ आत्मना.हि.सुदान्तेन.नाथम्.लभति.पण्डितः ॥
- २३.१२ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.१२ आत्मना.हि.सुदान्तेनार्थम्.लभति.पण्डितः ॥
- २३.१३ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.१३ आत्मना.हि.सुदान्तेन.धर्मम्.लभति.पण्डितः ॥
- २३.१४ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.१४ आत्मना.हि.सुदान्तेन.यशो.लभति.पण्डितः ॥
- २३.१५ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.१५ आत्मना.हि.सुदान्तेन.कीर्तिम्.लभति.पण्डितः ॥
- २३.१६ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.१६ आत्मना.हि.सुदान्तेन.सुखाम्.लभति.पण्डितः ॥
- २३.१७ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.१७ आत्मना.हि.सुदान्तेन.स्वर्गम्.लभति.पण्डितः ॥
- २३.१८ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.१८ आत्मना.हि.सुदान्तेन.चिरम्.स्वर्गे.प्रतिष्ठति ॥
- २३.१९ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.१९ आत्मना.हि.सुदान्तेन.प्रज्ञाम्.लभति.पण्डितः ॥
- २३.२० आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.२० आत्मना.हि.सुदान्तेन.ज्ञाति.मध्ये.विरोचते ॥
- २३.२१ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.२१ आत्मना.हि.सुदान्तेन.शोक.मध्ये.न.शोचति ॥
- २३.२२ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.२२ आत्मना.हि.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥
- २३.२३ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.२३ आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥
- २३.२४ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.२४ आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥
- २३.२५ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
- २३.२५ आत्मना.हि.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥
पेयालवर्ग
सम्पाद्यताम्- २४.१ यच्.च.गाथा.शतम्.भाषेद्.अनर्थ.पद.संहितम् ।
- २४.१ एकम्.अर्थ.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥
- २४.२ यच्.च.गाथा.शतम्.भाषेद्.अधर्म.पद.संहितम् ।
- २४.२ एकम्.धर्म.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥
- २४.३ यच्.च.वर्ष.शतम्.जीवेद्.दुह्शीलो.ह्य्.असमाहितः ।
- २४.३ एकाहम्.जीवितम्.श्रेयः.सदा.शीलवतः.शुचेः ॥
- २४.४ यच्.च.वर्ष.शतम्.जीवेद्.दुष्प्रज्ञो.ह्य्.असमाहितः ।
- २४.४ एकाहम्.जीवितम्.श्रेयः.प्राज्ञस्य.ध्यायिनः.सदा ॥
- २४.५ यच्.च.वर्ष.शतम्.जीवेत्.कुसीदो.हीन.वीर्यवान् ।
- २४.५ एकाहम्.जीवितम्.श्रेयो.वीर्यम्.आरभतो.दृढम् ॥
- २४.६ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उदय.व्ययम् ।
- २४.६ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उदय.व्ययम् ॥
- २४.७ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.वेदना.क्षयम् ।
- २४.७ एकाहम्.जीवितम्.श्रेयः.पश्यतो.वेदना.क्षयम् ॥
- २४.८ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.आस्रव.क्षयम् ।
- २४.८ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.आस्रव.क्षयम् ॥
- २४.९ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अचलम्.पदम् ।
- २४.९ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अचलम्.पदम् ॥
- २४.१० यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अच्युतम्.पदम् ।
- २४.१० एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अच्युतम्.पदम् ॥
- २४.११ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अरजः.पदम् ।
- २४.११ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अरजः.पदम् ॥
- २४.१२ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.विरजः.पदम् ।
- २४.१२ एकाहम्.जीवितम्.श्रेयः.पश्यतो.विरजः.पदम् ॥
- २४.१३ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.दुर्दृशम्.पदम् ।
- २४.१३ एकाहम्.जीवितम्.श्रेयः.पश्यतो.दुर्दृशम्.पदम् ॥
- २४.१४ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उत्तमम्.पदम् ।
- २४.१४ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उत्तमम्.पदम् ॥
- २४.१५ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अमृतम्.पदम् ।
- २४.१५ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अमृतम्.पदम् ॥
- २४.१६ यच्.च.वर्ष.शतम्.पूर्णम्.अग्निम्.परिचरेद्.वने ।
- २४.१६ यच्.चैकम्.भावितात्मानम्.मुहूर्तम्.अपि.पूजयेत् ।
- २४.१६ f: सा.तस्य.पूजना.श्रेष्ठा.न.तद्.वर्ष.शतम्.हुतम् ॥
- २४.१७ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.१७ न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.१८ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.१८ न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.१९ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.१९ न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.२० न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.२० न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.२० न.तत्.सत्त्वानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
- २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.२० न.तत्.प्राणानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
- २४.२०ड् मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.२०ड् न.तद्.भूतानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
- २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
- २४.२० न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२१ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
- २४.२१ न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२२ मासे.मासे.सहस्रेण.यो.जयेत.समा.शतम् ।
- २४.२२ न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२३ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
- २४.२३ न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२४ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
- २४.२४ न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२५ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
- २४.२५ न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.२६ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
- २४.२६ न.तद्.सत्त्वानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
- २४.२७ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
- २४.२७ न.तत्.प्राणानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
- २४.२८ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
- २४.२८ न.तद्.भूतानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
- २४.२९ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
- २४.२९ न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥
- २४.३० यत्.किंचिद्.इष्टम्.च.हुतम्.च.लोके.संवत्सरम्.यजति.पुण्य.प्रेक्षी ।
- २४.३० सर्वम्.पि.तम्.न.चतुर्.भागम्.एत्यभिवादनम्.त्व्.ऋज्जु.गतेषु.श्रेयः ॥
मित्रवर्ग
सम्पाद्यताम्- २५.१ अश्राद्धेभिः.कदर्येभिः.पिषुनैर्.विभूति.नन्दिभिः ।
- २५.१ साख्यम्.कुर्वीत.न.प्राज्ञः.संगतिः.पापैर्.हि.पापिका ॥
- २५.२ श्राद्धेभिः.पेशलेभिश्.च.शीलवद्भिर्.बहु.श्रुतैः ।
- २५.२ साख्यम्.कुर्वीत.सप्रज्ञः.संगतिर्.भद्रैर्.हि.भद्रिका ॥?
- २५.३ न.भजेत्.पापकम्.मित्रम्.न.भजेत्.पुरुषाधमम् ।
- २५.३ भजेत.मित्रम्.कल्याणम्.भजेद्.उत्तम.पूरुषम् ॥
- २५.४ अद्धा.नराः.सेवितव्याः.श्रुताढ्याः.स्थान.चिन्तकाः ।
- २५.४ तेषाम्.हि.श्रुत्वा.तु.सुभाषितानि.विनापि.तेभ्यो.लभते.विशेषम् ॥
- २५.५ हीयति.पुरुषो.निहीन.सेवी.न.तु.खलु.हायेत.तुल्य.सेवी ।
- २५.५ श्रेष्ठम्.उपगतो.ह्य्.उपैति.श्रैष्ठ्यम्.तस्मात्.श्रेष्ठम्.इहात्मनो.भजेत ॥
- २५.६ श्रेयो.हि.लभते.नित्यम्.यः.श्रेष्ठान्.उपसेवते ।
- २५.६ प्रज्ञया.चोत्तमतमान्.शीलेनोपशमेन.च ॥
- २५.७ पूति.मत्स्यान्.कुशाग्रेण.यो.नरो.ह्य्.उपनह्यते ।
- २५.७ कुशापि.पूतिका.वान्ति.ह्य्.एवम्.पापोपसेवनाः ॥
- २५.८ तगरम्.पलाश.पत्त्रेण.यो.नरो.ह्य्.उपनह्यति ।
- २५.८ पत्त्राण्य्.अपि.सुगन्धीनि.सद्.एवम्.संगमात्.सताम् ॥
- २५.९ अकुर्वन्न्.अपि.पापानि.कुर्वाणम्.उपसेवते ।
- २५.९ शङ्कितो.भवति.पापस्यावर्णश्.चास्य.वर्धते ॥
- २५.१० संसेवमानः.पापो.हि.संस्पृष्टः.संस्पृशेत्.परान् ।
- २५.१० शरो.लिप्तः.कलापस्थान्.अलिप्तान्.उपलिम्पति ।
- २५.१० f: उपलेप.भयाद्.धीरो.नैव.पाप.सखा.भवेत् ॥
- २५.११ यादृशम्.कुरुते.मित्रम्.यादृशम्.चोपसेवते ।
- २५.११ न.चिरात्.तादृशो.भवति.संसेवा.ह्य्.अस्य.तादृशी ॥
- २५.१२ तस्मात्.फल.पुटस्यैव.दृष्ट्वा.सम्पाकम्.आत्मनः ।
- २५.१२ असन्तो.नोपसेवेत.सन्तः.सेवेत.पण्डितः ॥
- २५.१३ यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते ।
- २५.१३ न.स.धर्मम्.विजानाति.दर्वी.सूप.रसान्.इव ॥
- २५.१४ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
- २५.१४ स.वै.धर्मम्.विजानाति.जिह्वा.सूप.रसान्.इव ॥
- २५.१५ यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते ।
- २५.१५ न.स.धर्मम्.विजानाति.प्रज्ञा.ह्य्.अस्य.न.विद्यते ॥
- २५.१६ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
- २५.१६ स.वै.धर्मम्.विजानाति.प्रज्ञा.तस्य.हि.विद्यते ॥
- २५.१७ यावज्.जीवम्.पि.चेत्.बालः.पण्डितान्.पर्युपासते ।
- २५.१७ न.स.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥
- २५.१८ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
- २५.१८ स.वै.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥
- २५.१९ एकम्.अर्थ.पदम्.प्रोक्तम्.पण्डितस्यार्थ.कारकम् ।
- २५.१९ बालस्य.तु.न.कृत्याय.स्यात्.सर्वम्.बुद्ध.भाषितम् ॥
- २५.२० बालः.पद.सहस्रेण.पदम्.एकम्.न.बुध्यते ।
- २५.२० पदेनैकेन.मेधावी.पदानाम्.विन्दते.शतम् ॥
- २५.२१ अमित्रः.पण्डितः.श्रेयान्.न.तु.बालो.अनुकम्पकः ।
- २५.२१ बालो.अनुकम्पमानो.हि.नरकान्.उपकर्षति ॥
- २५.२२ यो.जानीयाद्.अहम्.बाल;इति.बालः.स.पण्डितः ।
- २५.२२ बालः.पण्डित.मानी.तु.बाल;एव.निरुच्यते ॥
- २५.२३ यच्.च.बालः.प्रशंसेत.यच्.च.निन्देत.पण्डितः ।
- २५.२३ निन्दा.तु.पण्डितात्.श्रेष्ठा.न.तु.बालात्.प्रशंसना ॥
- २५.२४ बालम्.न.पश्येत्.शृणुयान्.न.च.नो.तेन.संवसेत् ।
- २५.२४ दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रेणैव.सर्वशः ।
- २५.२४ f: धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः ॥
- २५.२५ धीरम्.प्राज्ञम्.निषेवेत.शीलवन्तम्.बहु.श्रुतम् ।
- २५.२५ धौरेयम्.जव.सम्पन्नम्.चन्द्रम्.तारा.गणा;इव ॥[.धैरेयम्.]?
निर्वाणवर्ग
सम्पाद्यताम्- २६.१ कूर्मो.यथाङ्गानि.स्वके.कपाले.समादधीतात्म.वितर्कितानि ।
- २६.१ अनिह्श्रितो.ह्य्.अन्यम्.अहेठयानः.परिनिर्वृतो.नापवदेत.कंचित् ॥
- २६.२ क्षान्तिः.परमम्.तपस्.तितीक्षा.निर्वाणम्.परमम्.वदन्ति.बुद्धाः ।[.तितिक्षा.]
- २६.२ न.हि.प्रव्रजितः.परोपतापी.श्रमणो.भवति.परम्.विहेठयन्.वै ॥
- २६.३ मा.कंचित्.परुषम्.ब्रूथः.प्रोक्ताः.प्रतिवदन्ति.तम् ।
- २६.३ दुह्खा.हि.संरम्भ.कथाः.प्रतिदण्डम्.स्पृशन्ति.हि ॥
- २६.४ यद्.ईरयसि.हात्मानम्.कंसीवोपहता.सदा ।
- २६.४ जाति.मरण.संसारम्.चिरम्.ह्य्.अनुभविष्यसि ॥
- २६.५ न.त्व्.ईरयसि.हात्मानम्.कंसिर्.नोपहता.यथा ।
- २६.५ एष.प्राप्तो.असि.निर्वाणम्.संरम्भस्.ते.न.विद्यते ॥
- २६.६ आरोग्य.परमा.लाभा.संतुष्टि.परमम्.धनम् ।
- २६.६ विश्वास.परमम्.मित्रम्.निर्वाण.परमम्.सुखम् ॥
- २६.७ क्षुधा.परम.रोगाणाम्.संस्कारा.दुह्खम्.एव.तु ।[.परमा.]?
