प्रमुखा विकल्पसूचिः उद्घाट्यताम्

<span style="font-size: 14pt; line-height:
पञ्चत्रिंशः सर्गः ३५

प्रह्लाद उवाच ।
ओमित्येकोचिताकारो विकारपरिवर्जितः ।
आत्मैवायमिदं सर्वं यत्किंचिज्जगतीगतम् ।। १
मेदोस्थिमांसमज्जासृगतीतोऽप्येष चेतनः ।
अन्तरस्थो हि सूर्यादीन्प्रकाशयति दीपकः ।। २
उष्णीकरोति दहनं रसयत्यमृतं रसम् ।
इन्द्रियानुभवान्भुङ्कते भोगानिवमहीपतिः ।। ३
तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति ।
शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते ।। ४
पूर्वमद्य तथेदानीमिहामुत्रोभयत्र च ।
विहितोऽविहितोऽप्येष समः सर्वासु वृत्तिषु ।। ५
उद्भवत्यभयो भावं भुवनानि ततस्ततः ।
ब्रह्मादितृणपर्यन्तं जगदावर्तयन्स्थितः ।। ६
नित्यस्पन्दमयो नित्यमपि देवात्सदागतेः ।
स्थाणोरप्यक्रियो नित्यमाकाशादप्यलेपकः ।। ७
मनांसि क्षोभयत्येष पल्लवानीव मारुतः ।
वाहयत्यक्षपङ्कतिं स्वामश्वालीमिव सारथिः ।। ८
अतिदुर्विधवद्देहगेहे कर्मरतः सदा ।
सम्राडिवात्मनि स्वस्थः संस्थितो भोगभुग्विभुः ।। ९
एष एव सदाऽन्विष्यः स्तुत्यो ध्यातव्य एव तु ।
जरामरणसंमोहादनेनोत्तीर्य गम्यते ।। १०
सुलभश्चायमत्यन्तं सुजेयश्चाप्तबन्धुवत् ।
शरीरपद्मकुहरे सर्वेषामेव षट्पदः ।। ११
अनाक्रुष्टोऽप्यनाहूतः स्वदेहादेव लभ्यते ।
मनागेवोपहूतोऽपि क्षणाद्भवति सन्मुखः ।। १२
नास्य संसेव्यमानस्य सर्वसंपत्तिशालिनः ।
धनानामीश्वरस्येव स्मयो गर्वो यथा भवेत् ।। १३
आमोद इव पुष्पेषु तैलं तिलकणेष्विव ।
रसजातिष्विवास्वादो देवो देहेषु संस्थितः ।। १४
अविचारवशादेष हृदयस्थोऽपि चेतनः ।
न ज्ञायते चिरादृष्टो दृष्टबन्धुरिवाग्रतः ।। १५
विचारणापरिज्ञात एतस्मिन्परमेश्वरे ।
अभ्युदेति परानन्दो लब्धे प्रियजने यथा ।। १६
अस्मिन्दृष्टे परे बन्धावुद्दामानन्ददायिनि ।
आयान्ति दृष्टयस्तास्ता याभिर्भङ्गो विलीयते ।। १७
त्रुट्यन्ते सर्वतः पाशाः क्षीयन्ते सर्वशत्रवः ।
न कृन्तन्ति मनांस्याशा गृहाणीव दुराखवः ।। १८
अस्मिन्दृष्टे जगद्दृष्टं श्रुतेऽस्मिन्सकलं श्रुतम् ।
स्पृष्टेचास्मिञ्जगत्स्पृष्टं स्थितेऽस्मिन्संस्थितं जगत् ।। १९
एष जागर्ति सुप्तानां प्रहरत्यविवेकिनाम् ।
हरत्यापदमार्तानां वितरत्यमहात्मनाम् ।। २०
विचरत्येष लोकेषु जीव एव जगत्स्थितौ ।
विलसत्येव भोगेषु प्रस्फुरत्येव वस्तुषु ।। २१
आत्मनात्मानमेवातः शान्तेनानुभवन्भवी ।
