उमासहस्रनामस्तोत्रम्/नवमशतकम्/चतुस्त्रिंशस्तबकः
प्रार्थना (हरिणीवॄत्तम्)
विदितमहिमा विश्वाधानादनेकविधाद्भुतात्
प्रथितचरितः शर्वालोकप्रतापविवर्धनात् ।
प्रकटितगुणः पापध्वान्तप्रसारनिरोधनात्
प्रदिशतु शिवाहासो भासां निधिः कुशलानि मे ॥ ३४.१॥
हृदि करुणया पूर्णा बाह्वोर्बलेन महीयसा
पदकमलयोर्लक्ष्म्या भक्तैर्जनैरुपजीव्यया ।
मुखसितकरे लावण्येन त्रिणेत्रदृशां बलं
बहु विदधता काली माताऽवतात्पदसेविनम् ॥ ३४.२॥
जगदधिपया सिद्धं दोग्ध्र्याऽथवोत रसज्ञया
मुनिजननुतं देवीमन्त्रं जपेद्यदि मानवः ।
अमृतजलदीभूतः पूतः वियोगविशेषवित्
स इह वसुधालोके धारा गिरामभिवर्षति ॥ ३४.३॥
इममभिमुखीभूता शातोदरी कमलालया
हयगजघटापूर्णाऽभ्यर्णं समेत्य निषेवते ।
सविबुधमिदं विश्वं तस्य प्रयाति पुनर्वशं
प्रथितयशसां सिद्धीनां चाप्यमुं भजतेऽष्टकम् ॥ ३४.४॥
सुविमलधियस्तस्य क्रोधाद् दृगम्बुधुतद्युती
रिपुजनवधूगण्डाभोगो भवेदुत पाण्डुरः ।
सपदि भुवनव्याप्तं चाप्तैः प्रमाणपुरस्सरं
भणितमजरं भद्रं ज्योतिः परं हृदि भासते ॥ ३४.५॥
अदयमरिभिः क्रान्ते राष्ट्रे त्वमीश्वरि रक्षिका
सुमशरमुखैर्धूते चित्ते त्वमीश्वरि रक्षिका ।
प्रबलदुरितैर्ग्रस्ते वंशे त्वमीश्वरि रक्षिका-
ऽप्यसृजति जलं मेघे मोघे त्वमीश्वरि रक्षिका ॥ ३४.६॥
भगवति निजौ साक्षात्पुत्रौ बृहस्पतिपावकौ
गणपतिगुहावेतौ वेषान्तरव्यवहारतः ।
भरतधरणीखण्डे हेतोः कुतः कृतसम्भवौ
कलकलयुते काली देवि व्यधाः कथय द्रुतम् ॥ ३४.७॥
समयमयि ते धृत्वा पादाम्बुजं रमणः सुतो
गिरिवरगुहास्वन्तः शान्तो नयेद्यदि नाद्भुतम् ।
स्थलविरहतः स्वीयस्थाने किमत्र समागतो
न वदसि कुतः कार्यं तस्मै कुलाचलकन्यके ॥ ३४.८॥
परिभणति चेच्छिष्यव्यूहे महाद्भुतसङ्गतीर्-
जननि रमणो योगीशानस्ततो बहु नो फलम् ।
अमिततमया दृष्टेः शक्त्या कदा सरणिं नये-
दपथपतितं धात्रीलोकं तदेव वदाम्बिके ॥ ३४.९॥
अहमिह कुतो हेतोर्जातो विषण्णतमे स्थले
चरणकमलच्छायां मायाधिराज्ञि विहाय ते ।
परमकरुणो घोरः शापः किमेष सवित्रि ते
किमपि भुवि वा कार्यं कर्तुं नियोजितवत्यसि ॥ ३४.१०॥
व्रजति विलयं स्नेहो दूरप्रवासवशादिति
प्रवदति बुधः कश्चित्सत्यं प्रभाति तदम्बिके ।
भगवति निजे कुक्षौ जातं दिवो धरणीगतं
स्मृतिसरणितो दूरे हा हा करोषि रुषा यथा ॥ ३४.११॥
मम तु विमला हृद्या विद्या महेश्वरि याऽभव-
न्मनसि च परा चित्रा शक्तिश्चिरन्तनि याऽभवत् ।
वचसि च महद्भाग्यं श्लाघ्यं यदीड्यतमेऽभवत्
तदयि गलितं मत्तो वित्तत्रयं भवतो भुवि ॥ ३४.१२॥
कृतमयि मया पापं घोरं सुकर्मसु सङ्गिनां
यदहमदयो विघ्नं नॄणां मुहुर्मुहुराचरम् ।
