उमासहस्रनामस्तोत्रम्/षष्ठमशतकम्/त्रयोविंशस्तबकः

प्रकीर्णकम् (नरमनोरमावृत्तम्)

(अस्मिन् स्तबके तत्सवितुरिति गायत्रीमन्त्रस्य
चतुर्विंशतिवर्णाः क्रमशः पद्यानां
तृतीयपादस्य चतुर्थवर्णे दृश्यन्ते ) ।

किरदिवामृतं किरणमालया ।
जयति तत्सितं शिववधूस्मितम् ॥ २३.१॥

तव पदं परे मम गुहान्तरे ।
स्फुरतु सर्वदा विकसितं मुदा ॥ २३.२॥

पदमधोऽम्बुजान्न किल भिद्यते ।
मदनविद्विषः सदनराज्ञि ते ॥ २३.३॥

विभुतयोररीकृतबहूद्भवौ ।
विदधतुर्जगत्त्रयमिदं शिवौ ॥ २३.४॥

तव तु खेलने नलिनजाण्डकम् ।
गिरिशवल्लभे भवति कन्दुकम् ॥ २३.५॥

सकलमस्त्युमे सदभयङ्करे ।
तव करे परे किमपि नो नरे ॥ २३.६॥

किमिव वर्ण्यतां कशशिकुण्डला ।
उडुमणिस्रजाप्रविलसद्गला ॥ २३.७॥

भण निरन्तरं बहुगुणामुमाम् ।
गतभयं विधेह्यमलवाणि माम् ॥ २३.८॥

अव जहीहि वा ननु भजाम्यहम् ।
भुवनभर्त्रि ते चरणमन्वहम् ॥ २३.९॥

गणपतेः शिरःकमलचुम्बिनी ।
भवतु गोपतिध्वजकुटुम्बिनी ॥ २३.१०॥

दहरमज्जनं विदधतं जनम् ।
परमदेवते नयसि धाम ते ॥ २३.११॥

जननि विज्ञता भवतु धीमताम् ।
अनुभवस्तु ते करुणया सताम् ॥ २३.१२॥

अचलया धिया हृदि गवेषणम् ।
वृषहयप्रियानगरशोधनम् ॥ २३.१३॥

न विजहामि ते चरणनीरजम् ।
अवनि धीमतामव न वा निजम् ॥ २३.१४॥

पदमुमेऽम्ब ते हृदि विचिन्वते ।
पलितमस्तकाः परमदेवते ॥ २३.१५॥

स्वयमनामये सकलधात्र्यसि ।
निजमहिम्नि सा त्वमयि तिष्ठसि ॥ २३.१६॥

स्थितिमसादयँस्तव पदाम्बुजे ।
विधिमधिक्षिपत्यलसनीरजे ॥ २३.१७॥

स्यतु मदापदं शिववधूपदम् ।
यदृषयो विधुस्त्रिभुवनास्पदम् ॥ २३.१८॥

गुणगणं गृणँस्तव शिवे शिवम् ।
गतभयोऽभवं मदमितो नवम् ॥ २३.१९॥

तवकृपावशात् तदिदमव्यये ।
जननि नः प्लुतिस्तव यदङ्घ्रये ॥ २३.२०॥

नयनदृश्ययोरयि यदन्तरम् ।
तदमरस्तुते तव वपुः परम् ॥ २३.२१॥

अहमिति स्मृतिः क्व नु विभासते ।
इति विचोदयन् महति लीयते ॥ २३.२२॥

अमृतसञ्ज्ञके सुखचिदात्मके ।
मतिमदर्थिते जननि धाम्नि ते ॥ २३.२३॥

अयि मुदास्पदं स्पृशति ते पदम् ।
श्वसितयात्रया सततदृष्टया ॥ २३.२४॥

दधतु सत्कवेर्गणपतेरिमाः ।
नगभुवो मुदं नरमनोरमाः ॥ २३.२५॥