- २६.७ एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥
- २६.८ अल्पकाः.सुगतिम्.यान्ति.बहवो.यान्ति.दुर्गतिम् ॥
- २६.८ एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥
- २६.९ सहेतुम्.सुगतिम्.यान्ति.सहेतुम्.यान्ति.दुर्गतिम् ।
- २६.९ सहेतुम्.परिनिर्वान्ति.ह्य्.एवम्.एतत्.सहेतुकम् ॥
- २६.१० गतिर्.मृगाणाम्.प्रवणम्.आकाशम्.पक्षिणाम्.गतिः ।
- २६.१० धर्मो.गतिर्.विभागीनाम्.निर्वाणम्.त्व्.अर्हताम्.गतिः ॥
- २६.१० ....... ।
- २६.१० ....... ।
- २६.१० ..........न.संवसेत् ।
- २६.१० ................... ।
- २६.११ न.हीदम्.हीन.वीर्येण.मन्देनाप्य्.अविजानता ।
- २६.११ निर्वाणम्.शक्यम्.अधिगन्तुम्.सर्व.ग्रन्थ.प्रदालनम् ॥
- २६.११ ..तः.कामेषु.नि............ ।
- २६.११ ........................... ।
- २६.१२ सिञ्च.भिक्षोर्.इमाम्.नावम्.सिक्ता.लघ्वी.भविष्यति ।
- २६.१२ हित्वा.रागम्.च.दोषम्.च.ततो.निर्वाणम्.एष्यसि ॥
- २६.१३ अभूत्.पूर्वे.ततो.नाभून्.नाभूत्.पूर्वे.ततो.ह्य्.अभूत् ।
- २६.१३ न.चाभून्.न.भविष्यति.न.वाप्य्.एतर्हि.विद्यते ॥
- २६.१४ दुर्दृशम्.सत्यम्.अचलम्.सुदृशम्.प्रतिविध्यतः ।
- २६.१४ तृष्णा.क्षयम्.पश्यतो.हि.दुह्खस्यान्तो.निरुच्यते ॥
- २६.१५ छित्त्वा.तृष्णाम्.प्रशाम्येह.रजः.सर्वम्.समाहितः ।
- २६.१५ विशोषयित्वा.सरिताम्.दुह्खस्यान्तो.निरुच्यते ॥
- २६.१६ भित्त्वा.कायम्.च.संज्ञाम्.च.वेदनाम्.व्युपशाम्य.च ।
- २६.१६ विज्ञानास्त.गमम्.लब्ध्वा.दुह्खस्यान्तो.निरुच्यते ॥
- २६.१७ दृष्टे.तु.दृष्ट.मात्रेण.श्रुते.च.श्रुत.मात्रता ।
- २६.१७ मते.तथैव.विज्ञाते.दुह्खस्यान्तो.निरुच्यते ॥
- २६.१८ एने.मेमे.तथा.दप्फे.दडप्फे.चेति.बुध्यतः ।
- २६.१८ सर्वस्माद्.विरतिः.पापाद्.दुह्खस्यान्तो.निरुच्यते ॥
- २६.१९ माशा.तुषा.संशमा.च.सर्वत्र.विरडी.तथा ।
- २६.१९ सर्वस्माद्.विरतिः.पापाद्.दुह्खस्यान्तो.निरुच्यते ॥
- २६.२० अनिह्श्रितस्याचलितम्.प्रस्रब्धिश्.चेह.विद्यते ।
- २६.२० न.गतिर्.न.च्युतिश्.चैव.दुह्खस्यान्तो.निरुच्यते ॥
- २६.२१ अजाते.सति.जातस्य.वदेन्.निह्सरणम्.सदा ।
- २६.२१ असंस्कृतम्.च.सम्पश्यन्.संस्कृतात्.परिमुच्यते ॥
- २६.२२ जातम्.भूतम्.समुत्पन्नम्.कृतम्.संस्कृतम्.अध्रुवम् ।
- २६.२२ जरा.मरण.संघातम्.मोष.धर्म.प्रलोपनम् ।
- २६.२२ f: आहार.नेत्री.प्रभवम्.नालम्.तद्.अभिनन्दितुम् ॥
- २६.२३ तस्य.निह्ह्सरणम्.शान्तम्.अतर्कावचरम्.पदम् ।[.अतर्कावचरम्.]
- २६.२३ निरोधो.दुह्ख.धर्माणाम्.संस्कारोपशमम्.सुखम् ॥
- २६.२४ अभिजानाम्य्.अहम्.स्थानम्.यत्र.भूतम्.न.विद्यते ।
- २६.२४ नाकाशम्.न.च.विज्ञानम्.न.सूर्यश्.चन्द्रमा.न.च ॥
- २६.२५ नैवागतिर्.न.च.गतिर्.नोपपत्तिश्.च्युतिर्.न.च ।
- २६.२५ अप्रतिष्ठम्.अनालम्बम्.दुह्खान्तः.स.निरुच्यते ॥
- २६.२६ यत्र.नापो.न.पृथिवी.तेजो.वायुर्.न.गाहते ।
- २६.२६ न.तत्र.शुक्ला.द्योतन्ति.तमस्.तत्र.न.विद्यते ॥
- २६.२७ न.तत्र.चन्द्रमा.भाति.नादित्यो.वै.प्रकाश्यते ।
- २६.२७ यथा.त्व्.इहात्मना.वेत्ति.मुनिर्.मौनेयम्.आत्मनः ।
- २६.२७ f: अथ.रूपाद्.अरूपाच्.च.सर्व.दुह्खात्.प्रमुच्यते ॥
- २६.२८ निष्ठा.गतो.ह्य्.असंत्रासी.न.विकन्थी.न.कौकृतिः ।[.विकण्ठी.]?
- २६.२८ अच्छेत्ता.भव.शल्यानाम्.अन्तिमो.अस्य.समुच्छ्रयः ॥
- २६.२९ एषा.हि.परमा.निष्ठा.शान्तम्.पदम्.अनुत्तरम् ।
- २६.२९ क्षयः.सर्व.निमित्तानाम्.प्रदान.पदम्.अच्युतम् ॥
- २६.३० तुल्यम्.अतुल्यम्.च.सम्भवम्.भव.संस्कारम्.अवासृजन्.मुनिः ।
- २६.३० आध्यात्म.रतः.समाहितो.ह्य्.अभिनत्.कोशम्.इवाण्ड.सम्भवम् ॥
- २६.३१ जयते.दानम्.धर्म.दानम्.च.सर्वम्.जयते.रतिम्.धर्म.रतिंश्.च.सर्वाम् ।
- २६.३१ जयते.बलम्.क्षान्ति.बलम्.च.सर्वम्.जयते.सुखम्.सर्व.तृष्णा.निरोधः ॥
- २६.३१_ सर्वम्.दानम्.धर्म.दानम्.जिनाति.सर्वाम्.रतिम्.धर्म.रतिम्.जिनाति ।
- २६.३१_ सर्वम्.बलम्.क्षान्ति.बलम्.जिनाति.तृष्णा.क्षयः.सर्व.सुखम्.जिनाति ॥
पश्यवर्ग
सम्पाद्यताम्- .२७.१ सुपश्यम्.पर.वद्यम्.स्याद्.आत्म.वद्यम्.तु.दुर्दृशम् ।
- .२७.१ परः.परस्य.वद्यानि.तूत्पुनाति.बुसम्.यथा ॥
- .२७.२ पर.वद्यानुदर्शिनो.नित्यावध्यान.संज्ञिनः ।
- .२७.२ वामा.धर्माः.प्रवर्धन्ते.स.ह्य्.आराद्.धर्म.दर्शनात् ॥
- .२७.३ अह्रीकेन.सुजीवम्.स्यात्.काक.शूरेण.ध्वाङ्क्षिणा ।
- .२७.३ प्रस्कन्दिना.प्रगल्भेन.संक्लिष्टम्.त्व्.इह.जीवते ॥
- .२७.४ ह्रीमता.त्व्.इह.दुर्जीवम्.नित्यम्.शुचि.गवेषिणा ।
- .२७.४ सुलीनेनाप्रगल्भेन.शुद्धाजीवेन.पश्यता ॥
- .२७.५ अन्ध.भूतो.ह्य्.अयम्.लोकस्.तनुको.अत्र.विपश्यतः ।
- .२७.५ शकुन्तो.जाल.मुक्तैव.ह्य्.अल्पम्.स्वर्गेषु.मोदते ॥
- .२७.६ मोष.सम्बन्धनो.लोको.भव्य.रूप;इव.दृश्यते ।
- .२७.६ उपधी.बन्धना.बालास्.तमसा.परिवारिताः ।
- .२७.६ f: असत्.सद्.इव.दृश्यते.पश्यतो.नास्ति.किंचनम् ॥
- .२७.७ अहम्.कार.सृता.मर्त्याः.पर.कारोपसंहिताः ।
- .२७.७ एतद्.एके.न.जानन्ति.पश्यन्ति.न.हि.शल्यतः ॥
- .२७.८ एतत्.तु.शल्यम्.प्रतियत्य.पश्यतो.ह्य्.अध्यवसिता.यत्र.प्रजाः.प्रसक्ताः ।
- .२७.८ अहम्.करोमीति.न.तस्य.हिंस्यात्.परः.करोतीति.न.तस्य.हिंस्यात् ॥
- .२७.९ मानोपेतो.ह्य्.अयम्.लोको.मान.सक्तः.सदा.स्थितः ।
- .२७.९ दृष्टिभिश्.चैव.संरब्धः.संसारम्.नातिवर्तते ॥
- .२७.१० यत्.प्राप्तम्.यच्.च.प्राप्तव्यम्.रजः.कीर्णम्.इदम्.द्वयम् ।
- .२७.१० आतुर्यम्.इति.तम्.ज्ञात्वा.जह्याद्.विद्वान्.समाहितः ॥
- .२७.११ शिक्षा.साराश्.च.ये.सत्त्वा.जीविनो.ब्रह्म.जीविनः ।
- .२७.११ उपस्थान.रतये.च.स;एको.अन्तः.प्रकीर्तितः ॥
- .२७.१२ भोक्तव्याः.शुचयः.कामा.न.दोषस्.तेषु.विद्यते ।
- .२७.१२ य;एवम्.दर्शिनो.बाला.द्वितीयो.अन्तः.प्रकीर्तितः ॥
- .२७.१३ एताव्.अन्ताव्.अनज्ञाय.त्व्.अतिलीयन्ति.बालिशः । [.अनज्ञाय.]?
- .२७.१३ अपरे.त्व्.अतिधावन्ति.चक्षुष्मांस्.ताम्.प्रपश्यति ॥
- .२७.१४ एताव्.अन्तौ.विदित्वा.तु.नाभवंस्.तत्र.ये.बुधाः ।
- .२७.१४ न.चैव.तेन.मन्यन्ते.वर्त्मस्.तेषाम्.न.विद्यते ॥
- .२७.१५ यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् ।
- .२७.१५ एवम्.लोकम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति ॥
- .२७.१६ यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् ।
- .२७.१६ एवम्.कायम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति ॥
- .२७.१७ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् ।
- .२७.१७ यत्र.बालाः.प्रमुह्यन्ते.सङ्गो.नास्ति.प्रजानताम् ॥
- .२७.१७ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् ।
- .२७.१७ यत्र.बाला.विषीदन्ति.पण्डितो.अत्र.विरज्यते ॥
- .२७.१८ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् ।
- .२७.१८ यत्र.बाला.विषीदन्ति.यथा.पङ्के.जरद्गवः ॥
- .२७.१९ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् ।
- .२७.१९ यत्र.बालाः.प्रमुह्यन्ते.पण्डितो.अत्र.विरज्यते ।
- .२७.२० पश्य.चित्र.कृतम्.बिम्बम्.अरुकम्.काय.संज्ञितम् ।
- .२७.२० आतुरम्.मोष.संकल्पम्.यस्य.नास्ति.ध्रुव.स्थितिः ॥
- .२७.२० ................ ।
- .२७.२० ..........सङ्गो.नास्ति.प्रजानताम् ॥
- .२७.२० ................. ।
- .२७.२० ................. ।
- .२७.२१ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा ।
- .२७.२१ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥
- .२७.२२ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा ।
- .२७.२२ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥
- .२७.२२ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ ।
- .२७.२२ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥
- .२७.२२ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ ।
- .२७.२२ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥
- .२७.२२ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा ।
- .२७.२२ अलम्.बालस्य.मोहाय................ ।
- .२७.२२ड् पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा ।
- .२७.२२ड् अलम्.बालस्य.मोहाय................ ।
- .२७.२३ अष्टापदी.कृताः.केशा.नेत्रे.चाञ्जन.रञ्जिते ।
- .२७.२३ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥
- .२७.२४ अष्टापदी.कृताः.केशा.नेत्रे.चाञ्जन.रञ्जिते ।
- .२७.२४ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥
- .२७.२४ ................................ ।
- .२७.२४ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥
- .२७.२४ ............................... ।
- .२७.२४ अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥
- .२७.२५ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः ।
- .२७.२५ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥
- .२७.२६ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः ।
- .२७.२६ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥
- .२७.२६ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ ।
- .२७.२६ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥
- .२७.२६ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ ।
- .२७.२६ अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥
- .२७.२६ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः ।
- .२७.२६ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥
- .२७.२६ड् अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः ।
- .२७.२६ड् अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥
- .२७.२७ कामेषु.सक्ताः.सततम्.हि.मूढाः.सम्योजने.वद्यम्.अपश्यमानाः ।
- .२७.२७ न.जातु.सम्योजन.सङ्ग.सक्ता.ह्य्.ओघम्.तरेयुर्.विपुलम्.महान्तम् ॥
- .२७.२८ ऊर्ध्वम्.चाधः.सर्वतो.वीत.रागो.ह्य्.अयम्.अहम्.अस्मीति.च.नानुपश्यन् ।
- .२७.२८ एवम्.विमुक्तो.हि.तरेद्.इहौघम्.अतीर्ण.पूर्वम्.ह्य्.अपुनर्.भवाय ॥
- .२७.२९ यो.निर्वनगैर्.विमोक्षितः.संवन.मुक्तो.वनम्.एव.धावति । [.निर्वनगैर्.]?
- .२७.२९ तम्.पश्यथ.पुद्गलम्.त्व्.इमम्.मुक्तो.बन्धनम्.एव.धावति ॥
- .२७.३० नेलाङ्गः.श्वेत.संछन्न;एकारो.वर्तते.रथः ।[.नीलाङ्गः.]?
