उपदेशशतकम् (गुमानिकविप्रणीतम्)
उपदेशशतकम् (गुमानिकविप्रणीतम्) गुमानिः १९३२ |
श्रीगुमानिकविप्रणीतम्
उपदेशशतकम् ।
त्रिषु देवेषु महान्तं भृगुर्बुभुत्सुः परीक्ष्य हरिमेकम् ।
मेनेऽधिकं महिम्ना सेव्यः सर्वोत्तमो विष्णुः ॥ १॥
रुक्माङ्गदः स्वपुत्रं निहत्य खङ्गेन मोहिनीवचसा ।
सत्यां ररक्ष वाचं न संकटेऽपि त्यजेद्धर्मम् ॥ २॥
निर्वासितो हितेप्सुर्विभीषणो रावणेन लङ्कायाः।
तन्नाशहेतुरासीन्नहि निजबन्धुर्विरोद्धव्यः ॥ ३ ॥
हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः ।
प्रोषुर्वनेषु पार्था धीरः समयं प्रतीक्षेत ॥ ४ ॥
मणिहेतोरभिशप्तः कृष्णः सत्राजिताथ जाम्बवतः ।
जित्वा ददौ तमस्सै जनापवादाद्भजेद्धीतिम् ॥ ५ ॥
खाराज्यमश्नुवानः प्रकोप्य नहुषो मुनीनहिर्भूत्वा ।
न्यपतत्त्वरितमघस्तात्प्राप्तैश्वर्यो न दृप्तः स्यात् ॥ ६ ॥
सहधर्मिणी वनान्ताद्दशरथसूनो हार दशवक्त्रः ।
बन्धनमाप समुद्रो न दुर्जनस्यान्तिके निवसेत् ॥ ७ ॥
१. एतच्छतकोदाहरणकथास्तु प्रायः श्रीमद्भागवते हरिवंशे च वर्तन्ते. २. इयं
भृगुकथा श्रीमद्भागवते दशमस्कन्धे नवाशीतिमितेध्याये द्रष्टव्या. ३. 'खलः करोति
दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरसीतां बन्धनं च महोदधेः ॥' इति प्राचीनः
श्लोकः,
उपदेशशतकम् ।
हन्तुं देवकतनयां वसुदेवेनोद्यतायुधः कंसः ।
मधुरोक्तिभिरनुनीतः साम्ना मूर्खं वशे कुर्यात् ॥ ८॥
भ्रातर्महदतिचारो न युक्त इति वादिनं दशग्रीवः ।
धनदं बबन्ध युद्धे मूढमतिर्नोपदेष्टव्यः ॥ ९॥
विश्रब्धश्चटुवचनैः कैकेय्यै दशरथो वरं दत्त्वा ।
संकटमाप दुरन्तं स्त्रीषु न कुर्वीत विश्वासम् ॥ १०॥
गर्वाद्योद्मुपेतः पौलस्त्यः सपदि कार्तवीर्येण ।
क्रीडामृग इव बद्धो न बलोदिक्तेन योद्धव्यम् ॥ ११ ॥
संदीपिताग्रपुच्छो बद्धतनुस्ताडितोऽपि रक्षोभिः ।
लङ्कां मारुतिरदह द्विपदि विजह्यान्न शूरत्वम् ॥ १२ ॥
रुक्मी छलेन दीव्यन्वलं विजित्याथ परिहसन्नुच्चैः ।
द्राग्वधमाप सभायां नोपहसेन्निर्जितं द्यूते ॥ १३ ।।
शकुनिसुयोधनकर्णैर्जितोऽक्षधूतैर्युधिष्ठिरो ब्रूते ।
निर्वासितः खराष्ट्रात्कितवैः सह नाचरेद्द्यूतम् ॥ १४ ।।
मखरक्षणाय पुत्रं विश्वामित्राय दशरथोऽर्थयते ।
प्रायच्छद्गतशकं दुस्त्यजमप्यर्थिने देयम् ॥ १५ ॥
त्यज पार्थैः सह रणमिति विदुरेणोक्तोऽम्बिकासुतः सततम् ।
तदमत्वा क्षयमापत्कर्तव्यं भाषितं सुहृदाम् ॥ १६ ॥
