प्रमुखा विकल्पसूचिः उद्घाट्यताम्

उमासहस्रनामस्तोत्रम्/दशमशतकम्/सप्तत्रिंशस्तबकः

सप्तत्रिंशः स्तबकः
तत्त्वविचारः (अनुष्टुब्वृत्तम्)

उद्दीपयतु नश्शक्तिमादिशक्तेर्दरस्मितम् ।
तत्त्वं यस्य महस्सूक्ष्ममानन्दो वेति संशयः ॥ ३७.१॥

पूर्णं प्रज्ञातृ सद्ब्रह्म तस्य ज्ञानं महेश्वरी ।
महिमा तेज आहोस्विच्छक्तिर्वा प्राण एव वा ॥ ३७.२॥

प्रचक्षते चिदात्मत्वं ज्ञातुर्ज्ञानस्य चोभयोः ।
प्रदीपस्य प्रभायाश्च ज्योतिराकृतितां यथा ॥ ३७.३॥

चित एकपदार्थत्वाच्चिच्चिता न विशिष्यते ।
तस्माद् गुणत्वं ज्ञानस्य शङ्करेण निराकृतम् ॥ ३७.४॥

ज्ञातुर्ज्ञानं स्वरूपं स्यान्न गुणो नापि च क्रिया ।
यदि स्वस्य स्वरूपेण वैशिष्ट्यमनवस्थितिः ॥ ३७.५॥

वाचैव शक्यते कर्तुं विभागस्स्वस्वरूपयोः ।
नानुभूत्या ततो द्वैतं सच्छक्त्योर्व्यावहारिकम् ॥ ३७.६॥

ब्रह्मज्ञानस्य पूर्णस्य विषयो द्यौरुदीर्यते ।
सा ब्रह्मणो व्यापकत्वाद्वस्तुतो नातिरिच्यते ॥ ३७.७॥

विकासादपि सङ्कोचात् सर्गप्रलययोर्द्वयोः ।
प्रज्ञानस्य बुधैरुक्तौ जन्मनाशावुभौ दिवः ॥ ३७.८॥

धर्मभूतं परस्येदं न कार्यं परमं नभः ।
अखण्डत्वान्न विकृतिर्विश्वस्मिन्नप्रकृतित्वतः ॥ ३७.९॥

आकाशे परमे दीप्यत् प्रज्ञानं परमात्मनः ।
एकाग्रत्वात्प्रवृद्धोष्मगभीरमभवन्महः ॥ ३७.१०॥

त्रिधैवं धर्मभूतस्य ज्ञानस्य विकृतिं विना ।
शुद्धत्वविषयत्वाभ्यां महस्त्वाच्च दशात्रयम् ॥ ३७.११॥

विज्ञाने भाति ये भान्ति भावा द्रव्यगुणादयः ।
न किञ्चिदनुभूयन्ते विज्ञानोपरमे तु ते ॥ ३७.१२॥

एवं स्वतः प्रकाशत्वं विषयाणां न दृश्यते ।
सिद्धिश्च परतो न स्यात् सम्बन्धं कञ्चिदन्तरा ॥ ३७.१३॥

दृश्यते विषयाकारा ग्रहणे स्मरणे च धीः ।
प्रज्ञाविषयतादात्म्यमेवं साक्षात्प्रदृश्यते ॥ ३७.१४॥

न चेत्समष्टिविज्ञानविभूतिरखिलं जगत् ।
विषयव्यष्टिविज्ञानतादात्म्यं नोपपद्यते ॥ ३७.१५॥

यथाऽस्मदादिविज्ञाने ध्येयं बुद्धिरिति द्वयम् ।
पूर्णे समष्टिविज्ञाने विकृतिः प्रकृतिस्तथा ॥ ३७.१६॥

परिणामो यथा स्वप्नः सूक्ष्मस्य स्थूलरूपतः ।
जाग्रत्प्रपञ्च एष स्यात्तथेश्वरमहाचितः ॥ ३७.१७॥

विकृतिस्सर्वभूतानि प्रकृतिः परदेवता ।
सतः पादस्तयोराद्या त्रिपादी गीयते परा ॥ ३७.१८॥

कबलीकृत्य सङ्कल्पानेकाऽपि स्याद्यथा मतिः ।
भूतानि कबलीकृत्य देवताऽपि तथा परा ॥ ३७.१९॥

भूतानामात्मानस्सर्गे संहृतौ च तथाऽऽत्मनि ।
प्रभवेद्देवता श्रेष्ठा सङ्कल्पानां यथा मतिः ॥ ३७.२०॥

अनुभूत्यात्मिका सेयमीशशक्तिः परात्परा ।
आधारचक्रे पिण्डेषु विराजति विभिन्नवत् ॥ ३७.२१॥

सूक्ष्मस्थूले ततः शाखे विद्युच्छक्तिसमीरवत् ।
तत्राद्या ज्ञानशक्तिस्स्यात् क्रियाशक्तिरनन्तरा ॥ ३७.२२॥

ज्ञानेन्द्रियाणि प्रथमा विभूतिर्मनसा सह ।
कर्मेन्द्रियाणि त्वपरा विभूतिस्सहसा सह ॥ ३७.२३॥

क्रियामूलमुत ज्ञानमूलं किमिति चिन्तयन् ।
आत्मशक्तिमितो विद्वानमृतत्वाय कल्पते ॥ ३७.२४॥

गभीरास्सुतरामेताः कालिकातत्त्वकारिकाः ।
धियो भासो गणपतेर्भवन्तु विदुषां मुदे ॥ ३७.२५॥