स्थितः सर्वेषु देहेषु तीक्ष्णत्वं मरिचेष्विव ।। २२
चेतनाकलनारूपी सबाह्याभ्यन्तराश्रितः ।
जगत्पदार्थसंभारे सत्तासामान्यमास्थितः ।। २३
एष शून्यत्वमाकाशे स्पन्द एष सदागतौ ।
प्रकाशश्चैव तेजस्तु पयस्स्वेष रसः परः ।। २४
काठिन्यमवनावेवमौष्ण्यमेव हुताशने ।
शैत्यमेष निशानाथे सत्ता चैष जगद्गणे ।। २५
मषीपिण्डे यथा कार्ष्ण्यं शैत्यं हिमकणे यथा ।
यथा पुष्पेषु सौगन्ध्यं देहे देहपतिस्तथा ।। २६
यथा सर्वगता सत्ता कालः सर्वगतो यथा ।
प्रभुशक्तिर्मही यस्य सर्वदेशगता यथा ।। २७
रूपालोकमनस्कारयुक्तं सत्त्वं तथात्मनः ।
नित्यः सोऽयं महादेवो देवानामेव बोधकः ।। २८
अहमेवास्मि मे नास्ति कलनापि किलेतरा ।
रेणुनेवाणुना व्योम्नि पद्मपत्रमिवाम्भसा ।। २९
संभ्रमेणेव पाषाणे संबन्धो मयि नेतरैः ।
सुखदुःखश्रियो देहे मा पतन्तु पतन्तु वा ।। ३०
तुम्बकोपरि धाराश्च का नः क्षतिरुपस्थिता ।
दीपाङ्गातिगतो रज्वा नालोको बध्यते यथा ।। ३१
तथा नायमहं बद्धः सर्वभावगणातिगः ।
संबन्धः कोऽस्तु नः कामैर्भावाभावैरथेन्द्रियैः ।। ३२
केन संबध्यते व्योम केन संबाध्यते मनः ।
शरीरे शतधा याते खण्डना का शरीरिणः ।। ३५
कुम्भे भग्ने क्षते क्षीणे कुम्भाकाशस्य का क्षतिः ।
पिशाचक इवादृश्यो मनो नामोदितं मुधा ।। ३४
जडे तस्मिन्क्षते बोधात्का नः क्षतिरुपस्थिता ।
सुखदुःखमयी यस्य वासना तन्मनो मम ।। ३५
अभवत्पूर्वमद्यैका संपन्नाऽतनुनिर्वृतिः ।
अन्यो भुङ्क्तेऽन्य आदत्तेऽप्यन्यस्यानर्थसंकटः ।। ३६
अन्यः पश्यत्यहो मौर्ख्यं कस्येयं खलु चक्रिका ।
भुङ्क्ते प्रकृतिरादत्ते मनोदेहस्य संकटः ।। ३७
दुष्टात्मा मौर्ख्यमस्तीह न किंचित्केवले क्षतिः ।
न मे भोगस्थितौ वाञ्छा न च भोगविवर्जने ।। ३८
यदायाति तदायातु यत्प्रयाति प्रयातु तत् ।
सुखेषु मम नापेक्षा नोपेक्षा दुःखवृत्तिषु ।। ३९
सुखदुःखान्युपायान्तु यान्तु वाप्यहमेषु कः ।
वासना विविधा देहे त्वस्तं चोदयमेव वा ।। ४०
प्रयान्तु नाहमेतासु न चैता मम काश्चन ।
एतावन्तमहं कालमज्ञानरिपुणा हतः ।। ४१
हृत्वा विवेकसर्वस्वमेकान्तमवपोथितम् ।
वैष्णवेन प्रसादेन स्वसमुत्थेन चारुणा ।। ४२
इदानीं संपरिज्ञाय मयैष परिमोषितः ।
अहंकारपिशाचोऽयं शरीरतरुकोटरात् ।। ४३
परावबोधमन्त्रेण मयेदानीमपाकृतः ।

निरहंकारयक्षोऽयं मच्छरीरमहाद्रुमः ।। ४४
पुण्यतामलमायातः प्रफुल्ल इव राजते ।
प्रशान्तमोहदारिद्र्यो दुराशादोषसंक्षये ।। ४५
