उमासहस्रनामस्तोत्रम्/द्वितीयशतकम्/षष्ठमस्तबकः

माहाभाग्यम् (मदलेखावृत्तम्)

हर्तारः शशिकीर्तेः कर्तारो नवभासाम् ।
भर्तारो मम सन्तु स्कन्दाम्बादरहासाः ॥ ६.१॥

दिग्वल्लीष्वतिशुभ्रां कुर्वन्तः कुसुमर्द्धिम् ।
भूयासुस्तव भूत्यै मन्मातुः स्मितलेशाः ॥ ६.२॥

एकश्चेत्तव शक्तो ब्रह्माण्डस्य भवाय ।
भर्गप्रेयसि हासः किं स्तोत्रं तव भूयः ॥ ६.३॥

उद्याने वियदाख्ये कालि त्वां विहरन्तीम् ।
गोलैः कन्दुककल्पैरल्पा वाक्किमु माति ॥ ६.४॥

खं क्रीडाभवनं ते कः कार्यालय एषः ।
पृथ्वीयं बहुलान्ना मातर्भोजनशाला ॥ ६.५॥

बुद्धीनामसि दात्री सिद्धीनामसि नेत्री ।
वीर्याणामसि पेटी कार्याणामसि धाटी ॥ ६.६॥

विद्यानामसि भावो हृद्यानामसि हावः ।
देवानामसि लीला दैत्यानामसि हेला ॥ ६.७॥

गन्तॄणामसि चेष्टा स्थाणूनामसि निष्ठा ।
लोकानामसि मूलं लोकादेरसि जालम् ॥ ६.८॥

देवी व्यापकतेजः शक्तिस्तत्त्वविचारे ।
अत्यन्तं सुकुमारी नारी मूर्तिविचारे ॥ ६.९॥

क्व ज्योतिर्महतोऽस्मादाकाशादपि भूयः ।
तत्सर्वं विनयन्ती तन्वङ्गी क्व नु नारी ॥ ६.१०॥

देवेन्द्राय विभुत्वं सूर्यायोस्रसहस्रम् ।
ऊष्माणं दहनाय ज्योत्स्नामोषधिराजे ॥ ६.११॥

वातायामितवीर्यं विस्तारं गगनाय ।
सान्द्रत्वं वसुधायै तोयाय द्रवभावम् ॥ ६.१२॥

माहाभाग्यमपारं कोटिभ्यो विबुधानाम् ।
चित्राः काश्चन सिद्धीर्लक्षेभ्यो मनुजानाम् ॥ ६.१३॥

स्थाणुभ्यो धृतिशक्तिं गन्तृभ्यो गतिशक्तिम् ।
कस्माच्चिन्निजकोशादेका देवि ददाना ॥ ६.१४॥

आश्चर्यं विदधाना सर्वं वस्तु दधाना ।
हन्त त्वं मम मातः काचित्कोमलगात्री ॥ ६.१५॥

श्रोणीभारनतायां कस्याञ्चित्तनुगात्र्याम् ।
ईदृक्षा यदि शक्तिः कावेतो ननु माया ॥ ६.१६॥

रूपं ते तनुगात्रं वाणी ते मृदुनादा ।
चापं ते मधुरेक्षुः पाणिस्ते सुकुमारः ॥ ६.१७॥

लोले लोचनयुग्मे भीरुत्वं प्रकटं ते ।
ब्रह्माण्डं त्वदधीनं श्रद्धत्तामिह को वा ॥ ६.१८॥

भ्रूभङ्गं कुरुषे चेन्मुग्धे गौरि मुखाब्जे ।
भूतान्यप्ययि बिभ्यत्येजेरन्नपि ताराः ॥ ६.१९॥

शुद्धान्तेश्वरि शम्भोरिच्छा चेत्तव काऽपि ।
घोरोऽग्निस्तृणगर्भाद्घोराग्नेरपि शैत्यम् ॥ ६.२०॥

द्रष्टुं विश्वमपारं भारस्ते दयितस्य ।
कर्तुं कार्यमशेषं श्रीमातस्तव भारः ॥ ६.२१॥

साक्षी केवलमीशः कर्तुं भर्तुमुताहो ।
हर्तुं वाऽखिलमम्ब त्वं साक्षाद्धृतदीक्षा ॥ ६.२२॥

कारङ्कारमुमे यद् ब्रह्माण्डानि निहंसि ।
तन्मन्ये सुरमान्ये बालैवाऽम्ब सदा त्वम् ॥ ६.२३॥

लीलोज्जीवितकामे रामे शङ्करसक्ते ।
त्वत्पादार्चनसक्तं भक्तं मां कुरु शक्तम् ॥ ६.२४॥

एताः पावनगन्धाः सर्वेशप्रमदे ते ।
हैरम्ब्यो मदलेखाः सन्तोषाय भवन्तु ॥ ६.२५॥