उमासहस्रनामस्तोत्रम्/चतुर्थशतकम्/पञ्चदशस्तबकः

शक्तेः स्वागतम् (स्वागतावृत्तम्)

आपदामपहरन्तु ततिं नः
सम्पदामपि दिशन्तु समृद्धिम् ।
दन्तकुन्दरुचिदत्तबलानि
व्योमकेशसुदृशो हसितानि ॥ १५.१॥

अल्पमप्यधिकशक्तिसमृद्धं
मन्दमप्यधिकसूक्ष्मविसारम् ।
सुस्मितं स्मरविरोधिरमण्याः
कल्पतां मम कुलस्य शुभाय ॥ १५.२॥

पुष्कराद्रविमतो भुवमेतां
भूमितश्शशधरं क्रममाणा ।
नैव मुञ्चति पदं बत पूर्वं
नोत्तरं व्रजति नेशपुरन्ध्री ॥ १५.३॥

भूषणेष्विव सवित्रि सुवर्णं
मृत्तिकामिव घटेष्वखिलेषु ।
विश्ववस्तुषु निरस्तविशेषां
देवि पश्यति सतीं विबुधस्त्वाम् ॥ १५.४॥

किट्टभूतमखिलेश्वरजाये
दृश्यजातमखिलं निजपाके ।
प्राणबुद्धिमनसामिह वर्गः
सारभूत इति सूरिजनोक्तिः ॥ १५.५॥

सारमीश्वरि तिलेष्विव तैलं
विग्रहेषु निखिलेषु निगूढम् ।
ये धिया मथनतो विदुरेकं
ते भवन्ति विबुधास्त्वयि लीनाः ॥ १५.६॥

आयसं त्रिभुवनेश्वरि पिण्डं
वह्निनेव तपसा तनुपिण्डम् ।
यस्य चिज्ज्वलनजालमयं स्यात्
तप्तमम्ब स तवालयभूतः ॥ १५.७॥

योऽरणेर्मथनतोऽतिपवित्रं
वीतिहोत्रमिव वीतकलङ्कः ।
प्राणमुज्ज्वलयति स्वशरीरात्
त्वामसावभयदेऽर्हति यष्टुम् ॥ १५.८॥

प्राणता श्वसितमेव विचार्यं
कुर्वता करणमेव निभाल्यम् ।
गच्छता गमनमेव विशोध्यं
तत्तनौ मथनमागमबोध्यम् ॥ १५.९॥

यो रसं पिबति मूर्धसरोजात्
सोमपोऽयमनघः प्रयतात्मा ।
अग्निहोत्रमखिलेश्वरि नित्यं
मूलकुण्डदहनस्थितिरस्य ॥ १५.१०॥

चिन्मयी पिबसि सोममिमं किं
सोम एव किमसावसि मातः ।
पीयसे पिबसि च स्वयमेका
पेयपातृयुगलं किमु भूत्वा ॥ १५.११॥

तैजसं कनकमग्निवितप्तं
तेज एव कनकाङ्गि यथा स्यात् ।
मोदरूपकलया तव तप्तं
तन्मयं भवति मोदजपिण्डम् ॥ १५.१२॥

काऽपि मोदलहरी तव वीचिर्-
निर्गता दशशतारसुधाब्धेः ।
पूरयत्यखिलमम्ब शरीरं
नेह वेद्मि परमे जडभागम् ॥ १५.१३॥

सेयमुत्तमतमा निपतन्ती
शीतलाद्दशशतारपयोदात् ।
प्रेरितादखिलराज्ञि भवत्या
बुद्धिसस्यमवताद्रसवृष्टिः ॥ १५.१४॥

दुग्धसिन्धुमथनादमृतं वा
शब्दसिन्धुमथनात्प्रणवो वा ।
लभ्यते सुकृतिभिस्तव वीचिर्-
मूर्धकञ्जमथनाद्रस एषः ॥ १५.१५॥

अस्थिषु प्रवहति प्रतिवेगं
मज्जसारममृतं विदधाना ।
बिभ्रती मदमनुष्णमदोषं
मूर्धकञ्जनिलये तव धारा ॥ १५.१६॥

तैत्तिरीयकथितो रसलाभः
सोऽयमेव सकलागमवर्ण्ये
एतदेव शशिमण्डलनाथे
तन्त्रभाषितपरामृतपानम् ॥ १५.१७॥

मूर्धसोममजरामररूपे
युक्तवीक्षणकरेण निपीड्य ।
शम्भुसुन्दरि सुनोमि धिनोमि
त्वां प्रदीप्तकुलकुण्डनिशान्ताम् ॥ १५.१८॥

दृष्टिरेव रविदीधितिरुग्रा
शीर्षकञ्जशशिनं प्रविशन्ती ।
शीतलामृतमयी खलु भूत्वा
योगिनो द्रवति मोदकला ते ॥ १५.१९॥

मूर्धनि द्रवसि योगयुतानां
चक्षुषि ज्वलसि शङ्करभामे
तिष्ठसि स्थिरपदा कुलकुण्डे
बाह्यतः स्खलसि नैव कदाऽपि ॥ १५.२०॥

सा यदि द्रवति मोदकला स्यात्
सा यदि ज्वलति चित्कलिका स्यात् ।
सा परा स्थिरपदा यदि तिष्ठ-
त्यक्षरा भवति काचन सत्ता ॥ १५.२१॥

पश्यता नयनमण्डलवृत्तिं
गृह्यसे त्वमचलाधिपकन्ये ।
जानता दशशतारविलासं
स्पृश्यसे विदितमम्ब रहस्यम् ॥ १५.२२॥

व्याप्तशक्त्यसुबलेन लसन्ती
भानुबिम्बनयनेन तपन्ती ।
चन्द्रबिम्बमनसा विहरन्ती
सा पुनर्जयति मूर्ध्नि वसन्ती ॥ १५.२३॥

स्वागतं सकललोकनुतायै
स्वागतं भुवनराजमहिष्यै ।
स्वागतं मयि भृशं सदयायै
स्वागतं दशशतारमितायै ॥ १५.२४॥

सत्कविक्षितिभुजो ललिताभिः
स्वागताभिरनघाभिरिमाभिः ।
स्वागतं भणितमस्तु भवान्यै
खेलनाय शिर एतदितायै ॥ १५.२५॥