विवेकधनसंभारान्स्थितोऽस्मि परमेश्वरः ।
ज्ञातं ज्ञातव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः ।। ४६
तत्प्राप्तमधुना येन नाप्राप्तमवशिष्यते ।
दिष्ट्या दूरोज्झितानर्थामपेतविषयोरगाम् ।। ४७
संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम् ।
रजोरहितसर्वाशां शीतलोपशमद्रुमाम् ।। ४८
प्राप्तोऽस्मि विततां भूमिमुन्नतां पारमार्थिकीम् ।
स्तुत्या प्रणत्या विज्ञप्त्या शमेन नियमेन च ।। ४९
लब्धोऽयं भगवानात्मा दृष्टश्चाधिगतः स्फुटम् ।
अहंकारपदातीतश्चिरात्संस्मृतिमागतः ।। ५०
स्वभावाद्भगवानात्मा विष्णोर्ब्रह्म सनातनम् ।
इन्द्रियोरगगर्तेषु मरणश्वभ्रभूमिषु ।। ५१
तृष्णाकरञ्जकुञ्जेषु कामकोलाहलेषु च ।
वासनावनजालेषु जन्मकूपान्तरेषु च ।। ५२
दुःखदावाग्निदाहेषु दुःखदावाग्निहारिषु ।
पातोत्पातदशालक्षैर्मज्जनोन्मज्जनभ्रमैः ।। ५३
आविर्भावतिरोभावैराशापाशविचेष्टनैः ।
अहं चिरमहंकारद्विषा समवमोषितः ।। ५४
निशायामल्पवीर्यात्मा पिशाचेनेव जङ्गले ।
स्वयमेव त्वथेदानीं क्रियाशक्त्या स्वयैव हि ।। ५५
शौरिणा व्यपदेशेन विवेकश्रीर्विबोधिता ।
प्रबुद्धे भवतीशाने तमहंकारराक्षसम् ।। ५६
न पश्यामि नभोदीपे ज्वलिते तिमिरं यथा ।
तस्याहंकारयक्षस्य मनोविवरवासिनः ।। ५७
दीपस्येव प्रशान्तस्य न वेद्मि गतिमीश्वरः ।
दृष्ट एव त्वयीशाने पलायनपरायणः ।। ५८
संपन्नो मदहंकारश्चोरः सूर्योदये यथा ।
असदभ्युत्थिते तस्मिन्नहंकारे पिशाचवत् ।। ५९
गते तिष्ठाम्यहं स्वस्थो निर्गोनस इव द्रुमः । ।
शाम्यामि परिनिर्वामि जगत्यस्मिन्प्रबोधवान् ।। ६०
तस्करेणोज्झितोऽस्मीति निवृर्तोऽस्मि चिरोदयम् ।
शैत्यमभ्यागतोस्म्यन्तः शान्ताशामृगतृष्णिकः ।।६१
प्रावृडम्बुभरस्नातः शान्तदाव इवाचलः ।
प्रमार्जितेहमित्यस्मिन्पदे स्वार्थविचारतः । ६२
को मोहः कानि दुःखानि काः कदाशाः क आधयः ।
नरकस्वर्गमोक्षादिभ्रमाः सत्यामहंकृतौ ।। ६३
भित्तावेव प्रवर्तन्ते चित्रेहा न नभस्तले ।
अहंकारकलापित्ते चित्ते ज्ञानचमत्कृतिः ।
न राजतेंऽशुके म्लाने यथा कुङ्कुमरञ्जना ।। ६४
निरहंकारजलदे तृष्णासारविवर्जिते ।
भाति चित्तशरद्व्योम्नि स्वच्छता कान्तिशालिनी ६५
निरहंकारपङ्काय संप्रसन्नान्तराय च ।
मह्यमानन्दसरसे तुभ्यमात्मन्नमो नमः ।। ६६
शान्तेन्द्रियोग्रग्राहाय क्षीणचित्तौर्ववह्नये ।
आनन्दाम्बुधये तुभ्यं मह्यमात्मन्नमो नमः ।। ६७
गताहंकारमेघाय शान्ताशादाववह्नये ।
