उमासहस्रनामस्तोत्रम्/प्रथमशतकम्/द्वितीयस्तबकः

द्वितीयः स्तबकः
सर्गादिवर्णनम् (पञ्चचामरवृत्तम्)

सहादरेण यो वलक्षपारिजातमालया
गलस्थलीविभूषया ध्वनिं विनैव भाषते ।
महेशपुण्ययोषितो मनोज्ञहास एष मे
विभूतये प्रकल्पतां विधूतये च पाप्मनाम् ॥ २.१॥

निरन्तरश्रिते सदा कृपारसप्रवाहिनी
विलासिनीतनुर्विभोः पुमाकृतेर्विमोहिनी ।
सुधातरङ्गकल्पहासभासुरानना शिवा
पदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम ॥ २.२॥

करोति या बिभर्ति या निहन्ति या जगत्त्रयं
समन्ततो विभाति या न दृश्यते क्वचिच्च या ।
अतीव गुप्तरूपिणी गुरूपदेशमन्तरा
न शक्यते बुधैश्च बोद्धुमन्धकारिसुन्दरी ॥ २.३॥

महान्धकारबन्धुरस्य भूतसञ्चयस्य या
विनिद्रितस्य सर्वबीजधाम्नि मौनमुद्रिते ।
समन्ततो विजृम्भणाय भासनाय चाभवन्
महद्विधाय चेष्टितं ममेयमिष्टदेवता ॥ २.४॥

महेशगर्भतः समस्तभूतबीजकोशतः
किरन्त्यशेषविश्वमप्यपारदिव्यवैभवा ।
विचित्रचेष्टयाऽऽद्यया विधूतनाथनिद्रया
जगन्नुता जयत्यसावनादिशक्तिरद्भुता ॥ २.५॥

भवं भणन्ति तान्त्रिकास्त्वदाश्रयं तमव्ययं
समामनन्ति वैदिकाः सदर्चिते सदाह्वयम् ।
न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवे-
द्भिदेयमादिमं पदं पुमान्परं नपुंसकम् ॥ २.६॥

स चेद्भवोऽभिधानतो भवान्यसि त्वमव्यये
समीर्यते स सद्यदि त्वमम्ब भण्यसे सती ।
न तेऽस्ति भावता न शक्तिरूपिणी हि विद्यसे
न वेद्मि कालिके कथं सतोऽसतश्च भिद्यसे ॥ २.७॥

जगद्विधानकार्यतः पुरा सुरासुरस्तुते
त्वमम्ब जीवितं भवस्यभावमूलवादिनाम् ।
विकल्पवर्जिता मतिः प्रबोधमूलवादिनां
रसोऽनपेक्ष उत्तमः प्रमोदमूलवादिनाम् ॥ २.८॥

भवत्यसावतो भवान्यनादिरन्तवर्जिता
जगन्ति माति नित्यमोरसौ तदभ्युधाय्युमा ।
रसात्मिकोश्यतेऽखिलैरसौ ततः शिवोच्यते
परैवमीशितुश्चितिस्त्रिधा बुधैरुदीर्यते ॥ २.९॥

चितिः परैव कामना रसेन केनचिद्युता
चितिः परैव सर्वदाऽप्यनस्त्यजस्य तु क्रिया ।
चितिः परैव गोचरावभासिका मतिः स्मृता
त्रितैवमन्यथा चितेश्चिरन्तनैरुदीर्यते ॥ २.१०॥

चिकीर्षति प्रभौ ज्वलत्त्वदीयकीलसन्ततेर्-
विकीर्णधूमजालमेतदम्बरस्थलं ततम् ।
विसृष्टितः पुराऽसि या शिवप्रभुत्वरूपिणी
पृथक्प्रभुश्च लक्षिताऽसि सा सवित्रि पुष्करे ॥ २.११॥

पुनर्विपाकतो घनीभवद्भिरक्षिगोचरै-
स्ततस्ततः समुज्ज्वलैः खसूक्ष्मरेणुगोलकैः ।
अजाण्डवृक्षकोटिकन्दबृन्दवद्व्यधाः पुरा
महेशदृष्टिमय्युमेऽम्ब मण्डलानि भास्वताम् ॥ २.१२॥

