उमासहस्रनामस्तोत्रम्/पञ्चमशतकम्/अष्टादशस्तबकः

रूपविशेषाः कुण्डलिनीसमुल्लासश्च (प्रहर्षिणीवृत्तम्)

धुन्वन्त्यस्तिमिरततिं हरित्तटीनां
धिन्वन्त्यः पुरमथनस्य लोचनानि ।
स्कन्दाम्बाहसितरुचो हरन्तु मोहं
सान्द्रं मे हृदयगतं प्रसह्य सद्यः ॥ १८.१॥

तन्वाना विनतहितं विरोधिवर्गं
धुन्वाना बुधजनमोदमादधाना ।
सम्राज्ञी त्रिदिवधरारसातलानां
रुद्राणी भणतु शिवानी मत्कुलस्य ॥ १८.२॥

योऽम्ब त्वां हृदि विदधत्तटित्प्रकाशां
पीयूषद्युतिमदहृन्मुखारविन्दाम् ।
अन्यत्तु स्मृतिपथतो धुनोति सर्वं
कामारेः सुदति नतस्य भुव्यसाध्यम् ॥ १८.३॥

कालाभ्रद्युतिमसमानवीर्यसारां
शक्त्यूर्मिभ्रमकरशुक्लघोरदंष्ट्राम् ।
यो धीरो मनसि दधाति भर्गपत्नि
त्वामस्य प्रभवति सङ्गरेषु शस्त्रम् ॥ १८.४॥

यः प्राज्ञस्तरुणदिवाकरोज्ज्वलाङ्गीं
तन्वङ्गि त्रिपुरजितो विचिन्तयेत्त्वाम् ।
तस्याज्ञां दधति शिरस्सु फुल्लजाजी-
मालां वा धरणिजुषो वशे भवन्तः ॥ १८.५॥

यो राकाशशधरकान्तिसारशुभ्रां
बिभ्राणां करकमलेन पुस्तकं त्वाम् ।
भूतेशं प्रभुमस्कृत्प्रबोधयन्तीं
ध्यायेद्वाग्भवति वशेऽस्य नाकदूती ॥ १८.६॥

जानीमो भगवति भक्तचित्तवृत्ते-
स्तुल्यं त्वं सपदि दधासि रूपमग्र्यम् ।
प्रश्नोऽयं भवति नगाधिनाथकन्ये
रूपं ते मदयति कीदृशं स्मरारिम् ॥ १८.७॥

चारु स्यादलमिति वक्तुमम्ब शक्यं
रूपं ते न वदति कोऽपि कीदृशं वा ।
सम्मोहं परमुपयान्ति कान्तिभाण्डे
कामारेरपि नयनानि यत्र दृष्टे ॥ १८.८॥

सङ्कल्पैः किमु तव भूषणान्यभूवँ-
च्छिल्पीन्द्राः किमु विदधुर्यथाऽत्र लोके ।
तत्स्वर्णं भगवति कीदृशं मणीनां
किं रूपं भवति च तत्र योजितानाम् ॥ १८.९॥

यान्यङ्गान्यखिलमनोज्ञसारभूता-
न्येतेषामपि किमु भूषणैरुमे ते ।
आहोस्विल्ललिततमानि भान्ति भूयो
भूषाभिर्विकृततमाभिरप्यमूनि ॥ १८.१०॥

मुक्ताभिर्भवति तवाम्ब किन्नु हारः
पीयूषद्युतिकरसारनिर्मलाभिः ।
मुण्डैर्र्वा घलघलशब्दमादधद्भिः
सङ्घर्षात् त्रिभुवनसार्वभौमभामे ॥ १८.११॥

वस्त्रं स्याद्यदि तव सर्वशास्त्रगम्ये
कार्पासं दिवि च तदुद्भवोऽनुमेयः ।
क्षौमं चेद्भगवति तस्य हेतुभूताः
कीटाः स्युर्गगनजगत्यपीति वाच्यम् ॥ १८.१२॥