- .२७.३० अनिघम्.पश्यतायान्तम्.छिन्न.योक्त्रम्.अबन्धनम् ॥
- .२७.३१ बहवः.शरणम्.यान्ति.पर्वतांश्.च.वनानि.च ।
- .२७.३१ आरामाम्.वृक्ष.चैत्यांश्.च.मनुष्या.भय.तर्जिताः ॥
- .२७.३२ नैतद्द्.हि.शरणम्.क्षेमम्.नैतत्.शरणम्.उत्तमम् ।
- .२७.३२ नैतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते ॥
- .२७.३३ यस्.तु.बुद्धम्.च.धर्मम्.च.संघम्.च.शरणम्.गतः ।
- .२७.३३ चत्वारि.चार्य.सत्यानि.प्रज्ञया.पश्यते.यदा ॥
- .२७.३४ दुह्खम्.दुह्ख.समुत्पादम्.दुह्खस्य.समतिक्रमम् ।
- .२७.३४ आर्यम्.चाष्टाङ्गिकम्.मार्गम्.दुह्खोपशम.गामिनम् ॥
- .२७.३५ एतद्द्.हि.शरणम्.क्षेमम्.एतत्.शरणम्.उत्तमम् ।
- .२७.३५ एतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते ॥
- .२७.३६ पश्यतः.पश्यते.पश्यम्.पश्यते.चाप्य्.अपश्यतः ।
- .२७.३६ अपश्यन्.पश्यते.नैव.पश्यतो.नाप्य्.अपश्यतः ॥
- .२७.३७ अनुपश्यनया.च.पश्यना.नानात्वम्.हि.तयोर्.इहोच्यते ।
- .२७.३७ दिवसस्य.यथैव.रात्रिभिः.संधानम्.च.तयोर्.न.विद्यते ॥
- .२७.३८ अनुपश्यति.चेन्.न.पश्यति.त्व्.अथ.चेत्.पश्यति.नानुपश्यति ।
- .२७.३८ पश्यन्न्.अयम्.नानुपश्यति.त्व्.अनुपश्यंस्.तु.सदा.न.पश्यति ॥
- .२७.३९ पश्यन्.नु.किम्.नानुपश्यते.किम्.अपश्यन्.नानुपश्यते.सदा ।
- .२७.३९ कस्मिन्.सति.हानुपश्यना.कस्मिन्.न.सति.नानुपश्यना ॥
- .२७.४० दुह्खम्.यद्.अयम्.न.पश्यति.तद्.अपश्यन्न्.आत्मेति.पश्यति ।
- .२७.४० दुह्खम्.तु.यथा.तथा.प्रपश्यन्न्.अयम्.आत्मेति.सदानुपश्यति ॥
- .२७.४१ येनावृतः.पृथग्.जनः.संस्कारान्.दुह्खम्.न.पश्यति ।
- .२७.४१ तस्मिन्.सति.हानुपश्यना.विगतेऽस्मिन्.विगतानुपश्यना ॥
पापवर्ग
सम्पाद्यताम्- २८.१ सर्व.पापस्याकरणम्.कुशलस्योपसम्पदः ।
- २८.१ स्व.चित्त.पर्यवदनम्.एतद्.बुद्धस्य.शासनम् ॥
- २८.२ ददतः.पुण्यम्.प्रवर्धते.वैरम्.न.क्रियते.च.सम्यमात् ।
- २८.२ कुशली.प्रजहाति.पापकम्.राग.दोष.मोह.क्षयात्.तु.निर्वृतिः ॥
- २८.३ सार्धम्.चरन्न्.एककः.सदा.मिश्रो.ह्य्.अन्य.जनेन.वेदकः ।
- २८.३ कुशली.प्रजहाति.पापकम्.क्रौञ्चः.क्षीरपको.यथोदकम् ॥
- २८.४ दृष्ट्वा.ह्य्.आदीनवम्.लोके.ज्ञात्वा.धर्म.निरौपधिम् ।
- २८.४ आर्यो.न.रमते.पापे.पापो.न.रमते.शुभे ॥
- २८.५ प्रविवेक.रसम्.ज्ञात्वा.रसम्.चोपशमस्य.वै ।
- २८.५ निर्ज्वरो.भवति.निष्पापो.धर्म.प्रीति.रसम्.पिबन् ॥
- २८.६ अनवस्रुत.चित्तस्य.त्व्.अनुनहन.चेतसः ।
- २८.६ पुण्य.पाप.प्रहीणस्य.नास्ति.दुर्गतितो.भयम् ॥
- २८.७ निषेद्धारम्.प्रवक्तारम्.यज्.जानेद्.वद्य.दर्शिनम् ।
- २८.७ निगृह्य.वादिनम्.धीरम्.तादृशम्.सततम्.भजेत् ।
- २८.७ f: तादृशम्.भजमानस्य.श्रेयो.भवति.न.पापकम् ॥
- २८.८ उपशान्तो.ह्य्.उपरतो.मन्द.भाषी.ह्य्.अनुद्धतः ।
- २८.८ धुनाति.पापकान्.धरमान्.द्रुम.पत्त्रम्.यथानिलः ॥
- २८.९ यो.ह्य्.अप्रदुष्टस्य.नरस्य.दुष्यते.शुद्धस्य.नित्यम्.विगताङ्गणस्य ।
- २८.९ तम्.एव.बालम्.प्रतियाति.पापम्.क्षिप्तम्.रजः.प्रतिवातम्.यथैव ॥
- २८.१० यद्.यत्.करोति.पुरुषस्.तत्.तत्.पश्यति.हात्मनः ।
- २८.१० कल्याण.कारी.कल्याणम्.पाप.कारी.च.पापकम् ॥
- २८.११ आत्मना.हि.कृते.पापे.त्व्.आत्मना.क्लिश्यते.सदा ।
- २८.११ आत्मना.त्व्.अकृते.पापे.ह्य्.आत्मनैव.विशुध्यते ॥
- २८.१२ अशुद्ध.बुद्धिम्.प्रत्यात्मम्.नान्यो.ह्य्.अन्यम्.विशोधयेत् ।
- २८.१२ अभिमथ्नाति.तम्.पापम्.वज्रम्.अश्म.मणिम्.यथा ॥
- २८.१३ चक्षुष्मान्.विषमानीव.विद्यमाने.पराक्रमेत् ।
- २८.१३ पण्डितो.जीव.लोकेऽस्मिन्.पापानि.परिवर्जयेत् ॥
- २८.१४ वणिग्.वा.सभयम्.मार्गम्.अल्प.शास्त्रो.महा.धनो ।
- २८.१४ विषम्.जीवित.कामो.वा.पापानि.परिवर्जयेत् ॥
- २८.१५ पणौ.चास्य.व्रणो.न.स्याद्.धारयेत्.पाणिना.विषम् ।
- २८.१५ नाव्रणे.क्रामति.विषम्.नास्ति.पापम्.अकुर्वतः ॥
- २८.१६ सुकराणि.ह्य्.असाधूनि.स्वात्मनो.ह्य्.अहितानि.च ।
- २८.१६ यद्.वै.हितम्.च.पथ्यम्.च.तद्.वै.परम.दुष्करम् ॥
- २८.१७ सुकरम्.साधुना.साधु.साधु.पापेन.दुष्करम् ।
- २८.१७ पापम्.पापेन.सुकरम्.पापम्.आर्येण.दुष्करम् ॥
- २८.१८ मधुवद्.मन्यते.बालो.यावत्.पापम्.न.पच्यते ।
- २८.१८ यदा.तु.पच्यते.पापम्.अथ.दुह्खम्.निगच्छति ॥
- २८.१९ पापो.अपि.पश्यते.भद्रम्.यावत्.पापम्.न.पच्यते ।
- २८.१९ यदा.तु.पच्यते.पापम्.अथ.पापानि.पश्यति ॥
- २८.२० भद्रो.अपि.पश्यते.पापम्.यावद्.भद्रम्.न.पच्यते ।
- २८.२० यदा.तु.पच्यते.भद्रम्.अथ.भद्राणि.पश्यति ॥
- २८.२१ कुर्याच्.चेत्.पुरुषः.पापम्.नैनम्.कुर्यात्.पुनः.पुनः ।
- २८.२१ न.तत्र.छन्दम्.कुर्वीत.दुह्खम्.पापस्य.संचयः ॥[.च्छन्दम्.]
- २८.२२ कुर्यात्.तु.पुरुषः.पुण्यम्.कुर्याच्.चैनम्.पुनः.पुनः ।
- २८.२२ तत्र.छन्दम्.च.कुर्वीत.सुखम्.पुण्यस्य.संचयः ।[.च्छन्दम्.]
- २८.२३ अभित्वरेत.कल्याणे.पापाच्.चित्तम्.निवारयेत् ।
- २८.२३ धन्धम्.हि.कुर्वतः.पुण्यम्.पापेषु.रमते.मनः ॥[.द्वन्द्वम्.]?
- २८.२४ अल्पकम्.पि.कृतम्.पापम्.दुह्खाय.परतः.सदा ।
- २८.२४ महते.भवत्य्.अनर्थाय.विषम्.कोष्ठ.गतम्.यथा ॥
- २८.२५ अल्पकम्.पि.कृतम्.पुण्यम्.पर.लोके.सुखावहम् ।
- २८.२५ अर्थाय.महते.नित्यम्.सस्यानाम्.इव.संचयः ॥
- २८.२६ अदण्डेषु.हि.दण्डेन.यो.अप्रदुष्टेषु.दुष्यते ।
- २८.२६ दशानाम्.अन्यतमम्.स्थानम्.क्षिप्रम्.एव.निगच्छति ॥
- २८.२७ ज्ञातीनाम्.वा.विना.भावम्.भोगानाम्.वा.परिक्षयम् ।
- २८.२७ राजतो.ह्य्.उपसर्गम्.वाप्य्.अभ्याख्यानम्.च.दारुणम् ॥
- २८.२८ वेदनाम्.कटुकाम्.वापि.शरीरस्य.च.भेदनम्।
- २८.२८ आबाधम्.वापि.परुषम्.चित्त.क्षेपम्.अथापि.वा ॥
- २८.२९ अथ.वास्याप्य्.अगाराणि.ह्य्.अग्निर्.दहति.सर्वथा ।
- २८.२९ भेदात्.कायस्य.चाप्राज्ञो.दशमाम्.दुर्गतिम्.व्रजेत् ॥
- २८.३० पापे.तु.कृते.हि.नाश्वसेच्.चिर.कृते.दूर.कृतेऽपि.नाश्वसेत् ।
- २८.३० रहसि.च.कृतेऽपि.नाश्वसेद्.अस्ति.तस्य.विपाक;इति.नाश्वसेत् ॥
- २८.३१ पुण्ये.तु.कृते.त्व्.इहाश्वसेच्.चिर.कृते.दूर.कृतेऽपि.चाश्वसेत् ।
- २८.३१ रहसि.च.कृतेऽपि.चाश्वसेद्.अस्ति.तस्य.विपाक;इति.चाश्वसेत् ॥
- २८.३२ पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृतेऽपि.शोचते ।
- २८.३२ रहसि.च.कृतेऽपि.शोचतेऽस्ति.तस्य.विपाक;इति.शोचते ॥
- २८.३३ पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृतेऽपि.नन्दते ।
- २८.३३ रहसि.च.कृतेऽपि.नन्दतेऽस्ति.तस्य.विपाक;इति.नन्दते ॥
- २८.३४ इह.शोचति.प्रेत्य.शोचति.पाप.कर्मा.ह्य्.उभयत्र.शोचति ।
- २८.३४ स.हि.शोचति.स.प्रशोचति.दृष्ट्वा.कर्म.हि.क्लिष्टम्.आत्मनः ॥
- २८.३५ इह.नन्दति.प्रेत्य.नन्दति.कृत.पुण्यो.ह्य्.उभयत्र.नन्दति ।
- २८.३५ स.हि.नन्दति.स.प्रमोदते.दृष्ट्वा.कर्म.विशुद्धम्.आत्मनः ॥
- २८.३६ पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृतेऽपि.शोचते ।
- २८.३६ रहसि.च.कृतेऽपि.शोचते.भूयः.शोचति.दुर्गतिम्.गतः ॥
- २८.३७ पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृतेऽपि.नन्दते ।
- २८.३७ रहसि.च.कृतेऽपि.नन्दते.भूयो.नन्दति.सद्गतिम्.गतः ॥
- २८.३८ पुण्ये.तु.कृते.हि.मोदते.चिर.कृते.दूर.कृतेऽपि.मोदते ।
- २८.३८ रहसि.च.कृतेऽपि.मोदते.भूयो.मोदति.सद्गतिम्.गतः ॥
- २८.३९ कृते.च.पापेऽप्य्.अकृते.च.पुण्ये.धर्मम्.समादाय.विहाय.धर्मम् ।
- २८.३९ बिभेति.मृत्योर्.इह.पाप.कर्मा.भिन्न.प्लवो.मध्य;इवोदकस्य ॥
- २८.४० कृतम्.च.पुण्यम्.ह्य्.अकृतम्.च.पापम्.सताम्.च.धर्मश्.चरितः.पुराणः ।
- २८.४० बिभेति.मृत्योर्.न.कदंचिद्.एव.यथैव.नावा.दृढया.तरन्तः ॥
युगवर्ग
सम्पाद्यताम्- २९.१ अवभासति.तावत्.स.कृमिर्.यावन्.नोदयते.दिवा.करः ।
- २९.१ वैरोचने.तूद्गते.भृशम्.श्यावो.भवति.न.चावभासते ॥
- २९.२ एवम्.भाषितम्.आसि.तार्किकैर्.यावन्.नोदयते.तथा.गतः ।[.आसि.]?