शिशुपालः क्रतुकाले हरिमहं गर्हयन्ननर्होक्त्या ।
तत्क्षणमियाय नाशं न महान्तं क्वापि गहेत ॥ १७ ॥
अन्यद्विजाय मोहान्नृगो वदान्यो द्विजस्य गां दत्त्वा ।
सद्योऽभूत्कृकलासो ब्रह्मखं दूरतो विसृजेत् ॥ १८ ॥
सुग्रीवो रघुपतिना हृतदारेणोपगम्य हृतदारः ।
दृढमाबबन्ध सख्यं समानदुःखः सखा कार्यः ॥ १९॥
१. बलदेवम्, २. धृतराष्ट्रः, ३. नृगोपाख्यानं महाभारतेऽनुशासनपर्वणि सप्तति- मितेऽध्याये द्रष्टव्यम्. ३ द्वि. गु. काव्यमाला। वीरो वैतनिकः सन्विराटनगरोषितः कुमारीणाम् । नर्तयितार्जुन आसीद्भजेदवस्थोचिता वृत्तिम् ॥ २० ॥ दुष्यन्तः स्ववधूमपि कण्वानीतां शकुन्तलां समुताम् । सुचिरं विमृश्य भेजे कार्यं सहसा न विदधीत ॥ २१ ॥ जमदग्निना नियुक्तः सद्यो निजघान मातरं रामः । निर्दोषः पुनरासीद्गुरूक्तमविचारितं कुर्यात् ।। २२ ।। शतयोजनततमब्धिं विलङ्घ्य वातात्मजोऽविशल्लङ्काम् । वीराग्रतःसरोऽभूद्यशोऽर्जयन्साहसं कुर्यात् ॥ २३ ॥ प्रहितः सुरैजिंगीपुर्हरं प्रहर्तुं स्मरोऽभ्ययाद्यावत् । भस्मीबभूव तावन्न चिकीर्षेद्दुष्करं कर्म ॥ २४ ॥ संकुट्य पादघातैः कालिन्द्यां कालियं कृतागस्कम् । निरयापयन्मुकुन्दो दुष्टे दण्डः प्रयोक्तव्यः ॥ २५ ॥ कुलिशाहतिहृतशिरसेऽप्यदात्कबन्धाय जीवते शक्रः । अशनायोरसि वदनं दीनो रिपुरप्यनुग्राह्यः ॥ २६ ।। सुग्रीवाय शुकः खादशमुखसंदेशमादिशन्कपिभिः । संताड्य सपदि बद्धो न दूतभावं भजेदसतः ॥ २७ ॥ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् । पुनरनुतापमवापत्पापं कृत्वानुतप्येत ॥ २८ ॥ भोगान्बहून्ययातिर्भुक्त्वा वयसा सुतस्य चिरकालम् । निरविद्यतावितृप्तः कामं मन्येत दुष्पूरम् ।। २९ ।। बलिरिन्द्रजित्रिलोक्यां भुञ्जन्भोगांश्चिराद्विनष्टश्रीः । सुतलेऽवध्यत पाशैर्भोगान्क्षणभङ्गुरान्विद्यात् ॥ ३० ॥ विलपन्तं हतपुत्रं धृतराष्ट्रं वीक्ष्य करुणया कृष्णः । क्षणमनुशुशोच सास्रं दुःखितमनु दुःखितो भूयात् ॥ ३१ ॥
१. एतनामकं सर्पम्. २. कबन्धकथा वाल्मीकिरामायणेऽरण्यकाण्डे द्रष्टव्या,
३. सारणसहचरो रावणदूतः. ४. निर्वेदं प्राप. उपदेशशतकम् ।
निःक्षत्रियां न चक्रे यावद्रामो भुवं रुषा तावत् ।
आसीद्रणैकतानो विरमेदसमाप्य नारब्धम् ॥ ३२ ॥
दुहिता विदेहभर्तुर्दाशरथेर्भामिनी सीता ।
वघमाप राक्षसीनां विधेर्विचित्रा गतिर्बोध्या ॥ ३३ ॥
निगमागमैकवेत्ता द्रोणस्तप्त्वा तपोऽर्थमन्विच्छन् ।
