उमासहस्रनामस्तोत्रम्/नवमशतकम्/त्रयस्त्रिंशस्तबकः

त्रयस्त्रिंशः स्तबकः
जपो योगोऽर्पणं च (वंशस्थवृत्तम्)

सुधां किरन्तोऽखिलतापहारिणीं
तमो हरन्तः पटलेन रोचिषाम् ।
श्रियं दिशन्तो दिशि दिश्यसङ्क्षयां
जयन्ति शीताद्रिसुतास्मिताङ्कुराः ॥ ३३.१॥

कृपाकटाक्षस्तव केन वाऽऽप्यते
महेशशुद्धान्तपुरन्ध्रि कर्मणा ।
निरन्तरं मन्त्रजपेन वा मतेर्-
विशोधनेनोत मनोर्पणेन वा ॥ ३३.२॥

विशोधनाद्देवि मतेः प्रगृह्यसे
मनोर्पणेनेशवधु प्रसीदसि ।
जपेन मन्त्रस्य शुभस्य वर्धसे
जगत्त्रयीधात्रि कलेबरान्तरे ॥ ३३.३॥

मनःप्रतापस्य भवत्यसंशयं
प्रवर्धनं वैदिकमन्त्रचिन्तनम् ।
प्रशस्यते प्राणमहःप्रदीपने
दयान्विते तान्त्रिकमन्त्रसेविता ॥ ३३.४॥

तवाम्बिके तान्त्रिकमन्त्रमुत्तमं
स्तवातिगं यः कनकाङ्गि सेवते ।
विचित्रयन्त्रादिव वैद्युतं मह-
स्ततो विनिर्यद् भुवनं विगाहते ॥ ३३.५॥

न तस्य चेतो विकृतेर्वशे भवे-
न्न तस्य दृष्टिर्विषयैर्विकृष्यते ।
न तस्य रोगैरपकृष्यते वपुः
सवित्रि यस्ते भजते महामनुम् ॥ ३३.६॥

स्मरन्ति मायां गगनाग्निशान्तिभिः
सहाच्छभासा सहिताभिरम्बिके ।
तथा रसज्ञां द्रुहिणाग्निशान्तिभिर्-
भणन्ति दोग्ध्रीं तु खषष्ठबिन्दुभिः ॥ ३३.७॥

अभण्यताद्या भुवनेश्वरी बुधैर्-
अनन्तरा मातरगादि कालिका ।
प्रचण्डचण्डी परिकीर्तिता परा
त्रयोऽप्यमी ते मनवो महाफलाः ॥ ३३.८॥

उपाधिभूतं शुचि नाभसं रजो
दधाति साक्षाद् भुवनेश्वरीपदम् ।
तदाश्रया व्यापकशक्तिरद्भुता
मनस्विनी काचन कालिकेरिता ॥ ३३.९॥

अमर्त्यसाम्राज्यभृतः प्रवर्तिका
विशाललोकत्रयरङ्गनर्तिका ।
पराक्रमाणामधिनायिकोच्यते
प्रचण्डचण्डीति कला सवित्रि ते ॥ ३३.१०॥

स्मरन्मनुं रोदिति भक्तिमांस्तव
प्रगृह्य पादं मुनिरम्ब लम्बते ।
फलं चिराय प्रथमः समाप्नुयात्
परो मरन्दं पद एव विन्दति ॥ ३३.११॥

पदं तवान्विष्टमनेकदा मुदा
हृदन्तरे स्पृष्टमिवेदमम्बिके ।
पलायतेऽधोऽहमनन्तरं शुचा
परात्परे रोदिमि मन्त्रशब्दतः ॥ ३३.१२॥

भणन्ति सन्तो मरुतां सवित्रि ते
महामनुं त्वत्पदभास्करातपम् ।
ततो हि मूलात्स्वर एष निर्गत-
स्तपत्यघौघं जरयन्महोमयः ॥ ३३.१३॥

सवित्रि साक्षाच्चरणस्य ते प्रभां
विधारयँस्तज्जनिमूलमार्गणे ।
मुहुर्मुहुस्सोऽहमजे धृतोद्यमः
पथा महर्षी रमणो बभाण यम् ॥ ३३.१४॥

अहम्पदार्थो यदि चिल्लता तता
किमेष दोग्ध्रीमनुभावतोऽपरः ।
अहं यदि प्राणनिनादवैखरी
न कूर्च आख्यातुमसेति शक्यते ॥ ३३.१५॥

परे तु यां चेतनशक्तिमामन-
न्त्यभाणि सा कुण्डलिनीति तान्त्रिकैः ।
विलक्षणा नाम चमत्कृतिर्जडान्
प्रतारयत्यागमसारदूरगान् ॥ ३३.१६॥

भवत्यखण्डानुभवः प्रबोधिना-
मतीव सूक्ष्मानुभवश्च योगिनाम् ।
करं गतास्सर्वविधाश्च शेरते
महेश्वरीमन्त्रपरस्य सिद्धयः ॥ ३३.१७॥

सहस्रसङ्ख्यानि जनूंषि वा मम
प्रियाणि भक्तिस्तव चेद्भवे भवे ।
तव स्मृतिं चेद् गलयेन्न सम्मदं
करोति मोक्षोऽपि ममेशवल्लभे ॥ ३३.१८॥

विनैव दृष्टिं यदि सत्प्रशिष्यते
न सत्तयाऽर्थः फलहीनया तया ।
इदं तु सत् किन्न्वसतो विशिष्यते
न तात मुक्तोपलयोस्तदा भिदा ॥ ३३.१९॥

शुचां निवृत्तिर्यदि मुक्तिरिष्यते
सुखप्रवृत्तिर्यदि नात्र विद्यते ।
सदेव चेत्तत्र मतिर्न भासते
जडं विमुक्ताद्वचसैव भिद्यते ॥ ३३.२०॥

मतिः पराची व्यवहारकारणं
भवेत्प्रतीची परमार्थसम्पदि ।
उभे दिशौ यस्य मतिर्विगाहते
पदा च मूर्ध्ना च स सिद्ध इष्यते ॥ ३३.२१॥

दृढं पदं यस्य मतेः सदाऽन्तरे
स ना धियोऽग्रेण बहिश्चरन्नपि ।
सवित्रि मग्नस्त्वयि सम्प्रकीर्त्यते
न तस्य भीः सञ्चरतोऽपि संसृतेः ॥ ३३.२२॥

विचिन्तने चिन्तनशक्तिमद्भुतां
विलोकने लोकनशक्तिमुज्ज्वलाम् ।
प्रभाषणे भाषणशक्तिमुत्तमां
निभालयंस्त्वां विषयैर्न जीयते ॥ ३३.२३॥

विलोकमानस्य विलोकनं कवेर्-
विलोक्यमानेषु विहाय सक्तताम् ।
विलोचने सन्निहिता निरन्तरं
विधूतभीतिर्विबुधस्तुता शिवा ॥ ३३.२४॥

अयं भयानां परिमार्जकस्सतां
समस्तपापौघनिवारणक्षमः ।
मनोज्ञवंशस्थगणो गणेशितुर्-
मनो महेशाब्जदृशो धिनोत्वलम् ॥ ३३.२५॥