- २९.२ बुद्ध.प्रतिभासिते.तु.लोके.न.तार्किको.भासति.नास्य.श्रावकः ॥
- २९.३ असारे.सार.मतयः.सारे.चासार.संज्ञिनः ।
- २९.३ ते.सारम्.नाधिगच्छन्ति.मिथ्या.संकल्प.गोचराः ॥
- २९.४ सारम्.तु.सारतो.ज्ञात्वा.ह्य्.असारम्.चाप्य्.असारतः ।
- २९.४ ते.सारम्.अधिगच्छन्ति.सम्यक्.संकल्प.गोचराः ॥
- २९.५ उपातिधावन्ति.हि.सार.बुद्ध्या.नवम्.नवम्.बन्धनम्.आददन्तः ।
- २९.५ पतन्ति.हि.द्योतम्.इवान्ध.काराद्.दृष्ट्ते.श्रुते.चैव.निविष्ट.चित्ताः ॥
- २९.६ काङ्क्षा.हि.या.स्याद्.इह.वा.पृथग्.वेह.वेदिका.वा.पर.वेदिका.वा ।
- २९.६ ताम्.ध्यायिनो.विप्रजहन्ति.सर्वा.ह्य्.आतापिनो.ब्रह्मचर्यम्.चरन्तः ॥
- २९.७ अनिष्कषायः.काषायम्.यो.वस्त्रम्.परिधास्यति ।
- २९.७ अपेत.दम.सौरत्यो.नासौ.काषायम्.अर्हति ॥
- २९.८ यस्.तु.वान्त.कषायः.स्यात्.शीलेषु.सुसमाहितः ।
- २९.८ उपेत.दम.सौरत्यः.स.वै.काषायम्.अर्हति ॥
- २९.९ यस्य.दोषाः.समुच्छिन्नास्.ताल.मस्तकवद्.धताः ।[.हताः.]
- २९.९ स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥
- २९.१० न.नाम.रूप.मात्रेण.वर्ण.पुष्कलया.न.च ।
- २९.१० साधु.रूपो.नरो.भवति.मायावी.मत्सरी.शठः ॥
- २९.११ न.वर्ण.रूपेण.नरो.हि.सर्वो.विज्ञायते.नेत्वर.दर्शनेन ।?
- २९.११ सुसंवृतानाम्.इह.व्यञ्जनेन.त्व्.असंवृता.लोकम्.इमम्.चरन्ति ॥
- २९.१२ प्रतिरूपकम्.धूपित.कर्णिका.वा.लोहार्ध.माष;इव.हिरण्यच्.छन्नः ।
- २९.१२ चरन्ति.हैके.परिवारवन्तस्.त्व्.अन्तर्.ह्य्.अशुद्धा.बहि.शोभमानाः ॥[.बहिः.शोभमानाः.]
- २९.१३ मिद्धी.च.यो.भवति.महा.ग्रसश्.च.रात्रिम्.दिवम्.सम्परिवर्त.शायी ।
- २९.१३ महा.वराहैव.निवाप.पुष्टः.पुनः.पुनर्.मन्दम्.उपैति.गर्भम् ॥
- २९.१४ मनुजस्य.सदा.स्मृतीमतो.लब्ध्वा.भोजन.मात्र.जानतः ।[.स्मृतिमतो.]
- २९.१४ तनुकास्य.भवन्ति.वेदनाः.शनकैर्.जीर्यत्यायुः.पालयम् ॥
- २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
- २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
- २९.१५ f: तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इवाबलम् ॥
- २९.१५_ शुभानुपश्यी.विहरन्न्.इन्द्रियैर्.हि;असंवृतः ।
- २९.१५_ भोजने.चाप्य्.अमात्रज्ञः.कुसीदो.हीन.वीर्यवान् ।
- २९.१५ f: तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इवाबलम् ॥
- २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
- २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
- २९.१५ एf: तम्.वै.प्रसहते.द्वेषो.वातो.वृक्षम्.इवाबलम् ॥
- २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
- २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
- २९.१५ एf: तम्.वै.प्रसहते.मोहो.वातो.वृक्षम्.इवाबलम् ॥
- २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
- २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
- २९.१५ एf: तम्.वै.प्रसहते.मानो.वातो.वृक्षम्.इवाबलम् ॥
- २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
- २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
- २९.१५ एf: तम्.वै.प्रसहते.लोभो.वातो.वृक्षम्.इवाबलम् ॥
- २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
- २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
- २९.१५ एf: तम्.वै.प्रसहते.तृष्णा.वातो.वृक्षम्.इवाबलम् ॥
- २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
- २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
- २९.१६ f: तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.स्थिरम् ॥
- २९.१६_ अशुभानुपश्यी.विरहन्न्.इन्द्रियैर्.हि.सुसंवृतः ।
- २९.१६_ भोजने.चापि.मात्रज्ञः.श्राद्ध;आरब्ध.वीर्यवान् ।
- २९.१६_एf: तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.पर्वतम् ॥
- २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
- २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
- २९.१६ एf: तम्.न.प्रसहते.द्वेषो.वातः.शैलम्.इव.स्थिरम् ॥
- २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
- २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
- २९.१६ एf: तम्.न.प्रसहते.मोहो.वातः.शैलम्.इव.स्थिरम् ॥
- २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
- २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
- २९.१६ एf: तम्.न.प्रसहते.मानो.वातः.शैलम्.इव.स्थिरम् ॥
- २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
- २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
- २९.१६ एf: तम्.न.प्रसहते.लोभो.वातः.शैलम्.इव.स्थिरम् ॥
- २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
- २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
- २९.१६ एf: तम्.न.प्रसहते.तृष्णा.वातः.शैलम्.इव.स्थिरम् ॥
- २९.१७ रमणीयान्य्.अरण्यानि.न.चात्र.रमते.जनः ।
- २९.१७ वीत.रागात्र.रंस्यन्ते.न.तु.काम.गवेषिणः ॥
- २९.१८ ग्रामे.वा.यदि.वारण्ये.निम्ने.वा.यदि.वा.स्थले ।
- २९.१८ यत्रार्हन्तो.विहरन्ति.ते.देशा.रमणीयकाः ॥
- २९.१९ दूरात्.सन्तः.प्रकाश्यन्ते.हिमवान्.इव.पर्वतः ।
- २९.१९ असन्तो.न.प्रकाश्यन्ते.रात्रि.क्षिप्ताः.शरा.यथा ॥
- २९.२० सद्भिर्.एव.सहासीत.पण्डितैर्.अर्थ.चिन्तकैः ।
- २९.२० अर्थम्.महान्तम्.गम्भीरम्.प्रज्ञया.प्रतिविध्यते ॥
- २९.२१ अहम्.नाग;इव.संग्रामे.चापाद्.उत्पतितान्.शरान् ।
- २९.२१ अतिवाक्यम्.तितीक्षामि.दुह्शीलो.हि.महा.जनः ॥[.तितिक्षामि.]
- २९.२२ भवे.चाहम्.भयम्.दृष्ट्वा.भूयश्.च.विभवम्.भवे ।
- २९.२२ तस्माद्.भवम्.नाभिनन्दे.नन्दी.च.विभवेन.मे ॥
- २९.२३ अश्राद्धश्.चाकृतज्ञश्.च.संधिच्.छेत्ता.च.यो.नरः ।[.अश्रद्धश्.च.]
- २९.२३ हतावकाशो.वान्ताशः.स.वै.तूत्तम.पूरुषः ॥
- २९.२४ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ ।
- २९.२४ राष्ट्रम्.सानुचरम्.हत्वानिघो.याति.ब्राह्मणः ॥
- २९.२५ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः ।
- २९.२५ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
- २९.२५ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
- २९.२६ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः ।
- २९.२६ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
- २९.२६ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
- २९.२७ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः ।
- २९.२७ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
- २९.२७ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
- २९.२८ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः ।
- २९.२८ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
- २९.२८ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
- २९.२९ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः ।
- २९.२९ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
- २९.२९ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
- २९.३० येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः ।
- २९.३० शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
- २९.३० f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
- २९.३१ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः ।
- २९.३१ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
- २९.३१ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
- २९.३२ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः ।
- २९.३२ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
- २९.३२ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
- २९.३३ अल्पकास्.ते.मौष्येषु.ये.जनाः.पारगामिनः ।
- २९.३३ अथेयम्.इतराः.प्रजास्.तीरम्.एवानुधावति ॥
- २९.३४ ये.तर्हि.सम्यग्.आख्याते.धर्मे.धर्मानुदर्शिनः ।
- २९.३४ ते.जनाः.पारम्.एष्यन्ति.मृत्यु.धेयस्य.सर्वशः ॥
- २९.३५ गताध्वानो.विशोकस्य.विप्रमुक्तस्य.तायिनः ।
- २९.३५ सर्व.ग्रन्थ.प्रहीणस्य.परिदाघो.न.विद्यते ॥
- २९.३६ उत्तीर्णः.सभयो.मार्गः.पातालः.परिवर्जितः ।
- २९.३६ मुक्तो.योगैस्.तथा.ग्रन्थैः.सर्वम्.राग.विषम्.हतम् ॥
- २९.३७ नास्ति.काम.समो.ह्य्.ओघो.नास्ति.दोष.समो.ग्रहः ।
- २९.३७ नास्ति.मोह.समम्.जालम्.नास्ति.तृष्टा.समा.नदी ॥
- २९.३८ आकाशे.तु.पदम्.नास्ति.श्रमणो.नास्ति.बाह्यकः ।
- २९.३८ प्रपञ्चाभिरता.बाला.निष्प्रपञ्चास्.तथागताः ॥
- २९.३९ योगैः.समुह्यते.बालो.योगान्.नुदति.पण्डितः ।
- २९.३९ योगान्.प्रणुद्य.मेधावी.ये.दिव्या.ये.च.मानुषाः ॥
- २९.४० योगाद्.भवः.प्रभवति.वियोगाद्.भव.संक्षयः ।
- २९.४० एतद्.द्वैधा.पथम्.ज्ञात्वा.भवाय.विभवाय.च ।
- २९.४० f: तत्र.शिक्षेत.मेधावी.यत्र.योगान्.अतिक्रमेत् ॥
- २९.४१ अकृतम्.कुकृतात्.श्रेयः.पश्चात्.तपति.दुष्कृतम् ।
- २९.४१ शोचते.दुष्कृतम्.कृत्वा.शोचते.दुर्गतिम्.गतः ॥
- २९.४२ कृतम्.तु.सुकृतम्.श्रेयो.यत्.कृत्वा.नानुतप्यते ।
- २९.४२ नन्दते.सुकृतम्.कृत्वा.नन्दते.सुगतिम्.गतः ॥
- २९.४३ नाभाषमाना.ज्ञायन्ते.मिश्रा.बालैर्.हि.पण्डिताः ।
- २९.४३ ज्ञायन्ते.भाषमानास्.तु.देषयन्तो.अरजः.पदम् ॥
- २९.४४ भाषयेद्.द्योतयेद्.धर्मम्.उच्छ्रयेद्.ऋषिणाम्.ध्वजम् ।
- २९.४४ सुभाषित.ध्वजा.नित्यम्.ऋषयोर्.धर्म.गौरवाः ॥
- २९.४५ निन्दन्ति.तुष्णिम्.आसीनम्.निन्दन्ति.बहु.भाषिणम् ।[.तूष्णीम्.आसीनम्.]
- २९.४५ अल्प.भाणिम्.च.निन्दन्ति.नास्ति.लोकेष्व्.अनिन्दितः ॥
- २९.४६ एकान्त.निन्दितः.पुरुषः.एकान्तम्.वा.प्रशंसितः ।
- २९.४६ नाभूद्.भविष्यति.च.नो.न.चाप्य्.एतर्हि.विद्यते ॥
- २९.४७ यम्.तु.विज्ञाः.प्रशंसन्ति.ह्य्.अनुयुज्य.शुभाशुभम् ।
- २९.४७ प्रशंसा.सा.समाख्याता.न.त्व्.अज्ञैर्.यः.प्रशंसितः ॥
- २९.४८ मेधाविनम्.वृत्त.युक्तम्.प्राज्ञम्.शीलेषु.संवृतम् ।
- २९.४८ निष्कम्.जाम्बुनदस्यैव.कस्.तम्.निन्दितुम्.अर्हति ॥
- २९.४९ शैलो.यथाप्य्.एक.घनो.वायुना.न.प्रकम्प्यते ।
- २९.४९ एवम्.निन्दा.प्रशंसाभिर्.न.कम्प्यन्ते.हि.पण्डिताः ॥
- २९.५० यस्य.मूले.त्वचा.नास्ति.पर्णा.नास्ति.तथा.लताः ।
- २९.५० तम्.धीरम्.बन्धनान्.मुक्तम्.कस्.तम्.निन्दितुम्.अर्हति ॥
- २९.५१ यस्य.ह.प्रपञ्चितम्.हि.नो.सत्.संतानम्.परिखम्.च.यो.निवृत्तः ।
- २९.५१ तृष्णा.विगतम्.मुनिम्.चरन्तम्.न.विजानाति.सदेवको.अपि.लोकः ॥
- २९.५२ यस्य.जितम्.नोपजीयते.जितम्.अन्वेति.न.कंचिद्.एव.लोके ।
- २९.५२ तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
- २९.५३ यस्य.जालिनी.विषक्तिका.तृष्णा.नास्ति.हि.लोक.नायिनी ।
- २९.५३ तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
- २९.५४ यस्य.मूलम्.क्षितौ.नास्ति.पर्णा.नास्ति.तथा.लताः ।
- २९.५४ तम्.धीरम्.बन्धनान्.मुक्तम्.को.नु.निन्दितुम्.अर्हति ॥
- २९.५५ यस्य.जालिनी.विषक्तिका.तृष्णा.नास्ति.हि.लोक.नायिनी ।
- २९.५५ तम्.बुद्धम्.अनन्त.विक्रमम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
- २९.५६ यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् ।
- २९.५६ स.हि.सङ्गम्.अतीत्य.सर्व.संज्ञाम्.योगापेतम्.अतीर्ण.सङ्गम्.एति ॥
- २९.५७ मुञ्च.पुरतो.मुञ्च.पश्चतो.मध्ये.मुञ्च.भवस्य.पारगः.[.पश्चातो.]