धानुष्कवृत्तिरासीद्धर्ं चार्थं च सेवेत ॥ ३४ ॥
अधिशंभुमौलि निवसन्नेककलात्मा यथार्च्यते चन्द्रः ।
न तथा स पूर्णविम्बः श्रयेन्महान्तं महत्त्वाय ॥ ३५ ॥
शरतल्पमधिशयानाद्भीष्मादाकर्ण्य धर्मजो धर्मान् ।
दुःखं जहौ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ।। ३६ ।।
कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् ।
जीवितमरक्षि पार्थैः खात्मानं सर्वतो रक्षेत् ।। ३७ ॥
पृथुकोपहारपाणिहरिं सखायं प्रपद्य दीनात्मा ।
श्रीमानभूत्सुदामा श्रयेत सन्मित्रमापत्सु ॥ ३८ ॥
दृष्ट्वा हरिः समक्षं बाणत्राणाय कोटवीं नग्नाम् ।
समरे पराङ्भुखोऽभूस्त्रियं विवस्त्रां न वीक्षेत ॥ ३९ ॥
अदिशल्लक्ष्मणहेतोर्मारुतिमानेतुमोषधीं रामः ।
तामानयत्स दूराद्धर्यः कार्ये नियोक्तव्यः ॥ ४० ॥
आराध्य कैतवज्ञो रौद्रं रुद्राद्वृको वरं लब्ध्वा ।
गौरीमियेष हर्तुं न विनीतं विश्वसेद्धूर्तम् ॥ ४१ ॥
दशकण्ठरक्षितायां लङ्कायां रक्षसामभूद्वसताम् ।
गृह वित्तबन्धुनाशो वसेन्न राष्ट्रे कुभूपाले ॥ ४२ ॥
शप्त्वाम्बरीषमार्यं दुर्वासाः कोपनो निरागस्कम् ।
चक्रेण तापितोऽभून्न विदध्यात्क्रोधमस्थाने ॥ ४३ ॥
१ कोटवी नन्ना स्त्री. तत्कथा हरिवंशे बाणासुरयुद्धे प्रसिद्धा.
२. शकुनिसूनुर्वको
नाम कश्चिदसुरः, तत्कथा श्रीमद्भागवते दशमस्कन्धेऽष्टाशीतितमेऽध्याये द्रष्टव्या.
३. भागवतादिप्रसिद्धं विष्णुभक्तं कंचिद्राजविशेषम्.
काव्यमाला।
मखशिखिनि हूयमानं तक्षकमवितुं प्रपन्नमसमर्थः ।
अजहान्न तु पुरुहूतः शरणमुपेतो न हातव्यः ॥ ४४ ॥
हत्वा खसुस्तनूजान्सद्यो जातान्बहून्खलः कंसः ।
उत्सन्नः सहसाभून्न कुत्सितं कर्म कुर्वीत ॥ ४५ ॥
सीतां विसृज्य रामः साकं मुनिभिर्मुनित्रतो राज्यम् ।
शासन्नुवास पुर्यां नेयः सद्भिः समं समयः ॥ ४६ ॥
कृष्णधनंजयभीमान्द्विजवेषस्थाञ्जरासुतश्चिह्नः ।
क्षात्रैः क्षिप्रमजानादाकारैरिङ्गितं विद्यात् ॥ ४७ ॥
यां यां दिशं गतोऽभूद्धिरण्यकशिपुर्यदृच्छया विचरन् ।
तां तां सुराः प्रणेमुर्दुष्टजनं दूरतः प्रणमेत् ॥ १८ ॥
कुर्वन्नपि मुनिशप्तः खजीवितार्थी परीक्षितो यत्नम् ।
दष्टोऽहिना विनष्टो ज्ञेयो मृत्युः सुदुर्वारः ॥ १९ ॥
सदिति प्रतीयमानं जगन्मृति केवलं बुद्ध्वा ।
जनको विमुक्तिमागात्स्वामवदन्तर्जगद्बोध्यम् ॥५०॥
विहरवधूभिरन्तःपुरेऽग्निवों दिवानिशं कामी ।