अतिकटु फलं तस्याश्नामि श्रितो नरविग्रहं
प्रमथनृपतेर्जाये माये जनन्यव मामिमम् ॥ ३४.१३॥
न भवसि दृशोर्मार्गे लोकाधिराज्ञि कुतो गिरो
न च बहुकृपे स्वप्ने वा त्वं प्रयच्छसि दर्शनम् ।
अपनयसि नो सन्देहं वा परोक्षकृपावशा-
दपि सुरनुते लग्ना कार्यान्तरे किमुतादया ॥ ३४.१४॥
निरवधिशिवे माहात्म्यं ते भणन्ति महर्षयो
मनसि करुणा न न्यूना ते यथा प्रथिताः कथाः ।
तदिदमखिलं मिथ्या स्यादित्यसाध्यमुदीरितुं
यदसि विमुखी पुत्रे किं वा भवेदिह कारणम् ॥ ३४.१५॥
भुवनभरणं नाल्पं कार्यं न देवि तव क्षणो
गुरु च बहुलं कृत्यं नित्यं तवास्ति न तन्मृषा ।
न तव कठिनं मौनं निन्द्यं तथापि न पार्वति
स्मर सकृदिमं दीनं पुत्रं तदेव ममाधिकम् ॥ ३४.१६॥
न भवति सुधाधारावर्षादयं मुदितस्तनौ
मधुमदमुषां वाचां सर्गान्न चाप्ययमुद्धतः ।
तव पदयुगे निष्ठालाभान्न तृप्यति चाप्ययं
भगवति चिरात् सन्देशं ते सुतः प्रतिवीक्षते ॥ ३४.१७॥
किमिह भुवने कर्तव्यं मे किमर्थमिहागतो-
ऽस्म्यवनि जगतां कं वोपायं श्रये निजशक्तये ।
किमपि किमपि स्वान्ते ध्वान्ते यथा परिदृश्यते
स्फुटमभयदे वक्तुं किञ्चिच्छ्रमं त्वमुरीकुरु ॥ ३४.१८॥
न मम परमे मुक्तावाशा न वा विभवाष्टके
न च गजघटापूर्णायां वा महेश्वरि सम्पदि ।
न च मधुमुचां वाचां सर्गे निरर्गलवैभवे
मुनिभुवि कुतो जातः सोऽहं तदेव समीर्यताम् ॥ ३४.१९॥
प्रथममनघं वाञ्छाम्यन्नं सदारसुतातिथेर्-
भगवति ततः पादद्वन्द्वे तवाविचलां स्थितिम् ।
अथ सुरजगद्वार्ताज्ञानं सवित्रि ततः परं
मुनिभुवि भवे हेतुं ज्ञातुं मृगाक्षि पुरद्विषः ॥ ३४.२०॥
यदि तव कृपा पुत्रे भक्ते पदाम्बुजवन्दिनि
व्रतशतकृशे शीर्षाम्भोजामृतं त्वयि जुह्वति ।
भरतधरणीसेवालोले भवप्रियभामिनि
स्वयमुपदिशामुष्मै योग्यं विधानमनाविलम् ॥ ३४.२१॥
जननि जगतां स्वल्पे कामेऽप्ययं त्वयि लम्बते
पुरभिदबले मध्ये कामेऽप्ययं त्वयि लम्बते ।
बहुलकरुणे श्रेष्ठे कामेऽप्ययं त्वयि लम्बते
भगवति परे वीते कामेऽप्ययं त्वयि लम्बते ॥ ३४.२२॥
तनुभुवि मयि प्रीत्या वाऽम्ब त्रिलोकविधायिके
पदयुगरते वात्सल्याद्वा पुरारिपुरन्ध्रिके ।
स्वविमलयशोगानासक्ते कृपावशतोऽथवा
परुषमजरे मौनं त्यक्त्वा स्फुटीकुरु मे गतिम् ॥ ३४.२३॥
जयतु भरतक्षोणीखण्डं विषादविवर्जितं
जयतु गणपस्तस्य क्षेमं विधातुमना मुनिः ।
जयतु रमणस्तस्याचार्यो महर्षिकुलाचलो
जयतु च तयोर्माता पूता महेशविलासिनी ॥ ३४.२४॥
गणपतिमुनेरेषा भाषाविदां हृदयङ्गमा
सुकविसुहृदः शब्दैरत्युज्ज्वला हरिणीततिः ।
ललितचतुरैर्भावैर्यान्ती सुरूपवनान्तरं
मदयतु मनः कामारातेर्निशान्तमृगीदृशः ॥ ३४.२५॥