तपोऽग्निधूमजालके भवन्ति तैजसाणवो
भवन्ति जीवनाणवो भवन्ति पार्थिवाणवः ।
क्रमेण तद्विसृष्टिरीशशक्तिपाकवैभवे
सहस्रभानुमन्डलं तु गोचरादि गृह्यताम् ॥ २.१३॥

मयूखमालिमण्डले निधाय पादमुग्रया
मयूखशक्तिरूपया त्वयाऽम्ब चेष्टमानया ।
खकोशतः समाहृतैः पुनस्त्रिरूपरेणुभिर्-
व्यधायि मङ्गलादिभिः सह ग्रहैरियं मही ॥ २.१४॥

विसर्जनेन भूयसाऽपि देव्यतृप्तयेयता
विचेष्टितं विलक्षणं पुनर्व्यधीयत त्वया ।
इहान्तरे वसुन्धरामयूखमालिबिम्बयोर्-
अमुष्य कर्मणः सवित्रि चन्द्रमन्डलं फलम् ॥ २.१५॥

वधूपुमाकृती ततो बभूवथुर्युवां शिवे
त्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे ।
अहो प्रभुं नभस्तनुं त्वदीयगर्भसम्भवा-
द्भणन्ति कालि तत्र चित्रभाषणास्त्वदात्मजम् ॥ २.१६॥

पुमानथो स बिम्बतो हिरण्मयो दिवाकरे
धियाऽपि नैव केवलं हिरण्मयेन वर्ष्मणा ।
इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभो-
रिहान्तरे नृणां पुनर्वपुस्तदम्ब बिम्बितम् ॥ २.१७॥

स्वयं च काञ्चनप्रकाशवर्ष्मणा प्रभाकरे
तथाऽन्तरे नृणां च तस्य बिम्बिताऽसि सन्निधौ ।
रसस्य देवताऽसि देवि पुष्करे दिवाकरे
मयूखदेवताऽसि भोगदेवताऽसि देहिषु ॥ २.१८॥

विसर्जनेन भूयसा नभस्यमुत्र भास्करे
महीषु चाम्बिके युवां विधाय देहिनो बहून् ।
क्षितेः सुधाकरं गतान् पितॄन् विनेतुमव्यये
तनू च तत्र बभ्रथुः प्रपञ्चराज्ञि मायया ॥ २.१९॥

नभोऽन्तरे हिरण्मयं विभुं प्रचक्षते हरं
दिनेशबिम्बबिम्बितं भणन्ति पङ्कजासनम् ।
इहास्मदन्तरालयं वदन्ति विष्णुमच्युतं
सवित्रि जन्मिनामियं त्रिमूर्तिवादिधोरणि ॥ २.२०॥

नभोऽन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरं
दिनेशबिम्बपूरुषं हिरण्यगर्भमाख्यया ।
विराजमानमक्षरं विराजमन्तरे नृणां
सवित्रि तत्त्ववेदिनामियं तु नामकल्पना ॥ २.२१॥

हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिके
दिवाकरस्य मण्डले तु बिम्बितं पुरन्दरम् ।
शरीरिणामिहान्तरेऽग्निमालपन्ति भासुरं
चिरन्तनोक्तिदर्शिनामियं शिवे प्रणालिका ॥ २.२२॥

सरोरुहाक्षवाग्वधूमनोहरौ तु पूर्वव-
त्सुधांशुबिम्बपूरुषस्तु रुद्रसञ्ज्ञकः शिवे ।
हिरण्मयोऽन्तरिक्षजात ईश्वरः सदाशिवः
सदेव वस्तु काञ्चनाङ्गि पञ्चमूर्तिवादिनाम् ॥ २.२३॥

प्रभोः प्रमाऽऽदितस्ततः प्रमावती स्वयं पृथग्
विहायसा शरीरिणी प्रभौ ततो हिरण्मये
हिरण्मयाङ्गनाकृतिर्नभोऽन्तरे च भास्करे
तथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा ॥ २.२४॥

मदीयमम्बिकाऽखिलस्य विष्टपस्य दुष्टधी-
दविष्ठपादपङ्कजा धुनोतु कष्टजालकम् ।
इमे च कोमलैः पदैरमूल्यतल्पशालिन-
स्तदीयमञ्चरूपतां भजन्तु पञ्चचामराः ॥ २.२५॥