ग्रस्तोऽथ यक्ष्मणाभूद्विषयान्विषभीषणान्विद्यात् ॥ ५१ ॥
विप्रः पतिर्वृषल्या हिंस्रोऽप्यभिवादनान्महर्षीणाम् ।
वाल्मीकिर्मुनिरासीत्पुरुषानभिवादयेन्महतः ॥ ५२ ॥
निशि कामयन्दुरात्मा द्रुपदसुतां कीचको रहः प्राप्ताम् ।
वधमाप भीमसेनात्परस्त्रियं नाभिकाङ्क्षेत ।। ५३ ॥
युधि कुरवः कृतवैरा वीरं व्यूहं विशन्तमभिमन्युम् ।
बहवो निजघ्नुरेवं नैको रिपुमण्डलं प्रविशेत् ॥ ५४ ॥
पुष्करनिर्जितराज्यः पुरमृतुपर्णस्य नैषधो गत्वा ।
सारथिरभून्निगूढो दुरवस्थो न प्रकाशः स्यात् ।। ५५ ॥
1. 'स संचरिष्णुर्भुवनान्तराणि याम्' (१।४६) इत्यादि शिशुपालवधश्लोकानुसा-
रिणीयमार्या. २. अग्निवर्णकथा रघुवंशस्यैकोनविंशे सर्गे प्रसिद्धैव. ३. लोकप्रसिद्धवेयं
कथा. रामायणादिषु न प्राप्यते. ४. नलभ्राता. ५. नला.
उपदेशशतकम् ।
क्षात्रं विमृष्य धर्मं मान्यैर्गुरुभिर्द्विजैः समं समरे ।
युयुधेऽर्जुनो धनुष्मान्धोरमपि खं चरेद्धर्मम् ॥ ५६ ॥
हरिरम्बुधिमथनोत्था सुधां सुरेभ्यः सुरां सुरारिभ्यः ।
व्यतरत्समं यथार्ं योग्यं योग्याय दातव्यम् ॥ ५७ ।।
अथ चैकत्वमवाप्ताः सुरां निपीयोद्धता मिथो घ्नन्तः ।
युधि यादवाः प्रणेशुीमान्मद्यं न सेवेत ॥ ५८ ॥
यज्ञोत्सवे खपिन्ना हठादनाकारिता सती गत्वा ।
तनुमजहात्परिभूता क्वापि न गच्छेदनाहूतः ॥ ५९ ॥
मुचकुन्देन मुकुन्दो यदुभिरवध्यस्य कालयवनस्य ।
छलतोऽचीकरदन्तं वध्योऽरिर्वञ्चयित्वापि ॥ ६ ॥
असकृद्युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गम् ।
कृत्वा हरिर्न्यवात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ।। ६१ ॥
तुरगार्थेऽभिसरन्तः प्रकोप्य कपिलं क्षणात्समं सर्वे ।
सगरसुताः क्षयमीयुर्न कोपयेत्तापसं शान्तम् ॥ ६२ ॥
मुनिरपि विश्वामित्रः श्वा भूत्वा गूढमुर्वशीवशगः ।
अन्वत्वजत्स्मरांर्तो भेतव्यं दुर्जयात्कामात् ॥ ६३ ॥
बलदर्पितस्त्रिलोक्यां तृणवद्गणयन्दशाननः शूरान् ।
युधि निर्जितः प्लवंगैर्न वहेगर्वं बुघो मनसा ॥ ६४ ।।
मातुर्वाक्शरविद्धः पञ्चाब्दो दुष्करं तपस्तप्त्वा ।
ध्रुव उच्चैःपदमभजत्पुंसा व्यवसायिना भाव्यम् ।। ६५ ॥
नीता रहसि सखीभ्यो बहुमहिता बल्लवी पथि श्रान्ता |
वह मामिति हरिमूचे न ह्यतिसंमानयेत्प्रमदाम् ॥ ६६ ॥
दधतः खलक्ष्म युद्धे मुहुः शृगालस्य जल्पतः परुषम् ।
श्रुत्वा जहास शौरिर्न वाग्विवादं शठैः कुर्यात् ॥ ६७ ॥
१. दक्षप्रजापतिना. २. राजविशेषेण,