- २९.५७ सर्वत्र.विंकुत.मानसो.न.पुनर्.जाति.जराम्.उपेष्यसि ॥
सुखवर्ग
सम्पाद्यताम्- ३०.१ जयाद्.वैरम्.प्रसवते.दुह्खम्.शेते.पराजितः ।
- ३०.१ उपशान्तः.सुखम्.शेते.हित्वा.जय.पराजयौ ॥
- ३०.२ पर.दुह्खोपधानेन.य;इच्छेत्.सुखम्.आत्मनः ।
- ३०.२ वैर.संसर्ग.संसक्तो.दुह्खान्.न.परिमुच्यते ॥
- ३०.३ सुख.कामानि.भूतानि.यो.दण्डेन.विहिंषति ।
- ३०.३ आत्मनः.सुखम्.एषाणः.स.वै.न.लभते.सुखम् ॥
- ३०.४ सुख.कामानि.भूतानि.यो.दण्डेन.न.हिंसति ।
- ३०.४ आत्मनः.सुखम्.एषाणः.स.प्रेत्य.लभते.सुखम् ॥
- ३०.५ धर्मम्.चरेत्.सुचरितम्.नैनम्.दुश्चरितम्.चरेत् ।
- ३०.५ धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिन्.लोके.परत्र.च ॥
- ३०.६ धर्मः.सदा.रक्षति.धर्म.चारिणम्.छत्रम्.महद्.वर्ष.काले.यथैव ।
- ३०.६ एषानुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥
- ३०.७ धर्मः.सदा.रक्षति.धर्म.चारिणम्.धर्मः.सुचीर्णः.सुखम्.आदधाति ।
- ३०.७ एषानुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥
- ३०.८ अल्पापि.सन्तो.बहवो.जयन्ति.सुसंविधाने.न.संविधानम् ।
- ३०.८ अल्पम्.अपि.चेत्.श्रद्दधानो.ददाति.तेनैवासौ.भवति.सुखी.परत्र ॥
- ३०.९ दानम्.च.युद्धम्.च.समानम्.आहुर्.नैते.गुणाः.कापुरुषेव.सन्ति ।
- ३०.९ संग्राम.वेलेव.हि.दान.वेला.तुल्यम्.भवेत्.कारण.संग्रहेण ॥
- ३०.१० अयम्.हि.प्रत्यूह.शतानि.जित्वा.मात्सर्यम्.आक्रम्य.च.शत्रु.भूतम् ।
- ३०.१० शुराद्द्.हि.तम्.शूरतरम्.वदामि.ददाति.यो.दानम्.असक्त.चित्तः ॥[.शूराद्.]
- ३०.११ सुखो.विपाकः.पुण्यानाम्.अभिप्रायः.समृध्यते ।
- ३०.११ क्षिप्रम्.च.परमाम्.शान्तिम्.निर्वृतिम्.सो.अधिगच्छति ॥
- ३०.१२ परतो.ह्य्.उपसर्गांश्.च.देवता.मार.कायिकाः ।
- ३०.१२ अन्तरायम्.न.शक्तिष्ठाः.कृत.पुण्यस्य.कर्तु.वै ॥
- ३०.१३ धर्म.प्रीतिः.सुखम्.शेते.विप्रसन्नेन.चेतसा ।
- ३०.१३ आर्य.प्रवेदिते.धर्मे.रमते.पण्डितः.स्मृतः ॥
- ३०.१४ येषाम्.धर्म.रतम्.चित्तम्.अनुपादाय.निर्वृतिम् ।
- ३०.१४ स्मृत्य्.उपस्थान.निरतम्.बोध्य्.अङ्गेषु.च.सप्तसु ॥
- ३०.१५ येषाम्.धर्म.रत्म्.चित्तम्.अनुपादाय.निर्वृतिम् ।
- ३०.१५ ऋद्धि.पाद.रतम्.चैव.मार्गे.चाष्टाङ्गिके.रतम् ॥
- ३०.१६ सुखम्.ते.भुञ्जते.पिण्डम्.धारयन्ति.च.चीवरम् ।
- ३०.१६ सुखम्.चङ्क्रमणम्.तेषाम्.पर्वतेषु.गुहासु.च ॥
- ३०.१७ क्षेम.प्राप्ता.हि.सुखिता.दृष्ट.धर्माभिनिर्वृताः ।
- ३०.१७ सर्व.वैर.भयातीतास्.तीर्णा.लोके.विषक्तिकाम् ॥
- ३०.१८ सुखो.विवेकस्.तुष्टस्य.श्रुत.धर्मस्य.पश्यतः ।
- ३०.१८ अव्यावध्यः.सुखम्.लोके.प्राण.भूतेषु.सम्यमः ॥
- ३०.१९ सुखम्.विरागता.लोके.कामानाम्.समतिक्रमः ।
- ३०.१९ अस्मि.मानस्य.विनय;एतद्.वै.परमम्.सुखम् ॥
- ३०.२० सुखम्.यावज्.जरा.शीलम्.सुखम्.श्रद्धा.प्रतिष्ठिता ।
- ३०.२० सुखम्.चार्थ.रता.वाचा.पापस्याकरणम्.सुखम् ॥
- ३०.२१ सुखम्.मातृव्यता.लोके.सुखम्.चैव.पितृव्यता ।
- ३०.२१ सुखम्.श्रामण्यता.लोके.तथा.ब्राह्मण्यता.सुखम् ॥
- ३०.२२ सुखम्.बुद्धस्य.चोत्पादः.सुखम्.धर्मस्य.देशना ।
- ३०.२२ सुखम्.संघस्य.सामग्री.समग्राणाम्.तपः.सुखम् ॥
- ३०.२३ शीलवन्तः.सुखम्.दृष्टुम्.सुखम्.दृष्टुम्.बहु.श्रुताः ।[.द्रष्टुम्.]
- ३०.२३ अर्हन्तश्.च.सुखम्.दृष्टुम्.विप्रमुक्त.पुनर्.भवाः ॥
- ३०.२४ सुखा.नदी.सूपतीर्था.सुखम्.धर्मजिनो.जिनः ।
- ३०.२४ प्रज्ञा.लाभः.सुखो.नित्यम्.अस्मि.मान.क्षयः.सुखम् ॥
- ३०.२५ सुखम्.दर्शनम्.आर्याणाम्.संवासो.अपि.सदा.सुखम् ।
- ३०.२५ अदर्शनेन.बालानाम्.नित्यम्.एव.सुखी.भवेत् ॥
- ३०.२६ बाल.संसर्ग.चारी.हि.दीर्घाध्वानम्.प्रशोचति ।
- ३०.२६ दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रैर्.इव.सर्वशः ।
- ३०.२६ f: धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः ॥
- ३०.२७ दुर्लभः.पुरुषो.जात्यो.नासौ.सर्वत्र.जायते ।
- ३०.२७ यत्रासौ.जायते.वीरस्.तु.कुलम्.सुखम्.एधते ॥
- ३०.२८ सर्वथा.वै.सुखम्.शेते.ब्राह्मणः.परिनिर्वृतः ।
- ३०.२८ यो.न.लिप्यते.कामेभिर्.विप्रमुक्तो.निरास्रवः ॥
- ३०.२९ सर्वा.ह्य्.आशास्तयश्.छित्त्वा.विनीय.हृदय.ज्वरम् ।
- ३०.२९ उपशान्तः.सुखम्.शेते.शान्तिम्.प्राप्येह.चेतसः ॥
- ३०.३० मात्रा.सुख.परित्यागाद्.यः.पश्येद्.विपुलम्.सुखम् ।
- ३०.३० त्यजेन्.मात्रा.सुखम्.धीरः.सम्पश्यन्.विपुलम्.सुखम् ॥
- ३०.३१ यच्.च.काम.सुखम्.लोके.यच्.चापि.दिविजम्.सुखम् ।
- ३०.३१ तृष्णा.क्षय.सुखस्यैतत्.कलाम्.नार्घति.षोडशीम् ॥
- ३०.३२ निक्षिप्य.हि.गुरुम्.भारम्.नादद्याद्.भारम्.एव.तु ।
- ३०.३२ भारादानम्.परम्.दुह्खम्.भार.निक्षेपणम्.सुखम् ॥
- ३०.३३ सर्व.तृष्णाम्.विप्रहाय.सर्व.सम्योजन.क्षयात् ।
- ३०.३३ सर्वोपधिम्.परिज्ञाय.नागच्छन्ति.पुनर्.भवम् ॥
- ३०.३४ अर्थेषु.जातेषु.सुखम्.सहायाः.पुण्यम्.सुखम्.जीवित.संक्षयेषु ।
- ३०.३४ तुष्टिः.सुखा.या.त्व्.इतरेतरेण.सर्वस्य.दुह्खस्य.सुखो.निरोधः ॥
- ३०.३५ अयोघन.हतस्यैव.ज्वलतो.जात.वेदसः ।
- ३०.३५ अनुपूर्वोपशान्तस्य.यथा.न.ज्ञायते.गतिः ॥
- ३०.३६ एवम्.सम्यग्.विमुक्तानाम्.काम.पङ्कौघ.तारिणाम् ।
- ३०.३६ प्रज्ञापयितुम्.गतिर्.नास्ति.प्राप्तानाम्.अचलम्.सुखम् ॥
- ३०.३७ यस्यान्तरतो.न.सन्ति.कोपा;इत्थम्.भाव.गतम्.च.यो.निवृत्तः ।
- ३०.३७ अखिलम्.तम्.सुखिनम्.सदा.विशोकम्.देवा.नानुभवन्ति.दर्शनेन ॥
- ३०.३८ सुखम्.हि.यस्येह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य ।[.किंचन.]
- ३०.३८ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.चित्तम् ॥
- ३०.३९ सुखम्.हि.यस्येह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य ।[.किंचन.]
- ३०.३९ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥[इदेन्तिचलृइह्३८]
- ३०.४० सुखिनो.हि.जना.ह्य्.अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः ।
- ३०.४० सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.बद्ध.चित्तम् ॥
- ३०.४१ सुखिनो.हि.जना;अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः ।
- ३०.४१ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥
- ३०.४२ सर्वम्.पर.वशम्.दुह्खम्.सर्वम्.आत्म.वशम्.सुखम् ।
- ३०.४२ साधारणे.विहन्यन्ते.योगा.हि.दुरतिक्रमाः ॥
- ३०.४३ सुसुखम्.बत.जीवामो.ह्य्.उत्सुकेषु.त्व्.अनुत्सुकाः ।
- ३०.४३ उत्सुकेषु.मनुष्येषु.विहरामो.ह्य्.अनुत्सुकाः ॥
- ३०.४४ सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.]
- ३०.४४ मिथिलायाम्.दह्यमानायाम्.न.नो.दह्यति.किंचनम् ॥
- ३०.४५ सुसुखम्.बत.जीवामो.ह्य्.आतुरेषु.त्व्.अनातुराः ।
- ३०.४५ आतुरेषु.मनुष्येषु.विहरामो.ह्य्.अनातुराः ॥
- ३०.४६ सुसुखम्.बत.जीवामो.हिंसकेषु.त्व्.अहिंसकाः ।
- ३०.४६ हिंसकेषु.मनुष्येषु.विहरामो.ह्य्.अहिंसकाः ॥
- ३०.४७ सुसुखम्.बत.जीवामो.वैरिकेषु.त्व्.अवैरिकाः ।
- ३०.४७ वैरिकेषु.मनुष्येषु.विहरामो.ह्य्.अवैरिकाः ॥
- ३०.४८ सुसुखम्.बत.जीवामो.हेठकेषु.त्व्.अहेठकाः ।
- ३०.४८ हेठकेषु.मनुष्येषु.विहरामो.ह्य्.अहेठकः ॥
- ३०.४९ सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.]
- ३०.४९ प्रीति.भक्षा.भविष्यामो.देवा.ह्य्.आभस्वरा.यथा ॥[.आभास्वरा.]
- ३०.५० सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.]
- ३०.५० प्रीति.भक्षा.भविष्यामो.सत्कायेनोपनिह्श्रिताः ॥
- ३०.५१ ग्रामे;अरण्ये.सुख.दुह्ख.स्पृष्टो.नैवात्मनो.न.परतो.दधाति ।
- ३०.५१ स्पर्शाः.स्पृशन्ति.ह्य्.उपधिम्.प्रतीत्य.निरौपधिम्.किम्.स्पर्शाः.स्पृशेयुः ॥
- ३०.५२ सापत्रपाः.सत्.पुरुषा.भवन्ति.न.काम.हेतोर्.लपयन्ति.सन्तः ।
- ३०.५२ स्पृष्टा.हि.दुह्खेन.तथा.सुखेन.नोच्चावचाः.सत्.पुरुषा.भवन्ति ॥
चित्तवर्ग
सम्पाद्यताम्- ३१.१ दुर्निग्रहस्य.लघुनो.यत्र.काम.निपातिनः ।
- ३१.१ चित्तस्य.दमनम्.साधु.चित्तम्.दान्तम्.सुखावहम् ॥
- ३१.२ वारिजो.वा.स्थले.क्षिप्त;ओकाद्.ओघात्.समुद्धृतः ।
- ३१.२ परिस्पन्दति.वै.चित्तम्.मार.धेयम्.प्रहातवै ॥
- ३१.३ पृथग्.विधावते.चित्तम्.सूर्यस्येव.हि.रश्मयः ।
- ३१.३ तत्.पण्डितो.वारयति.ह्य्.अङ्कुशेनैव.कुञ्जरम् ॥
- ३१.४ भ्रूण.धेयम्.इदम्.चित्तम्.निह्सारम्.अनिदर्शनम् ।
- ३१.४ सदैनम्.अनुशासामि.मा.मेऽनर्थाय.निश्चरेत् ॥
- ३१.५ इदम्.पुरा.चित्तम्.अचारि.चारिकाम्.येनेच्छकम्.येन.कामम्.यथेष्टम् ।
- ३१.५ तत्.सन्निगृह्णामि.हि.योनिशस्.त्व्.इदम्.नागम्.प्रभिन्नम्.हि.यथाङ्कुशेन ॥
- ३१.६ अनेकम्.जाति.संसारम्.संधावित्वा.पुनः.पुनः ।
- ३१.६ गृह.कारकैषमाणस्.त्वम्.दुह्खा.जातिः.पुनः.पुनः ॥
- ३१.७ गृह.कारक.दृष्टो.असि.न.पुनर्.गेहम्.करिष्यसि ।
- ३१.७ सर्वे.ते.पार्शुका.भग्ना.गृह.कूटम्.विसंस्कृतम् ।
- ३१.७ विसंस्कार.गते.चित्ते;इहैव.क्षयम्.अध्यगाः ॥
- ३१.८ स्पन्दनम्.चपलम्.चित्तम्.दुरक्ष्यम्.दुर्निवारणम् ।[.दूरक्ष्यम्.]
