उमासहस्रनामस्तोत्रम्/तृतीयशतकम्/द्वादशस्तबकः

शृङ्गारवर्णनम् (रथोद्धतावृत्तम्)

शर्वधैर्यगुणशातशस्त्रिका शम्बरारिजयकेतुपट्टिका ।
मन्दहासिकलिका मदापदं पर्वतेन्द्रदुहितुर्व्यपोहतु ॥ १२.१॥

मुक्तभोगिकटकेन पाणिना मुग्धगात्रि परिगृह्य ते करम् ।
एकदा शशिकिशोरशेखरः सञ्चचार रजताद्रिभूमिषु ॥ १२.२॥

तस्य तत्र परितः परिभ्रमन् वल्लभां वकुलपुष्पचुम्बिनीम् ।
पार्वति त्वदलकोपमद्युतिः च्ञ्चरीकतरुणो मनोऽधुनोत् ॥ १२.३॥

प्रेयसीं चपलचारुलोचनामुल्लिखन् वपुषि शृङ्गकोटिना ।
त्वद्विलोकितनिभैर्विलोकितैः धूर्जटेरमदयन्मनो मृगः ॥ १२.४॥

मञ्जुकुञ्जभवनानि मालतीपुष्परेणुसुरभिः समीरणः ।
पेशला च पिकबालकाकली मोहमीश्वरि हरस्य तेनिरे ॥ १२.५॥

अग्रतः कुसुमशोभिता लताः पार्श्वतस्त्वमगपालबालिके ।
सर्वतो मदनशिञ्जिनीध्वनिर्धीरता कथमिवास्य वर्तताम् ॥ १२.६॥

कीरकूजितसमाकुले वने शम्भुमम्ब तव पार्श्ववर्तिनम् ।
आजघान मकरध्वजश्शरैरर्दयन्त्यवसरे हि शत्रवः ॥ १२.७॥

ताडितो मकरकेतुना शरैरंसदेशमवलम्ब्य पणिना ।
एकहायनकुरङ्गलोचना त्वामिदं किल जगाद शङ्करः ॥ १२.८॥

काकलीकलकलं करोत्यसौ बालचूतमधिरुह्य कोकिला ।
वाचमुद्गिर सरोजलोचने गर्वमुन्नतमियं विमुञ्चतु ॥ १२.९॥

फुल्लकुन्दमकरन्दवाहिनो मल्लिकामुकुलधूलिधारिणः ।
कम्पयन्ति शिशवः समीरणाः पल्लवानि हृदयं च तन्वि मे ॥ १२.१०॥

वर्णनेन हृतचक्षुषः श्रियः सुप्रसन्नमधुराकृतीनि ते ।
अङ्गकानि दयिते भजेऽर्भकः स्वेदबिन्दुहरणेन वाऽनिलः ॥ १२.११॥

तावदेव मम चेतसो मुदे बर्हमेतदनघाङ्गि बर्हिणः ।
यावदक्षिपथमेष विश्लथो गाहते न कबरीभरस्तव ॥ १२.१२॥

रागवानधर एष सन्ततं निर्मलद्विजसमीपवर्त्यपि ।
एभिरस्य सहवासतः प्रिये नेषदप्यपगतो निजो गुणः ॥ १२.१३॥

चक्षुषः सुदति ते सगोत्रता कैरवैर्निशि दिने कुशेशयैः ।
कश्यपैरपि वसिष्ठबान्धवैर्भूसुपर्वण इव द्विगोत्रिणः ॥ १२.१४॥

अल्पयाऽप्यतिसमर्थया स्मितज्योत्स्नया गगनगं हरत्तमः ।
केवलं सुवचनामृतं किरच्चन्द्रबिम्बमतुषारमाननम् ॥ १२.१५॥

नित्यमब्जमुखि ते परस्परश्लिष्टमश्लथपटीकुटीरगम् ।
शर्वरीभयविवर्जितं स्थलीचक्रवाकमिथुनं कुचद्वयम् ॥ १२.१६॥

लालनीयमयि देवमौलिभिः कोमलं चरणपल्लवद्वयम् ।
कच्चिदद्रिपुरुहूतपुत्रिके न स्थली तुदति कर्कशा तव ॥ १२.१७॥

एवमादि वदति त्रिलोचने त्वन्मुखे लसति मौनमुद्रया ।
आततान जलचारिकेतनो नर्तनं नगमहेन्द्रबालिके ॥ १२.१८॥

देवि ते पुरजितावतंसितः पारिजातकुसुमस्रजा कचः ।
मानसं पुरजितोऽमुना हृतं स्मर्यते क्व मलिनात्मना कृतम् ॥ १२.१९॥

ब्रह्मचर्यनियमादचञ्चला नायिका यदि लुलायमर्दिनी ।
नायकश्च सुमबाणसूदनो वेद को रतिरहस्यमावयोः ॥ १२.२०॥

लोचनोत्सवविधौ विशारदे वारिदावरणदोषवर्जिते ।
मर्दयत्यपि नभोगतं तमः श्यामिकारहितसुन्दराकृतौ ॥ १२.२१॥

भाति शीतकिरणस्तनन्धये प्राणनायकजटाकुटीजुषि ।
शुभ्रपर्वततटे शुभाङ्गि ते सम्मदाय न बभूव का निशा ॥ १२.२२॥

सन्तु भूषणसुधांशुदीधिति व्यक्तमुग्धमुखशोभयोर्मिथः ।
तानि तानि गिरिजागिरीशयोः क्रीडितानि जगतो विभूतये ॥ १२.२३॥

मोदकादनपरस्य सृष्टये क्रीडितं जननि वां किमप्यभूत् ।
शक्तिभृत्तनयरत्नजन्मने किञ्चिदीश्वरि बभूव खेलनम् ॥ १२.२४॥

माधुरीरसपरिप्लुता इमाः काव्यकण्ठविदुषो रथोद्धताः ।
आदधत्वचलनाथनन्दिनी मानसे कमपि मोदमुत्तमम् ॥ १२.२५॥