३ जरासंधात्.४ द्वारकारूपम्. ५. उत्ता- नपादसूनुः. ६. राजविशेषस्य. काव्यमाला। अकृतागसमपि रामो वालिनमन्तर्हितश्छलेनैव । सख्युर्जधान शत्रुं सुहृद्रिपुं भावयेद्रिपुवत् ।। ६८॥ कुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् । अनुनीतस्तदमुश्चत्कोधाविष्टोऽनुनेतव्यः ॥ ६९ ॥ बद्ध्वार्पितं कुमारैर्द्रोणो द्रुपदं कृतापराधमपि । व्यसृजद्विसृज्य रोषं क्षमिणा पुरुषेण भवितव्यम् ॥ ७० ॥ दुर्योधने सभायां मानभ्रष्टे जहास यद्भीमः | तदभूद्विग्रहबीजं न वैरमुत्पादयेत्वस्मात् ॥ ७१ ॥ खपितॄन्समुद्दिधीर्षन्प्रापथ्य क्ष्मां भगीरथो गङ्गाम् । पावितवानितरानपि हितं चरेत्कर्म सर्वेषाम् ।। ७२ ॥ तारां जहार चन्द्रः स्त्रियं गुरोर्दुद्यतां मिथस्तेन । समरोऽभवत्लुराणां बोध्यं वैरैकबीजं स्त्री ॥ ७३ ॥ अधिवेश्म पूजनीया चिरमुषिता ब्रह्मदत्तभूपस्य । अन्धं चकार पुत्रं न नीचमावासयेत्स्वगृहे ॥ ७४ ॥ लुब्धो बलाज्जिघृक्षन्कामदुवं कौशिको वसिष्ठस्य । न प्राप जातदर्पो हठं न कुर्याद्दुरापेऽर्थे ।। ७५ ।। दृप्तं बलेन रोषान्निबध्य वैरं किरीटिना कर्णम् । कुरवो व्यधुः सखायं रिपोर्विपक्षः सखा कार्यः ॥ ७६ ॥ द्विषतां वधे सहायं ककुत्स्थमिन्द्रो रणे वृषो भूत्वा । अवहद्विहाय लज्जां कार्यार्थी नावहेन्मानम् ॥ ७७ ॥ अपि गौतमो द्विनेत्रं शक्रमहल्यारतं शपन्कुद्धः । चके सहस्रनेत्रं गुणवान्योध्यः सतां शापः ॥ ७८ ॥ धनदः पुष्पकमेकं लङ्कापतये युयुत्सवे दत्त्वा । अलकामपात्समग्रां बहु रक्षेदल्पदानेन ॥ ७९ ॥
१. हस्तिनापुरम्. २. पूजनीया नाम काचिच्चटका. तत्कथा महाभारते शान्तिपर्व-
ण्यापद्धर्म एकोनचत्वारिंशदधिकशततमेऽध्याये, हरिवंशे च प्रथमपर्वणि विशेऽध्याये
द्रष्टव्या. उपदेशशतकम् ।
तनये विनयिनि वीरे पार्थः कुरुभिर्हतेऽपि सौभद्रे ।
युयुधे विधूय शोकं न गते शोको विधातव्यः ॥ ८० ।'
व्यासाच्छ्रुतं भविष्यद्भीमं जनमेजयः स्वकं वृत्तम् ।
शश्वत्स्मरन्नशोचन्न भाविनं चिन्तयेदर्थम् ॥ ८१ ॥
वैकर्तनमपि कुन्त्याः सुतमपि लोकोऽन्यसेविनं कर्णम् ।
राधेयमेव मेने बुधः खवृत्त्यानुवर्तेत ॥ ८२ ॥
हित्वान्यान्हरिदारान्सात्राजित्यै सुरर्षिरर्थज्ञः।
दिव्यं ददौ प्रसूनं मनोऽनुवृत्तिं प्रभोः कुर्यात् ।। ८३ ॥
रोहिण्या वशगोऽन्याः स्त्रियः परित्यज्य दक्षशापेन ।
यक्ष्मी बभूव चन्द्रो नैकरतः स्थाब्दहुस्त्रीकः ॥ ८ ॥
