उमासहस्रनामस्तोत्रम्/षष्ठमशतकम्/द्वाविंशस्तबकः
हरकुटुम्बकम् (वियोगिनीवृत्तम्)
अखिलस्य विकासकारणं व्यसनिज्ञानिजनावनेषु नः ।
वितनोतु विशेषतः शिवं शिवराजीवदृशो दरस्मितम् ॥ २२.१॥
विकले सकले सुरव्रजे व्रजति श्यामलिमानमच्युते ।
जगतस्सदयो हलाहलं चुलुकीकृत्य भयं नुनोद यः ॥ २२.२॥
निगमैस्तुरगी भुवा रथी विधिना सारथिमान् बिभेद यः ।
कनकाद्रिवरेण कार्मुकी कमलाक्षेण शरी पुरत्रयम् ॥ २२.३॥
अजितस्य च गाढमत्सरैः कमलाकान्तपुरस्सरैस्सुरैः ।
पदजायुधधारया रयाद्वधमाधत्त जलन्धरस्य यः ॥ २२.४॥
कमलासनकञ्जलोचनौ छललिङ्गस्य शिरोङ्घ्रि वीक्षितुम् ।
बत हंसवराहभूमिकौ यतमानावपि यस्य न प्रभू ॥ २२.५॥
नयनं निटलान्तरस्थितं विघटय्येषदिवान्वितो रुषा ।
भुवनत्रयनिर्जयोन्नतं मदनं गाढमदं ददाह यः ॥ २२.६॥
सकले धवलः कलेबरे हरिनीलोपलमञ्जुलः क्वचित् ।
अमृतांशुरिवादधाति यः परमामक्षिमुदं प्रपश्यताम् ॥ २२.७॥
अवतंसतुषारदीधितिद्युतिभिर्यस्य यशोभरैरपि ।
सममच्छतरीकृतो दिशामवकाशस्सुतरां प्रकाशते ॥ २२.८॥
गगनानलजीवनानिलक्षितिसोमारुणसोमयाजिभिः ।
महतो बत यस्य मूर्तिभिर्भुवनं क्रान्तमिदं समन्ततः ॥ २२.९॥
सह तेन धवेन राजते वसुधाधारिणि काऽपि राजते ।
वनिता भवतापनाशिनी चरणप्रेष्यनिवेदिताशिनी ॥ २२.१०॥
वनितापुरुषौ पुरातनौ विमले व्योमनि देवदम्पती ।
भुवनत्रितयस्य तौ विभू रजताद्राविह सिद्धदम्पती ॥ २२.११॥
गजचर्मधरः कपालभृद् गृहनाथो गृहिणी तु कालिका ।
रुधिराविलमुण्डमालिनी कथितौ तौ बत पण्डितैः शिवौ ॥ २२.१२॥
स किमिन्दुकलाशिरोमणिः किमुताश्लीलकपालभूषणः ।
किमुमे भवती कपालिनी किमु विभ्राजितरत्नमालिनी ॥ २२.१३॥
रमसेऽम्ब कपालमालिनी क्वचिदीशेन कपालमालिना ।
अतुलप्रभनिष्कमालिना क्वचिदत्युत्तमरत्नमालिनी ॥ २२.१४॥
युवयोर्मरुतस्तनूभुवो बलवन्तो भुवनप्रकम्पनाः ।
शशिदीधितिहारि यद्यशो निगमे पावनमम्ब गीयते ॥ २२.१५॥
गुरुमुत्तममभ्रचारिणामसमब्रह्मनिधाननायकम् ।
तव देवि शिवे तनूभुवां मरुतामन्यतमं प्रचक्षते ॥ २२.१६॥
द्विरदं वदने महामदं सितदन्तच्छविधौतदिक्तटम् ।
इतरत्र मुखान्नराकृतिं विदुरस्यैव विवर्तमद्भुतम् ॥ २२.१७॥
अखिलामरनिर्जयोन्नतः प्रथने तारकदानवो बली ।
हृतवीर्यमदो बभूव यद्घनशक्त्यायुधतेजसाऽञ्जसा ॥ २२.१८॥
अमले हृदि निर्मलाशनाच्छिथिले ग्रन्थिचये नराय यः ।
परिपक्वधिये प्रदर्शयेत् तमसः पारमपारवैभवः ॥ २२.१९॥
द्रविडेषु शिशुत्वमेत्य यो गिरिशश्लोकविशेषगायिनीम् ।
अमृतद्रवसारहारिणीं निगमाभां निबबन्ध संस्तुतिम् ॥ २२.२०॥
भुवि भट्टकुमारिलाख्यया भवमेत्याध्वररक्षणाय यः ।
वरजैमिनिभाषिताशयं बहुलाभिः खलु युक्तिभिर्दधौ ॥ २२.२१॥
अधुना विधुनोति यस्तमो विबुधप्रेक्षितमार्गरोधकम् ।
रमणाख्यमहर्षिवेषभृत्श्रितशोणाचलचारुकन्दरः ॥ २२.२२॥
स गुहोऽतिमहो महामहास्रिदशानां प्रथितश्चमूपतिः ।
जगतामधिराज्ञि कोऽपि ते सुतरां प्रीतिपदं कुमारकः ॥ २२.२३॥
जयति त्रिपुरारिभामिनी गणपत्यादिमरुत्प्रसूरुमा ।
तमसूत सुरारिधूतये त्रिदशानामपि या चमूपतिम् ॥ २२.२४॥
स्वकुटुम्बकथाभिधायिनीर्गणनाथस्य वियोगिनीरिमाः ।
अवधारयतु प्रसन्नया नगनाथप्रियनन्दिनी धिया ॥ २२.२५॥