- ३१.८ ऋजुम्.करोति.मेधावी;इषु.कार;इव.तेजसा ॥
- ३१.८ दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् ।
- ३१.८ ये.चित्तम्.दमयिष्यन्ति.विमोक्ष्यन्ते.महा.भयात् ।
- ३१.९ न.द्वेषी.द्वेषिणः.कुर्याद्.वैरी.वा.वैरिणो.हितम् ।
- ३१.९ मिथ्या.प्रणिहितम्.चित्तम्.यत्.कुर्याद्.आत्मनात्मनः ॥
- ३१.१० न.तम्.माता.पिता.वापि.कुर्याज्.ज्ञातिस्.तथापरः ।
- ३१.१० सम्यक्.प्रणिहितम्.चित्तम्.यत्.कुर्याद्द्.हितम्.आत्मनः ॥
- ३१.११ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
- ३१.११ एवम्.ह्य्.अभावितम्.चित्तम्.रागः.समतिभिन्दति ॥
- ३१.१२ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
- ३१.१२ एवम्.ह्य्.अभावितम्.चित्तम्.द्वेषः.समतिभिन्दति ॥
- ३१.१३ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
- ३१.१३ एवम्.ह्य्.अभावितम्.चित्तम्.मोहः.समतिभिन्दति ॥
- ३१.१४ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
- ३१.१४ एवम्.ह्य्.अभावितम्.चित्तम्.मानः.समतिभिन्दति ॥
- ३१.१५ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
- ३१.१५ एवम्.ह्य्.अभावितम्.चित्तम्.लोभः.समतिभिन्दति ॥
- ३१.१६ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
- ३१.१६ एवम्.ह्य्.अभावितम्.चित्तम्.तृष्णा.समतिभिन्दति ॥
- ३१.१७ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
- ३१.१७ एवम्.सुभावितम्.चित्तम्.रागो.न.व्यतिभिन्दति ॥
- ३१.१८ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
- ३१.१८ एवम्.सुभावितम्.चित्तम्.द्वेषो.न.व्यतिभिन्दति ॥
- ३१.१९ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
- ३१.१९ एवम्.सुभावितम्.चित्तम्.मोहो.न.व्यतिभिन्दति ॥
- ३१.२० यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
- ३१.२० एवम्.सुभावितम्.चित्तम्.मानो.न.व्यतिभिन्दति ॥
- ३१.२१ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
- ३१.२१ एवम्.सुभावितम्.चित्तम्.लोभो.न.व्यतिभिन्दति ॥
- ३१.२२ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
- ३१.२२ एवम्.सुभावितम्.चित्तम्.तृष्णा.न.व्यतिभिन्दति ॥
- ३१.२३ मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः ।
- ३१.२३ मनसा.हि.प्रदुष्टेन.भाषते.वा.करोति.वा ।
- ३१.२४ मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः ।
- ३१.२४ मनसा.हि.प्रसन्नेन.भाषते.वा.करोति.वा ।
- ३१.२४ f: ततस्.तम्.सुखम्.अन्वेति.छाया.वा.ह्य्.अनुगामिनी ॥
- ३१.२५ नाप्रसन्नेन.चित्तेन.दुष्टेन.क्षुभितेन.वा ।
- ३१.२५ धर्मो.हि.शक्यम्.आज्ञातुम्.संरम्भ.बहुलेन.वा ॥
- ३१.२६ विनीय.यस्.तु.संरम्भम्.अप्रसादम्.च.चेतसा ।
- ३१.२६ आघातम्.चैव.निह्सृज्य.प्रजानीयात्.सुभाषितम् ॥
- ३१.२७ न.प्रत्यनीक.सारेण.सुविज्ञेयम्.सुभाषितम् ।
- ३१.२७ उपक्लिष्टेन.चित्तेन.संरम्भ.बहुलेन.वा ॥
- ३१.२८ अनवस्थित.चित्तस्य.सद्धर्मम्.अविजानतः ।
- ३१.२८ पारिप्लव.प्रसादस्य.प्रज्ञा.न.परिपूर्यते ॥
- ३१.२९ स्रोतांसि.यस्य.षट्.त्रिंशन्.मनः.प्रस्रवणानि.हि ।
- ३१.२९ वहन्ति.नित्यम्.दुर्दृष्टेः.संकल्पैर्.ग्रेध.निह्श्रितैः ॥
- ३१.३० रतिम्.अनुसृतम्.इन्द्रियानुगम्.पुरुषम्.चित्त.वशानुवर्तकम् ।
- ३१.३० यश;इह.हि.जहाति.सर्वदा.द्रुमम्.इव.शीर्ण.फलम्.यथाण्डजः ॥
- ३१.३१ आतापी.विहर.त्वम्.अप्रमत्तो.मा.ते.काम.गुणो.मथेत.चित्तम् ।
- ३१.३१ मा.लोह.गुडाम्.गिलेः.प्रमत्तः.क्रन्दन्.वै.नरकेषु.पच्यमानः ॥
- ३१.३२ उत्थान.कालेषु.निहीन.वीर्यो.वाचा.बली.त्व्.आलसिको.निराशः ।
- ३१.३२ सदैव.संकल्प.हतः.कुसीदो.ज्ञानस्य.मार्गम्.सततम्.न.वेत्ति ॥
- ३१.३३ स्थूलान्.वितर्कान्.अथ.वापि.सूक्ष्मान्.समुद्गतान्.मान.सम्प्लवार्थम् ।
- ३१.३३ वितर्कयन्.वै.सततम्.वितर्कान्.एताम्.सदा.धावति.भ्रान्त.चित्तः ॥
- ३१.३४ एतांस्.तु.विद्यान्.मनसो.वितर्कान्.आतापवान्.संवरवान्.स्मृतात्मा ।
- ३१.३४ जहात्य्.अशेषान्.अपुनर्.भवाय.समाहितो.ध्यान.रतः.सुमेधाः ॥
- ३१.३५ कुम्भोपमम्.कायम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च ।
- ३१.३५ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥
- ३१.३६ फेनोपमम्.कायम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च ।
- ३१.३६ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥
- ३१.३७ कुम्भोपमम्.लोकम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च ।
- ३१.३७ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥
- ३१.३८ फेनोपमम्.लोकम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च ।
- ३१.३८ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥
- ३१.३९ सम्भोध्य्.अङ्गेषु.येषांस्.तु.सम्यक्.चित्तम्.सुभावितम् ।
- ३१.३९ आदानम्.प्रतिनिह्सृज्य.चानुपादायम्.आश्रिताः ।
- ३१.३९ क्षीणास्रवा.वान्त.दोषास्.ते.लोके.परिनिर्वृताः ॥
- ३१.४० स्व.चित्तम्.अनुरक्षम्.वै.स्व.वालम्.चमरी.यथा ।
- ३१.४० भूतेषु.च.दयापन्नः.सुखान्.न.परिहीयते ॥
- ३१.४१ एतम्.नागस्य.नागेन.त्व्.ईषा.दन्तस्य.हस्तिनः ।
- ३१.४१ समेति.चित्तम्.चित्तेन.यद्.एको.रमते.वने ॥
- ३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
- ३१.४२ मैत्रः.स.सर्व.सत्त्वेषु.वैरम्.तस्य.न.केनचित् ॥
- ३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
- ३१.४२ मैत्रः.स.सर्व.प्राणेषु.वैरम्.तस्य.न.केनचित् ॥
- ३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
- ३१.४२ मैत्रः.स.सर्व.भूतेषु.वैरम्.तस्य.न.केनचित् ॥
- ३१.४३ एकम्.अपि.चेत्.प्राणम्.अदुष्ट.चित्तो.मैत्रायते.कुशलम्.तेन.हि.स्यात् ।
- ३१.४३ सर्वांस्.तु.सत्त्वान्.मनसानुकम्पयन्.प्रभूतम्.आर्यः.प्रकरोति.पुण्यम् ॥[.सत्त्वाम्.]*
- ३१.४४ यो.ह्य्.उदग्रेण.चित्तेन.त्व्.अदीनेन.सदा.नरः ।
- ३१.४४ भावयेत्.कुशलान्.धर्मान्.योग.क्षेमस्य.प्राप्तये ॥
- ३१.४५ शान्तम्.अस्य.मनो.भवति.शान्ता.वाक्.काय.कर्म.च ।
- ३१.४५ सम्यग्.आज्ञा.विमुक्तस्य.ह्य्.उपशान्तस्य.भिक्षुणः ॥
- ३१.४६ पञ्चाङ्गिकेन.तूर्येण.न.रतिर्.भवति.तादृशी ।
- ३१.४६ यादृश्य्.एकाग्र.चित्तस्य.सम्यग्.धर्मान्.विपश्यतः ॥
- ३१.४७ सुखम्.स्वपन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् ।
- ३१.४७ येषाम्.ध्यान.रतम्.चित्तम्.कामस्.तेषाम्.न.विद्यते ॥
- ३१.४८ सुखम्.मोदन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् ।
- ३१.४८ येषाम्.ध्यान.रतम्.चित्तम्.वर्त्मस्.तेषाम्.न.विद्यते ॥
- ३१.४९ यस्य.शैलोपमम्.चित्तम्.स्थितम्.नानुप्रकम्पते ।
- ३१.४९ विरक्तम्.रजनीयेभ्यः.कोपनीये.न.कुप्यते ।
- ३१.४९ f: यस्यैवम्.भावितम्.चित्तम्.कुतस्.तम्.दुह्खम्.एष्यति ॥
- ३१.५० नोपवादी.नोपघाती.प्रीति.मोक्षे.च.संवरः ।
- ३१.५० मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयनासनम् ।
- ३१.५० f: अधिचित्ते.समायोग;एतद्.बुद्धस्य.शासनम् ॥
- ३१.५१ चित्त.निमित्तस्य.कोविदः.प्रविवेकस्य.रसम्.प्रजानकः ।
- ३१.५१ ध्यायी.निपकः.प्रतिस्मृतो.वेत्ति.प्रीति.सुखम्.निरामिषम् ॥
- ३१.५२ मनश्.च.यो.रक्षति.भाषितम्.च.चेष्टे.च.कायस्य.सदैव.युक्तः ।
- ३१.५२ स.प्राप्य.शोकम्.हि.न.दुह्खितः.स्यात्.सत्य.स्थितः.सत्यविदः.सुमेधाः ॥
- ३१.५३ अरक्षितेन.चित्तेन.मिथ्या.दृष्टि.हतेन.च ।
- ३१.५३ स्तीन.मिद्धाभिभूतेन.वशम्.मृत्योर्.निगच्छति ।[.स्तीनमिद्धाभिभूतेन.]
- ३१.५४ तस्माद्.रक्षित.चित्तः.स्यात्.सम्यक्.संकल्प.गोचरः ।
- ३१.५४ सम्यग्.दृष्टि.पुरस्कारो.ज्ञात्वा.चैवोदय.व्ययम् ।
- ३१.५४ f: स्तीन.मिद्धाभिभूर्.भिक्षुः.सर्व.दुर्गतयो.जहेत् ॥
- ३१.५५ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
- ३१.५५ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.नरकेषु.पच्यते ॥
- ३१.५६ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
- ३१.५६ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.तीर्यक्षु.पच्यते ॥[.तिर्यक्षु.]
- ३१.५७ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
- ३१.५७ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.प्रेतेषु.पच्यते ॥
- ३१.५८ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
- ३१.५८ चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.मनुजेषु.मोदते ॥
- ३१.५९ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
- ३१.५९ चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.स्वर्गेषु.मोदते ॥
- ३१.६० चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
- ३१.६० चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.निर्वाणम्.आप्नुते ॥
भिक्षुवर्ग
सम्पाद्यताम्- ३२.१ पिण्ड.चारिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.नान्य.पोषिणे ।
- ३२.१ देवाः.स्पृहयन्ति.तायिने.ह्य्.उपशान्ताय.सदा.स्मृतात्मने ॥
- ३२.२ पिण्ड.पातिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.नान्य.पोषिणे ।
- ३२.२ देवाः.स्पृहयन्ति.तायिने.न.तु.सत्कार.यशो.अभिकाङ्क्षिने ॥
- ३२.३ सर्व.कर्म.जहस्य.भिक्षुणे.धुन्वानस्य.पुरस्कृतम्.रजः ।
- ३२.३ अममस्य.सदा.स्थितात्मनो.ह्य्.अर्थो.नास्ति.जनस्य.लापनम् ॥
- ३२.४ तुदन्ति.वाचाभिर्.असम्यता.जनाः.शरैर्.हि.संग्राम.गतम्.यथा.गजम् ।
- ३२.४ श्रुत्वा.तु.वाचाम्.परुषाम्.उदीरिताम्.अधिवासयेद्.भिक्षुर्.अदुष्ट.चित्तः ॥
- ३२.५ यस्.त्व्.अल्प.जीवी.लघुर्.आत्म.कामो.यतेन्द्रियः.सर्व.गतिः.प्रमुक्तः ।
- ३२.५ अनोकसारी.ह्य्.अममो.निराशः.कामम्.जहश्.चैक.चरः.स.भिक्षुः ॥
- ३२.६ मात्रम्.भजेत.प्रतिरूपम्.शुद्धाजीवो.भवेत्.सदा ।
- ३२.६ प्रतिसंस्तार.वृत्तिः.स्याद्.आचार.कुशलो.भवेत् ।
- ३२.६ f: ततः.प्रमोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
- ३२.७ हस्त.सम्यतः.पाद.सम्यतो.वाचा.सम्यतः.सर्व.सम्यतः ।
- ३२.७ आध्यात्म.रतः.समाहितो.ह्य्.एकः.संतुषितो.हि.यः.स.भिक्षुः ॥
- ३२.८ धर्मारामो.धर्म.रतो.धर्मम्.एवानुचिन्तयन् ।
- ३२.८ धर्मम्.चानुस्मरन्.भिक्षुर्.धर्मान्.न.परिहीयते ॥
- ३२.९ शुन्यागारम्.प्रविष्टस्य.प्रहितात्मस्य.भिक्षुणः ।[.शून्यागारम्.]