तपसा विधूतपापं माण्डव्यं दण्डयन्यमः सद्यः ।
शूद्रत्वमाप शापान्नादण्ड्ये पातयेद्दण्डम् ॥ ८५ ॥
सत्राजितं निशायां निर्भरनिद्राणमेव शतधन्वा ।
अवधीत्स्यमन्तकार्थे नातिशयालुर्भवेद्रात्रौ ॥ ८६ ।।
हतवत्यपि निजतनुजान्गाघिसुते वीर्यवान्विधेः सुनुः ।
प्रतिकर्तुमाप लज्जां कुलानुरूपं वहेच्छीलम् ॥ ८७ ॥
विद्यां कचो वुभुत्सुः शुक्रात्संजीविनीं विनीतात्मा ।
सुरपक्षगोऽपि लेभे विनवात्संसाधयेत्कार्यम् ॥ ८८ ॥
द्रोणे सख इति वादिनि नारथिरथिनोः सखित्वमित्याह ।
द्रुपदो विधूय सख्यं नृपं न मित्रं विजानीयात् ॥ ८९ ।।
अपि शक्तः परिहर्तुं ययातिशापं हरिर्हते कंसे।
राजासनं न भेजे पुरातनीं पालयेत्संस्थाम् ॥ ९० ॥
विमुखो द्युमद्गदातः प्रद्युम्नो धिक्कृतो रणे हरिणा ।
परिभवमाप महान्तं न भवेद्विमुखो रणाद्धीरः ॥ ९१ ।।
१. अभिमन्यौ. २. सत्यभामाय. ३. नारदः. ४. वसिष्ठः. ५. यदुवंशीया राज्यं
न प्राप्स्यन्तीत्यादि रूपमू.
काव्यमाला।
एकाग्रतां खकर्मणि दत्तात्रेयः प्रशस्य शरकर्तुः ।
समशिक्षतात्मयोगं नीचादपि सद्गुणो ग्राह्यः ॥ ९२ ॥
अपि वञ्चयन्विरिञ्चिः कृष्णं वत्सान्सवत्सपान्हृत्वा ।
खयमेव वञ्चितोऽभून्मायाविषु नाचरेन्मायाम् ॥ ९३ ।।
मृगयारतः प्रसेनो विघटितसेनोऽटवीमटन्नेकः ।
केसरिणा विनिजन्ने नैकाकी संचरेद्विपिनम् ।। ९४ ॥
शिवलिङ्गान्तमलब्धं लब्धं विधिनेति कामधुक्प्राह ।
अथ निन्धमाप शापं न विदध्यात्कूटसाक्षित्वम् ॥ ९५ ।।
पुत्रेण सव्यसाची पराजितो बभ्रुवाहनेनाजौ ।
तुष्यन्हृदि न ललज्जे पराजयं पुत्रतोऽन्विच्छेत् ॥ ९६ ॥
चिरसंगताय कुन्ती कृष्णाय क्लेशिता कुरुक्षेत्रे ।
व्यसनं खमाह सर्वं सुहृदे विनिवेदयेद्दुःखम् ॥ ९७ ॥
पाञ्चालीगजराजौ हरिणा दुःशासनावहाराभ्याम् ।
त्रातौ क्षणात्प्रपन्नौ हरिं भयार्तः प्रपद्येत ॥ ९८ ॥
दैवानोपलब्धां ययातिरब्राह्मणोऽपि गतशङ्कम् ।
शुक्रसुतामुपयेमे विधिप्रणीते प्रवर्तेत ॥ ९९ ॥
असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः ।
तत्त्वविदुषां वरोऽभूद्धितोपदेशं सदा शृणुयात् ॥ १०० ॥
स्फुटमार्यशतगदितान्पृथक्प्रमाणीकृतानुदाहरणैः
शतमेतानुपदेशान्विभावयन्भावयेत्सिद्धिम् ।। १०१ ।।
कुतुकाय कोविदानां मूढमतीनां महोपकाराय ।
निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम् ।। १०२ ॥
इति श्रीगुमानिकविप्रणीतमुपदेशशतकं समाप्तम् ।
१. अवहारो ग्राहापरनामा जलजन्तुः.