रुद्रस्य प्रियदयितेऽथवा सुरद्रुर्-
भूषाणां मणिकनकप्रकल्पितानाम् ।
वस्त्राणामपि मनसे परं हितानां
कामं ते भवति समर्पकः समर्थः ॥ १८.१३॥

सुस्कन्धो बहुविटपः प्रवालशोभी
सम्फुल्लप्रसवसुगन्धवासिताशः ।
वृक्षः किं भगवति कल्पनामकोऽयं
सङ्कल्पः किमु तव कोऽपि देवि सत्यः ॥ १८.१४॥

सङ्कल्पान्न भवति कल्पपादपोऽन्यः
स्वर्दोग्ध्री पुनरितरा न कुण्डलिन्याः ।
यः कुर्याद् द्वयमिदमुद्गतात्मवीर्यं
कारुण्यात्तव भुवि चास्य नाकभाग्यम् ॥ १८.१५॥

आपीनं भवति सहस्रपत्रकञ्जं
वत्सोऽस्याः पटुतरमूलकुण्डवह्निः ।
दोग्धाऽऽत्मा दहरसरोरुहोपविष्टो
मौनं स्यात्सुरसुरभेस्तनूषु दोहः ॥ १८.१६॥

दोग्ध्र्यास्ते भगवति दोहनेन लब्धं
वत्साग्निप्रथमनिपानसद्रवायाः ।
दुग्धं स्वाद्वमृतमयं पिबन्ममात्मा
सन्तृप्तो न भवति दुर्भरोऽस्य कुक्षिः ॥ १८.१७॥

वत्सोऽग्निः पिबति दृढाङ्घ्रिरम्ब पश्चा-
दश्रान्तं पिबति दुहन् पुरोऽन्तरात्मा ।
वृद्धिं च व्रजति पयः प्रतिप्रद्रोहं
दोग्ध्र्यास्ते द्रव इह कुण्डलिन्यपारः ॥ १८.१८॥

सोमस्य द्रवमिममाहुरम्ब केचिद्
दुग्धाब्धेरमृतरसं गदन्ति केऽपि ।
बाष्पं केऽप्यभिदधते तु कौलकुण्डं
पीनोधस्स्रवमितरे भणन्ति धेनोः ॥ १८.१९॥

मूले त्वं ज्वलदलनप्रकाशरूपा
वीणायां प्रबलमहामदोष्मरूपा ।
शीर्षाब्जे सततगलद्रसस्वरूपा
भ्रूमध्ये भवसि लसत्तटित्स्वरूपा ॥ १८.२०॥

हार्दे चेदवतरसीह पुण्डरीके
छायावत्सकलमपि प्रपश्यसि त्वम् ।
आरूढा दशशतपत्रमद्रिपुत्रि
स्याश्चेत्त्वं भणसि जगत्सुधासमुद्रम् ॥ १८.२१॥

नेत्राभ्यां सरसिरुहच्छदायताभ्यां
वक्त्रेण प्रविमलहासभासुरेण ।
प्रत्यक्षा मम मनसः पुरः पुरन्ध्री
कामारेः परणितमस्मदीयभाग्यम् ॥ १८.२२॥

पुण्यानां परिणतिरेव भूतभर्तुः
सिद्धानां बलनिधिरेव कोऽपि गूढः ।
भक्तानां दृढतरिरेव शोकसिन्धौ
मग्नानां मम जननी महीध्रपुत्री ॥ १८.२३॥

उद्धर्तुं विनतजनं विषादगर्तात्
संस्कर्तुं भुवनहिताय योगयुक्तम् ।
संहर्तुं खलकुलमुद्धतं च दर्पाद्
भर्गस्य प्रियतरुणी सदा सदीक्षा ॥ १८.२४॥

मृद्वीकां मधुरतया सुधां महिम्ना
गाम्भीर्यात्सुरतटिनीं च निर्जयन्ती ।
शर्वाणीचरितपरा प्रहर्षिणीनां
श्रेणीयं जयतु गणेश्वरेण बद्धा ॥ १८.२५॥