- ३२.९ अमानुषा.रतिर्.भवति.सम्यग्.धर्मान्.विपश्यतः ॥
- ३२.१० यतो.यतः.संस्पृशति.स्कन्धानाम्.उदय.व्ययम् ।
- ३२.१० प्रामोद्यम्.लभते.तत्र.प्रीत्या.सुखम्.अनल्पकम् ।
- ३२.१० f: ततः.प्रामोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
- ३२.११ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
- ३२.११ एवम्.राग.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
- ३२.१२ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
- ३२.१२ एवम्.द्वेष.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
- ३२.१३ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
- ३२.१३ एवम्.मोह.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
- ३२.१४ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
- ३२.१४ एवम्.मान.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
- ३२.१५ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
- ३२.१५ एवम्.लोभ.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
- ३२.१६ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
- ३२.१६ एवम्.तृष्णा.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
- ३२.१७ यस्य.सन्निचयो.नास्ति.यस्य.नास्ति.ममायितम् ।
- ३२.१७ असन्तम्.शोचते.नैव.स.वै.भिक्षुर्.निरुच्यते ।
- ३२.१८ भिक्षुर्.न.तावता.भवति.यावता.भिक्षते.परान् ।
- ३२.१८ वेष्मान्.धर्मान्.समादाय.भिक्षुर्.भवति.न.तावता ॥
- ३२.१९ यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् ।
- ३२.१९ विश्रेणयित्वा.चरति.स.वै.भिक्षुर्.निरुच्यते ॥
- ३२.२० मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
- ३२.२० अधिगच्छेत्.पदम्.शान्तम्.असेचनक.दर्शनम् ॥
- ३२.२१ मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
- ३२.२१ अधिगच्छेत्.पदम्.शान्तम्.संस्कारोपशमम्.सुखम् ॥
- ३२.२२ मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
- ३२.२२ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥
- ३२.२३ उदग्र.चित्तः.सुमना.ह्य्.अभिभूय.प्रियाप्रियम् ।[.प्रिया.प्रियम्.]
- ३२.२३ प्रामोद्य.बहुलो.भिक्षुर्.दुह्ख.क्षयम्.अवाप्नुयात् ॥
- ३२.२४ शान्त.कायः..............शान्त.वाक्.सुसमाहितः ।
- ३२.२४ वान्त.लोकामिषो.भिक्षुर्.उपशान्तो.निरुच्यते ॥
- ३२.२५ नास्त्य्.अप्रज्ञस्य.वै.ध्यानम्.प्रज्ञा.न.ध्यायतो.अस्ति.च ।
- ३२.२५ यस्य.ध्यानम्.तथा.प्रज्ञा.स.वै.निर्वाण.सान्तिके ॥
- ३२.२६ तस्माद्.ध्यानम्.तथा.प्रज्ञाम्.अनुयुज्येत.पण्डितः ।
- ३२.२६ तस्याहम्.आदिर्.भवति.तथा.प्राज्ञस्य.भिक्षुणः ॥
- ३२.२७ संतुष्टिर्.इन्द्रियैर्.गुप्तिः.प्रातिमोक्षे.च.संवरः ।
- ३२.२७ मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयनासनम् ॥
- ३२.२७ f: अधिचित्ते.समायोगम्.यस्यासौ.भिक्षुर्.उच्यते ॥
- ३२.२८ यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् ।
- ३२.२८ कल्याण.शीलम्.आहुस्.तम्.ह्रीमन्तम्.भिक्षुम्.उत्तमम् ॥
- ३२.२९ धर्माः.सुभाविता.यस्य.सप्त.सम्भोध.पक्षिकाः ।
- ३२.२९ कल्याण.धर्मम्.आहुस्.तम्.सदा.भिक्षुम्.समाहितम् ॥
- ३२.३० इहैव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः ।
- ३२.३० कल्याण.प्रज्ञम्.आहुस्.तम्.सदा.शीलम्.अनास्रवम् ॥
- ३२.३१ न.शील.व्रत.मात्रेण.बहुश्रुत्येन.वा.पुनः । [.बाहुश्रुत्येन.]
- ३२.३१ तथा.समाधि.लाभेन.विविक्त.शयनेन.वा ॥
- ३२.३२ भिक्षुर्.विश्वासम्.आपद्येद्.अप्राप्ते.ह्य्.आस्रव.क्षये ।
- ३२.३२ स्पृशेत्.तु.सम्बोधि.सुखम्.अकापुरुष.सेवितम् ॥
- ३२.३३ ताप.जातो.ह्य्.अयम्.लोकः.स्कन्धा.नात्मेति.मन्यते ।
- ३२.३३ मन्यते.येन.येनाहम्.तत्.तद्.भवति.चान्यथा ॥
- ३२.३४ लोको.अयम्.अन्यथा.भूतो.भव.सक्तो.भवे.रतः ।
- ३२.३४ भवाभिनन्दी.सततम्.भवान्.न.परिमुच्यते ॥
- ३२.३५ यन्.नन्दते.स.हि.भवो.दुह्खस्य.स.बिभेति.च ।
- ३२.३५ उष्यते.भव.हानाय.ब्रह्मचर्यम्.ममान्तिके ॥
- ३२.३६ ये.भवेन.भवस्यैव.प्राहुर्.निह्सरणम्.सदा ।
- ३२.३६ अनिह्सृतान्.भवा.सर्वांस्.तान्.वदामि.सदा.व्.अहम् ॥?
- ३२.३७ प्रतीत्य.दुह्खम्.उपधिम्.भवत्य्.उपधि.सम्भवम् ।
- ३२.३७ क्षयात्.सर्वोपधीनाम्.तु.नास्ति.दुह्खस्य.सम्भवः ॥
- ३२.३८ अनित्या.हि.भवाः.सर्वे.दुह्खा.विपरिणामिनः ।
- ३२.३८ पश्यतः.प्रज्ञया.सर्वे.क्षीयन्ते.नाभिनन्दिताः ॥
- ३२.३९ निर्वृतस्य.सदा.भिक्षोर्.आयत्याम्.उपशाम्यते ।
- ३२.३९ अभिभूतो.भवः.सर्वो.दुह्खान्तः.स.निरुच्यते ॥
- ३२.४० सदोपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
- ३२.४० विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥
- ३२.४१ सदोपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
- ३२.४१ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥
- ३२.४२ अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
- ३२.४२ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥
- ३२.४३ अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
- ३२.४३ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥
- ३२.४४ विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
- ३२.४४ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥
- ३२.४५ विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
- ३२.४५ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥
- ३२.४६ उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
- ३२.४६ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥
- ३२.४७ उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
- ३२.४७ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥
- ३२.४८ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
- ३२.४८ यश्.च.राग.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
- ३२.४९ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
- ३२.४९ यश्.च.द्वेष.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
- ३२.५० उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
- ३२.५० यश्.च.मोह.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
- ३२.५१ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
- ३२.५१ यश्.च.मान.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
- ३२.५२ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
- ३२.५२ यश्.च.लोभ.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
- ३२.५३ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
- ३२.५३ यश्.च.तृष्णा.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
- ३२.५४ येन.जिता.ग्राम.कण्टका.ह्य्.आक्रोशाश्.च.वधाश्.च.बन्धनम्.च ।
- ३२.५४ यः.पर्वतवत्.स्थितो.ह्य्.अनेयः.सुख.दुह्खेन.न.वेथते.स.भिक्षुः ॥
- ३२.५५ यो.नात्यसरम्.न.चात्यलीयम्.ज्ञात्वा.वितथम्.इमम्.हि.सर्व.लोकम् ।
- ३२.५५ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.५६ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
- ३२.५६ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.५७ यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
- ३२.५७ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.५८ यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
- ३२.५८ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.५९ यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
- ३२.५९ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६० यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
- ३२.६० स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६१ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
- ३२.६१ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६२ यस्.तूत्पलितम्.निहन्ति.रागम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
- ३२.६२ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६३ यस्.तूत्पलितम्.निहन्ति.द्वेषम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
- ३२.६३ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६४ यस्.तूत्पलितम्.निहन्ति.मोहम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
- ३२.६४ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६५ यस्.तूत्पलितम्.निहन्ति.मानम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
- ३२.६५ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६६ यस्.तूत्पलितम्.निहन्ति.लोभम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
- ३२.६६ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६७ यस्.तूत्पलितम्.निहन्ति.तृष्णाम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
- ३२.६७ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६८ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
- ३२.६८ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.६९ यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
- ३२.६९ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७० यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
- ३२.७० स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७१ यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
- ३२.७१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७२ यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
- ३२.७२ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७३ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
- ३२.७३ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७४ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.सरिताम्.शीघ्र.जवाम्.अशोषयज्ञः ।
- ३२.७४ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७५ यः.काम.गुणान्.प्रहाय.सर्वान्.छित्त्वा.काम.गतानि.बन्धनानि ।
- ३२.७५ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७६ यो.नीवरणाम्.प्रहाय.पञ्च.त्व्.अनिघश्.छिन्न.कथम्.कथो.विशल्यः ।
- ३२.७६ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७७ यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् ।
- ३२.७७ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७८ यस्य.हि.वनसा.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् ।
- ३२.७८ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.७९ यस्य.ज्वरथा.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् ।
- ३२.७९ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.८० यस्यानुशया.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् ।
- ३२.८० स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.८१ स.भिक्षुर्.यस्य.शीलानि.स.ध्यायी.यत्र.शुन्यता ।[.शून्यता.]
- ३२.८१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
- ३२.८२ अरति.रति.सहो.हि.भिक्षुर्.एवम्.................. ।
- ३२.८२ ..................रागानुशयम्.समुद्धरम्.हि ॥
- ३३.१ न.नग्न.चर्या.न.जटा.न.पङ्का.नो.अनाशनम्.स्थण्डिल.शायिका.वा ।
- ३३.१ न.रजो.मलम्.नोत्कुटुक.प्रहाणम्.शोधेत.मर्त्यम्.ह्य्.अवितीर्ण.काङ्क्षम् ॥
- ३३.२ अलंकृतश्.चापि.चरेत.धर्मम्.क्षान्तो.दान्तो.नियतो.ब्रह्म.चारी ।
- ३३.२ सर्वेषु.भूतेषु.निधाय.दण्डम्.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥
- ३३.३ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
- ३३.३ अन्तरेण.विषीदन्ति.ह्य्.अप्राप्यैवास्रव.क्षयम् ॥
- ३३.४ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
- ३३.४ विगृह्य.विवदन्तीमे.बाला.ह्य्.एकान्त.दर्शिनः ॥
- ३३.५ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
- ३३.५ अन्तरेण.विषीदन्त्यप्राप्यैवोत्तमम्.पदम् ॥
- ३३.६ किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.चाप्य्.अजिन.शाटिभिः ।
- ३३.६ अभ्यन्तरम्.ते.गहनम्.बाह्यकम्.परिमार्जसि ॥
- ३३.६ किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.चाप्य्.अजिन.शाटिभिः ।
- ३३.६ अभ्यन्तरम्.ते.कलुषम्.बाह्यकम्.परिमार्जसि ॥
- ३३.७ न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः ।
- ३३.७ यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥
- ३३.८ न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः ।
- ३३.८ यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः ॥
- ३३.८ f: वाहितत्वात्.तु.पापानाम्.ब्राह्मणो.वै.निरुच्यते ॥
- ३३.९ न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः ।
- ३३.९ यस्य.सत्यम्.च.धर्मम्.च.ब्राह्मणः.श्रमणः.स.च ॥
- ३३.१० न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः ।
- ३३.१० यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः ।
- ३३.१० f: वाहितत्वात्.तु.पापानाम्.ब्राह्मणः.श्रमणः.स.च ॥
- ३३.११ नोदकेन.शुचिर्.भवति.बह्व्.अत्र.स्नाति.वै.जनः ।
- ३३.११ यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥
- ३३.१२ प्रवाह्य.पापकान्.धर्मान्.ये.चरन्ति.सदा.स्मृताः ।
- ३३.१२ क्षीण.सम्योजना.बुद्धा.ब्राह्मणास्.ते.प्रकीर्तिताः ॥
- ३३.१३ यो.ब्राह्मणो.वाहित.पाप.धर्मो.निष्कौटिल्यो.निष्कषायः.स्थितात्मा ।
- ३३.१३ वेदान्तगश्.चोषित.ब्रह्म.चर्यः.कालेनासौ.ब्रह्म.वादम्.वदेत ॥
- ३३.१४ यस्मिन्.न.माया.वसते.न.मानो.यो.वीत.लोभो.ह्य्.अममो.निराशः ।
- ३३.१४ प्रणुन्न.दोषो.ह्य्.अभिनिर्वृतात्मा.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥
- ३३.१५ ब्रवीमि.ब्राह्मणम्.नाहम्.योनिजम्.मातृ.सम्भवम् ।
- ३३.१५ भो.वादी.नाम.स.भवति.स.चेद्.भवति.सकिंचनः ।
- ३३.१५ f: अकिंचनम्.अनादानम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.१६ यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् ।
- ३३.१६ सुसंवृतम्.तृभिः.स्थानैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.१७ यो.अकर्कशाम्.विज्ञपनीम्.गिरम्.नित्यम्.प्रभाषते ।
- ३३.१७ यया.नाभिषजेत्.कश्चिद्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.१८ आक्रोशान्.वध.बन्धांश्.च.यो.अप्रदुष्टस्.तितीक्षते ।[.तितिक्षते.]
