प्रमुखा विकल्पसूचिः उद्घाट्यताम्

काली गौरी कुण्डलिनी च (उपगीतिवृत्तम्)

कारणमखिलमतीनां वारणमन्तर्लसत्तमसः ।
मन्दस्मितं महेश्वरसुदृशो मे श्रेयसे भवतु ॥ १४.१॥

विश्वतनुस्तनुगात्री वज्रमयी पुष्पसुकुमारी ।
सर्वस्य शक्तिरबला काली गौर्यम्बिका जयति ॥ १४.२॥

तामाहुर्जगदम्बां गौरीं केचित् परे कालीम् ।
सा गौरी महिलातनुरम्बरतनुरुच्यते काली ॥ १४.३॥

पाचकशक्तेः काल्याः केवललिङ्गेन भिद्यते कालः ।
यत्पाकतो गभीराद्भुवने सर्वेऽपि परिणामाः ॥ १४.४॥

सर्वभुवनाश्रयत्वात् काली नाम्ना दिगन्येन ।
लोके तु व्यवहरणं विदुषां दिक्कालयोर्भाक्तम् ॥ १४.५॥

दिगदितिरगाद्यखण्दा परिणमयित्री स्मृता काली ।
दक्षस्यैका दुहिता सा द्वे गुणभेदमुग्धदृशाम् ॥ १४.६॥

देहे देहे सेयं कुण्डलिनी नाम जगदम्बा ।
सा स्वपिति संसृतिमतां युञ्जानानां प्रबुद्धा स्यात् ॥ १४.७॥

मूलाधारादग्निर्ज्वलति शिरस्तः शशी द्रवति ।
कुण्डलिनीमयि मन्ये वीणाशयनात्प्रबुद्धेयम् ॥ १४.८॥

यद्द्रवति तत्र किं त्वं किं तत्र त्वमसि यज्ज्वलति ।
किमु तत्रासि महेश्वरि यदुभयमेतद्विजानाति ॥ १४.९॥

एतावग्नीषोमौ ज्वालभिश्चन्द्रिकाभिरपि ।
आवृणुतस्तनुमनयोर्व्यक्तित्वं मे पशुर्भवतु ॥ १४.१०॥

अग्निस्त्वं सोमस्त्वं त्वमधो ज्वलसि द्र्वस्यूर्ध्वम् ।
अमृतमनयोः फलं त्वं तस्य च भोक्त्री चिदम्ब त्वम् ॥ १४.११॥

किन्नु सुकृतं मया कृतमखिलेश्वरि किं तपस्तप्तम् ।
क्रीडयसि मां प्रतिक्षणमानन्दसुधानिधावन्तः ॥ १४.१२॥

क्षान्तं किं मम दुरितं शान्तं किं देवि ते स्वान्तम् ।
अनुगृह्णासि विचित्रं मामप्यपराधिनां प्रथमम् ॥ १४.१३॥

काले काले सन्ध्यारूपा नोपासिता भवती ।
विच्छिन्नः स्मार्ताग्निस्त्रेता कुत एव वह्नीनाम् ॥ १४.१४॥

दातुं नार्जितमन्नं बहु देवेभ्यश्च भूतेभ्यः ।
यत्किञ्चिदार्जितं वा कलत्रपुत्रान्वितोऽश्नामि ॥ १४.१५॥

कश्चिदपि पापहारी न पुरश्चरितश्च ते मन्त्रः ।
कं गुणमभिलक्ष्य मम प्रबुद्ध्यसेऽन्तर्जगन्मातः ॥ १४.१६॥

तव मयि पृथक्तनूजप्रेमा चेत्पक्षपातोऽयम् ।
अथवा सतां निसर्गः सोऽयं त्वयि चाम्ब सम्भाव्यः ॥ १४.१७॥

लक्ष्यं विनैव मन्त्रः किं सिद्ध्यति कोटिशोऽप्युक्तः ।
दध्मस्तद्यदि लक्ष्यं तव रूपं गलति हा मन्त्रः ॥ १४.१८॥

सङ्कल्पानां वाचामनुभूतीनां च यन्मूलम् ।
यत्र प्राणो बद्धस्तल्लक्ष्यं देवि ते रूपम् ॥ १४.१९॥॥ ३४४।

नैसर्गिकस्ववृत्तेरहङ्कृतेर्मूलमन्विष्य ।
त्वां किल साक्षात्कुरुते रमणमहर्षेरियं दृष्टिः ॥ १४.२०॥

मन्ये पर्वतकन्ये मम सेयमहङ्कृतिर्महती ।
अवतरता वर्षगणैरपि तन्मूलं न लब्धमहो ॥ १४.२१॥

एष प्रौढो भगवति बहुलं गर्जत्यहङ्कारः ।
एतस्मिन्नयि काले भवती चाबोधि कुण्डलिनी ॥ १४.२२॥

तव पश्चात्सम्भूतिं जानाति न सोऽयमद्यापि ।
प्रागिव गर्जति धीरं बिभेति मृत्योर्न नेदिष्ठात् ॥ १४.२३॥

अतिपुष्टमहङ्कारं पशुमेतं तुभ्यमर्पयते ।
प्रमथपतिप्राणेश्वरि गणपतिरेकान्तभक्तोऽयम् ॥ १४.२४॥

उपगीतयो गणपतेरुपतिष्ठन्तामिमाः प्रीत्या ।
उत्सवसहस्रलोलामुकारवाच्यस्य गृहनाथाम् ॥ १४.२५॥