मह्यमानन्दशैलाय विभ्रान्ताय नमो नमः ।। ६८


प्रफुल्लानन्दपद्माय शान्तचिन्तामयोर्मवे ।
मह्यं सन्मानसायात्मंस्तुभ्यमन्तर्नमो नमः ।। ६९
संविदाभासपक्षाय पद्मकोटरवासिने ।
सर्वमानसहंसाय स्वात्मनेऽन्तर्नमो नमः ।। ७०
कलाकलितरूपाय निष्कलायामृतात्मने ।
सदोदिताय पूर्णात्मन् शशिने ते नमो नमः ।। ७१
सदोदिताय शान्ताय महाहृद्ध्वान्तहारिणे ।
सर्वगायाप्यदृश्याय चित्सूर्याय नमो नमः ।। ७२
अस्नेहस्नेहदीपाय वृत्तिनिष्क्रान्तवर्तिने ।
स्वभावाधारधीराय चिद्दीपाय नमो नमः ।। ७३
मदनानलसंतप्ते शीतेन मनसा मनः ।
भग्नमन्तर्मया तप्तमयसेव बलादयः ।। ७४
इन्द्रियेणेन्द्रियं छित्त्वा छित्त्वा च मनसा मनः ।
अहंकृतिमहंकृत्या छित्त्वा शेषो जयाम्यहम् ।। ७५
भावेनाभावमाच्छिद्य हित्वा तृष्णामतृष्णया ।
निष्पिष्य प्रज्ञयाऽप्रज्ञां ज्ञोऽज्ञः सत्योसि ते नमः ।।७६
मनसा मनसि च्छिन्ने निरहंकारतां गते ।
भावेन गलिते भावे स्वच्छस्तिष्ठामि केवलः ।। ७७
निर्भावं निरहंकारं निर्मनस्कमनीहितम् ।
केवलं स्पन्दशुद्धात्मन्येव तिष्ठति मे वपुः ।। ७८
हेलानुकम्पितानन्तविश्वेशादतिशायिनी ।
परमोपशमोपेता जातेयं मम निर्वृतिः ।। ७९
प्रशान्तमोहवेतालो गताहंकारराक्षसः ।
कदाशारूपिकोन्मुक्तो जातोऽस्मि विगतज्वरः ।। ८०
तृष्णारज्जुगुणं छित्त्वा मच्छरीरकपञ्जरात् ।
न जाने क्व गतोड्डीय दुरहंकृतिपक्षिणी ।। ८१
उद्धूलिते घनाज्ञानकुलाये कायपादपात् ।
न जाने गत उड्डीय क्वाहंभावविहंगमः ।। ८२
दुराशादीर्घदौरात्म्यधूसरा भोगभस्मना ।
भयभोगिहिता दिष्ट्या भूयस्यो वासनाः क्षताः ।। ८३
एतावन्तमहं कालं कोऽभूवं चित्रमीदृशम् ।
येनाहमेष मिथ्यैव दृढाहंकारतां गतः ।। ८४
अद्याहमस्मि जातोऽयमहमद्य महामतिः ।
अहंकारमहाभ्रेण यत्कृष्णेनालमुज्झितः ।। ८५
दृष्टोऽयमात्मा भगवांस्तथैवाधिगतो मया ।
आलब्धश्चानुभूतोऽङ्गं स्वानुभूतौ नियोजितः ।। ८६
गतास्पदं गतमननं गतैषणं
तिरस्कृतं निपुणमहंकृतिभ्रमैः ।
निरीहितं व्यपगतरागरञ्जनं
विकौतुकं प्रशममिदं गतं मनः ।। ८७
दुरुत्तराः समविषमा महापदः
सुदुःसहाः प्रभवनदीर्घदोषदाः ।
गताः क्षयं समधिगतो महेश्वर-
श्चिदद्वयोऽपगतमचित्त्वमन्तरे ।। ८८

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे ब्रह्मात्मचिन्ता नाम पञ्चत्रिंशः सर्गः ।। ३५ ।।

"https://sa.wikisource.org/w/index.php?title=उपशम_प्रकरण&oldid=201311" इत्यस्माद् पुनः प्राप्तिः