उमासहस्रनामस्तोत्रम्/अष्टमशतकम्/त्रिंशस्तबकः

मानसपूजा (प्रमाणिकावृत्तम्)

कृतेन सा निसर्गतो धृतेन नित्यमानने ।
सितेन शीतशैलजा स्मितेन शं तनोतु मे ॥ ३०.१॥

प्रतिक्षणं विनश्वरानये विसृज्य गोचरान् ।
समर्चयेश्वरीं मनो विविच्य विश्वशायिनीम् ॥ ३०.२॥

विशुद्धदर्पणेन वा विधारिते हृदाऽम्ब मे ।
अयि प्रयच्छ सन्निधिं निजे वपुष्यगात्मजे ॥ ३०.३॥

पुरस्य मध्यमाश्रितं सितं यदस्ति पङ्कजम् ।
अजाण्डमूल्यमस्तु ते सुरार्चिते तदासनम् ॥ ३०.४॥

अखण्डधारया द्रवन्नवेन्दुशेखरप्रिये ।
मदीयभक्तिजीवनं दधातु तेऽम्ब पाद्यताम् ॥ ३०.५॥

विवासनौघमानसप्रसादतोयमम्ब मे ।
समस्तराज्ञि हस्तयोरनर्घमर्घ्यमस्तु ते ॥ ३०.६॥

महेन्द्रयोनिचिन्तनाद् भवन्भवस्य वल्लभे ।
महारसो रसस्त्वया निपीयतां विशुद्धये ॥ ३०.७॥

सहस्रपत्रपङ्कजद्रवत्सुधाजलेन सा ।
सहस्रपत्रलोचना पिनाकिनोऽभिषिच्यते ॥ ३०.८॥

ममार्जितं यदिन्द्रियैः सुखं सुगात्रि पञ्चभिः ।
तदम्ब तुभ्यमर्पितं सुधाख्यपञ्चकायताम् ॥ ३०.९॥

वसिष्ठगोत्रजन्मना द्विजेन निर्मितं शिवे ।
इदं शरीरमेव मे तवास्तु दिव्यमंशुकम् ॥ ३०.१०॥

विचित्रसूक्ष्मतन्तुभृन्ममेयमात्मनाडिका ।
सुखप्रबोधविग्रहे मखोपवीतमस्तु ते ॥ ३०.११॥

महद्विचिन्वतो मम स्वकीयतत्त्ववित्तिजम् ।
इदं तु चित्तसौरभं शिवे तवास्तु चन्दनम् ॥ ३०.१२॥

महेशनारिनिःश्वसँस्तथाऽयमुच्छ्वसँस्तदा ।
तवानिशं समर्चको ममास्तु जीवमारुतः ॥ ३०.१३॥

विपाककालपावकप्रदीप्तपुण्यगुग्गुलुः ।
सुवासनाक्यधूपभृद् भवत्वयं ममाम्ब ते ॥ ३०.१४॥

गुहावतारमौनिना मयीश्वरि प्रदीपिता ।
इयं प्रबोधदीपिका प्रमोददायिकाऽस्तु ते ॥ ३०.१५॥

इमामयि प्रियात्प्रियां महारसामहङ्कृतिम् ।
निवेदयामि भुज्यतामियं त्वया निरामये ॥ ३०.१६॥

सरस्वती सुधायते मनो दधाति पूगताम् ।
हृदेव पत्रमम्बिके त्रयं समेत्य तेऽर्प्यते ॥ ३०.१७॥

विनीलतोयदान्तरे विराजमानविग्रहा ।
निजाविभूतिरस्तु ते तटिल्लता प्रकाशिका ॥ ३०.१८॥

स्वरोऽयमन्तरम्बिके द्विरेफवत्स्वरँस्तदा ।
ममाभिमन्त्र्य धीसुमं ददाति देवि तेऽङ्घ्रये ॥ ३०.१९॥

तवार्चनं निरन्तरं यतो विधातुमस्म्यहम् ।
न विश्वनाथपत्नि ते विसर्जनं विधीयते ॥ ३०.२०॥

वियोग इन्दुधारिणा न चेह विश्वनायिके ।
मदम्ब सोऽत्र राजते तटिल्लताशिखान्तरे ॥ ३०.२१॥

इदं शरीरमेककं विभाव्य नव्यमन्दिरम् ।
विहारमत्र सेश्वरा भवानि कर्तुमर्हसि ॥ ३०.२२॥

जडेष्विवालसेष्विव प्रयोजनं न निद्रया ।
विहर्तुमेव याच्यसे हृदीशसद्मराज्ञि मे ॥ ३०.२३॥

अयं तवाग्रिमः सुतः श्रितो मनुष्यविग्रहम् ।
तनूजवेश्मसौष्ठवं मृडानि पश्य कीदृशम् ॥ ३०.२४॥

गणेशितुर्महाकवेरसौ प्रमाणिकावली ।
मनोम्बुजे महेश्वरीप्रपूजनेषु शब्द्यताम् ॥ ३०.२५॥