उमासहस्रनामस्तोत्रम्/सप्तमशतकम्/अष्टाविंशस्तबकः

रेणुकादिवर्णनम् (वसन्ततिलकावृत्तम्)

अन्तर्वलक्षपरिधिभ्रममादधानो
वक्त्रस्य पूर्णतुहिनद्युतिमण्डलस्य ।
हासः करोतु भवतां परमं प्रमोदं
शुद्धान्तपङ्कजदृशः प्रमथेश्वरस्य ॥ २८.१॥

सम्मोहनानि तुहिनांशुकलाधरस्य
सञ्जीवनानि सरसीरुहसायकस्य ।
सन्दीपनानि विनतेषु जनेषु शक्तेः
संहर्षणानि मम सन्तु शिवास्मितानि ॥ २८.२॥

पापानि मे हरतु काचन कृत्तशीर्षा
माता पदाम्बुजभुजिष्यवितीर्णहर्षा ।
या भक्तलोकवरदानविधौ विनिद्रा
वासं कमण्डलुधुनीपुलिने करोति ॥ २८.३॥

षष्ठावतारजननावनिरेकवीरा
भीमा धुनोतु दुरितानि गणाधिपस्य ।
या भक्तरक्षणविधावतिजागरूका
पुण्ये कमण्डलुधुनीपुलिने चकास्ति ॥ २८.४॥

छेदाय चेद् गतरजा मुनिरादिदेश
चिच्छेद चेद्बहुगुणस्तनयः सवित्रीम् ।
दाह्यं शरीरमखिलप्रभुरीशशक्तिः
यद्याविवेश च कथा परमाद्भुतेयम् ॥ २८.५॥

पुत्रः प्रियस्तव शिरः सहसा चकर्त
कृत्ता च हर्षभरिता भवती ननर्त ।
नो तस्य पापमपि नो तव काऽपि हानिः
नाशोऽस्य हा भुजभुवामभवद्विपाकः ॥ २८.६॥

अम्बैव सा सुरभिर्जुनभूपतिर्यां
वीर्याज्जहार स च भार्गव आजहार ।
तस्या हतेः परगृहस्थितिरेव हेतुः
गन्धर्वदर्शनकथा रिपुकल्पितैव ॥ २८.७॥

छिन्नानि नो कति शरीरभृतां शिरांसि
तत्पूज्यते जगति रैणुकमेव शीर्षम् ।
कृत्ताः कलेवरवतां कति नाभयो न
चेतो धिनोति सुरभिर्मृगनाभिरेकः ॥ २८.८॥

प्राणा वसन्ति शिरसा रहिते शरीरे
लीलासरोजति शिरस्तु करेऽस्य कृत्तम् ।
तन्निघ्नमेतदखिलं च धियैव धीराः
पश्यन्तु नन्दनगरे तदिदं विचित्रम् ॥ २८.९॥

प्राणेश्वरी विधिपुरे लसतः पुरारे-
रङ्गीकरोतु शरणागतिमम्बिका मे ।
लब्धं निपीय यदुरोरुहकुम्भदुग्धं
सम्बन्धमूर्तिरभवत्कविचक्रवर्ती ॥ २८.१०॥

अप्राप्य लोकरचनावनपातनेषु
यस्यास्त्रयोऽपि पुरुषाः करुणाकटाक्षम् ।
नैवेशते किमपि सा जगदेकमाता
भद्रा परा प्रकृतिरस्त्वघनाशिनी नः ॥ २८.११॥

राका प्रबोधशशिनो हृदयोदयस्य
नौका विपज्जलनिधौ पततां जनानाम् ।
वेदध्वजस्य ललिता त्रिरुचिः पताका
काचिन्ममास्तु शरणं शिवमूलटीका ॥ २८.१२॥

मौलौ महेन्द्रसुदृशस्सुमनोनिकाय-
संशोभिते सदसि मान्य इवाभिजातः ।
रेणुश्च यच्चरणभूर्लभतेऽग्रपीठं
त्राणाय सा भवतु भूतपतेर्वधूर्नः ॥ २८.१३॥

अम्बावृणोति परितोऽप्ययमन्धकारो
नात्मानमेव मम किं तु कुलं च देशम् ।
शीघ्रं मदीयहृदयोदयपर्वताग्रे
श्रीमानुदेतु तव पादमयूखमाली ॥ २८.१४॥

कष्टं धुनोतु मम पर्वतपुत्रिकायाः
प्र्त्यग्रपङ्करुहबान्धवकान्तिकान्तम् ।
अम्भोरुहासनमुखामरमौलिरत्न-
ज्योतिर्विशेषितगुणं चरणारविन्दम् ॥ २८.१५॥

ज्याशिञ्जितानि समरे गिरिशं जिगीषोः
कामस्य हंसनिवहस्य निमन्त्रणानि ।
धुन्वन्तु मे विपदमद्रिकुमारिकायाः
पादारविन्दकटकक्वणितानि तानि ॥ २८.१६॥

यः सर्वलोकमथनं महिषं जिगाय
यस्यैव कर्म दमनं च तदन्तकस्य ।
नारीनराकृतिभृतो महसस्तमङ्घ्रिं
मञ्जीरनादमधुरं शरणं व्रजामि ॥ २८.१७॥

आपन्महोग्रविषराशिनिमग्नमेतं
दीनं त्वदीयचरणं शरणं प्रपन्नम् ।
उद्धर्तुमम्ब करुणापरिपूर्णचित्ते
वित्तेशमित्रकुलनारि तवैव भारः ॥ २८.१८॥

लोकाधिराज्ञि पतितं विपदन्धकूपे
संरुद्धदृष्टिमभितस्तिमिरच्छटाभिः ।
मातः समुद्धर कृपाकलिते मृडानि
पुत्रं करेण जगतामभयङ्करेण ॥ २८.१९॥

अस्य त्वदीयपदपङ्कजकिङ्करस्य
दुर्भाग्यपाकविफलीकृतपौरुषस्य ।
प्राणेश्वरि प्रमथलोकपतेरुपायं
वीक्षस्व तारणविधौ निपुणे त्वमेव ॥ २८.२०॥

मृत्युञ्जयोरुमणिपीठतटे निषण्णे
ताटङ्ककान्तिबहुलीकृतगण्डशोभे ।
माणिक्यकङ्कणलसत्करवारिजाते
जाते कुलाचलपतेर्जहि पातकं नः ॥ २८.२१॥

किं ते वपुर्जननि तप्तसुवर्णगौरं
कामारिमोहिनि किमिन्दुकलावलक्षम् ।
पाकारिनीलमणिमेचककान्त्युताहो
बन्धूकपुष्पकलिकारुचि वा स्मरामि ॥ २८.२२॥

त्वं सुन्दरी नृपतिजातिजितस्त्वमम्बा
धूमावती त्वमजरे भुवनेश्वरी त्वम् ।
काली त्वमीश्वरि शुकार्भकधारिणी त्वं
तारा त्वमाश्रितविपद्दलनासिधारा ॥ २८.२३॥

त्वं भैरवी भगवती बगलामुखी त्वं
रामा च सा कमलकाननचारिणी त्वम् ।
कैलासवासिनयनामृतभानुरेखे
को वेद ते जननि जन्मवतां विभूतीः ॥ २८.२४॥

धुन्वन्तु सर्वविपदः सुकृतप्रियाणां
धुन्वन्तु चाखिलसुखान्यघलालसानाम् ।
आवर्ज्य भूरिकरुणं पुरजित्तरुण्या-
श्चित्तं वसन्ततिलकाः कविभर्तुरेताः ॥ २८.२५॥