- ३३.१८ क्षान्ति.व्रत.बलोपेतम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.१९ अक्रोधनम्.व्रतवन्तम्.शीलवन्तम्.बहु.श्रुतम् ।
- ३३.१९ दान्तम्.अन्तिम.शारीरम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२० असंसृष्टम्.गृहस्थेभिर्.अनगारैस्.तथोभयम् ।
- ३३.२० अनोकसारिणम्.तुष्टम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२१ आगतम्.नाभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति ।
- ३३.२१ सङ्गात्.संग्रामजिन्.मुक्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२२ आगतम्.नाभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति ।
- ३३.२२ अशोकम्.विरजम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२३ अनन्य.पोषी.ह्य्.आज्ञाता.दान्तः.सारे.प्रतिष्ठितः ।
- ३३.२३ क्षीणास्रवो.वान्त.दोषो.यः.स.वै.ब्राह्मणः.स्मृतः ॥
- ३३.२४ यस्य.पारम्.अपारम्.च.पारापारम्.न.विद्यते ।
- ३३.२४ पारगम्.सर्व.धर्माणाम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२५ यस्.तु.दीर्घम्.तथा.ह्रस्वम्.अणु.स्थूलम्.शुभाशुभम् ।
- ३३.२५ लोके.न.किंचिद्.आदत्ते.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२६ यस्य.पारम्.अपारम्.च.पारापारम्.न.विद्यते ।
- ३३.२६ असक्तम्.त्रिषु.लोकेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२७ इहैव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः ।
- ३३.२७ वीत.रागम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२८ यस्.तु.पुण्यैस्.तथा.पापैर्.उभयेन.न.लिप्यते ।
- ३३.२८ अशोकम्.निर्ज्वरम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२९ यस्.तु.पुण्यम्.च.पापम्.चाप्य्.उभौ.सङ्गाव्.उपत्यगात् ।
- ३३.२९ सङ्गातिगम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.२९ यस्य.पश्चात्.पुरे.चापि.मध्ये.चापि.न.विद्यते ।
- ३३.२९ विरजम्.बन्धनम्.मुक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३० वारि.पुष्कर.पत्त्रेणेवाराग्रेणेव.सर्षपः ।?
- ३३.३० न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३१ वारि.पुष्कर.पत्त्रेणेवाराग्रेणेव.सर्षपः ।?
- ३३.३१ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
- ३३.३१ न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
- ३३.३१ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
- ३३.३१ नन्दी.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३२ ध्यायिनम्.वीत.रजसम्.कृत.कृत्यम्.अनास्रवम् ।
- ३३.३२ क्षीणास्रवम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३३ गम्भीर.बुद्धिम्.मेधाढ्यम्.मार्गामार्गेषु.कोविदम् ।
- ३३.३३ उत्तमार्थम्.अनुप्राप्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३४ यस्.तु.कश्चिन्.मनुष्येषु.भैक्षाचर्येण.जीवति ।
- ३३.३४ अममो.अहिंसको.नित्यम्.धृतिमान्.ब्रह्मचर्यवान् ।
- ३३.३४ f: आज्ञाय.धर्मम्.देशयति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३५ सर्व.कामान्.विप्रहाय.यो.अनगारः.परिव्रजेत् ।
- ३३.३५ कामास्रव.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३६ निक्षिप्त.दण्डम्.भूतेषु.त्रसेषु.थावरेषु.च ।
- ३३.३६ यो.न.हन्ति.हि.भूतानि.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३७ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
- ३३.३७ न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३८ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
- ३३.३८ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३८ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
- ३३.३८ नन्दी.भाव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.३९ अविरुद्धो.विरुद्धेषु.त्व्.आत्त.दण्डेषु.निर्वृतः ।
- ३३.३९ हितानुकम्पी.भूतेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४० यस्य.रागश्.च.दोषश्.च.मानो.ंरक्षश्.च.शातितः ।
- ३३.४० न.लिप्यते.यश्.च.दोषैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४१ य;इमाम्.परिखाम्.दुर्गाम्.संसारौघम्.उपत्यगात् ।
- ३३.४१ तीर्णः.पार.गतो.ध्यायी.ह्य्.अनेयो.निष्कथम्.कथः ।
- ३३.४१ f: निर्वृतश्.चानुपादाय.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४१ ......................... ।
- ३३.४१ ......................... ।
- ३३.४१ एf: ............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४२ न.विद्यते.यस्य.तृष्णा.चास्मिन्.लोके.परेऽपि.च ।
- ३३.४२ तृष्णा.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४३ न.विद्यते.यस्य.चाशा.ह्य्.अस्मिन्.लोके.परेऽपि.च ।
- ३३.४३ निराशिषम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४४ हित्वा.रतिम्.चारतिम्.च.शीती.भूतो.निरौपधिः ।
- ३३.४४ सर्व.लोकाभिभूर्.धीरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४५ हित्वा.मनुष्यकान्.कामान्.दिव्यान्.कामान्.उपत्यगात् ।
- ३३.४५ सर्व.लोक.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४६ गतिम्.यस्य.न.जानन्ति.देव.गन्धर्व.मानुषाः ।
- ३३.४६ अनन्त.ज्ञान.सम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४७ पूर्वे.निवासम्.यो.वेत्ति.स्वर्गापायांश्.च.पश्यति ।[.स्वर्गापायांश्.च.]
- ३३.४७ अथ.जाति.क्षयम्.प्राप्तो.ह्य्.अभिज्ञा.व्यवसितो.मुनिः ।
- ३३.४७ f: दुह्खस्यान्तम्.प्रजानाति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४७ ........................ ।
- ३३.४७ ..............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४८ च्युतिम्.यो.वेत्ति.सत्त्वानाम्.उपपत्तिम्.च.सर्वशः ।
- ३३.४८ असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.४९ सर्व.सम्योजनातीतो.यो.वै.न.परितस्यते ।[.परितप्यते.]?
- ३३.४९ असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५० ऋषभम्.प्रवरम्.नागम्.महर्षिम्.विजिताविनम् ।
- ३३.५० अनेयम्.स्नातकम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५०_ ऋषभः.प्रवरो.नागो.महर्षिर्.विजिताविनः ।
- ३३.५०_ यो.अनेयः.स्नातको.बुद्धो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
- ३३.५१ सर्वाभिभूम्.भवातीतम्.ओघ.तीर्णम्.अनास्रवम् ।
- ३३.५१ पारम्.गतम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५१_ सर्वाभिभूर्.भवातीत;ओघ.तीर्णो.विनायकः ।
- ३३.५१_ पारगो.ह्य्.विसम्युक्तः.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
- ३३.५२ गताभिध्यम्.वीत.जल्पम्.पाप.चित्त.विवर्जितम् । [.गताभिध्यम्.]
- ३३.५२ ध्यायिनम्.वीत.रजसम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५२_ नाभिध्यायेन्.नाभिजल्पेत्.पापकानाम्.विवर्जयेत् ।
- ३३.५२_ आसीनो.विरजा.ध्यायी.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
- ३३.५३ पांसु.कूल.धरम्.भिक्षुम्.कामेषु.निरवेक्षिणम् ।
- ३३.५३ ध्यायन्तम्.वृक्ष.मूलस्थम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५३_ पांसु.कूल.धरो.ह्रीमान्.कामेषु.निरवेक्षकः ।
- ३३.५३_ निषण्णो.वृक्ष.मूले.यो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
- ३३.५४ यस्यालयो.नास्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः ।
- ३३.५४ अमृतम्.चैव.यः.प्राप्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५५ यस्यालयो.नास्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः ।
- ३३.५५ दूरम्.गमश्.चैक.चरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५५_ दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् ।
- ३३.५५_ तेनै.............कस्य.ब्राह्मणम् ।
- ३३.५५ f: ......... उ..................ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
- ३३.५६ येषाम्.च.भावितो.मार्गः.आर्यो.ह्य्.अष्टाङ्गिकः.शिवः ।
- ३३.५६ सर्व.दुह्ख.प्रहाणाय.लोकेषु.ब्राह्मणा.हि.ते ॥
- ३३.५७ अरूपिणम्.सदा.चित्तम्.असारम्.अनिदर्शनम् ।
- ३३.५७ दमयित्वा.ह्य्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः ।
- ३३.५७ f: क्षीण.सम्योजना.बुद्धा.लोकेषु.ब्राह्मणा.हि.ते ॥
- ३३.५७_ अरूपम्.अनिदर्शनम्.अनन्तम्.असुदर्शनम् ।
- ३३.५७_ सूक्ष्मम्.पदम्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः ।
- ३३.५७_एf: क्षीण.सम्योजना.बुद्धास्.ते.लोके.ब्राह्मणा;इह ॥
- ३३.५७ ............................. ।
- ३३.५७ ............................. ।
- ३३.५८ छित्त्वा.नद्ध्रीन्.वरत्रान्.च.संतानम्.दुरतिक्रमम् ।
- ३३.५८ उत्क्षिप्त.परिखम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५८_ छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.संतानम्.दुरतिक्रमम् ।
- ३३.५८_ उत्क्षिप्त.परिखा.बुद्धास्.ते.लोके.ब्राह्मणा;इह ॥
- ३३.५९ छित्त्वा.नद्ध्रीन्.वरत्रान्.चेच्छा.लोभम्.च.पापकम् ।
- ३३.५९ तृष्णाम्.समूलाम्.आवृह्य.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
- ३३.५९_ छित्त्वा.नद्ध्रीन्.वरत्रान्.ये इच्छा.लोभम्.च.पापकम् ।
- ३३.५९_ समूलाम्.चोद्धृतास्.तृष्णाम्.ते.लोके.ब्राह्मणा;इह ॥
- ३३.६० छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.ब्राह्मण ।
- ३३.६० संस्काराणाम्.क्षयम्.ज्ञात्वा.ह्य्.अकृतज्ञो.भविष्यति ॥
- ३३.६०_ छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.सर्वान्.प्रणुद.च ।
- ३३.६०_ संस्काराणाम्.क्षयम्.ज्ञात्वा.ब्राह्मणो.याति.हानिघः ॥
- ३३.६१ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.स्श्रोत्रियौ ।
- ३३.६१ राष्ट्रम्.सानुचरम्.हत्वानिघो.याति.ब्राह्मणः ॥
- ३३.६२ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ ।
- ३३.६२ व्याघ्रम्.च.पञ्चमम्.हत्वा.शुद्ध;इत्य्.उच्यते.नरः ॥
- ३३.६३ न.ब्राह्मणस्य.प्रहरेन्.न.च.मुञ्चेत.ब्राह्मणः ।
- ३३.६३ धिग्.ब्राह्मणस्य.हन्तारम्.धिक्.तम्.यश्.च.प्रमुञ्चति ॥
- ३३.६३ .............................. ।
- ३३.६३ .............................. ।
- ३३.६४ यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा ।
- ३३.६४ सत्कृत्यैनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥
- ३३.६५ यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा ।
- ३३.६५ सत्कृत्यैनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥
- ३३.६६ यस्य.धर्मम्.विजानीयाद्त्.सम्यक्.सम्बुद्ध.देशितम् ।
- ३३.६६ सत्कृत्यैनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥
- ३३.६७ यस्य.धर्मम्.विजानीयात्.सम्यक्.सम्बुद्ध.देशितम् ।
- ३३.६७ सत्कृत्यैनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥
- ३३.६८ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
- ३३.६८ अथ.चैकः.पिशाचीम्.च.बक्कुलम्.चातिवर्तते ॥
- ३३.६९ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
- ३३.६९ अथास्य.वेदनाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥
- ३३.७० यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
- ३३.७० अथास्य.प्रत्ययाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥
- ३३.७१ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
- ३३.७१ अथास्य.चास्रवाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥
- ३३.७२ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
- ३३.७२ अथास्य.सर्व.सम्योगा;अस्तम्.गच्छन्ति.पश्यतः ॥
- ३३.७३ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
- ३३.७३ अथ.जाति.जराम्.चैव.मरणम्.चातिवर्तते ॥
- ३३.७४ दिवा.तपति.हादित्यो.रात्राव्.आभाति.चन्द्रमाः ।
- ३३.७४ सन्नद्धः.क्षत्रियस्.तपति.ध्यायी.तपति.ब्राह्मणः ।
- ३३.७४ f: अथ.नित्यम्.अहो.रात्रम्.बुद्धस्.तपति.तेजसा ॥
- ३३.७५ न.ब्राह्मणस्येदृशम्.अस्ति.किंचिद्.यथा.प्रियेभ्यो.मनसो.निषेधः ।
- ३३.७५ यथा.यथा.ह्य्.अस्य.मनो.निवर्तते.तथा.तथा.संवृतम्.एति.दुह्खम् ॥
- ३३.७६ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
- ३३.७६ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.दुह्खम् ॥
- ३३.७७ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
- ३३.७७ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.धर्मम् ॥
- ३३.७८ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
- ३३.७८ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.प्रत्ययानाम्.उपैति ॥
- ३३.७९ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
- ३३.७९ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.वेदनानाम्.उपैति ॥
- ३३.८० यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
- ३३.८० अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.ह्य्.आस्रवाणाम्.उपैति ॥
- ३३.८१ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
- ३३.८१ अवभासयंस्.तिष्ठति.सर्व.लोकम्.सूर्यो.यथैवाभ्युदितो.अन्तरीक्षम् ॥
- ३३.८२ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
- ३३.८२ अवभासयंस्.तिष्ठति.सर्व.लोकम्.बुद्धो.हि.सम्योजन.विप्रमुक्तः ॥
- ३३.८३ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
- ३३.८३ विधूपयंस्.तिष्ठति.मार.सैन्यम्.बुद्धो.हि.सम्योजन.विप्रमुक्त;इति ॥
उद्दानम्॥
सम्पाद्यताम्- अनित्य.काम.तृष्णा.चाप्रमादस्.तथा.प्रियः ।
- शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः ॥
- श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः ।
- उदकम्.पुष्पम्.अश्वश्.च.सह.क्रोधेन.ते.दशः ॥
- तथा.गतः.श्रुतम्.चात्मा.पेयालम्.मित्र.पञ्चमम् ।
- निर्वाणम्.पश्य.पापम्.च.युग.वर्गः.सुखेन.च ।
- चित्तम्.भिक्षुर्.ब्राह्मणश्.च.त्रयस्.त्रिंशतिमे.स्मृताः ।
- वर्गाः.समाप्ताश्.चोद्दानम्.सम्यक्.सम्बुद्ध.भाषिताः ॥