वासनस्थं अनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् । । २.६५ । ।

न दाप्योऽपहृतं तं तु राजदैविकतस्करैः ।
भ्रेषश्चेन्मार्गितेऽअदत्ते दाप्यो दण्डं च तत्समम् । । २.६६ । ।

आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् ।
याचितान्वाहितन्यास निक्षेपादिष्वयं विधिः । । २.६७ । ।

"https://sa.wikisource.org/w/index.php?title=उपनिधिप्रकरणम्&oldid=41129" इत्यस्माद् प्रतिप्राप्तम्